सामग्री पर जाएँ

कामसूत्रम्/अधिकरणम् ६/अध्यायः ६

विकिस्रोतः तः
← अध्यायः ५ कामसूत्रम्
अध्यायः ६
वात्स्यायन:
अधिकरणम् ७/अध्यायः १ →

अर्थानाचर्यमाणाननःअर्था अप्यनूद्भवन्त्यनुबन्धाः संशयाश्च((१७६)). ॥ ६.६.१ ॥

ते बुद्धिदौर्बल्यादतिःरागादत्यःअभिमानादतिःदम्भादत्यःआर्जवादतिःविश्वासादतिःक्रोधात्प्रमादात्साहसाद्दैवयोगाच्च स्युः. ॥ ६.६.२ ॥

तेषां फलं कृतस्य व्ययस्य निषःफलत्वं अनःआयतिरागमिष्यतोऽर्थस्य निवर्तनं आप्तस्य निष्क्रमणं पारुष्यस्य प्राप्तिर्गम्यता शरीरस्य प्रघातः केशानां छेदनं पातनं अङ्गवैकल्यापत्तिः. ॥ ६.६.३ ॥

तस्मात्तानादित एव परिजिहीर्षेदर्थभूयिष्ठांश्चोपेक्षेत. ॥ ६.६.४ ॥

अर्थो धर्मः काम इत्यर्थत्रिवर्गः. ॥ ६.६.५ ॥

अनःअर्थोऽःधर्मो द्वेष इत्यनःअर्थत्रिवर्गः. ॥ ६.६.६ ॥

तेष्वाचर्यमाणेष्वन्यस्यापि निष्पत्तिरनुबन्धः. ॥ ६.६.७ ॥

संदिग्धायां तु फलप्राप्तौ स्याद्वा न वेति शुद्धसंशयः. ॥ ६.६.८ ॥

इदं वा स्यादिदं वेति संकीर्णः. ॥ ६.६.९ ॥

एकस्मिन्क्रियमाणे कार्ये कार्यद्वयस्योत्पत्तिरुभयतोःयोगः. ॥ ६.६.१० ॥

समन्तादुत्पत्तिः समन्ततोःयोग इति तानुदाहरिष्यामः. ॥ ६.६.११ ॥

विचारितरूपोऽर्थत्रिवर्गः. तद्विपरीत एवानःअर्थत्रिवर्गः. ॥ ६.६.१२ ॥

यस्योत्तमस्याभिगमने प्रत्यःअक्षतोऽर्थलाभो ग्रहणीयत्वं आयतिरागमः प्रार्थनीयत्वं चान्येषां स्यात्सोऽर्थोऽर्थानुबन्धः. ॥ ६.६.१३ ॥

लाभमात्रे कस्य चिदन्यस्य गमनं सोऽर्थो निरःअनुबन्धः. ॥ ६.६.१४ ॥

अन्यार्थपरिग्रहे सक्तादायतिच्छेदनं अर्थस्य निष्क्रमणं लोकविद्विष्टस्य वा नीचस्य गमनं आयतिघ्नं अर्थोऽनःअर्थानुबन्धः. ॥ ६.६.१५ ॥

स्वेन व्ययेन शूरस्य महामात्रस्य प्रभवतो वा लुब्धस्य गमनं निषःफलं अपि व्यसनप्रतीकारार्थं महतश्चार्थघ्नस्य निमित्तस्य प्रशमनं आयतिजननं सोऽनःअर्थोऽर्थानुबन्धः. ॥ ६.६.१६ ॥

कदर्यस्य सुभगमानिनः कृतघ्नस्य वातिःसन्धानशीलस्य स्वैरपि व्ययैस्तथाराधनं अन्ते निषःफलं सोऽनःअर्थो निरःअनुबन्धः. ॥ ६.६.१७ ॥

तस्यैव राजवल्लभस्य क्रौर्यप्रभावाधिकस्य तथैवाराधनं अन्ते निषःफलं निष्कासनं च दोषकरं सोऽनःअर्थोऽनःअर्थानुबन्धः. ॥ ६.६.१८ ॥

एवं धर्मकामयोरप्यनुबन्धान्योजयेत्. ॥ ६.६.१९ ॥

परस्परेण च युक्त्या संकिरेद् ॥ ६.६.२० ॥

चित्यनुबन्धाः((१७७)). ॥ ६.६.२० ॥

परितोषितोऽपि दास्यति न वेत्यर्थसंशयः. ॥ ६.६.२१ ॥

निष्पीडितार्थं अःफलं उत्सृजन्त्या अर्थं अःलभमानाया धर्मः स्यान्न वेति धर्मसंशयः. ॥ ६.६.२२ ॥

अभिप्रेतं उपलभ्य परिचारकं अन्यं वा क्षुद्रं गत्वा काअः स्यान्न वेति कामसंशयः. ॥ ६.६.२३ ॥

प्रभाववान्क्षुद्रोऽनःअभिगतोऽनःअर्थं करिष्यति न वेत्यनःअर्थसंशयः. ॥ ६.६.२४ ॥

अत्यःअन्तनिषःफलः सक्तः परित्यक्तः पितृलोकं यायात्तत्राःधर्मः स्यान्न वेत्यःधर्मसंशयः. ॥ ६.६.२५ ॥

रागस्यापि विवक्षायां अभिप्रेतमनःउपलभ्य विरागः स्यान्न वेति द्वेषसंशयः. ॥ ६.६.२६ ॥

चिति शुद्धसंशयाः. ॥ ६.६.२६ ॥

अथ संकीर्णाः((१७८)). ॥ ६.६.२७ ॥

आगन्तोरःविदितशीलस्य वल्लभसंश्रयस्य प्रभविष्णोर्वा समुपस्थितस्याराधनं अर्थोऽनःअर्थ इति संशयः. ॥ ६.६.२८ ॥

श्रोत्रियस्य ब्रह्मचारिणो दीक्षितस्य व्रतिनो लिङ्गिनो वा मां दृष्ट्वा जातरागस्य मुमूर्षोर्मित्रवाक्यादानृशंस्याच्च गमनं धर्मोऽःधर्म इति संशयः..६.६.३० लोकादेवाःकृतप्रत्ययादःगुणो गुणवान्वेत्यनःअवेक्ष्य गमनं कामो द्वेष इति संशयः. ॥ ६.६.२९ ॥

संकिरेच्च परस्परेण. ॥ ६.६.३१ ॥

चिति संकीर्णसंशयाः. ॥ ६.६.३१ ॥

यत्र परस्याभिगमनेऽर्थः सक्ताच्च संघर्षतः स उभयतोऽर्थः. ॥ ६.६.३२ ॥

यत्र स्वेन व्ययेन निषःफलं अभिगमनं सक्ताच्चाःमर्षिताद्वित्तप्रत्यादानं स उभयतोऽनःअर्थः. ॥ ६.६.३३ ॥

यत्राभिगमनेऽर्थो भविष्यति न वेत्याशङ्का सक्तोऽपि संघर्षाद्दास्यति न वेति स उभयतोऽर्थसंशयः. ॥ ६.६.३४ ॥

यत्राभिगमने व्ययवति पूर्वो विरुद्धः क्रोधादपकारं करिष्यति न वेति सक्तो वामर्षितो दत्तं प्रत्यःआदास्यति न वेति स उभयतोऽनःअर्थसंशयः. ॥ ६.६.३५ ॥

चित्यौद्दालकेरुभयतोयोगाः. ॥ ६.६.३५ ॥

बाभ्रवीयास्तु((१७९)). ॥ ६.६.३६ ॥

यत्राभिगमनेऽर्थोऽनःअभिगमने च सक्तादर्थः स उभयतोःऽर्थः. ॥ ६.६.३७ ॥

यत्राभिगमने निषःफलो व्ययोऽनःअभिगमने च निषःप्रतीकारोऽनःअर्थः स उभयतोःऽनःअर्थः ॥ ६.६.३८ ॥

यत्राभिगमने निरःव्ययो दास्यति न वेति संशयोऽनःअभिगमने सक्तो दास्यति न वेति स उभयतोःऽर्थसंशयः. ॥ ६.६.३९ ॥

यत्राभिगमने व्ययवति पूर्वो विरुद्धः प्रभाववान्प्राप्स्यते न वेति संशयोऽनःअभिगमने च क्रोधादनःअर्थं करिष्यति न वेति स उभयतोःऽनःअर्थसंशयः. ॥ ६.६.४० ॥

एतेषां एव व्यतिकरेऽन्यतोऽर्थोऽन्यतोऽनःअर्थः अन्यतोऽर्थोऽन्यतोऽर्थसंशयः अन्यतोऽर्थोऽन्यतोऽनःअर्थसंशयः. ॥ ६.६.४१ ॥

चिति षट्संकीर्णयोगाः. ॥ ६.६.४१ ॥

तेषु सहायैः सह विमृश्य यतोऽर्थभूयिष्ठोऽर्थसंशयो गुरुरनःअर्थप्रशमो वा ततः प्रवर्तेत. ॥ ६.६.४२ ॥

एवं धर्मकामावप्यनयैव युक्त्योदाहरेत्((१८०)). संकिरेच्च परस्परेण व्यतिषञ्जयेच्च ॥ ६.६.४३ ॥

चित्युभयतोःयोगाः. ॥ ६.६.४३ ॥

संभूय च विटाः परिगृह्णान्त्येकां असौ गोष्ठीपरिग्रहः. ॥ ६.६.४४ ॥

सा तेषां इतस्ततः संसृज्यमाना प्रत्यःएकं संघर्षादर्थं निर्वर्तयेत्. ॥ ६.६.४५ ॥

सुःवसन्तकादिषु च योगे यो मे इमं अमुं च संपादयिष्यति तस्याद्य गमिष्यति मे दुहितेति मात्रा वाचयेत्. ॥ ६.६.४६ ॥

तेषां च संघर्षजेऽभिगमने कार्याणि लक्षयेत्. ॥ ६.६.४७ ॥

एकतोऽर्थः सर्वतोऽर्थः एकतोऽनःअर्थः सर्वतोऽनःअर्थः. अर्धतोऽर्थः सर्वतोऽर्थः अर्धतोऽनःअर्थः सर्वतोऽनःअर्थः. ॥ ६.६.४८ ॥

चिति समन्ततो योगाः. ॥ ६.६.४८ ॥

अर्थसंशयं अनःअर्थसंशयं च पूर्ववद्योजयेत्. संकिरेच्च तथा धर्मकामावपि. ॥ ६.६.४९ ॥

चित्यर्थानःअर्थानुबन्धसंशयविचाराः((१८१)). ॥ ६.६.४९ ॥

कुम्भदासी परिचारिका कुलटा स्वैरिणी नटी शिल्पकारिका प्रकाशविनष्टा रूपाजीवा गणिका चेति वेष्याविशेषाः. ॥ ६.६.५० ॥

सर्वासां चानुरूपेण गम्याः सहायास्तसुपरञ्जनं अर्थागमोपाया निष्कासनं पुनः संधानं लाभविशेषानुबन्धा अर्थानःअर्थानुबन्धसंशयविचाराश्च ॥ ६.६.५१ ॥



  1. ५८ इति वैशिकम्((१८२)). ॥

भवतश्चात्र श्लोकौ ॥ ६.६.५२ ॥

व्रत्यर्थाः पुरुषा येन रत्यर्थाश्चैव योषितः. शास्त्रस्यार्थप्रधानत्वात्तेन योगोऽत्र योषिताम्.. ॥ ६.६.५२ ॥

व्सन्ति रागपरा नार्यः सन्ति चार्थपरा अपि. प्राक्तत्र वर्णितो रागो वेश्यायोगाश्च वैशिके((१८३)).. ॥ ६.६.५३ ॥

चिति श्री वात्स्यायनीये कामसूत्रे वैशिके षष्ठेऽधिकरणेऽथानःअर्थानुबन्धसंशयविचारा वेश्याविशेषाश्च षष्ठोऽध्यायः..लिव्रे ७ औपनिषदिकं नाम सप्तमं अधिकरणम् ॥ ६.६ ॥