कालिकापुराणम्/अध्यायः ३
कालिकापुराणम् तृतीयोऽध्यायः रतिउत्पत्तिवर्णनम् अथ कालिका पुराण अध्याय ३ ॥ मार्कण्डेय उवाच ।। ततः कोपसमाविष्टः पद्मयोनिर्जगत्पतिः । प्रजज्वालातिबलवद्दिधक्षुरिवं पावकः ।। १ ।। उवाच चेश्वरं कामो भवतः पुरतो यतः । पुष्पेषुभिर्मामभजत् तत्फलस्याप्नुयाद्धर ॥२॥ तव नेत्राग्निनिर्दग्धः कन्दर्पो दर्पमोहितः । भविष्यति महादेव कृत्वा कर्मातिदुष्करम् ।।३॥ इति वेधाः स्वयं कामं शशाप द्विजसत्तमाः । समक्षं व्योमकेशस्य मुनीनाञ्च यतात्मनाम् ।।४।। अथ भीतो रतिपतिस्तत्क्षणात् त्यक्तमार्गणः । प्रादुर्बभूव प्रत्यक्षं शापं श्रुत्वातिदारुणम् ॥५॥ उवाच चेदं ब्रह्माणं सदक्षं समरीचिकम् । तथ्यञ्च गद्गदं भीत्या भीतिर्हि गुणहानिकृत् ।। ६ ।। ।। मन्मथ उवाच ।। ब्रह्मन् किमर्थं भवता शप्तोऽहमतिदारुणम् । अनागस्तव लोकेश न्यायमार्गानुसारिणा ।।७।। त्वयैवोक्तन्तु तत् कर्म यत्तु कुर्यामहं विभो । तत्र योग्यो न शापो मे यतो नान्यन्मयाकृतम् ।।८।। अहं विष्णुस्तथा शम्भुः सर्वे त्वच्छरगोचराः । इति यद्भवताप्रोक्तं तन्मयापि परीक्षितम् ।।९।। नापराधो ममास्त्यत्र ब्रह्मन् मयि निरागसि । दारुणं शमयस्वैनं शापं मम जगत्पते ।। १० ।। ।। मार्कण्डेय उवाच ।। इति तस्य वचः श्रुत्वा विधाता जगतां पतिः । प्रत्युवाच यतात्मानं मदनं सदयं द्रुतः ।। ११ ।। ।। ब्रह्मोवाच ।। आत्मजा मम सन्ध्येयं यस्मादेतत्सकामतः । लक्ष्यीकृतोऽहं भवता ततः शापो मया कृतः ।। १२ ।। अधुना शान्तरोषोऽहं त्वां वदामि मनोभव । भवतः शापशमनं भविष्यति यथा तथा ।।१३।। त्वं भस्मभूतो मदन भर्गलोचनवह्निना । तस्यैवानुग्रहात् पश्चाच्छरीरं समवाप्स्यसि ।।१४।। यदा हरो महादेवः कुर्याद्दारपरिग्रहम् । तदा स एव भवतः शरीरं प्रापयिष्यति ।। १५ ।। ।। मार्कण्डेय उवाच ।। एवमुक्तवाथ मदनं ब्रह्मा लोकपितामहः । अन्तर्दधे मुनीन्द्राणां मानसानाञ्च पश्यताम् ।।१६ ॥ तस्मिन्नन्तर्हिते शम्भुः सर्वेषाञ्च विधातरि । यथेष्टदेशं गतवान् ब्रह्मा मारुतरंहसा ।। १७ ।। वेधस्यन्तर्हिते तस्मिन् शम्भौ निजास्पदे गतः । दक्षः प्राहाथ कन्दर्पं पत्नीं तस्य निदर्शयन् ।।१८।। ।। दक्ष उवाच ॥ मद्देहजेयं कन्दर्प मद्रूप गुणसंयुता । एनां गृह्णीष्व भार्यार्थे भवतः सदृशीं गुणैः ।। १९ ।। एषा तव महातेजाः सर्वदा सहचारिणी । भविष्यति यथाकामं धर्मतो वशवर्तिनी ॥२०॥ ।। मार्कण्डेय उवाच ।। इत्युक्त्वा प्रददौ दक्षः देहस्वेदम्बुसम्भवाम् । कन्दर्पायाप्रतः कृत्वा नाम कृत्वा रतीति ताम् ।। २१ । । तां वीक्ष्य मदनो वामां रत्याख्यां सुमनोहराम् । आत्माशुगेन विद्धोऽसौ मुमोह रतिरञ्जितः ।।२२।। क्षणप्रभावदेकान्तगौरी मृगदृशी सदा । लोलापांग्यथ तस्यैव मृगीव सदृशी वभौ ।। २३ ।। तस्या भ्रूयुगलं वीक्ष्य संशयं मदनोऽकरोत् । उन्मादकृन्मे कोदण्डं किं वा अस्यां निवेशितम् ।। २४ ।। कटाक्षाणामाशुगतिं दृष्ट्वा तस्या द्विजोत्तमाः । आशुगत्वं निजात्राणां श्रद्दधे न च चारुताम् ।।२५।। तस्याः स्वभावसुरभि धीरं श्वासानिलं तथा । आघ्राय मदनः श्रद्धां त्यक्तवान् मलयानिले ।। २६ ।। पूर्णेन्दुसदृशं वक्त्रं दृष्ट्वा भ्रूलक्ष्मलक्षितम् । न निश्चिकाय मदनो भेदत्वन्मुखचन्द्रयोः ।। २७ ।। सुवर्णपद्मकलिकातुल्यं तस्याः कुचद्वयम् । रेजे चुचुकयुग्मेन भ्रमरेणैव सेवितम् ।। २८ ।। दृढपीनोन्नतघन स्तनमध्याद्विलम्बिनीम् । आनाभितो रोमराजिं तन्वीं चार्वायतां शुभाम् ।।२९।। ज्यां पुष्पधनुषः कामः षट्पदावलिसम्भृताम् । विसस्मार च यस्मात्तां विगृह्यैनां निरीक्षते ॥३०॥ गम्भीरनाभिरन्ध्रान्तश्चतुष्पार्श्वत्वगावृताम् । आननाब्जे क्षणद्वन्द्वमारक्तकमलं यथा ।। ३१ ।। क्षीणामध्येन वपुषा निसर्गाष्टपदप्रभा । रत्नवेदीव ददृशे कामेन द्विजसत्तमाः ।। ३२ ।। रम्भास्तम्भायतं स्निग्धं तदुरुयुगलं मृदु । निजशक्तिसमं कामो वीक्षाञ्चक्रे मनोहरम् ॥३३॥ आरक्तपाणिपादाग्रप्रान्तभागं पदद्वयम् । अनुरागम मे स्थितं तस्यां मनोभवः ।। ३४ ।। तस्याः करयुगं रक्तनखरैः किंशुकोपमैः । वृत्ताभिरङ्गुलिभिश्च सूक्ष्माग्रभिर्मनोहरैः ।। ३५।। इति दृष्ट्वा स्मरो मेने ममास्त्रैर्द्विगुणीकृतैः । मां मोहयितुमुद्युक्ता किमेषा द्विजसत्तमाः ।। ३६ ।। तद्वाहुयुगलं कान्तं मृणालयुगलायतम् । मृदुस्त्रिग्धं रराजातिकान्ति - तोयप्रवाहवत् ।। ३७ ।। नीलनीरदसङ्काशः केशपाशो मनोहरः । चमरीबालभारवद्विभातिस्म स्मरप्रियः ॥३८॥ तां वीक्ष्य मदनो देवीं रतिमतिमनोहराम् । कान्तितोयौघसम्पूर्णां कुचवक्त्राब्जकुड्मलाम् ।। ३९ ।। वक्त्रपद्मां चारुवाहु मृणालीशकलान्विताम् । भ्रूयुग्मविभ्रमद्वात तनूर्मिपरिराजिताम् ॥४०॥ अपूर्णकचवक्त्रौघ नेत्रनीलोत्पलान्विताम् । तनुलोमानिशैवालां मनोद्रुमविशातिनीम् ।।४१।। निम्ननाभिहृदां दक्षप्रालेयाद्रिसमुद्भवाम् । गङ्गामिव महादेवो जग्राहोत्फुल्ललोचनः ।।४२।। उवाच च तदा दक्षं कामो मोदभरान्वितः । विस्मृत्य शापञ्च तदा विधिदत्तं सुदारुणम् ।।४३।। ।। मदन उवाच ।। अनया सहचारिण्या सम्यक्सुन्दररूपया । समर्थो मोहितुं शम्भुं किमन्यैर्जन्तुभिर्विभो ।। ४४ ।। यत्र यत्र मया लक्ष्यं क्रियते धनुषोऽनघ । तत्रानयापि चेष्टव्यं मायया परमाह्वया ॥४५ ।। यदा देवालयं यामि पृथिवीं वा रसातलम् । तदैषाप्यस्तु सध्रीची सर्वदा चारुहसिनी ॥४६ ।। यथा पद्मालया विष्णोर्जलदानां यथा तडित् । तथा ममैषा भविता प्रजाध्यक्षसहायिनी ।। ४७ ।। ।। मार्कण्डेय उवाच ।। इत्युक्त्वा मदनो देवीं रतिं जग्राह सोत्सुकः । सागरादुत्थितां लक्ष्मीं हृषीकेश इवोत्तमाम् ।।४८।। रराज स तया सार्द्धं भिन्नपीतप्रभः स्मरः । जीमूत इव सन्ध्यायां सौदामिन्या मनोज्ञया ।। ४९ ।। इति रतिपतिरुच्चैर्मोदयुक्तो रतिं तां हृदि परिजगृहे यां योगदर्शीव विद्याम् । रतिरपि पतिमग्रयं प्राप्य तोषञ्च लेभे हरिमिव कमलोत्था पूर्णचन्द्रोपमास्या ।। ५० ।। ॥ श्रीकालिकापुराणे रत्युत्पत्तिवर्णनं नामतृतीयोऽध्यायः ॥ ३ ॥ कालिका पुराण हिन्दी अनुवाद पढ़ने के लिए देखें-DP Karmakand