कालिकापुराणम्/अध्यायः ३
| ← अध्यायः २ | कालिकापुराणम् अध्यायः ३ [[लेखकः :|]] |
अध्यायः ४ → |
कालिकापुराणम् तृतीयोऽध्यायः रतिउत्पत्तिवर्णनम्
अथ कालिका पुराण अध्याय ३
॥ मार्कण्डेय उवाच ।।
ततः कोपसमाविष्टः पद्मयोनिर्जगत्पतिः ।
प्रजज्वालातिबलवद्दिधक्षुरिवं पावकः ।। १ ।।
उवाच चेश्वरं कामो भवतः पुरतो यतः ।
पुष्पेषुभिर्मामभजत् तत्फलस्याप्नुयाद्धर ॥२॥
तव नेत्राग्निनिर्दग्धः कन्दर्पो दर्पमोहितः ।
भविष्यति महादेव कृत्वा कर्मातिदुष्करम् ।।३॥
इति वेधाः स्वयं कामं शशाप द्विजसत्तमाः ।
समक्षं व्योमकेशस्य मुनीनाञ्च यतात्मनाम् ।।४।।
अथ भीतो रतिपतिस्तत्क्षणात् त्यक्तमार्गणः ।
प्रादुर्बभूव प्रत्यक्षं शापं श्रुत्वातिदारुणम् ॥५॥
उवाच चेदं ब्रह्माणं सदक्षं समरीचिकम् ।
तथ्यञ्च गद्गदं भीत्या भीतिर्हि गुणहानिकृत् ।। ६ ।।
।। मन्मथ उवाच ।।
ब्रह्मन् किमर्थं भवता शप्तोऽहमतिदारुणम् ।
अनागस्तव लोकेश न्यायमार्गानुसारिणा ।।७।।
त्वयैवोक्तन्तु तत् कर्म यत्तु कुर्यामहं विभो ।
तत्र योग्यो न शापो मे यतो नान्यन्मयाकृतम् ।।८।।
अहं विष्णुस्तथा शम्भुः सर्वे त्वच्छरगोचराः ।
इति यद्भवताप्रोक्तं तन्मयापि परीक्षितम् ।।९।।
नापराधो ममास्त्यत्र ब्रह्मन् मयि निरागसि ।
दारुणं शमयस्वैनं शापं मम जगत्पते ।। १० ।।
।। मार्कण्डेय उवाच ।।
इति तस्य वचः श्रुत्वा विधाता जगतां पतिः ।
प्रत्युवाच यतात्मानं मदनं सदयं द्रुतः ।। ११ ।।
।। ब्रह्मोवाच ।।
आत्मजा मम सन्ध्येयं यस्मादेतत्सकामतः ।
लक्ष्यीकृतोऽहं भवता ततः शापो मया कृतः ।। १२ ।।
अधुना शान्तरोषोऽहं त्वां वदामि मनोभव ।
भवतः शापशमनं भविष्यति यथा तथा ।।१३।।
त्वं भस्मभूतो मदन भर्गलोचनवह्निना ।
तस्यैवानुग्रहात् पश्चाच्छरीरं समवाप्स्यसि ।।१४।।
यदा हरो महादेवः कुर्याद्दारपरिग्रहम् ।
तदा स एव भवतः शरीरं प्रापयिष्यति ।। १५ ।।
।। मार्कण्डेय उवाच ।।
एवमुक्तवाथ मदनं ब्रह्मा लोकपितामहः ।
अन्तर्दधे मुनीन्द्राणां मानसानाञ्च पश्यताम् ।।१६ ॥
तस्मिन्नन्तर्हिते शम्भुः सर्वेषाञ्च विधातरि ।
यथेष्टदेशं गतवान् ब्रह्मा मारुतरंहसा ।। १७ ।।
वेधस्यन्तर्हिते तस्मिन् शम्भौ निजास्पदे गतः ।
दक्षः प्राहाथ कन्दर्पं पत्नीं तस्य निदर्शयन् ।।१८।।
।। दक्ष उवाच ॥
मद्देहजेयं कन्दर्प मद्रूप गुणसंयुता ।
एनां गृह्णीष्व भार्यार्थे भवतः सदृशीं गुणैः ।। १९ ।।
एषा तव महातेजाः सर्वदा सहचारिणी ।
भविष्यति यथाकामं धर्मतो वशवर्तिनी ॥२०॥
।। मार्कण्डेय उवाच ।।
इत्युक्त्वा प्रददौ दक्षः देहस्वेदम्बुसम्भवाम् ।
कन्दर्पायाप्रतः कृत्वा नाम कृत्वा रतीति ताम् ।। २१ । ।
तां वीक्ष्य मदनो वामां रत्याख्यां सुमनोहराम् ।
आत्माशुगेन विद्धोऽसौ मुमोह रतिरञ्जितः ।।२२।।
क्षणप्रभावदेकान्तगौरी मृगदृशी सदा ।
लोलापांग्यथ तस्यैव मृगीव सदृशी वभौ ।। २३ ।।
तस्या भ्रूयुगलं वीक्ष्य संशयं मदनोऽकरोत् ।
उन्मादकृन्मे कोदण्डं किं वा अस्यां निवेशितम् ।। २४ ।।
कटाक्षाणामाशुगतिं दृष्ट्वा तस्या द्विजोत्तमाः ।
आशुगत्वं निजात्राणां श्रद्दधे न च चारुताम् ।।२५।।
तस्याः स्वभावसुरभि धीरं श्वासानिलं तथा ।
आघ्राय मदनः श्रद्धां त्यक्तवान् मलयानिले ।। २६ ।।
पूर्णेन्दुसदृशं वक्त्रं दृष्ट्वा भ्रूलक्ष्मलक्षितम् ।
न निश्चिकाय मदनो भेदत्वन्मुखचन्द्रयोः ।। २७ ।।
सुवर्णपद्मकलिकातुल्यं तस्याः कुचद्वयम् ।
रेजे चुचुकयुग्मेन भ्रमरेणैव सेवितम् ।। २८ ।।
दृढपीनोन्नतघन स्तनमध्याद्विलम्बिनीम् ।
आनाभितो रोमराजिं तन्वीं चार्वायतां शुभाम् ।।२९।।
ज्यां पुष्पधनुषः कामः षट्पदावलिसम्भृताम् ।
विसस्मार च यस्मात्तां विगृह्यैनां निरीक्षते ॥३०॥
गम्भीरनाभिरन्ध्रान्तश्चतुष्पार्श्वत्वगावृताम् ।
आननाब्जे क्षणद्वन्द्वमारक्तकमलं यथा ।। ३१ ।।
क्षीणामध्येन वपुषा निसर्गाष्टपदप्रभा ।
रत्नवेदीव ददृशे कामेन द्विजसत्तमाः ।। ३२ ।।
रम्भास्तम्भायतं स्निग्धं तदुरुयुगलं मृदु ।
निजशक्तिसमं कामो वीक्षाञ्चक्रे मनोहरम् ॥३३॥
आरक्तपाणिपादाग्रप्रान्तभागं पदद्वयम् ।
अनुरागम मे स्थितं तस्यां मनोभवः ।। ३४ ।।
तस्याः करयुगं रक्तनखरैः किंशुकोपमैः ।
वृत्ताभिरङ्गुलिभिश्च सूक्ष्माग्रभिर्मनोहरैः ।। ३५।।
इति दृष्ट्वा स्मरो मेने ममास्त्रैर्द्विगुणीकृतैः ।
मां मोहयितुमुद्युक्ता किमेषा द्विजसत्तमाः ।। ३६ ।।
तद्वाहुयुगलं कान्तं मृणालयुगलायतम् ।
मृदुस्त्रिग्धं रराजातिकान्ति - तोयप्रवाहवत् ।। ३७ ।।
नीलनीरदसङ्काशः केशपाशो मनोहरः ।
चमरीबालभारवद्विभातिस्म स्मरप्रियः ॥३८॥
तां वीक्ष्य मदनो देवीं रतिमतिमनोहराम् ।
कान्तितोयौघसम्पूर्णां कुचवक्त्राब्जकुड्मलाम् ।। ३९ ।।
वक्त्रपद्मां चारुवाहु मृणालीशकलान्विताम् ।
भ्रूयुग्मविभ्रमद्वात तनूर्मिपरिराजिताम् ॥४०॥
अपूर्णकचवक्त्रौघ नेत्रनीलोत्पलान्विताम् ।
तनुलोमानिशैवालां मनोद्रुमविशातिनीम् ।।४१।।
निम्ननाभिहृदां दक्षप्रालेयाद्रिसमुद्भवाम् ।
गङ्गामिव महादेवो जग्राहोत्फुल्ललोचनः ।।४२।।
उवाच च तदा दक्षं कामो मोदभरान्वितः ।
विस्मृत्य शापञ्च तदा विधिदत्तं सुदारुणम् ।।४३।।
।। मदन उवाच ।।
अनया सहचारिण्या सम्यक्सुन्दररूपया ।
समर्थो मोहितुं शम्भुं किमन्यैर्जन्तुभिर्विभो ।। ४४ ।।
यत्र यत्र मया लक्ष्यं क्रियते धनुषोऽनघ ।
तत्रानयापि चेष्टव्यं मायया परमाह्वया ॥४५ ।।
यदा देवालयं यामि पृथिवीं वा रसातलम् ।
तदैषाप्यस्तु सध्रीची सर्वदा चारुहसिनी ॥४६ ।।
यथा पद्मालया विष्णोर्जलदानां यथा तडित् ।
तथा ममैषा भविता प्रजाध्यक्षसहायिनी ।। ४७ ।।
।। मार्कण्डेय उवाच ।।
इत्युक्त्वा मदनो देवीं रतिं जग्राह सोत्सुकः ।
सागरादुत्थितां लक्ष्मीं हृषीकेश इवोत्तमाम् ।।४८।।
रराज स तया सार्द्धं भिन्नपीतप्रभः स्मरः ।
जीमूत इव सन्ध्यायां सौदामिन्या मनोज्ञया ।। ४९ ।।
इति रतिपतिरुच्चैर्मोदयुक्तो रतिं तां
हृदि परिजगृहे यां योगदर्शीव विद्याम् ।
रतिरपि पतिमग्रयं प्राप्य तोषञ्च लेभे
हरिमिव कमलोत्था पूर्णचन्द्रोपमास्या ।। ५० ।।
॥ श्रीकालिकापुराणे रत्युत्पत्तिवर्णनं नामतृतीयोऽध्यायः ॥ ३ ॥
कालिका पुराण हिन्दी अनुवाद पढ़ने के लिए देखें-DP Karmakand