काठकसंहिता (विस्वरः)/स्थानकम् ३५

विकिस्रोतः तः
Jump to navigation Jump to search
← स्थानकं ३४ काठकसंहिता (विस्वरः)
स्थानकम् ३५
[[लेखकः :|]]
स्थानकं ३६ →
प्रायश्चित्तिः

अथ पञ्चत्रिंशं स्थानकम् ।

प्रायश्चित्तिः।
भद्रं कर्णेभिश्शृणुयाम देवा भद्रं पश्येमाक्षिभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ॥
स्वस्ति न इन्द्रो वृद्धश्रवास्स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिस्स्वस्ति नो बृहस्पतिर्दधातु ॥
पृषदश्वा मरुतः पृश्निमातरश्शुभंयावानो विदथेषु जग्मयः ।
अग्निजिह्वा मनवस्सूरचक्षसो विश्वे मा देवा अवसागमन्निह ॥
शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् ।
पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः ॥
प्रेद्धो अग्ने दीदिहि पुरो नोऽजस्रया सूर्म्या यविष्ठ । त्वाँ शश्वन्त उपयन्ति वाजाः॥
श्रुत्कर्णाय कवये वेद्याय वचोभिर्नाकमुपयामि शँसन् ।
यतो भयमभयत्वं नो अस्त्वग्ने देवानामव हेड इक्ष्व ॥
अग्निं वो देवमग्निभिस्सजोषा यजिष्ठं दूतमध्वरे कृणुध्वम् ।
यो मर्त्येषु निध्रुविर्ऋतावा तपुर्मूर्धा घृतान्नः पावकः ॥
घृतप्रतीको घृतपृष्ठो अग्निर्घृताहवनो घृतमस्य धाम ।।
घृतप्रुषो हरितस्त्वावहन्तु घृतं पिबन् यजताद्देव देवान् ॥१॥

इमो अग्ने वीततमानि हव्याजस्रा वक्षि देवतातिमच्छ । प्रति न ईँ सुरभीणि व्यन्तु ॥
सप्त ते अग्ने त्रयस्त्रिंशद्यन्मे मनसो विश्वकर्माग्निं युनज्मीन्धानास्त्वाग्निर्न ईडित ईडितव्यैर्देवैः पार्थिवैः पातु वायुर्न ईडित ईडितव्यैर्देवैरन्तरिक्ष्यैः पातु सूर्यो न ईडित इंडितव्यैर्देवैर्दिव्यैः पातु विष्णुर्न ईडित ईडितव्यैर्देवैर्दिश्यैः पात्वग्निर्यजुर्भिः पूषा स्वगाकारैस्त इमं यज्ञमवन्तु ते मामवन्त्वनु व आरभेऽनु मारभध्वम् ॥२॥

पृथिवि विभूवरि सिनीवाल्युरंध आचित्ते मनस्ते भुवो विवस्ते य ऊर्मिर्हविष्य इन्द्रियावांस्तं व ऋध्यासँ सोमस्याज्यमसि हविषो हविर्ज्योतिषो ज्योतिर्विश्वेषां देवानां भागधेयीस्स्थ देववीतये वो गृह्णामि ॥
सं वस्सिञ्चन्तु मरुतस्सं पूषा सं धाता समिन्द्रस्सं बृहस्पतिः ।
सं वोऽयमग्निस्सिञ्चतु प्रजया च धनेन च । आयुष्मन्तं कृणोत मा ॥
मान्दा वशाः ॥
आपो देवीर्घृतमिदाप आसन्नग्नीषोमौ बिभ्रत्याप इत्ताः।
तीव्रो रसो मधुपृचामरंगम आ मा प्राणेन सह वर्चसागन् ॥
आदित् पश्याम्युत वा शृणोम्या मा घोषो गच्छति वाङ्म आसाम् ।
मेने भेजानो अमृतस्य तर्हि हिरण्यवर्णा अतृपं यदा वः॥
समन्या यन्त्युप यन्त्यन्यास्समानमूर्वं नद्यः पृणन्ति ।
तमू शुचिं शुचयो दीदिवाँसमपां नपातं परितस्थुरापः ॥
आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन । महे रणाय चक्षसे ॥
यो वश्शिवतमो रसस्तस्य भाजयतेह नः । उशतीरिव मातरः॥
तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः॥
स ईं वृषा जनयँस्तासु गर्भँ स ईँ शिशुर्धयति तं रिहन्ति ।
सो अपां नपादूर्जयन्नप्स्वन्तर्वसुधेयाय विधते विभाति ॥
इह गावः प्रजायध्वमिहाश्वा इह पूरुषाः ।
इहो सहस्रदक्षिणो रायस्पोषः प्रजायताम् ॥
अयं यज्ञो वर्धतां गोभिरश्वैरियं वेदिस्स्वपत्या सुवीरा ।
इदं बर्हिरति बर्हीँष्यन्येमं यज्ञं विश्वे अवन्तु देवाः ॥
स आ दमे सुदुघा यस्य धेनुस्स्वधां पीपाय सुभ्वन्नमत्ति ।
सो अपां नपादनभिम्लातवर्णोऽन्यस्येवेह तन्वा विवेष ॥३॥

स्कन्ना द्यौस्स्कन्ना पृथिवी स्कन्नं विश्वमिदं हविः ।
स्कन्नादो विश्वा भूतानि प्र स्कन्नं जायताँ हविः ॥
इह गावोऽयं यज्ञः॥
पयस्वतीराप ओषधयः पयस्वन्मामकं वचः ।
अपां पयस्वद्यत् पयस्तेन नस्सह वर्धताम् ॥
यदवामृक्षच्छकुनिर्मुखेन निर्ऋते तव । अनिष्टत् सर्वँ शुन्धतु हव्याड् घृतसूदनः ॥ यदामृक्षच्छ्कुनिर्मुखेन निऋते तव । अनिष्टत् सर्वँ शुन्धतु हव्यवाड् घृतसूदनः ॥ भूतिर्दध्ना घृतेन वर्धतां यज्ञं यज्ञाय मुञ्चतु स्वाहा घृतेन वर्धतां भूतिर्मुञ्चेमं यज्ञं मुञ्च यज्ञपतिमँहसस्स्वाहा ॥
यास्ते अग्ने समिधो अप्स्वन्तर्वर्ष्मन् पृथिव्या उप सूर्ये याः ।
तास्ते गच्छन्त्वाहुतीर्घृतस्य देवाव्ये यजमानाय शर्म ॥४॥

यज्ञस्य हि स्थ ऋत्विजा इन्द्राग्नी कल्पना युवम् ।
हुताहुतस्य तृम्पतमहुतस्य हुतस्य च ॥
हुतस्य चाहुतस्य चाहुतस्य हुतस्य च ।।
पीतापीतस्य सोमस्यास्य हव्यस्येन्द्राग्नी वीतं पिबतमागतम् ॥
मेमं यज्ञं तमो विदन्मर्त्विजो मो इमाः प्रजाः।
मा यस्सोमं पिबादिमँ सँसृष्टमुभयं कृतम् ॥
मा नो ध्वारिषुः पितरो मोत देवा मा नस्सबन्धुरुत वान्यबन्धुः ।
मा नो दुश्शँसो अघशँस ईशताह्रुतोऽयं यज्ञो अप्येतु देवान् ॥
सप्तर्त्विजस्सप्त सदाँस्येषां देश क्षिपो अश्विना पञ्चवाजा ।
प्राणो व्यानोऽपानो मन आकूतमग्निस्स्वाहा देवा हविरिदं जुषन्ताम् ॥५॥

आत्मा यज्ञस्य रंह्या सुष्वाणः पवते सुतः । प्रत्नानि पाति काव्यः ।।
गोषा इन्दो नृषा अस्यश्वसा वाजसा उत । आत्मा यज्ञस्य पूर्व्यः॥
आत्मन्वनभो दुह्यते घृतं पय ऋतस्य योनिरमृतं विजायते ।
समीचीनास्सुदानवः प्रीणन्ति तन्नरो हितमवमेहन्ति पेरवः ॥
देवा देवेषु श्रयन्तां प्रथमा द्वितीयेषु श्रयन्तां द्वितीयास्तृतीयेषु श्रयन्तां ये स्थ त्रय एकादशास्त्रयश्च त्रिँशच्च त्रयश्च त्री च शता च त्रयश्च त्री च सहस्रा त इमं यज्ञमवन्तु ते मामवन्त्वनु व आरभेऽनु मारभध्वम् ॥६॥

वसवस्त्वोदीरयन्तु रुद्रास्त्वोदीर्पयन्त्वादित्यास्त्वोच्छ्रयन्तु विश्वे त्वा देवा दृँहन्तु ॥
ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवं विश्वमिदं जगत् ।
देवा ह धर्मणा ध्रुवा यजमानः पशुभिर्ध्रुवः ॥
दिवि दिव्यान् दृँहान्तरिक्षेऽन्तरिक्ष्यान् दृँह पृथिव्यां पार्थिवान् दृँह ॥
आ त्वाहार्षमन्तरभूर्रुिरवस्तिष्ठाविचाचलत् ।
विशस्त्वा सर्वा वाच्छन्तु मा त्वद्यज्ञो अधिभ्रशत् ॥
ध्रुवं ध्रुवेण हविषा हविरव सोमं नयामसि ।
यथा न इन्द्रः केवलीर्विशो बलिहृतस्करत् ॥
स्वाहा दिव आप्यायस्व स्वाहान्तरिक्षादाप्यायस्व स्वाहा पृथिव्या आप्यायस्वायुर्धा असि धुवायुर्मे धेहि वयोधा असि ध्रुव वयो मे धेहि तनूपा असि ध्रुव तन्वं मे पाहि चक्षुष्पा असि ध्रुव चक्षुर्मे पाहि वर्चोधा असि ध्रुव वर्चो मे धेहि ॥
अध्वर्योऽयं यज्ञो अस्तु देवा ओषधीभ्यः पशुभ्यो मे धनाय ।।
विश्वस्मै भूताय ध्रुवो अस्तु देवास्स पिन्वस्व घृतवद्देव यज्ञ ॥
इहैवैधि मापच्योष्ठाः पर्वत इवाविचाचलत् ।
इन्द्र इवेह ध्रुवस्तिष्ठेह यज्ञमु धारय ॥
इममिन्द्रो अदीधरद् ध्रुवं ध्रुवेण हविषा हविः ।
तस्मै सोमो अधिब्रुवत् तस्मा उ ब्रह्मणस्पतिः ॥
ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवासः पर्वता इमे ।
ध्रुवं विश्वमिदं जगद् ध्रुवो राजा विशामसि ॥७॥

असवे स्वाहा वसवे स्वाहा वसुधेयाय स्वाहा भूपतये स्वाहा भुवनपतये स्वाहा भूतानां पतये स्वाहा भूताय स्वाहा ॥
द्रप्सश्चस्कन्द पृथिवीमनु द्यामिमं च योनिमनु यश्च पूर्वः ।
समानं योनिमनु संचरन्तं द्रप्सं जुहोम्यनु सप्त होत्राः ॥
यस्ते द्रप्सस्स्कन्दति यस्ते अँशुर्बाहुच्युतो धिषणाया उपस्थे ।
अध्वर्योर्वा परि वा यः पवित्रात् तत् ते जुहोमि मनसा वषट्कृतम् ॥
यो द्रप्सो अँशुः पतितः पृथिव्यां परिवापात् पुरोडाशात करम्भात् ।
धानासोमान्मन्थिन इन्द्र शुक्रात् स्वाहाकृतमिन्द्राय तं जुहोमि ॥
यस्ते द्रप्सो मधुमाँ इन्द्रियावान् स्वाहाकृतः पुनरप्येति देवान् ।
अध्वर्योर्वा परि वा यः पवित्रात् तत् ते जुहोमि मनसा वषट्कृतम् ॥
यस्ते द्रप्सस्स्कन्दति यस्ते अँशुरवश्च यः परो दिवः।
अयं देवो बृहस्पतिस्सं तत् सिञ्चतु राधसा ॥८॥

विसृष्टधेनास्सलिला घृतश्च्युतो वसन्तो ग्रीष्मो मधुमन्ति वर्षाः ।
शरद्धेमन्त ऋतवो मयोभुव उदप्रुतो नभसी संवसन्ताम् ।।
आ नः प्रजामा देवानां त्वमग्ने व्रतपा असि ॥
यद्वो वयं प्रमिनाम व्रतानि विदुषां देवा अविदुष्टरासः ।
अग्निष्टद्विश्वमापृणाति विद्वान् येभिर्देवाँ ऋतुभिः कल्पयाति ॥
मधुश्च माधवश्च वासन्तिका ऋतू शुक्रश्च शुचिश्च ग्रैष्मा ऋतू नभश्च नभस्यश्च वार्षिका ऋतू इषश्चोर्जश्च शारदा ऋतू सहश्च सहस्यश्च हैमन्तिका ऋतू तपश्च तपस्यश्च शैशिरा ऋतू त इमं यज्ञमवन्तु ते मामवन्त्वनु व आरभेऽनु मारभध्वम् ॥९॥

असवे स्वाहा वसवे स्वाहा विभवे स्वाहा विवस्वते स्वाहा शूषाय स्वाहा सँसर्पाय स्वाहा मलिम्लुचाय स्वाहा गणश्रिये स्वाहा चन्द्राय स्वाहा ज्योतिषे स्वाहाभिभवे स्वाहाधिपतये स्वाहा दिवापतये स्वाहेन्द्रस्य ग्रहोऽस्यगृहीतो ग्राह्यो देवानां पूरसि तां त्वा प्रविशामि तां त्वा प्रपद्ये सह गृहैस्सह प्रजया सह पशुभिस्सहर्त्विग्भिस्सह सदस्यैस्सह सोम्यैस्सह दक्षिणीयैस्सह यज्ञेन सह यज्ञपतिना ॥ इन्द्राग्नी परिधी मम वाता देव पुरा कृता तत्त्वेन्द्रग्रह प्रपद्ये संगुस्साश्वसपूरुषस्सह यन्मेऽस्ति तेन ॥ अरिष्ट्या अव्यथ्यै संवेशायोपवेशाय गायत्र्यै छन्दसेऽभिभुवे स्वाहारिष्ट्या अव्यथ्यै संवेशायोपवेशाय त्रिष्टुभे जगत्या अनुष्टुभे छन्दसेऽभिभुवे स्वाहा ॥१०॥

द्यौश्च त्वा पृथिवी च श्रीणीतामहश्च त्वा रात्री च श्रीणीतां वाक् च त्वा मनश्च श्रीणीतामापश्च त्वौषधयश्च श्रीणन्त्वृक् च त्वा साम च श्रीणीताँ स्तोमश्च त्वा यजुश्च श्रीणीतां बृहच्च त्वा रथंतरं च श्रीणीतां यज्ञश्च त्वा दक्षिणा च श्रीणीताँ सूर्यश्च त्वा चन्द्रमाश्च श्रीणीतां दर्शश्च त्वा पूर्णमासश्च श्रीणीतां ब्रह्म च त्वा क्षत्रं च श्रीणीतामर्कश्च त्वाश्वमेधश्च श्रीणीताँ श्रीतस्त्वँ श्रीतोऽहमिन्दुरिन्दुमवागँस्तस्य त इन्द इन्द्रियावत इन्द्रपीतस्य सर्वगणस्सर्वगणस्योपहूत उपहूतस्य भक्षयामि ॥११॥

विश्वा अग्ने त्वया वयं धारा उदन्या इव ।
अतिगाहेमहि द्विषः ॥
या देव्यष्टकास्यपसामपस्तमा स्वपा असि ।
तस्यै त एना हविषा विधेम त्वं यज्ञे वरुणस्वावया असि ॥
श्रुत्कर्णाय ॥
अनुमतेऽनुमन्यस्व न इदं यद्भेषजं कृणुमहे तनूषु ।
यद्वो तोकेषु तनुषु प्रजासु यद्गोष्वोषधीष्वप्सु ॥१२॥

हिरण्यगर्भः॥
तदित् पदं न विचिकेत विद्वान् यन्मृतः पुनरप्येति जीवान् ।
त्रिवृद्भुवनं यद्रथवज्जीवो गर्भो न मृतस्स्वाहा ।।
आप्यायस्व सं ते पयांसि ॥
आप्यायस्व मदिन्तम सोम विश्वेभिरँशुभिः । भवा नस्सुश्रवस्तमस्सखा वृधे ॥१३॥

अप्स्वग्ने ॥
तपोऽष्वग्ने अन्तराँ अमित्रान्तपा शँसमररुषः परस्य ।
तपो वसो चिकितानो अचित्तान् वि ते तिष्ठन्तामजरा अयासः ।।
यो नस्सनुत्यो अभिदासदग्ने यो अन्तरो मित्रमहो अनुष्यात् ।
तमजरेभिर्वृषभिस्तव स्वैस्तपा तपिष्ठ तपसा तपस्वान् ।।
स स्मा कृणोतु केतुमा नक्तं चिद्दूर आ सते ।
पावको यद्वनस्पतीन् प्र स्मा मिनात्यजरः ॥
नहि ते अग्ने तन्वः क्रूरमानाश मर्तः । कपिर्बभस्ति तेजनँ स्वं जरायु गौरिव ।।
मेष इवयदुप च वि च चर्वति यदप्सरद्रूरुपरस्य खादति ।
शीर्ष्णा शिरो वक्षसा वक्ष एजयन्नँशुं बभस्ति हरितेभिरासभिः ।।
सुपर्णा वाचमक्रतोप द्यव्याखरे कृष्णा इषिरा अनर्तिषुः ।
न्यङ् नियन्त्युपरस्य निष्कृतं पुरू रेतो दधिरे सूर्यश्वितः ॥१४॥

अग्निना तपोऽन्वाभवत् सूर्येण तेजो वायुना प्राणा इन्द्रेण देवा यमेन पितरस्सरस्वत्या मनुष्यास्सप्तदशेन स्तोमा वामदेव्येन सामानि गायत्र्या छन्दाँसि मण्या रूपाणि हिरण्येन वर्चाँसि तिरश्चिराजिना सर्पा अजगरेणाप्सव्याश्श्येनेन पतत्रिणो व्याघ्रेणारण्याः पशवस्सुपर्णेन वयाँस्यश्वत्थेन वनस्पतय ओदनेनान्नानि यवेनौषधयोऽश्ववृषेणैकशफाः पशवो वृषभेण गावो वृष्णिनावयो बस्तेनाजाश्चन्द्रमसा नक्षत्राणि ब्राह्मणेन वाचो वाचा देवतास्स्त्रिया विराड् ग्राव्णा पर्वतास्समुद्रेणापोऽद्भिस्सत्यँ सत्येनर्तमृतेन तपस्तपसा परमेष्ठी परमेष्ठिना मृत्युर्मृत्युना प्रजाः प्रजाभिस्सगरस्तनूभि प्रजापतिस्तैर्देवैरन्वाभूतिरनु च भूयासमति च भूयासं ब्राह्मणानाँ श्रेष्ठश्च भूयासम् ॥१५॥
  
यस्य द्रोणकलश उपदस्यति कलशमेव तस्योपवायन्तं प्राणोऽनूपदस्यति प्राणों हि सोमस्तदाहुः पयोऽवनयेदित्यथो खल्वाहुरन्तर्हितमिव वा एतद्यत् पयो हिरण्यमेवापोऽभ्यवनयेद्धिरण्यमभ्युन्नयेदमृतं वा आप आयुर्हिरण्यममृतादेवाध्यायुरात्मन् धत्ते चत्वारो वरा देया ब्रह्मण उद्गात्रे होत्रेऽध्वर्यव एते वै यज्ञस्येन्द्रास्तानेव प्रीणाति सैव तत्र प्रायश्चित्तिर्यस्य चमस उपदस्यति चमसमेव तस्योपवायन्तं प्राणोऽनूपदस्यति प्राणो हि सोमो यमध्वर्युरन्तमं ग्रहं गृह्णीयात् तस्य संपातमवनयेत् प्रायश्चित्त्यै वै सोमो गृह्यते प्रायश्चित्त्यैवास्मै प्रायश्चित्तिं करोति सर्वमायुरेति सैव तत्र प्रायश्चित्तिर्यस्य ग्रावापिशीर्यते पशुभिर्व्यृध्यते पशवो हि ग्रावाणो द्युतानस्य मारुतस्य ब्रह्मसामेन स्तुवीरन् पशवो वै द्युतानो मारुतस्स्वेनैवैनँ साम्ना संदधाति पशुमान् भवति सैव तत्र प्रायश्चित्तिः प्रजापतये स्वाहेत्यभक्षणीयानुपरवेष्ववनयेत् प्राजापत्यो वै सोमः प्रतिष्ठामेवैनं गमयति सैव तत्र प्रायश्चित्तिर्यस्य सोममभिदहेद्ग्रहानध्वर्युस्स्पाशयेत स्तोत्राण्युद्गाता शस्त्राणि होताथ यथापूर्वं यज्ञेन चरेयुः पञ्च वरा देयाः पाङ्क्तो यज्ञो यज्ञमेवावरुन्द्धेऽवभृथं गत्वा पुनरुदेत्य पुरा द्वादश्याः पुनर्दीक्षेत यद् द्वादशीमतिनयेदन्तर्धीयेत तत्र ता दक्षिणा दद्याद्याः पूर्वस्मिन् दास्यन् भवति सैव तत्र प्रायश्चित्तिः॥१६॥
  
सर्वान् वा एषोऽग्नौ कामान् प्रवेशयते योऽग्निमन्वाधाय व्रतमुपैति स यदनिष्ट्वा प्रयायादकामप्रीता एनं कामा नानु प्रयायुरतेजा अवीर्यस्स्यात् स प्रयास्यञ्जुहुयात् ॥
तुभ्यं ता अङ्गिरस्तम विश्वास्सुक्षितयः पृथक् । अग्ने कामाय येमिरे ॥
इति कामानेवास्मिन् दधाति कामप्रीता एनं कामा अनु प्रयान्ति तेजस्वी वीर्यावान् भवति संततिर्वा एषा यज्ञस्य योऽग्निमन्वाधाय व्रतमुपैति स यदनिष्ट उद्वायाद्विच्छित्तिरेवास्य सा प्राञ्चमुद्धृत्य मनसोपतिष्ठेत मन इव वै प्रजापतिः प्राजापत्यो यज्ञो यज्ञमेव संतनोति भूरिति व्याहरेद्भूतो वै प्रजापतिर्भूतिमेवोपैत्यायुषा वा एष वीर्येण व्यृध्यते यस्याहिताग्नेरग्निरपक्षायति स यावच्छम्यया पराविध्येद्यदि तावदपक्षायेत् तँ संभरेत् ॥
इदं त एकं पर ऊ त एकं तृतीयेन ज्योतिषा संविशस्व ।
संवेशनस्तन्वे चारुरेधि प्रियो देवानां परमे जनित्रे ॥
इति ब्रह्मणैवैनँ संभरति सैव तंत्र प्रायश्चित्तिर्यदि परस्तरामपक्षायेदनुप्रयाय वसेत् सैव तत्र प्रायश्चित्तिरोषधीर्वा एतस्य पयः पशून् प्रविशति यस्य हविषेऽपाकृता वत्सा धयन्ति वायव्या यवागूं निर्वपेद्वायुर्वै पयसः प्रदाता तमेव भागधेयेनोपधावति सोऽस्मै पयः प्रयच्छत्यथोत्तरस्मै हविषे वत्सानपावर्तयेत् सैव तत्र प्रायश्चित्तिः ॥१७॥

अर्धं वा एतस्य यज्ञस्य मीयते यस्य सायं दुग्धँ हविरार्तिमार्छतीन्द्राय व्रीहीन्निरुप्योपवसेत् पयो वा ओषधयः पय एवारभ्योपवसति यत् प्रातस्यात् तच्छतं कुर्युरैन्द्र इतरः पुरोडाशस्स्यात् पयो वा ओषधयः पयसैवास्मै पयः प्रदापयत्यथोत्तरस्मै हविषे वत्सानपावर्तयेत् सैव तत्र प्रायश्चित्तिरुभयान् वा एष देवान् भागधेयेन व्यर्धयति ये यजमानस्य सायं च प्रातश्च गृहमागच्छन्ति यस्य सायं प्रातर्दुग्धँ हविरार्तिमार्छत्योदनं पञ्चशरावं निर्वपेदग्निं देवतानां प्रथमं यजेदग्निमुखा एव देवताः प्रीणात्यग्निं या अन्वन्या देवता इन्द्रमन्यास्ता एवोभयीः प्रीणात्यथोत्तरस्मै हविषे वत्सानपावर्तयेत् सैव तत्र प्रायश्चित्तिर्यत् कीटावपन्नेन जुहुयादप्रजा अपशुर्यजमानस्स्याद्यदनायतने निनयेदनायतनस्स्यान्मध्यमेन पर्णेन द्यावापृथिव्ययर्चान्तःपरिधि निनयेद् द्यावापृथिवी वै यज्ञस्य प्रतिष्ठा प्रतिष्ठामेवैनं गमयति सैव तत्र प्रायश्चित्तिर्यत् प्रयाजेष्वनिष्टेषु प्राङङ्गारस्स्कन्देदध्वर्यवे च यजमानाय चाकँ स्याद्यद्दक्षिणा ब्रह्मणे च यजमानाय चाकँ स्याद्यत् प्रत्यङ् होत्रे च पत्न्यै चाकँ स्याद्यदुदङ्ङग्निधे च यजमानस्य च पशुभ्योऽकँ स्यात् तं प्रहरेत् ॥
सहस्रशृङ्गो वृषभो जातवेदास्स्तोमपृष्ठो घृतवान् सुप्रतीकः।
मा मा हासीन्नाथितो नेत्त्वा जहानि सहस्रपोषस्स गोपोषं च यच्छ ॥
इति ब्रह्मणैवैनं प्रहरति सैव तत्र प्रायश्चित्तिरर्धं वा एतस्य यज्ञस्य मीयते यस्य व्रत्येऽहन् पत्न्यनालम्बुका भवति तामपरुध्य यजेत सर्वेणैव यज्ञेन यजते तामिष्ट्वोपह्वयेत ॥
सा त्वमस्यमोऽहममोऽहमस्मि सा त्वम् । ता एहि संरभावहै पुँसे पुत्राय कर्तवे।
रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय ॥
इत्यर्ध एवैनामाभजति सैव तत्र प्रायश्चित्तिः ॥१८॥

यदववृष्टेन जुहुयादपरूपमस्यात्मञ्जायेत यत् प्रत्येयात् पापीयान् स्याद्यन्न जुहुयादार्तिमार्छेत् ॥
मित्रो जनान्यातयति प्रजानन्मित्रो दाधार पृथिवीमुत द्याम् ।
मित्रः कृष्टीरनिमिषाभिचष्टे मित्राय हव्यं घृतवद्विधेम ॥
इति मैत्र्यर्चा समिधमाधाय होतव्यं मित्रो वै यज्ञस्य शान्तिर्मित्रेणैवैनच्छमयति तद्धुत्वाथान्यां दुग्ध्वा पुनर्होतव्यँ सैव तत्र प्रायश्चित्तिर्यत् कीटावपन्नेन जुहुयादप्रजा अपशुर्यजमानस्याद्यन्न जुहुयादार्तिमार्छेत् प्राजापत्यर्चा वल्मीकवपायामवनयेत् प्राजापत्यो वै वल्मीको यज्ञः प्रजापतिर्यज्ञ एव यज्ञं प्रतिष्ठापयति तद्धुत्वाथान्यां दुग्ध्वा पुनर्होतव्यँ सैव तंत्र प्रायश्चित्तिः ॥ यदि पूर्वस्यामाहुत्याँ हुतायामुत्तराहुतिस्स्कन्देद् द्विपाद्भिः पशुभिर्यजमानो व्यृध्येत यदभिजुहुयाच्चतुष्पाद्भिः पशुभिर्यजमानो व्यृध्यते॥
यत्र वेत्थ वनस्पते देवानां गुह्या नामानि । तत्र हव्यानि गामय ॥
इति वानस्पत्ययर्चा समिधमाधाय होतव्यं वनस्पतिनैवास्यार्तां चानार्तां चाहुती विदाधार तद्धुत्वाथान्यां दुग्ध्वा पुनर्होतव्यँ सैव तत्र प्रायश्चित्तिः ॥१९॥

देवाश्च वा असुराश्चास्मिंल्लोके आसन् स प्रजापतिरकामयत परासुरान्नुदेय प्रजास्सृजेयेति स एतानि चातुर्मास्यान्यपश्यत् स चातुर्मास्यैरेवासुरान् प्राणुदत चातुर्मास्यैः प्रजा असृजत य एवं विद्वाँश्चातुर्मास्यैर्यजते परा भ्रातृव्यं नुदते प्र प्रजया प्र पशुभिर्जायतेऽग्निष्टोमाद्वैश्वदेवं यज्ञक्रतुं निर्माय प्रजापतिः प्रजा असृजतोक्थ्याद्वरुणप्रघासान् यज्ञक्रतुं निर्माय प्रजा वरुणेनाग्राहयदतिरात्रात् साकमेधान् यज्ञक्रतुं निर्मायेन्द्रो वृत्रमहन् वैश्वदेवेन वै सोऽसुरान् प्राणुदत वैश्वदेवेन प्रजा असृजत ॥ सृष्टा वा अन्याः प्रजा आसन्नसृष्टा अन्या अथ प्रजापतिरकामयत प्रजास्सृजेयेति संवत्सरो वै यज्ञो यज्ञः प्रजापतिस्स एते आत्मनोऽधि पयसी निरमिमीतोधन्यं च वह्यं चाथैताभ्यो देवताभ्य एतानि हवींषि भागं निरवपत् तैः प्रजा असृजतर्तुभ्यो वै ताः प्रजाः प्राजायन्तर्तव एतानि पञ्च हवींषि पञ्च ह्यृतवस्तत एवं प्रजायतेऽग्निरेव प्रावापयत् सोमो रेतोऽदधान्मिथुनं वा अग्निश्च सोमश्च सविता प्रासुवत् संवत्सरो वै सविता द्वादश मासास्संवत्सरस्तस्माद् द्वादशकपालोऽथो वैश्वदेवत्वायैव द्वादशकपाल उपाँशु यजत्यनिरुक्तो हि संवत्सरस्सरस्वत्येव सृष्टामु वाचमदधात् पूषणं प्रतिष्ठामभ्यसृजन्त ॥ वाग्वै सरस्वती पशवः पूषा मिथुनं वाक् च पशवश्च मध्यतो वै प्रजा विसृज्यन्तेऽन्ततो मिथुनाद्विषूचीः प्रजायन्ते तदेतत् प्रजापतेरेवाधि मध्यतः प्रजा विसृज्यन्तेऽथादोऽन्ततो मिथुनादुभयतो विषूचीः प्रजायन्ते वार्त्रघ्नानि वा एतानि हवीँ ष्यग्निना वा अनीकेनेन्द्रो वृत्रमहन् सोमेन राज्ञा सवित्रा प्रसूतस्सरस्वत्या चैत्र्यां पूषा वीर्यैरन्वतिष्ठत विजितिरेवैतानि हवीँषि ॥२०॥ [२२७७]]


॥ इति श्रीयजुषि काठके चरकशाखायामोरिमिकायां प्रायश्चित्तिर्नाम पञ्चत्रिंशं स्थानकं संपूर्णम् ॥३५॥