कात्यायनः
दिखावट
कात्यायनमुनिः
[सम्पाद्यताम्]कात्यायनमुनिः वार्तिककारः आसीत् । वार्तिकं नाम उक्तानुक्तदुरुक्तानां चिन्ता यत्र प्रवर्तते । तं ग्रन्थं वार्तिकमाहुः वार्तिकज्ञा विचक्षणाः ॥ इति । कात्यायनमुनेः पाणिनीयव्याकरणे महद्योगदानम् अस्ति । कात्यायानमुनिः महर्षिपाणिनेः आशयम् एव वार्तिकानां द्वारा प्रकटयति ।