कालिकापुराणम्/अध्यायः २५

विकिस्रोतः तः

कालिकापुराणम् पञ्चविंशोऽध्यायः वाराहसर्गः
अथ कालिका पुराण अध्याय २५
।। मार्कण्डेय उवाच ।।
कालो नाम स्वयं देवः सृष्टिस्थित्यन्तकारकः ।
अविच्छिन्नः स प्रलयस्तेन भागेन केनचित् ।। १ ।।
लयभागे व्यतीते तु सिसृक्षा समजायत ।
ज्ञानरूपस्य च तदा परमब्रह्मणो विभोः ॥ २ ॥
ततोऽस्य प्रकृतिस्तेन सम्यक्संक्षोभिता धिया ।
संक्षुब्धा सर्वकार्यार्थमभूत् सा त्रिगुणात्मिका ।। ३।।
यथा सन्निधिमात्रेण गन्धः क्षोभाय जायते ।
मनसो लोककर्तृत्वात्तथासौ परमेश्वरः ॥४॥
स एव क्षोभको ब्रह्मन् क्षोभ्यश्च परमेश्वरः ।
स सङ्कोचविकाशाभ्यां प्रधानत्वेऽपि च स्थितः ॥५॥
इच्छामात्रेण पुरुषः शृष्ट्यर्थं परमेश्वरः ।
ततः संक्षोभयामास पुनरेव जगत्पतिः ॥६॥
गुणसाम्यात्ततस्तस्मात् क्षेत्रज्ञाधिष्ठितात् ततः ।
गुणव्यञ्जनसंभूतिः सर्गकाले वभूव ह ।।७।।
प्रधानतत्त्वादुद्भूतमीश्वरेच्छासमीरितात् ।
महत्तत्वं प्रथमतस्तत् प्रधान समावृणोत् ।।८।।
प्रधानेनावृतात्तस्मादहङ्कारो व्यजायत ।
वैकारिकस्तैजसश्च भूतादिश्चैव तामसः ॥९॥
त्रिविधोऽयमहङ्कारो यो जातो महतोऽग्रतः ।
भूतानामिन्द्रियाणाञ्च स वै हेतुः सनातनः ।। १० ।।
स महांस्तमहङ्कारं जातमात्रं समावृणोत् ।
तन्मात्राणि ततः पञ्च जज्ञिरेऽस्मात् समावृतात् ।। ११ ॥
प्रथमं शब्दतन्मात्रं स्पर्शतन्मात्रमन्तरम् ।
तृतीयं रूपतन्मात्रं रसतन्मात्रमेव च ।। १२ ।।
पञ्चमं गन्धतन्मात्रमेतानि क्रमशोऽभवन् ।
प्रत्येकं सर्वतन्मात्रमहङ्कारः समावृणोत् ।।१३।।
ससर्ज शब्दतन्मात्रादाकाशं शब्दलक्षणम् ।
शब्दमात्रं तथाकाशं भूतादिः स समावृणोत् ।। १४ ।।
शब्दतन्मात्रसहितात् स्पर्शतन्मात्रतन्ततः ।
वायुः समभवत् स्पर्शगुणः शब्दसमन्वितः ।। १५ ।।
आकाशवायुसंयुक्ताद्रूपतन्मात्रतस्ततः ।
तेजः समभवद्दीप्तं सर्वतस्तदवर्धत ।। १६ ।।
तच्छब्दवत् स्पर्शवच्च रूपवच्च व्यजायत ।
ततो वियद्वायुतेजोयुक्तात्तोयं ससर्ज ह ।
रसतन्मात्रतः सम्यक् तेन व्याप्तं समन्ततः ।। १७ ।।
तोयान्याधारशक्तिर्या विष्णोरमिततेजसः ।
सा दध्रेऽथ निराधाराण्यनिलान्दोलितानि वै ।। १८ ।।
तेषु बीजं प्रथमतः ससर्ज परमेश्वरः ।
तदण्डमभवद्हैमं सहस्रांशुसमप्रभम् ।। १९।।
महदादिविशेषान्तैरारव्यं सर्वतो वृतम् ।
वारिवह्न्यनिलाकाशैस्तमोभूतादिना बहिः ।
वृतं दशगुणैरण्डं भूतादिर्महता तथा ।।२०।।
बीजं यथा बाह्यदलैर्व्याप्तमण्डं तथा पुनः ।
तोयादिभिस्तथा व्याप्त ब्रह्माण्डमतुलं द्विजाः ।। २१ ।।
तदण्डमध्ये स्वयमेव विष्णु- र्ब्रह्मस्वरूपं विनिधाय कायम् ।
दिव्येन मानेन स वर्षमेकं स्थितोऽग्रहीद्वीजगणं स्वबुद्ध्या ।। २२।।
ध्यानेन चाण्ड स्वयमेव कृत्वा द्विधा स तस्थौ क्षणमात्रमस्मिन् ।
तदैव तन्मात्रगणैः समस्तै-गन्धोत्तरैर्भूव सृष्टा ।। २३ ।।
स्पर्शस्य शब्दस्य समस्तरूप-गुणस्य गन्धस्य रसस्य चैषा ।
आधारभूता सकलैः कृता यत्तन्मात्रवर्गैरखिला धरित्री ।। २४ ।।
जातस्तदुत्थैः कनकाचलोऽसौ जरायुभिः पर्वतसंचयोऽभूत् ।
गर्भोदकैः सप्तपयोधयस्तु स्कन्धद्वयेन त्रिदशालयोऽभूत् ।। २५ ।।
स्कन्धद्वयेनापरदेशजेन सप्ताभवन्नागगृहाणि तानि ।
पातालसंज्ञानि महासुखानि यत्र स्वयं स्यात् परतो महेशः ।। २६ ।।
तेजोगणात्तस्य बभूव लोको योऽसौ महर्लोक इति श्रुतोऽभूत् ।
जनाह्वयोऽभून्मरुतोऽथ गर्भाद् ध्यानात्तपोलोकवरो बभूव ।। २७।।
अण्डोर्धगत्यामभवत्तु सत्यं ब्रह्माण्डखण्डोपरि विष्णुरच्युतः ।
परं पदं यन्निगदन्ति धीरा यज्ज्ञानगम्यं परिनिष्ठरूपम् ।। २८ ।।
एवं विधाय प्रथमं बभूव विष्णुस्वरूपी स्थितये स एव ।
स्वयं समुद्भूततनुर्यतोऽयं स्वयंभूरिति ख्यातिरवाप विष्णुः ।। २९ ।।
ततोऽभवत् यज्ञवराहरूपी विष्णुर्भुव: प्रोद्धरणाय पीनः ।
निमज्जमानां पृथिवीं स मध्ये भित्वा गतो धर्तुमधोतिऽ वेगात् ।। ३० ।।
दंष्ट्राग्रदेशे विनिधाय पृथिवीं स उद्गतः सर्वमतीत्य तोयम् ।
ततोऽभवत् सप्तफणान्वितोऽय-मनन्तमूर्तिः पृथ्वीं विधर्तुम् ।। ३१ ।।
प्रसार्य शेषोऽपि फणाः स वैष मध्ये निधायैकफणां धरित्रीम् ।
दधार तोयोपरि तोयसंस्थित- स्ततोऽत्यजद् यज्ञवराह उर्व्वीम् ।। ३२ ।।
प्रसारिताः फणाः सर्वास्तासामेका तु पूर्वतः ।
अपरा पश्चिमायां तु दक्षिणोत्तरयोः परे ।। ३३ ।।
एका गता फणैशान्यामाग्नेय्यामपरा दिशि ।
पृथ्वीमध्ये स्थिता चैका नैर्ऋत्यां तस्य वै तनुः ।
शून्या दिग्वायवी तत्र ततो नम्रा स्थिता क्षितिः ।। ३४ ।।
स तु दीर्घतनुस्तोये यदानन्तो न चाशकत् ।
कूर्मरूपी तदा भूत्वानन्तं कायमधाद्धरिः ।।३५।।
अधो ब्रह्माण्डखण्डं स पद्धिराक्रम्य कच्छपः ।
ग्रीवान्वितस्य वायव्यां पृष्ठेऽनन्तमधारयत् ।। ३६ ।।
अनन्तः कूर्मपृष्ठे तु नवभिर्वेष्टनैस्तनुम् ।
निधाय पृथिवीं दधे सुखेनैव महातनुः ।।३७।।
ततः फणास्वनन्तस्य चलन्ती पृथिवी स्थिता ।
वराहः कर्तुमचलामचलामकरोदृढाम् ।। ३८।।
मेरुं खुरप्रहारेण प्रहृत्य पृथिवीतलम् ।
न्यखनत् स विवेशाथ पृथ्वीं भित्वान्तरं ततः ।। ३९ ।।
योजनानां सहस्राणि षोडशैव रसातलम् ।
प्रविवेश महाशैलो वराहांघ्रिप्रहारतः ॥४०॥
द्वात्रिंशत्तु सहस्राणि योजनानां तु विस्तृणम् ।
मेरो: शिरोऽभवत्तेन प्रहारेण दिजोत्तमाः ।।४१।।
मर्यादा शैलनाथस्य पार्श्वे पोत्री तदाकरोत् ।
यदा चलति नैवैष पर्वतः पृथिवीधरः ।। ४२ ।।
हिमवत्प्रभृतीनांच भागं भागं सपंचकम् ।
पदा क्षित्यन्तरं चक्रे तदुच्छ्रायप्रमाणतः ।। ४३ ।।
ततो ब्रह्मा वराहाय नमस्कृत्य महौजसे ।
अर्धनारीश्वरं कायाद् देवदेवं व्यजायत ।। ४४ ।।
प्रथमं जातमात्र: स प्ररुरोद महास्वनः ।
किं रोदिषीति तं ब्रह्मा रुदन्तं प्रत्युवाच ह ।। ४५ ।।
नाम देहीति तं सोऽथ प्रत्युवाच महेश्वरः ।
रुद्रनामा रोदनात्तं मा रोदीत्वं महाशय ।।४६ ।।
एवमुक्तः पुनः सोऽथ सप्तवारान् रुरोद सः ।
ततोऽपराणि नामानि सप्त ब्रह्माकरोत् पुनः ।।४७ ।।
शर्व भवं च भीमञ्च महादेवं चतुर्थकम् ।
पञ्चमं चोग्रमीशानं षष्ठं पशुपतिं परम् ।।४८।।
मया यथा विभक्तस्त्वं तथात्मा स्वो विभज्यताम् ।
त्वयापि भूरिसृष्ट्यर्थं भवांश्चापि प्रजापतिः ।। ४९ ।।
ततो ब्रह्मा द्विधा भूत्वा पुरुषोऽर्धेन सोऽभवत् ।
अर्धेन नारी तस्यां तु विराजमसृजत् प्रभुः ।। ५० ।।
तमाह भगवान् ब्रह्मा कुरु सृष्टिं प्रजापते ।
तपस्तप्त्वा विराट् सोऽपि मनुं स्वायम्भुवं ततः ।। ५१ ।।
ससर्ज सोऽपि तपसा ब्रह्माणं पर्यंतोषयत् ।
तोषितस्तेन मनसा दक्षं सृष्ट्यै ससर्ज सः ।। ५२ ।।
सृष्टे दक्षेऽथ दशधा प्रणतो मनुना विधिः ।
पुनरेव सुतानन्यान् ससर्ज दश मानसान् ।।५३।।
मरीचिरत्र्यंगिरसौ पुलस्त्यं पुलहं क्रतुम् ।
प्रचेतसं वसिष्ठञ्च भृगुं नारदमेव च ।।५४।।
एतानुत्पाद्य मनसा मनुं स्वायम्भुवं पुनः ।
यूयं सृजध्वमित्युक्त्वा लोकेशोऽन्तर्दधे पुनः ।। ५५ ।।
वराहोऽप्यथ पोत्रेण खनित्वा सप्तसागरान् ।
पृथिव्यां वलयाकारान् ससर्ज परमेश्वरः ॥५६ ॥
सप्तधा भ्रमणेनासौ सृष्ट्वा सप्ताथ सागरान् ।
सप्तद्वीपानवच्छिद्य पृथिव्यन्तं ततो गतः ।।५७।।
लोकालोकाह्वयं शैलं कृत्वा पृथ्व्यास्तु वेष्ठनम् ।
लक्षद्वयोच्छ्रितं मानाद् योजनानां समन्ततः ।
सुदृढं स्थापयामास भित्तिप्रान्ते यथा गृहम् ।।५८।।
आदिसृष्टिरियं विप्राः कथिता भवतां मया ।
प्रतिसर्गमहं वक्ष्ये तच्छृण्वन्तु महर्षयः ।। ५९ ।।
॥ इति श्रीकालिकापुराणे वाराहसर्ग नाम पञ्चविंशोऽध्यायः ॥ २५ ॥
कालिका पुराण हिन्दी अनुवाद पढ़ने के लिए देखें-DP Karmakand