काठकसंहिता (विस्वरः)/स्थानकम् ०५

विकिस्रोतः तः
← स्थानकं ४ काठकसंहिता (विस्वरः)
स्थानकम् ०५
[[लेखकः :|]]
स्थानकं ६ →
यजमानम्।

अथ पञ्चमं स्थानकम् ।।

यजमानम् ।
अग्नीषोमाभ्यां यज्ञश्चक्षुष्माँस्तयोरहं देवयज्यया चक्षुषा चक्षुष्मान् भूयासमग्निरन्नस्यान्नपतिस्तस्याहं देवयज्ययान्नस्यान्नपतिर्भूयासं दब्धिरस्यदब्धो भूयासममुं दभेयमग्नीषोमौ वृत्रहणौ तयोरहं देवयज्यया वृत्रहा भूयासमिन्द्राग्न्योरहं देवयज्ययौजस्वान् वीर्यावान् भूयासमिन्द्रस्याहं देवयज्ययेन्द्रियावान् भूयासं महेन्द्रस्याहं देवयज्यया जेहमानं भूमानं गमेयमिन्द्रस्याहं विमृधस्य देवयज्ययासपत्नो भूयासमिन्द्रस्याहमिन्द्रियावतो देवयज्यया पशुमान् भूयासम्।। सरस्वत्या अहं देवयज्यया वाचमन्नाद्यं पुषेयं पूष्णोऽहं देवयज्यया पुष्टिमान् पशुमान् भूयासमदित्या अहं देवयज्यया प्रतिष्ठां गमेयं विश्वेषामहं देवानां देवयज्यया प्राणानाँ सायुज्यं गमेयं द्यावापृथिव्योरहं देवयज्यया प्रजनिषेयं प्रजया पशुभिरग्नेरहँ स्विष्टकृतो देवयज्ययायुः प्रतिष्ठां गमेयम् ॥
अतीतपद्यज्ञे यज्ञमयाड् देवाँ अरंकृतः । सोमस्ते मित्रो अर्यमा रायस्पोषं दधातन ।।१।।

बृहतो मा वाजेन वाजय वामदेवस्य मा वाजेन वाजय रथन्तरस्य मा वाजेय वाजय जुष्टे जुष्टिं ते गमेयमुपहूत उपहवं तेऽशीय सुहवामेहि सह प्रजया सह रायस्पोषेण ।।
अस्मास्विन्द्र इन्द्रियं दधात्वस्मान् रायो मघवानस्सचन्ताम् ।।
अस्माकँ सन्त्वाशिषः ।।
आशीर्म ऊर्जमुत सुप्रजास्त्वमिषं दधातु द्रविणेँ सवर्चसम् ।
संजयन् क्षेत्राणि सहसाहमिन्द्र कुर्वाणो अन्याँ अधरान् सपत्नान् ।।
ब्रह्म तेजो मे पिन्वस्व क्षत्रमोजो मे पिन्वस्व प्रजां वृष्टिं मे पिन्वस्व पशून् विशं मे पिन्वस्वेषमूर्जं मे पिन्वस्व ।।
मयि त्यदिन्द्रियं महन्मयि द्युम्न उत क्रतुः ।।
त्रिशुग्घर्मस्सदमिन्मे विभाति विराड़ ज्योतिषा सह ।।
तस्य दोहमशीय ब्रध्न पिन्वस्व कल्पन्तां दिशो यजमानस्यायुषे ददतो मे मा क्षायि कुर्वतो मे मोपदसद्भजतां भागी माभागो भक्त ये ब्राह्मणास्सोम्यास्तेषामिदँ हविर्नासोम्यस्याप्यस्ति निर्भक्तो यं द्विष्मः ।। २ ।।
  
देवस्याहं बर्हिषो देवयज्यया प्रजावान् भूयासं देवस्याहं नराशँसस्य देवयज्यया पशुमान् भूयासं देवस्याहमग्नेस्स्विष्टकृतो देवयज्ययायुः प्रतिष्ठां गमेयम् ।।
आ माशिषः दोहकामा इन्द्रवन्तो हवामहे । धुक्षीमहि प्रजामिषम् ॥
सा मे सत्याशीर्देवान् गम्याज्जुष्टाज्जुष्टतरा पन्यात् पन्यतराहेडता मनसा देवान् गच्छ यो देवयानः पन्थास्तेन देवान् गच्छ यज्ञो देवान् गच्छतु यज्ञो देवान् गम्याददो मा गच्छतु ।। रोहितेन त्वाग्निर्देवतां गमयतु हरिभ्यां त्वेन्द्रो देवतां गमयत्वेतशेन त्वा सूर्यो देवतां गमयतु यज्ञ यज्ञं गच्छ यज्ञपतिं गच्छ यज्ञस्यायुरसि यज्ञो म आयुर्दधातु ।।
वि ते मुञ्चामि रशनां वि रश्मीन् वि योक्त्राणि परिचर्तनानि ।।
दत्त्वायास्मभ्यं द्रविणेह भद्रं प्र मा ब्रूताद्धविर्दा देवताभ्यः ।।
विष्णोश्च यज्ञस्यान्तस्तयोरहं देवयज्ययायुः प्रतिष्ठां गमेयम् ॥ ३ ॥

इष्टो यज्ञो भृगुभिर्द्रविणोदा यतिभिराशीर्वाँ अथर्वभिः।। तस्य यज्ञस्येष्टस्य स्विष्टस्य द्रविणमागच्छत्वङ्गिरसो मेऽस्य यज्ञस्य प्रातरनुवाकैरहौषुर्वसुर्यज्ञो वसुमान् यज्ञो वसु वसीय वसुमन्तो भूयास्म तस्य यज्ञस्य वसोर्वसुमतो वसु मागच्छतु सोमो रेतोधास्तस्याहं देवयज्यया सुरेतोधा रेतो धिषीय त्वष्टा रूपाणां विकर्ता तस्याहं देवयज्यया विश्वरूपं प्रियं पुषेयं देवानां पत्नीरग्निर्गृहपतिर्मिथुनं यजमानस्य तयोरहं देवयज्यया मिथुनेन प्रजनिषीयायुषे वर्चसे रायस्पोषाय सुप्रजास्त्वाय।।
सं पत्नी पत्या सुकृतेषु गच्छतां यज्ञस्य युक्तौ धुर्या अभूताम् ।
आप्रीणानो विजहता अरातिं दिवे ज्योतिरुत्तममारभेथाम् ।।
स्वाहा स्वाहेष्टिभ्यो वषडनिष्टेभ्यो भिषजौ स्विष्ट्यै स्वाहा निष्कृतिर्दुरिष्टयै स्वाहा ।। देवेभ्यस्तनूभ्यस्स्वाहा ।।
 अयाश्चाग्नेऽस्यनभिशस्तिश्च सत्यमित्त्वमया असि ।।
अयास्सन्मनसा कृतोऽयास्सन्हव्यमूहिषेऽया नो धेहि भेषजम् ।।
स्वाहा सरस्वत्यै वेशभगिन्यै स्वाहा ।। या सरस्वती वेशभगिनी तस्या नो रास्व तस्यास्ते भक्तिवानो भूयास्म यज्ञस्य त्वा प्रमयाभिमयोन्मया प्रतिमया परिगृह्णामि वेदोऽसि वित्तिरसि वेदसे त्वा वेदो मे विन्द विदेय ।।।
घृतवन्तं कुलायिनं रायस्पोषँ सहस्रिणम् । वेदो वाजं ददातु मे वेदो वीरं ददातु मे ।। वृषा वृषण्वतीभ्यो वेदपत्नीभ्यो भव ।। ४ ।।

प्रजापतेर्भागोऽस्यूर्जस्वान् पयस्वानक्षितोऽस्यक्षित्यै त्वक्षितो नामासि मा मे क्षेष्ठाः प्राणापानौ मे पाहि समानव्यानौ मे पाह्युदानरूपे मे पाह्यूर्गस्यूर्जं मयि धेह्या मा गम्याः पूर्णमसि पूर्णं मे भूयास्सदसि सन्मे भूयास्सर्वमसि सर्वं मे भूया अक्षितिरसि मा मे क्षेष्ठाः प्राच्या दिशा देवा ऋत्विजो मार्जयन्तां दक्षिणया दिशा मासाः पितरो मार्जयन्तां प्रतीच्या दिशा गृहाः पशवो मार्जयन्तामुदीच्या दिशाप ओषधयो वनस्पतयो मार्जयन्तामूर्ध्वया दिशा यज्ञस्संवत्सरो मार्जयन्ताम् ।। पृथिवीं विष्णुर्व्यक्रँस्त गायत्रेण च्छन्दसा निर्भक्तो यं द्विष्मोऽन्तरिक्षं विष्णुर्व्यक्रँस्त त्रैष्टुभेन च्छन्दसा निर्भक्तो यं द्विष्मो दिवं विष्णुर्व्यक्रँस्त जागतेन च्छन्दसा निर्भक्तो यं द्विष्मो दिशो विष्णुर्व्यक्रँस्तानुष्टुभेन च्छन्दसा निर्भक्तो यं द्विष्मोऽगन्म स्वस्सं ज्योतिषाभूम सूर्यस्यावृतमन्वावर्त इदमहं योऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तस्य प्राणं निवेष्टयामि तेजोऽसि तेजो मयि धेहि समहं प्रजया सं मया प्रजा समहं रायस्पोषेण सं मया रायस्पोषोऽग्नेस्तेजसा तेजस्वी भूयासं वायोरायुषायुष्मान् भूयासँ सूर्यस्य वर्चसा वर्चस्वी भूयासमिन्द्रस्येन्द्रियेणेन्द्रियावान् भूयासं धाता मे धाम्ना सुधां दधातु प्रजापतेः प्रजया प्रजावान् भूयासमग्ने गृहपते सुगृहपतिरहं त्वया गृहपतिना भूयासँ सुगृहपतिर्मया त्वं गृहपतिना भूया अस्थूरि णौ गार्हपत्यं दीदायच्छतँ हिमाद्वायू ॥५॥

देवाञ्जनमगन् यज्ञस्ततो मा यज्ञस्याशीरागच्छतु पितॄन् सर्पान् गन्धर्वानप ओषधीः पञ्च जनाञ्जनमगन् यज्ञस्ततो मा यज्ञस्याशीरागच्छतु पञ्चानां त्वा वातानां धर्त्रायागृह्णामि पञ्चानां त्वा सलिलानां धर्त्रायागृह्णामि पञ्चानां त्वा पृष्ठानां धर्त्रायागृह्णामि पञ्चानां त्वा दिशां धर्त्रायागृह्णामि पञ्चानां त्वा पञ्चजनानां धर्त्रायागृह्णामि, भूरस्माकँ हव्यं देवानामाशिषो यजमानस्य चरोस्त्वा पञ्चबिलस्य धर्त्रायागृह्णामि धामासि प्रियं देवानामनाधृष्टं देवयजनं देवताभिस्त्वा देवताभ्यो गृह्णामि ॥
ये देवा यज्ञहनो यज्ञमुषः पृथिव्यामध्यासते ।
अग्निर्मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ।।
यास्ते रात्रयस्सवितर्देवयानीस्सहस्रयज्ञमभिसंबभूवुः ।।
गृहैश्च सर्वैः प्रजया न्वग्रे स्वो रुहाणास्तरता रजाँसि ।
ये देवा यज्ञहनो यज्ञमुषोऽन्तरिक्षेऽध्यासते ।।
वायुर्मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ।।
आगन्म मित्रावरुणा वरेण्यं रात्रीणां भागो युवयोर्यो अस्ति ।।
नाकं गृह्णानास्सुकृतस्य लोके तृतीये पृष्ठे अधि रोचने दिवः ॥
ये देवा यज्ञहनो यज्ञमुषो दिव्यध्यासते ।।
सूर्यो मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥
येनेन्द्राय समभरन् पयाँस्युत्तमेन हविषा जातवेदः ।
तेनाग्ने त्वमुत वर्धयेमँ सुजातानाँ श्रेष्ठ्य आधेह्येनम् ।।
गोमाँ अग्नेऽविमाँ अश्वी यज्ञो नृवत्सखा सदमिदप्रमृष्यः ।
इडावाँ एषो असुर प्रजावान् दीर्घो रयिः पृथुबुध्नस्सभावान् ।
अग्ने व्रतपते व्रतमचारिषं तदशकं तत्ते प्रबूमस्तन्नो गोपाय ॥ ६ ॥

इति श्रीयजुषि काठके चरकशाखायामिठिमिकांया यजमानं नाम पञ्चमं स्थानकं संपूर्णम् ॥ ५ ॥