सामग्री पर जाएँ

कामसूत्रम्/अधिकरणम् २/अध्यायः १०

विकिस्रोतः तः
← अध्यायः ९ कामसूत्रम्
अध्यायः १०
वात्स्यायन:
अधिकरणम् ३/अध्यायः १ →

नागरकः सह मित्रजनेन परिचारकैश्च कृतपुष्पोपहारे संचारितसुरभिधूपे रत्यावासे प्रसाधिते वासगृहे कृतस्नानप्रसाधनां युक्त्यापीतां स्त्रियं सान्त्वनैः पुनः पानेन चोपक्रमेत्..२.१०.२ दक्षिणतश्चास्या उपवेशनम्. केशहस्ते वस्त्रान्ते नीव्यां इत्यवलम्बनम्. रत्यर्थं सव्येन बाहुनानुद्धतः परिष्वङ्गः. ॥ २.१०.१ ॥

पूर्वप्रकरणसंबद्धैः परिहासानुरागैर्वचोभिरनुवृत्तिः. गूढाश्लीलानां च वस्तूनां समस्यया परिभाषणम्.. ॥ २.१०.३ ॥

सःनृत्तं अःनृतं वा गीतं वादित्रम्. कलासु संकथाः. पुनः पानेनोपच्छन्दनम्. ॥ २.१०.४ ॥

जातानुरागायां कुसुमानुलेपनताम्बूलदानेन च शेषजनविसृष्टिः. विःजने च यथोक्तैरालिङ्गनादिभिरेनां उद्धर्षयेत्. ततो नीवीविश्लेषणादि यथोक्तं उपक्रमेत. ॥ २.१०.५ ॥

इत्ययं रतारम्भः. ॥ २.१०.५ ॥

रतावसानिकं रागं अतिवाह्याःसंस्तुतयोरिव सःव्रीडयोः परस्परं अःपश्यतोः पृथक्पृथगाचारभूमिगमनम्. प्रतिनिवृत्त्य चाःव्रीडायमानयोरुचितदेशोपविष्टयोस्ताम्बूलग्रहणं अच्छीकृतं((४४)) चन्दनं अन्यद्वानुलेपनं तस्या गात्रे स्वयं एव निवेशयेत्. ॥ २.१०.६ ॥

सव्येन बाहुना चैनां परिरभ्य चषकहस्तः((४५)) सान्त्वयन्पाययेत्. जलानुपानं वा खण्डकखाद्यकं अन्यद्वा प्रकृतिसात्म्ययुक्तं उभावप्युपयुञ्जीयाताम्. ॥ २.१०.७ ॥

अच्छरसकयूषम्((४६)) अम्लयवागूं((४७)) भृष्टमांसोपदंशानि((४८)) पानकानि चूतफलानि((४९)) शुष्कमांसं मातुलुङ्गचुक्रकाणि((५०)) सःशर्कराणि((५१)) च यथाःदेशसात्म्यं च. तत्र मधुरं इदं मृदु विशदं इति च विदश्य विदश्य तत्तदुपहारेत्. ॥ २.१०.८ ॥

हर्म्यतलस्थितयोर्वा चन्द्रिकासेवनार्थं आसनम्. तत्रानुकूलाभिः कथाभिरनुवर्तेत. तदङ्कसंलीनायाश्चन्द्रमसं पश्यन्त्या नक्षत्रपङ्क्तिव्यक्तीः करणम्. अरुन्धतीध्रुवसप्तर्षिमालादर्शनं च. ॥ २.१०.९ ॥

चिति रतावसानिकम्. ॥ २.१०.९ ॥

तत्रैतद्भवति. ॥ २.१०.१० ॥

ववसानेऽपि च प्रीतिरुपचारैरुपस्कृता. सःविस्रम्भकथायोगै रतिं जनयते पराम्.. ॥ २.१०.१० ॥

व्परस्परप्रीतिकरैरात्मभावानुवर्तनैः. क्षणात्क्रोधपरावृत्तैः क्षणात्प्रीतिविलोकितैः.. ॥ २.१०.११ ॥

व्हल्लीसकक्रीडनकैर्((५२)) गायनैर्लाटरासकैः. रागलोलार्द्रनयनैश्चन्द्रमण्डलवीक्ष्णैः.. ॥ २.१०.१२ ॥

आद्ये संदर्शने जाते पूर्वं ये स्युर्मनोरथाः. पुनर्वियोगे दुःखं च तस्य सर्वस्य कीर्तनैः.. ॥ २.१०.१३व्१ ॥

कीर्तनान्ते च रागेण परिष्वङ्गैः सःचुम्बनैः. तैस्तैश्च भावैः संयुक्तो यूनो रागो विवर्धते.. ॥ २.१०.१३व्२ ॥



सेच्तिओन्(प्रकरण)२१((५३))



[१]रागवद्[२]आहार्यरागं [३]कृत्रिमरागं [४]व्यवहितरागं [५]पोटारतं [६]खलरतं [७]अःयन्त्रितरतं इति रतविशेषाः. ॥ २.१०.१४ ॥

संदर्शनात्प्रभृत्युभयोरपि प्रवृद्धरागयोः प्रयत्नकृते समागमे प्रवासप्रत्यागमने वा कलहवियोगयोगे तद्[१]रागवत्. ॥ २.१०.१५ ॥

तत्रात्माभिप्रायाद्यावदर्थं च प्रवृत्तिः. ॥ २.१०.१६ ॥

मध्यस्थरागयोरारब्धं यदनुरज्यते तद्[२]आहार्यरागम्. ॥ २.१०.१७ ॥

तत्र चातुःषष्टिकैर्योगैः सात्म्यानुविद्धैः संधुक्ष्य संधुक्ष्य रागं प्रवर्तेत. ॥ २.१०.१८ ॥

तत्कार्यहेतोरन्यत्र सक्तयोर्वा [३]कृत्रिमरागम्. ॥ २.१०.१९ ॥

तत्र समुच्चयेन योगाञ् शास्त्रतः पश्येत्. ॥ २.१०.२० ॥

पुरुशस्तु हृदयप्रियां अन्यां मनसि निधाय व्यवहरेत्. संप्रयोगात्प्रभृति रतिं यावत्. अतस्तद्[४]व्यवहितरागम्. ॥ २.१०.२१ ॥

न्यूनायां कुम्भदास्यां परिचारिकायां वा यावदर्थं संप्रयोगस्तत्[५]पोटारतम्(( ५४)). ॥ २.१०.२२ ॥

तत्रोपचरान्नाद्रियेत. ॥ २.१०.२३ ॥

तथा वेश्याया ग्रामीणेन सह यावदर्थं [६]खलरतम्. ॥ २.१०.२४ ॥

ग्रामव्रजप्रत्यन्तयोषिद्भिश्च नागरस्य. ॥ २.१०.२५ ॥

उत्पन्नविस्रम्भयोश्च परस्परानुकूल्याद्[७]अःयन्त्रितरतम्. ॥ २.१०.२६ ॥

चिति रतानि. ॥ २.१०.२६ ॥



सेच्तिओन्(प्रकरण)२२((५५))



वर्धमाणप्रणया तु नयिका सपत्नीनामग्रहणं तदाश्रयं आलापं वा गोत्रस्खलितं वा न मर्षयेत्. नायकव्यलीकं च. ॥ २.१०.२७ ॥

तत्र सुःभृशः कलहो रुदितं आयासः शिरोरुहाणां अवक्षोदनं((५६)) प्रहणनं आसनाच्छयनाद्वा मह्यां पतनं माल्यभूषणावमोक्षो भूमौ शय्या((५७)) च. ॥ २.१०.२८ ॥

तत्र युक्तरूपेण साम्ना पादपतनेन वा प्रसन्नमनास्तां अनुनयन्नुपक्रम्य शयनं आरोहयेत्..२.१०.३० तस्य च वचनं उत्तरेण योजयन्ती विवृद्धक्रोधा सःकचग्रहं अस्यास्यं उन्नमय्य पादेन बाहौ शिरसि वक्षसि पृष्ठे वा सकृद्द्विस्त्रिर्हन्यात्. द्वारदेशं गच्छेत्. तत्रोपविश्याश्रुकरणं इति. ॥ २.१०.२९ ॥

अतिःक्रुद्धापि तु न द्वारदेशाद्भूयो गच्छेत्. दोषवत्त्वात्. इति दत्तकः. तत्र युक्तितोऽनुन्~ईयमाना प्रसादं आकाङ्क्षेत्. प्रसन्नापि तु सःकषायैर्((५८)) एव वाक्यैरेनं तुदतीव प्रसन्नरतिकाङ्क्षिणी नायकेन परिरभ्येत. ॥ २.१०.३१ ॥

स्वभवनस्था तु निमित्तात्कलहिता तथाःविदचेष्टैव नायकं अभिगच्छेत्. ॥ २.१०.३२ ॥

तत्र पीठमर्दविटविदूषकैर्नायकप्रयुक्तैरुपशमितरोषा तैरेवानिनीता तैः सहैव तद्भवनं अधिगच्छेत्. तत्र च वसेत्. ॥ २.१०.३३ ॥

चिति प्रणयकलहः. ॥ २.१०.३३ ॥

भवन्ति चात्र श्लोकाः. ॥ २.१०.३४ ॥

वेवं एतां चतुःषष्टिं बाभ्रव्येण प्रकीर्तिताम्. प्रयुञ्जानो वरस्त्रीषु सिद्धिं गच्छति नायकः.. ॥ २.१०.३४ ॥

व्ब्रुवन्नपि अन्यशास्त्राणि चतुःषष्टिविवर्जितः. विद्वत्संसदि नात्यःअर्थं कथासु परिपूज्यते.. ॥ २.१०.३५ ॥

व्वर्जितोऽप्यन्यविज्ञानैरेतया यस्त्वलंकृतः. स गोष्ठ्यां नरनारीणां कथास्वग्रं विगाहते((५९)).. ॥ २.१०.३६ ॥

व्विद्वद्भिः पूजितां एनां खलैरपि सुःपूजितम्. पूजितां गणिकासङ्घैर्नन्दिनीं को न पूजयेत्.. ॥ २.१०.३७ ॥

व्नन्दिनी सुःभगा सिद्धा सुःभगंकरणीति च. नारीप्रियेति चाचार्यैः शास्त्रेष्वेषा निरुच्यते.. ॥ २.१०.३८ ॥

व्कन्याभिः परयोषिद्भिर्गणिकाभिश्च भावतः. वीक्ष्यते बहुमानेन चतुःषष्टिविचक्षणः.. ॥ २.१०.३९ ॥

चिति श्रीवात्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे रतारम्भावसानिकं रतविशेषाः प्रणयकलहश्च दशमोऽध्यायः. आदितः पञ्चदशः..लिव्रे ३ कन्यासंप्रयुक्तकं तृतीयं अधिकरणम् ॥ २.१० ॥