काठकसंहिता (विस्वरः)/स्थानकम् ३३

विकिस्रोतः तः
Jump to navigation Jump to search
← स्थानकं ३२ काठकसंहिता (विस्वरः)
स्थानकम् ३३
[[लेखकः :|]]
स्थानकं ३४ →
सत्त्राणि

अथ त्रयस्त्रिंशं स्थानकम्।

सत्त्राणि।
गावो वै सत्त्रमासत शृङ्गाणि सिषासन्तीस्तासां दशमे मासि शृङ्गाण्यजायन्त ता अब्रुवन्नरात् स्मोत्तिष्ठामाव तं काममरुत् स्महि यस्मै कामाय न्यसदामेति तासामु त्वा अब्रुवन्नर्धा वा यावतीर्वासामहा एव द्वादशौ मासौ संवत्सरँ संपाद्योत्तिष्ठामेत्युत्तिष्ठन्तीरु त्वा अब्रुवन्नेवास्मासु श्रद्धाभूदिति तासां या द्वादशौ मासा आसत तासाँ शृङ्गाणि प्रावर्तन्त श्रद्धया वाश्रद्धया वा ता इमा यास्तूपरास्तस्माद् द्वादश मासास्तूपराः प्रेत्वरीश्चरन्ति दश शृङ्गिणीरुभयीर्वाव ता आर्ध्नुवन् याश्शृङ्गाण्यसन्वन्याश्चोर्जमवारुन्धतर्ध्नुवन्ति दशसु मास्सूत्तिष्ठन्त ऋध्नुवन्ति द्वादशसु य एवं विदुस्तदेतदृद्धमयनं तस्मादेतेन यन्ति पदेन वा एतद्यन्ति विन्दति ह खलु वै पदेन यँस्तस्मादेतद्गोसनि ॥१॥

अतिरात्रः परमो यज्ञक्रतूनामित्याहुर्ब्रह्मवादिनः कस्मात् तं प्रथममुपयन्तीति यद्वा अतिरात्रमुपयन्त्यग्निष्टोमं प्रथममुपयन्त्यथोक्थ्यमथ षोडशिनमथातिरात्रं यथापूर्वमेव यज्ञक्रतूनुपेत्यैतानालभ्य परिगृह्य सोमं पिबन्त आसते ज्योतिष्टोमं प्रथममुपयन्ति ज्योतिष्टोमो वै स्तोमानां मुखं मुखत एव तत् स्तोमान् प्रयुञ्जते विराजं ज्योतिष्टोमोऽभिसंपन्न एकया गौरतिरिक्त एकयायुरूनस्ते सँस्तुता विराजमभिसंपद्यन्ते द्वे चर्चा अतिरिच्येते स्वर्गो वै लोको विराड् द्विपादो यजमानास्स्वर्ग एव तल्लोके विराजि द्विपादो यजमानाः प्रतितिष्ठन्ति ॥ रथन्तरं पृष्ठं भवतीयं वै पृथिवी रथन्तरमिमामेव तदालभ्यासते रथन्तरं दिवा भवति रथन्तरं नक्तमित्याहुर्ब्रह्मवादिनः केन तदजामीति सौभरं तृतीयसवने ब्रह्मसामं बृहद्भवति तन्मध्यतो दधाति रथन्तरस्य विधृत्यै तेनाजाम्यतिरात्राच्चतुर्विँशमहरुपयन्ति चतुर्विँशतिस्संवत्सरस्यार्धमासा अर्धमासशस्संवत्सर आप्यतेऽर्धमासश एव तत् संवत्सरमाप्नुवन्ति तस्य षष्टिश्च त्रीणि च शतानि स्तोत्रीयाष्षष्टिश्च वै त्रीणि च शतानि संवत्सरस्याहान्यहश्शस्संवत्सर आप्यतेऽहश्श एव तत् संवत्सरमाप्नुवन्त्युक्थ्यो भवति पशवो वा उक्थानि पशूनेवावरुन्धते बृहत् पृष्ठं भवति स्वर्गो वै लोको बृहत् स्वर्गमेव तेन लोकमाप्नुवन्ति त्रयस्त्रिँशो नाम साम माध्यन्दिने पवमाने भवति त्रयस्त्रिँशद्देवास्तद्देवा नाप्नुवन्त्येतस्मै वै संवत्सरमुपयन्त्यापन देवानापन् स्वर्गं लोकमवपशूनरुत्सतापन् संवत्सरमर्धमासश आपन्नहश्शस्तच्चतुर्विँशेऽहन् सर्वा देवताः परिगृह्य सोमं पिबन्त आसते ये वा इतः पराञ्चं संवत्सरमुपयन्ति नैनं ते स्वस्ति समश्नुवतेऽथो येऽमुतोऽर्वाञ्चमुपयन्ति ते हैनँ स्वस्ति संतरन्त्येतद्वा अमुतोऽर्वाञ्चमुपयन्ति यदेवम् ॥२॥

ज्योतिष्टोमं प्रथममुपयन्त्यस्मिँस्तेन लोके प्रतितिष्ठन्ति गोष्टोमं द्वितीयमुपयन्त्यन्तरिक्षे तेन प्रतितिष्ठन्त्यायुष्टोममुत्तममुपयन्त्यस्मिँस्तेन लोके प्रतितिष्ठन्त्ययं वै लोको ज्योतिरन्तरिक्षं गौरसा एवायुर्यदेतान् स्तोमानुपयन्त्येष्वेव तल्लोकेषु सत्रिणः प्रतितिष्ठन्तो यन्ति विराजं ज्योतिष्टोमोऽभिसंपन्न एकया गौरतिरिक्त एकयायुरूनस्ते सँस्तुता विराजमभिसंपद्यन्त ऊर्ग्वै विराड् यदेतैस्स्तोमैर्यन्त्यूर्जमेवैतत् सत्त्रिणोऽवरुन्धाना यन्ति ते न क्षुधार्तिमार्छन्त्यक्षोधुका भवन्ति क्षुत्संबाधमाना इव हि सत्रिणोऽग्निष्टोमा अभितः प्रधी ता उक्थ्या मध्ये नभ्यं तदेतद्वै परियद्देवचक्रं यदेतेन षडहेन यन्ति देवचक्रमेव तत् समारोहन्त्यरिष्ट्यै ते स्वस्ति समश्नुवत उभयतोज्योतिषा यन्ति स्वर्गो वै लोको ज्योतिरुभयत एव तत् स्वर्गे लोके सत्त्रिणः प्रतितिष्ठन्तो यन्ति षडहेन यन्ति षड्वा ऋतव ऋतुष्वेव तत् प्रतितिष्ठन्तो यन्ति द्वौ षडहौ भवतस्तानि द्वादशाहानि संपद्यन्ते दश वै पुरुषे प्राणास्स्तनौ द्वादशौ तत् पुरुषमनुपर्यावर्तन्ते त्रयष्षडहा भवन्ति तान्यष्टादशाहानि संपद्यन्ते नवान्यानि नव प्राणास्तत् प्राणाननुपर्यावर्तन्ते चत्वारष्षडहा भवन्ति तानि चतुर्विँशतिरहानि संपद्यन्ते चतुर्विँशतिस्संवत्सरस्यार्धमासा अर्धमासशस्संवत्सर आप्यते तत् संवत्सरमनुपर्यावर्तन्ते पञ्च षडहा भवन्ति तानि त्रिँशदहानि संपद्यन्ते दश हस्त्या अङ्गुलयो दश पद्या दश प्राणास्तत् त्रिँशत् त्रिँशदक्षरा विराड्वैराजः पुरुषस्तत् पुरुषमनुपर्यावर्तन्तेऽप्रतिष्ठितस्संवत्सर इति खलु वा आहुर्वर्षीयान् प्रतिष्ठाया इत्येतावद्वै संवत्सरस्य ब्राह्मणं यावन्मासो मासि मास्येव प्रतितिष्ठन्तो यन्ति य एवं विदुः ॥३॥

नवैतान्यहानि नव वै स्वर्गा लोकाश्चतस्रो दिशश्चत्वारोऽन्तर्देशा ऊर्ध्वा नवमी यदेतान्यहान्युपयन्ति नवस्वेव तत् स्वर्गेषु लोकेषु सत्त्रिणः प्रतितिष्ठन्तो यन्त्यग्निष्टोमाः परसामानः कर्तव्या इत्याहुरग्निष्टोमसंमितो वै स्वर्गो लोक इति द्वादशाग्निष्टोमस्तोत्राणि द्वादश मासास्संवत्सरस्संवत्सरस्स्वर्गो लोकस्तस्मात् तदाहुस्तन्न सूर्क्ष्यमुक्थ्या एव परसामानः कर्तव्या इति पशवो वा उक्थानि पशूनामवरुद्ध्यै विश्वजिदभिजिता अग्निष्टोमा उक्थ्यास्सप्तदशाः परसामान एकविँशं दिवाकीर्त्यं ते सँस्तुता विराजमभिसंपद्यन्ते द्वे चर्चा अतिरिच्येते स्वर्गो वै लोको विराड् द्विपादो यजमानास्स्वर्ग एव तल्लोके विराजि द्विपादो यजमानाः प्रतितिष्ठन्ति ॥ यत् परो रथन्तरं तत् प्रथमेऽहन् कर्तव्यं बृहद् द्वितीये वैरूपं तृतीये वैराजं चतुर्थे शाक्करं पञ्चमे रैवतँ षष्ठे तदु पृष्ठेभ्यो न यन्ति संततय एते ग्रहा गृह्यन्तेऽतिग्राह्याः परसामसु यदेते गृह्यन्त इमानेवैतल्लोकान् संतत्य स्वर्गं लोकं यजमाना आरोहन्ति मिथुना एते ग्रहा गृह्यन्तेऽतिग्राह्याः परसामसु यदेते गृह्यन्ते मिथुनमेवैतैरवरुन्धते सौर्य एष ग्रहो गृह्यतेऽतिग्राह्य एकविँशेऽहँस्तस्य प्रत्यक्षं नाम न ग्रहीतवै तेजस्वितर इव वाश्रतरः प्रदाहाद्वा भय्यं किलासंभावाद्वाया विष्ठा जनयन् कर्वराणीत्येष प्राजापत्योऽनिरुक्तो ग्रहो गृह्यतेऽतिग्राह्य एकविँशेऽहन् समन्त आयुष्यः पशव्यो यो ह खलु वाव प्रजापतिस्स एवेन्द्रस्तदु देवेभ्यो न यन्ति ॥४॥
  
प्रथमे मासि पृष्ठान्युपयन्ति मध्यम उपयन्त्युत्तम उपयन्ति यत् प्रथमे मासि पृष्ठान्युपयन्त्यस्मिँस्तेन लोके प्रतितिष्ठन्ति यन्मध्यम उपयन्त्यन्तरिक्षे तेन प्रतितिष्ठन्ति यदुत्तम उपयन्त्यमुष्मिँस्तेन लोके प्रतितिष्ठन्ति मासि मासि पृष्ठान्युपेत्यानीत्याहुः पृष्ठानि वै यज्ञस्य दोह इति तदाहुरेकं वा एतद्देवानामहर्यत् संवत्सरो यां वै त्रिरेकस्याह्न उपसीदन्ति दह्रँ सापराभ्यां दोहाभ्यां दुहे तत् कुतस्सा धोक्ष्यति यां द्वादश कृत्व उपसीदेयुरिति सकृत् पृष्ठान्युपेयुरुत्तमे मासि समुद्रं खलु वा एतेऽनवारमपारं प्रस्नान्ति ये संवत्सरमुपयन्ति बृहद्रथन्तराभ्यामेतव्यं बृहद्रथन्तरे वै देवानां प्लवस्तद्देवानां प्लवेन समुद्रमर्णवं तरन्ति यथा मध्ये समुद्रस्य प्लवमन्वर्जेयुरेवं तद्यत् पुरा संवत्सराद्बृहद्रथन्तरे उत्सृजेयुरनुत्सर्गं बृहद्रथन्तराभ्यां गत्वा प्रतिष्ठां गत्वा सकृत् पृष्ठान्युपेयुरुत्तमे मासि सर्वेभ्यो वै कामेभ्यस्संधिर्दुहे तत् सर्वान् कामान् यज्ञं पृष्ठानि संवत्सराद्दुह्रे ॥५॥

एकविँश एष एतेन वै देवा एकविंशेनादित्यमितस्स्वर्गं लोकमारोहयन् स एष इत एकविँशस्तस्य दशावस्तादहानि दश परस्तात् स एष उभयतो विराजि प्रतिष्ठित उभयतो हि वा एष विराजि प्रतिष्ठितस्तस्मादन्तरेमौ लोकौ यत् सर्वेषु स्वर्गेषु लोकेषु प्रतितिष्ठन्नेति देवा वा आदित्यस्य स्वर्गाल्लोकादवपादादबिभयुस्तं त्रिषु स्वर्गेषु लोकेष्वादधुस्तस्य पराचोऽतिपादादबिभयुस्तं परस्तात् त्रिभिस्स्वर्गैर्लोकैः प्रत्यस्तभ्नुवन् स एष उभयतष्षट्सु स्वर्गेषु लोकेषु प्रतिष्ठितो धृत्यै प्रतिष्ठाया अनवपादायानतिपादाय ॥ देवा वै सप्तदशानां प्रव्लयादबिभयुस्तान् सर्वैस्स्तोमैरवस्तात् पर्यार्षन सर्वैस्स्तोमैः परस्तात् तस्मादभिजित् सर्वस्तोमोऽवस्तात् सप्तदशानां विश्वजित् सर्वस्तोमः
परस्तात् सप्तदशानां धृत्या अप्रव्लयाय देवा वा आदित्यस्य स्वर्गाल्लोकादवपादादबिभयुस्तं ये वर्ष्म स्वर्गाणां लोकानामधिपतयस्तेष्वादधुश्चतुस्त्रिंशा वै स्तोमा वर्ष्म स्वर्गाणां लोकानामधिपतयस्तद्यदेकविँशस्याह्नस्त्रयोऽवस्तात् सप्तदशास्त्रयः परस्तात् ते त्रयश्चतुस्त्रिँशा द्वौ द्वौ तेषु वा एष आहितो धृत्यै प्रतिष्ठाया अनवपादायानतिपादाय ।। वर्ष्मन् हि वा एष स्वर्गाणां लोकानामाहितस्तस्माद्भूतेभ्यो भूतेभ्य उत्तरो वर्ष्म स्वानामाधिपत्यं पर्येति य एवं वेद देवा वा आदित्यस्य स्वर्गाल्लोकादवपादादबिभयुस्तं पञ्चभी रश्मिभिरुदवयन् रश्मयो दिवाकीर्त्यानि तस्मादेकविँशेऽहन् पञ्च दिवाकीर्त्यानि क्रियन्ते ये गायत्रे ते गायत्रीषूत्तरयोः पवमानयोर्महादिवाकीर्त्यँ होतुः पृष्ठं विकर्णं ब्रह्मसामं भासमग्निष्टोमस्तद्यदेकविँशेऽहन् पञ्च दिवाकीर्त्यानि क्रियन्त आदित्यमेव तत् पञ्चभी रश्मिभिरुद्वयन्ति धृत्यै प्रतिष्ठाया अनवपादायानतिपादाय ॥ अथैतानि स्पराणि स्परैर्वै देवा आदित्याय स्वर्गं लोकमस्पृण्वन् यदस्पृण्वँस्तत् स्पराणां स्परत्वँ स्पृण्वन्त्यस्मै स्पराणि स्वर्गं लोकं य एवं विद्वानेतैस्स्तुतेऽथैतानि पराणि परैर्वै देवा आदित्यँ स्वर्गं लोकमपारयन् यदपारयँस्तत् पराणां परत्वं पारयन्त्येनं पराणि स्वर्गं लोकं य एवं विद्वानेतैस्स्तुतेऽनुष्टुभो वै यदयातयामरूपं तानि पराणि तस्मादनुष्टुप्सु पराणि क्रियन्ते यदनुष्टुप्सु पराणि क्रियन्तेऽनुष्टुभमेव तत् सवीर्यां कुर्वन्ति स्वर्गस्य लोकस्य समष्ट्यै ॥६॥

उत्सृज्या३न्नोत्सृज्या३मिति मीमाँसन्ते तदाहुरुत्सृज्यमेव प्राणापाना वा एते संवत्सरस्य यत् पूर्णमासा यन्नोत्सृजेयुस्संवत्सरमपिनह्येयुरमेहेन सत्त्रिणो म्रियेरन् पौर्णमास्यां चामावस्यायां चोत्सृज्यमित्याहुरेते हि यज्ञं वहत इति तदाहुरेतयोस्त्वाव नोत्सृज्यं ये अवान्तरा यज्ञं भेजाते इति या प्रथमा व्यष्टका तस्यामुत्सृज्यमित्याहुरेष हि मासो विशर इति नादिष्टमुत्सृजेयुर्यदादिष्टमुत्सृजेयुर्यादृशे पुनः पर्याप्लावे मध्ये षडहस्य संपद्यत इति षडहैर्मासँ संपाद्य यत् सप्तममहस्तदुत्सृजेयुस्सँ षडहं तन्वन्त्युत्संवत्सरँ श्वासयन्ति यदहस्तूत्सृजेयुस्तदग्नये वसुमतेऽष्टाकपालं पुरोडाशं प्रातर्निर्वपेयुरैन्द्रं दधीन्द्राय मरुत्वत एकादशकपालं मध्यन्दिने विश्वेभ्यो देवेभ्य ऋतुमद्भ्यो द्वादशकपालमपराह्णे प्राजापत्यः पशुस्स्यादग्नेर्वै वसुमतः प्रातस्सवनं यदग्नये वसुमतेऽष्टाकपालं पुरोडाशं प्रातर्निर्वपन्ति देवतामेव तद्भागिनीं कुर्वन्त्यननुसर्गाय सोमो वा एष ओषधीषु प्रविष्टो यदैन्द्रं दधि भवतीन्द्रमेव तद्भागधेयान्न च्यावयन्ति सवनमष्टाभिरुपयन्ति ये खलु वाव प्रातः पशव उपाक्रियन्ते ते वसव इन्द्रस्य वै मरुत्वतो माध्यन्दिनँ सवनं यदिन्द्राय मरुत्वत एकादशकपालं पुरोडाशं मध्यन्दिने निर्वपन्ति देवतामेव तद्भागिनी कुर्वन्त्यननुसर्गाय ॥ सवनमेकादशभिरुपयन्ति विश्वेषां वै देवानामृतुमतां तृतीयसवनं यद्विश्वेभ्यो देवेभ्य ऋतुमद्भ्यो द्वादशकपालं पुरोडाशमपराह्णे निर्वपन्ति देवतामेव तद्भागिनीं कुर्वन्त्यननुसर्गाय सवनं द्वादशभिरुपयन्ति प्राजापत्यः पशुर्भवति यज्ञो वै प्रजापतिर्यज्ञस्याननुसर्गायाभीवर्त इतष्षण्मासो ब्रह्मसामं भवति ब्रह्म वा अभीवर्तो ब्रह्मणैव तत् स्वर्गं लोकमभिवर्तयन्तो यन्ति ॥ प्रतिकूलमिव हीतस्स्वर्गो लोकस्समानाः प्रगाथा भवन्त्यन्यान्यन्यानि सामानि लोका वै सामानि स्वर्गा ऋचो लोकैरेव तत् स्वर्गाल्लोकानभ्यारोहन्तो यन्ति समानँ साम भवत्यन्या अन्या ऋचस्स्वर्गा वै सामानि लोका ऋचो लोकैरेव तत् स्वर्गांल्लोकानभ्यारोहन्त आयन्ति ॥
इन्द्र क्रतुं न आभर पिता पुत्रेभ्या यथा ।
शिक्षा णो अस्मिन् पुरुहूत यामनि जीवा ज्योतिरशीमहि ॥
इत्यमुत आयताँ षण्मासो ब्रह्मसामं भवत्ययं चै लोको ज्योतिः प्रजा ज्योतिरिममेव तल्लोकं पश्यन्तोऽभिवदन्त आयन्त्ययँ हि लोको लोकानां प्रतिष्ठा ॥७॥

अथैते परसामानस्तेषां परसाम्नां यत् प्रथमं तदुत्तमं यदुत्तमं तत् प्रथम यन्मध्ये मध्य एव तत् तद्येनैवैते यन्ति तेनामुतः पुनरायन्त्येषां लोकानाँ संतत्यै प्रतिज्ञात्यै ते विश्वजित उपरिष्टात् प्रत्यवरोहिणस्स्तोमानुपयन्ति तदाहुर्जितं वा एते पराजयन्ते निर्वृत्तान् प्रत्यवरोहिणस्स्तोमानुपयन्ति निवर्तन्ते स्वर्गाल्लोकात् प्रत्यञ्चमु यज्ञं तन्वत इति ते तथा पञ्च मासो यन्ति षष्ठस्य च मासस्त्रीनभिप्रवान् द्वे चाहनी गोआयुषी ते पृष्ठान्युपयन्ति पृष्ठानि वै यज्ञस्य दोहो यज्ञं दोहामहै पशूँचामृतं च प्राञ्चमु यज्ञं तनवामहा इत्यृतवो वै पृष्ठान्यृतुष्वेव तत् प्रतितिष्ठन्तो यन्ति स्वर्गो वै लोकः पृष्ठानि स्वर्ग एव तल्लोके प्रतितिष्ठन्तो यन्ति ॥ देवक्षत्रं वा आयुषस्स्तोमा देवक्षत्रमेव तदभ्यारोहन्तो यन्ति ते छन्दोमानुपयन्ति पशवो वै छन्दोमाः पशूनेवावरुन्धते ते दशममहरुपयन्ति प्रजननं प्राजापत्यं प्रतिष्ठां प्रजननमेव तत् प्रजां प्रतिष्ठामवरुन्धते ते महाव्रतीयमहरुपयन्ति तदाहुर्विषुवान् वा एतदहर्यन्महाव्रतीयं विषुवत्युपेत्यमित्यथाहुः प्राजापत्यं वा एतदहर्यन्महाव्रतीयं तदुत्तमार्धे संवत्सरस्योपेत्यमिति यो वै षण्मास्यो जायते यस्सप्तमास्यः प्र वै स मीयते न तेन भोगमश्नुते ॥ संवत्सरे खलु वाव रेतो हितं प्रजायते तद्यदुत्तमार्धे संवत्सरस्य महाव्रतीयमहरुपयन्ति संवत्सर एतद्रेतो हितं प्रजनयन्ति यथर्त्वेवर्तून् कल्पयन्ति यथापूर्वं प्रजां प्रजनयन्ति ते पञ्चविँशँ स्तोममुपयन्ति पुरुषस्तोमं दश हस्त्या अङ्गुलयो दश पद्या द्वौ बाहू द्वे सक्थ्या आत्मा पञ्चविँशो यदेतँ स्तोममुपयन्ति स्वादेव तत् स्तोमात् सत्त्रिण आत्मानं प्रजनयन्ति भूत्यै तदाहुः प्राजापत्यं वा एतदहर्यन्महाव्रतीयं तस्मिन् सर्वे ग्रहा ग्रहीतव्यास्सर्वमिव हि प्रजापतिर्विव्याचेत्येको ग्रहीतव्य एको हि प्रजापतिस्त्रयो ग्रहीतव्यास्त्रय इमे लोका एष्वेव लोकेष्वृध्नुवन्ति ।। पञ्च ग्रहीतव्याः पाङ्क्तो यज्ञो यज्ञमेवावरुन्धते सप्त ग्रहीतव्यास्सप्त ग्राम्याः पशवस्तानेवावरुन्धते नव ग्रहीतव्या नव प्राणाः प्राणेष्वेव प्रतितिष्ठन्ति पञ्चदश ग्रहीतव्याः पञ्चदशार्धमासस्य रात्रयोऽर्धमासशस्संवत्सर आप्यतेऽर्धमासश एव तत् संवत्सरमाप्नुवन्ति सप्तदश ग्रहीतव्याः प्रजापतिस्सप्तदशः प्रजापतिमेवाप्नुवन्त्येकविँशतिर्ग्रहीतव्या असा आदित्य एकविँशोऽमुमेवादित्यमाप्नुवन्ति सप्तविँशतिर्ग्रहीतव्यास्त्रिणवा इमे लोका एष्वेव लोकेष्वृध्नुवन्ति त्रयस्त्रिँशद्ग्रहीतव्यास्त्रयस्त्रिँशद्देवता देवतास्वेव प्रतितिष्ठन्ति ॥८॥ [२१३९]


॥ इति श्रीयजुषि काठके चरक शाखायामोरिमिकायां सत्त्राणि नाम त्रयस्त्रिंशं स्थानकं संपूर्णम् ॥३३॥