काण्व-शतपथ ब्राह्मणम्
3.2.9
नवमं ब्राह्मणम्
सूर्यो ह वाव दर्श एष ह्ययमहरहरेव ददृशे चन्द्रमा एव पूर्णमा एतस्य हि पूरणमनु पौर्णमासीत्याख्यायतेऽथो इतरथाहुः सूर्य एव पूर्णमा इत्येष ह्ययमहरहरेव पूर्ण इति चन्द्रमा एव दर्श इत्येतस्य हि दर्शो भवतीत्यतोऽन्यतरथाहरेव दर्शो हरु हीदं ददृश इव रात्रिरेव पूर्णमा रात्र्या हीदꣳ सर्वं पूर्णमासावेव द्यौर्दर्श एषा हीयं ददृश इवेयमेव पूर्णमा अनया हीदꣳ सर्वं पूर्णमिति न्वधिदेवतम् ।। १ ।।
अथाध्यात्मं प्राण एव दर्शः प्राणो ह्ययं ददृश इवोदान एव पूर्णमा उदानेन हीदꣳ सर्वं पूर्णं ते हैते देवते अन्नादश्चान्नप्रदश्च प्राण एवान्नादः प्राणेन ह्यन्नमद्यत उदानोऽन्नप्रद उदानेन ह्यन्नं प्रदीयते स यो हैते देवते वेदान्नादं चान्नप्रदं चान्नादो ह भवति प्रास्मा अन्नं दीयते ॥ ३.२.९.२ ॥
स यमदः पूर्वेद्युर्व्रतोपायनीयमश्नाति यावेवास्याध्यात्मं दर्शपूर्णमासौ तावेवैतत्प्रीणाति चक्षुरेव दर्शश्चक्षुर्हीदं ददृश इव श्रोत्रमेव पूर्णमाः श्रोत्रेण हीदꣳसर्वं पूर्णं वागेव दर्शो वाग्घीयं ददृश इव मन एव पूर्णमा मनसा हीदꣳ सर्वं पूर्णम् ।। ३ ॥
तदाहुर्यद्दर्शपूर्णमासौ यजत इत्याहुरिति न पौर्णमास्यामाहुः पूर्णमासायानुब्रूहि पूर्णमासं यजेति नामावास्यायामाहुर्दर्शायानुब्रूहि दर्शं यजेति कथमस्य दर्शपूर्णमासाविष्टौ प्रीतौ भवत इति तद्यथास्येष्टौ भवतो मनो वै पूर्णमा मनसा हीदꣳ सर्वं पूर्णं मनसे वै पूर्वमाघारमाघारयति तेन पूर्णमासं प्रीणाति वाग्वै दर्शो वाग्घीयं ददृश इव वाचे वा उत्तरमाघारम्माघारयति तेन दर्शं प्रीणात्येवमस्य दर्शपूर्णमासाविष्टौ प्रीतौ भवतः॥४॥
तद्धैके हविषी एवैते निर्वपन्ति पौर्णमास्यामहः सरस्वतेऽमावास्यायाꣳ सरस्वत्यै मनः सरसस्वान्वाक्सरस्वत्येतदेनौ प्रत्यक्षꣳ हविषा प्रीणीम इति वदन्तस्तदु तथा न कुर्याद्यद्वा एतावाज्यभागौ भवतस्तदेवैनौ प्रत्यक्षꣳ हविषा प्रीणाति तस्मादाज्यभागावेव स्याताम् ॥५॥
आगूर्ती ह वा एषोऽमुं लोकमेति यो दर्शपूर्णमासाभ्यां यजते पौर्णमासेन हीष्ट्वामावास्येन यक्ष्यमाणो भवत्यामावास्येनेष्ट्वा पौर्णमासेन यक्ष्यमाणो भवति तद्यथानागूर्ती भवत्युभावेवेतरोभावितरत्र सꣳस्थापयत्यागूर्ती ह स्याद्यदेते हविषी निर्वपेत्तस्मादाज्यभागावेव स्याताम् ।। ६ ।। इति नवमं ब्राह्मणम् ।।
3.2.10
दशमं ब्राह्मणम्
शिरो वा एतद्यज्ञस्य यत्प्रणीताः स यत्प्रणीताः प्रणयति शिर एवैतद्यज्ञस्य सꣳ स्करोति स विद्याच्छिर एव स एतत्सꣳस्क्रियत इति ॥ १ ॥
प्राण एवास्येध्मः प्राणेन हीदꣳ सर्वमिद्धं यत्प्राणभृन्निमिषति यदेजति स विद्यादहमेवैष इध्म इति ॥ २ ॥
अनूकमेवास्य सामिधेन्यस्तस्मात्ता ब्रूयात्संतन्वन्निवमेऽनुब्रूहीति संततमिव हीदमनूकं मनश्च हैवास्य वाक्चाघारौ सरस्वाꣳश्च सरस्वती च स विद्यान्मनश्चैव मे वाक्चाघारौ सरस्वाꣳश्च सरस्वती चेति ।। ३ ।!
पञ्च प्रयाजा इम एवास्यैते शिरस्याः पञ्च प्राणा मुखमेवास्य प्रथमः प्रयाजो दक्षिणा नासिका द्वितीयः सव्या नासिका तृतीयो दक्षिणः कर्णश्चतुर्थः सव्यः कर्णः पञ्चमः स यच्चतुर्थे प्रयाजे समानयते तस्माद्विदमन्तरतः श्रोत्रꣳ संतृण्णं चक्षुषी हैवास्याज्यभागौ स विद्याच्चक्षुषी एव म एते इति ॥४॥
अथ य आग्नेयः पुरोळाशोऽयमेवास्य स दक्षिणोऽर्धोऽथ योऽग्नीषोमीय उपाꣳशुयाजो हृदयमेवास्य स स यत्तेनोपाꣳशु चरन्ति तस्माद्विदं गुहा हृदयमथ यदृचमनूच्य जुषाणेन यजति तस्माद्विदमस्थिन्यनस्थिकꣳ हृदयमथ योऽग्नीषोमीयः पुरोळाशोऽ यमेवास्य स सव्योऽर्ध ऐन्द्रं वा सांनाय्यमन्तराꣳसमेवास्य स्विष्टकृद्विषमेवास्य प्राशित्रम् ॥ ५ ॥
स यत्प्राशित्रमवद्यति यथैवादः प्रजापतेराविद्धं निरकृन्तन्नेवमेवैतस्यैतद्यद्वेष्टितं यद्ग्रथितं यद्वरुण्यं तन्निष्कृन्तन्ति स विद्याद्यथैवादः प्रजापतेराविद्धं निरकृन्तन्नित्येवमेव म इदं यदिह वेष्टितं यद्ग्रथितं यद्वरुण्य तन्निकृन्तन्तीति ॥ ६ ॥
उदरमेवास्येला स यथैवाद इलायाꣳ समवद्यृन्त्येवमेवेदं विश्वरूपमन्नमुदरे समवधीयते ॥ ७ ॥
त्रयोऽनुयाजा इम एवास्यैतेऽवाञ्चस्त्रयः प्राणा बाहू एवास्य सूक्तवाकश्च शंयुवाकश्च॥८॥
चत्वारः पन्नीसंयाजाश्चतस्रो वै प्रतिष्ठा ऊरू द्वावष्ठीवन्तौ द्वौ पादावेवास्य समिष्टयजुः ॥९॥
ता वा एता एकविꣳशतिराहुतयो द्वावाघारौ पञ्च प्रयाजा द्वावाज्यभागावाग्नेयः पुरोळाशस्तद्दशाग्नीषोमीय उपाꣳशुयाजोऽग्नीषोमीयः पुरोळाश: स्विष्टकृत्त्रयोऽनुयाजाश्चत्वारः पत्नीसंयाजाः समिष्टयजुर्द्वादश वै मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविꣳश एतेन ह स्म वै तदारुणिराहार्धमासशो वा अहममुनादित्येन सलोको भवामि तामहं दर्शपूर्णमासयोः संपदं वेदेति ।। १० ॥
तदाहुरात्मयाजी३ श्रेयान्देवयाजी३ इत्यात्मयाजीति ह ब्रूयात्स ह वा आत्मयाजी यो वेदेदं मेऽनेनाङ्गꣳ सꣳस्क्रियत इदं मेऽनेनाङ्गमुपधीयत इति स यथाहिस्त्वचो निर्मुच्येतैवमस्मान्मर्त्याच्छरीरात्पाप्मनो निर्मुच्यते स ऋङ्मयो यजुर्मय आहुतिमयो वेदमयः संभवति स हैतासां देवतानामेको भवत्यथ ह स देवयाजी यो वेद देवानेवाहमिदं यजे देवानेवाहमिदꣳ सपर्यामीति स यथा पापीयाञ्छ्रेयसे बलिꣳ हरेद्वैश्यो वा राज्ञे बलिꣳ हरेदेवꣳ हैव स बलिꣳ हरति स ह न तावन्तं लोकं जयति यावन्तमितरः ।। ११ !! इति दशमं ब्राह्मणम् ॥
॥ इति द्वितीयोऽध्यायः ।। इति उद्धारिकाण्डं समाप्तम् ॥