सामग्री पर जाएँ

कालिकापुराणम्/अध्यायः १५

विकिस्रोतः तः

कालिकापुराणम् पञ्चदशोऽध्यायः हिमाद्रिनिवासगमनम्
अथ कालिका पुराण अध्याय १५
।। मार्कण्डेय उवाच ।।
कदाचिदथ दक्षस्य तनया जलदागमे ।
जगादाद्रेः शिखरिणः प्रस्थस्थं वृषभध्वजम् ।।१।।
।। सत्युवाच ।।
घनागमोऽयं सम्प्राप्तः कालः परमदुःसहः ।
अनेकवर्णमेघौघस्थगिताम्बरदिक्चयः।।२।।
विवान्ति वाता हृदयं दारयन्तोऽतिवेगिनः ।
कदम्बरजसाधौतपाथोलेशादिवर्षिणः ।।३।।
मेघानां गर्जितैरुच्चैर्धारासारं विमुंचताम् ।
विद्युत्पताकिनान्तीत्रैः क्षुब्धं कस्य न मानसम् ॥४॥
न सूर्यो दृश्यते नापि मेघाच्छन्नो निशापतिः ।
दिवापि रात्रिवद्धाति विरहिव्यत्ययाकरम् ॥५॥
मेघा नैकत्र तिष्ठन्तो ध्वनन्तः पवनेरिताः ।
पतन्त इव लोकानां दृश्यन्ते मूर्धिन शङ्कर ॥६॥
वाताहता महावृक्षा नृत्यन्त इव चाम्बरे ।
दृश्यन्ते हर भीरूणां त्रासकाः कामुकेप्सिताः ।।७।।
स्निग्धनीलाञ्जनश्याममुदिरौघस्य पृष्ठतः ।
वलाकाराजिर्भात्युच्चैर्यमुनापृष्ठफेनवत् ॥८॥
क्षणं क्षणं चञ्चलेयं दृश्यते कालिका गता ।
अम्बुधाविव सन्दीप्तः पावको वडवामुखः ।।९।।
प्ररोहन्ति हि शस्यानि मन्दिरप्रांगणेष्वपि ।
किमन्यत्र विरूपाक्ष शस्योद्भूतिं वदाम्यहम् ।।१०।।
श्यामलै राजतैः ऋक्षैर्विशदोऽयं हिमाचलः ।
मन्दराश्रमवृक्षौघपत्रैर्दुग्धाम्बुधिर्यथा ।। ११ ।।
कुसुमश्रीश्च कुटजं भेजे सास्याथ किंशुकान् ।
उच्चावचां कलौ लक्ष्मीर्यथा सन्त्यज्य सज्जनान् ।। १२ ।।
मयूराः स्तनयित्नूनां शब्देन हर्षिता मुहुः ।
केकायन्ते प्रतिवनं सततं वृष्टिसूचकाः ।।१३।।
मेघोन्मुखानां मधुरचातकानां स्वनो हर ।
श्रूयतामतिमत्तानां वृष्टिसन्निधिसूचकः ।।१४।।
गगने शक्रचापेन कृतं साम्प्रतमास्पदम् ।
धारासार- शरैस्तापं भेत्तुं प्रति यथोद्गतः ।।१५।।
मेघानां पश्य भर्गेह दुर्नयं करकोत्करः ।
यत्ताडयन्त्यनुगतं मयूरं चातकं तथा ।। १६ ।।
शिखिसारंगयोर्दृष्टवा मित्रादपि पराभवम् ।
हंसा गच्छन्ति गिरिश विदूरमपि मानसम् ।।१७।।
एतस्मिन् विषमे काले नीडं काकाश्च कोरकाः ।
कुर्वन्ति त्वं विना गेहात् कथं शान्तिमवाप्स्यसि ।।१८।।
महती बाधते भीतिर्मा मेघोत्था पिनाकधृक् ।
यतस्व तस्माद्वासाय मा चिरं वचनान्मम ।।१९।।
कैलासे वा हिमाद्रौ वा महाकौष्यामथ क्षितौ ।
तवोपयोग्यं त्वं वासं कुरुष्व वृषभध्वज ।।२०।।
एवमुक्तस्तदा शम्भुर्दाक्षायण्या तया सकृत् ।
इषज्जहास शीर्षस्थचन्द्ररश्मिसिताननः ।। २१ ।।
अथोवाच सतीं देवीं स्मितभिन्नोष्ठसम्पुटः ।
महात्मा सर्वतत्त्वज्ञस्तोषयन् परमेश्वरीम् ।।२२।।
।। ईश्वर उवाच ।।
यत्र प्रीत्यै मया कार्यो वासस्तव मनोहरे ।
मेघास्तत्र न गन्तारः कदाचिदपि मत्प्रिये ।। २३ ।।
मेघा नितम्बपर्यन्तं सञ्चरन्ति महीभृतः ।
सदा प्रालेयधाम्नस्तु वर्षास्वपि मनोहरे ।। २४ ।।
कैलासस्य तथा देवी यावदामेखलं घनाः ।
सञ्चरन्ति न गच्छन्ति तस्मादूर्ध्वं कदाचन ।। २५ ।।
सुमेरोर्वारिधेरूर्ध्वं न गच्छन्ति वलाहकाः ।
जानुमूलं समासाद्य पुष्करावर्तकादयः ।।२६।।
एतेषु च गिरीन्द्रेषु यस्योपरि तवेहते ।
मनः प्रिये निवासाय तमाचक्ष्व द्रुतं मयि ।। २७ ।।
स्वेच्छाविहारैस्तव कौतुकानि सुवर्णपक्षानिलवृन्दवृन्दैः ।
शकुन्तवर्गैर्मधुरस्वनैस्ते सदोपदेयानि गिरौ हिमोत्थे ।। २८ ।।
सिद्धांगनास्ते सखितां सनातनी-मिच्छन्त्य एवोपकृतिं सकौतुकाम् ।
स्वेच्छाविहारैर्मणिकुट्टिमे गिरौ कुर्वन्त्य एष्यन्ति फलादिदानकैः ।। २९ ।।
या देवकन्या गिरिकन्यकाश्च या नागकन्याश्चतुरङ्गमुख्यः ।
सर्वास्तु तास्ते सततं सहायतां समाचरिष्यन्त्यनुमोदविभ्रमैः ।।३०।।
रूपं तवेदमतुलं वदनं सुचारु दृष्टवाङ्गना निजवपुर्निजकान्तिसङ्घम् ।
हेलां निजे वपुषि रूपगुणेषु नित्यं कर्तार इत्यनिमिषेक्षणचारुरूपाः ।। ३१ ।।
या मेनका पर्वतराजजाया रूपैर्गुणैः ख्यातवती त्रिलोके ।
सा चापि ते तत्र मनोनुमोदं नित्यं करिष्यत्यथ सूचनाद्यैः ।।३२।।
पुरन्ध्रिवर्गैगिरिराजवन्द्यैः प्रीतिं वितन्वद्भिरुदाररूपाम् ।
शिक्षा सदा ते स्वकुलोचितापि कार्याम्यहं प्रीतियुता गुणौघैः ।।३३।।
विचित्रकोकिलालापमोदकुञ्जगणावृतम् ।
सदा वसन्तप्रभवं गन्तुमिच्छसि किं प्रिये ॥३४॥
सर्वकामप्रदैर्वृक्षैः शाद्वलैः कल्पसंज्ञकैः ।
सञ्छन्नं यस्य कुसुमान्युपयोक्ष्यसि तत्र वै ।। ३५ ।।
प्रशान्तश्वापदगणं मुनिभिर्यतिभिर्वृतम् ।
देवालयं महाभागे नानामृगगणैर्वृतम् ।।३६।।
स्फटिकस्वर्णवप्राद्यैः राजतैश्च विराजितम् ।
मानसादिसरोवर्गैरभितः परिशोभितम् ।। ३७।।
हिरण्मयैः रत्ननालैः पङ्कजैर्मुकुलैर्वृतम् ।
शिशुमारैस्तथा शङ्खै: कच्छपैर्मकरैर्झषैः ।
निषेवितैमंजुलैश्च तथानीलोत्पलादिभिः ।। ३८ ।।
देवीशतस्नानसक्तसर्वगन्धैश्च कुंकुमैः ।
विचित्रस्रग्गन्धजलैरापूर्णैः स्वच्छकान्तिभिः ।।३९।।
शाद्वलैस्तरुभिस्तुंगैस्तीरस्थैरुपशोभितैः I
नृत्यद्भिरिव शाखौघैर्व्यजयन्तं स्वसम्भवम् ॥४० ।।
कादम्बैः सारसैर्मत्त- चक्रांगग्रामशोभितैः ।
मधुराराविभिर्मोदकारिभिर्भ्रमरादिभिः ।। ४१ ।।
वासवस्य कुबेरस्य यमस्य वरुणस्य च ।
अग्नेः कौणपराजस्य मारुतस्य हरस्य च ।।४२।।
पुरीभिः शोभिशिखरं मेरुमुच्चैः सुरालयम् ।
रम्भाशचीमेनकादिरम्भोरुगणसेवितम् ।
किंत्वमिच्छसि सर्वेषां सारभूतं महागिरिम् ॥४३॥
तत्र देवीशतयुता साप्सरोगण - सेविता ।
नित्यं चरिष्यति शची तव योग्यां सहायताम् ।।४४ ।।
अथवा मम कैलासमचलेन्द्रं सदाश्रयम् ।
स्थानमिच्छसि वित्तेशपुरीपरिविराजितम् ।। ४५ ।।
गङ्गाजलौघप्रयतं पूर्णचन्द्रसमप्रभम् ।
दरीषु सानुषु सदा यक्षकन्याभिरीहितम् ।।४६ ।।
नानामृगगणैर्जुष्टं पद्माकरशतावृतम् ।
सर्वेर्गुणैश्च सदृशं सुमेरोरिव सुन्दरि ।।४७।।
स्थानेष्वेतेषु यत्रास्ति तवान्तःकरणस्पृहा ।
तद्द्रुतं मे समाचक्ष्व वासं कर्तास्मि तत्र ते ।।४८ ।।
।। मार्कण्डेय उवाच ।।
इतीरिते शङ्करेण तदा दाक्षायणी शनैः ।
इदमाह महादेवं श्लक्ष्णं स्वेच्छाप्रकाशकम् ।।४९।।
।। सत्युवाच ।।
हिमाद्रावेव वसतिमहमिच्छे त्वया सह ।
नचिरात् कुरुवासं त्वं तस्मिन्नेव महागिरौ ।। ५० ।।
।। मार्कण्डेय उवाच ।।
अथ तद्वाक्यमाकर्ण्य हर: परममोदितः ।
हिमाद्रिशिखरं तुङ्गं दाक्षायण्या समं ययौ ।।५१ ।।
सिद्धाङ्गनागणैर्युक्तमगम्यं मेघपक्षिभिः ।
जगाम शिखरं तुङ्गं मरीचवनराजितम् ।।५२।।
॥ इति श्रीकालिकापुराणे हिमाद्रिनिवास गमनं नाम पञ्चदशोऽध्यायः ॥ १५ ॥
कालिका पुराण हिन्दी अनुवाद पढ़ने के लिए देखें-DP Karmakand