कालिकापुराणम्/अध्यायः १६
कालिकापुराणम् षोडशोऽध्यायः सतीदेहत्यागवर्णनम्
अथ कालिका पुराण अध्याय १६
।। मार्कण्डेय उवाच ।।
विचित्रं कनकैरूप्यैः शिखरं रत्नकर्बुरम् ।
बालार्कसदृशं तुङ्गमाससाद सतीसखः ।।१।।
स्फटिकाश्मालये तस्मिन् फ़शाद्वलद्रुमराजिते ।
विचित्रपुष्पवल्लीभिः सरसीभिश्च संयुते ।
प्रफुल्लतरुशाखाग्रगुञ्ज भ्रमरभूषिते ।।२।।
पंकेरुहैः प्रफुल्लैश्च नीलोत्पलचयैस्तथा ।
शोभिते चक्रवाकौघैः कादम्बैर्हसमद्गुभिः ।।३।।
प्रमत्तसारसैः क्रौञ्चैनीलकण्ठैश्च शब्दिते ।
पुंस्कोकिलकलस्वनैर्मधुरैर्मृगसेविते ।।४।।
तुरङ्गवदनैः सिद्धैरप्सरोभिः सगुह्यकैः ।
विद्याधरीभिर्देवीभिः किन्नरीभिर्विहारिते ।
पुरन्ध्रीभिः पार्वतीभिः कन्याभिश्च समन्विते ॥५॥
विपञ्चीतन्त्रिकामन्द्र मृदङ्गपटहस्वनैः ।
नृत्यद्भिरप्सरोभिश्च कौतुकोत्थैः सुशोभिते ।।६।।
दैवीलताभिर्दिव्याभिर्गन्धिनीभिः समावृते ।
ऊर्द्धप्रफुल्लकुसुमैर्निकुञ्जैरुपशोभिते ।।७।।
शैलराजपुराभ्यासे शिखरे वृषभध्वजः ।
सह सत्या चिरं रेमे एवम्भूते सुशोभने ॥८॥
तस्मिन् स्वर्गसमे स्थाने दिव्यमानेन शङ्करः ।
दश-वर्षसहस्राणि रेमे सत्या समं मुदा ।।९।।
स कदाचित्तु तत्स्थानात् कैलासं याति शङ्करः ।
कदाचिन्मेरुशिखरं देवदेवीवृतं पुरा ।।१०।।
दिक्पालानां तथोद्यानं वनानि वसुधातलम् ।
गत्वा गत्वा पुनस्तत्र रेमे तेभ्यः सतीसखः ।। ११ ।।
न जज्ञौ स दिवारात्रं न ब्रह्म न तपः शमम् ।
सत्याहितमनाः शम्भुः प्रीतिमेव चकार ह ।।१२।।
एकं महादेवमुखं सती पश्यति सर्वशः ।
महादेवोऽपि सर्वत्र सदाद्राक्षीत् सतीमुखम् ।।१३।।
एवमन्योन्यसंसर्गादनुरागमहीरुहम् ।
वर्धयामासतुः शम्भुसत्यौ भावाम्बुसेचनैः ।।१४।।
एतस्मिन्नन्तरे दक्षो जगतां हितकारकः ।
महायज्ञं समारेभे यष्टुं वै सर्वजीवनम् ।।१५।।
अष्टाशीतिसहस्राणि यत्र जुह्वति ऋत्विजः ।
उद्गातारश्चतुःषष्टिसहस्राणि सुरर्षयः ।
अध्वर्यवोऽथ होतारस्तावन्तो नारदादयः ।। १६ ।।
अधिष्ठाता स्वयं विष्णुः सह सर्वमरुद्गणैः ।
स्वयं तत्राभवद् ब्रह्मा त्रयीविधिनिदर्शकः ।।१७।।
तथैव सर्वदिक्पाला द्वारपालाश्च रक्षकाः ।
उपतस्थे स्वयं यज्ञः स्वयं वेदी धराभवत् ।।१८।।
तनूनपादपि निजं चक्रे रूपं सहस्रशः ।
हविषां ग्रहणायाशु तस्मिन् यज्ञमहोत्सवे ।। १९ ।।
आमन्त्र्याशु मरीच्याद्याः पवित्रैकैकधारिणः ।
सर्वत्र सामिधेन्या ते ज्वालयामासुरर्च्चिषम् ।।२०।।
सप्तर्षयः सामगाथा कुर्वन्ति स्म पृथक् पृथक् ।
गान्दिशो विदिशः खञ्च पूरयन्तः श्रुतिस्वरैः ।। २१ ।।
न वृतास्तत्र यागेषु दक्षेण सुमहात्मना ।
न केचिदृषयो देवा न मनुष्या न पक्षिणः ।
नोद्भिदो न तृणं वापि पशवो न मृगास्तथा ।।२२।।
गन्धर्वविद्याधरसिद्धसंघा-नादित्यसाध्यर्षिगणान् सयक्षान् ।
सस्थावरान्नागवरान् समस्तान् वव्रे स दक्षः सुमहाध्वरेषु ।। २३ ।।
कल्प - मन्वन्तरयुग वर्ष मास-दिवा- निशाः ।
कला - काष्ठानिमेषाद्या वृताः सर्वे समागताः ।। २४ ।।
महर्षिराजर्षिसुरर्षिसङ्घा नृपाः सपुत्राः सचिवैः ससैन्यैः ।
वसुप्रमुख्या गणदेवता याः सर्वा वृतास्तेन गता मखं तम् ।। २५ ।।
कीटाः पतङ्गा जलजाश्च सर्वे सवानराः श्वापदविघ्नघोराः ।
मेघाः सशैलाः सनदीसमुद्राः सरांसि वाप्यश्चागता वृतास्ते ।। २६ ।।
सर्वे स्वभागं हविषां जिघृक्षवः क्रतुं प्रजग्मुर्दृढयज्विनस्ते ।
पातालवासा असुराः समागता नागस्त्रियो देवसभा: समस्ताः ।। २७ ।।
जगद्वर्त्यस्ति यत् किञ्चिच्चेतनाचेतनं पुनः ।
सर्व वृत्वा समारेभे यज्ञं सर्वस्वदक्षिणम् ।। २८ ।।
तस्मिन् यज्ञे वृतः शम्भुर्न दक्षेण महात्मना ।
कपालीति विनिश्चित्य तस्य यज्ञार्हता न हि ।। २९ ।।
कपालिभार्येति सती दयितापि सुता निजा ।
नाहूता यज्ञविषये दक्षेण दोषदर्शिना ॥३०॥
श्रुत्वा सती तथा यज्ञं तातेनारब्धमुत्तमम् ।
कपालिभार्येति वृता नाहमित्यपि तत्त्वतः ।। ३१ ।।
उच्चैकोप दक्षाय रक्तनेत्रानना तदा ।
शापेन दक्षं दग्धुं च मनश्चक्रे तदा सती ।। ३२ ।।
कोपाविष्टापि सा पूर्वसमयं स्मृतवत्यमुम् ।
मनसेति विनिश्चित्य न शशाप तदा सती ॥३३॥
अलं शापेन मे पूर्वं सुदृढः समयः कृतः ।
अस्तीति मय्यवज्ञायां प्राणान् मोक्ष्ये ध्रुवं पुनः ॥३४॥
यदा स्तुताहं दक्षेण सुचिरं तनयार्थिना ।
तदैव समयो मेऽयं शापेनालङ्करोमि तम् ।। ३५ ।।
इति सञ्चिन्त्य सा देवी नित्यरूपमथात्मनः ।
सस्मातुलमत्युग्रं निष्कलं तु जगन्मयम् ।। ३६ ।।
पूर्वरूपं स्मरन्ती सा योगनिद्राह्वयं हरेः ।
एवं संचिन्तयामास मनसा दक्षजा तदा ।। ३७।।
ब्रह्मणोदितदक्षेण यदर्थमहमीडिता ।
तत् किञ्चिदपि नो ज्ञातं शङ्करोऽपि न पुत्रवान् ।। ३८ ।।
इदानीमेकमेवाभूत् कार्यं देवगणस्य च ।
यच्छंकरः सानुरागो मत्कृतेऽभूच्च योषिति ।। ३९ ।।
मत्तो नान्या पुनः शम्भो रागं वर्धयितुं पुनः ।
शक्ता न कापि भविता स नान्यां संग्रहीष्यति ॥४०॥
तथाप्यहं तनुं त्यक्षे समयात् पूर्वयोजितात् ।
हिताय जगतां कुर्यां प्रादुर्भावं पुनर्गरौ ।।४१।।
पुरा हिमवतः प्रस्थे रम्ये देवगृहोपमे ।
शम्भुः सार्धं मया रन्तुं सुचिरं प्रीतिसंयुतः ।। ४२ ।।
तत्र या मेनका देवी चार्वङ्गी चरितव्रता ।
सुशीला सा पुरस्त्रीणामुत्तमा पार्वतीगणे ॥४३॥
सा मां मातृवदाचष्ट सर्वकर्मसु नर्मकम् ।
तस्यां मेऽत्यनुरागोऽभूत् सा मे माता भविष्यति ।। ४४ ।।
कन्याभिः पार्वतीभिश्च बाल्यक्रीडामहं चिरम् ।
कृत्वा कृत्वा मेनकायाः करिष्ये मोदमुत्तमम् ॥४५।।
पुनश्चाहं भविष्यामि शम्भोर्जयातिवल्लभा ।
करिष्ये देवकार्याणि तदुपायादसंशयम् ।।४६।।
इति संचिन्तयन्ती सा पुनः कोपसमावृता ।
जज्वाल दक्षतनया दक्षदारुणकर्मणा ।।४७।।
क्रोधरक्तेक्षणा तत्र तनुयष्टिस्तदा सती ।
स्फोटञ्चकार द्वाराणि सर्वाण्यावृत्य योगतः ।।४८ ।।
तेन स्फोटेन महता तस्यास्तु प्राणवायवः ।
निर्भिद्य दशमद्वारमात्मनस्ते बहिर्ययुः ।।४९।।
त्यक्तप्राणान्तु तां दृष्ट्वा देवाः सर्वेऽन्तरिक्षगाः ।
हाहाकारं तदा चक्रुः शोकव्याकुलितेक्षणाः ।।५० ।।
ततस्तु सत्या भगिनीसुता तां द्रष्टुमागता ।
चुक्रोश शोकाद्विजया मृतां दृष्ट्वा सतीं मुहुः ।। ५१ ।।
हा सती क्व गतासीति हा सती तव किन्विदम् ।
हा मातृष्वसरित्युच्चैस्तदा शब्दो महानभूत् ।। ५२ ।।
विप्रियश्रवणादेव प्राणांस्त्यक्तास्त्वया सति ।
अहं कथन्तु जीवामि दृष्ट्वेदृग्विप्रियं दृढम् ।।५३।।
पाणिना वदनं सत्या मार्जयन्ती मुहुर्मुहुः ।
करुणं विलपन्ती स्म मुखं जिघ्रति सा तदा ।। ५४ ।।
सिञ्चन्ती नेत्रजैस्तोयैः सत्याः सा हृदयं मुखम् ।
केशानुल्लास्य पाणिभ्यां वीक्षन्ती वदनं मुहुः ।। ५५ ।।
ऊद्धर्वाधः कम्पितशिरः शोकव्याकुलितेन्द्रिया ।
हृदयं पञ्चशाखाभ्यां विनिहन्ती तथा शिरः ।
इदं च वचनं साश्रुकण्ठा सा विजयाव्रवीत् ।। ५६ ।।
।। विजयोवाच ।।
श्रुत्वा ते मरणं माता वीरिणी शोककर्षिता ।
धारयन्ती कथं प्राणान् सद्यस्त्यक्ष्यति जीवितम् ।।५७।।
स तथा निरनुक्रोशः क्रूरकर्मा पिता तव ।
प्रमृतां भवतीं श्रुत्वा कथं धास्यति जीवितम् ।। ५८ ।।
विचिन्त्य नूनं कर्माणि स्वीयानि भवतीं प्रति ।
कृतानि स नृशंसानि दक्षः शोकाकुलस्तदा ।। ५९ ।।
यज्वा स च ज्ञानहीनः कथं यज्ञे प्रवर्तते ।
निःश्रद्धस्त्यक्त बुद्धिश्च कथं वा स भवेत् क्रतौ ।।६०।।
हा मातर्देहि वचनं रुदन्त्या बालवन्मम ।
भवत्या निर्दया शोकाद्ध्रिये शल्यसमानसून् ।।६१।।
त्वं किं स्मरसि मे शम्भोर्विहितस्य कदाचन ।
तेनामर्षवशं प्राप्ता मातर्मा किन्न भाषसे ।। ६२॥
तदेव वचनं चक्षुर्मुखं सा नासिका तव ।
एतेषां क्व गताः सर्वे विभ्रमा हसितं क्व च ।। ६३ ।।
ननु ते विभ्रमैर्हीनं नेत्रयुग्मं सुनासिकम् ।
स्मितहीनं च वदनं दृष्ट्वा सोढा कथं हरः ।। ६४ ।।
का सुधासम्मितं वाक्यं हराश्रमसमागतान् ।
सुनृर्त त्वामृते मातर्वदिष्यति मुहुर्मुहुः ।।६५।।
श्रद्धावती बान्धवेषु पत्युर्भाववशानुगा ।
सर्वलक्षणसम्पूर्णा त्वत्समा का भविष्यति ।।६६।।
त्वदृते देवि देवेशः शोकोपहतचेतनः ।
दुःखितात्मा निरुत्साहो निश्चेष्टश्च भविष्यति ।। ६७ ।।
एवं लपन्ती भृशदुःखिता सतीं मृतां समीक्ष्यातिशयं शुचाहता ।
पपात भूमौ विजया विरावं वितन्वती चोर्धभुजा प्रवेपती ।। ६८ ।।
॥ इति श्रीकालिकापुराणे सती- देह त्यागो नाम षोडशोऽध्यायः ॥१६॥
कालिका पुराण हिन्दी अनुवाद पढ़ने के लिए देखें-DP Karmakand