सामग्री पर जाएँ

काठकसंहिता (विस्वरः)/स्थानकम् १३

विकिस्रोतः तः
← स्थानकं १२ काठकसंहिता (विस्वरः)
स्थानकम् १३
[[लेखकः :|]]
स्थानकं १४ →
पशुबन्धम्।

अथ त्रयोदशं स्थानकम् ।।

पशुबन्धम् ।
तिस्रोऽजाश्श्वेता मल्हा गर्भिणीरालभेत ब्रह्मवर्चसकाम आग्नेयीं वसन्ता सौरी ग्रीष्मे बार्हस्पत्याँ शरदि यदाग्नेयी मुखत एव तया तेजो धत्ते यत् सौरी मध्यत एव तया रुचं धत्ते यद् बार्हस्पत्योपरिष्टादेव तया ब्रह्मवर्चसं धत्ते संवत्सरं पर्यालभ्यन्ते वीर्यं वै संवत्सरस्संवत्सरमेव वीर्यमाप्नोति यच्छ्वेता रुच एव तद्रूपं गर्भिणीर्भवन्तीन्द्रियं वै गर्भ इन्द्रियमेवावरुन्द्धे तिस्रो मल्हा गर्भिणीरालभेत यं पर्यम्युर्वायव्याँ श्वेताँ सरस्वतीं मेषीमादित्यामजामधोरामां मेषीं वा मनसा वा एत एतं पर्यमन्ति मनो वायुर्यद् वायव्या मनसैवैषां मनाँसि शमयति वाचा वा एत एतं पर्यमन्ति वाक् सरस्वती यत् सारस्वती वाचैवैषां वाचँ शमयत्यप्रतिष्ठितो वा एष यं पर्यमन्तीयमदितिर्यदादित्यास्यामेव प्रतितिष्ठत्यनपिमन्त्रो वा एष एतेषु यं पर्यमन्ति वाचो मन्त्रो गर्भो यद् गर्भिणीर्वाच एवैनं गर्भमकरपिमन्त्रमेनं करोत्यप वा एतस्मादिन्द्रियं क्रामति यं पर्यमन्तीन्द्रियं गर्भो यद्गर्भिणीरिन्द्रियमेवावरुन्द्धेऽग्नये वैश्वानराय कृष्णं पेत्वमालभेत यस्समान्तमभिद्रुह्येद् यो वाभिदुद्रुक्षेत् संवत्सरो वा अग्निर्वैश्वानरस्संवत्सरायैष सममते यस्सममते संवत्सरमेवाप्त्वा काममवरुणमभिद्रुह्यति प्राजापत्यमजं तूपरं विश्वरूपमालभेत सर्वेभ्यः कामेभ्यः प्रजापतिर्योनिर्योनेरेव प्रजायते प्रजापतिः प्रदाता तमेव भागधेयेनोपधावति सोऽस्मै सर्वान् कामान् प्रयच्छत्यश्वस्येव वा एतस्य शिरो गर्दभस्येव कर्णौ पुरुषस्येव श्मश्रूणि गोरिव पूर्वौ पादा अवेरिवापरौ शुन इव लोमान्यजो भवत्येतावन्तो वै ग्राम्याः पशवस्तानेवैतेनाप्त्वावरुन्द्धे द्वादश धेनवो दक्षिणा तार्प्यं हिरण्यमधीवासः प्रजापतेर्यास्सामिधेन्यस्तास्सामिधेन्यः प्रजापतेर्या आप्रियस्ता आप्रियो हिरण्यगर्भवत्याघार एतस्य सूक्तस्य याज्यानुवाक्ये एतेन ह वा उपकेतू रराधऽर्ध्नोति य एतेन यजते द्वादशधा ह त्वै स प्राशित्राणि परिजहार तत्र द्वादश द्वादश धेनूर्ददौ यद् द्वादश ददाति सैव तस्य प्रतिमा यत् तार्प्यं हिरण्यमधीवासमपरिमितमेव तेनावरुन्द्धे ॥१॥

वारुणं कृष्णं पेत्वमेकशितिपादमालभेतामयावी ज्योगामयावी प्रजापतिः प्रजा असृजत ता एनमत्यचरँस्ता अतिचरन्तीर्वरुणेनाग्राहयत् ता जिह्माः पन्ना अशेरत वरुणगृहीतास्ताः कृष्णः पेत्व आप्रवत तस्याभिहाय पादमगृह्णात् स प्रावृह्यत स एकशितिपादभवत् ताः प्रजापता अनाथन्त सोऽपश्यद्योऽयमवरुणगृहीतस्तेनैना वरुणान्मुञ्चानीति तं वारुणमालभत तेनैना वरुणादमुञ्चद्वरुणगृहीत एष य आमयावी यद्वारुणो वरुणादेवैनं मुञ्चति । द्वीपे यजेतापो वै वरुणस्समक्षमेवैनं वरुणान्मुञ्चति प्रजापतिः पशून् सृष्ट्वा वरुणं वरमभ्यसृजत् स एतमवृणीत तस्माद्वरुणदेवत्यः पाप्मनैष गृहीतो य आमयावी कृष्ण इव पाप्मा यत् कृष्णः पाप्मानमेवापहते यदेकशितिपाद्वरुणपाशमेव तेन प्रमुञ्चत आग्नेयमजमालभेत वारुणं कृष्णं पेत्वं बुभूषन्नृद्ध्या एवाग्नेयो वरुणगृहीत एष योऽलं भूत्यै सन्न भवति यद्वारुणो वरुणादेवैनं मुञ्चत्यर्धं वै पुरुषस्याग्नेयमर्धं वारुणमस्थान्याग्नेयानि माँसानि वारुणानि तयोरेवैनं भागधेयेन निष्क्रीणाति ॥ सोऽनृणो भूत्वा भवत्येव वारुणं कृष्णं वृष्णिमभिचरन्नालभेत मृत्युर्वै वरुणो मृत्युनैवैनं ग्राहयत्येतद्वै पाप्मनो रूपं कृष्ण इव पाप्मा यत् कृष्णः पाप्मनैवैनमभिषुवति ।।
पशुं बध्नामि वरुणाय राज्ञ इन्द्राय भागमृषभं केवलो हि ।
गात्राणि देवा अभिसंविशन्तु यमो गृह्णातु निर्ऋतिस्सपत्नान् ।।
इत्येता वै देवताः पुरुषस्येशते ताभ्य एवैनमधिनिष्क्रीय मृत्युर्यमो मृत्युनैवैनं ग्राहयति॥२॥

वैष्णवं वामनमालभेत भ्रातृव्यवान् विष्णुर्वा इमांल्लोकानुदजयत् स एभ्यो लोकेभ्योऽसुरान् प्राणुदतेमानेव लोकानुज्जयत्येभ्यो लोकेभ्यो भ्रातृव्यं प्रणुदते विषमे यजेत विषमा इव हीमे लोका ऐन्द्रामारुतं पृश्निसक्थमालभेत यस्मात् क्षत्रियाद् विडभ्यर्धश्चरेत् क्षत्रं वा इन्द्रो विण्मरुतः क्षत्रायैव विशमनुनियुनक्ति पृश्निसक्थो भवति विशमेवास्मै पश्चादुपदधात्यसँसर्गायैन्द्रमुत्पृष्टिमालभेत पशुकाम इन्द्रो वै वलमपावृणोत् तँ सहस्रमनूदैत् तस्यैषोऽग्रत उदतृणत् स समैषदुत्तितृत्सनिमांल्लोकान् पश्यँस्तस्मादेष समीषितः प्रतीषितग्रीवस्तमेतं पुरस्तात् सहस्रस्यालभेत प्र सहस्रं पशूनाप्नोति वलमेवापवृणोति यदा सहस्रं पशून् प्राप्नुयादथ वैष्णवं वामनमालभेत प्रतिष्ठित्या एतस्मिन् वै तत् सहस्रमध्यतिष्ठत् स व्यैषदधिष्ठीयमानस्तस्मादेष तिर्यङ्ङिव वीषितस्ता एता एवमभित आलभेत सहस्रस्य परिगृहीत्यै यज्ञो वै दक्षिणामभ्यकामयत ताँ समभवत् सा गर्भमधत्त तमववृज्य प्राद्रवत् तमववृक्तँ शयानमदितिरचायत् तमाहरत् तमधस्तादूर्वोरुपास्यत सोऽधस्तादूर्वोरवर्धत तस्मादेष तिर्यङ्ङिव वीषितोऽधस्ताद्ध्यूर्वोरवर्धत तं विष्णुरचायत् तमभ्यवदत् तस्मिन् प्रश्नमैतां तं विष्णवेऽन्वब्रुवँस्तस्मादाहुः कर्तुरेव पुत्र इति येन वामनेनेर्त्सेददित्यै चरुं पुरस्तान्निर्वपेदतिर्वा एतमवर्धयत् तस्या एवैनमधिनिष्क्रीणाति तेनानृणेन निष्क्रीतेन मेध्येन प्रसूतेनर्ध्नोत्येव सौम्यं बभ्रुमृषभं प्रथमकुसिन्धमालभेत यो राज्य आशँसेत सोमो वै देवानां राजा सोम एतस्य देवता यो राज्य आशँसते स्वामेव देवतां भागधेयेनोपधावति सैनं राज्याय परिणयति यत् प्रथमकुसिन्धो वीर्यस्य तद्रूपमिन्द्राय वज्रिणे रोहितमृषभं प्रथमकुसिन्धमालभेत राजन्यायाभिचरते वा बुभूषते वैन्द्रो वै राजन्यो देवतया वज्रोऽस्य वीर्यं वज्रमेवास्मिन् दधाति तेन विजयति भवत्येव यत् प्रथमकुसिन्धो वीर्यस्य तद्रूपं य एकाष्टकायां जायेत तमुत्सृजेद् यदि द्वौ जायेयातां ता उभा उत्सृजेद् यदि संवत्सरे द्वितीयो जायेत तँ संवत्सरेऽनूत्सृजेदाग्नेयमष्टाकपालं निर्वपेज्जातयोराग्नेया वै पशवस्तस्मादेवैना अधिनिष्क्रीणात्यग्नये वैश्वानराय द्वादशकपालं निर्वपेत्संवत्सरे पर्येते संवत्सरो वा अग्निर्वैश्वानरस्संवत्सरादेवैना अधिनिष्क्रीणात्या मेध्याभ्यां भवितोस्संवत्सरे संवत्सरेऽग्नये वैश्वानराय द्वादशकपालं निर्वपेत् संवत्सरो वा अग्निर्वैश्वानरस्संवत्सरादेवैना अधिनिष्क्रीणाति ।। ताभ्याँ सर्वतो निष्क्रीताभ्यां मेध्याभ्यां प्रसूताभ्यामृध्नोत्येवैतस्यां वा इन्द्रोऽजायत स देवानां वीर्यावत्तमस्तस्माद् य एकाष्टकायां पशूनां जायते स वीर्यावान् भवति वीर्यावान् भवति य एवं विद्वानेताभ्यां यजत इन्द्रायाभिमातिघ्ने पूर्वमालभेत पाप्मा वा अभिमातिः पाप्मानमेवापहत इन्द्राय वृत्रतुर उत्तरं पाप्मा वा अभिमातिः पाप्मानमेवापहत्याथैतेन वृत्रतूर्भवति स्वाराज्यमुपैति नास्मादन्यस्समानेषु वसीयान् भवति य एवं विद्वानेताभ्यां यजते शतमन्यस्य दक्षिणाश्वोऽन्यस्य पूर्ववाड्या एव कौच द्वा एतद् ब्राह्मणा अनेवमुत्सृष्टा आलभेत ताभ्यामेवर्ध्नोति तत्र यत् किंच ददाति तद् दक्षिणा ।। ३ ।।
 
इन्द्राय मन्युमते ललाममृषभमालभेत संग्रामे मन्युना वै वीर्यं करोतीन्द्रियेण जयति मन्युं चैवेष्विन्द्रियं च जित्यै दधाति यल्ललामः पुरस्तान्मन्योस्समृद्ध्यै देवाश्च वा असुराश्च संयत्ता आसँस्ते न व्यजयन्त तेऽब्रुवन् ब्रह्मणा नो मेनी विजयेतामिति त ऋषभौ समवासृजञ्छ्वैत्रेयोऽरुणस्तूपरो देवानामासीच्छ्येनेयश्श्येतोऽयश्शृङ्गोऽसुराणां तौ समहतां तँ श्वैत्रेयस्समयाभिनत् सा या वाक् पराजिता सीत् सावाच्यपतद् याजयत् सोर्ध्वा तस्माद् यस्यावाची वाक् सोऽनार्त्विजीनोऽसुर्यो हि स वर्णस्तस्माद् यस्योर्ध्वा वाक् स आर्त्विजीनो देवत्रेव हि स बार्हस्पत्यमरुणं तूपरमभिचरन्नालभेत ब्रह्म वै बृहस्पतिर्ब्रह्मणैवैनमभिप्रयुङ्क्त एतेन वै देवा असुरानस्तृण्वत यत् तूपरस्स्तृत्या इन्द्रो वै वृत्रमहँस्तँ हतस्सप्तभिर्भोगैः पर्यहँस्तस्य मूर्ध्नो वैदेहीरुदायँस्ताः प्राचीरायँस्तस्मात् ताः पुरस्स जघन्यमृषभं वैदेहमनूद्यन्तममन्यतेममिदानीमालभेय तेन त्वा इतो मुच्येयेति तमालभत तेन नामुच्यत स आग्नेयमजमालभतैन्द्रमृषभं तेन वै स तानग्निना पाप्मनो भोगानपिदह्याथैन्द्रेणेन्द्रियं वीर्यमात्मन्नधत्त ततो वै सोऽभवदाग्नेयजमालभेतैन्द्रमृषभं बुभूषन् यः पाप्मगृहीत इव मन्येत पाप्मा वै स तँ सप्तभिर्भोगैः पर्यहन् पाप्मन एष भोगैः परिहतो योऽलं भूत्यै सन्न भवति यदाग्नेयोऽग्निनैव पाप्मनो भोगानपिदह्याथैन्द्रेणेन्द्रियं वीर्यमात्मन् धत्ते भवत्येव ॥ देवाश्च वा असुराश्चास्मिंल्लोक आसँस्तेऽसुरा देवाननुदन्तास्माल्लोकात् ते देवाः प्रजापता एवानाथन्त स एता असृजतर्षभं च वशां च यमं च यम्यं च तस्माद् यौ यमौ मिथुनौ जायेते ऋषभ एवान्यो भवति वशान्या स वैष्णुवारुणीं वशामालभतैन्द्रमृषभं तेन वै स तान् वरुणेनासुरान् ग्राहयित्वा विष्णुना यज्ञेन प्राणुदताथैन्द्रेणेन्द्रियं वीर्यमात्मन्नदधादेषु ततो देवा अभवन् परासुरा अभवँस्ता एता एवमालभेत यो भ्रातृव्येन व्यायच्छेत वैष्णुवारुणीं वशामैन्द्रमृषभं वरुणेनैव भ्रातृव्यं ग्राहयित्वा विष्णुना यज्ञेन प्रणुदतेऽथैन्द्रेणेन्द्रियं वीर्यमात्मन् धत्ते भवत्यात्मना परास्य भ्रातृव्यो भवत्योषधिभ्यो वेहतमालभेत प्रजाकाम ओषधीनां वा एषा प्रिया ता एताँ सूतोः परिबाधन्ते तस्मादेषा सर्वेषां पशूनां प्रियाप ओषधय आपोऽसत् खनन्ति ता एव भागधेयेनोपधावति ता अस्मै प्रजां खनन्ति यावन्तस्तां वाशितामन्वाधावन्ति ते दक्षिणा समद्ध्या ऐन्द्रीँ सूतवशामालभेत राजन्याय बुभूषत इन्द्रो बा एतस्या अजायत स पुनः प्रत्यवैक्षत सोऽमन्यत यो वा इतोऽपरो जनिष्यते स मे भ्रातृव्यो भविष्यतीति तं प्रत्यावमृश्य योनिं न्यवेष्टयत् तस्मादेषा नापरँ सूत ऐन्द्रो राजन्यो देवतया स्वादेवैनं योनेर्जनयति भूत्यै भवत्येव यस्तस्या अधिजायेत तमैन्द्रमालभेतेन्द्रियकाम इन्द्रियं वा एतदेतस्या अधिजायते तदेव समक्षमाप्त्वावरुन्द्धे ब्राह्मणस्पत्यमतिष्ठायमालभेत यः कामयेतातिष्ठायस्स्यामित्यग्नेर्वै जिह्वा ब्रह्मणस्पतिस्सर्वमेषातितिष्ठति रूपेणैवैनँ समर्धयति सैनमतिष्ठायं करोति ।। ४ ।।

आग्नेयमजमालभेत सौम्यमृषभं यस्य पिता पितामहः पुण्यस्स्यादथ तन्न प्राप्नुयादग्निस्सर्वा देवता मुखत एव देवता आलभत इन्द्रियेण वा एष सोमपीथेन व्यृध्यते यस्य पिता पितामहः पुण्यो भवत्यथ तन्न प्राप्नोति सौम्यो ब्राह्मणो देवतयेन्द्रियमस्य सोमपीथो यत् सौम्य इन्द्रियेणैवैनँ सोमपीथेन समर्धयति द्यावापृथिव्यां धेनुं पर्यारिणीमालभेत निरुद्धो ज्योङ्निरुद्धो द्यावापृथिव्योर्वा एष निर्भक्तो यो निरुद्धो ज्योङ्निरुद्धो यद् द्यावापृथिव्या द्यावापृथिव्योरेवैनमाभजति पर्यारी वा एष यो निरुद्धो ज्योङ्निरुद्धः पर्यारिण्यस्य देवता यत् पर्यारिणी स्व एवास्य तेन पशुरेतस्यां एव वायव्यं वत्सँ श्व आलभेत वायुर्वा अनयोर्वत्सस्स इमे आप्याययति स प्रदापयति तमेव भागधेयेनोपधावति सोऽस्मा इमे प्रदापयत्यैन्द्राग्नमेतमनुसृष्टमालभेत यस्य पिता पितामहस्सोमं न पिबेदथ स पिपासेदिन्द्रियेण वा एष सोमपीथेन व्यृध्यते यस्य पिता पितामहस्सोमं न पिबत्याग्नेयो ब्राह्मणो देवतयेन्द्रियमस्य सोमपीथो यदैन्द्राग्नस्स्वयैव देवतया सोमपीथमनुसंतनोत्यनुसृष्टो वा एतस्य सोमपीथो यस्य पिता पितामहस्सोमं न पिबति यदनुसृष्टस्स्व एवास्य तेन पशुर्यदेतौ द्विवत्यस्य तद्रूपं त्वाष्ट्रँ शुण्ठमालभेत यः कामयेत सूपकाशो मे पुत्रो जायेतेति त्वष्टा वै रूपाणां विकर्ता तमेव भागधेयेनोपधावति सोऽस्मै रूपाणि विकरोत्याश्विनं कृष्णललाममालभेत भ्रातृव्यवान् देवा वा असुरानह्नोऽनुदन्त तेषां यत् स्वमासीद् यद्वित्तं यद्वेद्यं तेन रात्रीँ समवायँस्ते देवा एतमाश्विनं कृष्णललाममपश्यँस्तमालभन्त तेनैनान् रात्रीमन्ववायन् द्यावापृथिवी वा अश्विनौ तान् द्यावापृथिवीभ्यामेवावस्तान्निबाध्यादित्येन परस्ताद्रात्र्या अनुदन्त तेषां यत् स्वमासीद याद्वित्तं यद्वेद्यं तदवृञ्जत ततो देवा अभवन् परासुरा अभवन् द्यावापृथिवी वा अश्विनौ द्यावापृथिवीभ्यामेवावस्ताद् भ्रातृव्यं निबाध्यादित्येन परस्तादहोरात्रयोः प्रणुदते तस्य यत् स्वं यद्वित्तं यद्वेद्यं तद् वृङ्क्ते भवत्यात्मना परास्य भ्रातृव्यो भवति। यल्ललामोऽह्नस्तद्रूपं यत् कृष्णो रात्र्यास्तदुभयोरेवैनं वर्णयोः प्रणुदत इन्द्रो वै विलिस्तेङ्गां दानवीमकामयत सोऽसुरेष्वचरत् स्त्र्येव स्त्रीष्वभवत् पुमान् पुंसु निर्ऋतिगृहीत इवामन्यत स एतमैन्द्रानैर्ऋतं विपुँसकमपश्यद्येन रूपेणाचरत् तमालभत तस्य यदनवदानीयमासीत् तेन पूर्वेण प्राचरद्दक्षिणा परेत्य स्वकृत इरिणे जुषाणा निऋतिर्वेत्तु स्वाहेत्यथेतरं पुनरेत्यैन्द्रँ समस्थापयत् स निर्ऋतिमेव पूर्वां निरवदायाथैन्द्रेणेन्द्रियं वीर्यमात्मन्नधत्त ततो वै सोऽभवदैन्द्रानैर्ऋतं विपुँसकमालभेत बुभूषन् यो निर्ऋतिगृहीत इव मन्येत तस्य यदनवदानीयँ स्यात् तेन पूर्वेण प्रचरेद्दक्षिणा परेत्य स्वकृत इरिणे जुषाणा निर्ऋतिर्वेत्तु स्वाहेत्यथेतरं पुनरेत्यैन्द्रँ सँस्थापयेन्निर्ऋतिमेव पूर्वां निरवदायाथैन्द्रेणेन्द्रियं वीर्यमात्मन् धत्ते भवत्येवैन्द्रं विशालमृषभमालभेत संग्रामे यः कामयेतायँ संग्रामो न विजयेतेतीन्द्रो वै संग्रामस्य विनेतेन्द्रो विजापयिता तमेव भागधेयेनोपधावति स एनान् विनयति यद्विशालो वियतां तद्रूपमिन्द्राय विघनाय विशालमृषभमालभेत जनतयोस्संधौ यः कामयेतोभे जनते ऋच्छेयमित्युभे एव जनते ऋच्छति त अन्यान्यां घ्नती चरतो यद्विशाल आव्रस्कमेवैने गमयति ।।५।।

आग्निवारुणीमनड्वाहीमालभेतानाज्ञातयक्ष्मगृहीतोऽनाज्ञातयक्ष्मो वा एतां वित्तो या स्त्री सत्यनड्वाही तस्मादेनामनाज्ञातयक्ष्मगृहीत आलभेताग्निस्सर्वा देवता यदेवास्य देवताभिर्निषितं तदग्निना मुञ्चति यद्वरुणगृहीतं तद्वरुणेन यद्वहिनी तेनाग्नेयी यत् स्त्री सती दान्ता तेन वारुणी तस्मादाग्निवारुणी भवति त्वाष्ट्रमँसेपादमालभेत पशुकामो मिथुनो वा एष योँऽसेपात्व्दष्टा मिथुनस्य प्रजनयिता तमेव भागधेयेनोपधावति सोऽस्मा एतस्मान्मिथुनात् पशून् प्रजनयति वारुणँ श्यामशितिकण्ठमालभेत यं व्येमानं यक्ष्मो गृह्णीयाद् रुणो वा एतं गृह्णाति यं व्येमानं यक्ष्मो गृह्णाति यद् वारुणो वरुणादेवैनं मुञ्चति पाप्मनैष गृहीतो य आमयावी श्याम इव पाप्मा यच्छ्यामः पाप्मानमेवापहते यच्छितिकण्ठो वरुणपाशमेव तेन प्रमुञ्चत आश्विनं धूम्रललाममालभेत यो दुर्ब्राह्मणँ सोमं पिपाययिषेदश्विनौ वै देवानामसोमपा आस्तां तौ पश्चात् सोमपीथं प्राप्नुतामश्विना एतस्य देवता यः पश्चात् सोमपस्ता एव भागधेयेनोपधावति ता एनँ सोमपीथाय परिणयतस्स्तायदिव यजेत स्तायदिव हि दुर्ब्राह्मणो ब्राह्मणो बुभूषति धूम्र इव वा एष यो दुर्ब्राह्मणो यद्धूम्रो धूम्रिमाणमेवापहते यल्ललामो मुखत एव तेन तेजो धत्ते सारस्वतीं धेनुष्टरीमालभेत यं भ्रातृव्या नीव श्वासयेरन् वाचा वा एत एतं निश्वासयन्ते वाक् सरस्वती यत् सारस्वती वाचैवैषां वाचं प्रतिशृणाति ।। धेनुर्वा एषा सती न दुहे तस्माद्धेनुष्टर्युच्यते यद्धेनुष्टरी वाचमेवैषाँ स्तरीकरोति सारस्वतीं धेनुष्टरीमालभेत यमजघ्निवाँसमभिशँसेयुरशान्ता वा एतं वागृच्छति यमजघ्निवाँसमभिशँसन्ति वाक् सरस्वती यत् सारस्वती वाचैवैषां वाचँ शमयति धेनुर्वा एषा सती न दुहे तस्माद्धेनुष्टर्युच्यते यद्धेनुष्टरी वाचमेवेषाँ स्तरीकरोति सावित्रं पुनरुत्सृष्टमालभेत यः पुरा पुण्यो भूत्वा पश्चात् पापीयान् स्याद्यया वा एष देवतया पुरा पुण्यो भवति सा हि वा एतमनुसृजत्यथैष पापीयान् भवति सविता श्रियः प्रसविता तमेव भागधेयेनोपधावति स एनं पुनश्श्रिये प्रसुवति पापो वा एष पुरा भूत्वा पश्चाच्छ्रियं प्राप्नोति योऽनड्वान् भूत्वोक्षा भवति यथैव स श्रियं प्राप्नोत्येवमेनँ श्रियं प्रापयति ॥६॥

त्रीँल्लामानृषभान् वसन्तालभेत त्रीञ्छिातिककुदो ग्रीष्मे त्रीञ्छितिभसदश्शरदि यल्ललामा मुखत एव तेन तेजो धत्ते यच्छितिककुदो मध्यत एव तेन रुचं धत्ते यच्छितिभसद उपरिष्टादेव तेन ब्रह्मवर्चसं धत्ते संवत्सरं पर्यालभ्यन्ते वीर्यं वै संवत्सरस्संवत्सरमेव वीर्यमाप्नोति नव भवंति नव प्राणाः प्राणानेवात्मन् धत्त ऐन्द्रास्स्युर्बुभूषन् यजेतासौ वा आदित्य इन्द्रस्स एतैरभवत् स एतैस्तेजो वीर्यमात्मन्नधत्त भवत्येव तेजो वीर्यमात्मन् धत्ते य एवं विद्वानेतैर्यजते प्राजापत्यँ सर्वरूपं दशममालभेत संवत्सरे पर्येते संवत्सरस्याप्त्यै प्रजापतिर्योनिर्योना एव प्रतितिष्ठति । सर्वरूपो भवति सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै दश भवन्ति दश प्राणाः प्राणा वीर्यं वीर्य एव प्रतितिष्ठति द्यावापृथिव्ये धेनू संमातरा आलभेतान्नकामो द्यावापृथिवी वा अन्नाद्यस्येशाते अमुतो वर्षत्यस्यां प्रतितिष्ठत्येते अन्नाद्यस्य प्रदात्री ते एव भागधेयेनोपधावति ते अस्मा अन्नाद्यं प्रयच्छतस्संमातरौ भवतस्संमातरा इव हीमे एतयोरेव वायव्यं वत्सँ श्व आलभेत वायुर्वा अनयोर्वत्सस्स इमे आप्याययति स प्रदापयति तमेव भागधेयेनोपधावति सोऽस्मा इमे प्रदापयति बार्हस्पत्यँ शितिपृष्ठमालभेत ब्रह्मवर्चसकामो ब्रह्म वै बृहस्पतिर्बृहस्पतिर्ब्रह्मवर्चसस्य प्रदाता तमेव भागधयेनोपधावति सोऽस्मै ब्रह्मवर्चसं प्रयच्छति ।। पृष्ठमिव वा एष भवति यो भवति यच्छितिपृष्ठः पृष्ठमेवैनं करोत्याश्विनं कृष्णललाममालभेतानुजावरोऽश्विनौ वै देवानामानुजावरौ ता अग्रं पर्यैतामश्विना एतस्य देवता य आनुजावरस्ता एवान्वारभते ता एनमग्रं परिणयतः पाप्मनैष गृहीतो य आनुजावरः कृष्ण इव पाप्मा यत् कृष्णः पाप्मानमेवापहते यल्ललामो मुखत एव तेन तेजो धत्त आश्विनं कृष्णललाममालभेतामयाव्यश्विनौ वै देवानां भिषजा अश्विनौ एतस्य देवता य आमयावी ता एव भागधेयेनोपधावति ता एनं भिषज्यतः पाप्मनैष गृहीतो य आमयावी कृष्ण इव पाप्मा यत् कृष्णः पाप्मानमेवापहते यल्ललामो मुखत एव तेन तेजो धत्ते ॥ त्वाष्ट्रं विपुँसकमालभेत प्रजाकामो वा पशुकामो वा प्रजापतिर्वै प्रजास्सिसृक्षमाणस्स द्वितीयं मिथुनं नाविन्दत स एतद्रूपं कृत्वाङ्गुष्ठेनात्मानँ समभवत् ततः प्रजा असृजत त्वष्टा मिथुनस्य प्रजनयिता तमेव भागधेयेनोपधावति सोऽस्मा एतस्मान्मिथुनात् पशून् प्रजनयत्येतेन वै रूपेण प्रजापतिः प्रजा असृजत येनैव रूपेण प्रजापतिः प्रजा असृजत तस्मादेव रूपात प्रजया च पशुभिश्च प्रजायत ऐन्द्रं विपुँसकमालभेत यः पण्डकत्वाद्बिभीयादिन्द्रो वा एतां त्वचमेतं पाप्मानमपाहत तमेव भागधेयेनोपधावति सोऽस्मात् तां त्वचं तं पाप्मानमपहन्त्यृषभो दक्षिणा वीर्यं वा ऋषभो वीर्यमेवास्मिन् दधाति।।७।।

छन्दाँसि वै यज्ञमभ्यमन्यन्त स वषट्कारोऽभ्यय्य गायत्र्याश्शिरोऽच्छिनत् ततो यो रसोऽस्रवत् सा वशाभवद्यद्वशमस्रवत् तद्वशाया वशात्वं यत् प्रथममस्रवल्लोहितं वाव तदस्रवत् तद्बृहस्पतिरुपागृह्णात् सा या रोहिणी साभवत् तस्मात् सा बार्हस्पत्या यद् द्वितीयमस्रवत् तन्मित्रावरुणा उपागृह्णीताँ सा या द्विरूपा साभवत् तस्मात् सा मैत्रावरुणी यत् तृतीयमस्रवत् तद्विश्वे देवा उपागृह्णन् सा या बहुरूपा साभवत् तस्मात् सा वैश्वदेवी ।। यदुदौक्षत तद्बृहस्पतिरभ्यगृह्णात् स उक्षाभवत् तदुक्ष्ण उक्षत्वं यदत्यमुच्यत तानीमान्यन्यानि रूपाणि बार्हस्पत्यां रोहिणीमालभेत ब्रह्मवर्चसकामो रसेन वा एष व्यृध्यते योऽलं ब्रह्मवर्चसाय सन्न ब्रह्मवर्चसी भवति च्छन्दसामेष रसो ब्रह्म बृहस्पतिर्ब्रह्मणैवास्मिँस्तेजो रसं दधाति ब्रह्मवर्चसी भवति मैत्रावरुणीं द्विरूपामालभेत वृष्टिकामो ऽहोरात्रे वै मित्रावरुणा अहोरात्रे पर्जन्योऽनुवर्षति नक्तं वा हि दिवा वर्षत्येतौ वर्षस्येशाते ता एव भागधेयेनोपधावति ता अस्मै प्रीतौ वृष्टिं निनयतो मैत्रावरुणीं द्विरूपामालभेत प्रजाकामोऽहोरात्रे वै मित्रावरुणा अहोरात्रे प्रजा अनुप्रजायन्ते नक्तं वा हि दिवा वा प्रजायन्तेऽहोरात्रे एवैना अनुप्रजनयति ।। वैश्वदेवीं बहुरूपामालभेत कामेभ्यः कामा वै विश्वे देवास्तानेव भागधेयेनोपधावति तेऽस्मै स सर्वान् कामान् प्रयच्छन्ति बार्हस्पत्यमुक्षाणमालभेत बुभूषन् रसेन वा एष व्यृध्यते योऽलं भूत्यै सन्न भवति च्छन्दसामेष रसो ब्रह्म बृहस्पतिर्ब्रह्मणैवास्मिन् भूतिं रसं दधाति भवत्येव सौरीँ श्वेतामालभेत रुक्कामोऽसौ वा आदित्यो रुचः प्रदाता तमेव भागधेयेनोपधावति सोऽस्मै रुचं प्रयच्छति ब्राह्मणस्पत्यां बभ्रूमभिचरन्नालभेत ब्रह्म वै ब्रह्मणस्पतिर्ब्रह्मणैवैनमभिप्रयुङ्क्त एतद्वै ब्रह्मणो रूपं यद्बभ्रू रूपेणैवैनत्सँश्यति ॥८॥

धाता रातिस्सवितेदं जुषन्तॆ प्रजापतिर्वरुणो मित्रो अग्निः ।।
त्वष्टा विष्णुः प्रजया संरराणा यजमानाय द्रविणं दधात ॥
आवर्तय निवर्तया वर्तन वर्तय नि निवर्तन वर्तय ।
इन्द्र नन्दबल भूम्याश्चतस्रस्सूक्तयस्ताभ्यस्त्वा वर्तयामसि ।।
वि ते भिनद्मि तकरिं वि योनिं वि परीणहम् ।
वि मातरं च पुत्रं च वि गर्भं च जरायु च ॥
बहिष्टे अस्तु बालिति पुरुदस्मवद् विश्वरूपमिन्दुः पवमानो गर्भमानञ्ज धीरः ।। एकपादं द्विपादं त्रिपादं चतुष्पादं भुवनानुप्रथन्ताम् ।।
गर्भो यस्ते यज्ञियो योनिर्यस्ते हिरण्ययः । अङ्गान्यह्रुता यस्य तं देवास्समचीक्लृपन्॥
मही द्यौः पृथिवी च न इमं यज्ञ मिमिक्षताम् । पिपृतां नो भरीमभिः ।।
नमो महिम्न उत चक्षुषे ते मरुतां पितरुत तद्गृणीमः ।
हुतो याहि पथिभिर्देवयानैरोषधीषु प्रतितिष्ठा शरीरैः ॥
देवानामेष उपनाह आसीदपां पतिरोषधीनाम् ।।
सोमस्य द्रप्समवृणीत पूषा बृहन्नद्रिरभवद्यत् तदासीत् ।।
पिता वत्सानां पतिरघ्न्यानामथो पिता महतां गर्गराणाम् ।
गर्भो जरायुः प्रतिधुक् पीयूष आमिक्षा मस्तु घृतमस्य योनिः ।।
द्रप्सश्चस्कन्द पृथिवीमनु द्यामिमं च योनिमनु यश्च पूर्वः ।
समानं योनिमनु संचरन्तं द्रप्सं जुहोम्यनु सप्त होत्राः ॥९॥

यदाष्टापद्यभूदित्यनुबुध्येत धाता रातिस्सवितेदं जुषन्तामिति स्रुवेणाहवनीये जुहुयाद्देवताभ्य एवैनान्निवेदयत्यावर्तय निवर्तयेतीन्द्रमेव दिग्भ्य आवर्तयति प्रायश्चित्यै ए वि ते भिनद्मि तकरिमिति प्रैव जनयत्यन्तरा श्रोणी निघ्नन्ति प्रजननाय पुरुदस्मवदिति पात्रमुपदधात्यस्कन्दायैकपादं द्विपादमिति प्रथयत्येव यदवद्येदवदानान्यतिरेचयेद्यन्नावद्येत् पशोरालब्धस्य नावद्येदार्तिमार्च्छेत् पुरस्तादन्यन्नाभ्या अवद्येत् पश्चादन्यत् पुरस्ताद्वै नाभ्याः प्राणः पश्चादपान एतावान् वै पशुर्यावानेव पशुस्तस्यावद्यत्यच्छम्बट्कारं यद्रसमवदानेषु व्यानयति तेनैव सर्वेषामङ्गानामवत्तं भवत्यष्टापृडँ हिरण्यं दक्षिणाष्टापदी वा एषात्मा नवमोऽष्टापृडमेतन्नेमिर्नवमः पशोराप्त्यै तृतीयेऽन्तरकोश उष्णीषेणावेष्टितं भवति विबिलानिव कोशान् कुर्यादेवमेव हि पशुर्लोम चर्म माँसमस्थि मज्जा पशुमेवाप्नोति तद्विष्णवे शिपिविष्टाय जुहोति यो वै पशूनां भूमा यदतिरिक्तं तद्विष्णोश्शिपिविष्टमतिरिक्तं वा एतदतिरिक्तँ शिपिविष्टमतिरिक्तेनैवातिरिक्तमाप्नोत्यथो अतिरिक्त एवातिरिक्तं दधाति ।। गर्भो यस्ते यज्ञिय इति यज्ञियमेवैनं करोति योनिर्यस्ते हिरण्यय इति हिरण्ययमेवैनं करोत्यङ्गान्यह्रुता यस्य तं देवास्समचीक्लृपन्निति समेवैनं कल्पयति मही द्यौः पृथिवी च न इति पशुश्रपण उपवपत्यनयोर्वा एष गर्भोऽनयोरेवैनं प्रतिष्ठापयति नमो महिम्न उत चक्षुषे त इति व्यृद्धेन वा एष पशुना चरति यस्यैतानि न क्रियन्ते यदेतानि करोति सर्वमेवैनँ सवीर्यँ सयोनिँ सतनूमृद्ध्यै संभरति ।।१०।।

आ वायो भूष शुचिपा उपा नस्सहस्रं ते नियुता विश्ववार ।
उपो ते अन्धो मद्यमयामि यतो देव दधिषे पूर्वपेयम् ।।
आकूत्यै त्वा कामाय त्वा समृधे त्वा किक्किटा ते मनः प्रजापतये स्वाहा किक्किटा ते चक्षुस्सूर्याय स्वाहा किक्किटा ते श्रोत्रं द्यावापृथिवीभ्याँ स्वाहा किक्किटा ते वाचँ सरस्वत्यै स्वाहा किक्किटा ते प्राणं वाताय स्वाहा ॥
वशासि वशिनी सकृद्यते मनसा गर्भमाशयत् ।
वशा त्वं वशिनी गच्छ देवान् सत्यास्सन्तु यजमानस्य कामाः ।।
अजासि रयिष्ठाः पृथिव्याँ सीद । ऊर्ध्वान्तरिक्षमुपतिष्ठस्व दिवि ते बृहद्भास्स्वाहा ॥ तन्तुं ततं रजसो भानुमन्विहि ज्योतिष्मतः पथो रक्ष धिया कृतान् ।
अनुल्बणं वयसि जोगुवामपो मनुर्भव जनया दैव्यं जनम् ।।
तपसो हविरसि प्रजापतेर्वर्णो गात्राणां ते गात्रभाग्भूयासँ सूर्यों दिवा दिविषद्भ्यो धाता क्षत्रस्य वायुः प्रजानां बृहस्पतिस्त्वा प्रजापतये ज्योतिष्मते ज्योतिष्मतीं जुहोतु स्वाहा ॥११॥
 
इम वै सहास्तां ते वायुर्व्यवात् ते गर्भमदधातां ततोऽजा वशाजायत तामग्निरग्रसत तां प्रजापतिरेतेन पुरोडाशेन निरक्रीणाद्यदाग्नेयः पुरोडाशो भवति निष्क्रीत्यै यद्वायुर्व्यवात् तस्माद्वायव्या यद् द्यावापृथिवी गर्भमधातां तस्माद् द्यावापृथिव्येमे वै सहास्तां ते यथा वेणू संधाव्येते एवँ समधाव्येताँ सा या वागासीत् साजा वशाभवत् तस्मात् सारस्वती भवत्यसौ वा आदित्य इमे अभ्यक्रन्दत् ते गर्भमदधातां ततोऽजा वशाजायत तस्मात् सौरी भवति वायव्यामालभेत बुभूषन् क्षिप्रा देवताजिरं भूतिमुपैति द्यावापृथिव्यामालभेत कृषिमवस्यत् प्रतिष्ठा वा एतस्मा एष्टव्या यः कृषिमवस्यति यद् द्यावापृथिव्या द्यावापृथिव्योरेव प्रतितिष्ठति वर्षुकोऽस्मै पर्जन्यो भवति तामेतां कण्वास्सौश्रवसा विदुस्सारस्वतीमालभेत यस्माद्वागपक्रामेद्वाग्वै सरस्वती सरस्वत्येतस्मादपक्रामति यस्माद्वागपक्रामति यत् सारस्वती वाचमेवावरुन्द्धे तामेतां गर्भाः प्रावरेया विदुस्सौरीमालभेत रुक्कामोऽसौ वा आदित्यो रुचः प्रदाता सोऽस्मै रुचं प्रयच्छति तामेतां यस्का गैरिक्षिता विदुराग्नेन्द्रीमालभेत पुरोधाकाम आग्नेयो वै ब्राह्मण ऐन्द्रो राजन्यो ब्रह्म चैव क्षत्रं च सयुजौ करोति तामेतां कापेया विदुरग्नीषोमीयामालभेतान्नकामोऽग्निर्वै देवानामन्नादस्सोमोऽन्नमग्निनैवान्नमत्ति सोमेनावरुन्द्धे तामेतामारुणयो विदुरा वायो भूष शुचिपा उपा न इति य एव प्राजनयत् तस्मादेनामध्यवरुन्द्ध आकूत्यै त्वेत्याकूत्यै ह्येषालभ्यते कामाय त्वेति कामाय ह्येषालभ्यते समृधे त्वेति समृधे ह्येषालभ्यते किक्किटा ते मनः प्रजापतये स्वाहेति प्रजापतिमेवास्या मनो गमयति किक्किटा ते चक्षुस्सूर्याय स्वाहेति सूर्यमेवास्याश्चक्षुर्गमयति किक्किटा ते श्रोत्रं द्यावापृथिवीभ्याँ स्वाहेति द्यावापृथिवी एवास्याश्श्रोत्रं गमयति किक्किटा ते वाचँ सरस्वत्यै स्वाहेति सरस्वतीमेवास्या वाचं गमयति किक्किटा ते प्राणं वाताय स्वाहेति वातमेवास्याः प्राणं गमयति ।। किक्किटा त इति जुहोति तस्मात् किक्किटाकारं ग्राम्याः पशव उपतिष्ठन्ते किक्किटाकारादारण्याः प्रत्रसन्ति पञ्चैतानि जुहोति पाङ्क्ताः पशवो यावानेव पशुस्तँ स्वर्गं लोकं गमयति वशासि वशिनीत्याशिषमेवाशास्ते सकृद्यत्ते मनसा गर्भमाशयदिति प्रैव जनयत्यजासि रयिष्ठाः पृथिव्याँ सीदेतीमानेवैनांल्लोकानामयत्यूर्ध्वान्तरिक्षमुपतिष्ठस्व दिवि ते बृहद्भास्स्वाहेति स्वर्गमेवैनांल्लोकान् गमयति तन्तुं ततं रजसो भानुमन्विहीत्याशिषमेवाशास्ते ज्योतिष्मतः पथो रक्ष धिया कृतानिति रक्षसामपहत्या अनुल्बणं वयसि जोगुवामप इत्यनुल्बणमेवैनां तनुते मनुर्भव जनया दैव्यं जनमिति प्रैव जनयति तपसो हविरसि प्रजापतेर्वर्णो गात्राणां ते गात्रभाग्भूयासमित्याशिषमेवाशास्ते ॥ यदप्सु प्रवपति व्यृद्धिस्सा यदग्नौ जुहोति स्वगाकृतिस्सा यन्मेघ आलभते व्यृद्धा तेनाप्रजातैव तर्हि वीध्रसमृद्धा वः एषा वीध्र एवैतया यजेत त्रयाणां वावैषावरुद्धा संवत्सरसदो गृहमेधिनस्सहस्रयाजिनस्त एवैतया यजेरन् सूर्यो देवो दिविषद्भ्यो धाता क्षत्रस्य वायुः प्रजानां बृहस्पतिस्त्वा प्रजापतये ज्योतिष्मते ज्योतिष्मतीं जुहोतु स्वाहेति ब्रह्म वै बृहस्पतिर्ब्रह्मणैवैनां प्रजापतये ज्योतिष्मते ज्योतिष्मतीं जुहोति ॥१२॥

अग्निर्वै जातो न व्यरोचत सोऽकामयत तेजस्वी स्यामिति सोऽग्नये तेजस्विनेऽजं कृष्णग्रीवमालभत ततो वै स तेजस्व्यभवत् सोऽकामयत सर्वत्र विभवेयमिति सोऽग्नये विभुमतेऽजं कृष्णग्रीवमालभत ततो वै स सर्वत्र व्यभवत् सोऽकामयत सर्वत्रापिभागस्स्यामिति सोऽग्नये भागिनेऽजं कृष्णग्रीवमालभत ततो वै स सर्वत्रापिभागोऽभवद्यः कामयेत तेजस्वी स्याँ सर्वत्र विभवेयँ सर्वत्रापिभागस्यामिति स एतानाग्नेयानजान् कृष्णग्रीवानालभेत तेजस्व्येव भवति सर्वत्र विभवति सर्वत्रापिभागो भवति ।।१३।।

देव सवितः प्रसुव यज्ञं प्रसुव यज्ञपतिं भगाय ।
दिव्यो गन्धर्वः केतपूः केतं पुनातु वाचस्पतिर्वाचमद्य स्वदाति नः ।।
वाजस्य नु प्रसवे मातरं महीमदितिं नाम वचसा करामहे ।।
यस्यामिदं विश्वं भुवनमाविवेश तस्यां नो देवस्सविता धर्मँ साविषत् ।।
अप्स्वन्तरमृतमप्सु भेषजमपामुत प्रशस्तिषु ।
अश्वा भवथ वाजिनः ।।
वायुर्वा त्वा मनुर्वा त्वा गन्धर्वास्सप्तविंशतिः ।
ते अग्रे अश्वमयुञ्जँस्ते अस्मिञ्जवमादधुः ।।
अपां नपादाशुहेमन्य ऊर्मिः प्रतूर्तिः ककुद्मान् । वाजसास्तेन वाजँ सेषम् ॥
देवस्य सवितुः प्रसवे सत्यसवस्य वर्षिष्ठं नाकं रुहेयं देवस्य वयँ सवितुः प्रसवे सत्यसवनस्य बृहस्पतेर्वाजिनो वाजजितो वाजं जेष्म ॥ वाजं वाजिनो जयताध्वनस्स्कभ्नुवन्तो योजना मिमानाः काष्ठां गच्छत ।।
शं नो भवन्तु वाजिनो हवेषु देवताता मितद्रवस्स्वर्काः ।
जम्भयन्तोऽहिं वृकं रक्षाँसि सनेम्यस्मद्युयवन्नमीवाः ।।
वाजे वाजेऽवत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः ।
अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर्देवयानैः ।।
ते नो अर्वन्तो हवनश्रुतो हवं विश्वे शृण्वन्तु वाजिनो मितद्रवः ।
सहस्रसा मेधसाता सनिष्यवो महो ये धना समिथेषु जभ्रिरे ।।
एष स्य वाजी क्षिपणिं तुरण्यति ग्रीवासु बद्धो अपिकक्ष आसनि ।
क्रतुं दधिक्रा अनुसँसनिष्यदत् पथामङ्काँस्यन्वापनीफणत् ।।
उत स्मास्य द्रवतस्तुरण्यतः पर्णं न वेरनुवाति प्रगर्धिनः ।
श्येनस्येव द्रवतो अङ्कसं परि दधिक्राव्णस्सहोर्जा तरित्रतः ।।१४।।
 
त्वमिमा ओषधीस्सोम विश्वास्त्वमपो अजनयस्त्वं गाः ।
त्वमाततन्थोर्वन्तरिक्षं त्वं ज्योतिषा वि तमो ववर्थ ।।
या ते धामानि दिवि या पृथिव्यां या पर्वतेष्वोषधीष्वप्सु ।
तेभिर्नो विश्वैस्सुमना अहेडन् राजन् सोम प्रति हव्या गृभाय ।।
सदा सुगः पितुमाँ अस्तु पन्था मध्वा देवा ओषधीस्संपिपृक्त ।
भगो मे अग्ने सख्ये न मृध्या उद्रायो अश्याँ सदनं पुरुक्षोः ।।
स्वदस्व हव्या समिषो दिदीह्यस्मद्र्यक् संमिमीहि श्रवाँसि ।
विश्वाँ अग्ने पृत्सु ताञ्जेषि शत्रूँरहा विश्वा सुमना दीदिही नः ।।
आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् । येषामिन्द्रो युवा सखा ।।
सुकर्माणस्सुरुचो देवयन्तोऽयो न देवा जनिमा धमन्तः ।
शुचन्तो अग्निं ववृधन्त इन्द्रमूर्वं गव्यं परिषदन्तो अग्मन् ।।
इयं वामस्य मन्मन इन्द्राग्नी पूर्व्यस्तुतिः । अभ्राद्वृष्टिरिवाजनि ।।
शुचिं नु स्तोमं नवजातमद्येन्द्राग्नी वृत्रहणा जुषेथाम् ।
उभा हि वाँ सुहवा जोहवीमि ता वाजँ सद्य उशते धेष्ठा ।।
विश्वे देवा ऋतावृध ऋतुभिर्हवनश्रुतः । जुषन्तां युज्यं पयः ॥
ये के च ज्मा महिनो अहिमाया दिवो जज्ञिरे अपाँ सधस्थे ।
ते अस्मभ्यमिषये विश्वमायुः क्षप उस्रा वरिवस्यन्तु देवाः ।।
मही द्यौर्घृतवती भुवनानामभिश्रियोर्वी पृथ्वी मधुदुघे ।
सुपेशसा द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते अजरे भूरिरेतसा ।।
शतायुधाय शतवीर्याय शतोतयेऽभिमातिषाहे ।
शतं यो नश्शरदोऽनयदिन्द्रो विश्वस्य दुरितस्य पारम् ।।
इमे चत्वारो रजसो विमाना अन्तरा द्यावापृथिवी वियन्ति पन्थानः ।
तेषामज्यानिं यतमो न आवहात् तस्मै नो देवाः परिदत्त सर्वे ॥
वसन्तो ग्रीष्मो मधुमन्ति वर्षाश्शरद्धेमन्तस्सुविते दधात ।
तेषां वयँ सुमतौ यज्ञियानां ज्योगजीता अहतास्स्याम ।।
संवत्सराय परिवत्सरायेदावत्सरायानुवत्सरायोद्वत्सराय कृणुता बृहन्नमः ।
तेषां वयँ सुमतौ यज्ञियानां निवात एषामभये स्याम ।।
इयँ स्वस्तिस्संवत्सरीया परिवत्सरायेदावत्सरीयानुवत्सरीयोद्वत्सरीया ।
सा नः पिपर्त्वहृणीयमानैनाह्नेदमहरशीय स्वाहा ।।
आ नः प्रजां जनयतु प्रजापतिर्धाता दधातु सुमनस्यमानः ।
संवत्सर ऋतुभिश्चाक्लृपानो मयि पुष्टिं पुष्टिपतिर्दधातु ।।
अग्निः प्राश्नातु प्रथमस्स हि वेद यथा हविः । शिवा अस्मभ्यमोषधीः करोतु विश्वचर्षणिः ।।
भद्रान्नश्श्रेयस्समनैष्ट देवास्त्वयावसेन समशीमहि त्वा ।
स नः पितो मधुमाँ आविशेह शिवस्तोकाय तन्वे न एधि ।।
एतमु त्यं मधुना संयुतं यवँ सरस्वत्या अधि माना अचकृषुः ।
इन्द्र आसीत् सीरपतिश्शतक्रतुः कीनाशा आसन्मरुतस्सुदानवः ॥१५॥
 
शं नो देवीरभिष्टय आपो भवन्तु पीतये । शं योरभिस्रवन्तु नः ।।
एवेद्यूने युवतयो नमन्त यदीमुशन्नुशतीरेत्यच्छ ।
संजानते मनसा संचिकित्रेऽध्वर्यवो धिषणापश्च देवीः ।।
ओषधीरिति मातरः ।।
या ओषधीः पूर्वा जाता देवेभ्यस्त्रियुगं पुरा ।
मनै नु बभ्रूणामहँ शतं धामानि सप्त च ।।
गावो भगो गाव इन्द्रो मे अच्छान् गावस्सोमस्य प्रथमस्य भक्षः ।
इमा या गावस्स जनास इन्द्र इच्छामीद्धृदा मनसा चिदिन्द्रम् ।।
न ता अर्वा रेणुककाटो अश्नुते न सँस्कृतत्रमुपयन्ति ता अभि ।
उरुगायमभयं तस्य ता अनु गावो मर्तस्य विचरन्ति यज्वनः ।।
रात्री व्यख्यदायती पुरुत्रा देव्यक्षभिः । विश्वा अधि श्रियाऽधित ।।
उप ते गा इवाकरं वृणीष्व दुहितर्दिवः । रात्रि स्तोमं न जिग्युषी ।।
उदु त्यं चित्रं देवानाम् ।।
अन्विदनुमते त्वं मन्यासै शं च नस्कृधि ।
इषं तोकाय नो दधः प्र ण आयूंषि तारिषः ।।
यत् ते नाम सुहवँ सुप्रणीतेऽनुमते अनुमतँ सुदानु ।
तेन त्वँ सुमतिं देव्यस्मे इषं पिन्व विश्ववाराँ सुवीराम् ।।
राकामहँ सुहवाँ सुष्टुती हुवे शृणोतु नस्सुभगा बोधतु त्मना ।
सीव्यत्वपस्सूच्याच्छिद्यमानया ददातु वीरँ शतदायमुक्थ्यम् ।।
यास्ते राके सुमतयस्सुपेशसो याभिर्ददासि दाशुषे वसूनि ।
ताभिर्नो अद्य सुमना उपांगहि सहस्रपोषँ सुभगे रराणा ।।
सिनीवालि पृथुष्टुके या देवानामसि स्वसा। जुषस्व हव्यमाहुतं प्रजां देवि दिदिड्ढि नः ।।
या सुबाहुस्स्वङ्गुरिस्सुषूमा बहुसूवरी । तस्यै विश्पत्न्यै हविस्सिनीवाल्यै जुहोतन ॥
कुहूमहँ सुकृतं विद्मनापसमस्मिन् यज्ञे सुहवां जोहवीमि ।
या नो ददाति श्रवणं पितॄणां तस्यै ते देवि हविषा विधेम ॥
कुहूर्देवानाममृतस्य पत्नी हव्या नो अस्य हविषश्शृणोतु ।
स्वसा देवानां महयन्त्यस्मै रायस्पोषं चिकितुषे दधातु ॥
धाता दधातु नो रयिमीशानो जगतस्पतिः । स नः पूर्णेन वावनत् ।।
प्रजापती रमयतु प्रजा इह धाता दधातु सुमनस्यमानः ।
संवत्सरं ऋतुभिश्चाक्लृपानो मयि पुष्टिं पुष्टिपतिर्दधातु ।।१६।।[ ९३८ ]

॥ इति श्रीयजुषि काइके चरक शाखायामिठिमिकायां पशुबन्ध नाम त्रयोदशं स्थानकं संपूर्णम् ॥१३॥