सामग्री पर जाएँ

काठकसंहिता (विस्वरः)/स्थानकम् ०२

विकिस्रोतः तः
← स्थानकं १ काठकसंहिता (विस्वरः)
स्थानकम् ०२
[[लेखकः :|]]
स्थानकं ३ →
अध्वरम्।

अथ द्वितीयं स्थानकम् ।।

अध्वरम् ।
आर्द्रदानवस्स्थ जीवदानवस्स्थोन्दतीरिह मावताप उन्दन्तु जीवसे दीर्घायुत्वाय वचसे ओषधे त्रायस्वैनँ स्वधिते मैनँ हिंसीर्देवायुरिमान् प्रवपे स्वस्त्युत्तराँ अशीय ॥
शं न आपो धन्वन्याश्शं नस्सन्त्वनूप्याः । शं नस्समुद्रिया आपश्शमु नस्सन्तु कूप्याः॥ आपो अस्मान् मातरस्सूदयन्तु घृतेन मा घृतप्वः पुनन्तु ।
विश्वँ ह रिप्रं प्रवहन्ति देवीरुदिदाभ्यः शुचिरा पूत एमि ।।
सोमस्य दात्रमसि तनूरसि तन्वं मे पाहि महीनां पयोऽस्यपामोषधीनां रसो वर्चोधा असि वर्चो मे धेहि मित्रस्यासि कनीनिकान्तरहं त्वया द्वेषमन्तररातीर्दधे चक्षुर्धा असि चक्षुर्मे धेहि चित्पतिस्त्वा पुनातु वाक्पतिस्त्वा पुनातु देवस्त्वा सविता पुनात्वच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिस्तस्य ते पवित्रपते पवित्रेण यस्मै कं पुने तच्छकेयम् ॥ १ ॥

आकूत्यै प्रयुजे अग्नये स्वाहा मेधायै मनसे अग्नये स्वाहा दीक्षायै तपसे अग्नये स्वाहा सरस्वत्यै पूष्णे अग्नये स्वाहापो देवीर्बृहतीर्विश्वशम्भुवो द्यावापृथिवी उरो अन्तरिक्ष बृहस्पतये हविषा विधेम स्वाहा ॥
विश्वो देवस्य नेतुर्मर्तो वरेत सख्यम् । विश्वो राय इषुध्यति द्युम्ने वरेत पुष्यतु ॥ स्वाहेन्द्राग्नी द्यावापृथिवी आप ओषधय उरो अन्तरिक्षानु मे दीक्षा दीक्षापतय मन्यध्वमनु तपस्तपस्पतयोऽग्निश्च देव सूर्येषमूर्जॆ दधातन देव सवितस्त्वं दीक्षाणां दीक्षापतिरसीत्थं मा सन्तं पाह्या मोदृचः पाहि ॥ २ ॥

ऋक्सामयोश्शिल्पे स्थस्ते वामारभ आ मोदृचः पातँ शर्मासि शर्म में यच्छ नमस्ते अस्तु मा मा हिँसीः ।।
इमां धियँ शिक्षमानस्य देव क्रतुं दक्षं वरुणँ सँशिशाधि ।।
ययाति विश्वा दुरिता तरेम सुतर्माणमधि नावं रुहेयम् ॥
इमाँ सु नावमारुहमरिष्टां पारयिष्णुम् । शतारित्राँ स्वस्तये ।।
सुत्रामाणं पृथिवीं द्यामनेहसँ सुशर्माणमदितिं सुप्रणीतिम् ।।
दैवीं नावँ स्वरित्रामनागसमस्रवन्तीमारुहेम स्वस्तये ।।
ऊर्गस्याङ्गिरस्यूर्णम्रदा ऊर्जं मयि धेहि मा मा हिँसीस्सोमस्य नीविरसि मा मा हिँसीरिन्द्रस्य योनिरसि मा मा हिँसीः कृष्यै त्वा सुमनस्यायै कृषिं सुसस्यामुत्कृधि विष्णोश्शर्मासि शर्म यजमानस्य शर्म मे यच्छ नमस्ते अस्तु मा मा हिंसीर्नक्षत्राणां मातीकाशात् पाहि सूपस्थावा वनस्पत ऊर्ध्वो मा पाह्योदृचस्स्वाहा यज्ञमनसस्स्वाहा दिवस्स्वाहा पृथिव्यास्स्वाहोरोरन्तरिक्षात् स्वाहा वातात् प्रतिगृह्णामि यज्ञम् ।। ३ ।।

व्रतं कृणुत तच्छकेयम् ॥
दैवीं धियं मनामहे सुमृडीकामभिष्टये । वर्चोधां विश्वधायसँ सुतीर्था नो असद्वशे ॥ ये देवा मनुजाता मनुयुजस्सुदक्षा दक्षपितरः । ते नः पान्तु ते नोऽवन्तु तेभ्यस्स्वाहा ।।
अग्ने त्वँ सु जागृहि वयँ सु मन्दिषामहे । गोपाय नो अप्रयुच्छन् प्रबुधे नः पुरस्कृधि॥
त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा । त्वं यज्ञेष्वीड्यः ।।
पूषा सनीनाँ सोमो राधसां रास्वेयत्सोमा भूयो भर देवस्सविता वसोर्वसुदावा मा पृणन् पूर्त्या विराधिष्ट माहमायुषा वर्चसा विराधिषि ।। देवीरापो अपां नपाद्य ऊर्मिर्हविष्य इन्द्रियावाँस्तं वो मा क्रमिषँ सक्षेमहि या ते यज्ञिया तनूस्तयारोह ॥
अयं ते योनिर्ऋत्वियो यतो जातो अरोचथाः ।।
तं जाननग्न आरोह ततो नो वर्धया रयिम् ।।
एदमगन्म देवयजनं पृथिव्या यत्र देवा अजुषन्त विश्वे ।।
ऋक्सामाभ्याँ संतरन्तो यजुर्भी रायस्पोषे समिषा मदेम ।। ४ ।।

इयं ते शुक्र तनूरिदं वर्चस्तया संभव भ्राजं गच्छ । जूरसि धृता मनसा जुष्टा विष्णवे तस्यास्ते सत्यसवसः प्रसवे तन्वो यन्त्रमशीय स्वाहा ।। शुक्रमसि चन्द्रमस्यमृतमसि वैश्वदेवँ हविरसि चिदसि मना असि धीरसि दक्षिणासि यज्ञियासि क्षत्रियास्यादितिरस्युभयतश्शीर्ष्णी सा मा सुप्राची सुप्रतीची भव मित्रस्त्वा पदि बध्नातु पूषाध्वनस्पात्विन्द्रायाध्यक्षायानु त्वा माता मन्यतामनु पितानु भ्राता सगर्भ्योऽनु सखा सयूथ्यः ॥ सा देवि देवमच्छेहीन्द्राय सोमं रुद्रस्त्वावर्तयतु स्वस्ति सोमसखा पुनरेहि वस्व्यसि रुद्रास्यदितिरस्यादित्यासि चन्द्रासि रुद्रासि बृहस्पतिस्त्वा सुम्ने रम्णातु रुद्रो वसुभिराचके पृथिव्यास्त्वा मूर्धन्नाजिघर्मिं देवयजन इडायास्पदे घृतवति स्वाहेदमहं रक्षसो ग्रीवा अपिकृन्तामीदमहं यो नस्समानो योऽसमानोऽरातीयति तस्य ग्रीवा अपिकृन्ताम्यस्मे रमस्वास्मे ते रायो मे रायस्तव तव रायो माहं रायस्पोषेण वियोषं सं देवी देव्योर्वश्याख्यत सुरेता रेतो दधानास्त्वष्टृमन्तस्त्वा सपेम मा म आयुः प्रमोषीर्मो अहं तव वीरं विदेय तव संदृशि ॥५॥

देव सूर्य सोमं क्रेष्यामस्तं ते प्रबूमस्तं त्वं विश्वेभ्यो देवेभ्य ऋतून् कल्पय दक्षिणाः कल्पय यथर्षि यथादेवतमास्माकोऽसि शुक्रस्ते ग्रहः ॥
अभि त्यं देव सवितारमोण्योः कविक्रतुम् । अर्चामि सत्यसवं रत्नधामभि प्रियं मतिम् ।।
ऊर्ध्वा यस्यामतिर्भा अदिद्युतत्सवीमनि । हिरण्यपाणिरमिमीत सुक्रतुः कृपा स्वः ॥ प्रजाभ्यस्त्वा प्रजासस्त्वानुप्राणन्तु प्रजास्त्वमनु प्राणिहि सोमं ते क्रीणाम्यूर्जस्वन्तं पयस्वन्तं वीर्यावन्तं बर्ह्वघँ शोभमानम् ॥ शुक्रं ते शुक्रेण क्रीणामि चन्द्रं चन्द्रेणामृतममृतेन शक्म यत्ते गौरस्मे ते चन्द्राणि तपसस्तनूरसि प्रजापतेवर्णस्सहस्रपोषं पुष्यन्ती परमेण पशुना क्रीयसेऽस्मे ते बन्धुर्मित्रो न एहि सुमित्रधा इन्द्रस्योरुमाविश दक्षिणमुशन्नुशन्तँ स्योनस्स्योनम् ।। स्वान्नभ्राडङ्घारे बम्भारे हस्त सुहस्त कृशान एते वस्सोमक्रयणास्तान् रक्षध्वं मा वो दभन् ।
 उदायुषा स्वायुषोद्रसेनौषधीनाम् । उत्पर्जन्यस्य वृष्ट्योदस्थाममृताँ अनु ।। उर्वन्तरिक्षं वीहि ।।
अपि पन्थामगन्महि स्वस्तिगामनेहसम् । येन विश्वाः परि द्विषो वृणक्ति विन्दते वसु ।।
अदित्यास्त्वगस्यदित्यास्सदने सीद ॥
अस्तभ्नाद् द्यामृषभो विश्ववेदा अमिमीत वरिमाणं पृथिव्याः ।
आसीदद्विश्वा भुवनानि सम्राड् विश्वेत्तानि वरुणस्य व्रतानि ।।
वनेषु व्यन्तरिक्षं ततान वाजमर्वत्सु पयो अघ्न्यासु ।
हृत्सु क्रतुं वरुणो विक्ष्वग्निं दिवि सूर्यमदधात् सोममद्रौ ।।
सूर्यस्य चक्षुरारुहमग्नेरक्ष्णः कनीनिकाम् ।
यदेतशेभिरीयसे भ्राजमानो विपश्चिता।।६।।

उस्रा एतं धूर्बाधा अवीरहणा अनश्शू ब्रह्मचौदनौ यज्ञस्यायुः प्रतिरन्तौ स्वस्ति गृहान् गच्छतं धूरसि धूर्व धूर्वन्तं योऽस्मान् धूर्वति तं धूर्व यं वयं धूर्वामस्तं च धूर्व वारुणमसि वरुणस्य स्कम्भन्यसि प्रच्यवस्व भुवनस्पते विश्वान्यभि धामानि मा त्वा परिपरिणो विदन्मा परिपन्थिनो मा त्वा वृका अघायवो विदन् । श्येनो भूत्वा परापत यजमानस्य नो गृहे सँस्कृतम् ॥
नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तं तदृतँ सपर्यत ।।
दूरेदृशे देवजाताय केतवे दिवस्पुत्राय सूर्याय शँसत ॥
वारुणमसि वरुणस्त्वोत्तभ्नातु वरुणस्य स्कम्भसर्जन्यसि प्रमुक्तो वरुणस्य पाशो वरुणोऽसि धृतव्रतोऽच्छिन्नपत्रः प्रजा उपावरोह वरुणस्यर्तसदनमस्यदित्यास्त्वगस्यदित्यास्सदने सीद ।।
निषसाद धृतव्रतो वरुणः पस्त्यास्वा । साम्राज्याय सुक्रतुः ।।
वारुणमसि वरुणाय त्वा ।। ७ ॥

अग्नेस्तनूरसि विष्णवे त्वा सोमस्य तनूरसि विष्णवे त्वातिथेरातिथ्यमसि विष्णवे त्वाग्नये त्वा रायस्पोषदे विष्णवे त्वा श्येनाय त्वा सोमभृते विष्णवे त्वापतये त्वा परिपतये गृह्णामि तनूनप्त्रे शक्मने शाक्वराय शक्मनोजिष्ठायानाधृष्टमस्यनाधृष्यं देवानामोजोऽभिशस्तिपा अनभिशस्तेन्यमञ्जसा सत्यमुपागाँ सुविते मा धा अग्ने व्रतपा अस्मे व्रतपास्त्वे व्रतपाः पुनर्व्रतपा व्रतिनां व्रतानि याग्ने मम तनूरेषा सा त्वयि या तव तनूरियँ सा मयि सह नौ व्रतपा व्रतिनां व्रतानि ।। या ते अग्ने रुद्रिया तनूस्तया नः पाहि तस्यै ते स्वाहाँशुरँशुस्ते देव सोमाप्यायतामिन्द्रायैकधनअ । तुभ्यमिन्द्रः प्यायतामा त्वमिन्द्राय प्यायस्वाप्यायय सखीन् सन्या मेधया स्वस्ति ते देव सोम सुत्यामशीय स्वस्त्योदृचमेष्टा राय एष्टा वामानि प्रेषे भगायर्तमृतवादिभ्यो नमो दिवे नमः पृथिव्यै या ते अग्नेऽयाशया तनूर्वर्षिष्ठा गहनेष्ठा वर्षिष्ठा गह्वरेष्ठा उग्रं वचोऽपावधीत् त्वेषं वचोऽपावधीत् स्वाहा या ते अग्ने रजाशया हराशया तनूवर्षिष्ठा गहनेष्ठा वर्षिष्ठा गह्वरेष्ठा उग्रं वचोऽपावधीत् त्वेषं वचोऽपावधीत् स्वाहा ।। ८ ।।

देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामाददे नार्यसीदमहं रक्षसो ग्रीवा अपिकृन्तामीदमहं यो नस्समानो योऽसमानोऽरातीयति तस्य ग्रीवा अपिकृन्तामि तप्तायन्यसि वित्तायन्यस्यवतान्मा नाथितमवताद् व्यथितमग्ने अङ्गिरो योऽस्यां पृथिव्यामस्यायुना नाम्नेहि यत्तेऽनाधृष्टं नामानाधृष्यं तेन त्वादधेऽग्ने अङ्गिरो यो द्वितीयस्यां यस्तृतीयस्यां पृथिव्यामस्यायुना नाम्नेहि यत्तेऽनाधृष्टं नामानाधृष्यं तेन त्वादधे विदेदग्निर्नभो नाम सिंह्यसि महिष्यसि देवेभ्यः प्रथस्व देवेभ्यः कल्पस्व देवेभ्यः शुन्धस्व देवेभ्यः शुम्भस्व ।।
विभ्राड् बृहत् पिबतु सोम्यं मध्वायुर्दधद्यज्ञपता अविह्रुतम् ।।
वातजूतो यो अभिरक्षति त्मना प्रजाः पिपर्ति बहुधा विराजति ।।
इन्द्रघोषास्त्वा वसवः पुरस्तात् पान्तु मनोजवास्त्वा पितरो दक्षिणतः पान्तु प्रचेतास्त्वा रुद्रैः पश्चात् पातु विश्वकर्मा त्वादित्यैरुत्तरात् पातु त्वष्टा त्वा रूपैरुपरिष्टात् पातु सिंह्यसि सपत्नसाही स्वाहा सिंह्यसि रायस्पोषवनिस्स्वाहा सिँह्यसि सुप्रजावनिस्स्वाहा सिंह्यस्यादित्यवनिस्स्वाहा सिंह्यस्यावह देवान् देवायते यजमानाय स्वाहा भूतेभ्यस्त्वा विश्वायुरसि पृथिवीं स्कभानाच्युतक्षिदस्यन्तरिक्षँ स्कभान धुवक्षिदसि दिवँ स्कभानाग्नेः कुलायमस्यग्नेः पुरीषमसि यज्ञः प्रत्यष्ठात् ।।
मनुष्वत्त्वा निधीमहि मनुष्वत्समिधीमहि । अग्ने मनुष्वदङ्गिरो देवान् देवयते यज॥९॥

युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः ।
वि होत्रा दधे वयुनाविदेक इन्मही देवस्य सवितुः परिष्टुतिः ।।
देवश्रुतौ देवष्वाघोषेथाम् ।। इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूढमस्य पाँसुरे ।।
इडावती धेनुमती हि भूतं सूयवसिनी मानुषे यशस्ये ।
व्यष्टभ्ना रोदसी विष्ण एते दाधर्थ पृथिवीमभितो मयूखैः ।।
वैष्णवमसि विष्णुस्त्वोत्तभ्नातु ।।
दिवो वा विष्ण उत वा पृथिव्या महो वा विष्ण उरोरन्तरिक्षात् ।।
हस्तौ पृणस्व बहुभिर्वसव्यैराप्रयच्छ दक्षिणादोत सव्यात् ।।
विष्णोर्नु कं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजँसि ।।
यो अस्कभायदुत्तरं सधस्थं विचक्रमाणस्त्रेधोरुगायः ।।
विष्णोः पृष्ठमसि विष्णो रराटमसि विष्णोश्श्नप्त्रे स्थो विष्णोस्स्यूरसि विष्णोर्ध्रुवोऽसि वैष्णवमसि विष्णवे त्वा ।।
प्र तद्विष्णुस्स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः ।
यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा ।। १०

देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामादद इदमहं रक्षसो ग्रीवा अंपिकृन्तामीदमहं यो नस्समानो योऽसमानोऽरातीयति तस्य ग्रीवा अपिकृन्तामि बृहन्नसि बृहद्ग्रावा बृहतीमिन्द्राय वाचं वद रक्षोहणं वलगहनं वैष्णवीमिदमहं तान् वलगानुद्वपामि यास्समानो यानसमानो निचखानेदमहं तान् वलगानुद्वपामि यान्नस्सबन्धुर्यानसबन्धुर्निचखानेदमहं तान् वलगानुद्वपामि यान्नस्सनाभिर्यानसनाभिर्निचखानेदमहं तान् वलगानुद्वपामि याननस्स्वो यानरणो निचखान राडसि विराडसि सम्राडसि स्वराडसि गायत्रेण च्छन्दसावबाढो यं द्विष्मस्त्रैष्टुभेन जागतेनानुष्टुभेन पाङ्क्तेन च्छन्दसावबाढो यं द्विष्मः ॥ किमत्र भद्रं तन्नौ सह निरस्तो वलगोववाढो दुरस्य रक्षोघ्नो वलगघ्नः प्रोक्षामि वैष्णवान् रक्षोघ्नो बलगघ्नोऽवसिञ्चामि वैष्णवान् रक्षोघ्नो बलगघ्नोऽवस्तृणामि वैष्णवान् रक्षोहणौ वलगहनौ प्रोक्षामि वैष्णवीं रक्षोहणौ वलगहना उपदधामि वैष्णवी रक्षोहणौ वलगहनौ पर्यूहामि वैष्णवी रक्षोहा त्वा वलगहा प्रोक्षामि वैष्णवं रक्षोहा त्वा वलगहा स्तृणामि वैष्णवं रक्षोघ्नो वलगघ्नस्सँसादयामि वैष्णवान् ।। ११ ।।

देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामादद इदमहं रक्षसो ग्रीवा अपि कृन्तामीदमहं यो नस्समानो योऽसमानोऽरातीयति तस्य ग्रीवा अपिकृन्तामि दिवे त्वान्तरिक्षाय त्वा पृथिव्यै त्वा शुन्धन्तां लोकाः पितृषदना यवोऽसि यावयास्मद् द्वेषं यावयारातिं पितृषदनं त्वा लोकमास्तृणाम्युद् द्याँ स्तभानान्तरिक्षं पृण दृँहस्व पृथिव्यां नितानस्त्वा मारुतो निहन्तु मित्रावरुणयोर्ध्रुवेण धर्मणा ।। ब्रह्मवनिं त्वा क्षत्रवनिं देववनि सजातवनिं रायस्पोषवनिं पर्यूहामि ब्रह्म दृँह क्षत्रं दृँह प्रजां दृँह रायस्पोषं दृँह घृतेन द्यावापृथिवी आपृणेथां विश्वजनस्य च्छायासीन्द्रस्य स्यूरसीन्द्रस्य धुवोऽस्यैन्द्रमसीन्द्राय त्वा ।।
परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतः ।
वृद्धायुमनु वृद्धयो जुष्टा भवन्तु जुष्टय: ।। १२ ।।

विभूरसि प्रवाहणो वह्निरसि हव्यवाहनश्श्वात्रोऽसि प्रचेतास्तुथोऽसि विश्ववेदा उशिगसि कविरङ्घारिरसि बम्भारिरवस्युरसि दुवस्वाञ्छुन्ध्युरसि मार्जालीयस्सम्राडसि कृशानुः परिषद्योऽस्यास्तव्यो नभोऽसि प्रतक्वासंमष्टोऽसि हव्यसूदन ऋतधामासि स्वर्ज्योतिस्समुद्रोऽसि विश्वव्यचा अजोस्यैकपादहिरसि बुध्न्यः कव्योऽसि कव्यवाहनो रौद्रेणानीकेन पाहि माग्ने पिपृहि माग्ने नमस्ते अस्तु मा मा हिंसीः ।। १३ ।।

अग्निर्वृत्राणि जङ्घनद् द्रविणस्युर्विपन्यया । समिद्धश्शुक्र आहुतः ।।
त्वँ सोमासि सत्पतिस्त्वं राजोत वृत्रहा । त्वं भद्र असि क्रतुः ।।
अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि । स इद्देवेषु गच्छति ।।
त्वं नस्सोम विश्वतो रक्षा राजनन्घायतः । न रिष्येत्त्वावतस्सखा ।।
स त्वं विप्राय दाशुषे रयिं देहि सहस्रिणम् । अग्ने वीरवतीमिषम् ।।
वृषा सोम द्युमाँ असि वृषा देव वृषव्रतः । वृषा धर्माणि दधिषे ।।।
आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसम् । मार्डीकं धेहि जीवसे ।।।
गयस्फानो अमीवहा वसुवित् पुष्टिवर्धनः । सुमित्रस्सोम नो भव ।।
त्वमग्ने सप्रथा असि जुष्टो होता वरेण्यः । त्वया यज्ञं वितन्वते ।।
त्वँ सोम महे भगं त्वं यून ऋतायते । दक्षं ददासि जीवसे ।।
अग्ने रक्षा णो अँहसः प्रति ष्म देव रीषतः । तपिष्टैरजरो दह ।।
अग्ने नक्षत्रमजरमा सूर्यं रोहयो दिवि । दधज्ज्योतिर्जनेभ्यः ।।
आदित् प्रत्नस्य रेतसो ज्योतिष्पश्यन्ति वासरम् । परो यदिध्यते दिवा ॥
अग्निः प्रत्नेन मन्मना स्तम्भानस्तन्वँ स्वाम् । कविर्विप्रेण वावृधे ।।
सोम यास्ते मयोभुव ऊतयस्सन्ति दाशुषे । ताभिर्नोऽविता भव ॥
अप्स्वग्ने ।।
अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा। अग्निं च विश्वशम्भुवम् ।।
अग्नी रक्षॉँसि सेधति शुक्रशोचिरमर्त्यः । शुचिष्पावक ईड्यः ॥
एह्यू षु ब्रवाणि तेऽग्न इत्थेतरा गिरः । एभिर्वर्धास इन्दुभिः ।।
इमं यज्ञमिदं वचो जुजुषाण उपागहि । सोम त्वं नो वृधे भव ।।
उदग्ने शुचयस्तव ।।
न्यग्निं जातवेदसँ होत्रवाहं यविष्ठ्यम् । दधाता देवमत्विजम् ॥
अग्निमीडे पुरोहितं यज्ञस्य देवमृत्विजम् । होतारं रत्नधातमम् ।।
सोम गीर्भिष्ट्वा वयं वर्धयामो वचोविदः । सुमृडीको नः आविश ।। १४ ॥

जुष्टो दमूना अतिथिर्दुरोण इमं नो यज्ञमुपयाहि विद्वान् ।
विश्वा अग्ने अभियुजो विहत्या शत्रूयतामाभरा भोजनानि ।।
अग्ने शर्ध महते सौभगाय तव द्युम्नान्युत्तमानि सन्तु ।
सं जास्पत्यै सुयममाकृणुष्व शत्रूयतामभितिष्ठा महाँसि ।।
सँ समिद्युवसे वृषन्नग्ने विश्वान्यर्य आ । ईडस्पदे समिध्यसे स नो वसून्याभर ॥
सखायस्सं वस्सम्यञ्चमिषं स्तोमं चाग्नये । वार्षिष्ठाय क्षितीनामूर्जो नप्त्रे सहस्वते ॥
अग्निस्तुविश्रवस्तमं तुविब्रह्माणमुत्तमम् । अतूर्तँ श्रावयत् पतिं पुत्रं ददाति दाशुषे ।।
अग्निर्ददाति सत्पतिं सासाह यो युधा नृभिः ।
अग्निरत्यं रघुष्यदं जेतारमपराजितम् ।।
प्रेद्धो अग्न इमो अग्ने ।
उत नो ब्रह्मन्नविष उक्थेषु देवहूतमः । शं नः शोचा मरुद्वृधोऽग्ने सहस्रसातमः ॥
नू नो रास्व सहस्रवत् तोकवत् पुष्टिमद्वसु । द्युमदग्ने सुवीर्यं वर्षिष्ठमनुपक्षितम् ॥
त्वां चित्रश्रवस्तमं त्वामग्ने हविष्मन्तो वि पाजसा ।।
भवा नो अग्नेऽवितोत गोपा भवा वयस्कृदुत नो वयोधाः ।
रास्वा च नस्सुमहो हव्यदातिं त्रास्वोत नस्तन्वो अप्रयुच्छन् ।।
हव्यवाहमभिमातिषाहं रक्षोहणं पृतनासु जिष्णुम् ।
ज्योतिष्मन्तं दीद्यतं पुरंधिमग्निं स्विष्टकृतमाहुवेम ॥
स्विष्टमग्ने अभि तद्गृणीहि विश्वाश्च देव पृतना अभिष्याः ।
सुगं नु पन्थां प्रदिशन् विभाहि ज्योतिष्मद्धेह्यजरं न आयुः ॥
 सोमस्य मा तवसं वक्ष्यग्ने वह्निं चकर्थ विदथे यजध्यै ।
देवी अच्छा दीद्यद्युञ्जे अद्रिं शमाये अग्ने तन्वं जुषस्व ।।
श्रीणामुदारः ।।
यच्चिद्धि ते पुरुषत्रा यविष्ठाचित्तिभिश्चकृमा कच्चिदागः ।
कृधी ष्वस्मा अदितेरनागान्व्येनँसि शिश्रथो विश्वगगन्ने ।।
महश्चिदग्न एनसो अभीक ऊर्वाद्देवानामुत मर्त्यानाम् ।
मा ते सखायस्सदमिद्रिषाम यच्छा तोकाय तनयाय शं योः ॥
यं त्वा देवापिः शुशुचानो अग्न आर्ष्टिषेनो मनुष्यस्समीधे ।
विश्वेभिर्देवैरनुमद्यमानः प्र पर्जन्यमीरया वृष्टिमन्तम् ।।
अग्ने बाधस्व वि मृधो वि दुर्गहापामीवामप रक्षाँसि सेध ।
अस्मात् समुद्राद्बृहतो दिवो नोऽपां भूमानमुप नस्सृजेह ॥
यथा ह त्यद्वसवो गौर्यं चित्पदि पिताममुञ्चता यजत्राः ।
एवो ष्वस्मन्मुञ्चता व्यँहः प्र तार्यग्ने प्रतरं न आयुः ।।
त्रीण्यायूँषि तव जातवेदस्तिस्र आजानीरुषसस्ते अग्ने ।
ताभिर्देवानामवो यक्षि विद्वानथा भव यजमानाय शं योः ।।
पिप्रीहि देवाँ उशतो यविष्ठ विद्वाँ ऋतूनृतुपते यजेह ।
ये दैव्या ऋत्विजस्तेभिरग्ने त्वं होतॄणामस्यायजिष्ठः ।।
आ देवानामपि पन्थामगन्म यच्छक्नवाम तदनु प्रवोढुम् ।
अग्निर्विद्वान् सं यजात्सेदु होता सो अध्वरान् स ऋतून् कल्पयाति ।।
वि ज्योतिषा बृहता भात्यग्निराविर्विश्वानि कृणुते महित्वा ।।
प्रादेवीर्मायास्सहते दुरेवाः शिशीते शृङ्गे रक्षसे विनक्षे ॥
साध्वीमकर्देवहूतिं नो अद्य यज्ञस्य जिह्वामविदाम गुह्याम् ।
स आयुरागात् सुरभिर्वसानो महीमकर्द्युम्नहूतिं नो अद्य ।।
अग्निर्होता न्यसीदद्यजीयानुपस्थे मातुस्सुरभा उ लोके ।
युवा कविः पुरुनिष्ठा ऋतावा धर्ता कृष्टीनामुत् मध्य इद्धः ।।
अग्निं दूतं पुरोदधे हव्यवाहमुपब्रुवे । देवाँ आसादयादिह ।।
अग्निर्होता पुरोहितोऽध्वरस्य विचर्षणिः । स वेद यज्ञमानुषक् ।। १५ । ।


इति श्रीयजुषि काठके चरकशाखायामिठिमिकायामध्वरं नाम द्वितीयं स्थानकं संपूर्णम् ॥ २ ॥