कालिकापुराणम्/अध्यायः १३

विकिस्रोतः तः

कालिकापुराणम् त्रयोदशोऽध्यायः हरकोपोपशमनम्
कालिकापुराण तेरहवाँ अध्याय -हर कोप शमन
अथ कालिका पुराण अध्याय १३
।। मार्कण्डेय उवाच ।।
ततो ब्रह्माण्डसंस्थानं दर्शयामास शम्भवे ।
ववृधे तोयराशिस्थं ब्रह्माण्डञ्च यथापुरा ।। १ ।।
तन्मध्ये पद्मगर्भाभं ब्रह्माणञ्च जगत्पतिम् ।
ज्योतिरूपं प्रकाशार्थं सृष्ट्यर्थञ्च पृथग्गतम् ।।२।।
शरीरिणञ्च ददृशे ब्रह्माण्डान्तर्गतं मुहुः ।
चतुर्भुजं प्रकाशान्तं ज्योतिर्भिः कमलासनम् ॥३॥
तत्रैव च त्रिधाभूतं वपुर्ब्राह्मयं ददर्श सः ।
ऊर्ध्वमध्यान्तभागैश्च ब्रह्मविष्णुशिवात्मकम् ।।४।।
थोर्धभागो वपुषो ब्रह्मत्वमगमत्तदा ।
मध्यं यथा विष्णुभूतं ददर्शान्तस्य शम्भुताम् ।।५।।
एकमेव शरीरन्तु त्रिधाभूतं मुहुर्मुहुः ।
हरो ददर्श स्वे गर्भे तथा सर्वमिदं जगत् ॥ ६ ॥
कदाचिद्वैष्णवं कायं ब्राह्ये काये लयं व्रजेत् ।
ब्राह्यं तथा वैष्णवे च शाम्भवे वैष्णवं तथा ।।७।।
शाम्भवं वैष्णवे काये ब्राह्मं वाप्यथ शाम्भवे ।
गच्छन्तं लीनतां शम्भुरेकताञ्च मुहुर्मुहुः ॥८॥
ददर्श वामदेवोऽपि भिन्नञ्चाप्यपृथग्गतम् ।
परमात्मनि गच्छन्तं लीनतां तद्वपुः स्वयम् ।।९।।
तन्मध्ये पृथिवीं शम्भुर्ददर्श विततां जले ।
महापर्वतसङ्घातैर्विरलं स्थगितन्ततः ।। १० ॥
पुनर्ददर्श ब्रह्माणं कुर्वन्तं स्वर्गमादितः ।
आत्मानञ्च पृथग्भूतं विष्णुञ्च गरुडासनम् ।।११।।
दक्षं प्रजापतिं तत्र तथैव च निजान् गणान् ।
मरीच्यादीन् दश तथा वीरिणीञ्च तथा सतीम् ।।१२।।
सन्ध्यां रतिं च कन्दर्पं शृङ्गारं सवसन्तकम् ।
हावान् भावांस्तथा मारान् ऋषीन् देवान् मरुद्गणान् ।।१३।।
मेघाँश्च चन्द्रं सूर्यञ्च वृक्षान् वल्लीस्तृणानि च ।
सिद्धान् विद्याधरान् यक्षान् राक्षसान् किन्नरांस्तथा ।।१४।।
मानुषांश्च भुजंगांश्च ग्राहान्मत्स्यांश्च कच्छपान् ।
उल्कानिर्घातकेतूंश्च कृमिकीटपतङ्गकान् ।। १५ ।।
काञ्चिद्ददर्श वनितां द्वन्द्वभावं प्रकुर्वतीम् ।
उत्पन्नमुत्पद्यन्तंच विपद्यन्तञ्च कञ्चन ।।१६।
हसतो रमतः कांश्चित् कांश्चिद्विलपतस्तथा ।
धावतश्चापराञ्छम्भोर्ददर्श परमेश्वरः ।।१७।।
दिव्यालङ्कारसंछन्ना माला चन्दनचच्चिताः ।
वीक्षाञ्च चक्रिरे केचिच्छम्भुना क्रीडिता मुहुः ।। १८ ।।
स्तुवन्तः प्रस्तुवन्तश्च शम्भुं विष्णुं तथा विधिम् ।
केचिद्ददृशिरे तेन मुनयश्च तपोधनाः ।। १९ ।।
तपांसि चरतः केचिन्नदीतीरे तपोवने ।
स्वाध्यायवेदनिरताः पाठ्यन्तश्चैव केचन ॥२०॥
तथैव सागराः सप्त नद्यो देवसरांसि च ।
तथैव पर्वतस्थोऽसौ ददृशे शम्भुना स्वयम् ।। २१ ।।
मायालक्ष्मीस्वरूपेण हरिं सन्मोहयत्यलम् ।
सतीरूपां तथात्मानं मोहयन्तीति शङ्करः ।।२२।।
सत्या सार्धं स्वयं रेमे कैलासे मेरुपर्वते ।
मन्दरे देवविपिने शृङ्गाररससेविते ।। २३ ।।
सतीदेहं तथा त्यक्त्वा जाता हिमवतः सुता ।
यथा प्राप पुनस्तान्तु यथा चैवान्धको हतः ।। २४ ।।
कार्तिकेयः समुत्पन्नो यथाहंस्तारकाह्वयम् ।
तत्सर्वं विस्तरात् सम्यग् ददर्श वृषभध्वजः ।। २५ ।।
हिरण्यकशिपुर्जघ्ने नरसिंहस्वरूपिणा ।
यथा हतः कालनेमिहिरण्याक्षो यथा हतः ।। २६ ।।
विष्णुना यादृशं युद्धं दानवौघैः पुराकृतम् ।
यथा ये ये च निहतास्तत्सर्वं दृष्टवान् हरः ।। २७ ।।
जगत्प्रपञ्चान् ब्रह्मादीनक्षत्रग्रहमानुषान् ।
सिद्धविद्याधरादींश्च दृष्ट्वा दृष्ट्वा पृथक् पृथक् ॥२८॥
आत्मानं तान् संहरन्तं ददृशे शम्भुरीश्वरः ।
संहारान्ते ददर्शासौ ब्रह्मविष्णुमहेश्वरान् ।। २९ ।।
शून्यं समभवत्सर्वं जगदेतच्चराचरम् ।। ३० ।।
शून्ये जगति सर्वस्मिन् ब्रह्मा विष्णुशरीरगः ।
लीनः शम्भुश्च तस्यैव शरीरं प्रविवेश ह ।। ३१ ।।
एकमेवं ददर्शासौ विष्णुमव्यक्तरूपिणम् ।
नान्यत्किंचिद्ददर्शासौ तदा विष्णुमृते हरः ।।३२।।
अथ विष्णुश्च ददृशे लयं तं परमात्मनि ।
भासमानं परं तत्त्वे ज्योतीरूपे सनातने ।। ३३ ।।
ततो ज्ञानमयं नित्यमानन्दं ब्रह्मणः परम् ।
केवलं ज्ञानगम्यञ्च ददर्शान्यन्न किञ्चन ।। ३४ ।।
एकत्वञ्च पृथक्त्वञ्च जगतः परमात्मनि ।
ददर्श स्वशरीरान्तः सर्गस्थित्यन्तसंयमान् ।। ३५ ।।
प्रकाशं परमात्मानं शान्तं नित्यमतीन्द्रियम् ।
एकमेवाद्वयं ब्रह्म ददर्शान्यन्न किञ्चन ॥३६॥
को वा विष्णुर्हरः को वा को ब्रह्मा किमिदं जगत् ।
इति भेदो न जगृहे शम्भुना परमात्मनः ।। ३७।।
एवं सम्पश्यतस्तस्य शरीराभ्यन्तराद्वहिः ।
निः ससाराथ मायादि प्रविवेश वृषध्वजम् ॥३८॥
अनन्यत्वं पृथक्त्वञ्च दर्शयित्वा जनार्दनः ।
शम्भवे तच्छरीरात्तु बहिर्भूतस्ततो द्रुतम् ।। ३९ ।।
अथ त्यक्तसमाधेस्तु हरस्य चलितात्मनः ।
सतीं मनो जगामाशु मोहितस्य च मायया ।। ४० ।।
ततो मुहुर्हरो वक्त्रं दाक्षायण्या मनोहरम् ।
प्रबुद्धकमलाकारं वीक्षांचक्रे द्विजोत्तमाः ।। ४१ ।।
ततो दक्षमरीच्यादीन् स्वगणान् कमलासनम् ।
विष्णुञ्च तत्र संवीक्ष्य शङ्करो विस्मितोऽभवत् ।।४२।।
अथ तं विस्मयाविष्टं महादेवं वृषभध्वजम् ।
स्मितप्रफुल्लवदनं हरमाह जनार्दनः ।।४३।
।। श्रीभगवानुवाच ।।
यद्यत् पृष्टं त्वयैकत्वे भिन्नतायाञ्च शङ्कर ।
त्रयाणामथ देवानां तज्ज्ञातमधुना त्वया ॥४४॥
प्रकृतिः पुरुषश्चैव कालो माया निजान्तरे ।
त्वया ज्ञाता महादेव कीदृशास्ते च के पुनः ।। ४५ ।।
एकं ब्रह्म सदा शान्तं नित्यञ्च परमं महत् ।
तत् कथं भिन्नतां जातं दृष्टं तत् कीदृशं त्वया ।। ४६ ।।
।। मार्कण्डेय उवाच ।।
इति पृष्टो भगवता भगवान् वृषभध्वजः ।
जगाद हरये तथ्यमेतद्वाक्यं द्विजोत्तमाः ।। ४७ ।।
।। ईश्वर उवाच ।।
एकं शिवं शान्तमनन्तमच्युतं ब्रह्मास्ति तस्मान्नहि किञ्चिदीदृशम् ।
तस्मादभिन्नं सकलं जगद्धरे: कालादिरूपाणि च सृष्टिहेतुः ।।४८।।
समस्त भूतप्रभवं निरञ्जनं वयञ्च तस्यैव सदांशरूपिणः ।
सृष्टिस्थितिं संयमनं तदीरितं रूपत्रयं तस्य विभाति भेदतः ।। ४९ ।।
नाहं न च त्वं न हिरण्यगर्भो न कालरूपं प्रकृतिं न चान्यत् ।
तत् प्रेरणां कर्तुमलं च किञ्चिद्विनापि रूपं सदपीह तस्य ।। ५० ।।
।। श्रीभगवानुवाच ।।
इति तत्त्वं त्वया प्रोक्तं ज्ञातञ्च वृषभध्वज ।
तदंशभूतास्तु वयं ब्रह्मविष्णुपिनाकिनः ।। ५१ ।।
तस्मात् त्वया न वध्योऽयं विरिञ्चिस्तव चेद्भवेत् ।
एकता विदिता शम्भो ब्रह्मविष्णुपिनाकिनाम् ।। ५२ ।।
।। मार्कण्डेय उवाच ।।
इति तस्य वचः श्रुत्वा विष्णोरमिततेजसः ।
न जघान महादेवो विधिं दृष्ट्वाथ चैकताम् ।।५३ ।।
इति वः कथितं विष्णुर्यथानन्यत्वमादिशत् ।
शम्भवे प्रस्तुतं तद्वः कथयामि पुनर्द्विजाः ।।५४।।
॥ इति श्रीकालिकापुराणे हरकोपोपशमनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥
कालिका पुराण हिन्दी अनुवाद पढ़ने के लिए देखें-DP Karmakand