सामग्री पर जाएँ

कालिकापुराणम्/अध्यायः ४२

विकिस्रोतः तः

कालिकापुराणम् द्विचत्वारिंशोऽध्यायः कामदहनम्
अथ श्रीकालिका पुराण अध्याय ४२
।। मार्कण्डेय उवाच ।।
एतस्मिन्नन्तरे शम्भुः क्षिप्रं त्यक्त्वा तदा सरः ।
गङ्गावतारमगमद् हिमवत्-प्रस्थमुत्तमम् ।। १ ।।
यत्र गङ्गा निपतिता पुरा ब्रह्मपुरात् सृता ।
ओषधीप्रस्थनगरस्यादूरे सानुरुत्तमः ।।२।।
तत्र भर्गः स्वमात्मानमक्षरं परमात्परम् ।
चेतो ज्ञानमयं नित्यं ज्योतीरूपं निराकुलम् ।।३।।
जगन्मयं प्रदीपा द्वैतहीनाविशेषकम् ।
एकाग्रं चिन्तयामास भगवान् वृषभध्वजः ।।४।।
हरे ध्यानपरे तस्मिन् प्रमथा ध्यानतत्पराः ।
अभवन् केचिदपरे नन्दिभृंग्यादयो गणाः ।।५।।
द्वा: स्था भूता महाभागा ये पूर्वद्वारि योजिताः।
तावन्तोऽपि गणास्तत्र नैव किञ्चन कूजितम् ।।६।।
तेषां संश्रूयते सर्वे निः शब्दाः संस्थितास्ततः ।
अन्ये तु तत्र क्रीडन्ति गणा दूरान्तरस्थिताः ।।७।।
कुसुमैश्च दलैर्भक्तैर्गिरिप्रस्रवणोदकैः ।
रत्नानि च विचिन्वन्तो भूषिता गैरिकैस्तथा ।।८।।
सगणं तु तथा दृष्ट्वा गिरिराजो गतं हरम् ।
स्वस्थानमोषधिप्रस्थान्निःसृत्य सहितो गणैः ।
पूजार्थमुपतस्थे स यथायोग्यं तथार्चयत् ।।९।।
स चापि शम्भुस्तस्यार्चा परया श्रद्धया युतः ।
प्रतिजग्राह कूटस्थो गङ्गाशीर्षे यथा पुरा ।। १० ।।
पूजितस्तेन सहसा गिरिराजं वृषध्वजः ।
उवाच ध्यानयोगस्थः स्मयन्निव जगत्पतिः ।। ११ । ।
।। ईश्वर उवाच ।।
तव प्रस्थे तपस्तप्तुं रहस्यमहमागतः ।
न यथा कोऽपि निकटं समायाति तथा कुरु ।।१२।।
त्वं महात्मा जगद्धाम मुनीनां च सदाश्रयः ।
देवानां राक्षसानां च यक्षाणां किन्नरस्य च ।। १३ ।।
सदावासो द्विजातीनां गङ्गापूतश्च नित्यदा ।
त्वत्पुरस्यास्य निकटे प्रस्थं गङ्गावतारणम् ।। १४ ।।
आश्रितोऽहं गिरिश्रेष्ठ तद्योग्यं कुरु साम्प्रतम् ।।१५।।
।। मार्कण्डेय उवाच ।।
इत्युक्त्वा जगतां नाथस्तूष्णीमास वृषध्वजः ।
गिरिराजस्तदा शम्भुं प्रणयादिदमब्रवीत् ।। १६ ।।
।। गिरिराजोवाच ।।
पूतोऽस्मि जगतां नाथ त्वयाऽहं परमेश्वर ।
आगतेनाद्य विषयमितः कृत्यं किमस्ति मे ।।१७।।
तपसा महता त्वं हि देवैर्यत्नपरिस्थितैः ।
न प्राप्यसे जगन्नाथ स त्वं स्वयमुपस्थितः ।। १८ ।।
मत्तो धन्यतरो नास्ति न मत्तोऽन्योऽस्ति पुण्यवान् ।
यद्भवान् हिमवत्प्रस्थे तपसे समुपस्थितः ।।१९।।
देवेन्द्रादधिकं मन्ये आत्मानं परमेश्वर ।
सगणेन त्वया प्राप्तो यदाऽहं कामचारतः ।। २० ॥
।। मार्कण्डेय उवाच ।।
इत्युक्त्वा गिरिराजोऽथ स्ववेश्म पुनरागमत् ।
नियमाय परिवारान् गणानप्यवदत् स्वकान् ।। २१ ।।
॥ गिरिराजोवाच ।।
अद्य प्रभृति ना गन्ता कोऽपि गङ्गावतारणम् ।
मच्छासनं न हि विना यो गन्ता दण्डये ह्यहम् ।। २२।।
।। मार्कण्डेय उवाच ।।
इति स्वान् स नियम्याशु तिलपुष्पकुशान् फलम् ।
समादायाशु तनयासहितोऽगाद् हरान्तिकम् ।। २३ ।।
अथ गत्वा जगन्नाथं हरं ध्यानपरं तदा ।
नमयामास तनयां कालीं सर्वगुणान्विताम् ।। २४ ।।
तिलपुष्पादिकं यद् यत्तत्तदग्रे निधाय सः ।
अग्रे कृत्वा सुतां शम्भुमिदमाह स शैलराट् ।। २५ ।।
॥ गिरिराजोवाच ।।
भगवंस्तनयेयं मे त्वमाराधयितुं प्रति ।
समादिष्टा समानीता त्वदाराधनकांक्षिणी ।। २६ ।।
सखिभ्यां सह नित्यं त्वां सेवतामीश शङ्कर ।
अनुजानीहि सेवायै मयि ते यद्यनुग्रहः ।। २७ ।।
।। मार्कण्डेय उवाच ।।
अथ तां शङ्करोऽपश्यत् प्रथमारूढयौवनाम् ।
फुल्लेन्दीवरपत्राभां पूर्णचन्द्रनिभाननाम् ।। २८ ।।
समग्रनीलकेशौघ - प्राप्तवेश-विजृम्भिकाम् ।
कम्बुग्रीवां विशालाक्षीं चारुकर्णयुगोज्ज्वलाम् ।। २९ ।।
मृणालायतपर्यन्त बाहुयुग्ममनोरमाम् ।
राजीवकुड्मलप्रख्य घनपीनोन्नतस्तनौ ।। ३० ।।
बिभ्रतीं क्षीणसन्मध्यां रक्तपाणितलद्वयाम् ।
स्थलपद्मप्रतीकाश पादयुग्ममनोरमाम् ।। ३१।।
मध्य क्षीणांमहासत्त्वां वृत्तस्थूलघनोज्ज्वलाम् ।
सुजङ्घां नागनासोरुं निम्ननाभिविभूषिताम् ।। ३२।।
सुवृत्तचारुजङ्घाग्रां त्रिगम्भीरां षडुन्नताम् ।
सर्वलक्षणसम्पूर्णां त्रिषु लोकेषु दुर्लभाम् ।।३३।।
ध्यानपंजरनिर्बन्ध मुनिमानसमप्यरम् ।
दर्शनाद् भ्रंशितुं शक्तां योषिद्- गणशिरोमणिम् ।। ३४।।
तां दृष्ट्वा तपसे नित्यं ध्यानिनां च मनोहराम् ।
विघ्नहेतुं चानुरागवर्धिनीं कामरूपिणीम् ।। ३५।।
गिरिराजस्य वचनात्तनयां तस्य शङ्करः ।
पर्येषणायै जगृहे गौरवादपि गोरथः ।। ३६।।
उवाचेदं तव सुता सखिभ्यां सह शैलराट् ।
नित्यं मे सेवया यत्ता निर्भीता ह्यत्र तिष्ठतु ।। ३७।।
एवमुक्त्वा तु तां देवीं सेवायै जगृहे हरः ।
इदमेव महद्धैर्यं यद् विघ्नो न हि विघ्नयेत् ।
निर्विघ्नं स्थानमासाद्य यत्तपः क्रियते द्विजैः ।। ३८ ।।
सविघ्नो विघ्नहेतुं यः परिभूय प्रवर्तते ।
त्त्वन्महत्त्वं च तपसां धीरता च तपस्विनाम् ।। ३९ ।।
ततः स्वपुरमायातो गिरिराट् परिचारकैः ।
हरश्च ध्यानयोगेन परं चिन्तयितुं स्थितः ॥४०॥
काली सखिभ्यां सहिता प्रत्यहं चन्द्रशेखरम् ।
सेवमाना महादेवं गमनागमनैः स्थिता ।। ४१ ।।
कदाचित् सहिता काली सखिभ्यां शङ्कराग्रतः ।
वितन्वती शुभं गीतां पञ्चमञ्चात्तनोत्तदा ।।४२।।
कदाचित् कुशपुष्पादिसमिद्वारि हराय सा ।
सखिभ्यां स्नानसत्कारं कुर्वन्ती न्यवसत्तदा ॥४३॥
कदाचिदग्रे नियता स्थिता चन्द्रभृतो मुखम् ।
वीक्षन्ती चिन्तयामास सकामा चन्द्रशेखरम् ।।४४।।
यदा कार्येषु सा व्यग्रा तदा तत्कर्म चेष्टते ।
कृत्यहीना यदा सा तु तदैवाचिन्तयद्धरम् ।। ४५ ।।
कदा मामेष भूतेशः कर्ता पाणिगृहीतिकाम् ।
कदा मया समं रन्ता नानासद्भावभावनैः ।।४६ ।।
इति चिन्तापरा काली स्वप्नेऽपि परमेश्वरम् ।
अर्चयत्येव परमं सदाचिन्तनतत्परा ।। ४७ ।।
अग्रं गता यदा काली प्रध्यायति महेश्वरम् ।
तदा तद् वेदभूतेशस्तां निसर्गपरिस्थिताम् ।।४८।।
किन्तु गर्भगतैर्बीजैर्धूतदेहेति तां तदा ।
नाग्रहीगिरिश: कालीं भार्यार्थे ह्यधृतव्रताम् ।। ४९ ।।
महादेवोऽपि तं दृष्ट्वा तदैवेदमचिन्तयत् ।
कथमेषा तपश्चर्याव्रतं कुर्याद् गिरेः सुता ।। ५० ।।
कृतव्रतां ग्रहीष्यामि गर्भबीजविवर्जिताम् ।
कालीं भार्यां स्वंदयितां योनिजामतिदूषिताम् ।। ५१ ।।
व्रतेन चाथ संस्कारैर्गर्भबीजं विमुच्यते ।
तस्माद् व्रतं यथा काली कुर्यात् तद् युज्यते कथम् ।।५२।।
।। मार्कण्डेय उवाच ।।
इति संचिन्त्य भूतेशस्तदा ध्यानमनाः स्थितः ।
ध्यानासक्तस्य तस्याथ नान्यचिन्ता व्यजायत ।।५३ ।।
काली त्वनुदिनं शम्भुं भक्त्या भृशमसेवत ।
विचिन्तयन्ती सततं तस्य रूपं महात्मनः ।।५४।।
हरोध्यानपरः कालीं नित्यं प्रत्यक्षतः स्थिताम् ।
विस्मृत्य पूर्ववृत्तान्तं पश्यन्नपि न पश्यति ।। ५५ ।।
एतस्मिन्नन्तरे देवांस्तारको नाम दैत्यराट् ।
बबाधे सर्वलोकांश्च ब्रह्मणो वरदर्पितः ।। ५६ ।।
वशीकृत्य स लोकांस्त्रीन् स्वयमिन्द्रो बभूव ह ।
विद्राव्य सकलान् देवान् दैत्यान् स्वांस्तत्-पदेषु च ।
स्वयं नियोजयामास देवयोनिषु चाप्यसौ ।।५७।।
न यमः स्वेच्छया लोकांस्तस्मिन् राज्ञि नियच्छति ।
न स्वेच्छया तथा सूर्यो लोकांस्तपति तद्भयात् ।। ५८ ।।
चन्द्रस्तु नर्मसाचिव्यं तस्य कुर्वन् स रश्मिभिः ।
वायुना सह संगम्य तत्-सेवां विदधेऽनिशम् ।। ५९ ।।
सदा सौगन्ध्यगाम्भीर्य - शैत्यस्निग्धत्वसंयुतः ।
तं वीजयन् ववौ वायुः शासनात्तस्य भूभृतः ।। ६० ।।
धनदोऽपि यथासारं धनमादाय यत्नतः ।
सावधानस्तस्य सेवामकरोत्तारकेच्छया ।। ६१ ।।
अग्निस्तस्याभवत् सूदः शासनात्तारकस्य तु ।
व्यञ्जनान्यथ भोज्यानि चक्रे तस्येच्छया तदा ।। ६२ ।।
निर्ऋतिस्तस्य सततं सहितः सर्वराक्षसैः ।
अश्वान् गजान् वाहनानि कारयामास साध्वसात् ।। ६३ ।।
नृत्यद्धिरप्सरोभिश्च स्तुवद्भिः सूतमागधैः ।
गायमानैश्च गन्धर्वैः संचिक्रीड सुरान् द्विषन् ।। ६४ ।।
एवं स सर्वलोकांस्तु त्रिष्वप्यथ विलोडयन् ।
लोकेषु सारान् सारांश्च देवानामप्यथाग्रहीत् ।। ६५ ।।
तेनाभिबाधिताः सर्वे देवाः शक्रपुरोगमाः ।
ब्रह्माणं शरणं जग्मुरनाथा नाथमुत्तमम् ।। ६६ ।।
ते प्रणम्य सुराः सर्वे पुरुहूतपुरोगमाः ।
इदमूचुर्महात्मन सर्वलोक पितामहम् ।।६७।।
।। देवा ऊचुः ।।
लोकेश तारको दैत्यो वरेण तव दर्पितः ।
निरस्यास्मान् हठादस्मद्विषयान् स्वयमग्रहीत् ।। ६८ ।।
रात्रिंदिवं बाधतेऽस्मान् यत्र तत्र स्थिता वयम् ।
पलायिताश्च पश्यामः सर्वकाष्ठासु तारकम् ।।६९।।
अग्निर्यमोऽथ वरुणो निर्ऋतिर्वायुरेव च ।
तथा मनुष्यधर्मा च सर्वैः परिकरैर्युतः ।।७० ।।
एते तेनार्दिता ब्रह्मन् देवास्तस्यैव शासनात् ।
अनिच्छाकार्यनिरता: सर्वे तस्यानुजीविनः ।। ७१ ।।
या देववनिताः स्वर्गे ये चाप्यप्सरसां गणाः ।
तान् सर्वानग्रहीद् दैत्यः सारं लोकेषु यच्च यत् ।। ७२ ।।
न यज्ञाः सम्प्रवर्तन्ते न तपस्यन्ति तापसाः ।
दानधर्मादिकं किञ्चिद् न लोकेषु प्रवर्तते ।। ७३ ।।
तस्य सेनापतिः पापः क्रौंचो नामास्ति दानवः ।
स पातालतलं गत्वा बाधतेऽहर्निशं प्रजाः ।।७४ ।।
तस्मात् तु तारकेणेदं सकलं भुवनत्रयम् ।
हृतं सर्वं जगत् त्राहि पापात्तस्मात् पितामह ।।७५।।
वयं च यत्र स्थास्यामस्तत्स्थानं विनिदेशय ।
स्वस्थानाच्च्यावितास्तेन लोकनाथ जगद्गुरोः ।।७६ ।।
त्वं नो गतिश्च शास्ता च त्वं नस्त्राता पिता प्रसू ।
त्वमेव भुवनानां च स्थापक: पालकः कृती ।।७७ ।।
तस्माद् यावत्तारकाख्ये वह्नौ दग्धाः प्रजापते ।
न भवामस्तथा कर्तुं भवता युज्यतेऽधुना ।।७८ ।।
।। मार्कण्डेय उवाच ।।
सुराणां वचनं श्रुत्वा ब्रह्मलोके पितामहः ।
प्रत्युवाच सुरान् सर्वास्तत्कालसदृशं वचः ।।७९।।
।। ब्रह्मोवाच ।।
ममैव वरदानेन तारकाख्यः समेधितः ।
न मत्तस्तस्य मरणं युज्यते त्रिदिवौकसः ।।८०।।
युष्माकञ्च प्रतीकार: कर्तव्यः प्रतिकर्मणि ।
किन्तु सम्यक् न शक्नोमि प्रतिकर्तुं प्रचोदितः ।।८१ ।।
तस्माद् यथा तारकाख्यः स्वयमेष्यति संक्षयम् ।
तथा यूयं संविदध्वमुपदेशकरस्त्वहम् ।। ८२ ।।
न मया तारको वध्यो न तथा वनमालिना ।
न हरेण तथा वध्यो नान्यैरपि सुरैर्नरैः ।। ८३ ।।
एष एव वरो दत्तो मया तस्मै तपस्यते ।
उपायश्चिन्तितश्चास्ति तत्कुर्वन्तु सुरोत्तमाः ।।८४।।
सती दाक्षायणी पूर्वं त्यक्तदेहा स्वजन्मने ।
अगच्छन्मेनकां देवीं शैलराजस्य योषितम् ।। ८५ ।।
तां समुत्पादयामास मेनकाजठरे गिरिः ।
लक्ष्मीमिव पुरा ख्यातां भृगुः स्वतनयो मम ।। ८६ ।।
तामवश्यं महादेवः कुर्यात् पाणिगृहीतिकाम् ।
यथा स नचिरात्तस्यामनुरक्तो भवेत् सुराः ।
तथा विदध्वं सुतरां तत्तेजः प्रतिकर्तृ वः ।। ८७ ।।
तमूर्ध्वरेतसं शम्भुं सैव प्रच्युतरेतसम् ।
कर्तुं समर्था नान्यास्ति काचिदप्यबलारा ।।८८।।
तस्य तेजश्च्युतं यच्च तस्माद् यो जायते सुतः ।
स एव तारकाख्यस्य हन्ता नान्यस्तु विद्यते ।। ८९ ।।
सा सुता गिरिराजस्य साम्प्रतं रूढयौवना ।
तपस्यन्तं गिरिप्रस्थे नित्यं पर्येषते हरम् ।। ९० ।।
वाक्याद् हिमवतः सा तु काली नाम्ना विषेवते ।
सखिभ्यां सह सर्वज्ञं ध्यानस्थं परमेश्वरम् ।।९१ ।।
तामग्रतो वर्तमानां त्रिलोकवरवर्णिनीम् ।
ध्यानासक्तो महादेवो मनसापि न चेच्छति ।। ९२ ।।
यथा समीहते भार्यां कालीं च चन्द्रशेखरः ।
तथा कुरुध्वं त्रिदशा नचिरादेव यत्नतः । । ९३।।
स्वस्थानं भवतां स्वर्गस्तस्मात् तारकमप्यहम् ।
निवर्तयिष्ये सङ्गम्य गच्छध्वं विगतज्वराः ।। ९४ ।।
।। मार्कण्डेय उवाच ।।
इत्युक्त्वा सर्वलोकेशस्तारकाख्यमुपस्थितः ।
उपसङ्गम्य वचनं समाभाष्येदमब्रवीत् ।। ९५ ।।
।। ब्रह्मोवाच ।।
भो भो तारक मा स्वर्गराज्यं त्वं परिशाधि भोः ।
तदर्थं न तपस्तप्तं समये भवता पुरा ।। ९६ ।।
वरो नापि मया दत्तो न मया स्वर्गराजता ।
तस्मात् स्वर्गं परित्यज्य क्षितौ राज्यं समाचर ।
देवभोग्यानि तत्रैव सम्भविष्यन्ति तेऽसुर ।।९७।।
।। मार्कण्डेय उवाच ॥
इत्युक्त्वा सर्वलोकेशस्तत्रैवान्तरधीयत ।
स तारकः परित्यज्य स्वर्गं क्षितिमथाभ्ययात् ।। ९८ ।।
तत्रैव संस्थितो देवान् बाधते स्म स नित्यशः ।
इन्द्रं करप्रदं चक्रे निदेशस्थं महाबलम् ।। ९९ ।।
तमिन्द्रः सततं देवभोग्यानि वितरन् मुहुः ।
सेवमानः क्षमो नाभूत् सन्तोषयितुमीश्वरम् ।। १०० ।।
एवं तेनार्दिता देवा मन्युना परिपीडिताः ।
विधातुरुपदेशेन यत्नं चक्रुर्हरान्वये ।। १०१ ।।
तत इन्द्रोऽथ गुरुणा संगम्य कृतनिश्चयः ।
कुसुमेषुं समाहूय वचनं चेदमब्रवीत् ।। १०२ ।।
।। इन्द्र उवाच ॥
त्वयेदं पाल्यते विश्वं त्वया विश्वं प्रसूयते ।
त्वं ब्रह्मविष्णुरुद्राणां प्रीतिहेतुः पुराभवः ।। १०३ ।।
ब्रह्मा प्रीत्या यथा पूर्वमगृह्णाच्चरितव्रताम् ।
सावित्री माधवो लक्ष्मीं सतीं दाक्षायणीं हरः ।। १०४ ।।
ताः प्रीतये पुरा तेषां देवेशानां यथा कृता ।
तथैव कुरु मे प्रीतिं काम प्राणभृतां सदा ।। १०५ ।।
न त्वं न कस्यचित् स्वर्गे पाताले वाथ भूतले ।
प्रियः प्राणभृतां काम सततं जगतां मतः ।। १०६ ॥
देवदानवयक्षाणां रक्षसां मानुषस्य च ।
त्वं पालकश्च कर्ता च हृदये च प्रवर्तसे ।। १०७ ।।
तस्मात् त्वं सर्वजगतां हिताय कुरु चेष्टितम् ।
देवदानवयक्षाणां मानुषाणां महात्मनाम् ।। १०८ ।।
।। मार्कण्डेय उवाच ।।
एतच्छ्रुत्वा वचस्तस्य शक्रस्य मकरध्वजः ।
देवराजमुवाचेदं सुप्रीतस्तद्वचोऽमृतैः ।। १०९ ।।
।। काम उवाच ।।
यत्राहमीशिता शक्र तत्कर्म विदितं त्वया ।
तस्मान्ममोचितं शक्यं करिष्ये तन्निदेशय ।। ११० ।।
पञ्चैव बाणा मृदवस्ते च पुष्पमया मम ।
चापस्तथा पुष्पमयः शिञ्जिनी भ्रमरात्मिका ।। १११ ।।
रतिर्मे दयिता जाया वसन्तः सचिवो मम ।
यन्ता मलयजो वायुर्मित्रं मम सुधानिधिः ।। ११२।।
सेनाधिपो मे शृङ्गारो हावा भावाश्च सैनिकाः ।
सर्वे मे मृदवोऽक्रूरा अहं चापि तथाविधः ।। ११३ ।।
यद् येन युज्यते कार्यं धीमांस्तत्तेन योजयेत् ।
मम योग्यं तु यत् कर्म तस्मात्तस्मिन् नियोजय ।। ११४ ।।
।। इन्द्र उवाच ।
यत् कारयितुमिच्छामि भवता तन्मनोभव ।
तत्ते समुचितं कर्म तस्मिन् परिवृतो भवान् ।। ११५ ।।
कृतकर्मापि तत्र त्वं कृती चापि मनोभव ।
त्वदन्यैः किन्तु दुःसाध्यं तत्त्वां तत्र नियोजये ।। ११६ ।।
श्रूयते हि तपस्यन्तं ध्यानस्थं वृषभध्वजम् ।
गिरेर्हिमवतः प्रस्थे निराकांक्षं वधूकृतौ ।। ११७ ।।
तं पितुर्वचनात् काली तपस्यन्तं निषेवते ।
सखिभ्यां सहिता नित्यं हरस्यानुमतेऽधुना ।। ११८ ।।
आरूढयौवनां तां तु स्त्रीरत्नमपि सुन्दरीम् ।
ध्यानासक्तो महादेवो नेहते मनसापि च ।। ११९।।
सानुरागो यथा तस्यां जायते वृषभध्वजः ।
तथा विधत्स्व देवानां हिताय जगतामपि ।। १२० ।।
सह सत्या यथा रेमे सानुरागो वृषध्वजः ।
तथैतया गिरिजया रमतां तत्कृतेन वै ।। १२१ ।।
तस्याः कृते तु यत्तेजः प्रच्युतं यद् हरस्य वै ।
ततो यो जायते सोऽस्मांस्तारकादुद्धरिष्यति ।। १२२ ।।
।। मार्कण्डेय उवाच ।।
ततः स देवराजस्य वचः श्रुत्वा मनोभवः ।
प्राप्तकालं च सस्मारं शापं ब्रह्मकृतं पुरा ।। १२३ ।।
सन्ध्यां प्रतिविधातारं यदा शस्त्रं परीक्षितम् ।
कामोऽहनत् पुष्पबाणैस्तदा तमशपद्विधिः ।। १२४ ।।
शम्भुनेत्राग्निदग्धस्त्वं भविष्यसि द्विजोत्तमाः ।
यदा कुर्याद् गिरिसुतां हरः पाणिगृहीतिकाम् ।
तदा भवान् शरीरेणागमिष्यति समग्रताम् ।। १२५ ।।
इति स्मृत्वा विधेः शापं भीतोऽपि मकरध्वजः ।
अङ्गीचक्रे शक्रवाक्यात् काल्या योजयितुं हरम् ।
इदं च वचनं प्रोचे तत्कालसदृशं पुनः ।। १२६ ।।
।। मदन उवाच ।।
करिष्ये तद्वचः शक्र हरं सङ्गमयाम्यहम् ।
काल्या गिरिजया सार्धं दाक्षायण्या यथा पुरा ।। १२७ ।।
किन्त्वेकं मम साहाय्यं कर्ता त्वं हरमोहने ।
यदा सन्मोहनेनाहं हरं सन्मोहयामि च ।। १२८ ।।
तदा कुरु सहायं त्वं स्वस्थमाप्याययस्व माम् ।
प्रविश्याहं सुरभिणा नचिराच्छंकराश्रमम् ।। १२९ ।।
विधाय पूर्वं मनसो विकारं हर्षणेन तु ।
सम्मोहनेन सुदृढं मोहयिष्ये वृषध्वजम् ।। १३० ।।
स्मरिष्यसि त्वं सम्प्राप्ते काले मां मम पालने ।
अहं गच्छामि सहितं तत्कर्तुं बलसूदन ।। १३१ ।।
।। मार्कण्डेय उवाच ।।
इत्युक्त्वा स जगामाथ मदनः शङ्कराश्रमम् ।
शक्रोऽपि त्रिदशान् सर्वानिदमाह वचस्तदा ।। १३२ ।।
।। इन्द्र उवाच ॥
यूयं कुरुध्वं साहाय्यं यत्र याति मनोभवः ।
तत्र तत्रानुगम्यैव समये मां च बोधत ।। १३३।।
यदा सम्मोहनेनायं सम्मोहयति शङ्करम् ।
तदाहमपि यास्यामि तत्र बोधत मां सुराः ।। १३४।।
।। मार्कण्डेय उवाच ।।
इत्युक्तास्तेन शक्रेण देवा जग्मुर्मनोभवम् ।
सोऽपि गत्वा यत्र हरो गङ्गावतरणे गिरेः ।
हिमभारभृतः सानौ सुरभिं च न्ययोजयत् ।। १३५ ।।
ततस्तत्र गते सम्यक्सुरभौ तस्य लक्षणम् ।
अभवन्नचिरादेव तरुगुल्मलतासु च ।। १३६ ।।
पुष्पिताः किंशुकास्तत्र मञ्जुला: केतकास्तथा ।
सरांसि च सपद्मानि सविकाराश्च जन्तवः ।। १३७ ।।
ववौ वायुश्च गम्भीरो गंधिलः पुष्परेणुभिः ।
शनैः शनैः सुखकरः कर्षयन् स हि मानसम् ।। १३८ ।।
पक्षिणश्च मृगाश्चैव ये चान्ये प्राणधारिणः ।
सिद्धाश्च किन्नराश्चैव द्वन्द्व भावं वितेनिरे ।। १३९ ।।
चूता: कुसुमितास्तत्र नवस्तवक भूषिताः ।
अशोकाः पाटलाचैव नागकेशरकारुणाः ।। १४०।।
सविकारा गणाश्चासन् शङ्करस्य तदा द्विजाः ।
प्रत्यक्षतो ययुस्तेऽपि विकारं शम्भुसाध्वसात् ।। १४१।।
भ्रमन्ति स्म तदा तत्र भ्रमराः कुसुमोद्भवम् ।
पिबन्तो बहुशश्युतं गुञ्जन्तः सह जायया ।। १४२ ।।
एवं प्रवृत्ते सुरभौ शृङ्गारोऽपि गणैः सह ।
हावभावयुतस्तत्र प्रविवेश हरान्तिकम् ।।१४३।।
मदनः सगणस्तत्र निवसंश्चिरमेव हि ।
न दृष्टवांस्तदा शम्भोश्छिद्रं येन प्रवेक्ष्यति ।। १४४ ।।
यदा च प्राप्तविवरस्तदा भयविमोहितः ।
नाग्रे सरोऽभवत् तस्य मदनो रतिवारितः ।। १४५ ।।
एवं यातस्तस्य कालः प्रभूतो द्विजसत्तमाः ।
निरूपयन् न वा चाप छिद्रं तस्य यतेस्तदा ।। १४६ ।।
ज्वलत्कालाग्निसंकाशं भानुलक्षसमप्रभम् ।
ध्यानस्थं शङ्करं को वा समासादयितुं क्षमः ।। १४७ ।।
अथैकदा गिरिसुता काली तस्याभवत्पुरः ।
कृत्वा परीष्टिं कर्त्तव्या सखिभ्यां प्रणता स्थिता ।। १४८ ।।
शङ्करोऽपि तदा ध्यानं त्यक्त्वा तत् क्षणमास्थितः ।
योजयन् स्वगणान् कृत्ये ज्योतिश्चिन्ताविवर्जितः ।। १४९ ।।
तच्छिद्रं प्राप्य मदनः प्रथमं हर्षणेन तु ।
बाणेन हर्षयामास पार्श्वस्थं चन्द्रशेखरम् ।। १५० ।।
शृङ्गारश्च तदा भावैर्हावैश्च सहितो हरम् ।
जगाम कामसाहाय्यं कुर्वन् सुरभिणा सह ।। १५१ ।।
हर्षणेनातिहृषितः शृङ्गाराद्यैर्निषेवितः ।
शङ्करो वदनं काल्याः साकूतं संव्यलोकयत् ।।१५२।।
तत् प्राप्य विवरं कामः पुष्पं चापे न्ययोजयत् ।
सम्मोहनं पुष्पवृतं पुष्पमालाविवर्धितम् ।। १५३ ।।
तदाभूद् दक्षिणे पार्श्वे रतिः प्रीतिस्तु वामतः ।
पृष्ठे बसन्ततूणीरं पौष्पमादाय सुन्दरः ।। १५४ ।।
आकर्णपूरितं पुष्पं चापमाकृष्य संयतः ।
यदा मनोभवो वायुस्तदा तं समुपेयिवान् ।। १५५ ।।
संहिते पुष्पबाणे तु गिरिजां चन्द्रशेखरः ।
जातेन्द्रियविकारः सन् जिघृक्षुः सङ्गमेऽभवत् ।। १५६ ।।
अमरा: शक्रसहितास्तदा सर्वे वियद्गताः ।
सभ्यं मनोभवं मेने सुरकृत्ये निवेशितम् ।। १५७ ।।
अथ संस्मृत्य संयम्य निगृह्य विकृति तदा ।
इन्द्रियस्य महादेवः सहसेदं व्यचिन्तयत् ।। १५८ ।।
योनिजां गिरिजां कालीं तपोव्रतविवर्जिताम् ।
कथं सङ्गमकामोऽहं धर्तुमिच्छामि वै हठात् ।। १५९ ।।
तपोव्रतपवित्राङ्गी तपश्चरणसत्कृताम् ।
स्वयमेव ग्रहीष्यामि सतीं दाक्षायणीमिव ।। १६० ।।
कथं विकृतकामोऽहमनिच्छन्निव साम्प्रतम् ।
केनापि चाकृष्ट इव चिकीर्षुः सङ्गमोद्भवम् ।। १६१ ।।
एवं विकारहेतुं स निश्चिन्वन्निन्द्रियस्य तु ।
पुरोवलोकयामास संहितेषु मनोभवम् ।। १६२ ।।
एतस्मिन्नन्तरे ब्रह्मा विज्ञातसमयः सुरान् ।
दृष्ट्वा स्थानादाजगाम तत्समाजमनुग्रहात् ।। १६३ ।।
ततः स कुपितो दृष्ट्वा सन्धितेषु मनोभवम् ।
जज्वाल ज्वलनप्रख्यस्तं दिधक्षुः प्रसह्य तु ।। १६४।।
कामोऽयं समयं ज्ञात्वा मां मोहयितुमिच्छति ।
मनो मे स्ववशं कर्तुं तन्नयामि यमक्षयम् ।।१६५ ।।
एवं विचिन्तमानस्य नेत्रोद्भाविततेजसा ।
वर्धतो ज्वलनो भूत्वा क्रोधं नेत्रात् ससर्ज ह ।। १६६ ।।
तं क्रोधान्निः सरिष्यन्तं जातवेदः स्वरूपिणम् ।
ज्ञात्वा कामस्य तान् बाणान् पौष्पचापनिषण्णकान् ।। १६७ ।।
शक्तिं प्राणांस्तथात्मानमाकृष्यापालयद्विधिः ।
उत्सारयामास तदा वसन्तं स पितामहः ।। १६८ ।।
निजशक्त्या तदा शम्भुक्रोधाद्रक्षन्मनोभवम् ।
अथाकाशगता देवाः क्रुद्धं दृष्ट्वा महेश्वरम् ।। १६९ ।।
प्रसीद जगतां नाथ कामे क्रोधं परित्यज ।
त्वया यथा पुरा सृष्टः शम्भुरूपेण कर्मणा ।। १७० ।।
येन चायोजितं कर्म तत्करोति मनोभवः ।
तस्मात् त्वं मदने शम्भो क्रोधाग्निमुपसंहर ।
प्रसीद सर्वभूतेश भक्त्या त्वां प्रणता वयम् ।। १७१ ।।
इति स्म वदतां तेषाममराणां तदानलः ।। १७२ ।।
ललाटचक्षुः सम्भूतो भस्माकार्षीन्मनोभवम् ।
दग्ध्वा कामं तदा वह्निज्वलामालातिदीपितः ।। १७३ ।।
संस्तम्भितोऽथ विधिना हरं गन्तुं शशाक न ।
महादेवोऽपि तद्भस्म मनोभवशरीरजम् ।
आदाय सर्वगात्रेषु भूतिलेपं तदाकरोत् ।। १७४।।
लेपशेषाणि भस्मानि समादाय तदा हरः ।
सगणोऽन्तर्दधे कालीं विहाय विधिसम्मते ।। १७५ ।।
ब्रह्मा क्रोधानलं शम्भोर्दहन्तं सकलान् सुरान् ।
वडवारूपिणं चक्रे देवानां पुरतस्तदा ।। १७६ ।।
वडवां तां तदा देवाः सौम्यां ज्वालामुखीं शुभाम् ।
दृष्ट्वा निर्विघ्नमनसो बभूवुः पूर्वपीडिताः ।। १७७ ।।
वडवां तां समादाय तदा ज्वालामुखीं विधिः ।
सागरं प्रययौ लोकहिताय जगतां पतिः ।। १७८ ।।
गत्वाथ सागरं ब्रह्मा प्रोवाच परिपूजितः ।
यथावत्तेन विप्रेन्द्राः समयं च निवेदयन् ।। १७९ ।।
अयं क्रोधो महेशस्य वडवारूपधृक् त्वया ।
ज्वालामुखः सदा धार्यो यावन्न विनयाम्यहम् ।। १८० ।।
यदा त्वामहमागम्य वदामि सरितां पते ।
तदा त्वया परित्याज्यः क्रोधोऽयं वडवामुखः । । १८१ ।।
भोजनं भवतस्तोयमेतस्य तु भविष्यति ।
यनादेवं विधार्योऽयं यथा नो याति चान्तरम् ।।१८२।।
इत्युक्तो ब्रह्मणा सिन्धुरङ्गीचक्रे तदा क्रुधम् ।
ग्रहीतुं वडवावक्त्रे शम्भोश्चाशक्यमप्यरम् ।।१८३ ।।
ततः प्रविष्टो जलधौ पावको वडवामुखः ।
वार्योघान्निदहन् सम्यग् ज्वालामालातिदीपितः ।। १८४ ।।
यदाभवच्छम्भुनेत्राद् ददाह मदनं तदा ।
अभवत् सुमहाशब्दो येनाकाशः प्रपूरितः ।। १८५ ।।
तेन शब्देन महता कामदाहे क्षणेन च ।
सखीभ्यां सह भीताभूत् काली शोकयुता तदा ।। १८६ ।।
तेन शब्देन हिमवांश्चकितो विस्मितस्तदा ।
सुतामेव जगामाशु गतां काली हराश्रमम् ।।१८७।।
तां तत्र कालीं तनयां भयशोकाकुलां शुभाम् ।
रुदन्तीं शम्भुविरहादाससादाचलेश्वरः ।। १८८ ।।
आसाद्य पाणिना तस्या मार्जयन्नयनद्वयम् ।
मा भैषीः कालि मा रोदीरित्युक्त्वा तां तदाग्रहीत् ।। १८९ ।।
क्रोडीकृत्य सुतां तां तु हिमवानचलेश्वरः ।
स्वमालयमथानिन्ये सान्त्वयामास चार्दिताम् ।।१९० ।।
अन्तर्हिते हरे काली विरहात् तस्य संततम् ।
निवसन्ती पितुर्गेहे शुशोच च मुमोह च ।। १९१ ।।
शैलाधिराजोऽप्यथ मेनकापि मैनाक मुख्योऽपि सखीद्वयं च ।
तां सान्त्वयांचक्रुरदीनसत्त्वां हरं विसस्मार तथापि नोमा ।।१९२।।
॥ इति श्रीकालिकापुराणे कामदहने द्विचत्वारिंशोऽध्यायः ॥ ४२॥
कालिका पुराण हिन्दी अनुवाद पढ़ने के लिए देखें-DP Karmakand