कात्यायनस्मृतिः

विकिस्रोतः तः
Jump to navigation Jump to search

कात्यायनस्मृतिसारोद्धारः[सम्पाद्यताम्]

राजगुणाः[सम्पाद्यताम्]

विनीतः शास्त्रसंपन्नः कोशशौर्यसमन्वितः ।
ब्रह्मण्यो दानशीलः स्यात्सत्यधर्मपरो नृपः ।। ००१ ।।

स्तम्भोपतापपैशुन्य चापलक्रोधवर्जितः ।
प्रगल्भः सन्नतोदग्रः संभाषी प्रियदर्शनः ।। ००२ ।।

वश्येन्द्रियं जितात्मानं धृतदण्डं विकारिषु ।
परीक्ष्यकारिणं धीरं अत्यन्तं श्रीर्निषेवते ।। ००३ ।।

राजधर्माः[सम्पाद्यताम्]

शौर्यविद्यार्थबाहुल्यात्प्रभुत्वाच्च विशेषतः ।
सदा चित्तं नरेन्द्राणां मोहं आयाति कारणात् ।। ००४ ।।

तस्माच्चित्तं प्रबोद्धव्यं राजधर्मे सदा द्विजैः ।
पवित्रं परमं पुण्यं स्मृतिवाक्यं न लङ्घयेत् ।। ००५ ।।

वेदध्वनिप्रभावेण देवाः स्वर्गनिवासिनः ।
तेऽपि तत्र प्रमोदन्ते तृप्तास्तु द्विजपूजनात् ।। ००६ ।।

तस्माद्यत्नेन कर्तव्या द्विजपूजा सदा नृपैः ।
तेन भूयोऽपि शक्रत्वं नरेन्द्रत्वं पुनः पुनः ।। ००७ ।।

सुराध्यक्षश्च्युतः स्वर्गान्नृपरूपेण तिष्ठति ।
कर्तव्यं तेन तन्नित्यं येन तत्त्वं समाप्नुयात् ।। ००८ ।।

आत्मीये संस्थिता धर्मे नृपाः शक्रत्वं आप्नुयुः ।
अवीचिवासिनो ये तु व्यपेताचारिणः सदा ।। ००९ ।।

गच्छेत्सम्यगविज्ञाय वशं क्रोधस्य यो नृपः ।
वसेत्स नरके घोरे कल्पार्धं तु न संशयः ।। ०१० ।।

एतैरेव गुणैर्युक्तं अमात्यं कार्यचिन्तकम् ।
ब्राह्मणं तु प्रकुर्वीत नृपभक्तं कुलोद्वहम् ।। ०११ ।।

मन्त्रिणो यत्र सभ्याश्च वैद्याश्च प्रियवादिनः ।
राज्याद्धर्मात्सुखात्तत्र क्षिप्रं हीयेत पार्थिवः ।। ०१२ ।।

न तस्य वचने कोपं एतेषां तु प्रवर्तयेत् ।
यस्मादेतैः सदा वाच्यं न्याय्यं सुपरिनिष्ठितम् ।। ०१३ ।।

यत्र कर्माणि नृपतिः स्वयं पश्यति धर्मतः ।
तत्र साधुसमाचारा निवसेयुः सुखं प्रजाः ।। ०१४ ।।

प्रजानां रक्षणं नित्यं कण्टकानां च शोधनम् ।
द्विजानां पूजनं चैव एतदर्थं कृतो नृपः ।। ०१५ ।।

भूस्वामी तु स्मृतो राजा नान्यद्रव्यस्य सर्वदा ।
तत्फलस्य हि षड्भागं प्राप्नुयान्नान्यथैव तु ।। ०१६ ।।

भूतानां तन्निवासित्वात्स्वामित्वं तेन कीर्तितम् ।
तत्क्रिया बलिषड्भागं शुभाशुभनिमित्तजम् ।। ०१७ ।।

एवं प्रवर्तते यस्तु लोभं त्यक्त्वा नराधिपः ।
तस्य पुत्राः प्रजायन्ते राष्ट्रं कोशश्च वर्धते ।। ०१८ ।।

अन्यायेन हि यो राष्ट्रात्करं दण्डं च पार्थिवः ।
सस्यभागं च शुल्कं चाप्याददीत स पापभाक् ।। ०१९ ।।

अर्थशास्त्रोक्तं उत्सृज्य धर्मशास्त्रोक्तं आव्रजेत् ।। ०२० ।।

दुष्टस्यापि नरेन्द्रस्य तद्राष्ट्रं न विनाशयेत् ।
न प्रजानुमतो यस्मादन्यायेषु प्रवर्तते ।। ०२१ ।।

अक्लेशेनार्थिने यस्तु राजा सम्यङ्निवेदयेत् ।
तत्तारयत्यनन्तं स्याद्धर्मार्थं दानं ईदृशम् ।। ०२२ ।।

न्यायेनाक्रम्य यल्लब्धं रिपुं निर्जित्य पार्थिवैः ।
तच्छुद्धं तत्प्रदेयं तन्नान्यथोपहृतं क्वचित् ।। ०२३ ।।

राजा पुरोहितं कुर्यादुदितं ब्राह्मणं हितम् ।
कृताध्ययनसंपन्नं अलुब्धं सत्यवादिनम् ।। ०२४ ।।

व्यवहारलक्षणादि[सम्पाद्यताम्]

प्रयत्नसाध्ये विच्छिन्ने धर्माख्ये न्यायविस्तरे ।
साध्यमूलस्तु यो वादो व्यवहारः स उच्यते ।। ०२५ ।।

वि नानार्थेऽव संदेहे हरणं हार उच्यते ।
नानासंदेहहरणाद्व्यवहार इति स्मृतः ।। ०२६ ।।

न राजा तु विशित्वेन धनलोभेन वा पुनः ।
स्वयं कार्याणि कुर्वीत नराणां अविवादिनाम् ।। ०२७ ।।

उत्पादयति यो हिंसां देयं वा न प्रयच्छति ।
याचं आनय दौःशील्यादाकृष्योऽसौ नृपाज्ञया ।। ०२८ ।।

द्विपदे साध्यभेदात्तु पदाष्टादशतां गते ।
अष्टादश क्रियाभेदाद्भिन्नान्यष्टसहस्रशः ।। ०२९ ।।

साध्यवादस्य मूलं स्याद्वादिना यन्निवेदितम् ।
देयाप्रदानं हिंसा चेत्युत्थानद्वयं उच्यते ।। ०३० ।।

पूर्वपक्षश्चोत्तरं च प्रत्याकलितं एव च ।
क्रियापादश्च तेनायं चतुष्पात्समुदाहृतः ।। ०३१ ।।

धर्मशास्त्रार्थशास्त्रे तु स्कन्धद्वयं उदाहृतम् ।
जयश्चैवावसायश्च द्वे फले समुदाहृते ।। ०३२ ।।

शास्त्रेण निन्दितं त्वर्थ मुख्यो राज्ञा प्रचोदितः ।
आवेदयति यः पूर्वं स्तोभकः स उदाहृतः ।। ०३३ ।।

नृपेणैव नियुक्तो यः पददोषं अवेक्षितुम् ।
नृपस्य सूचयेज्ज्ञात्वा सूचकः स उदाहृतः ।। ०३४ ।।

धर्मव्यवहारचरित्रराजशासनादीणां बलाबलविचारः[सम्पाद्यताम्]

दोषकारी तु कर्तृत्वं धनस्वामी स्वकं धनम् ।
विवादे प्राप्नुयाद्यत्र धर्मेणैव स निर्णयः ।। ०३५ ।।

स्मृतिशास्त्रं तु यत्किंचित्प्रथितं धर्मसाधकैः ।
कार्याणां निर्णयार्थे तु व्यवहारः स्मृतो हि सः ।। ०३६ ।।

यद्यदाचर्यते येन धर्म्यं वाधर्म्यं एव वा ।
देशस्याचरणान्नित्यं चरित्रं तत्प्रकीर्तितम् ।। ०३७ ।।

न्यायशास्त्राविरोधेन देशदृष्टेस्तथैव च ।
यं धर्मं स्थापयेद्राजा न्याय्यं तद्राजशासनम् ।। ०३८ ।।

युक्तियुक्तं तु कार्यं स्याद्दिव्यं यत्र विवर्जितम् ।
धर्मस्तु व्यवहारेण बाध्यते तत्र नान्यथा ।। ०३९ ।।

प्रतिलोमप्रसूतेषु तथा दुर्गनिवासिषु ।
विरुद्धं नियतं प्राहुस्तं धर्मं न विचालयेत् ।। ०४० ।।

निर्णयं तु यदा कुर्यात्तेन धर्मेण पार्थिवः ।
व्यवहारश्चरित्रेण तदा तेनैव बाध्यते ।। ०४१ ।।

विरुद्धं न्यायतो यत्तु चरित्रं कल्प्यते नृपैः ।
एवं तत्र निरस्येत चरित्रं तु नृपाज्ञया ।। ०४२ ।।

अनेन विधिना युक्तं बाधकं यद्यदुत्तरम् ।
अन्यथाबाधनं यत्र तत्र धर्मो विहन्यते ।। ०४३ ।।

अस्वर्ग्या लोकनाशाय परानीकभयावहा ।
आयुर्बीजहरी राज्ञां सति वाक्ये स्वयं कृतिः ।। ०४४ ।।

तस्माच्छास्त्रानुसारेण राजा कार्याणि साधयेत् ।
वाक्याभावे तु सर्वेषां देशदृष्टेन सन्नयेत् ।। ०४५ ।।

यस्य देशस्य यो धर्मः प्रवृत्तः सार्वकालिकः ।
श्रुतिस्मृत्यविरोधेन देशदृष्टः स उच्यते ।। ०४६ ।।

देशपत्तनगोष्ठेषु पुरग्रामेषु वासिनाम् ।
तेषां स्वसमयैर्धर्म शास्त्रतोऽन्येषु तैः सह ।। ०४७ ।।

देशस्यानुमतेनैव व्यवस्था या निरूपिता ।
लिखिता तु सदा धार्या मुद्रिता राजं उद्रया ।। ०४८ ।।

शास्त्रवद्यत्नतो रक्ष्या तां निरीक्ष्य विनिर्णयेत् ।
नैगमस्थैस्तु यत्कार्यं लिखितं यद्व्यवस्थितम् ।। ०४९ ।।

तस्मात्तत्संप्रवर्तेत नान्यथैव प्रवर्तयेत् ।
प्रमाणदेशदृष्टं तु यदेवं इति निश्चितम् ।। ०५० ।।

अप्र्वृत्तं कृतं यत्र श्रुतिस्मृत्यनुमोदितम् ।
नान्यथा तत्पुनः कार्यं न्यायापेतं विवर्जयेत् ।। ०५१ ।।

धर्माधिकरणम्[सम्पाद्यताम्]

धर्मशास्त्रविचारेण मूलसारविवेचनम् ।
यत्राधिक्रियते स्थाने धर्माधिकरणं हि तत् ।। ०५२ ।।

प्रातरुत्थाय नृपतिः शौचं कृत्वा समाहितः ।
गुरुं ज्योतिर्विदं वैद्यान्देवान्विप्रान्पुरोहितान् ।। ०५३ ।।

यथार्हं एतान्संपूज्य सुपुष्पाभरणाम्बरैः ।
अभिवन्द्य च गुर्वादीन्सुमुखां प्रविशेत्सभाम् ।। ०५४ ।।

विनीतवेषो नृपतिः सभां गत्वा समाहितः ।
आसीनः प्राङ्मुखः स्थित्वा पश्येत्कार्याणि कार्यिणाम् ।
सह त्रैविद्यवृद्धैश्च मन्त्रज्ञैश्चैव मन्त्रिभिः ।। ०५५ ।।

सप्राड्विवाकः सामात्यः सब्राह्मणपुरोहितः ।
ससभ्यः प्रेक्षको राजा स्वर्गे तिष्ठति धर्मतः ।। ०५६ ।।

सह सभ्यैः स्थिरैर्युक्तैः प्राज्ञैर्मौलैर्द्विजोत्तमैः ।
धर्मशास्त्रार्थकुशलैरर्थशास्त्रविशारदैः ।। ०५७ ।।

कुलशीलवयोवृत्त वित्तवद्भिरमत्सरैः ।
वणिग्भिः स्यात्कतिपयैः कुलभूतैरधिष्ठितम् ।। ०५८ ।।

श्रोतारो वणिजस्तत्र कर्तव्या न्यायदर्शिनः ।। ०५९ ।।

कार्यदर्शनकालः[सम्पाद्यताम्]

सभास्थानेषु पूर्वाह्णे कार्याणां निर्णयं नृपः ।
कुर्याच्छास्त्रप्रणीतेन मार्गेणामित्रकर्षणः ।। ०६० ।।

दिवसस्याष्टमं भागं मुक्त्वा कालत्रयं तु यत् ।
स कालो व्यवहाराणां शास्त्रदृष्टः परः स्मृतः ।। ०६१ ।।

आद्यादह्नोऽष्टभागाद्यदूर्ध्वं भागत्रयं भवेत् ।
स कालो व्यवहारस्य शास्त्रे दृष्टो मनीषिभिः ।। ०६२ ।।

प्राड्विवाकः[सम्पाद्यताम्]

यदा कुर्यान्न नृपतिः स्वयं कार्यविनिर्णयम् ।
तदा तत्र नियुञ्जीत ब्राह्मणं शास्त्रपारगम् ।। ०६३ ।।

दक्षं कुलीनमध्यस्थं अनुद्वेगकरं स्थिरम् ।
परत्र भीरुं धर्मिष्ठं उद्युक्तं क्रोधवर्जितम् ।। ०६४ ।।

अक्रूरो मधुरः स्निग्धः क्षमायातो विचक्षणः ।
उत्साहवानलुब्धश्च वादे योज्यो नृपेण तु ।। ०६५ ।।

एकशास्त्रं अधीयानो न विद्यात्कार्यनिश्चयम् ।
तस्माद्बह्वागमः कार्यो विवादेषूत्तमो नृपैः ।। ०६६ ।।

ब्राह्मणो यत्र न स्यात्तु क्षत्रियं तत्र योजयेत् ।
वैश्यं वा धर्मशास्त्रज्ञं शूद्रं यत्नेन वर्जयेत् ।। ०६७ ।।

अतोऽन्यैर्यत्कृतं कार्यं अन्यायेन कृतं तु तत् ।
नियुक्तैरपि विज्ञेयं दैवाद्यद्यपि शास्त्रतः ।। ०६८ ।।

व्यवहाराश्रितं प्रश्नं पृच्छति प्राङिति स्थितिः ।
विवेचयति यस्तस्मिन्प्राड्विवाकस्ततः स्मृतः ।। ०६९ ।।

अनिर्णीते तु यद्यर्थे संभाषेत रहोऽर्थिना ।
प्राड्विवाकोऽथ दण्ड्यः स्यात्सभ्याश्चैव विशेषतः ।। ०७० ।।

सभ्याः[सम्पाद्यताम्]

अलुब्धा धनवन्तश्च धर्मज्ञाः सत्यवादिनः ।
सर्वशास्त्रप्रवीणाश्च सभ्याः कार्या द्विजोत्तमाः ।। ०७१ ।।

न्यायशास्त्रं अतिक्रम्य सभ्यैर्यत्र विनिश्चितम् ।
तत्र धर्मो ह्यधर्मेण हतो हन्ति न संशयः ।। ०७२ ।।

यत्र धर्मो ह्यधर्मेण सत्यं यत्रानृतेन च ।
हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः ।। ०७३ ।।

अधर्मतः प्रवृत्तं तु नोपेक्षेरन्सभासदः ।
उपेक्षमाणाः सनृपा नरकं यान्त्यधोमुखाः ।। ०७४ ।।

अन्यायेनापि तं यान्तं येऽनुयान्ति सभासदः ।
तेऽपि तद्भागिनस्तस्माद्बोधनीयः स तैर्नृपः ।। ०७५ ।।

न्यायमार्गादपेतं तु ज्ञात्वा चित्तं महीपतेः ।
वक्तव्यं तत्प्रियं तत्र न सभ्यः किल्विषी भवेत् ।। ०७६ ।।

सभ्येनावश्यवक्तव्यं धर्मार्थसहितं वचः ।
शृणोति यदि नो राजा स्यात्तु सभ्यस्ततोऽनघः ।। ०७७ ।।

अधर्माय यदा राजा नियुञ्जीत विवादिनाम् ।
विज्ञाप्य नृपतिं सभ्यस्तदा कार्यं निवर्तयेत् ।। ०७८ ।।

स्नेहादज्ञानतो वापि लोभाद्वा मोहतोऽपि वा ।
तत्र सभ्योऽन्यथावादी दण्ड्योऽसभ्यः स्मृतो हि सः ।। ०७९ ।।

कार्यस्य निर्णयं सम्यग्ज्ञात्वा सभ्यस्ततो वदेत् ।
अन्यथा नैव वक्तव्यं वक्ता द्विगुणदण्डभाक् ।। ०८० ।।

सभ्यदोषात्तु यन्नष्टं देयं सभ्येन तत्तदा ।
कार्यं तु कार्यिणां एव निश्चितं न विचालयेत् ।। ०८१ ।।

कार्यनिर्णेतॄणां गुरुलाघवम्[सम्पाद्यताम्]

कुलानि श्रेणयश्चैव गणस्त्वधिकृतो नृपः ।
प्रतिष्ठा व्यवहाराणां गुर्वेभ्यस्तूत्तरोत्तरम् ।। ०८२ ।।

तपस्विनां तु कार्याणि त्रैविद्यैरेव कारयेत् ।
मायायोगविदां चैव न स्वयं कोपकारणात् ।। ०८३ ।।

सम्यग्विज्ञानसंपन्नो नोपदेशं प्रकल्पयेत् ।
उत्कृष्टजातिशीलानां गुर्वाचार्यतपस्विनाम् ।। ०८४ ।।

गोत्रस्थितिस्तु या तेषां क्रमादायाति धर्मतः ।
कुलधर्मं तु तं प्राहुः पालयेत्तं तथैव तु ।। ०८५ ।।

प्रश्नप्रकारः[सम्पाद्यताम्]

काले कार्यार्थिनं पृच्छेत्प्रणतं पुरतः स्थितम् ।
किं कार्यं का च ते पीडा मा भैषीर्ब्रूहि मानव ।। ०८६ ।।

केन कस्मिन्कदा कस्मात्पृच्छेदेवं सभागतः ।
एवं पृष्टः स यद्ब्रूयात्तत्सभ्यैर्ब्राह्मणः सहः ।। ०८७ ।।

विमृश्य कार्यं न्याय्यं चेदाह्वानार्थं अतः परम् ।
मुद्रां वा निक्षिपेत्तस्मिन्पुरुषं वा समादिशेत् ।। ०८८ ।।

प्रतिनिधिः[सम्पाद्यताम्]

समर्पितोऽर्थिना योऽन्यः परो धर्माधिकारिणि ।
प्रतिवादी स विज्ञेयः प्रतिपन्नश्च यः स्वयम् ।। ०८९ ।।

अधिकारोऽभियुक्तस्य नेतरस्यास्त्यसङ्गतेः ।
इतरोऽप्यभियुक्तेन प्रतिरोधिकृतो मतः ।। ०९० ।।

अर्थिना संनियुक्तो वा प्रत्यर्थिप्रहितोऽपि वा ।
यो यस्यार्थे विवदते तयोर्जयपराजयौ ।। ०९१ ।।

दासाः कर्मकराः शिष्या नियुक्ता बान्धवास्तथा ।
वादिनो न च दण्ड्याः स्युः यस्त्वतोऽन्यः स दण्डभाक् ।। ०९२ ।।

ब्रह्महत्यासुरापान स्तेयगुर्वङ्गनागमे ।
अन्येषु चातिपापेषु प्रतिवादी न दीयते ।। ०९३ ।।

मनुष्यमारणे स्तेये परदाराभिमर्शने ।
अभक्ष्यभक्षणे चैव कन्याहरणदूषणे ।। ०९४ ।।

पारुष्ये कूटकरणे नृपद्रोहे तथैव च ।
प्रतिवादी न दातव्यः कर्ता तु विवदेत्स्वयम् ।। ०९५ ।।

आह्वानं[सम्पाद्यताम्]

धर्मोत्सुकानभ्युदये रोगिणोऽथ जडानपि ।
अस्वस्थमत्तोन्मत्तार्त स्त्रियो नाह्वानयेन्नृपः ।। ०९६ ।।
न हीनपक्षां युवतिं कुले जातां प्रसूतिकाम् ।
सर्ववर्णोत्तमां कन्यां ता ज्ञातिप्रभुकाः स्मृताः ।। ०९७ ।।

तदधीनकुटुम्बिन्यः स्वैरिण्यो गणिकाश्च याः ।
निष्कुला याश्च पतितास्तासां आह्वानं इष्यते ।। ०९८ ।।

सशस्त्रोऽनुत्तरीयो वा मुक्तकेशः सहासनः ।
वामहस्तेन वा वादं वदन्दण्डं अवाप्नुयात् ।। ०९९ ।।

आहूतस्त्ववमन्येत यः शक्तो राजशासनम् ।
तस्य कुर्यान्नृपो दण्डं विधिदृष्टेन कर्मणा ।। १०० ।।

हीने कर्माणि पञ्चाशन् मध्यमे द्विशतावरः ।
गुरुकार्येषु दण्डः स्यान्नित्यं पञ्चशतावरः ।। १०१ ।।

कल्पितो यस्य यो दण्डस्त्वपराधस्य यत्नतः ।
पणानां ग्रहणं तु स्यात्तन्मूल्यं वाथ राजनि ।। १०२ ।।

आसेधः[सम्पाद्यताम्]

उत्पादयति यो हिंसां देयं वा न प्रयच्छति ।
याचं आनाय दौःशील्यादाकृष्योऽसौ नृपाज्ञया ।। १०३ ।।

आवेद्य तु नृपे कार्यं असंदिग्धे प्रतिश्रुते ।
तदासेधं प्रयुञ्जीत यावदाह्वानदर्शनम् ।। १०४ ।।

आसेधयोग्य आसिद्ध उत्क्रामन्दण्डं अर्हति ।। १०५ ।।

अनासेध्याः[सम्पाद्यताम्]

यस्त्विन्द्रियनिरोधेन व्याहारोच्छ्वसनादिभिः ।
आसेधयेदनासेध्यं स दण्ड्यो न त्वतिक्रमी ।। १०६ ।।

वृक्षपर्वतं आरूढा हस्त्यश्वरथनौस्थिताः ।
विषमस्थाश्च ते सर्वे नासेध्याः कार्यसाधकैः ।। १०७ ।।

व्याध्यार्ता व्यसनस्थाश्च यजमानास्तथैव च ।
अनुत्तीर्णाश्च नासेध्या मत्तोन्मत्तजडास्तथा ।। १०८ ।।

न कर्षको बीजकाले सेनाकाले तु सैनिकः ।
प्रतिज्ञाय प्रयातश्च कृतकालश्च नान्तरा ।। १०९ ।।

उद्युक्तः कर्षकः सस्ये तोयस्यागमने तथा ।
आरम्भात्संग्रहं यावत्तत्कालं न विवादयेत् ।
आसेधयंस्त्वनासेध्यं रज्ञा शास्य इति स्थितिः ।। ११० ।।

अभियुक्तश्च रुद्धश्च तिष्ठेयुश्च नृपाज्ञया ।
न तस्यान्येन कर्तव्यं अभियुक्तं विदुर्बुधाः ।। १११ ।।

एकाहद्व्याहाद्यपेक्षं देशकालाद्यपेक्षया ।
दूताय साधिते कार्ये तेन भक्तं प्रदापयेत् ।। ११२ ।।

देशकालवयःशक्त्याद्य् अपेक्षं भोजनं स्मृतम् ।
आकारकस्य सर्वत्र इति तत्त्वविदो विदुः ।। ११३ ।।

प्रतिभूत्वेनाग्राह्याः[सम्पाद्यताम्]

न स्वामी न च वै शत्रुः स्वामिनाधिकृतस्तथा ।
निरुद्धो दण्डितश्चैव संशयस्थाश्च न क्वचित् ।। ११४ ।।

नैव रिक्थी न रिक्तश्च न चैवात्यन्तवासिनः ।
राजकार्यनियुक्तश्च ये च प्रव्रजिता नराः ।। ११५ ।।

नाशक्तो धनिने दातुं दण्डं राज्ञे च तत्समम् ।
जीवन्वापि पिता यस्य तथैवेच्छाप्रवर्तकः ।
नाविज्ञातो ग्रहीतव्यः प्रतिभूत्वक्रियां प्रति ।। ११६ ।।

अथ चेत्प्रतिभूर्नास्ति वादयोग्यस्य वादिनः ।
स रक्षितो दिनस्यान्ते दद्याद्दूताय वेतनम् ।। ११७ ।।

द्विजातिः प्रतिभूहीनो रक्ष्यः स्याद्बाह्यचारिभिः ।
शूद्रादीन्प्रतिभूहीनान्बन्धयेन्निगडेन तु ।। ११८ ।।

अतिक्रमेऽपयाते च दण्डयेत्तं पणाष्टकम् ।
नित्यकर्मापरोधस्तु कार्यः सर्ववर्णिनाम् ।। ११९ ।।

ग्रहीतग्रहणो न्याये न प्रवर्त्यो महीभृता ।
तस्य वा तत्समर्प्यं स्यात्स्थापयेद्वा परस्य तत् ।। १२० ।।

अभियोक्त्रादीनां उक्तिक्रमः[सम्पाद्यताम्]

तत्राभियोक्ता प्राग्ब्रूयादभियुक्तस्त्वनन्तरम् ।
तयोरन्ते सदस्यास्तु प्राड्विवाकस्ततः परम् ।। १२१ ।।

यस्य स्यादधिका पीडा कार्यं वाप्यधिकं भवेत् ।
पूर्वपक्षो भवेत्तस्य न यः पूर्वं निवेदयेत् ।। १२२ ।।

यस्य वार्थगता पीडा शारीरी वाधिका भवेत् ।
तस्यार्थिवादो दातव्यो न यः पूर्वं निवेदयेत् ।। १२३ ।।

प्रतिज्ञास्वरूपम्[सम्पाद्यताम्]

निवेश्य कालं वर्षं च मासं पक्षं तिर्थि तथा ।
वेलां प्रदेशं विषयं स्थानं जात्याकृती वयः ।। १२४ ।।

साध्यप्रमाणं द्रव्यं च संख्यां नाम तथात्मनः ।
राज्ञां च क्रमशो नाम निवासं साध्यनाम च ।। १२५ ।।

क्रमात्पितॄणां नामानि पीडां चाहर्तृदायकौ ।
क्षमालिङ्गानि चान्यानि पक्षं संकीर्त्य कल्पयेत् ।। १२६ ।।

देशश्चैव तथा स्थानं संनिवेशस्तथैव च ।
जातिः संज्ञा निवासश्च प्रमाणं क्षेत्रनाम च ।। १२७ ।।

पितृपैतामहं चैव पूर्वराजानुकीर्तनम् ।
स्थावरेषु विवादेषु दशैतानि निवेशयेत् ।। १२८ ।।

रागादीनां यदेकेन कोपितः करणे वदेत् ।
तदों इति लिखेत्सर्वं वादिनः फलकादिषु ।। १२९ ।।

अधिकान्शोधयेदर्थान्न्यूनांश्च प्रतिपूरयेत् ।
भूमौ निवेशयेत्तावद्यावत्पक्षः प्रतिष्ठितः ।। १३० ।।

पूर्वपक्षं स्वभावोक्तं प्राड्विवाकोऽभिलेखयेत् ।
पाण्डुलेखेन फलके ततः पत्रे विशोधितम् ।। १३१ ।।

अन्यदुक्तं लिखेदन्यद्योऽर्थिप्रत्यर्थिनां वचः ।
चौरवच्छासयेत्तं तु धार्मिकः पृथिवीपतिः ।। १३२ ।।

सोल्लेखनं वा लभते त्र्यहं सप्ताहं एव वा ।
मतिरुत्पद्यते यावद्विवादे वक्तुं इच्छतः ।। १३३ ।।

यस्मात्कार्यसमारम्भाच्चिरात्तेन विनिश्चयः ।
तस्मात्न लभते कालं अभियुक्तस्तु कालभाक् ।। १३४ ।।

मतिर्नोत्सहते यत्र विवादे कार्यं इच्छतोः ।
दातव्यस्तत्र कालः स्यादर्थिप्रत्यर्थिनोरपि ।। १३५ ।।

प्रतिज्ञादोषाः पूर्वपक्षदोषाः[सम्पाद्यताम्]

यश्च राष्ट्रविरुद्धश्च यश्च राज्ञा विवर्जितः ।
अनेकपदसंकीर्णः पूर्वपक्षो न सिद्ध्यति ।। १३६ ।।

बहुप्रतिज्ञं यत्कार्यं व्यवहारेषु निश्चितम् ।
कामं तदपि गृह्णीयाद्राजा तत्त्वबुभुत्सया ।। १३७ ।।

देशकालविहीनश्च द्रव्यसंख्याविवर्जितः ।
साध्यप्रमाणहीनश्च पक्षोऽनादेय इष्यते ।। १३८ ।।

न्यायस्थं नेच्छते कर्तुं अन्यायं वा करोत्ययम् ।
न लेखयति यत्त्वेवं तस्य पक्षो न सिध्यति ।। १३९ ।।

अप्रसिद्धं निराबाधं निरर्थं निष्प्रयोजनम् ।
असाध्यं वा विरुद्धं वा पक्षाभासं विवर्जयेत् ।। १४० ।।

प्रतिज्ञादोषनिर्मुक्तं साध्यं सत्कारणान्वितम् ।
निश्चितं लोकसिद्धं च पक्षं पक्षविदो विदुः ।। १४१ ।।

स्वल्पाक्षरः प्रभूतार्थो निःसंदिग्धो निराकुलः ।
विरोधिकारणैर्मुक्तो विरोधिप्रतिषेधकः ।। १४२ ।।

यदा त्वेवं विधः पक्षः कल्पितः पूर्ववादिना ।
दद्यात्तत्पक्षसंबद्धं प्रतिवादी तदोत्तरम् ।। १४३ ।।

श्राव्यमाणोऽर्थिना यत्र यो ह्यर्थो न विघातितः ।
दानकालेऽथवा तूष्णीं स्थितः सोऽर्थोऽनुमोदितः ।। १४४ ।।

उत्तरं सद्यो दातव्यं कालान्तरेण वा दातव्यम्[सम्पाद्यताम्]

श्रुत्वा लेख्यगतं त्वर्थं प्रत्यर्थी कारणाद्यदि ।
कालं विवादे याचेत तस्य देयो न संशयः ।। १४५ ।।

सद्यो वैकाहपञ्चाह त्र्यहं वा गुरुलाघवात् ।
लभेतासौ त्रिपक्षं वा सप्ताहं वा ऋणादिषु ।। १४६ ।।

कालं शक्तिं विदित्वा तु कार्याणां च बलाबलम् ।
अल्पं वा बहु वा कालं दद्यात्प्रत्यर्थिने प्रभुः ।। १४७ ।।

दिनं मासार्धमासौ वा ऋतुः संवत्सरोऽपि वा ।
क्रियास्थित्यनुरूपस्तु देयं कालः परेण तु ।। १४८ ।।

व्यपैति गौरवं यत्र विनाशस्त्याग एव वा ।
कालं तत्र न कुर्वीत कार्यं आत्ययिकं हि तत् ।। १४९ ।।

धेनावनडुहि क्षेत्रे स्त्रीषु प्रजनने तथा ।
न्यासे याचितके दत्ते तथैव क्रयविक्रये ।। १५० ।।

कन्याया दूषणे स्तेये कलहे साहसे निधौ ।
उपधौ कौटसाक्ष्ये च सद्य एव विवादयेत् ।। १५१ ।।

साहसस्तेयपारुष्य गोऽभिशापे तथात्यये ।
भूमौ विवादयेत्क्षिप्रं अकालेऽपि बृहस्पतिः ।। १५२ ।।

सद्यः कृतेषु कार्येषु सद्य एव विवादयेत् ।
कालातीतेषु वा कालं दद्यात्प्रत्यर्थिने प्रभुः ।। १५३ ।।

सद्यः कृते सद्य एव मासातीते दिनं भवेत् ।
षडाब्दिके त्रिरात्रं स्यात्सप्ताहं द्वादशाब्दिके ।। १५४ ।।

विंशत्यब्दे दशाहं तु मासार्धं वा लभेत सः ।
मासं त्रिंशत्समातीते त्रिपक्षं परतो भवेत् ।। १५५ ।।

कालं संवत्सरादर्वाक्स्वयं एव यथेप्सितम् ।
संवत्सरं जडोन्मत्त मनस्के व्याधिपीडिते ।। १५६ ।।

दिगन्तरप्रपन्ने वा अज्ञातार्थे च वस्तुनि ।
मूलं वा साक्षिणो वाथ परदेशे स्थिता यदा ।। १५७ ।।

तत्र कालो भवेत्पुंसां आ स्वदेशसमागमात् ।
दत्तेऽपि काले देयं स्यात्पुनः कार्यस्य गौरवात् ।। १५८ ।।

पूर्वपक्षश्रुतार्थस्तु प्रत्यर्थी तदनन्तरम् ।
पूर्वपक्षार्थसंबन्धं प्रतिपक्षं निवेदयेत् ।। १५९ ।।

आचारद्रव्यदानेष्ट कृत्योपस्थाननिर्णये ।
नोपस्थितो यदा कश्चिच्छलं तत्र न कारयेत् ।। १६० ।।

दैवराजकृतो दोषस्तस्मिन्काले यदा भवेत् ।
अबाधत्यागमात्रेण न भवेत्स पराजितः ।। १६१ ।।

दैवराजकृतं दोषं साक्षिभिः प्रतिपादयेत् ।
जैह्म्येन वर्तमानस्य दण्डो दाप्यस्तु तद्धनम् ।। १६२ ।।

अभियुक्तोऽभियोक्तारं अभियुञ्जीत कर्हिचित् ।
अन्यत्र दण्डपारुष्य स्तेयसंग्रहणात्ययात् ।। १६३ ।।

यावन्यस्मिन्समाचारः पारंपर्यक्रमागतः ।
तं प्रतीक्ष्य यथान्यायं उत्तरं दापयेन्नृपः ।। १६४ ।।

चतुर्विधं उत्तरम्[सम्पाद्यताम्]

सत्यं मिथ्योत्तरं चैव प्रत्यवस्कन्दनं तथा ।
पूर्वन्यायविधिश्चैवं उत्तरं स्याच्चतुर्विधम् ।। १६५ ।।

श्रुत्वा भाषार्थं अन्यस्तु यदा तं प्रतिषेधति ।
अर्थतः शब्दतो वापि मिथ्या तज्ज्ञेयं उत्तरम् ।। १६६ ।।

अभियुक्तोऽभियोगस्य यदि कुर्यात्तु निह्नवम् ।
मिथ्या तत्तु विजानीयादुत्तरं व्यवहारतः ।। १६७ ।।

साध्यस्य सत्यवचनं प्रतिपत्तिरुदाहृता ।। १६८ ।।

मिथ्यैतन्नाभिजानामि तदा तत्र न संनिधिः ।
अजातश्चास्मि तत्काल इति मिथ्या चतुर्विधम् ।। १६९ ।।

योऽर्थिनार्थः समुद्दिष्टः प्रत्यर्थी यदि तं तथा ।
प्रपद्य कारणं ब्रूयादाधर्यं गुरुरब्रवीत् ।। १७० ।।

आचारेणावसन्नोऽपि पुनर्लेखयते यदि ।
सोऽभिधेयो जितः पूर्वं प्राङ्न्यायस्तु स उच्यते ।। १७१ ।।

विभावयामि कुलिकैः साक्षिभिर्लिखितेन वा ।
जितश्चैव मयायं प्राक्प्राङ्न्यायस्त्रिप्रकारकः ।। १७२ ।।

उत्तराभासा उत्तरदोषा वा[सम्पाद्यताम्]

अप्रसिद्धं विरुद्धं यदत्यल्पं अतिभूरि च ।
संदिग्धासंभवाव्यक्तं अन्यार्थं चातिदोषवत् ।। १७३ ।।

अव्यापकं व्यस्तपदं निगूढार्थं तथाकुलम् ।
व्याख्यागम्यं असारं च नोत्तरं शस्यते बुधैः ।। १७४ ।।

यद्व्यस्तपदं अव्यापि निगूढार्थं तथाकुलम् ।
व्याख्यागम्यं असारं च नोत्तरं स्वार्थसिद्धये ।। १७५ ।।

चिह्नाकारसहस्रं तु समयं चाविजानता ।
भाषान्तरेण वा प्रोक्तं अप्रसिद्धं तदुत्तरम् ।। १७६ ।।

प्रतिदत्तं मया बाल्ये प्रतिदत्तं मया न हि ।
यदेवं आह विज्ञेयं विरुद्धं तदिहोत्तरम् ।। १७७ ।।

जितः पुरा मयायं च त्वर्थेऽस्मिन्निति भाषितुम् ।
पुरा मयायं इति यत्तदूनं चोत्तरं स्मृतम् ।। १७८ ।।

गृहीतं इति वाच्ये तु कार्यं तेन कृतं मया ।
पुरा गृहीतं यद्द्रव्यं इति यच्चातिभूरि तत् ।। १७९ ।।

देयं मयेति वक्तव्ये मयादेयं इतीदृशम् ।
संदिग्धं उत्तरं ज्ञेयं व्यवहारे बुधैस्तदा ।। १८० ।।

बलाबलेन चैतेन साहसं स्थापितं पुरा ।
अनुक्तं एतन्मन्यन्ते तदन्यार्थं इतीरितम् ।। १८१ ।।

अस्मै दत्तं मया सार्धं सहस्रं इति भाषिते ।
प्रतिदत्तं तदर्धं यत्तदिहाव्यापकं स्मृतम् ।। १८२ ।।

पूर्ववादी क्रियां यावत्सम्यङ्नैव निवेशयेत् ।
मया गृहीतं पूर्वं नो तद्व्यस्तपदं उच्यते ।। १८३ ।।

तत्किं तामरसं कश्चिदगृहीतं प्रदास्यति ।
निगूढार्थं तु तत्प्रोक्तं उत्तरं व्यवहारतः ।। १८४ ।।

किं तेनैव सदा देयं मया देयं भवेदिति ।
एतदकुलं इत्युक्तं उत्तरं तद्विदो विदुः ।। १८५ ।।

काकस्य दन्ता नो सन्ति सन्तीत्यादि यदुत्तरम् ।
असारं इति तत्त्वेन सम्यङ्नोत्तरं इष्यते ।। १८६ ।।

प्रस्तुतादल्पं अव्यक्तं न्यूनाधिकं असङ्गतम् ।
अव्याप्यसारं संदिग्धं प्रतिपक्षं न लङ्घयेत् ।। १८७ ।।

संदिग्धं अन्यत्प्रकृतादत्यल्पं अतिभूरि च ।
पक्षैकदेशव्याप्येव तत्तु नैवोत्तरं भवेत् ।। १८८ ।।

पक्षैकदेशे यत्सत्यं एकदेशे च कारणम् ।
मिथ्या चैवैकदेशे च सङ्करात्तदनुत्तरम् ।। १८९ ।।

न चैकस्मिन्विवादे तु क्रिया स्याद्वादिनोर्द्वयोः ।
न चार्थसिद्धिरुभयोर्न चैकत्र क्रियाद्वयम् ।। १९० ।।

वादहानिकराणि[सम्पाद्यताम्]

प्रपद्य कारणं पूर्वं अन्यद्गुरुतरं यदि ।
प्रतिवाक्यगतं ब्रूयात्साध्यते तद्धि नेतरत् ।। १९१ ।।

यथार्थं उत्तरं दद्यादयच्छन्तं च दापयेत् ।
सामभेदादिभिर्मार्गैर्यावत्सोऽर्थः समुत्थितः ।। १९२ ।।

मोहाद्वा यदि वा शाठ्याद्यन्नोक्तं पूर्ववादिना ।
उत्तरान्तर्गतं चापि तद्ग्राह्यं उभयोरपि ।। १९३ ।।

उपायैश्चोद्यमानस्तु न दद्यादुत्तरं तु यः ।
अतिक्रान्ते सप्तरात्रे जितोऽसौ दातुं अर्हति ।। १९४ ।।

श्रावयित्वा यथाकार्यं त्यजेदन्यद्वदेदसौ ।
अन्यपक्षाश्रयस्तेन कृतो वादी स हीयते ।। १९५ ।।

न मयाभिहितं कार्यं अभियुज्य परं वदेत् ।
विब्रुवंश्च भवेदेवं हीनं तं अपि निर्दिशेत् ।। १९६ ।।

लेखयित्वा तु यो वाक्यंं हीनं वाप्यधिकं पुनः ।
वदेद्वादी स हीयेत नाभियोगं तु सोऽर्हति ।। १९७ ।।

सभ्याश्च साक्षिणश्चैव क्रिया ज्ञेया मनीषिभिः ।
तां क्रियां द्वेष्टि यो मोहात्क्रियाद्वेषी स उच्यते ।। १९८ ।।

आह्वानादनुपस्थानात्सद्य एव प्रहीयते ।। १९९ ।।

ब्रूहीत्युक्तोऽपि न ब्रूयात्सद्यो बन्धनं अर्हति ।
द्वितीयेऽहनि दुर्बुद्धेर्विद्यात्तस्य पराजयम् ।। २०० ।।

व्याजेनैव तु यत्रासौ दीर्घकालं अभीप्सति ।
सापदेशं तु तद्विद्याद्वादहानिकरं स्मृतम् ।। २०१ ।।

अन्यवादी पणान्पञ्च क्रियाद्वेषी पणान्दश ।
नोपस्थाता दश द्वौ च षोडशैव निरुत्तरः ।
आहूतप्रपलायी च पणान्ग्राह्यस्तु विंशतिम् ।। २०२ ।।

त्रिराहूतं अनायान्तं आहूतप्रपलायिनम् ।
पञ्चरात्रं अतिक्रान्तं विनयेत्तं महीपतिः ।। २०३ ।।

श्रावितव्यवहाराणां एकं यत्र प्रभेदयेत् ।
वादिनं लोभयेच्चैव हीनं तं इति निर्दिशेत् ।। २०४ ।।

भयं करोति भेदं वा भीषणं वा निरोधनम् ।
एतानि वादिनोरर्थस्य व्यवहारे स हीयते ।। २०५ ।।

दोषानुरूपं संग्राह्यः पुनर्वादो न विद्यते ।
उभयोर्लिखिते वाच्ये प्रारब्धे कार्यनिश्चये ।
अयुक्तं तत्र यो ब्रूयात्तस्मादर्थात्स हीयते ।। २०६ ।।

साक्षिणो यस्तु निर्दिश्य कामतो न विवादयेत् ।
स वादी हीयते तस्मात्त्रिंशद्रात्रात्परेण तु ।। २०७ ।।

पलायनानुत्तरत्वादन्यपक्षाश्रयेण च ।
हीनस्य गृह्यते वादो न स्ववाक्यजितस्य तु ।। २०८ ।।

यो हीनवाक्येन जितस्तस्योद्धारं विदुर्बुधाः ।
स्ववाक्यहीनो यस्तु स्यात्तस्योद्धारो न विद्यते ।। २०९ ।।

आवेद्य प्रगृहीतार्थाः प्रशमं यान्ति ये मिथः ।
सर्वे द्विगुणदण्ड्याः स्युः विप्रलम्भान्नृपस्य ते ।। २१० ।।

क्रियापादः[सम्पाद्यताम्]

कारणात्पूर्वपक्षोऽपि ह्युत्तरत्वं प्रपद्यते ।
अतः क्रिया तदा प्रोक्ता पूर्वपक्षप्रसाधिनी ।। २११ ।।

शोधिते लिखिते सम्यगिति निर्दोष उत्तरे ।
प्रत्यर्थिनोऽर्थिनो वापि क्रियाकरणं इष्यते ।। २१२ ।।

वादिना यदभिप्रेतं स्वयं साधयितुं स्फुटम् ।
तत्साध्यं साधनं येन तत्साध्यं साध्यतेऽखिलम् ।। २१३ ।।

प्रमाणानि, तेषां च बलाबलादिविचारः[सम्पाद्यताम्]

लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं विदुः ।
लेशोद्देशस्तु युक्तिः स्याद्दिव्यानीह विषादयः ।। २१४ ।।

पूर्ववादेऽपि लिखिते यथाक्षरं अशेषतः ।
अर्थी तृतीयपादे तु क्रियया प्रतिपादयेत् ।। २१५ ।।

कार्यं हि साध्यं इत्युक्तं साधनं तु क्रियोच्यते ।
द्विभेदा सा पुनर्ज्ञेया दैविकी मानुषी तथा ।
मानुषी लिख्यसाक्ष्यादिर्वधादिर्दैविकी मता ।। २१६ ।।

संभवे साक्षिणां प्राज्ञो दैविकीं वर्जयेत्क्रियाम् ।
संभवे तु प्रयुञ्जानो दैविकीं हीयते ततः ।। २१७ ।।

यद्येको मानुषीं ब्रूयादन्यो ब्रूयात्तु दैविकीम् ।
मानुषीं तत्र गृह्णीयान्न तु दैवीं क्रियां नृपः ।। २१८ ।।

यद्येकदेशव्याप्तापि क्रिया विद्येत मानुषी ।
सा ग्राह्या न तु पूर्णापि दैविकी वदतां नृणाम् ।। २१९ ।।

पञ्चप्रकारं दैवं स्यान्मानुषं त्रिविधं स्मृतम् ।। २२० ।।

क्रियां बलवतीं मुक्त्वा दुर्बलां योऽवलम्बते ।
स जयेऽवधृते सभ्यैः पुनस्तां नाप्नुयात्क्रियाम् ।। २२१ ।।

सारभूतं पदं मुक्त्वा असाराणि बहून्यपि ।
संसाधयेत्क्रिया या तु तां जह्यात्सारवर्जिताम् ।
पक्षद्वयं साधयेद्या तां जह्याद्दूरतः क्रियाम् ।। २२२ ।।

क्रिया न दैविकी प्रोक्ता विद्यामानेषु साक्षिषु ।
लेख्ये च सति वादेषु न दिव्यं न च साक्षिणः ।। २२३ ।।

कालेन हीयते लेख्यं दूषितं न्यायतस्तथा ।
अलेख्यसाक्षिके दैवीं व्यवहारे विनिर्दिशेत् ।
दैवसाध्ये पौरुषेयीं न लेख्यं वा प्रयोजयेत् ।। २२४ ।।

पूगश्रेणिगणादीनां या स्थितिः परिकीर्तिता ।
तस्यास्तु साधनं लेख्यं न दिव्यं न च साक्षिणः ।। २२५ ।।

द्वारमार्गक्रियाभोग जलवाहादिके तथा ।
भुक्तिरेव हि गुर्वी स्यान्न लेख्यं न च साक्षिणः ।। २२६ ।।

दत्तादत्तेऽथ भृत्यानां स्वामिना निर्णये सति ।
विक्रयादानसंबन्धे क्रीत्वा धनं अयच्छति ।। २२७ ।।

द्यूते समाह्वये चैव विवादे समुपस्थिते ।
साक्षिणः साधनं प्रोक्तं न दिव्यं न च लेख्यकम् ।। २२८ ।।

प्रक्रान्ते साहसे वादे पारुष्ये दण्डवाचिके ।
बलोद्भूतेषु कार्येषु साक्षिणो दिव्यं एव वा ।। २२९ ।।

गूढसाहसिकानां तु प्राप्तं दिव्यैः परीक्षणम् ।
युक्तिचिह्नेङ्गिताकार वाक्चक्षुश्चेष्टितैर्नृणाम् ।। २३० ।।

उत्तमेषु च सर्वेषु साहसेषु विचारयेत् ।
सद्भावं दिव्यदृष्टेन सत्सु साक्षिषु वै भृगुः ।। २३१ ।।

समत्वं साक्षिणां यत्र दिव्यैस्तत्रापि शोधयेत् ।
प्राणान्तिकविवादेषु विद्यामानेषु साक्षिषु ।
दिव्यं आलम्बते वादी न पृच्छेत्तत्र साक्षिणः ।। २३२ ।।

ऋणे लेख्यं साक्षिणो वा युक्तिलेशादयोऽपि वा ।
दैविकी वा क्रिया प्रोक्ता प्रजानां हितकाम्यया ।। २३३ ।।

चोदना प्रतिकालं च युक्तिलेशस्तथैव च ।
तृतीयः शपथः प्रोक्तः तैरृणं साधयेत्क्रमात् ।। २३४ ।।

अभीक्ष्णं चोद्यमानोऽपि प्रतिहन्यान्न तद्वचः ।
त्रिः चतुः पञ्चकृत्वो वा परतोऽर्थं समाचरेत् ।। २३५ ।।

चोदनाप्रतिघाते तु युक्तिलेशैः समन्वियात् ।
देशकालार्थसंबन्ध परिमाणक्रियादिभिः ।। २३६ ।।

युक्तिष्वप्यसमर्थासु शपथैरेव निणयेत् ।
अर्थकालबलापेक्षैरग्न्यम्बुसुकृतादिभिः ।। २३७ ।।

यत्र स्यात्सोपधं लेख्यं तद्राज्ञः श्रावितं यदि ।
दिव्येन शोधयेत्तत्र राजा धर्मासनस्थितः ।। २३८ ।।

वाक्पारुष्ये च भूमौ च दिव्यं न परिकल्पयेत् ।। २३९ ।।

स्थावरेषु विवादेषु दिव्यानि परिधारयेत् ।
साक्षिभिर्लिखितेनार्थे भुक्त्या चैव प्रसाधयेत् ।। २४० ।।

प्रमाणैर्हेतुना वापि दिव्येनैव तु निश्चयम् ।
सर्वेष्वेव विवादेषु सदा कुर्यान्नराधिपः ।। २४१ ।।

लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतम् ।
अनुमानं विदुर्हेतुं तर्कं चैव मनीषिणः ।। २४२ ।।

पूर्वाभावे परेणैव नान्यथैव कदाचन ।
प्रमाणैर्वादिनिर्दिष्टैर्भुक्त्या लिखितसाक्षिभिः ।। २४३ ।।

न कश्चिदभियोक्तारं दिव्येषु विनियोजयेत् ।
अभियुक्ताय दातव्यं दिव्यं दिव्यविशारदैः ।। २४४ ।।

मिथ्योक्तौ स चतुष्पात्स्यात्प्रत्यवस्कन्दने तथा ।
प्राङ्न्याये स च विज्ञेयो द्विपात्संप्रतिपत्तिषु ।। २४५ ।।

पराजयश्च द्विविधः परोक्तः स्वोक्त एव च ।
परोक्तः स्याद्दशविधः स्वोक्त एकविधः स्मृतः ।। २४६ ।।

विवादान्तरसंक्रान्तिः पूर्वोत्तरविरुद्धता ।
दूषणं स्वक्रियोत्पत्तेः परवाक्योपपादनम् ।। २४७ ।।

अनिर्देशश्च देशस्य निर्देशोऽदेशकालयोः ।
साक्षिणां उपजापश्च विद्वेषो वचनस्य च ।। २४८ ।।

लेख्यम्[सम्पाद्यताम्]

लेख्यं तु द्विविधं प्रोक्तं स्वहस्तान्यकृतं तथा ।
असाक्षिमत्साक्षिमच्च सिद्धिर्देशस्थितेस्तयोः ।। २४९ ।।

ग्राहकेण स्वहस्तेन लिखितं साक्षिवरजितम् ।
स्वहस्तलेख्यं विज्ञेयं प्रमाणं तत्स्मृतं बुधैः ।। २५० ।।

उत्पत्तिजातिसंज्ञां च धनसंख्यां च लेखयेत् ।
स्मरत्येवं प्रयुक्तस्य नश्येदर्थस्त्वलेखितः ।। २५१ ।।

लेख्यं तु साक्षिमत्कार्यं अविलुप्ताक्षरक्रमम् ।
देशाचारस्थितियुतं समग्रं सर्ववस्तुषु ।। २५२ ।।

वर्णवाक्यक्रियायुक्तं असंदिग्धं स्फुटाक्षरम् ।
अहीनक्रमचिह्नं च लेख्यं तत्सिद्धिं आप्नुयात् ।। २५३ ।।

चात्रुविद्यपुरश्रेणी गणपौरादिकस्थितिः ।
तत्सिध्यर्थं तु यल्लेख्यं तद्भवेत्स्थितिपत्रकम् ।। २५४ ।।

अभिशापे समुत्तीर्णे प्रायश्चित्ते कृते जनैः ।
विशुद्धिपत्रकं ज्ञेयं तेभ्यः साक्षिसमन्वितम् ।। २५५ ।।

उत्तमेषु समस्तेषु अभिशापे समागते ।
वृत्तानुवादलेख्यं यत्तज्ज्ञेयं सन्धिपत्रकम् ।। २५६ ।।

सीमाविवादे निर्णीते सीमापत्रं विधीयते ।। २५७ ।।

राज्ञः स्वहस्तसंयुक्तं समुद्राचिह्नितं तथा ।
राजकीयं स्मृतं लेख्यं सर्वेष्वर्थेषु साक्षिमत् ।। २५८ ।।

अर्थिप्रत्यर्थिवाक्यानि प्रतिज्ञा साक्षिवाक्तथा ।
निर्णयश्च यथा तस्य यथा चावधृतं स्वयम् ।। २५९ ।।

एतद्यथाक्षरं लेख्ये यथापूर्वं निवेशयेत् ।
अभियोक्तृअभियुक्तानां वचनं प्राङ्निवेशयेत् ।। २६० ।।

सभ्यानां प्राड्विवाकस्य कुलानां वा ततः परम् ।
निश्चयं स्मृतिशास्त्रस्य मतं तत्रैव लेखयेत् ।। २६१ ।।

सिद्धेनार्थेन संयोज्यो वादी सत्कारपूर्वकम् ।
लेख्यं स्वहस्तसंयुक्तं तस्मै दद्यात्तु पार्थिवः ।। २६२ ।।

सभासदश्च ये तत्र स्मृतिशास्त्रविदः स्थिताः ।
यथालेख्यविध्हौ तद्वत्स्वहस्तं तत्र दापयेत् ।। २६३ ।।

अनेन विधिना लेख्यं पश्चात्कारं विदुर्बुधाः ।
निरस्ता तु क्रिया यत्र प्रमाणेनैव वादिना ।
पश्चात्कारो भवेत्तत्र न सर्वासु विधीयते ।। २६४ ।।

अन्यवादीआदिहीनेभ्य इतरेषां प्रदीयते ।
वृत्तानुवादसंसिद्धं तच्च स्याज्जयपत्रकम् ।। २६५ ।।

लेख्यपरीक्षा[सम्पाद्यताम्]

राजाज्ञया समाहूय यथान्यायं विचारयेत् ।
लेख्याचारेण लिखितं साक्ष्याचारेण साक्षिणः ।। २६६ ।।

वर्णवाक्यक्रियायुक्तं असंदिग्धं स्फुटाक्षरम् ।
अहीनक्रमचिह्नं च लेख्यं तत्सिद्धिं आप्नुयात् ।। २६७ ।।

देशाचारयुतं वर्षं आसपक्षादिवृद्धिमत् ।
ऋणिसाक्षिलेखकानां हस्ताङ्गं लेख्यं उच्यते ।। २६८ ।।

स्थानभ्रष्टास्त्वपङ्क्तिस्थाः संदिग्धा लक्षणच्युताः ।
यदा तु संस्थिता वर्णाः कूटलेख्यं तदा भवेत् ।। २६९ ।।

देशाचारविरुद्धं यत्संदिग्धं क्रमवर्जितम् ।
कृतं अस्वामिना यच्च साध्यहीनं च दुष्यति ।। २७० ।।

मत्तेनोपाधिभीतेन तथोन्मत्तेन पीडितैः ।
स्त्रीभिर्बालास्वतन्त्रैश्च कृतं लेख्यं न सिध्यति ।। २७१ ।।

ख्यापितं चेद्द्वितीयेऽह्नि न कश्चिद्विनिवर्तयेत् ।
तथा तत्स्यात्प्रमाणं तु मत्तोन्मत्तकृतादृते ।। २७२ ।।

साक्षिदोषाद्भवेद्दुष्टं पत्रं वै लेखकस्य वा ।
धनिकस्योपधादोषात्तथा धारणिकस्य वा ।। २७३ ।।

दुष्टैर्दुष्टं भवेल्लेख्यं शुद्धं शुद्धैर्विनिर्दिशेत् ।
तत्पत्रं उपधादुष्टैः साक्षिलेखककारकैः ।। २७४ ।।

प्रमाणस्य हि ये दोषा वक्तव्यास्ते विवादिना ।
गूढास्तु प्रकटाः सभ्यैः काले शास्त्रप्रदर्शनात् ।। २७५ ।।

साक्षिलेखककर्तारः कूटतां यान्ति ते यथा ।
तथा दोषाः प्रयोक्तव्या दुष्टैर्लेख्यं प्रदुष्यात ।। २७६ ।।

न लेखकेन लिखितं न दृष्टं साक्षिभिस्तथा ।
एवं प्रत्यर्थिनोक्ते तु कूटलेख्यं प्रकीर्तितम् ।। २७७ ।।

नातथ्येन प्रमाणं तु दोषेणैव तु दूषयेत् ।
मिथ्याभियोगे दण्ड्यः स्यात्साध्यार्थाच्चापि हीयते ।। २७८ ।।

एवं दुष्टं नृपस्थाने यस्मिंस्तद्धि विचार्यते ।
विमृश्य ब्राह्मणैः सार्धं पत्रदोषान्निरूपयेत् ।। २७९ ।।

येन ते कूटतां यान्ति साक्षिलेखककारकाः ।
तेन दुष्टं भवेल्लेख्यं शुद्धैः शुद्धिं विनिर्दिशेत् ।। २८० ।।

धनिकेन स्वहस्तेन लिखितं साक्षिवर्जितम् ।
भवेत्कूटं न चेत्कर्ता कृतं हीति विभावयेत् ।। २८१ ।।

दत्तं लेख्ये स्वहस्तं तु ऋणिको यदि निह्नते ।
पत्रस्थैः साक्षिभिर्वाच्यो लेखकस्य मतेन वा ।। २८२ ।।

कृताकृतविवादेषु साक्षिभिः पत्रनिर्णयः ।
दूषिते पत्रके वादी तदारूढांस्तु निर्दिशेत् ।। २८३ ।।

त्रिविधस्यापि लेख्यस्य भ्रान्तिः सञ्जायते नृणाम् ।
ऋणिसाक्षिलेखकानां हस्तोक्त्या साधयेत्ततः ।। २८४ ।।

अथ पञ्चत्वं आपन्नो लेखकः सह साक्षिभिः ।
तत्स्वहस्तादिभिस्तेषां विशुध्येत्तु न संशयः ।। २८५ ।।

ऋणिस्वहस्तसंदेहे जीवतो वा मृतस्य वा ।
तत्स्वहस्तकृतैरन्यैः पत्रैस्तल्लेख्यनिर्णयः ।। २८६ ।।

समुद्रेऽपि लेख्ये मृताः सर्वेऽपि ते स्थिताः (?) ।
लिखितं तत्प्रमाणं तु मृतेष्वपि हि तेषु च ।। २८७ ।।

प्रत्यक्षं अनुमानेन न कदाचित्प्रबाध्यते ।
तस्माल्लेख्यस्य दुष्टस्य वचोभिः साक्षिणां भवेत् ।। २८८ ।।

निर्णयः स्वधनार्थं हि पत्रं दूषयति स्वयम् ।
लिखितं लिखितेनैव साक्षिमत्साक्षिभिर्हरेत् ।। २८९ ।।

कूटोक्तौ साक्षिणां वाक्याल्लेखकस्य च पत्रकम् ।
नयेच्छुद्धिं न यः कूटं स दाप्यो दमं उत्तमम् ।। २९० ।।

आढ्यस्य निकटस्थस्य यच्छक्तेन न याचितम् ।
शुद्धर्णशङ्कया तत्तु लेख्यं दुर्बलतां इयात् ।। २९१ ।।

लेख्यं त्रिंशत्समातीतं अदृष्टाश्रावितं च यत् ।
न तत्सिद्धिं अवाप्नोति तिष्ठत्स्वपि हि साक्षिषु ।। २९२ ।।

प्रयुक्ते शान्तलाभे तु लिखितं यो न दर्शयेत् ।
नैव याचेत ऋणिकं न तत्सिद्धिं अवाप्नुयात् ।। २९३ ।।

पश्चात्कारनिबद्धं यत्तद्यत्नेन विचारयेत् ।
यदि स्याद्युक्तियुक्तं तु प्रमाणं लिखितं तदा ।। २९४ ।।

अन्यथा दूरतः कार्यं पुनरेव विनिर्णयेत् ।
अतथ्यं तथ्यभावेन स्थापितं ज्ञानविभ्रमात् ।
निवर्त्यं तत्प्रमाणं स्याद्यत्नेनापि कृतं नृपैः ।। २९५ ।।

मुद्राशुद्धं क्रियाशुद्धं भुक्तिशुद्धं सचिह्नकम् ।
राज्ञः स्वहस्तसंशुद्धं शुद्धिं आयाति शासनम् ।। २९६ ।।

निर्दोषं प्रथितं यत्तु लेख्यं तत्सिद्धिं आप्नुयात् ।। २९७ ।।

दृष्टे पत्रे स्फुटान्दोषान्नोक्तवानृणिको यदि ।
ततो विंशतिवर्षाणि स्थितं पत्रं स्थिरं भवेत् ।। २९८ ।।

शक्तस्य संनिधावर्थे येन लेख्येन भुज्यते ।
वर्षाणि विंशतिं यावत्तत्पत्रं दोषवर्जितम् ।। २९९ ।।

अथ विंशतिवर्षाणि आधिर्भुक्तः सुनिश्चितम् ।
तेन लेख्येन तत्सिद्धिर्लेख्यदोषविवर्जिता ।। ३०० ।।

सीमाविवादे निर्णीते सीमापत्रं विधीयते ।
तस्य दोषाः प्रवक्तव्या यावद्वर्षाणि विंशतिः ।। ३०१ ।।

आधानसहितं यत्र ऋणं लेख्ये निवेशितम् ।
मृतसाक्षि प्रमाणं तु स्वल्पभोगेषु तद्विदुः ।। ३०२ ।।

प्राप्तं वानेन चेत्किञ्चिद्दानं चाप्यनिरूपितम् ।
विनापि मुद्रया लेख्यं प्रमाणं मृतसाक्षिकम् ।। ३०३ ।।

यदि लब्धं भवेत्किञ्चित्प्रज्ञप्तिर्वा कृता भवेत् ।
प्रमाणं एव लिखितं मृता यद्यपि साक्षिणः ।। ३०४ ।।

दर्शितं प्रतिकालं यद्ग्राहितं स्मारितं तथा ।
लेख्यं सिध्यति सर्वत्र मृतेष्वपि च साक्षिषु ।। ३०५ ।।

न दिव्यैः साक्षिभिर्वापि हीयते लिखितं क्वचित् ।
लेख्यधर्मः सदा श्रेष्ठो ह्यतो नान्येन हीयते ।। ३०६ ।।

तद्युक्तप्रतिलेख्येन तद्विशिष्टेन वा सदा ।
लेख्यक्रिया निरस्येत निरस्यान्येन न क्वचित् ।। ३०७ ।।

दर्पणस्थं यथा बिम्बं असत्सदिव दृश्यते ।
तथा लेख्यस्य बिम्बानि कुर्वन्ति कुशला जनाः ।। ३०८ ।।

द्रव्यं गृहीत्वा यल्लेख्यं परस्मै संप्रदीयते ।
छन्नं अन्येन चारूढं संयतं चान्यवेश्मनि ।। ३०९ ।।

दत्ते वृत्तेऽथ वा द्रव्ये क्वचिल्लिखितपूर्वके ।
एष एव विधिर्ज्ञेयो लेख्यशुद्धिविनिर्णये ।। ३१० ।।

स्थावरे विक्रयाधाने लेख्यं कूटं करोति यः ।
स सम्यग्भावितः कार्यो जिह्वापाण्यङ्घ्रिवर्जितः ।। ३११ ।।

मलैर्यद्भेदितं दग्धं छिद्रितं वीतं एव वा ।
तदन्यत्कारयेल्लेख्यं स्वेदेनोल्लिखितं तथा ।। ३१२ ।।

भुक्तिः[सम्पाद्यताम्]

लिखितं साक्षिणो भुक्तिः प्रमाणत्रयं इष्यते ।
प्रमाणेषु स्मृता भुक्तेः सल्लेखसमता नृणाम् ।। ३१३ ।।

रथ्यानिर्गमनद्वार जलवाहादिसंशये ।
भुक्तिरेव तु गुर्वी स्यात्प्रमाणेष्विति निश्चयः ।। ३१४ ।।

अनुमानाद्गुरुः सक्षी साक्षिभ्यो लिखितं गुरु ।
अव्याहता त्रिपुरुषी भुक्तिरेभ्यो गरीयसी ।। ३१५ ।।

नोपभोगे बलं कार्यं आहर्त्रा तत्सुतेन वा ।
पशुस्त्रीपुरुषादीनां इति धर्मो व्यवस्थितः ।। ३१६ ।।

भुक्तिस्तु द्विविधा प्रोक्ता सागमानागमा तथा ।
त्रिपुरुषी या स्वतन्त्रा सा चेदल्पा तु सागमा ।। ३१७ ।।

मुख्या पैतामही भुक्तिः पैतृकी चापि संमता ।
त्रिभिरेतैरविच्छिन्ना स्थिरा षष्ट्याब्दिकी मता ।। ३१८ ।।

सागमेन तु भुक्तेन सम्यग्भुक्तं यदा तु यत् ।
आहर्ता लभते तत्तु नापहार्यं तु तत्क्वचित् ।। ३१९ ।।

प्रनष्टागमलेख्येन भोगारूढेन वादिना ।
कालः प्रमाणं दानं च कीर्तनीयानि संसदि ।। ३२० ।।

स्मार्तकाले क्रिया भूमेः सागमा भुक्तिरिष्यते ।
अस्मार्तेऽनुगमाभावात्क्रमात्त्रिपुरुषागता ।। ३२१ ।।

आदौ तु कारणं मध्ये भुक्तिस्तु सागमा (?) ।
कारणं भुक्तिरेवैका संतता या त्रिपौरुषी ।। ३२२ ।।

आहर्ता भुक्तियुक्तोऽपि लेख्यदोषान्विशोधयेत् ।
तत्सुतो भुक्तिदोषांस्तु लेख्यदोषांस्तु नाप्नुयात् ।। ३२३ ।।

येनोपात्तं हि यद्द्रव्यं सोऽभियुक्तस्तदुद्धरेत् ।
चिरकालोपभोगेऽपि भुक्तिस्तस्यैव नेष्यते ।। ३२४ ।।

चिरन्तनं अविज्ञातं भोगं लोभान्न चालयेत् ।। ३२५ ।।

पित्रा भुक्तं तु यद्द्रव्यं भुक्त्याचारेण धर्मतः ।
तस्मिन्प्रेते न वाच्योऽसौ भुक्त्या प्राप्तं हि तस्य तत् ।। ३२६ ।।

त्रिभिरेव तु या भुक्ता पुरुषैर्भू यथाविधि ।
लेख्याभावेऽपि तां तत्र चतुर्थः समवाप्नुयात् ।। ३२७ ।।

यथा क्षीरं जनयति दधि कालाद्रसान्वितम् ।
दानहेतुस्तथा कालाद्भोगस्त्रिपुरुषागतः ।। ३२८ ।।

भुक्तिर्बलवती शास्त्रे संतता या चिरन्तनी ।
विच्छिन्नापि सा ज्ञेया या तु पूर्वप्रसाधिता ।। ३२९ ।।

न भोगं कल्पयेत्स्त्रीषु देवराजधनेषु च ।
बालश्रोत्रियवित्ते च मातृतः पितृतः क्रमात् ।। ३३० ।।

ब्रह्मचरी चरेत्कश्चिदव्रतं षट्त्रिंशदाब्दिकम् ।
अर्थार्थी चान्यविषये दीर्घकालं वसेन्नरः ।। ३३१ ।।

समावृत्तोऽव्रती कुर्यात्स्वधनान्वेषणं ततः ।
पञ्चाशदाब्दिको भोगस्तद्धनस्यापहारकः ।। ३३२ ।।

प्रविवेदं द्वादशाब्दः कालो विद्यार्थिनां स्मृतः ।
शिल्पविद्यार्थिनां चैव ग्रहणान्तः प्रकीर्तितः ।। ३३३ ।।

सुहृद्भिर्बन्धुभिश्चैषां यत्स्वं भुक्तं अपश्यताम् ।
नृपापराधिनां चैव न तत्कालेन हीयते ।। ३३४ ।।

सनाभिभिर्बान्धवैश्च यद्भुक्तं स्वजनैस्तथा ।
भोगात्तत्र न सिद्धिः स्याद्भोगं अन्यत्र कल्पयेत् ।। ३३५ ।।

युक्तिः[सम्पाद्यताम्]

अर्थिनाभ्यर्थितो यस्तु विघातं न प्रयोजयेत् ।
त्रिचतुःपञ्चकृत्वो वा परस्तदृणी भवेत्(?) ।। ३३६ ।।

दानं प्रज्ञापना भेदः संप्रलोभक्रिया च या ।
चित्तापनयनं चैव हेतवो हि विभावकाः ।। ३३७ ।।

एषां अन्यतमो यत्र वादिना भावितो भवेत् ।
मूलक्रिया तु तत्र स्याद्भाविते वादिनिह्नवे ।। ३३८ ।।

साक्षिणः[सम्पाद्यताम्]

न कालहरणं कार्यं राज्ञा साक्षिप्रभाषणे ।
महान्दोषो भवेत्कालाद्धर्मव्यावृत्तिलक्षणः ।। ३३९ ।।

उपस्थितान्परीक्षेत साक्षिणो नृपतिः स्वयम् ।
साक्षिभिर्भाषितं वाक्यं सभ्यैः सह परीक्षयेत् ।। ३४० ।।

सम्यक्क्रियापरिज्ञाने देयः कालस्तु साक्षिणाम् ।
संदिग्धं यत्र साक्ष्यं स्यात्सद्यः स्पष्टं विवादयेत् ।। ३४१ ।।

सभान्तः साक्षिणः सर्वानर्थिप्रत्यर्थिसंनिधौ ।
प्राङ्विवाको नियुञ्जीत विधिनानेन सान्त्वयन् ।। ३४२ ।।

यद्द्वयोरनयोर्वेत्थ कार्येऽस्मिंश्चेष्टितं मिथः ।
तद्ब्रूत सर्वं सत्येन युष्माकं ह्यत्र साक्षिता ।। ३४३ ।।

देवब्राह्मनसान्निध्ये साक्ष्यं पृच्छेदृतं द्विजान् ।
उदङ्मुखान्प्राङ्मुखान्वा पूर्वाह्णे वै शुचिः शुचीन् ।। ३४४ ।।

आहूय साक्षिणः पृच्छेन्नियम्य शपथैर्भृशम् ।
समस्तान्विदिताचारान्विज्ञातार्थान्पृथक्पृथक् ।। ३४५ ।।

अर्थिप्रत्यर्थिसांनिध्यादनुभूतं तु यद्भवेत् ।
तद्ग्राह्यं साक्षिणो वाक्यं अन्यथा न बृहस्पतिः ।। ३४६ ।।

प्रख्यातकुलशीलाश्च लोभमोहविवर्जिताः ।
आप्ताः शुद्धा विशिष्टा ये तेषां साक्ष्यं असंशयम् ।। ३४७ ।।

विभाव्यो वादिना यादृक्सदृशैरेव भावयेत् ।
नोत्कृष्टश्चावकृष्टस्तु साक्षिभिर्भावयेत्सदा ।। ३४८ ।।

लिङ्गिनः श्रेणिपूगाश्च वणिग्व्रातास्तथापरे ।
समूहस्थाश्च ये चान्ये वर्गास्तानब्रवीद्भृगुः ।। ३४९ ।।

दासचारणमल्लानां हस्त्यश्वायुधजीविनाम् ।
प्रत्येकैकं समूहानां नायका वर्गिणस्तथा ।
तेषां वादः स्ववर्गेषु वर्गिणस्तेषु साक्षिणः ।। ३५० ।।

स्त्रीणां साक्ष्यं स्त्रियः कुर्युर्द्विजानां सदृशा द्विजाः ।
शूद्राश्च सन्तः शूद्राणां अन्त्यानां अन्त्ययोनयः ।। ३५१ ।।

अशक्य आगमो यत्र विदेशप्रतिवासिनाम् ।
त्रैविद्यप्रहितं तत्र लेख्यसाक्ष्यं प्रवादयेत् ।। ३५२ ।।

अभ्यन्तरस्तु निक्षेपे साक्ष्यं एकोऽपि वाच्यते ।
अर्थिना प्रहितः साक्षी भवत्येकोऽपि दूतकः ।। ३५३ ।।

संस्कृतं येन यत्पण्यं तत्तेनैव विभावयेत् ।
एक एव प्रमाणं स विवादे तत्र कीर्तितः ।। ३५४ ।।

लेखकः प्राङ्विवाकश्च सभ्याश्चैवानुपूर्वशः ।
नृपे पश्यति यत्कार्यं साक्षिणः समुदाहृताः ।। ३५५ ।।

अन्ये पुनरनिर्दिष्टाः साक्षिणः समुदाहृताः ।
ग्रामश्च प्राङ्विवाकश्च राजा च व्यवहारिणाम् ।। ३५६ ।।

कार्येष्वभ्यन्तरो यश्च अर्थिना प्रहितश्च यः ।
कुल्याः कुलविवादेषु भवेयुस्तेऽपि साक्षिणः ।। ३५७ ।।

रिक्थभागविवादे तु संदेहे समुपस्थिते ।
कुल्यानां वचनं तत्र प्रमाणं तद्विपर्यये ।। ३५८ ।।

साक्षिणां लिखितानां तु निर्दिष्टानां च वादिना ।
तेषां एकोऽन्यथावादी भेदात्सर्वे न साक्षिणः ।। ३५९ ।।

अन्येन हि कृतः साक्षी नैवान्यस्तं विवादयेत् ।
तदभावे नियुक्तो वा बान्धवो वा विवादयेत् ।। ३६० ।।

तद्वृत्तिजीविनो ये च तत्सेवाहितकारिणः ।
तद्बन्धुसुहृदो भृत्या आप्तास्ते तु न साक्षिणः ।। ३६१ ।।

मातृष्वसृसुताश्चैव सोदर्यासुतमातुलाः ।
एते सनाभयस्तूक्ताः साक्ष्यं तेषु न योजयेत् ।। ३६२ ।।

कुल्याः संबन्धिनश्चैव विवाह्यो भगिनीपतिः ।
पिता बन्धुः पितृव्यश्च श्वशुरो गुरवस्तथा ।। ३६३ ।।

नगरग्रामदेशेषु नियुक्ता ये पदेषु च ।
वल्लभाश्च न पृच्छेयुर्भक्तास्ते राजपूरुषाः ।। ३६४ ।।

ऋणादिषु परीक्षेत साक्षिणः स्थिरकर्मसु ।
साहसात्ययिके चैव परीक्षा कुत्रचित्स्मृता ।। ३६५ ।।

व्याघातेषु नृपाज्ञायाः संग्रहे साहसेषु च ।
स्तेयपारुष्ययोश्चैव न परीक्षेत साक्षिणः ।। ३६६ ।।

अन्तर्वेश्मनि रात्रौ च बहिर्ग्रामाच्च यद्भवेत् ।
एतेष्वेवाभियोगश्चेन्न परीक्षेत साक्षिणः ।। ३६७ ।।

न साक्ष्यं साक्षिभिर्वाच्यं अपृष्टैरर्थिना सदा ।
न साक्ष्यं तेषु विद्येत स्वयं आत्मनि योजयेत् ।। ३६८ ।।

लेख्यारूढश्चोत्तरश्च साक्षी मार्गद्वयान्वितः ।। ३६९ ।।

अथ स्वहस्तेनारूढस्तिष्ठंश्चैकः स एव तु ।
न चेत्प्रत्यभिजानीयात्तत्स्वहस्तैः प्रसाधयेत् ।। ३७० ।।

अर्थिना स्वयं आनीतो यो लेख्ये संनिवेश्यते ।
स साक्षी लिखितो नाम स्मारितः पत्रकादृते ।। ३७१ ।।

यस्तु कार्यप्रसिद्ध्यर्थं दृष्ट्वा कार्यं पुनः पुनः ।
स्मार्यते ह्यर्थिना साक्षी स स्मारित इहोच्यते ।। ३७२ ।।

प्रयोजनार्थं आनीतः प्रसङ्गादागतश्च यः ।
द्वौ साक्षिणौ त्वलिखितौ पूर्वपक्षस्य साधकौ ।। ३७३ ।।

अर्थिना स्वार्थसिद्द्यर्थं प्रत्यर्थिवचनं स्फुटम् ।
यः श्रावितः स्थितो गूढो गूढसाक्षी स उच्यते ।। ३७४ ।।

साक्षिणां अपि यः साक्ष्यं उपर्युपरि भाषते ।
श्रवणाच्छ्रावणाद्वापि स साक्ष्युत्तरसंज्ञितः ।। ३७५ ।।

उल्लप्यं यस्य विश्रम्भात्कार्यं वा विनिवेदितम् ।
गूढचारी स विज्ञेयः कार्यं अध्यगतस्तथा ।। ३७६ ।।

अर्थी यत्र विपन्नः स्यात्तत्र साक्षी मृतान्तरः ।
प्रत्यर्थी च मृतो यत्र तत्राप्येवं प्रकल्प्यते ।। ३७७ ।।

साक्षिदोषोद्भावनम्[सम्पाद्यताम्]

लेख्यदोषास्तु ये केचित्साक्षिणां चैव ये स्मृताः ।
वादकाले तु वक्तव्याः पश्चादुक्तान्न दूषयेत् ।। ३७८ ।।

उक्तेरर्थे साक्षिणो यस्तु दूषयेत्प्राग्दूषितान् ।
न च तत्कारणं ब्रूयात्प्राप्नुयात्पूर्वसाहसम् ।। ३७९ ।।

नातथ्येन प्रमाणं तु दोषेणैव तु दूषयेत् ।
मिथ्याभियोगे दण्ड्यः स्यात्साध्यार्थाच्चापि हीयते ।। ३८० ।।

प्रत्यर्थिनार्थिना वापि साक्षिदूषणसाधने ।
प्रस्तुतार्थोपयोगित्वाद्व्यवहारान्तरं न च ।। ३८१ ।।

साक्षिदोषाः प्रवक्तव्याः संसदि प्रतिवादिना ।
पत्रे विलिख्य तान्सर्वान्वाच्यः प्रत्युत्तरं ततः ।। ३८२ ।।

प्रतिपत्तौ तु साक्षित्वं अर्हन्ति न कदाचन ।
अतोऽन्यथा भावनीयाः क्रियया प्रतिवादिना ।। ३८३ ।।

अभावयन्धनं दाप्यः प्रत्यर्थी साक्षिणः स्फुटम् ।
भाविताः साक्षिणः सर्वे साक्षिधर्मनिराकृताः ।। ३८४ ।।

आकारोऽङ्गितचेष्टाभिस्तस्य भावं विभावयेत् ।
प्रतिवादी भवेद्धीनः सोऽनुमानेन लक्ष्यते ।। ३८५ ।।

कम्पः स्वेदोऽथ वैकल्यं ओष्ठशोषाभिमर्शने ।
भूलेखनं स्थानहानिस्तिर्यगूर्ध्वनिरीक्षणम् ।
स्वरभेदश्च दुष्टस्य चिह्नान्याहुर्मनीषिणः ।। ३८६ ।।

सभान्तःस्थैस्तु वक्तव्यं साक्ष्यं नान्यत्र साक्षिभिः ।
सर्वसाक्ष्येष्वयं धर्मो ह्यन्यत्र स्थावरेषु तु ।। ३८७ ।।

अर्थिप्रत्यर्थिसांनिध्ये साध्यार्थस्य च संनिधौ ।
प्रत्यक्षं देशयेत्सक्ष्यं परोक्षं न कथंचन ।। ३८८ ।।

अर्थस्योपरि वक्तव्यं तयोरपि विना क्वचित् ।
चतुष्पदेष्वयं धर्मो द्विपदस्थावरेषु च ।। ३८९ ।।

तौल्यगणिममेयानां अभावेऽपि विवादयेत् ।
क्रियाकारेषु सर्वेषु साक्षित्वं न ततोऽन्यथा ।। ३९० ।।

वधे चेत्प्राणिनां साक्ष्यं वादयेच्छिवसंनिधौ ।
तदभावे तु चिह्नस्य नान्यथैव प्रवादयेत् ।। ३९१ ।।

स्वभावोक्तं वचस्तेषां ग्राह्यं यद्दोषवर्जितम् ।
उक्ते तु साक्षिणो राज्ञा न प्रष्टव्याः पुनः पुनः ।। ३९२ ।।

स्वभावेनैव यद्ब्रूयुस्तद्ग्राह्यं व्यावहारिकम् ।
अतो यदन्यद्विब्रूयुर्धर्मार्थं तदपार्थकम् ।। ३९३ ।।

समवेतैस्तु यद्दृष्टं वक्तव्यं तत्तथैव तु ।
विभिन्नैकैककार्यं यद्वक्तव्यं तत्पृथक्पृथक् ।। ३९४ ।।

भिन्नकाले तु यत्कार्यं विज्ञातं तत्र साक्षिभिः ।
एकैकं वादयेत्तत्र भिन्नकालं तु तद्भृगुः ।। ३९५ ।।

ऋणादिषु विवादेषु स्थिरप्रायेषु निश्चितम् ।
ऊने वाप्यधिके वार्थे प्रोक्ते साध्यं न सिध्यति ।। ३९६ ।।

साध्यार्थांशेऽपि गदिते साक्षिभिः सकलं भवेत् ।
स्त्रीसङ्गे साहसे चौर्ये यत्साध्यं परिकल्पितम् ।। ३९७ ।।

ऊनाधिकं तु यत्र स्यात्तत्साक्ष्यं तत्र वर्जयेत् ।
साक्षी तत्र न दण्ड्यः स्यादब्रुवन्दण्डं अर्हति ।। ३९८ ।।

देशं कालं धनं संख्यां रूपं जात्याकृती वयः ।
विसंवदेद्यत्र साक्ष्ये तदनुक्तं विदुर्बुधाः ।। ३९९ ।।

निर्दिष्टेष्वर्थजातेषु साक्षी चेत्साक्ष्य आगते ।
न ब्रूयादक्षरसमं न तन्निगदितं भवेत् ।। ४०० ।।

ऊनं अभ्यधिकं वार्थं विब्रूयुर्यत्र साक्षिणः ।
तदप्ययुक्तं विज्ञेयं एष साक्षिविनिश्चयः ।। ४०१ ।।

साक्षिणां दोषा दण्डाश्च[सम्पाद्यताम्]

अपृष्टः सर्ववचने पृष्टस्याकथने तथा ।
साक्षिणः संनिरोद्धव्या गर्ह्या दण्ड्याश्च धर्मतः ।। ४०२ ।।

वाक्पारुष्ये छले वादे दप्याः स्युर्त्रिशतं दमम् ।
ऋणादिवादेषु धनं ते स्युर्दाप्या ऋणं तथा ।। ४०३ ।।

यः साक्षी नैव निर्दिष्टा नाहूतो नापि दर्शितः ।
ब्रूयान्मिथ्येति तथ्यं वा दण्ड्यः सोऽपि नराधमः ।। ४०४ ।।

साक्षी साक्ष्यं न चेद्ब्रूयात्समदण्डं वहेदृणम् ।
अतोऽन्येषु विवादेषु त्रिशतं दण्डं अर्हति ।। ४०५ ।।

उक्त्वान्यथा ब्रुवाणाश्च दण्ड्याः स्युर्वाक्छलान्विताः ।। ४०६ ।।

येन कार्यस्य लोभेन निर्दिष्टाः कूटसाक्षिणः ।
गृहीत्वा तस्य सर्वस्वं कुर्यान्निर्विषयं ततः ।। ४०७ ।।

यत्र वै भावितं कार्यं साक्षिभिर्वादिना भवेत् ।
प्रतिवादी यदा तत्र भावयेत्कार्यं अन्यथा ।
बहुभिश्च कुलीनैर्वा पूर्वाः स्युः कूटसाक्षिणः ।। ४०८ ।।

यदा शुद्धा क्रिया न्यायात्तदा तद्वाक्यशोधनम् ।
शुद्धाच्च वाक्याद्यः शुद्धः स शुद्धोऽर्थ इति स्थितिः ।। ४०९ ।।

सप्ताहात्तु प्रतीयेत यत्र साक्ष्यनृतं वदेत् ।
रोगोऽग्निर्ज्ञातिमरणं द्विसप्ताहात्त्रिसप्त वा ।
षट्चत्वारिंशके वापि द्रव्यजात्यादिभेदतः ।। ४१० ।।

दिव्यानि तेषां च विवादपदविषयिणी व्यवस्था[सम्पाद्यताम्]

न कश्चिदभियोक्तारं दिव्येषु विनियोजयेत् ।
अभियुक्ताय दातव्यं दिव्यं दिव्यविशारदैः ।। ४११ ।।

पार्थिवैः शङ्कितानां तु तुलादीनि नियोजयेत् ।
आत्मशुद्धिविधाने च न शिरस्तत्र कल्पयेत् ।। ४१२ ।।

लोकापवाददुष्टानां शङ्कितानां च दस्युभिः ।
तुलादीनि नियोज्यानि न शिरस्तत्र वै भृगुः ।। ४१३ ।।

न शङ्कासु शिरः कोशे कल्पयेत्तु कदाचन ।
अशिरांसि च दिव्यानि राजभृत्येषु दापयेत् ।। ४१४ ।।

शङ्काविश्वाससंधाने विभागे रिक्थिनां सदा ।
क्रियासमूहकर्तृत्वे कोशं एव प्रदापयेत् ।। ४१५ ।।

दत्तस्यापह्नवो यत्र प्रमाणं तत्र कल्पयेत् ।
स्तेयसाहसयोर्दिव्यं स्वल्पेऽप्यर्थे प्रदापयेत् ।। ४१६ ।।

सर्वद्रव्यप्रमाणं तु ज्ञात्वा हेम प्रकल्पयेत् ।
हेमप्रमाणयुक्तं तु तदा दिव्यं नियोजयेत् ।। ४१७ ।।

ज्ञात्वा संख्यां सुवर्णानां शतनाशे विषं स्मृतम् ।
अशीतेस्तु विनाशे वै दद्याच्चैव हुताशनम् ।। ४१८ ।।

षष्ट्या नाशे जलं देयं चत्वारिंशति वै घटम् ।
विंशद्दशविनाशे वै कोशपानं विधीयते ।। ४१९ ।।

पञ्चाधिकस्य वा नाशे तदर्धार्धस्य तन्दुलाः ।
तदर्धार्धस्य नाशे तु स्पृशेत्पुत्रादिमस्तकम् ।। ४२० ।।

तदर्धार्धस्य नाशे तु लौकिकाश्च क्रियाः स्मृताः ।
एवं विचारयन्राजा धर्मार्थाभ्यां न हीयते ।। ४२१ ।।

दिव्यानां अर्थिप्रत्यर्थिजातिशिल्पानुसारिण्यो व्यवस्थाः[सम्पाद्यताम्]

राजन्येऽग्निं घटं विप्रे वैश्ये तोयं नियोजयेत् ।
सर्वेषु सर्वदिव्यं वा विषं वरंज्य द्वियोत्तमे ।। ४२२ ।।

गोरक्षकान्वाणिजकांस्तथा कारुकुशीलवान् ।
प्रेष्यान्वार्धुषिकांश्चैव ग्राहयेच्शूद्रवद्द्विजान् ।। ४२३ ।।

न लोहशिल्पिनां अग्निं सलिलं नाम्बुसेविनाम् ।
मन्त्रयोगविदां चैव विषं दद्याच्च न क्वचित् ।
तण्डुलैर्न नियुञ्जीत व्रतिनं मुखरोगिणम् ।। ४२४ ।।

कुष्ठिनां वर्जयेदग्निं सलिलं श्वासकासिनाम् ।
पित्तश्लेष्मवतां नित्यं विषं तु परिवर्जयेत् ।। ४२५ ।।

मद्यपस्त्रीव्यसनिनां कितवानां तथैव च ।
कोशः प्राज्ञैर्न दातव्यो ये च नास्तिकवृत्तयः ।। ४२६ ।।

मातापितृद्विजगुरु बालस्त्रीराजघातिनाम् ।
महापातकयुक्तानां नास्तिकानां विशेषतः ।। ४२७ ।।

लिङ्गिनां प्रशठानां तु मन्त्रयोगक्रियाविदाम् ।
वर्णसंकरजातानां पापाभ्यासप्रवर्तिनाम् ।। ४२८ ।।

एतेष्वेवाभियोगेषु निन्द्येष्वेव च यत्नतः ।
दिव्यं प्रकल्प्येन्नैव राजा धर्मपरायणः ।। ४२९ ।।

एतैरेव नियुक्तानां साधूनां दिव्यं अर्हति ।
नेच्छन्ति साधवो यत्र तत्र शोध्याः स्वकैर्नरैः ।। ४३० ।।

महापातकयुक्तेषु नास्तिकेषु विशेषतः ।
न देयं तेषु दिव्यं तु पापाभ्यासरतेषु च ।। ४३१ ।।

एषु वादेषु दिव्यानि प्रतिषिद्धानि यत्नतः ।
कारयेत्सज्जनैस्तानि नाभिशस्तं त्यजेन्मनुः ।। ४३२ ।।

अस्पृश्याधमदासानां म्लेच्छानां पापकारिणाम् ।
प्रातिलोम्यपसूतानां निश्चयो न तु राजनि ।
तत्प्रसिद्धानि दिव्यानि संशये तेषु निर्दिशेत् ।। ४३३ ।।

दिव्यदेशाः[सम्पाद्यताम्]

इन्द्रस्थानेऽभिशस्तानां महापातकिनां नृणाम् ।
नृपद्रोहे प्रवृत्तानां राजद्वारे प्रयोजयेत् ।। ४३४ ।।

प्रातिलोम्यप्रसूतानां दिव्यं देयं चतुष्पथे ।
अतोऽन्येषु सभामध्ये दिव्यं देयं विदुर्बुधाः ।। ४३५ ।।

कालदेशविरोधे तु यथायुक्तं प्रकल्पयेत् ।
अन्येन हारयेद्दिव्यं विधिरेष विपर्यये ।। ४३६ ।।

अदेशकालदत्तानि बहिर्वासकृतानि च ।
व्यभिचारं सदार्थेषु कुर्वन्तीह न संशयः ।। ४३७ ।।

साधयेत्तत्पुनः साध्यं व्याघाते साधनस्य हि ।
दत्तान्यपि यथोक्तानि राजा दिव्यानि वर्जयेत् ।
मूर्खैर्लुब्धैश्च दुष्टैश्च पुनर्देयानि तानि वै ।। ४३८ ।।

तस्माद्यथोक्तविधिना दिव्यं देयं विशारदैः ।
अयथोक्तप्रयुक्तं तु न शक्तं तस्य साधने ।। ४३९ ।।

शिक्यच्छेदे तुलाभङ्गे तथा वापि गुणस्य वा ।
शुद्धेस्तु संशये चैव परीक्षेत पुनर्नरम् ।। ४४० ।।

अग्निदिव्यविधिः[सम्पाद्यताम्]

प्रस्खलत्यभियुक्तश्चेत्स्थानादन्यत्र दह्यते ।
न दग्धं तु विदुर्देवास्तस्य भूयोऽपि दापयेत् ।। ४४१ ।।

उदकदिव्यविधिः[सम्पाद्यताम्]

शरांस्त्वनायसैरग्रैः प्रकुर्वीत विशुद्धये ।
वेणकाण्डमयांश्चैव क्षेप्ता च सुदृढं क्षिपेत् ।। ४४२ ।।

क्षिप्ते तु मज्जनं कार्यं गमनं समकालिकम् ।
गमने त्वागमः कार्यः पुमानन्यो जले विशेत् ।। ४४३ ।।

शिरोमानं तु दृश्येत न कर्णौ नापि नासिका ।
अप्सु प्रवेशने यस्य शुद्धं तं अपि निर्दिशेत् ।। ४४४ ।।

निमज्ज्योत्प्लवते यस्तु दृष्टश्चेत्प्राणिभिर्नरः ।
पुनस्तत्र निमज्जेत्स देशचिह्नविभाविते ।। ४४५ ।।

विषदिव्यविधिः[सम्पाद्यताम्]

अजाशृङ्गनिभं श्यामं सुपीनं शृङ्गसंभवम् ।
भङ्गे च शृङ्गवेराभं ख्यातं तच्शृङ्गिणां विषम् ।। ४४६ ।।

रक्तं तदसितं कुर्यात्कटिनं चैव तल्लक्षणात् ।
अनेन विधिना ज्ञेयं दिव्यं दिव्यविशारदैः ।। ४४७ ।।

वत्सनाभनिभं पीतं वर्णज्ञानेन निश्चयः ।
शुक्तिशङ्खाकृतिर्भङ्गे विद्यात्तद्वत्सनाभकम् ।। ४४८ ।।

मधुक्षीरसमायुक्तं स्वच्छं कुर्वीत तत्क्षणात् ।
बाह्यं एवं समाख्यातं लक्षणं धर्मसाधकैः ।। ४४९ ।।

पूर्वाह्णे शीतले देशे विषं दद्यात्तु देहिनाम् ।
घृतेन योजितं श्लक्ष्णं पिष्टं त्रिंशद्गुणेन तु ।। ४५० ।।

विषस्य पलषड्भागाद्भागो विंशतिं अस्तु यः ।
तं अष्टभागहीनं शोध्ये देयं घृताप्लुतम् ।। ४५१ ।।

कोशदिव्यविधिः[सम्पाद्यताम्]

स्वल्पेऽपराधे देवानां स्नापयित्वायुधोदकम् ।
पाय्यो विकारे चाशुद्धो नियम्यः शुचिरन्यथा ।। ४५२ ।।

तण्डुलविधिः[सम्पाद्यताम्]

देवतास्नानपानीय दिव्ये तण्डुलभक्षणे ।
शुद्धनिष्ठीवनाच्शुद्धो नियम्योऽशुचिरन्यथा ।। ४५३ ।।

अवष्टम्भाभियुक्तस्य विशुद्धस्यापि कोशतः ।
सदण्डं अभियोगं च दापयेदभियोजकम् ।
दिव्येन शुद्धं पुरुषं सत्कुर्याद्धार्मिको नृपः ।। ४५४ ।।

शोणितं दृश्यते यत्र हनुवालं च सीदति ।
गात्रं च कम्पते यस्य तं अशुद्धं विनिर्दिशेत् ।। ४५५ ।।

अथ दैवविसंवादात्त्रिसप्ताहात्तु दापयेत् ।
अभियुक्तं तु यत्नेन तं अर्थं दण्डं एव च ।। ४५६ ।।

तस्यैकस्य न सर्वस्य जनस्य यदि तद्भवेत् ।
रोगोऽग्निर्ज्ञातिमरणं ऋणं दाप्यो दमं च सः ।। ४५७ ।।

क्षयातिसारविस्फोटास्ताल्वस्थिपरिपीडनम् ।
नेत्ररुग्गलरोगश्च तथोन्मादः प्रजायते ।
शिरोरुग्भुजभङ्गश्च दैविका व्याधयो नृणाम् ।। ४५८ ।।

शतार्धं दापयेच्शुद्धं अशुद्धो दण्डभाग्भवेत् ।। ४५९ ।।

विषे तोये हुताशे च तुलाकोशे च तण्डुले ।
तप्तमाषकदिव्ये च क्रमाद्दण्डं प्रकल्पयेत् ।। ४६० ।।

सहस्रं षट्शतं चैव तथा पञ्च शतानि च ।
चतुस्त्रिद्व्येकं एवं च हीनं हीनेषु कल्पयेत् ।। ४६१ ।।

शपथविधिः[सम्पाद्यताम्]

यत्रोपदिश्यते कर्म कर्तुरङ्गं न तूच्यते ।
दक्षिणस्तत्र विज्ञेयः कर्मणां पारगः करः ।। ४६२ ।।

आचतुर्दशकादह्नो यस्य नो राजदैविकम् ।
व्यसनं जायते घोरं स ज्ञेयः शपथे शुचिः ।। ४६३ ।।

उन्मत्तास्वतन्त्रादिकृतानां विचारः[सम्पाद्यताम्]

उन्मत्तेनैव मत्तेन तथा भावान्तरेण वा ।
यद्दत्तं यत्कृतं वाथ प्रमाणं नैव तद्भवेत् ।। ४६४ ।।

अस्वतन्त्रकृतं कार्यं तस्य स्वामी निवर्तयेत् ।
न भर्त्रा विवदेतान्यो भीतोन्मत्तकृतादृते ।। ४६५ ।।

पितास्वतन्त्रः पितृमान्भ्राता भातृव्य एव वा ।
कनिष्ठो वाविभक्तस्वो दासः कर्मकरस्तथा ।। ४६६ ।।

न क्षेत्रगृहदासानां दानाधमनविक्रयाः ।
अस्वतन्त्रकृताः सिद्धिं प्राप्नुयुर्नानुवर्णिताः ।। ४६७ ।।

प्रमाणं सर्व एवैते पण्यानां क्रयविक्रये ।
यदि संव्यवहारं ते कुर्वन्तोऽप्यनुमोदिताः ।। ४६८ ।।

क्षेत्रादीणां तथैव स्युर्भ्राता भ्रातृसुतः सुतः ।
निसृष्टाः कृत्यकरणे गुरुणा यदि गच्छता ।। ४६९ ।।

निसृष्टार्थस्तु यो यस्मिन्तस्मिन्नर्थे प्रभुस्तु सः ।
तद्भर्ता तत्कृतं कार्यं नान्यथा कर्तुं अर्हति ।। ४७० ।।

सुतस्य सुतदाराणां वशित्वं त्वनुशासने ।
विक्रये चैव दाने च वशित्वं न सुते पितुः ।। ४७१ ।।

निर्णयकृत्यम्[सम्पाद्यताम्]

शुद्धिस्तु शास्त्रतत्त्वज्ञैश्चिकित्सा समुदाहृता ।
प्रायश्चित्तं च दण्डं च ताभ्यां सा द्विविधा स्मृता ।। ४७२ ।।

अनेकार्थाभियोगेऽपि यावत्संसाधयेद्धनी ।
साक्षिभिस्तावदेवासौ लभते साधितं धनम् ।। ४७३ ।।

सर्वापलापं यः कृत्वा मिथोऽल्पं अपि संवदेत् ।
सर्वं एव तु दाप्यः स्यादभियुक्तो बृहस्पतिः ।। ४७४ ।।

एवं धर्मासनस्थेन समेनैव विवादिना ।
कार्याणां निर्णयो दृश्यो ब्राह्मणैः सह नान्यथा ।। ४७५ ।।

व्यवहारान्स्वयं दृष्ट्वा श्रुत्वा वा प्राङ्विवाकतः ।
जयपत्रं ततो दद्यात्परिज्ञानाय पार्थिवः ।। ४७६ ।।

दण्डविधिः[सम्पाद्यताम्]

राजा तु स्वामिने विप्रं सान्त्वेनैव प्रदापयेत् ।
देशाचारेण चान्यांस्तु दुष्टान्संपीड्य दापयेत् ।। ४७७ ।।

रिक्थिनं सुहृदं वापि च्छलेनैव प्रदापयेत् ।
वणिजः कर्षकांश्चापि शिल्पिनश्चाब्रवीद्भृगुः ।। ४७८ ।।

धनदानासहं बुद्ध्वा स्वाधीनं कर्म कारयेत् ।
अशक्तौ बन्धनागारं प्रवेश्यो ब्राह्मणादृते ।। ४७९ ।।

कर्षकान्क्षत्रविश्शूद्रान्समीहानांस्तु दापयेत् ।। ४८० ।।

आचार्यस्य पितुर्मातुर्बान्धवानां तथैव च ।
एतेषां अपराधेषु दण्डो नैव विधीयते ।। ४८१ ।।

प्राणात्यये तु यत्र स्यादकार्यकरणं कृतम् ।
दण्डस्तत्र तु नैव स्यादेष धर्मो भृगुस्मृतः ।। ४८२ ।।

न जातु ब्राह्मणं हन्यात्सर्वपापेष्ववस्थितम् ।
राष्ट्राच्चैनं बहिः कुर्यात्समग्रधनं अक्षतम् ।। ४८३ ।।

चतुर्णां अपि वर्णानां प्रायश्चित्तं अकुर्वताम् ।
शरीरधनसंयुक्तं दण्डं धर्म्यं प्रकल्पयेत् ।। ४८४ ।।

येन दोषेण शूद्रस्य दण्डो भवति धर्मतः ।
तेन चेत्क्षत्रविप्राणां द्विगुणो द्विगुणो भवेत् ।। ४८५ ।।

प्रव्रज्यावसितं शूद्रं जपहोमपरायणम् ।
वधेन शासयेत्पापं दण्ड्यो वा द्विगुणं दमम् ।। ४८६ ।।

सर्वेषु चापराधेषु पुंसो योऽर्थदमः स्मृतः ।
तदर्धं योषितो दद्युर्वधे पुंसोऽङ्ग कर्तनम् ।। ४८७ ।।

नास्वतन्त्राः स्त्रियो ग्राह्याः पुमांस्तत्रापराध्यति ।
प्रभुणा शासनीयास्ता राजा तु पुरुषं नयेत् ।। ४८८ ।।

प्रोषितस्वामिका नारी प्रापिता यद्यपि ग्रहे ।
तावत्सा बन्धने स्थाप्या यावत्प्रत्यागतः प्रभुः ।। ४८९ ।।

कल्पितो यस्य यो दण्डस्त्वपराधस्य यत्नतः ।
पणानां ग्रहणं तु स्यात्तन्मूल्यं वाथ राजनि ।। ४९० ।।

माषपादो द्विपादो वा दण्डो यत्र प्रवर्तितः ।
अनिर्दिष्टं तु विज्ञेयं माषकं तु प्रकल्पयेत् ।। ४९१ ।।

यत्रोक्तो माषकैर्दण्डो राजतं तत्र निर्दिशेत ।
कृष्णलैश्चोक्तं एव स्यादुक्तदण्डविनिश्चयः ।। ४९२ ।।

माषो विंशतिभागस्तु ज्ञेयः कार्षापणस्य तु ।
काकणी तु चतुर्भागा माषकस्य पणस्य च ।। ४९३ ।।

पञ्चनद्याः प्रदेशे तु संज्ञेयं व्यवहारिकी ।
कार्षापणोण्डिका ज्ञेयास्ताश्चतस्रस्तु धानकः ।
ते द्वादश सुवर्णास्तु दीनारश्चित्रकः स्मृतः ।। ४९४ ।।

पुनर्न्यायः[सम्पाद्यताम्]

असत्सदिति यः पक्षः सभ्यैरेवावधार्यते ।
तीरितः सोऽनुशिष्टस्तु साक्षिवाक्यात्प्रकीर्तितः ।। ४९५ ।।

कुलादिभिर्निश्चितेऽपि सन्तोषं न गतस्तु यः ।
विचार्य तत्कृतं राजा कुकृतं पुनरुद्धरेत् ।। ४९६ ।।

ऋणादाने वृद्धिविचारः[सम्पाद्यताम्]

न स्त्रीभ्यो दासबालेभ्यः प्रयच्छेत्क्वचिदुद्धृतम् ।
दाता न लभते तत्तु तेभ्यो दद्यात्तु यद्वसु ।। ४९७ ।।

ऋणिकेन तु या वृद्धिरधिका संप्रकल्पिता ।
आपत्कालकृता नित्यं दातव्या कारिता तु सा ।
अन्यथा कारिता वृद्धिर्न दातव्या कथंचन ।। ४९८ ।।

एकान्तेनैव वृद्धिं तु शोधयेद्यत्र चर्णिकम् ।
प्रतिकालं ददात्येव शिखावृद्धिस्तु सा स्मृता ।। ४९९ ।।

गृहात्तोषः फलं क्षेत्राद्भोगलाभः प्रकीर्तितः ।। ५०० ।।

आधिभोगस्त्वशेषो यो वृद्धिस्तु परिकल्पितः ।
प्रयोगो यत्र चैवं स्यादाधिभोगः स उच्यते ।। ५०१ ।।

आकृतवृद्धिः[सम्पाद्यताम्]

यो याचितकं आदाय तं अदत्त्वा दिशं व्रजेत् ।
ऊर्ध्वं संवत्सरात्तस्य तद्धनं वृद्धिं आप्नुयात् ।। ५०२ ।।

कृत्वोद्धारं अदत्त्वा यो याचितस्तु दिशं व्रजेत् ।
ऊर्ध्वं मासत्रयात्तस्य तद्धनं वृद्धिं आप्नुयात् ।। ५०३ ।।

स्वदेशेऽपि स्थितो यस्तु न दद्याद्याचितः क्वचित् ।
तं ततोऽकारितां वृद्धिं अनिच्छन्तं च दापयेत् ।। ५०४ ।।

प्रीतिदत्तं न वर्धेत यावन्न प्रतियाचितम् ।
याच्यमानं अदत्तं चेद्वर्धते पञ्चकं शतम् ।। ५०५ ।।

निक्षिप्तं वृद्धिशेषं च क्रयविक्रयं एव च ।
याच्यमानं अदत्तं चेद्वर्धते पञ्चकं शतम् ।। ५०६ ।।

पण्यं गृहीत्वा यो मूल्यं अदत्त्वैव दिशं व्रजेत् ।
ऋतुत्रयस्यापरिष्टात्तद्धनं वृद्धिं आप्नुयात् ।। ५०७ ।।

चर्मसस्यासवद्यूते पण्यमूल्ये च सर्वदा ।
स्त्रीशुल्केषु न वृद्धिः स्यात्प्रातिभाव्यागतेषु च ।। ५०८ ।।

वृद्धेः परिमाणं[सम्पाद्यताम्]

ग्राह्यं स्याद्द्विगुणं द्रव्यं प्रयुक्तं धनिनां सदा ।
लभते चेन्न द्विगुणं पुनर्वृद्धिं प्रकल्पयेत् ।। ५०९ ।।

मणिमुक्ताप्रवालानां सुवर्णरजतस्य च ।
तिष्ठति द्विगुणा वृद्धिः फालकैटाविकस्य च ।। ५१० ।।

तैलानां चैव सर्वेषां मद्यानां अथ सर्पिषाम् ।
वृद्धिरष्टगुणा ज्ञेया गुडस्य लवणस्य च ।। ५११ ।।

कुप्यं पञ्चगुणं भूमिस्तथैवाष्टगुणा मता ।
सद्य एवेति वचनात्सद्य एव प्रदीयते ।। ५१२ ।।

ऋणोद्धरणं[सम्पाद्यताम्]

अनेकर्णसमवाये विधिः[सम्पाद्यताम्]

एकाहे लिखितं यत्तु तत्तु कुर्यादृणं समम् ।
ग्रहणं रक्षणं लाभं अन्यथा तु यथाक्रमम् ।। ५१३ ।।

नानाऋणसमवाये तु यद्यत्पूर्वकृतं भवेत् ।
तत्तदेवाग्रतो देयं राज्ञः स्याच्श्रोत्रियादनु ।। ५१४ ।।

यस्य द्रव्येण यत्पण्यं साधितं यो विभावयेत् ।
तद्द्रव्यं ऋणिकेनैव दातव्यं तस्य नान्यथा ।। ५१५ ।।

आधिः[सम्पाद्यताम्]

द्रव्यं गृहीत्वा वृद्ध्यर्थं भोगयोग्यं ददाति चेत् ।
जङ्गमं स्थावरं वापि भोग्याधिः स तु कथ्यते ।
मूल्यं तदाधिकं दत्त्वा स्वक्षेत्रादिकं आप्नुयात् ।। ५१६ ।।

आधिं एकं द्वयोर्यस्तु कुर्यात्का प्रतिपद्भवेत् ।
तयोः पूर्वकृतं ग्राह्यं तत्कर्ता चोरदण्डभाक् ।। ५१७ ।।

आधानं विक्रयो दानं लेख्यसाक्ष्यकृतं यदा ।
एकक्रियाविरुद्धं तु लेख्यं तत्रापहारकम् ।। ५१८ ।।

अनिर्दिष्टं च निर्दिष्टं एकत्र च विलेखितम् ।
विशेषलिखितं ज्याय इति कात्यायनोऽब्रवीत् ।। ५१९ ।।

योऽविद्यमानं प्रथमं अनिर्दिष्टस्वरूपकम् ।
आकाशभूतं आदध्यादनिर्दिष्टं च तद्भवेत् ।
यद्यत्तदास्य विद्येत तदादिष्टं विनिर्दिशेत् ।। ५२० ।।

यस्तु सर्वस्वं आदिश्य प्राक्पश्चान्नामचिह्नितम् ।
आदध्यात्तत्कथं न स्याच्चिह्नितं बलवत्तरम् ।। ५२१ ।।

मर्यादाचिह्नितं क्षेत्रं ग्रामं वापि यदा भवेत् ।
ग्रामादयश्च लिख्यन्ते तदा सिद्धिं अवाप्नुयात् ।। ५२२ ।।

आधीकृतं तु यत्किंचिद्विनष्टं दैवराजतः ।
तत्र ऋणं सोदयं दाप्यो धनिनां अधमर्णकः ।। ५२३ ।।

न चेद्धनिकदोषेण निपतेद्वा म्रियेत वा ।
आधिं अन्यं स दाप्यः स्यादृणान्मुच्येत नर्णिकः ।। ५२४ ।।

अकामं अननुज्ञातं अधिं यः कर्म कारयेत् ।
भोक्ता कर्मफलं दाप्यो वृद्धिं वा लभते न सः ।। ५२५ ।।

यस्त्वाधिं कर्म कुर्वाणं वाचा दण्डेन कर्मभिः ।
पीडयेद्भत्सयेच्चैव प्राप्नुयात्पूर्वसाहसम् ।। ५२६ ।।

बलादकामं यत्राधिं अनिसृष्टं प्रवेशयेत् ।
प्राप्नुयात्साहसं पूर्वं आधाता चाधिं आप्नुयात् ।। ५२७ ।।

आधिं दुष्टेन लेख्येन भुङ्क्ते यं ऋणिकाद्धनी ।
नृपो दमं दापयित्वा आधिकेख्यं विनाशयेत् ।। ५२८ ।।

आधाता यत्र न स्यात्तु धनी बन्धं निवेदयेत् ।
राज्ञस्ततः स विख्यातो विक्रेय इति धारणा ।
सवृद्धिकं गृहीत्वा तु शेषं राजन्यथार्पयेत् ।। ५२९ ।।

प्रतिभूविधानम्[सम्पाद्यताम्]

दानोपस्थानवादेषु विश्वासशपथाय च ।
लग्नकं कारयेदेवं यथायोगं विपर्यये ।। ५३० ।।

दर्शनप्रतिभूर्यस्तं देशे काले न दर्शयेत् ।
निबन्धं आवहेत्तत्र दैवराजकृतादृते ।। ५३१ ।।

नष्टस्यान्वेषणार्थं तु देयं पक्षत्रयं परम् ।
यद्यसौ दर्शयेत्तत्र मोक्तव्यः प्रतिभूर्भवेत् ।। ५३२ ।।

काले व्यतीते प्रतिभूर्यदि तं नैव दर्शयेत् ।
स तं अर्थं प्रदाप्यः स्यात्प्रेते चैवं विधीयते ।। ५३३ ।।

गृहीत्वा बन्धकं यत्र दर्शनेऽस्य स्थितो भवेत् ।
विना पित्रा धनं तस्माद्दाप्यः स्यात्तदृणं सुतः ।। ५३४ ।।

यो यस्य प्रतिभूस्तिष्ठेद्दर्शनायेह मानवः ।
अदर्शयन्स तं तस्मै प्रयच्छेत्स्वधनादृणम् ।। ५३५ ।।

आद्यौ तु वितथे दाप्यौ तत्कालावेदितं धनम् ।
उत्तरौ तु विसंवादे तौ विना तत्सुतौ तथा ।। ५३६ ।।

एकच्छायाश्रिते सर्वं दद्यात्तु प्रोषिते सुतः ।
मृते पितरि पितृअंशं परर्णं न बृहस्पतिः ।। ५३७ ।।

एकच्छायाप्रविष्टानां दाप्यो तस्तत्र दृश्यते ।
प्रोषिते तत्सुतः सर्वं पित्रंशं तु मृते सुतः ।। ५३८ ।।

प्रातिभाव्यं तु यो दद्यात्पीडितः प्रतिभावितः ।
त्रिपक्षात्परतः सोऽर्थं द्विगुणं लब्धुं अर्हति ।। ५३९ ।।

यस्यार्थे येन यद्दत्तं विधिनाभ्यर्थितेन तु ।
साक्षिभिर्भावितेनैव प्रतिभूस्तत्समाप्नुयात् ।। ५४० ।।

सत्यंकारविसंवादे द्विगुणं प्रतिदापयेत् ।
अकुर्वतस्तु तद्धानि सत्यंकारप्रयोजनम् ।। ५४१ ।।

पित्रादिभिः कृतं ऋणं केन प्रतिदेयम्[सम्पाद्यताम्]

कुटुम्बार्थं अशक्तेन गृहीतं व्याधितेन वा ।
उपप्लवनिमित्ते च विद्यादापत्कृते तु तत् ।। ५४२ ।।

कन्यावैवाहिकं चैव प्रेतकार्ये च यत्कृतम् ।
एतत्सर्वं प्रदातव्यं कुटुम्बेन कृतं प्रभोः ।। ५४३ ।।

ऋणं पुत्रकृतं पित्रा न देयं इति धर्मतः ।
देयं प्रतिश्रुतं यत्स्यात्यच्च स्यादनुमोदितम् ।। ५४४ ।।

प्रोषितस्यामतेनापि कुटुम्बार्थं ऋणं कृतम् ।
दासस्त्रीमातृशिष्यैर्वा दद्यात्पुत्रेण वा भृगुः ।। ५४५ ।।

भर्त्रा पुत्रेण वा सार्धं केवलेनात्मना कृतम् ।
ऋणं एवंविधं देयं नान्यथा तत्कृतं स्त्रिया ।। ५४६ ।।

मर्तुकामेन या भर्त्रा प्रोक्ता देयं ऋणं त्वया ।
अप्रपन्नापि सा दाप्या धनं यद्याश्रितं स्त्रियाम् ।। ५४७ ।।

विद्यमानेअपि रोगार्ते स्वदेशात्प्रोषितेऽपि वा ।
विंशात्संवत्सराद्देयं ऋणं पितृकृतं सुतैः ।। ५४८ ।।

व्याधितोन्मत्तवृद्धानां तथा दीर्घप्रवासिनाम् ।
ऋणं एवंविधं पुत्राञ् जीवतां अपि दापयेत् ।। ५४९ ।।

सांनिध्येऽपि पितुः पुत्रैरृणं देयं विभावितम् ।
जात्यन्धपतितोन्मत्त क्षयश्वित्रादिरोगिणः ।। ५५० ।।

पितॄणां सूनुभिर्जातैर्दानेनैवाधमादृणात् ।
विमोक्षस्तु यतस्तस्मादिच्छन्ति पितरः सुतान् ।। ५५१ ।।

नाप्राप्तव्यवहारेण पितर्युपरते क्वचित् ।
काले तु विधिना देयं वसेयुर्नरकेऽन्यथा ।। ५५२ ।।

अप्राप्तव्यवहारश्चेत्स्वतन्त्रोऽपीह नर्णभाक् ।
स्वातन्त्र्यं हि स्मृतं ज्येष्ठे ज्यैष्ठे गुणवयःकृतम् ।। ५५३ ।।

यद्दृष्टं दत्तशेषं वा देयं पैतामहं तु तत् ।
सदोषं व्याहतं पित्रा नैव देयं ऋणं क्वचित् ।। ५५४ ।।

पित्रा दृष्टं ऋणं यत्तु क्रमायातं पितामहात् ।
निर्दोषं नोद्धृतं पुत्रैर्देयं पौत्रैस्तु तद्भृगुः ।। ५५५ ।।

पैतामहं तु यत्पुत्रैर्न दत्तं रोगिभिः स्थितैः ।
तस्मादेवंविधं पौत्रैर्देयं पैतामहं समम् ।। ५५६ ।।

ऋणं तु दापयेत्पुत्रं यदि स्यान्निरुपद्रवः ।
द्रविणार्हश्च धुर्यश्च नान्यथा दापयेत्सुतम् ।। ५५७ ।।

यद्देयं पितृभिर्नित्यं तदभावे तु तद्धनात् ।
तद्धनं पुत्रपुत्रैर्वा देयं तत्स्वामिने तदा ।। ५५८ ।।

पित्रर्णे विद्यमाने तु न च पुत्रो धनं हरेत् ।
देयं तद्धनिके द्रव्यं मृते गृह्णंस्तु दाप्यते ।। ५५९ ।।

पुत्राभावे तु दातव्यं ऋणं पौत्रेण यत्नतः ।
चतुर्थेन न दातव्यं तस्मात्तद्विनिर्वर्तते ।। ५६० ।।

प्रातिभाव्यागतं पौत्रैर्दातव्यं न तु तत्क्वचित् ।
पुत्रेणापि समं देयं ऋणं सर्वत्र पैतृकम् ।। ५६१ ।।

रिक्थहर्त्रा ऋणं देयं तदभावे च योषितः ।
पुत्रैश्च तदभावेऽन्यै रिक्थभाग्भिर्यथाक्रमम् ।। ५६२ ।।

यावन्न पैतृकं द्रव्यं विद्यमानं लभेत्सुतः ।
सुसमृद्दोऽपि दाप्यः स्यात्तावन्नैवाधमर्णिकः ।। ५६३ ।।

लिखितं मुक्तकं वापि देयं यत्तु प्रतिश्रुतम् ।
परपूर्वस्त्रियै यत्तु विद्यात्कामकृतं नृणाम् ।। ५६४ ।।

यत्र हिंसां समुत्पाद्य क्रोधाद्द्रव्यं विनाश्य वा ।
उक्तं तुष्टिकरं यत्तु विद्याद्क्रोधकृतं तु तत् ।। ५६५ ।।

स्वस्थेनार्तेन वा देयं भावितं धर्मकारणात् ।
अदत्त्वा तु मृते दाप्यस्तत्सुतो नात्र संशयः ।। ५६६ ।।

निर्धनैरनपत्यैस्तु यत्कृतं शौण्डिकादिभिः ।
तत्स्त्रीणां उपभोक्ता तु दद्यात्तदृणं एव हि ।। ५६७ ।।

शौण्डिकव्याधजनक गोपनाविकयोषिताम् ।
अधिष्ठाता ऋणं दाप्यस्तासां भर्तृक्रियासु तत् ।। ५६८ ।।

न च भार्याकृतं ऋणं कथंचित्पत्युराभवेत् ।
आपत्कृतादृते पुंसां कुटुम्बार्थे हि विस्तरः ।। ५६९ ।।

अन्यत्र रजकव्याध गोपशौण्डिकयोषिताम् ।
तेषां तु तत्परा वृत्तिः कुटुम्बं च तदाश्रयम् ।। ५७० ।।

अमतेनैव पुत्रस्य प्रधना यान्यं आश्रयेत् ।
पुत्रेणैवापहार्यं तद् धनं दुहितृभिर्विना ।। ५७१ ।।

ऋणार्थं आहरेत्तन्तुं न सुखार्थं कदाचन ।
अयुक्ते कारणे यस्मात्पितरौ तु न दापयेत् ।। ५७२ ।।

या स्वपुत्रं तु जह्यात्स्त्री समर्थं अपि पुत्रिणी ।
आहृत्य स्त्रीधनं तत्र पित्र्यर्णं शोधयेन्मनुः ।। ५७३ ।।

बालपुत्राधिकार्था च भर्तारं यान्यं आश्रिता ।
आश्रितस्तदृणं दद्याद्बालपुत्राविधिः स्मृतः ।। ५७४ ।।

दीर्घप्रवासिनिर्बन्धु जडोन्मत्तार्तलिङ्गिनाम् ।
जीवतां अपि दातव्यं तत्स्त्रीद्रव्यसमाश्रितैः ।। ५७५ ।।

व्यसनाभिप्लुते पुत्रे बालो वा यत्न दृश्यते ।
द्रव्यहृद्दाप्यते तत्र तस्याभावे पुरन्ध्रिहृत् ।। ५७६ ।।

पूर्वं दद्याद्धनग्राहः पुत्रस्तस्मादनन्तरम् ।
योषिद्ग्राहः सुताभावे पुत्रो वात्यन्तनिर्धनः ।। ५७७ ।।

देयं भार्याकृतं ऋणं भर्त्रा पुत्रेण मातृकम् ।
भर्तुरर्थे कृतं यत्स्यादभिधाय गते दिशम् ।। ५७८ ।।

देयं पुत्रकृतं तत्स्याद्यच्च स्यादनुवर्णितम् ।
कृतासंवादितं यच्च श्रुत्वा चैवानुचोदितम् ।। ५७९ ।।

अधर्मणिकस्यावरोधादिना धनोद्धारविचार[सम्पाद्यताम्]

धार्योऽवरुद्धस्त्वृणिकः प्रकाशं जनसंसदि ।
यावन्न दद्याद्देयं च देशाचारस्थितिर्यथा ।। ५८० ।।

विण्मूत्रशङ्का यस्य स्याद्धार्यमाणस्य देहिनः ।
पृष्ठतो वानुगन्तव्यो निबद्धं वा समुत्सृजेत् ।। ५८१ ।।

स कृतप्रतिभूश्चैव मोक्तव्यः स्याद्दिने दिने ।
आहारकाले रात्रौ च निबन्धे प्रतिभूः स्थितः ।। ५८२ ।।

यो दर्शनप्रतिभुवं नाधिगच्छेन्न चाश्रयेत् ।
स चारके निरोद्धव्यः स्थाप्यो वावेद्य रक्षिणः ।। ५८३ ।।

न चारके निरोद्धव्य आर्यः प्रात्ययिकः शुचिः ।
सोऽनिबद्धः प्रमोक्तव्यो निबद्धः शपथेन वा ।। ५८४ ।।

पीडनेनोपरोधेन साधयेदृणिकं धनी ।
कर्मणा व्यवहारेण सान्त्वेनादौ विभावितः ।। ५८५ ।।

आददीतार्थं एवं तु व्याजेनाचरितेन च ।
कर्मणा क्षत्रविश्शूद्रान्समहीनांश्च दापयेत् ।। ५८६ ।।

राजानं स्वामिनं विप्रं सान्त्वेनैव प्रदापयेत् ।
रिक्थिनं सुहृदं वापि च्छलेनैव प्रसाधयेत् ।। ५८७ ।।

वणिजः कर्षकाश्चैव शिल्पिनश्चाब्रवीद्भृगुः ।
देशाचारेण दाप्याः स्युर्दुष्टान्संपीड्य दापयेत् ।। ५८८ ।।

पीडयेत्तु धनी यत्र ऋणिकं न्यायवादिनम् ।
तस्मादर्थात्स हीयेत तत्समं चाप्नुयाद्दमम् ।। ५८९ ।।

यदि ह्यादावनादिष्टं अशुभं कर्म कारयेत् ।
प्राप्नुयात्साहसं पूर्वं ऋणान्मुच्येत चर्णिकः ।। ५९० ।।

उद्धारादिकं आदाय स्वामिने न ददाति यः ।
स तस्य दासो भृत्यः स्त्री पशुर्वा जायते गृहे ।। ५९१ ।।

उपनिधिः[सम्पाद्यताम्]

त्रयप्रोषितनिक्षिप्त बन्धान्वाहितयाचितम् ।
वैश्यवृत्त्यर्पितं चैव सोऽर्थस्तूपनिधिः स्मृतः ।। ५९२ ।।

निक्षिप्तं यस्य यत्किंचित्तत्प्रयत्नेन पालयेत् ।
दैवराजकृतादन्यो विनाशस्तस्य कीर्त्यते ।। ५९३ ।।

यस्य दोषेण यत्किंचिद्विनाश्येत ह्रियेत वा ।
तद्द्रव्यं सोदयं दाप्यो दैवराजकृताद्विना ।। ५९४ ।।

याचितानन्तरं नाशे दैवराजकृतेऽपि सः ।
ग्रहीता प्रतिदाप्यः स्यान्मूल्यमात्रं न संशयः ।। ५९५ ।।

न्यासादिकं परद्रव्यं प्रभक्षितं उपेक्षितम् ।
अज्ञाननाशितं चैव येन दाप्यः स एव तत् ।। ५९६ ।।

भक्षितं सोदयं दाप्यः समं दाप्य उपेक्षितम् ।
किंचिन्न्यूनं प्रदाप्यः स्याद्द्रव्यं अज्ञाननाशितम् ।। ५९७ ।।

अराजदैविकेनापि निक्षिप्तं यत्र नाशितम् ।
ग्रहीतुः सह भाण्डेन दातुर्नष्टं तदुच्यते ।। ५९८ ।।

ज्ञात्वा द्रव्यवियोगं तु दाता यत्र विनिक्षिपेत् ।
सर्वोपायविनाशेऽपि ग्रहीता नैव दाप्यते ।। ५९९ ।।

ग्राहकस्य हि यद्दोषान्नष्टं तु ग्राहकस्य तत् ।
तस्मिन्नष्टे हृते वापि ग्रहीता मूल्यं आहरेत् ।। ६०० ।।

ग्राह्यस्तूपनिधिः काले कालहीनं तु वर्जयेत् ।
कालहीनं ददद्दण्डं द्विगुणं च प्रदाप्यते ।। ६०१ ।।

सर्वेषूपनिधिष्वेते विधयः परिकीर्तिताः ।। ६०२ ।।

यैश्च संस्क्रियते न्यासो दिवसैः परिनिश्चितैः ।
तदूर्ध्वं स्थापयेच्शिल्पी दाप्यो दैवहतेऽपि तत् ।। ६०३ ।।

न्यासदोषाद्विनाशः स्याच्शिल्पिनं तन्न दापयेत् ।
दापयेच्शिल्पिदोषात्तत्संस्कारार्थं यदर्पितम् ।। ६०४ ।।

स्वल्पेनापि च यत्कर्म नष्टं चेद्भृतकस्य तत् ।
पर्याप्तं दित्सतस्तस्य विनश्येत्तदगृह्णतः ।। ६०५ ।।

यदि तत्कार्यं उद्दिश्य कालं परिनियम्य वा ।
याचितोऽर्धकृते तस्मिन्नप्राप्ते न तु दाप्यते ।। ६०६ ।।

प्राप्तकाले कृते कार्ये न दद्याद्याचितोऽपि सन् ।
तस्मिन्नष्टे वापि ग्रहीता मूल्यं आहरेत् ।। ६०७ ।।

याच्यमानो न दद्याद्वा दाप्यस्तत्सोदयं भवेत् ।। ६०८ ।।

अथ कार्यविपत्तिस्तु तस्यैव स्वामिनो भवेत् ।
अप्राप्ते वै स काले तु दाप्यस्त्वर्धकृतेऽपि तत् ।। ६०९ ।।

यो याचितकं आदाय न दद्यात्प्रतियाचितः ।
स निगृह्य बलाद्दाप्यो दण्ड्यश्च न ददाति यः ।। ६१० ।।

अनुमार्गेण कार्येषु अन्यस्मिन्वचनान्मम ।
दद्यास्त्वं इति यो दत्तः स इहान्वाधिरुच्यते ।। ६११ ।।

अस्वामिविक्रयः[सम्पाद्यताम्]

अस्वामिविक्रयं दानं आधिं च विनिवर्तयेत् ।। ६१२ ।।

अभियोक्ता धनं कुर्यात्प्रथमं ज्ञातिभिः स्वकम् ।
पश्चादात्मविशुध्यर्थं क्रयं केता स्वबन्धुभिः ।। ६१३ ।।

नाष्टिकस्तु प्रकुर्वीत तद्धनं ज्ञातृभिः स्वकम् ।
अदत्तत्यक्तविक्रीतं कृत्वा स्वं लभते धनम् ।। ६१४ ।।

प्रकाशं वा क्रयं कुर्यान्मूलं वापि समर्पयेत् ।
मूलानयनकालस्तु देयो योजनसंख्यया ।। ६१५ ।।

प्रकाशं च क्रयं कुर्यात्साधुभिर्ज्ञातिभिः स्वकैः ।
न तत्रान्या क्रिया प्रोक्ता दैविकी न च मानुषी ।। ६१६ ।।

यदा मूलं उपन्यस्य पुनर्वादी क्रयं वदेत् ।
आहरेन्मूलं एवासौ न क्रयेण प्रयोजनम् ।। ६१७ ।।

असमाहार्यमूलस्तु क्रयं एव विशोधयेत् ।
विशोधिते क्रये राज्ञा न वक्तव्यः स किंचन ।। ६१८ ।।

अनुपस्थापयन्मूलं क्रयं वाप्यविशोधयन् ।
यथाभियोगं धनिने धनं दाप्यो दमं च सः ।। ६१९ ।।

यदि स्वं नैव कुरुते ज्ञातिभिर्नाष्टिको धनम् ।
प्रसङ्गविनिवृत्त्यर्थं चोरवद्दण्डं अर्हति ।। ६२० ।।

वनिङ्वीथीपरिगतं विज्ञातं राजपुरुषैः ।
अविज्ञाताश्रयात्क्रीतं विक्रेता यत्र वा मृतः ।। ६२१ ।।

स्वामी दत्वार्धमूल्यं तु प्रगृह्णीत स्वक धनम् ।
अर्धं द्वयोरपहृतं तत्र स्याद्व्यवहारतः ।। ६२२ ।।

अविज्ञातक्रयो दोषस्तथा चापरिपालनम् ।
एतद्द्वयं समाख्यातं द्रव्यहानिकरं बुद्धैः ।। ६२३ ।।

सम्भूयसमुत्थानम्[सम्पाद्यताम्]

समवेतास्तु ये केचिच्शल्पिनो वणिजोऽपि वा ।
अविभज्य पृथग्भूतैः प्राप्तं तत्र फलं समम् ।। ६२४ ।।

भाण्डपिण्डव्ययोद्धार भारसारार्थवीक्षणम् ।
कुर्युस्तेऽव्यभिचारेण समयेन व्यवस्थिताः ।। ६२५ ।।

प्रयोगं कुर्वते ये तु हेमधान्यरसादिना ।
समन्यूनाधिकैरंशैर्लाभस्तेषां तथाविधः ।। ६२६ ।।

बहूनां संमतो यस्तु दद्यादेको धनं नरः ।
ऋणं च कारयेद्वापि सर्वैरेव कृतं भवेत् ।। ६२७ ।।

ज्ञातिसंबन्धिसुहृदां ऋणं देयं सबन्धकम् ।
अन्येषां लग्नकोपेतं लेख्यसाक्षियुतं तथा ।। ६२८ ।।

स्वेच्छादेयं हिरण्यं तु रसा धान्यं च साविधि ।
देशस्थित्या प्रदातव्यं ग्रहीतव्यं तथैव च ।। ६२९ ।।

समवेतैस्तु यद्दत्तं प्रार्थनीयं तथैव तत् ।
न च याचेत यः कश्चिल्लाभात्स परिहीयते ।। ६३० ।।

चोरतः सलिलादग्नेर्द्रव्यं यस्तु समाहरेत् ।
तस्यांशो दशमो देयः सर्ववादेष्वयं विधिः ।। ६३१ ।।

शिक्षकाभिज्ञकुशला आचार्यश्चेति शिल्पिनः ।
एकद्वित्रिचतुर्भागान्हरेयुस्ते यथोत्तरम् ।। ६३२ ।।

परराष्ट्राद्धनं यत्स्याच्चौरैः स्वाम्याज्ञयाहृतम् ।
राज्ञो दशांशं उद्धृत्य विभजेरन्यथाविधि ।। ६३३ ।।

चोराणां मुख्यभूतस्तु चतुरोऽंशांस्ततो हरेत् ।
शूरोऽंशांस्त्रीन्समर्थो द्वौ शोषास्त्वेकैकं एव च ।। ६३४ ।।

तेषां चेत्प्रसृतानां यो ग्रहणं समवाप्नुयात् ।
तन्मोक्षणार्थं यद्दत्तं वहेयुस्ते यथांशतः ।। ६३५ ।।

नर्तकानां एष एव धर्मः सद्भिरुदाहृतः ।
तालज्ञो लभते ह्यर्धं गायनास्तु समांशिनः ।
प्रमुखा द्व्यंशं अर्हन्ति सोऽयं संभूय कुर्वताम् ।। ६३६ ।।

वणिजां कर्षकाणां च चोराणां शिल्पिनां तथा ।
अनियम्यांशकर्तॄणां सर्वेषां एष निर्णयः ।। ६३७ ।।

दत्तानपाकर्म दत्ताप्रदानिकं वा[सम्पाद्यताम्]

विक्रयं चैव दानं च न नेयाः स्युरनिच्छवः ।
दाराः पुत्राश्च सर्वस्वं आत्मनैव तु योजयेत् ।। ६३८ ।।

आपत्काले तु कर्तव्यं दानं विक्रय एव वा ।
अन्यथा न प्रवर्तेत इति शास्त्रविनिश्चयः ।। ६३९ ।।

सर्वस्वगृहवर्जं तु कुटुम्बभरणाधिकम् ।
यद्द्रव्यं तत्स्वकं देयं अदेयं स्यादतोऽन्यथा ।। ६४० ।।

अतश्च सुतदाराणां वशित्वं त्वनुशासने ।
विक्रये चैव दाने च वशित्वं न सुते पितुः ।। ६४१ ।।

स्वेच्छया यः प्रतिश्रुत्य ब्राह्मणाय प्रतिग्रहम् ।
न दद्यादृणव दाप्यः प्राप्नुयात्पूर्वसाहसम् ।। ६४२ ।।

प्रतिश्रुतस्यादानेन दत्तस्याच्छादनेन च ।
कल्पकोटिशतं मर्त्यस्तिर्यग्योनौ च जायते ।। ६४३ ।।

अविज्ञातोपलब्ध्यर्थं दानं यत्र निरूपितम् ।
उपलब्धिक्रियालब्धं सा भृतिः परिकीर्तिता ।। ६४४ ।।

भयत्राणाय रक्षार्थं तथा कार्यप्रसाधनात् ।
अनेन विधिना लब्धं विद्यात्प्रत्युपकारतः ।। ६४५ ।।

प्राणसंशयं आपन्नं यो मां उत्तारयेदितः ।
सर्वस्वं तस्य दास्यामीत्युक्तेऽपि न तथा भवेत् ।। ६४६ ।।

कामक्रोधास्वतन्त्रार्त क्लीबोन्मत्तप्रमोहितैः ।
व्यत्यासपरिहासाच्च यद्दत्तं तत्पुनर्हरेत् ।। ६४७ ।।

या तु कार्यस्य सिद्ध्यर्थं उत्कोचा स्यात्प्रतिश्रुता ।
तस्मिन्नपि पसिद्धेऽर्थे न देया स्यात्कथंचन ।। ६४८ ।।

अथ प्रागेव दत्ता स्यात्प्रतिदाप्यस्तथा बलात् ।
दण्डं चैकादशगुणं आहुर्गार्गीयमानवाः ।। ६४९ ।।

स्तेनसाहसिकोद्वृत्त पारजायिकशंसनात् ।
दर्शनाद्वृत्तनष्टस्य तथासत्यप्रवर्तनात् ।। ६५० ।।

प्राप्तं एतैस्तु यत्किंचित्तदुत्कोचाख्यं उच्यते ।
न दाता तत्र दण्ड्यः स्यान्मध्यस्थश्चैव दोषभाक् ।। ६५१ ।।

नियुक्तो यस्तु कार्येषु स चेदुत्कोचं आप्नुयात् ।
स दाप्यस्तद्धनं कृत्स्नं दमश्चैकादशाधिकम् ।। ६५२ ।।

अनियुक्तस्तु कार्यार्थं उत्कोचं यं अवाप्नुयात् ।
कृतप्रत्युपकारार्थस्तस्य दोषो न विद्यते ।। ६५३ ।।

स्वस्थेनार्तेन वा दत्तं श्राव्रितं धर्मकारणात् ।
अदत्त्वा तु मृते दाप्यस्तत्सुतो नात्र संशयः ।। ६५४ ।।

योगाधमनविक्रीतं योगदानपतिग्रहम् ।
यस्य वाप्युपधिं पश्येत्तत्सर्वं विनिवर्तयेत् ।। ६५५ ।।

भृतावनिश्चितायां तु दशभागं अवाप्नुयात् ।
लाभगोवीर्यसस्यानां वणिग्गोपकृषीवलाः ।। ६५६ ।।

वेतनस्यानपाकर्म[सम्पाद्यताम्]

कर्मारम्भं तु यः कृत्वा सिद्धं नैव तु कारयेत् ।
बलात्कारयितव्योऽसौ अकुर्वन्दण्डं अर्हति ।। ६५७ ।।

विघ्नयन्वाहको दाप्यः प्रस्थाने द्विगुणां भृतिम् ।। ६५८ ।।

न तु दाप्यो हृतं चोरैर्दग्धमूढं जलेन वा ।। ६५९ ।।
त्यजेत्पथि सहायं यः श्रान्तं रोगार्तं एव वा ।
प्राप्नुयात्साहसं पूर्वं ग्रामे त्र्यहं अपालयन् ।। ६६० ।।

यदा तु पथि तद्भाण्डं आसिध्येत ह्रियेत वा ।
यावानध्वा गतस्तेन प्राप्नुयात्तावतीं भृतिम् ।। ६६१ ।।

हस्त्यश्वगोखरोष्ट्रादीन्गृहीत्वा भाटकेन यः ।
नार्पयेत्कृतकृत्यार्थः स तु दाप्यः सभाटकम् ।। ६६२ ।।

गृहवार्यापणादीणि गृहीत्वा भाटकेन यः ।
स्वामिने नार्पयेद्यावत्तावद्दाप्यः सभाटकम् ।। ६६३ ।।

स्वामिपालविवादः[सम्पाद्यताम्]

क्षेत्रारामविवीतेषु गृहेषु पशुवाटिषु ।
ग्रहणं तत्प्रविष्टानां ताडनं वा बृहस्पतिः ।। ६६४ ।।

अधमोत्तममध्यानां पशूनां चैव ताडने ।
स्वामी तु विवदेद्यत्र दण्डं तत्र प्रकल्पयेत् ।। ६६५ ।।

अजातेष्वेव सस्येषु कुर्यादावरणं महत् ।
दुःखेनेह निवार्यन्ते लब्धस्वादुरसा मृगाः ।। ६६६ ।।

दापयेत्पणपादं गां द्वौ पादौ महिषीं तथा ।
तथाजाविकवत्सानां पादो दण्डः प्रकीर्तितः ।। ६६७ ।।

समयस्यानपाकर्म संविद्व्यतिक्रमो वा[सम्पाद्यताम्]

समूहिनां तु यो धर्मस्तेन धर्मेण ते सदा ।
प्रकुर्युः सर्वकर्माणि स्वधर्मेषु व्यवस्थिताः ।। ६६८ ।।

अविरोधेन धर्मस्य निर्गतं राजशासनम् ।
तस्यैवाचरणं पूर्वं कर्तव्यं तु नृपाज्ञया ।। ६६९ ।।

राजप्रवर्तितान्धर्मान्यो नरो नानुपालयेत् ।
गर्ह्यः स पापो दण्ड्यश्च लोपयन्राजशासनम् ।। ६७० ।।

युक्तियुक्तं च यो हन्याद्वक्तुर्योऽनवकाशदः ।
अयुक्तं चैव यो ब्रूते स दाप्यः पूर्वसाहसम् ।। ६७१ ।।

साहसी भेदकारी च गणद्रव्यविनाशकः ।
उच्छेद्याः सर्व एवैते विख्याप्यैवं नृपे भृगुः ।। ६७२ ।।

एकपात्रे च वा पङ्क्त्यां संभोक्ता यस्य यो भवेत् ।
अकुर्वंस्तत्तथा दण्ड्यस्तस्य दोषं अदर्शयन् ।। ६७३ ।।

गणं उद्दिश्य यत्किंचित्कृत्वर्णं भक्षितं भवेत् ।
आत्मार्थं विनियुक्तं वा देयं तैरेव तद्भवेत् ।। ६७४ ।।

गणानां श्रेणिवर्गाणां गताः स्युर्ये तु मध्यताम् ।
प्राक्तनस्य धनर्णस्य समांशाः सर्व एव ते ।। ६७५ ।।

तथैव भोज्यवैभाज्य दानधर्मक्रियासु च ।
समूहस्थोऽंशभागी स्यात्प्रगतस्त्वंशभाङ्न तु ।। ६७६ ।।

यत्तैः प्राप्तं रक्षितं वा गणार्थे वा ऋणं कृतम् ।
राजप्रसादलब्धं च सर्वेषां एव तत्समम् ।। ६७७ ।।

नैगमादिसंज्ञालक्षणम्[सम्पाद्यताम्]

नानापौरसमूहस्तु नैगमः परिकीर्तितः ।
नानायुधधरा व्राताः समवेताः प्रकीर्तिताः ।। ६७८ ।।

समूहो वणिजादीनां पूगः संपरिकीर्तितः ।
प्रव्रज्यावसिता ये तु पाषण्डाः परिकीर्तिताः ।। ६७९ ।।

ब्राह्मणानां समूहस्तु गणः संपरिकीर्तितः ।
शिल्पोपजीविनो ये तु शिल्पिनः परिकीर्तिताः ।। ६८० ।।

आर्हतसौगतानां तु समूहः सङ्घ उच्यते ।
चाण्डालश्वपचादीनां समूहो गुल्म उच्यते ।। ६८१ ।।

गणपाषण्डपूगाश्च व्राताश्च श्रेणयस्तथा ।
समूहस्थाश्च ये चान्ये वर्गाख्यास्ते बृहस्पतिः ।। ६८२ ।।

क्रयकिक्रयानुशयः क्रीस्वानुशयो विक्रीये संप्रदानं वा[सम्पाद्यताम्]

क्रीत्वा प्राप्तं न गृह्णीयाद्यो न दद्याददूषितम् ।
स मूल्याद्दशमं भागं दत्त्वा स्वद्रव्यं आप्नुयात् ।। ६८३ ।।

अप्राप्तेऽर्थक्रियाकाले कृते नैव प्रदापयेत् ।
एवं धर्मो दशाहात्तु परतोऽनुशयो न तु ।। ६८४ ।।

भूमेर्दशाहे विक्रेतुरायस्तत्क्रेतुरेव च ।
द्वादशाहः सपिण्डानां अपि चाल्पं अतः परम् ।। ६८५ ।।

क्रीत्वानुशयवान्पण्यं त्यजेद्दोह्यादि यो नरः ।
अदुष्टं एव काले तु स मूल्याद्दशमं वहेत् ।। ६८६ ।।

क्रीत्वा गच्छन्ननुशयं क्रयी हस्तं उपागते ।
षड्भागं तत्र मूल्यस्य दत्त्वा क्रीतं त्यजेद्बुधः ।। ६८७ ।।

अविज्ञातं तु यत्क्रीतं दुष्टं पश्चाद्विभावितम् ।
क्रीतं तत्स्वामिने देयं काले चेदन्यथा न तु ।। ६८८ ।।

निर्दोषं दर्शयित्वा तु यः सदोषं प्रयच्छति ।
मूल्यं तद्द्विगुणं दाप्यो विनयं तावदेव च ।। ६८९ ।।

उपहन्येत वा पण्यं दह्येतापह्रियेत वा ।
विक्रेतुरेव सोऽनर्थो विक्रीयासंप्रयच्छतः ।। ६९० ।।

दीयमानं न गृह्णाति क्रीत पण्यं च यः क्रयी ।
विक्रीतं च तदन्यत्र विक्रेता नापराध्रुयात् ।। ६९१ ।।

मत्तोन्मत्तेन विक्रीतं हीनमूल्यं भयेन वा ।
अस्वतन्त्रेण मुग्धेन त्याज्यं तस्य पुनर्भवेत् ।। ६९२ ।।

त्र्यहं दोह्यं परीक्षेत पत्र्चाहद्वाह्यं एव तु ।
मुक्तावज्रप्रवालानां सप्ताहं स्यात्प्रवीक्षणम् ।। ६९३ ।।

द्विपदां अर्धमासं तु पुंसां तद्द्विगुणं स्त्रियाः ।
दशाहं सर्वबीजानां एकाहं लोहवाससाम् ।। ६९४ ।।

अतोऽर्वाक्पण्यदोषस्तु यदि संजायते क्वचित् ।
विक्रेतुः प्रतिदेयं तत्क्रेता मूल्यं अवाप्नुयात् ।। ६९५ ।।

परिभुक्तं तु यद्वासः क्लिष्टरूपं मलीमसम् ।
सदोषं अपि तत्क्रीतं विकेतुर्न भवेत्पुनः ।। ६९६ ।।

साधारणं तु यत्क्रीतं नैको दद्यान्नराधमः ।
नादद्यान्न च गृह्णीयाद्विक्रीयाच्च न चैव हि ।। ६९७ ।।

क्रीत्वा मूल्येन यत्पण्यं दुष्क्रीतं मन्यते क्रयी ।
विक्रेतुः प्रतिदेयं तत्तस्मिन्नेवाह्न्यवीक्षितम् ।। ६९८ ।।

द्वितीयेऽह्नि ददत्क्रेता मूल्यात्त्र्यंशांशं आहरेत् ।
द्विगुणं तृतीयेऽह्नि परतः क्रेतुरेव तत् ।। ६९९ ।।

द्रव्यस्वं पञ्चधा कृत्वा त्रिभागो मूल्यं उच्यते ।
लाभश्चतुर्थो भागः स्यात्पञ्चमः सत्यं उच्यते ।। ७०० ।।

सन्धिश्च परिवृत्तिश्च विषमा वा त्रिभोगतः ।
आज्ञयापि क्रयश्चापि दशाब्दं विनिवर्तयेत् ।। ७०१ ।।

ज्ञात्यादीनननुज्ञाप्य समीपस्थाननिन्दितान् ।
क्रयविक्रयधर्मोऽपि भूमेर्नास्तीति निर्णयः ।। ७०२ ।।

स्वग्रामे दशरात्रं स्यादन्यग्रामे त्रिपक्षकम् ।
राष्ट्रान्तरेषु षण्मासं भाषाभेदे तु वत्सरम् ।। ७०३ ।।

पलायिते तु करदे करप्रतिभुवा सह ।
करार्थं करदक्षेत्रं विक्रीणीयुः सभासदः ।। ७०४ ।।

समवेतैस्तु सामन्तैरभिज्ञैः पापभीरुभिः ।
क्षेत्रारामगृहादीनां द्विपदां च चतुष्पदाम् ।। ७०५ ।।

कल्पितं मूल्यं इत्याहुर्भागं कृत्वा तदष्टधा ।
एकभागातिरिक्तं वा हीनं वानुचितं स्मृतम् ।। ७०६ ।।

समाः शतं अतीतेऽपि सर्वं तद्विनिवर्तते ।
क्रयविक्रयणे क्रय्यं यन्मूल्यं धर्मतोऽर्हति ।। ७०७ ।।

तत्तुर्ये पञ्चमे षष्टे सप्तमेऽंशेऽष्टमेऽपि वा ।
हीने यदि विनिर्वृत्ते क्रयविक्रायणे सति ।। ७०८ ।।

हीनमूल्यं तु तत्सर्वं कृतं अप्यकृतं भवेत् ।
उक्तादल्पतरे हीने क्रयो नैव प्रदुष्यति ।। ७०९ ।।

तेनाप्यंशेन हीयेत मूल्यतः क्रयविक्रये ।
कतं अप्यकृतं प्राहुरन्ये धर्मविदो जनाः ।। ७१० ।।

अर्धाधिके क्रयः सिध्येदुक्तलाभो दशाधिकः ।
अवक्रयस्त्रिभागेन सद्य एव रुचिक्रयः ।। ७११ ।।

मूल्यात्स्वल्पप्रदानेऽपि क्रयसिद्धिः कृता भवेत् ।
चक्रवृद्द्यां प्रदातव्यं देयं तत्समयादृते ।। ७१२ ।।

अभ्युपेत्याशुश्रूषा[सम्पाद्यताम्]

यस्तु न ग्राहयेच्शिल्पं कर्माण्यन्यानि कारयेत् ।
प्राप्नुयात्साहसं पूर्वं तस्माच्शिष्यो निवर्तते ।। ७१३ ।।

शिक्षितोऽपि श्रितं कामं अन्तेवासी समाचरेत् ।
तत्र कर्म च यत्कुर्यादाचार्यस्यैव तत्फलम् ।। ७१४ ।।

स्वतन्त्रस्यात्मनो दानाद्दासत्वं दारवद्भृगुः ।
त्रिषु वर्णेषु विज्ञेयं दास्यं विप्रस्य न क्वचित् ।। ७१५ ।।

वर्णानां अनुलाम्येन दास्यं न प्रतिलोमतः ।
राजन्यवैश्यशूद्राणां त्यजतां हि स्वतन्त्रताम् ।। ७१६ ।।

समवर्णोऽपि विप्रं तु दासत्वं नैव कारयेत् ।
ब्राह्मणस्य हि दासत्वान्नृपतेजो विहन्यते ।। ७१७ ।।

क्षत्रविश्शूद्रधर्मस्तु समवर्णे कदाचन ।
कारयेद्दासकर्माणि ब्राह्मणं न बृहस्पतिः ।। ७१८ ।।

शीलाध्ययनसंपन्ने तदूनं कर्म कामतः ।
तत्रापि नाशुभं किंचित्प्रकुर्वीत द्विजोत्तमः ।। ७१९ ।।

विण्मूत्रोन्मार्जनं चैव नग्नत्वपरिमर्दनम् ।
प्रायो दासीसुताः कुर्युर्गवादिग्रहणं च यत् ।। ७२० ।।

प्रव्रज्यावसिता यत्र त्रयो वर्णा द्विजादयः ।
निर्वासं कारयेद्विप्रं दासत्वं क्षत्रविड्नृपः ।। ७२१ ।।

शूद्रं तु कारयेद्दासं क्रीतं अक्रीतं एव वा ।
दास्यायैव हि सृष्टः स स्वयं एव स्वयं भुवा ।। ७२२ ।।

स्वदासीं यस्तु संगच्छेत्प्रसूता च भवेत्ततः ।
अवेक्ष्य बीजं कार्या स्यान्न दासी सान्वया तु सा ।। ७२३ ।।

दासस्य तु धनं यत्स्यात्स्वामी तस्य प्रभुः स्मृतः ।
प्रकाशं विक्रयाद्यत्तु न स्वामी धनं अर्हति ।। ७२४ ।।

दासेनोढा स्वदासी या सापि दासीत्वं आप्नुयात् ।
यस्माद्भर्ता प्रभुस्तस्याः स्वाम्यधीनः प्रभुर्यतः ।। ७२५ ।।

आदद्याद्ब्राह्मणीं यस्तु चिक्रीणीत तथैव च ।
राज्ञा तदकृतं कार्यं दण्ड्या स्युः सर्व एव ते ।। ७२६ ।।

कामात्तु संश्रितां यस्तु दासीं कुर्यात्कुलस्त्रियम् ।
संक्रामयेत वान्यत्र दण्ड्यस्तच्चाकृतं भवेत् ।। ७२७ ।।

बालधात्रीं अदासीं च दासीं इव भुनक्ति यः ।
परिचारकपत्नीं वा प्राप्नुयात्पूर्वसाहसम् ।। ७२८ ।।

विक्रोशमानां यो भक्तां दासीं विक्रेतुं इच्छति ।
अनापदिस्थः शक्तः सन्प्राप्नुयाद्द्विशतं दमम् ।। ७२९ ।।

तवाहं इति चात्मानं योऽस्वतन्त्रः प्रयच्छति ।
न स तं प्राप्नुयात्कामं पूर्वस्वामी लभेत तम् ।। ७३० ।।

प्रव्रज्यावसितो दासो मोक्तव्यश्च न केनचित् ।
अनाकालभृतो दास्यान्मुच्यते गोयुगं ददत् ।। ७३१ ।।

सीमाविवादः[सम्पाद्यताम्]

आधिक्यं न्यूनता चांशे अस्तिनास्तित्वं एव च ।
अभोगभुक्तिः सीमा च षट्भूवादस्य हेतवः ।। ७३२ ।।

तस्मिन्भोगः प्रयोक्तव्यः सर्वसाक्षिषु तिष्ठति ।
लेख्यारूढश्चेतरश्च साक्षी मार्गद्वयान्वितः ।। ७३३ ।।

क्षेत्रवास्तुतडागेषु कूपोपवनसेतुषु ।
द्वयोर्विवादे सामन्तः प्रत्ययः सर्ववस्तुषु ।। ७३४ ।।

सामन्तभावेऽसामन्तैः कुर्यात्क्षेत्रादिनिर्णयम् ।
ग्रामसीमासु च तथा तद्वन्नगरदेशयोः ।। ७३५ ।।

ग्रामो ग्रामस्य सामन्तः क्षेत्रं क्षेत्रस्य कीर्तितम् ।
गृहं गृहस्य निर्दिष्ट समन्तात्परिरभ्य हि ।। ७३६ ।।

तेषां अभावे सामन्त मौलवृद्धोद्धृतादयः ।
स्थावरे षट्प्रकारेऽपि नात्र कार्या विचारणा ।। ७३७ ।।

संसक्तास्त्वथ सामन्तास्तत्संसक्तास्तथोत्तराः ।
संसक्तसक्तसंसक्ताः पद्माकाराः प्रकीर्तिताः ।। ७३८ ।।

स्वार्थसिद्धौ प्रदुष्टेषु सामन्तेष्वर्थगौरवात् ।
तत्संसक्तैस्तु कर्तव्य उद्धारो नात्र संशयः ।। ७३९ ।।

संसक्तसक्तदोषे तु तत्संसक्ताः प्रकीर्तिताः ।
कर्तव्या न प्रदुष्टास्तु राज्ञा धर्मं विजानता ।। ७४० ।।

नाज्ञानेन हि मुच्यन्ते सामन्ता निर्णयं प्रति ।
अज्ञानोक्तौ दण्डयित्वा पुनः सीमां विचारयेत् ।
कीर्तिते यदि भेदः स्याद्दण्ड्यास्तूत्तमसाहसम् ।। ७४१ ।।

त्यक्त्वा दुष्टांस्तु सामन्तानन्यान्मौलादिभिः सह ।
संमिश्रय कारयेत्सीमां एवं धर्मविदो विदुः ।। ७४२ ।।

ये तत्र पूर्वं सामन्ताः पश्चाद्देशान्तरं गताः ।
तन्मूलत्वात्तु ते मौला ऋषिभिः संप्रकीर्तिताः ।। ७४३ ।।

निष्पाद्यमानं यैर्दृष्टं तत्कार्यं नृगुणान्वितैः ।
वृद्धा वा यदि वावृद्धास्ते वृद्धाः परिकीर्तिताः ।। ७४४ ।।

उपश्रवणसंभोग कार्याख्यानोपचिह्निताः ।
उद्धरन्ति ततो यस्मादुद्धृतास्ते ततः स्मृतः ।। ७४५ ।।

सामन्ताः साधनं पूर्वं अनिष्टोक्तौ गुणान्विताः ।
द्विगुणास्तूत्तरा ज्ञेया ततोऽन्ये त्रिगुणा मताः ।। ७४६ ।।

एको यद्वन्नयेत्सीमां उभयोरीप्सितः क्वचित् ।
मस्तके क्षितिं आरोप्य रक्तवासाः समाहिताः ।। ७४७ ।।

भयवर्जितभूपेन सर्वाभावे स्वयंकृता ।। ७४८ ।।

क्षेत्रकूपतडागानां केदारारामयोरपि ।
गृहप्रासादावसथ नृपदेवगृहेषु च ।। ७४९ ।।

बहूनां तु गृहीतानां न सर्वे निर्णयं यदि ।
कुर्युर्भयाद्वा लोभाद्वा दाप्यास्तूत्तमसाहसम् ।। ७५० ।।

सीमाचङ्क्रमणे कोशे पादस्पर्शे तथैव च ।
त्रिपक्षपक्षसप्ताहं दैवराजिकं इष्यते ।। ७५१ ।।

मेखलाभ्रमनिष्कास गवाक्षान्नोपरोधयेत् ।
प्रणालीं गृहवास्तुं च पीडयन्दण्डभाग्भवेत् ।। ७५२ ।।

निवेशसमयादूर्ध्वं नैते योज्याः कदाचन ।
दृष्टिपातं प्रणालीं च न कुर्यात्परवेश्ममु ।। ७५३ ।।

विण्मूत्रोदकवप्रं च वह्निश्वभ्रनिवेशनम् ।
अरत्निद्वयं उत्सृज्य परकुड्यान्निवेशयेत् ।। ७५४ ।।

सर्वे जनाः सदा येन प्रयान्ति स चतुष्पथः ।
अनिरुद्धो यथाकालं राजमार्गः स उच्यते ।। ७५५ ।।

न तत्र रोपयेत्किंचिन्नोपहन्यात्तु केनचित् ।
गुरुआचार्यनृपादीनां मार्गादानात्तु दण्डभाक् ।। ७५६ ।।

यस्तत्र संकरश्वभ्रान्वृक्षारोपणं एव च ।
कामात्पुरीषं कुर्याच्च तस्य दण्डस्तु माषकः ।। ७५७ ।।

तटाकोद्यानतीर्थानि योऽमेध्येन विनाशयेत् ।
अमेध्यं शोधयित्वा तु दण्डयेत्पूर्वसाहसम् ।। ७५८ ।।

दूषयेत्सिद्धतीर्थानि स्थापितानि महात्मभिः ।
पुण्यानि पावनीयानि प्राप्नुयात्पूर्वसाहसम् ।। ७५९ ।।

सीमामध्ये तु जातानां वृक्षाणां क्षेत्रयोर्द्वयोः ।
फलं पुष्पं च सामान्यं क्षेत्रस्वामिषु निर्दिशेत् ।। ७६० ।।

अन्यक्षेत्रे तु जातानां शाखा यत्रान्यसंश्रिताः ।
स्वामिनं तं विजानीयाद्यस्य क्षेत्रेषु संश्रिताः ।। ७६१ ।।

अस्वाम्यनुमतेनैव संस्कारं कुरुते तु यः ।
गृहोद्यानतटाकानां संस्कर्ता लभते न तु ।। ७६२ ।।

व्ययं स्वामिनि चायाते न निवेद्य नृपे यदि ।
अथावेद्य प्रयुक्तस्तु तद्गतं लभते व्ययम् ।। ७६३ ।।

अशक्तितो न दद्याच्चेत्खिलार्थो यत्कृतो व्ययः ।
तदष्टभागहीनं तु कर्षकः फलं आप्नुयात् ।
वर्षाण्यष्टौ स भोक्ता स्यात्परतः स्वामिने तु तत् ।। ७६४ ।।

अशक्तप्रेतनष्टेषु क्षेत्रिकेष्वनिवारितः ।
क्षेत्रं चेद्विकृषेत्कश्चिदश्नुवीत स तत्फलम् ।। ७६५ ।।

विकृष्यमाणे क्षेत्रे च क्षेत्रिकः पुनराव्रजेत् ।
शीलोपचारं तत्सर्वं दत्त्वा क्षेत्रमवाप्नुयात् ।। ७६६ ।।

तदष्टभागापचयाद्यावत्सप्त गताः समाः ।
समाप्तेऽष्टमे वर्षे भुक्तक्षेत्रं लभेत सः ।। ७६७ ।।

वाक्पारुष्यम्[सम्पाद्यताम्]

हुङ्कारः कासनं चैव लोके यच्च विगर्हितम् ।
अनुकुर्यादनुब्रूयाद्वाक्पारुष्यं तदुच्यते ।। ७६८ ।।

निष्ठुराश्लीलतीव्रत्वात्तदपि त्रिविधं स्मृतम् ।
आक्षेपो निष्ठुरं ज्ञेयं अश्लीलं न्यङ्गसंज्ञितम् ।
पतनीयैरुपाक्रोशैस्तीव्रं आहुर्मनीषिणः ।। ७६९ ।।

यत्त्वसत्संज्ञितैरङ्गैः परमाक्षिपति क्वचित् ।
अभूतैर्वाथ भूतैर्वा निष्ठुरा वाक्स्मृता बुधैः ।। ७७० ।।

न्यग्भावकरणं वाचा क्रोधात्तु कुरुते यदा ।
वृत्तदेशकुलादीनां अश्लीला सा बुधैः स्मृता ।। ७७१ ।।

महापातकयोक्त्री च रागद्वेषकरी च या ।
जातिभ्रंशकारी वाथ तीव्रा सा प्रथिता तु वाक् ।। ७७२ ।।

योऽगुणान्कीर्तयेत्क्रोधान्निगुणो वा गुणज्ञताम् ।
अन्यसंज्ञानुयोगी वा वाग्दुष्टं तं नरं विदुः ।। ७७३ ।।

अदुष्टस्यैव यो दोषान्कीर्तयेद्दोषकारणात् ।
अन्यापदेशवादी च वाग्दुष्टं तं नरं विदुः ।। ७७४ ।।

मोहात्प्रमादात्सङ्घर्षात्प्रीत्या चोक्तं मयेति यत् ।
नाहं एवं पुनर्वक्ष्ये दण्डार्धं तस्य कल्पयेत् ।। ७७५ ।।

यत्र स्यात्परिहारार्थं पतितस्तेन कीर्तनम् ।
वचनात्तत्र न स्यात्तु दोषो यत्र विभावयेत् ।। ७७६ ।।

अन्यथा तुल्यदोषः स्यान्मिथ्योक्तौ तूत्तमः स्मृतः ।
महता प्रणिधानेन वाग्दुष्टं साधयेन्नरम् ।। ७७७ ।।

अतथ्यं श्रावितं राजा प्रयत्नेन विचारयेत् ।
अनृताख्यानशीलानां जिह्वाच्छेदो विशोधनम् ।। ७७८ ।।

दण्डपारुष्यम्[सम्पाद्यताम्]

हेतुआदिभिर्न पश्येच्चेद्दण्डपारुष्यकारणम् ।
तत्र साक्षिकृतं चैव दिव्यं वा विनियोजयेत् ।। ७७९ ।।

आभीषणेन दण्डेन प्रहरेद्यस्तु मानवः ।
पूर्वं चापीडितो वाथ स दण्ड्यः परिकीर्तितः ।। ७८० ।।

कर्णौष्ठघ्राणपादाक्षि जिह्वाशिश्नकरस्य च ।
छेदने चोत्तमो दण्डो भेदने मध्यमो भृगुः ।। ७८१ ।।

मनुष्याणां पशूनां च दुःखाय प्रहते सति ।
यथा यथा भवेद्दुःखं दण्डं कुर्यात्तथा तथा ।। ७८२ ।।

अस्पृश्यधूर्तदासानां म्लेच्छानां पापकारिणाम् ।
प्रतिलोमप्रसूतानां ताडनं नार्थतो दमः ।। ७८३ ।।

छर्दिमूत्रपुरीषाद्यैरापाद्यः स चतुर्गुणः ।
षड्गुणः कायमध्ये स्यान्मूर्ध्नि त्वष्टगुणः स्मृतः ।। ७८४ ।।

उद्गूरणे तु हस्तस्य कार्यो द्वादशको दमः ।
स एव द्विगुणः प्रोक्तः पातनेषु स्वजातिषु ।। ७८५ ।।

वाक्पारुष्ये यथैवोक्ताः प्रातिलोम्यानुलोमतः ।
तथैव दण्डपारुष्ये पात्या दण्डा यथाक्रमम् ।। ७८६ ।।

देहेन्द्रियविनाशे तु यथा दण्डं प्रकल्पयेत् ।
तथा तुष्टिकरं देयं समुत्थानं च पण्डितैः ।
समुत्थानव्ययं चासौ दद्यादाव्रणरोपणात् ।। ७८७ ।।

वाग्दण्डस्ताडनं चैव येषूक्तं अपराधिषु ।
हृतं भग्नं प्रदाप्यास्ते शोध्यं निःस्वैस्तु कर्मणा ।। ७८८ ।।

श्रान्तांस्तृषार्तान्क्षुधितानकाले वाहयेन्नरः ।
खरगोमहिषोष्ट्रादीन्प्राप्नुयात्पूर्वसाहसम् ।। ७८९ ।।

द्विपणो द्वादशपणो वधे तु मृगपक्षिणाम् ।
सर्पमार्जारनकुल श्वसूकरवधे नृणाम् ।। ७९० ।।

गोकुमारीदेवपशु मुक्षाणं वृषभं तथा ।
वाहयन्साहसं पूर्वं प्राप्नुयादुत्तमं वधः ।। ७९१ ।।

प्रमापणे प्राणभृतां दद्यात्तत्प्रतिरूपकम् ।
तस्यानुरूपं मूल्यं वा दद्यादित्यब्रवीन्मनुः ।। ७९२ ।।

वनस्पतीनां सर्वेषां उपभोगो यथा यथा ।
तथा तथा दमः कार्यो हिंसायां इति धारणा ।। ७९३ ।।

शिष्यं क्रोधेन हन्याच्चेदाचार्यो लतया विना ।
येनात्यर्थं भवेत्पीडा वादः स्याच्शिष्यतः पितुः ।। ७९४ ।।

साहसम्[सम्पाद्यताम्]

सहसा यत्कृतं कर्म तत्साहसं उदाहृतम् ।। ७९५ ।।

सान्वयस्त्वपहारो यः प्रसह्य हरणं च यत् ।
साहसं च भवेदेवं स्तेयं उक्तं विनिह्नवः ।। ७९६ ।।

विना चिह्नैस्तु यत्कार्यं साहसाख्यं प्रवर्तते ।
शपथैः स विशोध्यः स्यात्सर्ववादेष्वयं विधिः ।। ७९७ ।।

एकं चेद्वहवो हन्युः संरब्धाः पुरुषं नराः ।
मर्मघातो तु यस्तेषां स घातक इति स्मृतः ।। ७९८ ।।

व्यापादनेन तत्कारी वधं चित्रं अवाप्नुयात् ।
विनाशहेतुं आयान्तं हन्यादेवाविचारयन् ।। ७९९ ।।

उद्यतानां तु पापानां हन्तुर्दोषो न विद्यते ।
निवृत्तास्तु यदारम्भाद्ग्रहणं न वधः स्मृतः ।। ८०० ।।

आततायिनि चोत्कृष्टे तपःस्वाध्यायजन्मतः ।
वधस्तत्र तु नैव स्यात्पापे हीने वधो भृगुः ।। ८०१ ।।

उद्यतासिविषाग्निश्च चापोद्यतकरस्तथा ।
आथर्वणेन हन्ता च पिशुनश्चैव राजनि ।। ८०२ ।।

भार्यातिक्रमकारी च रन्ध्रान्वेषणतत्परः ।
एवं आद्यान्विजानीयात्सर्वानेवाततायिनः ।। ८०३ ।।

यशोवृत्तहरान्पापानाहुर्धर्मार्थहारकान् ।
अनाक्षारितपूर्वो यस्त्वपराधे प्रवर्तते ।
प्राणद्रव्यापहारे च तं विद्यादाततायिनम् ।। ८०४ ।।

नखिनां शृण्गिणां चैव दंष्ट्रिणां चाततायिनाम् ।
हस्त्यश्वानां तथान्येषां वधे हन्ता न दोषभाक् ।। ८०५ ।।

गर्भस्य पातने स्तेनो ब्राह्मण्यां शस्त्रपातेन ।
अदुष्टां योषितं हत्वा हन्त्व्यो ब्राह्मणोऽपि हि ।। ८०६ ।।

क्षतं भङ्गोपमर्दौ च कुर्याद्द्रव्येषु यो नरः ।
प्राप्नुयात्साहसं पूर्वं द्रव्यभाक्स्वाम्युदाहृतः ।। ८०७ ।।

हरेद्भिन्द्याद्दहेद्वापि देवानां प्रतिमां यदि ।
तग्गृहं चैव यो भिन्द्यात्प्राप्नुयात्पूर्वसाहसम् ।। ८०८ ।।

प्राकारं भेदयेद्यस्तु पातयेच्छातयेत्तथा ।
बध्नीयादम्भसो मार्गं प्राप्नुयात्पूर्वसाहसम् ।। ८०९ ।।

स्तेयम्[सम्पाद्यताम्]

प्रच्छन्नं वा प्रकाशं वा निशायां अथ वा दिवा ।
यत्परद्रव्यहरणं स्तेयं तत्परिकीर्तितम् ।। ८१० ।।

अन्यहस्तात्परिभ्रष्टं अकामादुद्धृतं भुवि ।
चौरेण वा परिक्षिप्तं लोप्त्रं यत्नात्परीक्षयेत् ।। ८११ ।।

तुलामानप्रतिमान प्रतिरूपकलक्षितैः ।
चरन्नलक्षितैर्वापि प्राप्नुयात्पूर्वसाहसम् ।। ८१२ ।।

गृहे तु मुषितं राजा चौरग्राहांस्तु दापयेत् ।
आरक्षकांश्च दिक्पालान्यदि चौरो न लभ्यते ।। ८१३ ।।

ग्रामान्तरे हृतं द्रव्यं ग्रामाध्यक्षं प्रदापयेत् ।
विवीते स्वामिना देयं चौरोद्धर्ता विवीतके ।। ८१४ ।।

स्वदेशे यस्य यत्किंचिद्धृतं देयं नृपेण तु ।
गृह्णीयात्तत्स्वयं नष्टं प्राप्तं अन्विष्य पार्थिवः ।। ८१५ ।।

चौरैर्हृतं प्रयत्नेन स्वरूपं प्रतिपादयेत् ।
तदभावे तु मूल्यं स्यादन्यथा किल्विषी नृपः ।। ८१६ ।।

लब्धेऽपि चौरे यदि तु मोषस्तस्मान्न लभ्यते ।
दद्यात्तं अथ वा चौरं दापयेत्तु यथेष्टतः ।। ८१७ ।।

तस्मिंश्चेद्दाप्यमानानां भवेद्दोषे तु संशयः ।
मुषितः शपथं दाप्यो बन्धुभिर्वा विशोधयेत् ।। ८१८ ।।

यस्मादपहृताल्लब्धं द्रव्यात्स्वल्पं तु स्वामिना ।
तच्शेषं आप्नुयात्तस्मात्प्रत्यये स्वामिना कृते ।। ८१९ ।।

स्वदेशघातिनो ये स्युस्तथा मार्गनिरोधकाः ।
तेषां सर्वस्वं आदाय राजा शूले निवेशयेत् ।। ८२० ।।

अचोराद्दापितं द्रव्यं चौरान्वेषणतत्परैः ।
उपलब्धे लभेरंस्ते द्विगुणं तत्र दापयेत् ।। ८२१ ।।

येन येन परद्रोहं करोत्यङ्गेन तस्करः ।
छिन्द्यादङ्गं नृपस्तस्य न करोति यथा पुनः ।। ८२२ः१ ।।

त्रपुषे वारुके द्वे तु पञ्चाम्रं पञ्चदाडिमम् ।
खर्जूरबदरादीनां मुष्टिं गृह्णन्न दुष्यति ।। ८२२ः२ ।।

मानवाः सद्य एवाहुः सहोढानां प्रवासनम् ।
गौतमानां अनिष्टं यत्प्राण्युच्छेदद्विगर्हितम् ।। ८२३ ।।

सहोढं असहोढं वा तत्त्वागमितसाहसम् ।
प्रगृह्याच्छिन्नं आवेद्य सर्वस्वैर्विप्रयोजयेत् ।। ८२४ ।।

अयःसन्दानगुप्तास्तु मन्दभक्ता बलान्विताः ।
कुर्युः कर्माणि नृपतेरामृत्योरिति कौशिकः ।। ८२५ ।।

परदेशाद्धृतं द्रव्यं वैदेश्येन यदा भवेत् ।
गृहीत्वा तस्य तद्द्रव्यं अदण्डं तं विसर्जयेत् ।। ८२६ ।।

चोराणां भक्तदा ये स्युस्तथाग्न्युदकदायकाः ।
क्रेतारश्चैव भाण्डानां प्रतिग्राहिण एव च ।
समदण्डाः स्मृता ह्येते ये च प्रच्छादयन्ति तान् ।। ८२७ ।।

अविद्वान्याजको वा स्यात्प्रवक्ता चानवस्थितः ।
तौ उभौ चोरदण्डेन विनीय स्थापयेत्पथि ।। ८२८ ।।

स्त्रीसंग्रहणम्[सम्पाद्यताम्]

दूतोपचारयुक्तश्चेदवेलास्थानसंस्थितिः ।
क्ण्ठकेशाण् चलग्राहः कर्णनासाकरादिषु ।
एकस्थानासनाहाराः संग्रहो नवधा स्मृतः ।। ८२९ ।।

स्त्रीषु वृत्तोपभोगः स्यात्प्रसह्य पुरुषो यदा ।
वधे तत्र प्रवर्तेत कार्यातिक्रमणं हि तत् ।। ८३० ।।

कामार्ता स्वैरिणी या तु स्वयं एव प्रकामयेत् ।
राजादेशेन मोक्तव्या विख्याप्य जनसंनिधौ ।। ८३१ ।।

आरम्भकृत्सहायश्च तथा मार्गानुदेशकः ।
आश्रयः शस्त्रदाता च भक्तदाता विकर्मिणाम् ।। ८३२ ।।

युद्धोपदेशकश्चैव तद्विनाशप्रदर्शकः ।
उपेक्षाकार्ययुक्तश्च दोषवक्त्रनुमोककः ।। ८३३ ।।

अनिषेद्धाक्षमो यः स्यात्सर्वे तत्कार्यकारिणः ।
यथाशक्त्यनुरूपं तु दण्डं एषां प्रकल्पयेत् ।। ८३४ ।।

स्त्रीपुंधर्मः[सम्पाद्यताम्]

पत्या चाप्यवियोगिन्या शुश्रूष्योऽग्निर्विनीतया ।
सौभाग्यवदव्वैधव्य काम्यया भर्तृभक्तया ।। ८३५ ।।

मतिशुश्रूषयैव स्त्री सर्वान्कामान्समश्नुते ।
दिवः पुनरिहायाता सुखानां शेवधिर्भवेत् ।। ८३६ ।।

मृते भर्तरि या साध्वी ब्रह्मचर्ये व्यवस्थिता ।
सारुन्धतीसमाचारा ब्रह्मलोके महीयते ।। ८३७ ।।

दायविभागः[सम्पाद्यताम्]

सकलं द्रव्यजातं यद्भागैर्गृह्णन्ति तत्समैः ।
पितरो भ्रातरश्चैव विभागो धर्म्य उच्यते ।। ८३८ ।।

पैतामहं समानं स्यात्पितुः पुत्रस्य चोभयोः ।
स्वयं चोपार्जिते पित्रा न पुत्रः स्वाम्यं अर्हति ।। ८३९ ।।

पैतामहं च पित्र्यं च यच्चान्यत्स्वयं अर्जितम् ।
दायादानां विभागे तु सर्वं एतद्विभज्यते ।। ८४० ।।

दृश्यमानं विभज्येत गृहं क्षेत्रं चतुष्पदम् ।
गूढद्रव्याभिशङ्कायां प्रत्ययस्तत्र कीर्तितः ।। ८४१ ।।

गृहोपस्करवाह्याश्च दोह्याभरणकर्मिणः ।
दृश्यमाना विभज्यन्ते कोशं गूढेऽब्रवीद्भृगुः ।। ८४२ ।।

जीवद्विभागे तु पिता नैकं पुत्रं विशेषयेत् ।
निर्भाजयेन्न चैवैकं अकस्मात्कारणं विना ।। ८४३ ।।

संप्राप्तव्यवहाराणां विभागश्च विधीयते ।
पुंसां च षोडशे वर्षे जायते व्यवहारिता ।। ८४४ ।।

अप्राप्तव्यवहाराणां च धनं व्ययविवर्जितम् ।
न्यसेयुर्बन्धुमित्रेषु प्रोषितानां तथैव च ।। ८४५ः१ ।।

प्रोषितस्य तु यो भागो रक्षेयुः सर्व एव तम् ।
बालपुत्रे मृते रिक्थं रक्ष्यं तत्तन्तुबन्धुभिः ।
पौगण्डाः परतस्तं तु विभजेरन्यथांशतः ।। ८४५ः२ ।।

भ्रात्रा पितृव्यमातृभ्यां कुटुम्बार्थं ऋणं कृतम् ।
विभागकाले देयं तद् रिक्थिभिः सर्वं एव तु ।। ८४६ ।।

तदृणं धनिने देयं नान्यथैव प्रदापयेत् ।
भावितं चेत्प्रमाणेन विरोधात्परतो यदा ।। ८४७ ।।

धर्मार्थं प्रीतिदत्तं च यदृणं स्यान्नियोजितम् ।
तद्दृश्यमानं विभजेन्न दानं पैतृकाद्धनात् ।। ८४८ ।।

पित्र्यं पित्र्यर्णसंशुद्धं आत्मीयं चात्मना कृतम् ।
ऋणं एवंविधं शोध्यं विभागे बन्धुभिः सह ।। ८४९ ।।

ऋणं प्रीतिप्रदानं च दत्त्वा शेषं विभाजयेत् ।। ८५० ।।

द्व्यंशहरोऽर्धहरो वा पुत्रवित्तार्जनात्पिता ।
मातापि पितरि प्रेते पुत्रतुल्यांशभागिनी ।। ८५१ ।।

यथा यथा विभागाप्तं धनं यागार्थतां इयात् ।
तथा तथा विधातव्यं विद्वद्भिर्भागगौरवम् ।। ८५२ ।।

लोके रिक्थविभागेऽपि न कश्चित्प्रभुतां इयात् ।
भोग एव तु कर्तव्यो न दानं न च विक्रयः ।। ८५३ ।।

विभक्ता अविभक्ता वा दायादाः स्थावरे समाः ।
एको ह्यनीशः सर्वत्र दानाधमनविक्रये ।। ८५४ ।।

अविभक्तेऽनुजे प्रेते तत्सुतं रिक्थभागिनम् ।
कुर्वीत जीवनं येन लब्धं नैव पितामहात् ।। ८५५ ।।

लभेतांशं स पित्र्यं तु पितृव्यात्तस्य वा सुतात् ।
स एवांशस्तु सर्वेषा भ्रातॄणां न्यायतो भवेत् ।
लभेत तत्सुतो वापि निवृत्तिः परतो भवेत् ।। ८५६ ।।

उत्पन्ने चौरसे पुत्रे चतुर्थांशहराः सुताः ।
सवर्णा असवर्णास्तु ग्रासाच्छादनभाजनाः ।। ८५७ ।।

कन्यकानां त्वदत्तानां चतुर्तो भाग इष्यते ।
पुत्राणां तु त्रयो भागाः साम्यं त्वल्पधने स्मृतम् ।। ८५८ ।।

क्षेत्रिकस्य मतेनापि फलं उत्पादयेत्तु यः ।
तस्येह भागिनौ तौ तु न फलं हि विनैकतः ।। ८५९ ।।

क्लीबं विहाय पतितं या पुनर्लभते पतिम् ।
तस्यां पौनर्भवो जातो व्यक्तं उत्पादकस्य सः ।। ८६० ।।

न मूत्रं फेनिलं यस्य विष्ठा चाप्सु निमज्जति ।
मेढ्रश्चोन्मादशुक्राभ्यां हीनः क्लीबः स उच्यते ।। ८६१ ।।

अक्रमोढासुतश्चैव सगोत्राद्यस्तु जायते ।
प्रव्रज्यावसितश्चैव न रिक्थं तेषु चार्हति ।। ८६२ ।।

अक्रमोढासुतस्त्वृक्थी सवर्णश्च यदा पितुः ।
असवर्णप्रसूतश्च क्रमोढायां च यो भवेत् ।। ८६३ ।।

प्रतिलोमप्रसूता या तस्याः पुत्रो न रिक्थभाक् ।
ग्रासाच्छादनं अत्यन्तं देयं तद्बन्धुभिर्मतम् ।। ८६४ ।।

बन्धूनां अप्यभावे तु पितृद्रव्यं तदाप्नुयात् ।
अपित्र्यं द्रविणं प्राप्तं दापनीया न बान्धवाः ।। ८६५ ।।

अविभाज्यानि[सम्पाद्यताम्]

स्वशक्त्यपहृतं नष्टं स्वयं आप्तं च यद्भवेत् ।
एतत्सर्वं पिता पुत्रैर्विभागे नैव दाप्यते ।। ८६६ ।।

परभक्तोपयोगेन विद्या प्राप्तान्यतस्तु या ।
तया प्राप्तं धनं यत्तु विद्याप्राप्तं तदुच्यते ।। ८६७ ।।

उपन्यस्ते तु यल्लब्धं विद्यया पणपूर्वकम् ।
विद्याधनं तु तद्विद्याद्विभागे न विभज्यते ।। ८६८ ।।

शिष्यादार्त्विज्यतः प्रश्नात्संदिग्धप्रश्ननिर्णयात् ।
स्वज्ञानशंसनाद्वादाल्लब्धं प्राध्ययनाच्च यत् ।
विद्याधनं तु तत्प्राहुर्विभागे न विभज्यते ।। ८६९ ।।

शिल्पिष्वपि हि धर्मोऽयं मूल्याच्यच्चाधिकं भवेत् ।। ८७० ।।

परं निरस्य यल्लब्धं विद्यातो द्यूतपूर्वकम् ।
विद्याधनं तु तद्विद्यान्न विभाज्यं बृहस्पतिः ।। ८७१ ।।

विद्याप्रतिज्ञया लब्धं शिष्यादाप्तं च यद्भवेत् ।
ऋत्विङ्न्यायेन यल्लब्धं एतद्विद्याधनं भृगुः ।। ८७२ ।।

विद्याबलकृतं चैव याज्यतः शिष्यतस्तथा ।
एतद्विद्याधनं प्राहुः सामान्यं यदतोऽन्यथा ।। ८७३ ।।

कुले विनीतविद्यानां भ्रातॄणां पितृतोऽपि वा ।
शौर्यप्राप्तं तु यद्वित्तं विभाज्यं तद्बृहस्पतिः ।। ८७४ ।।

नाविद्यानां तु वैद्येन देयं विद्याधनात्क्वचित् ।
समविद्याधिकानां तु देयं वैद्येन तद्धनम् ।। ८७५ ।।

आरुह्य संशयं यत्र प्रसभं कर्म कुर्वते ।
तस्मिन्कर्मणि तुष्टेन प्रसादः स्वामिना कृतः ।
तत्र लब्धं तु यत्किञ्चित्धनं शौर्येण तद्भवेत् ।। ८७६ ।।

शौर्यप्राप्तं विद्यया च स्त्रीधनं चैव यत्स्मृतम् ।
एतत्सर्वं विभागे तु विभाज्यं नैव रिक्थिभिः ।। ८७७ ।।

ध्वजाहृतं भवेद्यत्तु विभाज्यं नैव तत्स्मृतम् ।
संग्रामादाहृतं यत्तु विद्राव्य द्विषतां वलम् ।
स्वाम्यर्थे जीवितं त्यक्त्वा तद्ध्वजाहृतं उच्यते ।। ८७८ ।।

यल्लब्धं दानकाले तु स्वजात्या कन्यया सह ।
कन्यागतं तु तद्वित्तं शुद्धं वृद्धिकरं स्मृतम् ।। ८७९ ।।

वैवाहिकं तु तद्विद्याद्भार्यया यत्सहागतम् ।
धनं एवंविधं सर्वं विज्ञेयं धर्मसाधकम् ।। ८८० ।।

विवाहकाले यत्किंचिद्वरायोद्दिश्य दीयते ।
कन्यायास्तद्धनं सर्वं अविभाज्यं च बन्धुभिः ।। ८८१ ।।

धनं पत्रनिविष्टं तु धर्मार्थं च निरूपितम् ।
उदकं चैव दासश्च निबन्धो यः क्रमागतः ।। ८८२ ।।

धृतं वस्त्रं अलंकारो नानुरूपं तु यद्भवेत् ।
यथा कालोपयोग्यानि तथा योज्यानि बन्धुभिः ।। ८८३ ।।

गोप्रचारश्च रक्षा च वस्त्रं यच्चाङ्गयोजितम् ।
प्रयोज्यं न विभज्येत धर्मार्थं च बृहस्पतिः ।। ८८४ः१ ।।

देशस्य जातेः सङ्घस्य धर्मो ग्रामस्य यो भृगुः ।
उदितः स्यात्स तेनैव दायभागं प्रकल्पयेत् ।। ८८४ः२ ।।

प्रच्छादितरिक्थस्य पुनर्विभागः[सम्पाद्यताम्]

प्रच्छादितं यदि धनं पुनरासाद्य तत्समम् ।
भजेरन्भ्रातृभिः सार्धं अभावे हि पितुः सुताः ।। ८८५ ।।

अन्योन्यापहृतं द्रव्यं दुर्विभक्तं च यद्भवेत् ।
पश्चात्प्राप्तं विभज्येत समभागेन तद्भृगुः ।। ८८६ ।।

विभक्तेनैव यत्प्राप्तं धनं तस्यैव तद्भवेत् ।
हृतं नष्टं च यल्लब्धं प्रागुक्तं च पुनर्भजेत् ।। ८८७ ।।

बन्धुनापहृतं द्रव्यं बलान्नैव प्रदापयेत् ।
बन्धूनां अविभक्तानां भोगं नैव प्रदापयेत् ।। ८८८ ।।

क्षेत्रं साधारणं त्यक्त्वा योऽन्यदेशं समाश्रितः ।
तद्वंश्यस्यागतस्यांशः प्रदातव्यो न संशयः ।। ८८९ ।।

तृतीयः पञ्चमो वापि सप्तमश्चापि यो भवेत् ।
जन्मनां अपरिज्ञाने लभेतांशं क्रमागतम् ।। ८९० ।।

यं परंपरया मौलाः सामन्ताः स्वामिनं विदुः ।
तदन्वयस्यागतस्य दातव्या गोतजैर्मही ।। ८९१ ।।

विभक्ताः पितृवित्ताच्चेदकत्र प्रतिवासिनः (?) ।
विभजेयुः पुनर्द्व्यंशं स लभेतोदयो यतः ।। ८९२ ।।

विभक्तचिह्नादि[सम्पाद्यताम्]

वसेयुर्दश वर्षाणि पृथग्धर्माः पृथक्क्रियाः ।
भ्रातरस्तेऽपि विज्ञेया विभक्ताः पैतृकाद्धनात् ।। ८९३ ।।

स्त्रीधनलक्षणं स्त्रीधनप्रकाराश्च[सम्पाद्यताम्]

अध्यग्न्यध्यावाहनिकं दत्तं च प्रीतितः स्त्रियैः ।
भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतम् ।। ८९४ ।।

विवाहकाले यत्स्त्रीभ्यो दीयते ह्यग्निसंनिधौ ।
तदध्यग्निकृतं सद्भिः स्त्रीधनं परिकीर्तितम् ।। ८९५ ।।

यत्पुनर्लभते नारी नीयमाना पितुर्गृहात् ।
अध्यावहनिकं चैव स्त्रीधनं तदुदाहृतम् ।। ८९६ ।।

प्रीत्या दत्तं तु यत्किंचित्श्वश्र्वा वा श्वशुरेण वा ।
पादवन्दनिकं चैव प्रीतिदत्तं तदुच्यते ।। ८९७ ।।

गृहोपस्करवाह्यानां दोह्याभरणकर्मिणाम् ।
मूल्यं लब्धं तु यत्किंचिच्शुल्कं तत्परिकीर्तितम् ।। ८९८ ।।

विवाहात्परतो यत्तु लब्धं भर्तृकुलात्स्त्रिया ।
अन्वाधेयं तदुक्तं तु लभ्दं बन्धुकुलात्तथा ।। ८९९ ।।

ऊर्ध्वं लब्धं तु यत्किंचित्संस्कारात्प्रीतितः स्त्रिया ।
भर्तुः पित्रोः सकाशाद्वा अन्वाधेयं तु तद्भृगुः ।। ९०० ।।

ऊढया कन्यया वापि भर्तुः पितृगृहेऽपि वा ।
भ्रातुः सकाशात्पित्रोर्वा लब्धं सौदायिकं स्मृतम् ।। ९०१ ।।

स्त्रीधने स्वाम्यादिविचारः[सम्पाद्यताम्]

पितृमातृपतिभ्रातृ ज्ञातिभिः स्त्रीधनं स्त्रियै ।
यथाशक्त्या द्विसाहस्राद्दातव्यं स्थावरादृते ।। ९०२ ।।

यत्तु सोपाधिकं दत्तं यच्च योगवशेन वा ।
पित्रा भ्रात्राथ वा पत्या न तत्स्त्रीधनं इष्यते ।। ९०३ ।।

प्राप्तं शिल्पैस्तु यद्वित्तं प्रीत्या चैव यदन्यतः ।
भर्तुः स्वाम्यं तदा तत्र शेषं तु स्त्रीधनं स्मृतम् ।। ९०४ ।।

सौदायिकं धनं प्राप्य स्त्रीणां स्वातन्त्र्यं इष्यते ।
यस्मात्तदानृशस्यार्थं तैर्दत्तं उपजीवनम् ।। ९०५ ।।

सौदायिके सदा स्त्रीणां स्वातन्त्र्यं परिकीर्तितम् ।
विक्रये चैव दाने च यथेष्टं स्थावरेष्वपि ।। ९०६ ।।

भर्तृदायं मृते पत्यौ विन्यसेत्स्त्री यथेष्टतः ।
विद्यमाने तु संरक्षेत्क्षपयेत्तत्कुलेऽन्यथा ।। ९०७ ।।

अथ चेत्स द्विभार्यः स्यान्न च तां भजते पुनः ।
प्रीत्या निसृष्टं अपि चेत्प्रतिदाप्यः स तद्बलात् ।। ९०८ ।।

ग्रासाच्छादनवासानां आच्छेदो यत्र योषितः ।
तत्र स्वं आददीत स्त्री विभागं रिक्थिनां तथा ।। ९०९ ।।

लिखितस्येति धर्मोऽयं प्राप्ते भर्तृकुले वसेत् ।
व्याधिता प्रेतकाले तु गच्छेद्बन्धुजनं ततः ।। ९१० ।।

न भर्ता नैव च सुतो न पिता भ्रातरो न च ।
आदाने वा विसर्गे वा स्त्रीधने प्रभविष्णवः ।। ९११ ।।

यदि ह्येकतरोऽप्येषां स्त्रीधनं भक्षयेद्बलात् ।
सवृद्धिकं प्रदाप्यः स्याद्दण्डं चैव समाप्नुयात् ।। ९१२ ।।

तदेव यद्यनुज्ञाप्य भक्षयेत्प्रीतिपूर्वकम् ।
मूल्यं एव प्रदाप्यः स्याद्यद्यसौ धनवान्भवेत् ।। ९१३ ।।

व्याधितं व्यसनस्थं च धनिकैर्वोपपीडितम् ।
ज्ञात्वा निसृष्टं यत्प्रीत्या दद्यादात्मेच्छया तु सः ।। ९१४ ।।

जीवन्त्याः पतिपुत्रास्तु देवराः पितृबान्धवाः ।
अनीशाः स्त्रीधनस्योक्ता दण्ड्यास्त्वपहरन्ति ये ।। ९१५ ।।

भर्त्रा प्रतिश्रुतं देयं ऋणवत्स्त्रीधनं सुतैः ।
तिष्ठेद्भर्तृकुले या तु न सा पितृकुले वसेत् ।। ९१६ ।।

मृतायाः स्त्रिया धनाधिकारिणः[सम्पाद्यताम्]

भगिन्यो बान्धवैः सार्धं विभजेरन्सभर्तृकाः ।
स्त्रीधनस्येति धर्मोऽयं विभागस्तु प्रकल्पितः ।। ९१७ ।।

दुहितॄणां अभावे तु रिक्थं पुत्रेषु तद्भवेत् ।
बन्धुदत्तं तु बन्धूनां अभावे भ्र्तृगामि तत् ।। ९१८ ।।

पितृभ्यां चैव यद्दत्तं दुहितुः स्थावरं धनम् ।
अप्रजायां अतातायां भ्रातृगामि तु सर्वदा ।। ९१९ ।।

आसुरादिषु यल्लब्धं स्त्रीधनं पैतृकं स्त्रिया ।
अभावे तदपत्यानां मातापित्रोस्तदिष्यते ।। ९२० ।।

अपुत्रधने पत्न्यादयो धनाधिकारिणः[सम्पाद्यताम्]

अपुत्रा शयनं भर्तुः पालयन्ती गुरौ स्थिता ।
भुञ्जीतामरणात्क्षान्ता दायादा ऊर्ध्वं आप्नुयुः ।। ९२१ ।।

स्वर्याते स्वामिनि स्त्री तु ग्रासाच्छादनभागिनी ।
अविभक्ते धनांशे तु प्राप्नोत्यामरणान्तिकम् ।। ९२२ ।।

भोक्तुं अर्हति क्लृप्तांशं गुरुशुश्रूषणे रता ।
न कुर्याद्यदि शुश्रूषां चैलपिण्डे नियोज्येत् ।। ९२३ ।।

मृते भर्तरि भर्तृअंशं लभेत कुलपालिका ।
यावज्जीवं न हि स्वाम्यं दानाधमनविक्रये ।। ९२४ ।।

व्रतोपवासनिरता ब्रह्मचर्ये व्यवस्थिता ।
दमदानरता नित्यं अपुत्रापि दिवं व्रजेत् ।। ९२५ ।।

पत्नी भर्तुर्धनहरी या स्यादव्यभिचारिणी ।
तदभावे तु दुहिता यद्यनूढा भवेत्तदा ।। ९२६ ।।

अपुत्रस्याथ कुलजा पत्नी दुहितरोऽपि वा ।
तदभावे पिता माता भ्राता पुत्राश्च कीर्तिताः ।। ९२७ ।।

विभक्ते संस्थिते द्रव्यं पुत्राभावे पिता हरेत् ।
भ्राता वा जननी वाथ माता वा तत्पितुः क्रमात् ।
अपचारक्रिय्ययुक्ता निर्लज्जा वार्थनाशिका ।। ९२८ ।।

व्यभिचाररता या च स्त्री धनं सा न चार्हति ।। ९२९ ।।

नारी खल्वननुज्ञाता पित्रा भर्त्रा सुतेन वा ।
विफलं तद्भवेत्तस्या यत्करोत्यौर्ध्वदेहिकम् ।। ९३० ।।

अदायिकं राजगामि योषिद्भृत्योर्ध्वदेहिकम् ।
अपास्य श्रोत्रियद्रव्यं श्रोत्रियेभ्यस्तदर्पयेत् ।। ९३१ ।।

संसृष्टानां तु संसृष्टाः पृथक्स्थानां पृथक्स्थिताः ।
अभावेऽर्थहरा ज्ञेया निर्बीजान्योन्यभागिनः ।। ९३२ ।।

द्यूतसमाह्वयौ[सम्पाद्यताम्]

द्यूतं नैव तु सेवेत क्रोधलोभविवर्धकम् ।
असाधुजननं क्रूरं नराणां द्रव्यनाशनम् ।। ९३३ ।।

ध्रुवं द्यूतात्कलिर्यस्माद्विषं सर्पमुखादिव ।
तस्माद्राजा निवर्तेत विषये व्यसनं हि तत् ।। ९३४ ।।

वर्तेत चेत्प्रकाशं तु द्वारावस्थिततोरणम् ।
असंमोहार्थं आर्याणां कारयेत्तत्करपदम् ।। ९३५ ।।

सभिकः कारयेद्द्यूतं देयं दद्यात्स्वयं नृपे ।
दशकं तु शते वृद्धिं गृह्णीयाच्च पराजयात् ।। ९३६ ।।

जेतुर्दद्यात्स्वकं द्रव्यं जिताद्ग्राह्यं त्रिपक्षकम् ।
सद्यो वा सभिकेनैव कितावात्तु न संशयः ।। ९३७ ।।

एकरूपा द्विरूपा वा द्यूते यस्याक्षदेविनः ।
दृश्यते च जयस्तस्य यस्मिन्रक्षा व्यवस्थिता ।। ९३८ ।।

अथ वा कितवो राज्ञे दत्त्वा भागं यथोदितम् ।
प्रकाशं देवनं कुर्यादेवं दोषो न विद्यते ।। ९३९ ।।

प्रसह्य दापयेद्देयं तस्मिन्स्थाने न चान्यथा ।
जितं वै सभिकस्तत्र सभिकप्रत्यया क्रिया ।। ९४० ।।

अनभिज्ञो जितो मोच्योऽमोच्योऽभिज्ञो जितो रहः ।
सर्वस्वे विजितेऽभिज्ञे न सर्वस्वं प्रदापयेत् ।। ९४१ ।।

विग्रहेऽथ जये लाभे करणे कूटदेविनाम् ।
प्रमाणं सभिकस्तत्र शुचिश्च सभिको यदि ।। ९४२ ।।

म्लेच्छश्वपाकधूर्तानां कितवानां तपस्मिनाम् ।
तत्कृताचारं एतॄणां निश्चयो न तु राजनि ।। ९४३ ।।

प्रकीर्णकम्[सम्पाद्यताम्]

पूर्वोक्तादुक्तशेषं स्यादधिकारच्युतं च यत् ।
आहृत्य परतन्त्रार्ह्त निबद्धं असमञ्जसम् ।। ९४४ ।।

दृष्टान्तत्वेन शास्त्रान्ते पुनरुक्तक्रियास्थितम् ।
अनेन विधिना यच्च वाक्यं तत्स्यात्प्रकीर्णकम् ।। ९४५ ।।

राजधर्मान्स्वधर्मांश्च संदिग्धानां च भाषणम् ।
पूर्वोक्तादुक्तशेषं च सर्वं तत्स्यात्प्रकीर्णकम् ।। ९४६ ।।

सद्भागकरशुल्कं च गर्ते देयं तथैव च ।
संग्रामचौरभेदी च परदाराभिमर्दनम् ।। ९४७ ।।

गोब्राह्मणजिघांसा च शस्यव्याघातकृत्तथा ।
एतान्दशापराधांस्तु नृपतिः स्वयं अन्विषेत् ।। ९४८ ।।

निष्कृतीनां अकरणं आज्ञासेधव्यतिक्रमः ।
वर्णाश्रमविलोपश्च प्रर्णसङ्करलोपनम् ।। ९४९ ।।

निधिर्निष्फलवित्तं च दरिद्रस्य धनागमः ।
एतांश्चारैः सुविदितान्स्वयं राजा निवारयेत् ।। ९५० ।।

अनाम्ना तानि कार्याणि क्रियावादांश्च वादिनाम् ।
प्रकृतीनां प्रकोपश्च सङ्केतश्च परस्परम् ।। ९५१ ।।

अशास्त्रविहितं यच्च प्रजायां संप्रवर्तते ।
उपायैः सामभेदाद्यैरेतानि शमये नृपः ।। ९५२ ।।

मित्रादिषु प्रयुञ्जीत वाग्दण्डं धिक्तपस्विनि ।
यथोक्तं तस्य तत्कुर्यादनुक्तं साधु कल्पितम् ।। ९५३ ।।

प्रमाणेन तु कूटेन मुद्रया वापि कूटया ।
कार्यं तु साधयेद्यो वै स दाप्यो दमं उत्तमम् ।। ९५४ ।।

राजक्रीडासु ये सक्ता राजवृत्त्युपजीविनः ।
अप्रियस्य च यो वक्ता वधं तेषां प्रवर्तयेत् ।। ९५५ ।।

प्रतिरूपस्य कर्तारः प्रेक्षकाः प्रकराश्च ये ।
राजार्थमोषकाश्चैव प्राप्नुयुर्विविधं वधम् ।। ९५६ ।।

प्रव्रज्यावसितं शूद्रं जपहोमपरं तथा ।
वधेन शासयेत्पापं दण्ड्यो वा द्विगुणं दमम् ।। ९५७ ।।

सचिह्नं अपि पापं तु पृच्छेत्पापस्य कारणम् ।
तदा दण्डं प्रकल्पेत दोषं आरोप्य यत्नतः ।। ९५८ ।।

सद्वृत्तानां तु सर्वेषां अपराधो यदा भवेत् ।
अवशेनैव दैवात्तु तत्र दण्डं न कल्पयेत् ।। ९५९ ।।

सम्यग्दण्डप्रणेतारो नृपाः पूज्याः सुरैरपि ।
आरम्भे प्रधमं दद्यात्प्रवृत्तौ मध्यमः स्मृतः ।
यस्य यो विहितो दण्डः पर्याप्तस्य स वै भवेत् ।। ९६० ।।

राजानो मन्त्रिणश्चैव विशेषादेवं आप्नुयुः ।
अशासनात्तु पापानां नतानां दण्डधारणात् ।। ९६१ ।।

परतन्त्राश्च ये केचिद्दासत्वं ये च संस्थिताः ।
अनाथास्ते तु निर्दिष्टास्तेषां दण्डस्तु ताडनम् ।। ९६२ ।।

ताडनं वन्धनं चैव तथैव च विडम्बनम् ।
एष दण्डो हि दासस्य नार्थदण्डो विधीयते ।। ९६३ ।।

सुवर्णशतं एकं तु वधार्हो दण्डं अर्हति ।
अङ्गच्छेदे तदर्धं तु विवासे पञ्चविंशतिम् ।। ९६४ ।।

कुलीनार्यविशिष्ट्तेषु निकृष्टेष्वनुसारतः ।
सर्वस्वं वा निगृह्यैतान्पुरात्शीघ्रं प्रवासयेत् ।। ९६५ ।।

निर्धना बन्धने स्थाप्या वधं नैव प्रवर्तयेत् ।
सर्वेषां पापयुक्तानां विशेषार्थश्च शास्त्रतः ।। ९६६ ।।

वधाङ्गच्छेदार्हविप्रो निःसङ्गे बन्धने विशेत् ।
तदकर्मवियुतोऽसौ वृत्तस्तस्य दमो हि सः ।। ९६७ ।।

कूटसाक्ष्यपि निर्वास्यो विख्याप्योऽसत्प्रतिग्रही ।
अङ्गच्छेदी वियोज्यः स्यात्स्वधर्मे बन्धनेन तु ।। ९६८ ।।

एतैः समापराधानां तत्राप्येवं प्रकल्पयेत् ।
बालवृद्धातुरस्त्रीणां न दण्डस्ताडनं दमः ।। ९६९ ।।

स्त्रीधनं दापयेद्दण्डं धार्मिकः पृथिवीपतिः ।
निर्धना प्राप्तदोषा स्त्री ताडनं दण्डं अर्हति ।। ९७० ।।

अन्यायोपार्जितं न्यस्तं कोषे कोषं निवेशयेत् ।
कार्यार्थे कार्यनाशः स्याद्बुद्धिमान्नोपपातयेत् ।। ९७१ ।।

दत्त्वा धनं तद्विप्रेभ्यः सर्वं दण्डसमुत्थितम् ।
पुत्रे राज्यं समासज्य कुर्वीत प्रायणं वने ।। ९७२ ।।

एवं चरेत्सदा युक्तो राजा धर्मेषु पार्थिवः ।
हितेषु चैव लोकस्य सर्वान्भृत्यान्नियोजयेत् ।। ९७३ ।।

"https://sa.wikisource.org/w/index.php?title=कात्यायनस्मृतिः&oldid=35158" इत्यस्माद् प्रतिप्राप्तम्