कामसूत्रम्/अधिकरणम् ३/अध्यायः ५
← अध्यायः ४ | कामसूत्रम् अध्यायः ५ वात्स्यायन: |
अधिकरणम् ४, अध्यायः १ → |
प्राचुर्येण((९५)) कन्याया विविक्तदर्शनस्यालाभे धात्रेयिकां प्रियहिताभ्यां उपगृह्योपसर्पेत्. ॥ ३.५.१ ॥
सा चैनां अःविदिता नाम नायकस्य भूत्वा तद्गुणैरनुरञ्जयेत्. तस्याश्च रुच्यान्नायकगुणान्भूयिष्ठं उपवर्णयेत्. ॥ ३.५.२ ॥
अन्येषां वरयितॄणां दोषानभिप्रायविरुद्धान्प्रतिपादयेत्.. ॥ ३.५.३ ॥
मातापित्रोश्च गुणानःअभिज्ञतां लुब्धतां च चपलतां च बान्धवानाम्. ॥ ३.५.४ ॥
याश्चान्या अपि समानजातीयाः कन्याः शकुन्तलाद्याः स्वबुद्ध्या भर्तारं प्राप्य संप्रयुक्ता मोदन्ते स्म((९६)) ताश्चास्या निदर्शयेत्. ॥ ३.५.५ ॥
महाकुलेषु सापत्नकैर्बाध्यमाना विद्विष्टाः दुःखिताः परित्यक्ताश्च दृश्यन्ते. ॥ ३.५.६ ॥
आयतिं चास्य वर्णयेत्. ॥ ३.५.७ ॥
सुखं अनःउपहतं एकचारितायां नायकानुरागं च वर्णयेत्. ॥ ३.५.८ ॥
सःमनोरथायाश्चास्या अपायं साध्वसं व्रीडां च हेतुभिरवच्छिन्द्यात्. ॥ ३.५.९ ॥
दूतीकल्पं च सकलं आचरेत्((९७)). ॥ ३.५.१० ॥
त्वां अःजानतीं इव नायको बलाद्ग्रहीष्यतीति तथा सुःपरिगृहीतं स्यादिति योजयेत्. ॥ ३.५.११ ॥
प्रतिपन्नां अभिप्रेतावकाशवर्तिनीं नायकः श्रोत्रियागारादग्निं आनय्य कुशानास्तीर्य यथास्मृति हुत्वा च त्रिः परिक्रमेत्. ॥ ३.५.१२ ॥
ततो मातरि पितरि च प्रकाशयेत्. ॥ ३.५.१३ ॥
अग्निसाक्षिका हि विवाहा न निवर्तन्त इत्याचार्यसमयः. ॥ ३.५.१४ ॥
दूषयित्वा चैनां शनैः स्वजने प्रकाशयेत्. ॥ ३.५.१५ ॥
तद्बान्धवाश्च यथा कुलस्याघं परिहरन्तो दण्डभयाच्((९८)) च तस्मा एवैनां दद्युस्तथा योजयेत्. ॥ ३.५.१६ ॥
अनःअन्तरं च प्रीत्युपग्रहेण रागेण तद्बान्धवान्प्रीणयेद्((९९)) इति. ॥ ३.५.१७ ॥
गान्धर्वेण विवाहेन वा चेष्टेत. ॥ ३.५.१८ ॥
अःप्रतिपद्यमानायां अन्तश्चारिणीं अन्यां कुलप्रमदां पूर्व संसृष्टां प्रीयमाणां चोपगृह्य तया सह विषह्यं अवकाशं एनां अन्यकार्यापदेशेनानाययेत्. ॥ ३.५.१९ ॥
ततः श्रोत्रियागारादग्निं इति समानं पूर्वेण((१००)). ॥ ३.५.२० ॥
आसन्ने च विवाहे मातरं अस्यास्तदभिमतदोषैरनुशयं((१०१)) ग्राहयेत्. ॥ ३.५.२१ ॥
ततस्तदनुमतेन प्रातिवेश्याभावने((१०२)) निशि नायकं आनाय्य श्रोत्रियागारादग्निं इति सम्~आनं पूर्वेण. ॥ ३.५.२२ ॥
भ्रातरं अस्या वा समानवयसं वेश्यासु परस्त्रीषु वा प्रसक्तं अःसुकरेण साहाय्यदानेन प्रियोपग्रहश्च सुःदीर्घकालं अनुरञ्जयेत्. अन्ते च स्वाभिप्रायं ग्राहयेत्. ॥ ३.५.२३ ॥
प्रायेण हि युवानः समानशीलव्यसनवयसां वयस्यानां अर्थे जीवितं अपि त्यजन्ति. ततस्तेनैवान्यकार्यात्तां आनाययेत्. विषह्यं सावकाशम्((१०३)) इति समानं पूर्वेण. ॥ ३.५.२४ ॥
अष्टमीचन्द्रिकादिषु च धात्रेयिका मदनीयं एनां पाययित्वा किं चिदात्मनः कार्यं उद्दिश्य नायकस्य विषह्यं देशं आनयेत्. तत्रैनां मदात्संज्ञां अःप्रतिपद्यमानां दूषयित्वेति समानं पूर्वेण. ॥ ३.५.२५ ॥
सुप्तां चैकचारिणीं धात्रेयिकां वारयित्वा संज्ञां अःप्रतिपद्यमानां दूषयित्वेति समानं पूर्वेण((१०४)). ॥ ३.५.२६ ॥
ग्रामान्तरं उद्यानं वा गच्छन्तीं विदित्वा सुःसंभृतसहायो नायकस्तदा रक्षिणो वित्रास्य हत्वा वा कन्यां अपहरेत्((१०५)). ॥ ३.५.२७ ॥
चिति विवाहयोगाः. ॥ ३.५.२७ ॥
व्पूर्वः पूर्वः प्रधानं स्याद्विवाहो धर्मतः स्थितेः. पूर्वाभावे ततः कार्यो यो य उत्तर उत्तरः.. ॥ ३.५.२८ ॥
व्व्यूढानां हि विवाहानां अनुरागः फलं यतः. मध्यमोऽपि हि सद्योगो गान्धर्वस्तेन पूजितः.. ॥ ३.५.२९ ॥
व्सुखत्वादःबहुक्लेशादपि चावरणादिह. अनुरागात्मकत्वाच्च गान्धर्वः प्रवरो मतः((१०६)).. ॥ ३.५.३० ॥
चिति श्रीवात्स्यायनीये कामसूत्रे कन्यासंप्रयुक्तके तृतीयेऽधिकरणे विवाहयोगाः पञ्चमोऽध्यायः..लिव्रे ४ भार्याधिकारिकं चतुर्थं अधिकरणम्. ॥ ३.५ ॥