कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्/प्रश्नः ११

विकिस्रोतः तः
← प्रश्नः १० कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्
प्रश्नः ११
हिरण्यकेशिः/सत्याषाढः
प्रश्नः १२ →

11.1
अग्निं व्याख्यास्यामः ।। १ ।।
स उत्तरक्रत्वर्थः । अन्यत्र साद्यस्क्रेभ्यो वाजपेयात्षोडशिनः सारस्वताच्च सत्रात् । अग्निशिनस्तोमो यथोपदिष्टं वा । रात्रिसत्रेषु समहाव्रतेष्वश्रवणार्था पुनश्चितिः ।। २ ।।
अपि वा धार्यमाणेऽग्नौ प्रजापतिस्त्वा सादयतु तया देवतयाऽङ्गिरस्वद्ध्रुवा सीदेत्यन्तर्वेदिमभिमृशेत् । तिस्रो वा स्वयमातृण्णा उपधाय तासामुपधानकल्पः स्वयमातृण्णा साम पुरीषं विश्वज्योतिः । एवं विहिता द्वितीया पुरीषा तृतीया ।। ३ ।।
अपि वा तिस्रश्च स्वयमातृण्णाः सर्वाश्च विश्वज्योतिषस्तासामुपधानकल्पः स्वयमातृण्णा साम पुरीषं विश्वज्योतिरेवं विहिता द्वितीया तृतीयस्यां तु विश्वज्योतिः प्रथमा । अथ पुरीषम् । अथ स्वयमातृण्णाम् । अथ साम ।। ४ ।।
तं चेष्यमाणोऽमावास्यायां पौर्णमास्यामापूर्यमाणपक्षे वा पुण्ये नक्षत्र ऋत्विजो वृत्वा ।। ५ ।।
बृहस्पतिपुरोहिता देवानां देवाः प्रथमजा देवा देवेषु पराक्रमध्वं प्रथमा द्वितीयेषु द्वितीयास्तृतीयेषु त्रिरेकादशास्त्रयस्त्रिꣳशा अनु व आरभ इदꣳ शकेयं यदिदं करोमि स्वाहेत्याहुतिं जुहोति ।। ६ ।।
जुहूꣳ स्रुवं च संमृज्य चतुर्गृहीतमाज्यमष्टगृहीतं वा गृहीत्वा युञ्जानः प्रथमं मन इति यजुरष्टमा भिर्ऋग्भिरन्तर्वेद्यूर्ध्वस्तिष्ठन्सावित्राण्येकामाहुतिं जुहोति ।। ७ ।।
यं कामयेत पापीयान्त्स्यादित्येकैकं तस्य जुहुयात् । यं कामयेत वसीयान्त्स्यादिति सर्वाणि तस्यानुद्रुत्य जुहुयात् ।। ८ ।।
यदि कामयेत च्छन्दाꣳसि यज्ञयशसेनार्पयेयमित्यृमन्तिमां कुर्यात् । यदि कामयेत यजमानं यज्ञयशसेनार्पयेयमिति यजुरन्तिमं कुर्यात् ।। ९ ।।
ऋचा स्तोमꣳ समर्धयेति चतुर्गृहीतेनोत्तराम् ।। ११.१.१० ।।
देवस्य त्वेति चतुर्भिरभ्रिमादत्ते ।। (ख० १) ।। खादिरीं वैणवीं चा कल्माषींꣳसुषिरामसुषिरां वोभयतः क्ष्णू तामन्यतरतः क्ष्णू तां वा पालाशी- मौदुम्बरीमर्कमयीꣳ शमीमयीं वा । यो वा कश्चन वृक्षः फलग्रहिस्तस्य मुष्टिमात्रीं प्रादेशमात्रीमरत्निमात्रीं बाहुमात्रीं व्याममात्रीमपरिमितां वा ।। ११ ।।
इमामगृभ्णन्रशनामृतस्येत्यश्वाभिधानीमादाय प्रतूर्तं वाजिन्नाद्रवेत्यश्वमभिदधाति ।। १२ ।।
तूष्णीं गर्दभस्याऽऽदाय युञ्जाथाꣳ रासभं युवमिति गर्दभम् ।। ।। १३।।
योगे योगे तवस्तरमिति तिसृभिरश्वप्रथमाः प्राञ्चो गच्छन्ति यत्र मृदं खनिष्यन्तो भवन्ति ।। १४ ।।
अग्निं पुरीष्यमङिरस्वदच्छेहीति येन द्वेष्येण संगच्छेत तमभिमन्त्रयेतापश्यन्निर्दिशति ।। १५ ।।
अग्निं पुरीष्यमङ्गिरस्वदच्छेम इति वा ।। १६ । ।
सूर्यस्योदयनं प्रति वल्मीकवपामुपतिष्ठतेऽग्निं पुरीष्यमङ्गिरस्वद्भरिष्याम इति ।। १७ ।।
अत्रैके समामनन्ति ( अग्निं पुरीष्यमङ्गिरस्वद्भरामः) ।। १८ ।।
अन्वग्निरुषसामग्रमख्यदिति वल्मीकवपायाः प्रक्रामति ।। १९ ।।
आगत्य वाज्यध्वन आक्रम्य वाजिन्पृथिवीमिति द्वाभ्यां मृत्खनमश्वमाक्रमयति ।। ११.१.२० ।।
द्यौस्ते पृष्ठमित्यश्वस्य पृष्ठꣳ संमार्ष्टि ।। २१ ।।
अभितिष्ठ पृतन्यतोऽधरे सन्तु शत्रवः । इन्द्र इव वृत्रहा तिष्ठापः क्षेत्राणि संजयन्निति यं द्वेष्टि तमधस्पदमश्वस्य मनसा ध्यायति ।। २२ ।।
उत्क्रामोदक्रमीदिति द्वाभ्यां मृत्खनादश्वमुत्क्रमयन्ति ।। २३ ।।
अपो देवीरुपसृजेत्यश्वस्य पदेऽप उपसृजति ।।२४ ।।
तस्मिन्हिरण्यं निधाय जिघर्म्यग्निमा त्वा जिघर्मीति मनस्वतीभ्यामेकामाहुतिं जुहोति ।। २५ ।।
अपादाप हिरण्यं परिवाजपतिरिति तिसृभिरभ्रया मृत्खंनं परिलिखति (बाह्यां वर्षीयसीम्) ।। २६ ।।
देवस्य त्वेति द्वाभ्यां खनति ।। २७ ।।
अपां पृष्ठमसीति पुष्करपर्णमाहरति । एतयैव विवेष्टयति । उपरिष्टात्कृष्णाजिनमुत्तरेण मृत्खनꣳ शर्म च स्थो वर्म च स्थ इति । । (ख० २) ।। द्वाभ्यां प्राचीनग्रीवमुत्तरलोमऽऽस्तृणात्युत्तरं पुष्करपर्णमधस्ताद्दण्डमुत्तानम् ।। २८ ।।
पुरीष्योऽसि विश्वभरा इति मृदमभिमृश्य ।।२९।।
कृष्णाजिनं पुष्करपर्णे च संभरति त्वामग्रे पुष्करादधीति तिसृभिर्गायत्रीभिर्ब्राह्मणस्य । उत्तराभिस्त्रिष्टुग्भी राजन्यस्य जगतीभिर्वैश्यस्य ।।११.१.३०।।
यं कामयेत वसीयान्त्स्यादित्युभयीभिस्तस्य संभरेत् । गायत्रीभिश्च त्रिष्टुग्भिश्च ।। ३१ ।।
जनिष्वा हि जेन्य इति संभृतामभिमन्त्रयते ३२ ।।
सं ते वायुर्मातरिश्वा दधात्विति मृत्खनेऽप उपसृजति ।।३३ ।।
संलोभ्य मृत्खनꣳ समुद्गृह्य कृष्णाजिनस्यान्तान्सुजातो ज्योतिषा सहेति मौञ्जेनार्कमयेण वा त्रिवृता दाम्नोपनह्यति ।। ३४ ।।
उदु तिष्ठ स्वध्वरेति द्वाभ्यामुत्तिष्ठति ।। ३५ ।।
सजातो गर्भो असि रोदस्योरिति हरति ।। ३६ ।।
स्थिरो भव वीड्वङ्ग इति गर्दभस्य पृष्ठ आसादयति ।। ३७ ।।
प्रैतु वाजी कनिक्रदरिति तिसृभिरत्वरमाणा अश्वप्रथमाः प्रत्यायन्ति ।। ३९ ।।
अग्निं पुरीष्यमङ्गिरस्वद्भराम इति येन द्वेष्येण संगच्छेत तमभिमन्त्रयेतापश्यन्निर्दिशति ।। ११.१.४० ।।
उत्तरेण विहारं परिश्रित ओषधयः प्रतिगृह्णीताग्निमेतु
मिति द्वाभ्यामोषधीषु पुष्पवतीषु फलवतीषूपावहरति ।। ४१ ।।
वि पाजसेति विस्रꣳसयति ।। ४२ ।।
मित्रः सꣳसृज्य पृथिवीमिति द्वाभ्यां सꣳसर्जनीयैः सꣳसृजति ।। (ख०३)।। अर्मकपालैर्वेण्वङ्गारैर्व्रीहितुषैः पलाशकषायैश्च शर्कराभिः पिष्टाभिः कृष्णाजिनलोमभिरजलोमभिर्यच्चान्यद्दृढार्थमुपार्धं मन्यते ।। ४४ ।।
मखस्य शिरोऽसीति पिण्डं करोति ।। ४५ ।।
यज्ञस्य पदे स्थ इति कृष्णाजिनं पुष्करपर्णं चाभिमन्त्रयते ।।४६।।
रुद्राः संभृत्य पृथिवीमिति चतसृभिः पिण्डान्प्रयच्छति ।। ४७ ।।
वसवस्त्वा कृण्वन्त्विति चतुर्भिश्छदोभिर्महिष्युखां करोति बहुभार्यस्य ।। ४८ ।।
अध्वर्युरेकभार्यस्य ।। ४९ ।।
एतैरेव यजुर्भिर्यजमानः क्रियमाणामभिमन्त्रयते ।। ११.१.५० ।।
त्र्युद्धिं पञ्चोद्धिं वा करोति।। ५१ ।।
प्रादेशमात्रीमूर्ध्वप्रमाणेनारत्निमात्रीं तिर्यक्प्रमाणेन व्यायाममात्रीꣳ समन्तपरिमाणेनापरिमि तां वा कुर्वꣳश्चतस्रोऽश्रीः प्रतिदिशमुन्नयति ।। ५२ ।।
परिमण्डलां वा करोति ।। ५३ ।।
नवाश्रिमभिचरतः कुर्यात् ।। ५४ ।।
अदित्यै रास्नाऽसीति मध्यदेश उपबिलं वा रास्नां करोति ।। .५५ ।।
अश्रीणां रास्नायाश्च संधौ द्वौ चतुरः षडष्टौ वा स्तनान्करोति ।। ५६ ।।
अदितिस्ते बिलं गृह्णात्विति बिलं करोति ।। ५७ ।।
कृत्वाय सा महीमुखामित्युत्तरतः सिकतासु प्रतिष्ठापयति।। ५८ ।।
तस्या एव मृदोऽषाढामिष्टकां त्र्यालिखितां तूष्णीं चतुरश्रां करोति ।। ५९ ।।
गार्हपत्येऽश्वशकृत्युपसमाधाय वसवस्त्वा धूपयन्त्विति सप्तभिश्छन्दोऽभिरुखामश्वशकैर्धूपयति ।।(ख०४)।। ११.१.६० ।।
अदितिस्त्वा देवीरित्यग्रेण गार्हपत्यमवटं खात्वा लोहितपचनैः संभारैरवस्तीर्य देवानां त्वां पत्नीरिति तस्मिन्नुखामवदधाति ।। ६१ ।।
तूष्णीमषाढामन्ववधाय लोहितपचनीयैः संभारैः प्रच्छाद्य धिषणास्त्वा देवीरिति षड्भिर्गार्हपत्यात्पचति ।। ६२ ।।
मित्रस्य चर्षणीधृत इति पच्यमानां मैत्रियोपचरति ।। ६३ ।।
देवस्त्वा सवितोद्वपत्विति पक्वामुद्वपति ।। ६४ ।।
अपद्यमाना पृथिव्याशा दिश आ पृणेत्युत्तरतः सिकतासु प्रतिष्ठापयति ।। ६५ ।।
मित्रैतामुखां परिददाम्यभित्या एषा मा भेदीति मित्राय परिदाय वसवस्त्वा छृन्दन्त्विति चतुर्भिश्छन्दोभिरुखामजाक्षीरेणाऽऽच्छृणत्ति ।। ६६ ।।
सप्तैकविꣳशतिं चतुर्विँशतिं वा माषानादाय पुरुषशिरोऽच्छैति राजन्यस्य वैश्यस्य वेषुहतस्याशनिहतस्य वा । पुꣳसो माषानुपन्युप्य ।। ६७ ।।
अयं योऽसि यस्य त इदꣳ शिर इति पुरुषशिरः प्रच्छिद्यैतेन त्वमत्र शीर्षण्वानेधीति सप्तधा वितृण्णां वल्मीकवपां शिरसः स्थाने प्रतिनिदधाति ।। ६८ ।।
योऽस्य कौष्ठ्य जगतः पार्थिवस्यैक इद्वशी । यमं भङ्ग्यश्रवो यो राजाऽनपरोध्यः । येनाऽऽपो नद्यो धन्वानि येन द्यौः पृथिवी दृढा । हिरण्यकक्ष्यान्सुधुराहिरण्याक्षानयः शफान् । अश्वाननश्यतो दानं यमो राजाऽभितिष्ठतीति तिसृभिर्यमगाथाभिः परिगायति ।। ६९ ।।
आहरञ्जपतीत्येके ।। ११.१.७० ।।
इदमस्माकं भुजे भोगाय भूयादिति पुरुषशिर आदत्ते।। ७१ ।।
उदेह्यग्ने अधि मातुः पृथिव्या इत्याहरति ।। ७२ ।।
परि त्रिविष्ट्यध्वरं यात्यग्नी रथीरिव । आ देवेषु प्र यो दधत् । परि वाजपतिः कविरित्येषा । परिप्रागाद्देवो अग्नी रक्षोहामीवचातनः । सेधन्विश्वा अपद्विषो दहन्रक्षाꣳसि विश्वहेति तिसृभिः पर्यग्नि करोति । मृदा प्रलिप्य निदधाति ।। (ख०५) ।। ७३ ।।
इति सत्याषाढहिरण्यकेशिसूत्र एकादशप्रश्ने प्रथमः पटलः ।। १ ।।

11.2
अथैकादशप्रश्ने द्वितीयः पटलः ।
अग्निभ्यः कामाय पशूनालभते । अश्वमृषभं वृष्णिबस्तं प्राजापत्यमजं तूपरं मुष्करा भवन्ति ।। १ ।।
एकविꣳशतिं चतुर्विꣳशतिं वा सामिधेनीः पराचीरन्वाहैकादश प्राकृतीरनूच्य समास्त्वाऽग्न ऋतवो वर्धयन्त्विति दशाऽऽग्निकीरन्वाहोपेमसृक्षि वाजयुर्वचस्यां च नो दधीत नाद्यो गिरो मे । अपांनपादाशुहेमा कुवित्स सुपेशसस्करति जोषिषद्धि । अपांनपादाह्यस्थादुपस्थं जिह्मानामूर्ध्वः स्वयशा उपस्थे । उभे अभि प्रियतमे सधस्थे आ च परा च चरति प्रजानन्निति तिस्रोऽप्सु मतीर्यदि चतुर्विꣳतिर्भवन्ति ।। २ ।।
अमुत्र भूयादध यद्यमस्येत्यामयाविनः कुर्यात् ।। ३ ।।
बृहस्पते सवितर्बोधयैनमित्यनामयाविनः ।। ४ ।।
राये अग्ने महे त्वा दानाय समिधीमहि । ईडिष्वा हि मही(हे)वृषन्द्यावा होत्राय पृथिवीम् । उद्वयं तमसस्परीति ज्योतिष्मत्या परिदधाति ।। ५ ।।
हिरण्यगर्भः समवर्तताग्र इति स्रुच्यमाघारयति ।। ६ ।।
ऊर्ध्वा अस्य समिधो भवन्तीति प्रयाजानामाप्रियो भवन्ति ।। ७ ।।
आग्नेयीस्त्रिष्टुभ आग्नेयानां याज्यानुवाक्या भवन्ति ।। ८ ।।
यः प्राणत इति प्राजापत्यस्य ।। ९ ।।
वैश्वानरः प्राजापत्यो वा द्वादशकपालः पशुपुरोडाशो भवति ।। ११.२.१० ।।
सिद्धꣳ संतिष्ठते ।।११।।
अपि वाऽऽग्नेयान्पर्यग्निकृतानुत्सृज्य तेषाꣳ शिराꣳसि प्रच्छिद्य मृदा प्रलिप्य निदधाति ।। १२ ।।
अपः कबन्धान्यभ्यवहरति ।। १३ ।।
प्राजापत्येन सꣳस्थापयति । । १४ । ।
अपि वैतेषाꣳ सर्वेषाꣳ स्थाने वायवे नियुत्वते श्वेतमजं तूपरमालभेत ।। १५ ।।
तस्य प्राजापत्येन कल्पो व्याख्यातः।। १६ ।।
वायुमती श्वेतवती वपाया याज्यानुवाक्ये भवतः ।। १७ ।।
वायुमती नियुत्वती पशोर्दैवतस्य वैश्वानरः प्राजा पत्यो वा द्वादशकपालः पुरोडाशो भवति ।। १८।।
सिद्धꣳ संतिष्ठते ।। १९ ।।
मृदा प्रलिप्य वायव्यस्य शिरो निदधाति ।। (ख०६) ।। ११.२.२० ।।
इति सत्याषाढहिरण्यकेशिसूत्र एकादशप्रश्ने द्वितीयः पटलः ।। २ ।।

11.3
अथैकादशप्रश्ने तृतीयः पटलः ।
यत्प्राग्दीक्षणीयायास्तत्कृत्वा द्विहविषं त्रिहविषं वा दीक्षणीयामिष्टिं निर्वपति । आग्नावैष्णवमेकादशकपालमाग्नावैष्णवं वा घृते चरुमादित्यं च घृते चरुं वैश्वानरं द्वादशकपालं पुरस्तात्तृतीयमसंवत्सरभृतः ।। १ ।।
दीक्षाहुतिकाल आकूत्यै प्रयुजेऽग्नये स्वाहेति पञ्चाऽऽध्वरिकीर्हुत्वाऽऽकूतिमग्निमिति
षडाग्निकीर्जुहोति । विश्वेदेवस्य नेतुरिति सप्तमीम् ।। २ ।।
यत्प्राङ्मुष्टिकरणात्तत्कृत्वा शणकुलायेन मुञ्ज कुलायेन वोखामुपस्तीर्य मा सु भित्था मा सु रिष इति द्वाभ्यामाहवनीयाङ्गारेषूखां प्रवृणक्ति ।। ३ ।।
मित्रैतामुखां तपेत्यङ्गारैः परितपति ।। ४ ।।
द्रवन्न इति तस्यां क्रमुकमुल्लिखितं घृतेनाङ्क्त्वाऽवदधाति ।। ५ ।।
मुञ्जाꣳश्च ।। ६ ।।
यो भूतिकामः स्याद्य उखायै संभवेत्स एव तस्य स्यान्मथित्वा गतश्रियोऽवदध्यात् ।। ७ ।।
यं कामयेत भ्रातृव्यमस्मै जनयेयमित्यन्यतस्तस्याऽऽहृत्यावदध्यात् ।। ८ ।।
अम्बरीषादन्नकामस्य ।। ९ ।।
प्रदाव्यादाहरेद्यं कामयेत शूरो मे राष्ट्र आजायेतेति ।।११.३.१० ।।
वृक्षाग्राज्ज्वलतो ब्रह्मवर्चसकामस्य ।। ११ ।।
भर्जनादन्नकामस्य ।। १२. ।।
काम्यमग्निं कुर्वाणो नाऽऽहवनीयेऽनुप्रवृञ्ज्यात् ।।१३ ।।
जात उख्येऽनुगमयत्याहवनीयम् ।। १४ ।।
परस्या अधि संवत इत्यौदुम्बरीꣳ समिधमादधाति। परमस्याः परावत इति वैकङ्कतीम् । ताꣳ सवितुर्वरेण्यस्य चित्रामिति शमीमयीम् ।। १५ ।।
शमीमयीं पूर्वामेके समामनन्ति । वैकङ्कतीमुत्तराम् ।। १६ ।।
सीद त्वं मातुरस्या उपस्थ इति तिसृभिर्जातमुख्यमुपतिष्ठते ।। १७ ।।
यदग्ने यानि कानि चेति पञ्चभिरपरषुवृक्णमौदुम्बरमिध्ममभ्यादधाति ।। १८ ।।
तैल्वकमभिचरतः कुर्याद्ग्राहुका हैनꣳ समाꣳस्तेना भवन्ति ( इति) ।। १९ ।।
दꣳष्ट्राभ्यां मलिम्लूनित्याश्वत्थीं समिधमादधाति । ये जनेषु मलिम्लव इति वैकङ्कतीम् ।। यो अस्मभ्यमरातीयादिति शमीमयीम् । ता आदधद्यं द्वेष्टि तस्य वधं मनसा ध्यायति ।। ११.३.२० ।। २१ ।।
सꣳक्षितं मे ब्रह्मोदेषां वा अतिरमित्युत्तमे औदुम्बर्यां समिधावादधाति ।। २२ ।।
अथ यजमानं वाचयति ।। (ख० ७) ।। २३ ।।
ब्रह्म क्षत्त्रꣳ सयुजा नह्यथ ते ब्रह्मा ह क्षत्त्रं जिन्वति क्षत्त्रियस्य क्षत्त्रं ब्रह्म जिन्वति ब्राह्मणस्य यत्समीची कृण्वतो वीर्याणीति जपति ।। २४ ।।
मातेव पुत्रं पृथिवी पुरीष्यमग्निꣳ स्वे योनौ भरिष्यत्युखा । तां विश्वैर्देवैर्ऋतुभिः संविदानः प्रजापतिर्विश्वकर्मा युनक्त्विति मौञ्जे शिक्ये षडुद्यामे हादशोद्यामे वोखामवदधाति ।। २५ ।।
अग्ने युक्ष्वा हि ये तवेति वैताभ्यामेकविꣳतिनिर्बाधो रुक्यः सूत्रोतस्तमन्तर्वेद्यासीनो दृशानो रुक्म इति बहिष्ठनिर्बाधं यजमानो विपर्यस्य प्रति मुञ्चतेऽधस्तान्निर्बाधꣳ सादयति ।।२६ ।।
नक्तोषासेति कृष्णाजिनं प्रतिमुञ्चते ।। २७ ।।
विश्वा रूपाणीति शिक्यपाशान् ।। २८ ।।
अपि वा शिक्यं प्रतिमुच्य कृष्णाजिनं प्रतिमुञ्चते ।। २९ ।।
सुपर्णोऽसि गरुत्मानित्युख्यमवेक्षते ।। ११.३.३० ।।
सुपर्णोऽसि गरुत्मान्दिवं गच्छेत्युद्यच्छते ।। ३१ ।।
ऊर्ध्वं नाभेर्धारयमाणो विष्णोः क्रमोऽसीति चतुरो विष्णुक्रमान् (प्राचः) क्रामति ।। ३२ ।।
अक्रन्ददग्निरित्युख्यमभिमन्त्रयते ।। ३३ ।।
अग्नेऽभ्यावर्तिन्निति चतसृभिः प्रदक्षिणमावर्तते ।। ३४ ।।
आ त्वाऽहार्षमित्याहृत्योपतिष्ठते यं कामयेत राष्ट्रꣳस्यादिति तं मनसा ध्यायेद्विशस्त्वा सर्वा वाञ्छन्त्विति ।। ३५ ।।
उदुत्तममिति शिक्यपाशमुन्मुञ्चते ।। ३६ ।।
अग्रे बृहन्नुषसामूर्ध्वो अस्थादित्युन्मुच्योपतिष्ठते ।। ३७ ।।
औदुम्वर्यासन्द्यरत्निमात्र शीर्षण्वाऽनूच्य प्रादेशमात्रपादा मौञ्जविवाना फलकास्तीर्णा वा मृदा प्रदिग्धा सीद त्वं मातुरस्या उपस्थ इति तस्यां चतसृभिरुख्यं सादयति ।।. ३८ ।।
शर्करायां वा ।। ३९ ।।
हꣳसवत्योपतिष्ठत इत्येके समामनन्ति ।। (ख० ८) ।। ११.३.४० । ।
इति सत्याषाढहिण्यकेशिसूत्र एकादशप्रश्ने तृतीयः पटलः ।

11.4
अथैकादशप्रश्ने चतुर्थः पटलः ।
मुष्टिकरणप्रभृतीनि कर्माणि प्रतिपद्यते ।।१ ।।
येन देवा ज्योतिषोर्ध्वा उदायन्निति प्रादेशमात्रैः काष्ठैरुख्यमुपसमिन्धे ।। २ ।।
सदा ज्वलति ।। ३ ।।
अन्नपतेऽन्नं नो देहीति व्रतयिष्यन्नौदुम्बरीꣳ समिधं व्रते सत्रज्योख्येऽभ्यादधाति ।। ४ ।।
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां गायत्रेण च्छन्दसा रात्रिमिष्टकामुपदधे तया देवतयाऽङ्गिरस्वद्ध्रुवा सीदेति सायमुख्यमुपतिष्ठते ।। ५ ।।
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां गायत्रेण च्छन्दसाऽहरिष्टकामुपदधे तया देवतयाऽङ्गिरस्वद्ध्रुवा सीदेति प्रातः ।। ६ ।।
श्वोभूते दिवस्परि प्रथमं जज्ञे अग्निरित्येकादशभिर्वात्सप्रेणोपतिष्ठते ।।. ७।।
एवꣳ सदाऽऽक्रयणात् ।। ८ ।।
पूर्वेद्युर्विष्णुक्रमान्क्रामति । उत्तरेद्युरुपतिष्ठते वात्सप्रेणेति ।। ९ ।।
यदहरग्निं चेष्यमाणः स्यात्तदहरुभयꣳ समस्येत् । प्रचक्रामेदुपतिष्ठेत ।। ११.४.१० ।।
यद्युख्ये भ्रियमाणेऽयं देवः प्रजा अभिमन्येत भिषङ्नो अग्न आवह । स्वꣳ रूपं कृष्णवर्त्मनो असि होता न ईड्यः । त्वं नो अग्ने भिषग्भव देवेषु हव्यवाहनः । देवेभ्यो हव्यवाडसि । भिषजस्त्वा हवामहे भिषजः समिधीमहि । भिषग्देवेषु नो भवेत्येताभिस्तिसृभिस्तिस्रः समिध आदध्पात् ।। ११ ।।
यद्युख्ये म्रियमाणे कामयेत वर्षेदिति सूर्यो अपो विगाहते रश्मिभिर्वाजसा तमः । बोधा स्तोत्रे वयो वृधः ।। परि यो रश्मिना दिवोन्तान्ममे पृथिव्याः । उभे आपप्र रोदसी महित्वा ।। वहि ष्ठेभिर्विहरन्यासि तन्तुमवव्ययन्नसि तं देव वस्वः । दविध्वतो रश्मयः सूर्यस्य चर्मेवावाधुस्तमो अभवन्तरित्येताभिस्तिसृभिस्तिस्रः समिध आदध्यात् ।। ११ ।।
यद्युख्ये भ्रियमाणे कामयेत न वर्षेदित्यदृश्रमस्य केतवो वि रश्मयो जनाꣳ अनु । भ्राजन्तो अग्नयो यथा ।। तरणिर्विश्वदर्शत इत्येषा ।। दिवो रुक्म उरुचक्षा उदेति दूरे अर्थस्तरणिर्भ्राजमानः । नूनं जनाः सूर्येण प्रसूता आयन्नर्थानि कृण्वन्नपा- ꣳसीत्येताभिस्तिस्रः समिध आदध्यात् ।। १३ ।।
यद्युख्ये भ्रियमाणे किंचिन्नश्येदग्नेऽभ्यावर्तिन्निति .... सृभिरुपतिष्ठते । विन्दत्येवैतदिति विज्ञायते ।। ख० ९) १४ ।।

इति सत्याषाढहिरण्यकेशिसूत्र एकादशप्रश्ने चतुर्थः पटलः ।। ४ ।।

11.5
अथैकादशप्रश्ने पञ्चमः पटलः ।
उदु त्वा विश्वेदेवा इत्युख्यमुद्यच्छते ।। १ ।।
सीद त्वं मातुरस्या उपस्थ इति चतसृभिर्द्वीपे शकट आसादयति ।। २ ।।
तूष्णीमितरान्नग्नी आसाद्य प्रेदग्ने ज्योतिष्मानिति प्रयाति ।। ३ ।।
अक्रन्ददग्निरित्यक्षशब्दमभिमन्त्रयते ।। ४ ।।
अध्यवसायौदुम्बरीꣳ समिधं घृतानुषिक्तामतिथि- वत्योख्येऽभ्यादधाति समिधाऽग्निं दुवस्यतेति गायत्र्या ब्राह्मणस्य । प्र प्रायमग्निरिति त्रिष्टुभा राजन्यस्य । जगत्या वैश्यस्य ।। ५ ।।
इन्धने व्रतनेऽध्यवसाने च सर्वासु संनिपाति तासु घृतानुषिक्तां प्रथमामादधाति ।। ६ ।।
यद्युखां भस्माभिसꣳसीदेदुख्यमादायोदकान्तं गत्वेमꣳ सुयोनिꣳ सुव्रतꣳ हिरण्ययꣳ सहस्रभृष्टिं महिषावरोह । उत्सं जुषस्व मधुमन्तमूर्वं समुद्रियꣳ सदनमाविशस्व । इमꣳ स्तनं मधुमन्तं धयापां( प्रप्यातमग्रे सरिरस्य मध्ये । उत्यं जुषस्व मधुमन्तमूर्व समुद्रियꣳ सदनमाविशस्व) इति द्वाभ्यामुख्यमुपावहरति ।। ७ ।।
आपो देवीः प्रतिगृभ्णीत भस्मैतदिति तिसृभिरप्सु भस्म प्रवेशयति ।। ८ ।।
.भस्मनः प्रत्यादाय प्रसद्य भस्मना योनिमिति द्वाभ्यामुखायां प्रत्यवदधाति ।। ९ ।।
पुनरूर्जा सह रय्येति द्वाभ्यां प्रत्येति ।। ११.५.१० ।।
पुनस्त्वाऽऽदित्या रुद्रा वसवः समिन्धतामित्युपसमिन्धे ।। ११ ।।
बोधा स बोधीति ।। (ख० १०) ।। बोधवतीभ्यामुप तिष्ठते ।। १२ ।।
नित्यमप्सु भस्मप्रवेशनं कृत्वा दीक्षितस्य कृतास्विष्टकासु अकृतास्विष्टकानाँ सꣳसर्गार्थं भवति ।। १३ ।।
पुरीषे पशुकामः कुर्वीत ।। १४ ।।
अप्सु यायावरः प्रवपेत् ।। १५ ।।
तिस्रो रात्रीर्दीक्षितः स्यात् । षड्रात्रीर्दीक्षितः स्यादिति ब्राह्मणव्याख्याताः काम्या दीक्षाकल्पाः, स्तेषां याथाकामी ।। १६ ।।
दीक्षितस्येष्टकाः करोति मासप्रभृतिषु दीक्षाकल्पेषु पुरस्ताददीक्षितस्येतरेषूपरिष्टात्प्राजापत्यात्पशोः ।। १७ ।।
मृन्मयीरिष्टका अविषमाश्चतुरश्रास्तासां तिस्रो मण्डलेष्टका ऋजुलेखा दक्षिणावृतः, सव्यावृत्तश्च त्र्यालिखिताः ।।१८ ।।
निर्मन्थ्येन लौहिनीः पचन्ति ।। १९ ।।
न कृष्णां न लक्ष्मणां न भिन्नां चोपदधाति ।। ११.५.२० ।।
पुष्करपर्णꣳ रुक्मो हिरण्मयः पुरुषः स्रुचौ सप्त स्वयमात्तृण्णाः शर्करा हिरण्येष्टकाः पञ्च घृतेष्टका दूर्वास्तम्बः कूर्म उलूखलं मुसलं शूर्पमश्मानः पशुशिराꣳसि सर्पशिरश्चामृन्मयीरिष्टकाः ।। २१ ।।
यावदग्निमाना मन्त्रा यथार्थं लोकंपृणा जानुदघ्नँ साहस्रं चिन्वीत प्रथमं चिन्वानः । नाभिदघ्नं द्विषाहस्रं द्वितीयम् । आस्यदघ्नं त्रिषाहस्रं तृतीयम् । उत्तरमुत्तरं ज्यायाꣳसम् ।। २२ ।।
महान्तं बृहन्तमपरिमितं स्वर्गकामश्चिन्वीते। वाजसनेयकम् ।। २३ ।।
अपवृत्ते दीक्षापरिमाणेऽपेत वीतेति देवयजनमध्यवस्यति ।। २४।।
उद्धत्य चितेरायतनं व्यायाम मात्रम् ।। ख० ११) ।। त्वतुरश्रं परिमण्डलं वाऽपेत वीतेति हरिण्या पलाशशाखया सꣳसृज्याद्भिरवोक्ष्याग्नेर्भस्मासीति सिकता निवपति ।। २५ ।।
संज्ञानमसि कामधरणमित्यूषान् ।। २६ ।।
तान्निवपत्यददश्चन्द्रमसि कृष्णं तदिहास्त्विति मनसा ध्यायति।।२७।।
सं या वः प्रियास्तनुव इत्यूषान्सिकताश्च सꣳसृज्यानुव्यूहति।।२८।।
चितः स्थ परिचित इत्येकविꣳशत्या शर्कराभिर्गार्हपत्याचितेरायतनं परिश्रयति ।। २९ ।।
तिस्रस्तिस्रः सꣳहिताः करोति ।।११.५.३०।।
अयꣳ सो अग्निरिति चतसृभिर्गार्हपत्य चितौ चतस्रः प्राचीरिष्टका उपदधाति ।। ३१ ।।
इडामग्नेऽयं ते योनिर्ऋत्विय इति द्वे पुरस्तादूर्ध्वसꣳहिते चिदसि परि चिदसीति द्वे पश्चादूर्ध्व सꣳहिते लोकं पृण छिद्रं पृणेत्यवशिष्टं त्रयोदशभिर्लोकंपृणाभिः प्रच्छादयति ।। ३२ ।।
द्वाभ्यां द्वाभ्यां मन्त्राभ्यामेकैकां लोकंपृणामुपदधाति ।। ३३ ।।
पूर्वयोपधाय सूददोहसाऽभिमृशति ।। ३४ ।।
सर्वास्विष्टकासु तयादेवतमन्ततो दधाति ।। ३५ ।।
कृष्णोऽश्वः श्यावो वोत्तरतस्तिष्ठति ।। ३६ ।।
तयालभ्य चात्वालात्पुरीषमाहृत्य पृष्टो दिवीत्यनुव्यूहति ।। ३७ ।।
सा चितिर्भवति ।। ३८ ।।
पञ्चचितीकं चिन्वीत प्रथमं चिन्वानस्त्रिचितीकं द्वितीयमेकचितीकं तृतीयम् ।। ३९ ।।
एकचितीको नित्यः कल्पः ।। ख० १२) ।। ११.५.४० ।।
इति सत्याषाढहिरण्यकेशिसूत्र एकादशप्रश्ने पञ्चमः पटलः ।। ५ ।।

11.6
अथैकादशप्रश्ने षष्ठः पटलः ।
समितमिति चतसृभिर्गार्हपत्यचितावुख्यं निवपति ।। १ ।।
मातेव पुत्रमिति शिक्यादुखां निरूहति ।। २ ।।
अत्रैवैके पूरणमामनन्ति न रिक्तामवेक्षेत ।। ३ ।।
यदस्य पारे रजस इति वैश्वानर्या शिक्यमादत्ते ।। ४ ।।
नैर्ऋतीरिष्टकाः कृष्णास्तिस्रस्तुषपक्वाः शिक्यꣳ रुक्मसूत्रमासन्दीं चाऽऽदाय दक्षिणापरमवान्तरदेशꣳ हृत्वा स्वकृत इरिणे प्रदरे वा नमः सु ते निर्ऋत इति पराचीरसꣳस्पृष्टा उपदधाति ।। ५ ।।
( तस्येष्टकाभिः पाशमभ्युपदधाति ।।६।।
यस्यास्ते अस्याः क्रूर आसञ्जुहोमीत्येताभिस्तिसृभिः पराचीरसꣳस्पृष्टा दक्षिणापवर्गम् ।। ७ ।।)
न तयादेवतं करोति ।। ८ ।।
यत्ते देवी निर्ऋतिराबबन्धेति शिक्यमधिन्यस्यति ।। ९ ।।
अत्राऽऽसन्दीꣳ रुक्मसूत्रं च निदधाति । । ११.६.१० । ।
यदस्य पारे रजस इति वैश्वानर्या परिषिञ्चति ।। ११ ।।
नमो भूत्या इति प्रदक्षिणमावर्तते । । १२ । ।
शं नो देवीरभिष्टय इति मार्जयन्ते ।। १३ ।।
ऊर्जं बिभ्रद्वसुमनाः सुमेधा गृहानैमि मनसा मोदमानः सुवर्चाः । अघोरेण चक्षुषाऽहꣳ शिवेन गृहाणां पश्यन्वय उत्तिराणीत्यप्रतीक्ष मायन्ति ।। १४ ।।
निवेशनः संगमनो वसूनामित्याहवनीयमुपतिष्ठन्ते । गार्हपत्यं वा ।। १५ ।।
प्रायणीयेन प्रचरिते राजानं न्युप्य वेदिं कृत्वा समूलं हरितं दर्भस्तम्बं मध्येऽग्नेर्निंखाय जुह्वा पञ्चगृहीतं गृहीत्वा सजूरब्दो यावभिरिति समु- द्गृह्णन्दर्भस्तम्बे पञ्चाऽऽहुतीर्जुहोति ।। १६ ।।
यावान्पुरुष ऊर्ध्वबाहुस्तावता वेणुनाऽग्निं विमिमीते ।। १७ ।।
त्रीन्प्राचः पुरुषाꣳश्चतुर उदीचस्तिर्यञ्चं पुरुषमात्राणि पक्षपुच्छानि भवन्ति ।। १८ ।।
आत्मा चतुःपुरुषोऽरत्निना दक्षिणतो दक्षिणं पक्षं प्रवर्धयति ।। १९ ।।
प्रादेशेन वितस्त्या वा पश्चात्पुच्छमरत्निनोत्तरत उत्तरं पक्षम् ।। ११.६.२० ।।
स्योना पृथिवि भवानृक्षरा निवेशनी । यच्छा नः शर्म सप्रथाः । बडित्था पर्वतानामिति द्वाभ्यां विमितमग्निमाक्रमन्ते ।। ( ख० १३) ।। २१ ।।
सं वरत्रा दधातनेति संप्रेष्यति ।। २२ ।।
निष्कृताहावमवटमित्यवटमाहावाꣳश्च खनति ।। २३ ।।
उद्रिणꣳ सिञ्चे अक्षितमित्यवटादाहावेषूदकमुत्सि- ञ्चति ।। २४ ।। तेषु बलीवर्दान्पाययन्ति ।। २५ ।।
उद्योजनयन्तर्याममीषां खगल्यँ शफम् । अष्ट्रां तालं प्रतीनाहमुभे मण्डूक्यौ युजाविति युगलाङ्गलꣳ संप्रसारयति ।। २६ ।।
( सीरा युञ्जन्तीति द्वाभ्यां सीरं युनक्ति । षड्गवं द्वादशगवं चतुर्विꣳतिगवं वा ।।) सीरा युञ्जन्तीति द्वे पूषा युनक्तु सविता युनक्तु बृहस्पतिर्वो युनक्त्वग्नेस्तेजसा सूर्यस्य वर्चसेति तिसृभिर्युनक्ति षड्गवं द्वादशगवं वेत्येकेषाम् ।। २७ ।।
उष्टारयोर्बिल्वयोरथो आबन्धनीययोः । सर्वेषां विद्म वो नाम बाहाः कीलालपेशस इति युक्तान नुमन्त्रयते ।। २८ ।।
ब्रह्मजज्ञानमित्येषा । अनाप्ता या वः प्रथमा यस्यां कर्माणि कृण्वते । वीरान्नो अत्र मा दभꣳस्तद्व एतत्पुरो दधे ।। पर्यूषु प्र धन्व वाजसातये परिवृत्राणि सक्षणिः । द्विषस्तरध्यै ऋणया न ईयसे ।। सहस्रधारेऽव ते समस्वरन्दिवो नाके मधुजिह्वा असश्चतः । अस्य स्पशो न निमिषन्ति भूर्णयः पदे पदे पाशिनः सन्ति सेतव इति ब्रह्मवर्माणि जुहोति ।। २९ ।।
उदस्थाद्गोजिद्धनजिदश्वजिद्धिरण्यजित्सूनृतया परीवृतः । एकचक्रेण सविता रथेनोर्जं भागं पृथिवीमेत्वा पृणन्निति लाङ्गलमुच्छ्रयति ।। ११.६.३० ।।
मलिम्लुचो नामासि त्रयोदशो मास इन्द्रस्य वर्मा- सीन्द्रस्य शर्मासीन्द्रस्य वरूथमसि तं त्वा प्रपद्ये । सा मे शर्म च वर्म च भव । गायत्रीं लोमभिः प्रविशामि । त्रिष्टुभं त्वचा प्रविशामि । जगतीं माꣳसेन प्रविशामि । अनुष्टुभमस्थ्ना प्रविशामि । पङ्क्तिं मज्ज्ञा प्रविशामि । ऐन्द्राग्नं वर्म बहुलं यदुग्रं विश्वे देवा नातिविध्यन्ति सूराः । तन्नस्त्रायतां तन्नो विश्वतो महदायुष्मन्तो जरामुपगच्छेम देवा इति विमितमग्निमाक्रमन्ते ।। ३१ ।।
लाङ्गलं पवीरवमिति द्वाभ्यां कृषति ।। ३२ ।।
कीनाशा बलीवर्दानजन्ति ।। ३३ ।।
पुच्छशिरोऽधि कृषति ।। ३४ ।।
प्रदक्षिणमावर्तयंस्तिस्रस्तिस्रः सीताः सꣳहिताः कृषन्ति काम कामदुघे धुक्ष्वेति ।। ३५ ।।
सीतां प्रत्यवेक्षते ।। ३६ ।।
घृतेन सीतेति सीतान्तरालान्संमृशति ।। ३७ ।।
दक्षिणस्मात्पक्षादुत्तरं पक्षमभिकृषति ।। ३८ ।।
दक्षिणस्याः श्रोणेरुत्तरमꣳसमुत्तरस्याः श्रोणेर्दक्षिणमꣳसमितरथा वा द्वादश संपादयति ।। ३९ ।।
मध्ये संभिन्ना भवति ।। ११.६.४० ।।
विमुच्यध्वमघ्निया देवयाना अतारिष्म तमसस्पारमस्य । ज्योतिरापाम सुवरगन्मेति दक्षिणेऽꣳसे बलीवर्दान्विमुच्योत्तरे वा प्राच उदीचो वोत्सृ- जति ।। ४१ ।।
तानध्वर्यवे ददाति ।। ४२ ।।
पञ्चदशोदचमसान्निनयति ।। ४३ ।।
द्वादशानुसीतं त्रीनकृष्टे ।। ४४ ।।
या जाता ओषधय इति चतुर्दशभिरोषधीर्वपति । सप्त ग्राम्या ओषधयः सप्ताऽऽरण्याः ।। ४५ ।।
कृष्टे ग्राम्या वपत्यनुसीतमकृष्ट आरण्याः ।। ४६ ।।
या ओषधीनां नाधिगच्छेत्तस्याः स्थाने यवान्म धुमिश्रान्वपेत् ।। ४७ ।।
मनसा ध्यायेदुप्ता मेऽसीति वा ।। ४८ ।।
अधिगतायां यः प्रथम इध्म आगच्छति तस्मिन्नुपनह्यति ।। ४९ ।।
(ये वनस्पतीनां फलग्रहयस्तानिध्म उपसंनह्य प्रोक्षेत् ।। ११.६.५० ।।
यत्प्रागातिथ्यायास्तत्कृत्वा मा नो हिꣳसीज्जनितेति चतसृभिर्दिग्भ्योलोष्टान्समस्यति ।। ५१ ।।
येऽन्तर्विधाद्बहिर्विधमापन्ना भवन्ति ।। ५२ ।।
इषमूर्जमहमित आदद इति यस्यामस्य दिशि द्वेष्यः स्यात्तस्यै दिशो लोष्टमाहरेत् ।। ५३ ।।
तथोपक्रमेत यथा तस्यां दिश्यपवर्गः स्यादुत्तरवेदिमुपवपति । यावानग्निर्व्याघारणान्तं कृत्वा ।। ५४ ।।
अग्रे तव श्रवो वय इति षड्भिः सिकता निवपति ।। ५५ ।।
चितः स्थ परिचित इत्यपरिमिताभिः शर्कराभिराहवनीयचितेरायतनं परिश्रयति यथागार्हपत्यचितेः ।। ५६ ।।
त्रिसप्ताभिः पशुकामस्य ।। ५७ ।।
त्रिणवाभिर्भ्रातृव्यवतः ।। ५८ ।।
अपरिमिताभिः परिमिनुयात् ।। ५९ ।।
आ प्यायस्व सं त इति सौमीभ्याꣳ सिकता व्यूहति ।। ११.६.६० ।।
अपिवा गायत्रिया ब्राह्मणस्य व्यूहेत्त्रिष्टुभा राजन्यस्यासावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् । पुनानो वारं पर्येत्यव्ययं श्येनो न योनिं घृतवन्तमासदमिति जगत्या वैश्यस्य ।। ६१ ।।
यं कामयेतापशुः स्यादित्यपरिमित्य तस्य शर्कराः सिकता व्यूहेत् । यं कामयेत पशुमान्त्स्यादिति परिमित्य तस्य शर्कराः सिकता व्यूहेत् ।।
( ख० १५ ।। ६२ ।।

इति सत्याषाढहिरण्यकेशिसूत्र एकादशप्रश्ने षष्ठः पटलः ।। ६ ।।

11.7
अथैकादशप्रश्ने सप्तमः पटलः ।
आतिथ्याप्रभृतीनि कर्माणि प्रतिपद्यते । । १ ।।
प्रथमाभ्यां पौर्वाह्निकीभ्यां 'प्रवर्ग्योपसद्भ्यां प्रचर्याग्रेण प्राग्वꣳशꣳ रोहिते चर्मण्यानडुहे प्राचीनग्रीव उत्तरलोम्नि प्रथमायाश्चितेरिष्टकाः सꣳसादयति ।।।।।
अपिवा तिस्रः स्वयमातृण्णाः सर्वाश्च विश्वज्योतिषः।। ३।।
दर्भाग्रमुष्ट्नाऽऽज्येनावोक्ष्य ताः समुद्यम्य चित्याग्निभ्यः प्रणीयमानेभ्योऽनुब्रूहीति संप्रेष्यति । प्रणीयमानेभ्योऽनुब्रूहीति वा ।। ४ ।।
त्रिरनूक्तायामश्वप्रथमाः प्राञ्चो गच्छन्ति ।। ५ ।।
उत्तरवेदिं प्राप्य प्रजापतिस्त्वा सादयतु तया देव तयाऽङ्गिरस्वद्ध्रुवा सीदेत्युत्तरवेदिमभिमृश्य मयि गृह्णामि यो नो अग्निरिति द्वाभ्यामात्मन्नग्निं
गृहीत्वा यास्ते अग्ने समिधो यानि धामेति स्वयंचित्याऽभिमृशति ।। ६ ।।
इष्टकाभिरग्निं चिनोत्यध्वर्युर्यजमानो ब्रह्मा वा स्वयमग्निं चिन्वन्नाऽऽत्मन्नग्निं गृह्णीते न स्वयं चित्याऽभिमृशति । ७ ।।
दक्षिणावृतो दक्षिणत उपदधात्युत्तरतः सव्यावृत ऋजुलेखाः पश्चात्पुरस्ताच्च भवन्ति।। ८।।त्र्यालि खिता मध्ये प्राचीरुपदधाति।। ९ ।।
प्रतीचीरुप दधातीति गणेषु रीतिवादः । प्राचीमुपदधाति प्रतीचीमुपदधातीति कर्तुर्मुखवादः पुरस्तादन्याः प्रतीचीरुपदधाति । पश्चादन्याः प्राचीरपवर्गवादा वचनात्पक्षपुच्छेषु श्रोण्योरꣳसयोरित्युपदधाति।।११.७.१०।।
श्वेतोश्वो दक्षिणतस्तिष्ठति ।। ११ ।।
तमालभ्येष्टका उपदधाति ।। १२ ।।
इन्द्रं विश्वा अवीवृधन्नित्यैन्द्रियर्चाऽऽक्रमणं प्रतीष्टकामुपदध्यात् ।।१६।।
उत्तरतः पश्चादुपचारो वाऽग्निः।। १३।।
वाङ्म आसन्नसोः प्राण इत्यग्निमधिक्रामन्सर्वेष्वाक्रमणेषु जपति ।। १४ ।।
तत्त्वा यामि ब्रह्मणा वन्दमान इति वारुण्यर्चा शालामुखीये जुहोति ।। १५ ।।
अभ्यस्थाद्विश्वाः पृतना अरातीरिति प्राञ्चमश्वं दक्षिणेन पादेन दर्भस्तम्बमाक्रमयति ।। १६ ।।
यदकन्दः प्रथमं जायमान इति प्रदक्षिणमश्वं पर्याणयति ।। १७।।
दक्षिणतो धार्यमाणेऽपां पृष्ठमसीति दर्भस्तम्बे
पुष्करपर्णमधस्ताद्दण्डमुत्तानमुपदधाति ।। १८ ।।
तपो योनिरसि विश्वाभिस्त्वा धीभिरच्छिद्रꣳ सजातवनस्यावारु(उ)पदधाम्यमृतं योनिर्ब्रह्म योनिः क्षत्त्रं योनिः पृथिवी योनिरन्तरिक्षं द्यौर्योनिर्दिशो योनिरिति वा ।। १९ ।।
ब्रह्म जज्ञानमिति पुष्करपर्णे रुक्ममधस्तान्निर्बाधमुपदधाति ।। ११.७.२० ।।
. हिरण्यगर्भः समवर्तताग्र इति हिरण्मयं पुरुषं प्राञ्चमुत्तानं दक्षिणतो रुक्मस्य द्रप्सश्चस्कन्देत्य- भिमृश्य पुरुषसाम्नाऽभिगीयते ।। २१ ।।
नमो अस्तु सर्पेभ्य इति तिसृभिः सर्पनामभिरुपतिष्ठते ।।। २२ ।।
कृणुष्व पाज इति पञ्चभिरक्ष्णया पुरुषं व्याघारयति यथोत्तरवेदिम् ।। २३ ।।
घृतस्य दध्नश्च पूर्णे स्रुचावभितः पुरुषमुपदधाति अग्नेस्त्वा तेजसा सादयामीति ।। २४ ।।
घृतस्य पूर्णां दक्षिणां कार्ष्मर्यमयीमिन्द्रस्य त्वौजसा सादयामीति दध्नः पूर्णामुत्तरामौदुम्बरीं ते उपधाय मूर्धन्वतीभ्यामुपतिष्ठते ।। २५ ।।
अपिवा तूष्णीमुपधाय मूर्धन्वतीभ्यामुपतिष्ठते । मूर्धन्वतीभ्यामुपधाय यजुर्भ्यामुपतिष्ठत इत्येकेषाम् ।। २६ ।।
रुक्मं व्याघारयति । यथापुरुषम् ।। ( ख० १७) ।। २७ । ।
ध्रुवाऽसि वरुणेति स्वयमातृण्णामभिमृश्याश्वेनावघ्राप्य प्रजापतिस्त्वा सादयतु पृथिव्याः पृष्ठे व्यचस्वतीमिति मध्येऽग्नेरविदुषा ब्राह्मणेन सहोप दधाति .। भूरिति चैतया व्याहृत्या ।। २८ ।।
चितिं जुहोमीति स्वयमातृण्णायाꣳ हुत्वाऽनुप्राणिति ।। २९ ।।
अविद्वान्ब्राह्मणो वरं ददाति । एकं द्वौ त्रीन्वा ।। ११.७.३० ।।
तेजोऽसि तेजो मे यच्छ पृथिवीं यच्छ पृथिव्यै मा पाहीति हिरण्येष्टकाम् । पृथिव्युदपुरमन्नेन विष्टा मनुष्यास्ते गोप्तार इति मण्डलेष्टकाम् । भूरसि भुवनस्य रेत इष्टकाः स्वर्गो लोको मनसा त्वाऽ- न्वारोहामि सुवरसि सुवनस्य रेत इष्टकाः स्वर्गो लोको मनसा त्वाऽन्वारोहामीत्यन्वारोहे द्वे उप दधाति ।। ३१ ।।
काण्डात्काण्डात्प्ररोहन्तीति द्वाभ्यां दूर्वास्तम्बꣳ सलोष्टमप्रच्छिन्नाग्रं यथाऽस्य स्वयमातृण्णामग्रं प्राप्नुयात् ।। ३२ ।।
हिरण्यशकलौ प्रबाहुगिष्टकायामध्यूह्य यास्ते अग्ने सूर्ये रुच इति द्वाभ्यां वामभृतम् ।। ३३ ।।
विराड्ज्योतिरधारयदिति तिस्रो रेतःसिचः ।। ३४ ।।
द्वे एके समामनन्ति ।। ३५ ।।
ताः प्रथमायां चित्यां यून उपदध्यात् । मध्यमायां विवयसः । प्रथमायामुत्तमायां च स्थविरस्य ।। ३६ ।।
बृहस्पतिस्त्वा सादयतु पृथिव्याः पृष्ठे ज्योतिष्म तीमिति विश्वज्योतिषम् । अग्नेर्यान्यसि देवाना-मग्नेर्यान्यसीति द्वे संयान्यौ । मधुश्च माधवश्चेति द्वे ऋतव्ये । समानतया देवते भवतः ।। ३७ ।।
सर्वास्वृतव्यास्ववकामुपदधाति ।।३८।।
घर्मेष्टकामुपदधाति । तस्याः प्रवर्ग्ये मन्त्र आम्नातः ।। ३९ ।।
अषाढाऽसीत्युपरिष्टाल्लक्ष्माणमषाढां द्वेष्यस्याधस्ताल्लक्ष्माणं यास्ते अग्न आर्द्रा योनयो याः कुलायिनीः । ये ते अग्न इन्दवो या उ नाभयः । यास्ते अग्ने तनुव ऊर्जो नाम ताभिस्त्वमुभयीभिः संविदानः । इह प्रजानां तन्वा निषीदेति कुला-
यिनीम् मधु वाता ऋतायत इति तिसृभिर्दध्ना मधुमिश्रेण कूर्ममभ्यनक्ति ।। ( ख० १८) ।। ४१ ।।
अपां गम्भीरं गच्छ मा त्वा सूर्यः परीताप्सीन्मो अत्रिर्वैश्वानरः । अघोरः प्रजा अभि विपश्यानु त्वा दिव्या वृष्टिः सचताम् ।। सꣳसर्प त्रीन्समुद्रान् न्स्वसलिलार्ग्याꣳल्लोकानपांपतिर्वृषभ इष्टकानाम् । तत्र गच्छ यत्र पूर्वे परेताः पुरीषं वसानः स्वां योनिं यथायथमित्यभिमन्त्र्य मही द्यौः पृथिवी च नश्चतस्र आशा इति द्वाभ्यां पुरस्तात्प्रत्यञ्चं जीवन्तं प्राङ्मुख उपदधाति ।। अवकाभिः परीतꣳ त्य(रितत्य) जालेनावच्छाद्य शङ्कुभिः परिणि हन्ति ।। ४२ ।।
यच्चिद्धि त्वं गृहे गृह उलूखलक युज्यसे । इह द्युमत्तमं वद जयतामिव दुन्दुभिरिति दक्षिणस्याꣳ श्रोण्यामुलूखलं मुसलं प्रयुनक्ति ।। ४३ ।।
औदुम्बरं प्रादेशमात्रं चतुःस्रक्त्युलूखलमपरिमितं मुसलं भवति ।। ४४ ।।
उत स्म ते वनस्पते वातो विवात्यग्रमित् । अथो इन्द्राय पातवे सुनु सोममुलूखलेति सर्वौषधस्य पूरयित्वाऽवहन्ति ।। ४५ ।।
तद्विष्णोः परमं पदमिति मध्येऽग्नेरुलूखलं मुसलमुपदधाति विष्णोः कर्माणि पश्यतेति वा मुसलम्।।
दिवो वा विष्णविति शूर्पम् ।। ४७ ।।
सिकताभिरुखां पूरयति ।। ४८ ।।
दध्ना मधुना घृतेन वा ।। ४९ ।।
यं कामयेत क्षोधुक्स्यादित्यूनां तस्योपदध्यात् । यं कामयेतानुपदस्यदन्नमद्यादिति पूर्णां तस्योप दध्यात् ।।११.७.५० ।।
स्यूता देवेभिरमृतेनाऽऽगा उखाँ स्वसारमधिवेदि मस्थात् । सत्यं पूर्वैर्ऋषिभिश्चाकु(कृ)पानो(णो)ऽग्निः प्रविद्वानिह तत्करोत्वित्युखामादाय धुवाऽसि पृ- थिवीति च ।। पृथिवी पृथिव्याꣳ सीद माता मातरि माता स्योना स्योनायां क्रतुर्देवानां महि मानमीमहेऽग्निꣳ सधस्थे सदनेषु सुक्रतुः । वैश्वा- नरं ब्रह्मणा विश्वव्यचसꣳ सो(स्तो)मस्य धामं नि (मन्नि)हितं पुरीष्यम् । समिद्धमग्निꣳ समिधा समिध्यसेऽग्निꣳ सधस्थे सदनेष्वच्युतम् ।। वैश्वानरं ब्रह्मणा विश्वव्यचसꣳ स्तोमस्य धाम नि (न्नि)दधे पुरीष्यम् । न्ययुर्मात्रया कवयो वयोधसोऽग्निꣳ सधस्थे सदनेष्वाहुतम् ।। वैश्वानरं ब्रह्मणा विश्वव्यचसꣳ स्तोमस्य धाम प(न्प)वमा- नमादृतम् ।। धुवाऽसि पृथिवी तया देवतयाऽ ङ्गिरस्वद्ध्रुवा सीदेति मध्येऽग्नेरुखामुपदधाति ।।५१ ।।
उपरिष्टादुलूखलस्येत्येकेषाम् ।। ५२ ।।
अग्ने युक्ष्वा हि ये तवेति युक्तवतीभ्याम् ।। ख० १९) ।। उखायामेकाहुतिं जुहोति ।। ५३ ।।
पुरुषशिरसः प्राणेषु हिरण्यशल्कान्प्रत्यस्यति । ऋचे त्वेति दक्षिणेऽक्षिकटे । रुचे त्वेत्युत्तरे भासेति दक्षिणस्यां नासिकायां ज्योतिषे त्वेत्युत्तर स्यामभूदिदं विश्वस्य भुवनस्य वाजिनमित्यास्येऽग्निज्योतिषा ज्योतिष्मानिति दक्षिणे कर्णे रुक्मो वर्चसा वर्चस्वानित्युत्तरे ।। ५४ ।।
समित्स्रवन्ति सरितो न धेना इति शृतातङ्क्येन दध्ना मधुमिश्रेण पुरुषशिरः पूरयित्वा सहस्रधा असि सहस्राय त्वेत्यादायाऽऽदित्यं गर्भं पयसा
समञ्जन्नित्युखायामुत्तानं प्राक्चुबुकमुपदधाति।।५५।।
उदु त्यं चित्रमिति सौर्यर्चाभ्यामक्षिकटयोरभिजुहोति ।। ५६ ।।
पशुशीर्षाण्युपदधाति ।। ५७ ।।
यं कामयेतापशुः स्यादिति विषूचीनानि तस्योपदध्यात् । यं कामयेत पशुमान्त्स्यादिति समीचीनानि तस्योपदध्यात् । यं कामयेत कनीयोऽस्यान्नꣳ स्यादिति संतरां तस्य पशुशीर्षाण्युपदध्यात् ।। यं कामयेत समावदस्यान्नꣳ स्यादित्यभितस्तस्य स्वयमातृण्णामुपदध्यात् । यं कामयेत भूयोऽस्यान्नꣳ स्यादित्यन्तेषु तस्य व्युदुह्योपदध्यात् ।।५८।।
वातस्य ध्राजिमिति पुरस्तात्प्रतीचीनमश्वस्योपदधाति । अजस्रमिन्दुमिति पश्चात्प्राचीनमृषभस्य । व- रूत्रिं त्वष्टुरिति दक्षिणत उदीचीनं वृष्णेरुत्तरतो वा दक्षिणं यो अग्निरग्नेरित्युत्तरतो दक्षिणं वस्तस्य दक्षिणतो वोदीचीनं तान्युत्सर्गैरव्यवायन्प्रदक्षिणमनु परिक्रामन्प्रतिदिशमुपतिष्ठते ।।(ख० २०) ।। इमं मा हिꣳसीर्द्विपादमिति पुरुषस्य । इमं मा हिꣳसीरेकशफमित्यश्वस्य । इमꣳ समुद्रमित्यृषभस्य । इमामूर्णायुमिति वृष्णेः । अजा ह्यग्नेरिति बस्तस्य ।। ५९ ।।
अथ यदि वायव्यस्य शिरो भवति ।। ११.७.६० ।।
मुख्यस्थाने सर्वैरुपधाय सर्वैरुत्सर्गैरुपतिष्ठते ।। ६१ ।।
अपिवा तस्य तस्य स्थान उपधाय तस्य तस्योत्सर्गेणोपतिष्ठते ।। ६२ ।।
नमो अस्तु सर्वेभ्य इत्येतेषामेकेनोत्तरेऽꣳसे सर्पशिर उपदधाति । विषूचीनं पशुशिरोभिः ।।६३।।
अपिवा यजुरेव वदेन्नोपदध्यात् ।। ६४ ।।
मा छन्दस्तत्पृथिव्यग्निर्देवता तेनर्षिणा तेन ब्रह्मणा तया देवतयाऽङ्गिरस्वद्ध्रुवा सीद । प्रमा छन्दस्तदन्तरिक्षं वातो देवता । प्रतिमा छन्दस्तद्द्यौः सूर्यो देवता । अस्रीविश्छन्दस्तद्दिशः सोमो देवता । विराट्छन्दस्तच्चक्षुः पूषा देवता । गायत्री छन्दस्तदजा बृहस्पतिर्देवता । त्रिष्टुप्छन्दस्तद्धिरण्यमिन्द्रो देवता । जगती छन्दस्तद्गौः प्रजापतिर्देवता । अनुष्टुप्छन्दस्तद्वा ग्वरुणो देवता । उष्णिहा छन्दस्तदायुर्मित्रो देवता ।। । पङ्क्तिश्छन्दस्तत्कृषिः पर्जन्यो देवता । बृहती छन्दस्तदश्वः परमेष्ठी देवता तेनर्षिणा तेन ब्रह्मणा तया देवतयाऽङ्गिरस्वद्ध्रुवा सीदेति द्वादशभिस्त्रिरभ्यावर्तयन्षट्त्रिꣳशता पुरस्तात्प्रतीचीं पुरुषाकृतिं चितिं चिनोति ।।६५।।
पुरुषशिरोऽस्याः शिरो भवति ।। ६६ ।।
तामुपधाय सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपादिति पुरुषेण नारायणेनोपतिष्ठते ।।(ख० २१)।।६७।।
इति सत्याषाढहिरण्यकेशिसूत्र एकादशप्रश्ने सप्तमः पटलः ।। ७ ।।

11.8
अथैकादशप्रश्नेऽष्टमः पटलः ।
अपस्या उपदधाति । अपां त्वेमन्त्सादयामीति पञ्च पुरस्तात्प्रतीचीः । अर्णवे सदने सीदेति पञ्च दक्षिणत उदीचीः । अपां त्वा सदने सादयामीति पञ्च पश्चात्प्राचीः । गायत्री छन्द इति पञ्चोत्तरतो दक्षिणाः ।। १ ।।
ये यज्ञं समगृभ्णन्देवा देवेभ्यः परि । तान्गायत्री नयतु प्रजानती स्वर्गे लोके अमृतं दुहाना । ये ज्योतीꣳषि संदधति स्वरारोहन्तो अमृतस्य लोकम् । ते यन्तु प्रजानन्तो यज्ञं विदानाः सुकृ- तस्य लोके । ये पशवो मेध्यासो यज्ञस्य योनि- मभि संबभूवुः । तान्ददन्ते कवयो विपश्चितो यज्ञं विदानाः सुकृतस्य लोके । यः पन्था विततो देवयानश्छन्दोभिर्विगृहीतं एति । तेनातिष्ठद्दिव- मन्तरिक्षं यज्ञं गृहीत्वा सुकृतस्य लोकम् । यो यज्ञः सहस्रधारो द्यावापृथिव्योरधि निर्मितः । तेनैतु यजमानः स्वस्त्या दिवोऽधि पृष्ठमस्यादिति पञ्च हिरण्येष्टकाश्चतस्रः प्रतिदिशमेकां मध्ये ।।२ ।।
आयवे स्वाहा योष्कृते स्वाहा योष्यत्वने स्वाहा विष्णवे स्वाहा बृहस्पतये स्वाहेति पञ्च हिरण्येष्ट- काश्चतस्रः प्रतिदिशमेकां मध्ये । त्रिवृत्ते अग्ने शिरस्तन्मे अग्ने शिरः पञ्चदशौ ते अग्ने बाहू तौ मे अग्ने बाहू सप्तदशस्ते अग्न आत्मा स मे अग्न आत्मैकविꣳशौ ते अग्न ऊरू तौ मे अग्न ऊरू त्रिणवौ ते अग्नेऽष्ठीवन्तौ तौ मे अग्नेऽष्ठीवन्तौ त्रयस्त्रिꣳशं ते अग्ने प्रतिष्ठानं तन्मे अग्ने प्रतिष्ठान- मित्येताः शिरसि पक्षात्पुच्छेषु श्रोण्योरꣳसयोरुपदधाति । त्रिवृत्ते अग्ने शिरस्तेन माऽभिपाहि पञ्चदशौ ते अग्ने बाहू ताभ्यां माऽभिपाहि सप्तदशस्ते अग्न आत्मा तेन माऽभिपाह्येकविꣳशौ ते अग्न ऊरू ताभ्यां माऽभिपाहि त्रिणवौ ते अग्नेऽष्ठीवन्तौ ताभ्यां माऽभिपाहि त्रयस्त्रिꣳशं ते अग्ने प्रतिष्ठानं तेन माऽभिपाहीत्युपहिता यज- मानोऽनुमन्त्रयते ।। ख०२२ )।। ३ ।।
अद्भ्यः संभूतः पृथिव्यै रसाच्च विश्वकर्मणः समवर्तताधि । तस्य त्वष्टा विदधद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्र इत्येतामुपधायर्तसदसि सत्यसदसि तेजःसदसि वर्चःसदसि यशःसदसि गृणानाऽसि । धामासि धाम्यै त्वा धामभ्यस्त्वा धामसु सीद । सनिरसि सन्यै त्वा सनेयम् । वित्तिरसि वित्त्यै त्वा विदेयम् ।शक्तिरसि शक्त्यै त्वा शकेयम् । भूतिरसि भृत्यै त्वा भूयासम् । कर्मासि कर्मणे त्वा क्रियासम् । गूर्दोऽसि गूर्दाय त्वा गूर्देभ्यस्त्वा गूर्दे सीद । क्षत्त्रं पाहि क्षत्त्रं पिन्व क्षत्त्रं जिन्व क्षत्त्रं यच्छ क्षत्त्रं दृꣳह क्षत्त्रमसि क्षत्त्राय त्वा क्षत्त्रेभ्यस्त्वा क्षत्त्रे सीद । विश्वेषु त्वा पार्थिवेषु सादयामि । विश्वेषु त्वान्तरिक्षेषु सादयामि । विश्वेषु त्वा दिव्येषु साद- यामि । विश्वेषु त्वा देवेषु सादयामि । विश्वासु त्वाऽप्सु सादयामि । विश्वासु त्वौषधीषु सःदयामि । विश्वेषु त्वा वनस्पतिषु सादयामि । विश्वासु त्वा दिक्षु सादयामि । दिवि सीद । स्वर्जिदसि पृतनाजिदसि भूरिजिदस्यभिजिदसि विश्वजिदसि सर्वजिदसि सत्राजिदसि धनजिदसि भ्राडसि विभ्राडसि प्रभ्राडसि । सपत्नहनं त्वा वज्रꣳ सादयामि । आभिमातिहनं त्वा वज्रꣳ सादयामि । अरातिहनं त्वा वज्रꣳ सादयामि । यातुहन त्वा वज्रꣳ सादयामि । पिशाचहनं त्वा वज्रꣳ सादयामि । रक्षोहणं त्वा वज्रꣳ सादयामि । शत्रुहणममित्रहणं भ्रातृव्यहणमसुरहणं त्वेन्द्रं वज्रꣳ सादयामि । उद्वदस्युदितिरस्युद्यत्यस्याक्रममाणाऽस्याक्रामन्त्यस्याक्रा- न्तिरसि संक्रममाणाऽसि संक्रामन्त्यसि संक्रान्तिरसि स्वर्ग्याऽसि स्वरसि । इषि सीदोर्जि सीद भगे सीद द्रविणे सीद सुभूते सीद पृथिव्या यज्ञिये सीद् विष्णोः पृष्ठे सीदेडायाः पदे सीद घृतवति सीद पिन्वयाने सीद । संवत्सरे सीद परिवत्सरे सीदेदा(डा)वत्सरे सीदेदुवत्सरे सीदेद्वत्सरे सीद वत्सरे सीद । एकस्याँ सीद दशसु सीद शते सीद सहस्रे सीदायुते सीद नियुते सीद प्रयुते सीदार्बुदे सीद न्यर्बुदे सीद समुद्रे सीद मध्ये सीद पद्मे सीदान्ते सीद परार्धे सीद । पिन्वमानाऽसि पिन्वमानाय त्वा पिन्वमानेभ्यस्त्वा पिन्वमाने सीद । ऋतमस्यृताय त्वर्तेभ्यस्त्वर्ते सीद । सत्यमसि सत्याय त्वा सत्येभ्यस्त्वा सत्ये सीद । संधिरसि संधये त्वा संधिभ्यस्त्वा संधिषु सीद । सꣳश्लिडसि सꣳश्लिषे त्वा सꣳश्लिड्भ्यस्त्वा सꣳश्लिट्त्सु सीद । संपदसि संपदे त्वा संपद्भ्यस्त्वा संपत्सु सीदेत्येताभ्यामनुवाकाभ्यामृषीष्टका उपदधाति ।। ४ ।।
अयं पुरो भुव इति पञ्चाशतं प्राणभृतः । दश दश प्रतिदिशमक्ष्णया दश । मध्ये बाह्यां बाह्यामुपधायान्तरामन्तरामुपदधाति ।। ५ ।।
प्राची दिशां वसन्त ऋतूनामिति पञ्चाशतमपानभृतो यथा प्राणभृतोऽन्तरामन्तरामुपधाय बाह्यां बाह्यामुपधाति ।। ६ ।।
विषूची प्राणभूतं चापानभृतं चोपदधाति ।। ७ ।।
पृथिव्यसि जन्मना वशा साऽग्निं गर्भमधत्ताः(त्थाः) सा मया संभव । द्यौरसि जन्मना वशा साऽऽदित्यं गर्भमधत्ताः(त्थाः) सा मया संभव । नक्षत्राण्यसि जन्मना वशा सा चन्द्रमसं गर्भमधत्ताः(त्थाः) सा मया संभव । आपोऽसि जन्मना वशा सा वरुणं गर्भमधत्ताः(त्थाः) सा मया संभव । औषधोऽसि जन्मना वशा सा सोमꣳ राजानं गर्भमधत्ताः(त्थाः)सा मया संभव । वयोविनिरसि जन्मना वशा(साजरां) सा मह्यं गर्भमधत्ताः(त्थाः) सा मया संभव । विराडसि जन्मना वशा सा राजानं गर्भमधत्ताः(त्थाः)सा मया संभवेत्येते नानुवाकेन वशेष्टका उपदधाति ।। ९ ।।
या देव्यसीष्टक आयुर्दा उपशीवरी । सा मामुपवेशेषु जायेव पतिमित्सदा ।। या देव्यसीष्टके प्राणदा अपानदा व्यानदाश्चक्षुर्दाः श्रोत्रदाः पृथिविदा अन्तरिक्षदा द्यौर्दाः सुव(स्व)र्दाः कुमा- रीदाः प्रफर्वीदा युवतिदा उपशीवरी । सा मामुपवेशेषु जायेव पतिमित्सदेत्येतेनानुवाकेनोपशीव- रीरुपदधाति ।। ११.८.१० ।।
अर्थेतः स्थाध्वगतोऽग्नेर्वस्तेजिष्ठेन तेजसा देवताभिर्गृह्णामि । शुक्राः स्थ वीर्यावतीरिन्द्रस्य व इन्द्रियावतो देवताभिर्गृह्णामि । अधिपत्नीः स्थ तेज स्विनीरादित्यानां वो देवानां देवताभिर्गृह्णामि । मन्द्राः स्थाभिभुवो विश्वेषां देवानां देवताभिर्गृ ह्णामि । क्षत्रभृतः स्थौजस्विनीर्मित्रावरुणयोर्ब्रह्मणा देवताभिर्गृह्णामि । व्रजक्षितः स्थ ऊर्ध्वश्रितो बृहस्पतेर्वो ब्रह्मणा देवताभिर्गृह्णामीति द्वादश कुम्भेष्टका अद्भिः पूरयित्वा षट्कुम्भान्षट्कुम्भी र्हिरण्यवर्णाः शुचयः पावका इत्येतेनानुवाकेन प्रतिमन्त्रं कुम्भं कुम्भीं च प्रतिदिशमनुसीतमुपदधाति । चतस्रो मध्ये ।। ११ ।।
दिवि श्रयस्वान्तरिक्षे यतस्वेति बार्हस्पत्यं नैवारं चरुं पयसि शृतं मध्ये कुम्भेष्टकानाम् ।। १२ ।।
तेजसे वां वर्चसे वां चक्षुषे वां ज्योतिषे वाꣳ रेतसे वां प्रजाभ्यो वामिति द्वौ द्वी हिरण्यशकलानुपास्यति ।। १३ ।।
त्वामग्ने वृषभं चेकितानमित्यृषभं हिरण्यशकलं चितौ प्रास्य चितिमचितिं चिनवदिति चिति. क्लृप्त्याऽभिमृशति ।। (ख० २४) ।। १४ ।।
यत्तेऽचितं यदु चितं ते अग्ने यदूनं यद्वाऽत्राति रिक्तम् । विश्वे देवा अङ्गिरसश्चिन्वन्नादित्यास्ते चितिमापूरयन्तु ।। यास्ते अग्ने समिधः ।। चित्तिमचित्तिम् । वयमग्ने धनवन्तः स्यामालं यज्ञायोत दक्षिणायै । ग्रावा वदेदभि सोमस्याꣳशुनेन्द्रं शिक्षेमेन्दुना सुतेन ।। रायस्पोषं नो धेहि जातवेद ऊर्जो
भागं मधुमत्सूनृतावत् । दधाम यज्ञं सुनवाम सोमं यज्ञेन त्वामुपशिक्षेम शक्र ।। ईशानं त्वा शुश्रुमो वयं धनानां धनपते गोमदग्ने । अश्वावद्भूरिपुष्टं हिरण्यवदन्नमध्येहि मह्यम् ।। दुहां ते द्यौः पृथिवी पयोऽजगरस्त्वा सोदको विसर्पतु । प्रजापतिनाऽऽत्मानमाप्रीणे रिक्तो म आत्मा । यो रुद्रो
अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु देवा इति सप्तभिः स्वयंचित्याऽभिमृश्य लोकंपृणाभिः प्रच्छादयति ।। १५।।
द्वाभ्यां द्वाभ्यां मन्त्राभ्यामेकैकां लोकंपृणामुपदधाति ।। १६ ।।
पूर्वयोपधाय सूददोहसाऽभिमृशति।। १७ ।।
सर्वास्विष्टकासु तया देवतमन्ततो दधाति ।। १८ ।।
कृष्णोऽश्वः श्यावो वोत्तरतस्तिष्ठति । तमालभ्य चात्वालात्पुरीषमाहृत्य पृष्टो दिवीत्यनुव्यूहति ।। १९ ।।
सा चितिर्भवति ।। ११.८.२० ।।
यो अप्स्वन्तरग्निर्यो वृत्रे यः पुरुषे यो अश्मनि । य आविवेश भुवनानि विश्वा तेभ्यो अग्निभ्यो हुतमस्त्वेतत् । यꣳ हुतादमग्निं यमु काममाहुर्यं दातारं प्रतिग्रहीतारमाहुः । यो देवानां देवतमस्त्वः(स्त)पोजास्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् । पृष्टो दिवीत्येषा । यः सोमो अन्तर्यो गोष्वन्तर्वयाꣳसि य आविवेश यो मृगेषु । य आ विवेश द्विपदो यश्चतुष्पदस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् । येनेन्द्रस्य रथꣳ(थाः) संबभूवुर्यो वैश्वानर उत वैश्वदेव्यः ।। धीरो यः शु(श)क्रः भ(प)रि भूरिदाभ्यस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् । उक्षान्नाय वशान्नायेति षड्भिश्चितिं चितिमुपधायाभि जुहोति ।। २१ ।। एवमेतान्यत ऊर्ध्वमृषभप्रभृतीनि सर्वेषु चित्यन्ते समानानि क्रियन्ते ।। २२ ।।
आग्नेय्या गायत्रिया प्रथमां चितिमभिमृशेत् । त्रिष्टुभा द्वितीयाम् । जगत्या तृतीयाम् । अनुष्टुभा चतुर्थीम् । पङ्क्त्या पञ्चमीम् । सर्वासां धामच्छद्द्वितीया । अग्ने भूरीणि तव जातवेद इति धामच्छत् । अग्ने देवाꣳ इहाऽऽवह जज्ञानो वृक्तबर्हिषे । असि होता न ईड्यः । अगन्म महा मनसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे । चित्रभानू रोदसी अन्तरुर्वी स्वाहुतं विश्वतः प्रत्यञ्चम् ।। मेधाकारं विदधस्य प्रसाधनमग्निं होतारं परि भूतमं मतिम् । त्वामर्भस्य हविषः समानमित्त्वां महो वृणते नरो नान्यं त्वत्। मनुष्वत्त्वां निधीमहि मनुष्वत्समिधीमहि । अग्ने मनुष्वदङ्गिरो देवान्देवायते यज । अग्निर्हि वाजिनं धिशे ददाति विश्वचर्षणिः । अग्नी राये स्वाभुवꣳ स प्रीतो याति श्वाऽऽर्यमिषꣳ स्तोतृभ्य आभरेत्येता आम्नाता भवन्ति ।। २३ ।।
षदुपसदः ।। २४ ।।
अनुपसदमग्निं चिनोति । अन्वहमेकैका चितिद्वयहमुत्तमा चितिः ।। २५ ।।
त्रीणि चतुस्तनानि व्रतानि भवन्ति । एवं त्रिस्तनानि द्विस्तनान्येकस्तनानि ।। २६ ।।
आपराह्निकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचर्य यदक्रन्दः प्रथमं जायमान इति श्वेतमश्वं प्रदक्षिणं परिणीय वसन्ति वसन्ति ।। ख० २५) ।। २७ ।।
इति सत्याषाढहिरण्यकेशिसूत्र एकादमप्रश्नेऽष्टमः पटलः ।। ८ ।।

इति सत्याषाढसूत्र एकादशप्रश्नः ।। ११ ।।

1887 आनन्दाश्रमसंस्कृतग्रन्थावलिः ।

ग्रन्थाङ्कः ५३

सत्याषाढविरचितं श्रौतसूत्रम् ।

महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् ।

एकादशादिचतुर्दशान्तप्रश्नात्मकः पञ्चमो भागः ।

एतत्पुस्तकं वे० शा० सं० रा. शंकरशास्त्रीमारूलकर

इत्येतैः संशोधितम् ।

तच्च बी. ए. इत्युपपदधारिभिः

विनायक गणेश आपटे

इत्येतैः पुण्याख्यपत्तने

आनन्दाश्रममुद्रणालये

आयसाक्षरैर्मुद्रयित्वा

प्रकाशितम् ।

शालिवाहनशकाब्दाः १८४९

खिस्ताब्दाः १९२७

(अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकृताः ।)

मूल्यं रूप्यकत्रयम् (३) पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/५ आदर्शपुस्तकोल्लेखपत्रिका। . अथास्य प्रयोगचन्द्रिकाच्याख्यासहितस्य सत्याषाढविरचितहिरण्यकशि- श्रौतसूत्रस्य पुस्तकानि यैः परहितकपरतया संस्करणाथै पदत्तानि तेषां नामादीनि पुस्तकानां संज्ञाश्च कृतज्ञतया प्रकाश्यन्ते- (क.) इति संज्ञितम्-केवलं व्याख्यानं दण्डवत्युपाख्यभट्टरघुनाथदीक्षि- तानाम् । आन्ध्राक्षरलिखित पत्राणि १६१० संपूर्णम् । (ख.) इति संज्ञितम्-दण्डवत इत्युपाय शिवदीक्षित इत्येतेषाम् । संपूर्णम् । (ग.) संज्ञितम्-० शा० सं० शंकरदीक्षित तापसकर इत्येतेषाम् । प्रश्नाः ११-१४ पत्राणि ३२७ (घ.) इति संक्षितम्-वे. शा० सं० गुरुनाथदीक्षित मुळगुन्दकर इत्येतेषाम् । प्रश्नौ ११-१२ पत्राणि ११७ (ङ.) इति संज्ञितम्-मूलमात्रम् । पाचवड ( सातारा ) ग्रामनिवासिनो श्रोतः चूडामणिपदविभूषितानां स्वाध्यायसंपादकानां वे० शा० सं० धुण्डिराज दीक्षित सोमयाजी बापट इत्येतेषां संपूर्णम् । (च.) इति संज्ञितम्- मूलमात्रम् । संपूर्णम् । पुण्यपत्तननिवासिनी वे०. शा. सं० ' अण्णभट्ट अभ्यंकर ' इत्येतेषाम् । (छ.) इति संज्ञितम्-मूलमात्रम् । प्रश्नाः-(११।१२।१५।२४।२५) समासे किंचित्रुटितम् (गौर्मेण्ट मैसूर-औरियण्टल लैबरी) संस्कृतग्रन्थसंग्रहालयस्य नागराक्षरं देवनागराल्लिखितम्। (ज.) इति संज्ञितम्-मूलमात्रम् । पश्नौ ( २१।२२) लेले इत्युपाह्वधर्ममा- तण्डेत्युपाधिविभूषितानां के ब्रह्मश्री काशीनाथ शास्त्री सोमयाजी वाई इत्येतेषाम्। - Meh CEL आदर्शपुस्तकोल्लेखपत्रिका। - 6 अथ सत्याषाढविरचितहिरण्यकशिश्रौतसूत्रस्य पुस्तकानि यैः परहितैक- प्रवणस्वान्ततया संस्करणार्थ प्रदत्तानि तेषां नामादीनि पुस्तकानां संज्ञाश्च कृतज्ञतया प्रदर्श्यन्ते- (क.) इति संज्ञितम्-एकादशप्रश्नादारभ्य समाप्तिपर्यन्तं पुण्यपत्तनस्थानां वे. रा. रा. वामन 'रघुनाथभट्ट डोंगरे' इत्येतेषाम् । अस्य लेखनकालः शकाब्दाः १७०९ (ख.) इति संज्ञितम्-२२० पत्रात्मकं त्रुटितं रा. रा. कुशाभाऊ अभ्यंकर वकील ' इत्येतेषाम् । (ग.) इति संज्ञितम् --१६३ पत्रात्मकं त्रुटितं वे. रा. 'विनायकशास्त्री वाई- कर' इत्येतेषाम् । (घ.) इति संज्ञितम्-२४७ पत्रात्मकं त्रुटितं वे. रा. 'बाळशास्त्री अभ्यंकर निवासस्थानं वाई' इत्येतेषाम् (ङ. )इति संज्ञितम्-३०१ पत्रात्मकं त्रुटितं वे. रा. भास्कर कृष्णंभट्ट लिमये दीक्षित निवासस्थानं पुणे' इत्येतेषाम् । एवं हिरण्यकेशीयचयनाश्वमेधराज सूयकाठककाम्यपशुपायश्चितादिप्रयोगाणां हस्तलिखितपुस्तकानि मिलित्वा विंशतिसंख्याकानि वे. मू. रा. भास्कर कृष्णंभट्ट लिमयेदीक्षित ' इत्येतैरवलोकनार्थ प्रदत्तानि। तैः प्रयोगचन्द्रिकायाः संशोधनकर्मणि बहूपकृतमिति । 6 7 महादेवशास्त्रिसंकलितपयोगचन्द्रिकाव्याख्यायामुदाहृतग्रन्थानां ग्रन्थपणेतृणां च अकरादिमातृकाक्रमेण निर्देशः । अष्टाध्यायी-पाणिनिमुनिविरचिता । अग्निपुराणम्-महर्षि वेदव्यासप्रणीतम् । अथर्ववेदःअत्रिस्मृतिः-- आङ्गरःस्मृतिःअमरकोषःअनन्तदेवकृता श्रौतपद्धतिः-- अण्डिलाचार्यकृता (आपस्तम्बश्रौतप्रयोग) दीपिका । आपस्तम्बस्मृतिःआपस्तम्बसूत्रम्आश्वलायनस्मृतिःआश्वलायनसूत्रम्उद्गातृपद्धतिः- रामकृष्णत्रिपाठीकृता । ऋग्वेदसंहिता-सायणभाष्योपेता। एकाग्निकाण्डः-हरदत्तकृतभाष्योपेतः । ऐतरेयब्राह्मणम्-सायणभाष्योपेतम् | ऐतरेयारण्यकम् – सायणभाष्योपेतम् । औशनःस्मृतिःकपर्दिकारिकाकपर्दिस्वामिविरचितं (आपस्तम्ब)श्रौतसूत्र भाष्यम् । कर्मान्तसूत्रम्कर्मप्रदीपः--कात्यायनविरचितः । कश्यपपसंहिताकर्कभाष्योपेतं-कात्यायनश्रौतसूत्रम् । कृष्णयजुर्वेदसंहिता-भट्टभास्करभाष्योपेता। कृष्णयजुर्वेदब्राह्मणम् -1, कृष्णयजुर्वेदारण्यकम्--,, कृष्णयजुर्वेदमन्त्रबाह्मणम् । | काशीखण्डः (स्कान्द)रामेश्वरयोगिव्याख्या समेतः । काण्वसंहिता-सायणभाष्योपेता। कात्यायनसूत्रम्कात्यायनस्मृतिःकौषीतिकीसूत्रम्| खादिरगृह्यसूत्रम् --रुद्रस्कन्दभाष्योपेतम् । | गृह्यसूत्रम्(सत्याषाढविरचितम्) , मातृदत्तभाष्योपेतम् । , गोपीनाथकृतवृत्तियुतम् । | , महादेवशास्त्रिसंकलिता प्रयोग , चन्द्रिका । | गृह्यसूत्रम् -(आश्वलायनीयम् )गार्यनारा यणवृत्ति गृह्यसूत्रम् आपस्तम्बविरचितम्,, कपर्दिस्वामिभाष्योपेतम् । , हरदत्तकृतवृत्तिसहितम् । , अण्डिलाचार्यप्रयोगवृत्तिसमेतम् । , सुदर्शनाचार्यभाष्योपेतम् । " महादेवयज्वकृतवृत्तियुतम् । । गृह्यसंग्रहः-(छन्दोगः) गृह्यपरिशिष्टम् (आश्वलायनयिम्) गृह्यरत्नकण्ठभूषणम्-वैदिकसार्वभौमक तम् । गोभिलगृह्यसूत्रम्-चन्द्रकान्तभट्टाचार्यभा ___ष्योपेतम् । गोतमसूत्रम् - मस्करीभाष्पोपेतम् । गोतमसूत्रम्( क्रियाकाण्डः।) गोत्रप्रवरनिबन्धसंग्रहःचन्द्रचूडी भट्टकृत(आपस्तम्बगृह्य) संस्कार निर्णयः । चन्द्रिका(श्रोतवृत्तिः)। छन्दोगपरिशिष्टम्-नारायणकृतभाष्यं चन्द्र. कान्तवृत्तियुत च । नैमिनि गृह्यसूत्रम्– भट्टकुमारिलभाष्योपे तम् । जैमिनिश्रौतसूत्रम्जौमिनिसूत्र(पूर्वमीमांसा) शावरभाष्योपेतम्। जैमिनिन्यामाला माधवाचार्यविरचिता । जैमिनिसूत्रवृत्तिः-(ज्योतिषम् । तत्वमुक्तावलि:- नन्दपण्डितकृता । तन्त्ररहस्य-रामानुजाचार्यकृतम् । तैत्तिरीयसंहिता-माधवीयभाष्योपेत । तैत्तिरीयब्राह्मणम्-माधवीयभाष्योपेतम् । तैत्तिरीयारण्यकम्तैत्तिरीयप्रातिशाख्या-त्रिभाष्यरत्नसाहता। त्रिकाण्डमण्डनम् - भट्टभास्करविरचितम् । दत्तकमीमांसा-नन्दपण्डितकृता । दत्तकचन्द्रिका-कुबेरकृता। दत्तकौस्तुभ:--अनन्तदेवकृतः । दत्तकदपेण:दत्तकसार:दशानिर्णयः-वैदिकसार्वभौमकृतः । | दक्षस्मृतिः| दानखण्ड:--- (हेमाद्रेः) ब्राह्मायणगृह्यसूत्रम्- रुद्रस्कन्दभाष्योपेतम् । धर्मप्रदीपःधर्मप्रवृत्तिः-- धर्मसूत्रं सत्याषादविरचितम् । महादेव कृतवैजयन्तीव्याख्या , ( आपस्तवीयं ) हरदत्तकृतं उज्ज्व| लासहितम् । | " ( बोधायनीयं ) गोविन्दाचार्यवृ. त्तियुतम् । (वैखानसीयं)। धूर्तस्वामिभाष्योपेतमापस्तम्बसूत्रम् । "नसिंहकृतप्रयोगपारिजातः । नारसिंहप्रतापः-रुद्रदेवकृतः । निर्णयामृत:निर्णयसिन्धुःपराशरमाधवीयः परिभाषासूत्र-बोधायनीयम् । पाकयज्ञनिर्णयःपितृमेधसूत्रम्-( भरद्वाजविरचितं ) कपर्दिभाष्योपेतम् । पारस्करगृह्यसूत्रम्-हरिहरभाष्योपेतम् । पितृमेधसूत्रम् ( आपस्तम्बीयम् ) गोपाल यज्वभाष्योपेतम्। ____ महादेवयज्वभाष्योपेतम् । ___ . यल्लाजीयविवरणोपेतम् । पितृमेधसूत्रम् ( बोधायनीयम् ) पितृमेधसूत्रम् ( वैखानसीयम् ) प्रयोगरत्नं (हिरण्यकेशीयं) महेशभट्टीयम्। | दक्षस्मृतिः| दानखण्ड:--- (हेमाद्रेः) ब्राह्मायणगृह्यसूत्रम्- रुद्रस्कन्दभाष्योपेतम् । धर्मप्रदीपःधर्मप्रवृत्तिः-- धर्मसूत्रं सत्याषादविरचितम् । महादेव कृतवैजयन्तीव्याख्या , ( आपस्तवीयं ) हरदत्तकृतं उज्ज्व| लासहितम् । | " ( बोधायनीयं ) गोविन्दाचार्यवृ. त्तियुतम् । (वैखानसीयं)। धूर्तस्वामिभाष्योपेतमापस्तम्बसूत्रम् । "नसिंहकृतप्रयोगपारिजातः । नारसिंहप्रतापः-रुद्रदेवकृतः । निर्णयामृत:निर्णयसिन्धुःपराशरमाधवीयः परिभाषासूत्र-बोधायनीयम् । पाकयज्ञनिर्णयःपितृमेधसूत्रम्-( भरद्वाजविरचितं ) कपर्दिभाष्योपेतम् । पारस्करगृह्यसूत्रम्-हरिहरभाष्योपेतम् । पितृमेधसूत्रम् ( आपस्तम्बीयम् ) गोपाल यज्वभाष्योपेतम्। ____ महादेवयज्वभाष्योपेतम् । ___ . यल्लाजीयविवरणोपेतम् । पितृमेधसूत्रम् ( बोधायनीयम् ) पितृमेधसूत्रम् ( वैखानसीयम् ) प्रयोगरत्नं (हिरण्यकेशीयं) महेशभट्टीयम्।

________________________________________ प्रायश्चित्तशतद्वयी-वेंकटेशकृतव्याख्यासक प्रायश्चित्तप्रदीप:-गोपालयज्वकृतः। प्रायश्चित्तदीपिका-वरदराजयज्वकृता । प्रायश्चित्तचन्द्रिका-गणेशयज्वकृता । बौधायनश्रौतसूत्र-महादेवयज्वकृतवृत्तियुतम् । बौधायनगृह्यसूत्रम् बृहस्पतिस्मृतिः ब्रह्मपुराणम् भरद्वाजश्रौतसूत्रम्- महादेवयज्वकृतभाष्योपेतम् । भरद्वाजगृह्यसूत्रम् मादीपिका-~-खण्डदेवकृता । भाट्टरहस्यम्भाट्टाध्वरमीमांसा–वासुदेवदीक्षितकृता । मनुस्मृतिः-कुल्लूकभट्टकृतन्याख्यास.. महाभाष्यं (पतञ्जलिः) माध्यदिनसंहिता-महीधरभाष्योपेता। मानवकल्पसूत्रम्मत्स्यपुराणम्यमस्मृतिःयाज्ञवल्क्यस्मृति:-मिताक्षरा । ६ अपरार्कटीका । याजुषहौत्ररत्नमाला-महादेवयज्वकृता । रामाण्डारवृत्तिः-(धूर्तस्वाभिभाष्यस्य)। रुद्रदत्तवृत्तिः-(आपस्तम्बश्रौतसूत्रस्य)। लाट्यायनश्रौतसूत्रम्-अग्निस्वामिभाप्यो पेतम् । लिखितस्मृति:वसिष्ठधर्मशास्त्रम्बाराहगृह्यसूत्रम् विधानमाला-नृसिंहभट्टकृता। विष्णुस्मृतिः.. विश्वप्रकाशः ( संस्कारकाण्डः ) विद्यारण्यकृतापस्तम्बगृह्यसूत्रवृत्तिः । वैजयन्तीव्याख्यासमेतं सत्याषाढसूत्रम् । वैखानसश्रीसूत्रम्--महादेवयज्वकृतवृत्ति| युतम् । वैखानसगृह्यसूत्रम् - व्यासस्मृतिःशकस्मृतिः| शतपथब्राह्मणम्-सायणभाप्योपेतम् । शातातपस्मृतिःशान्तिरत्नमालाशान्तिकमलाकर:शान्तिसार:शास्त्रदीपिकाशारीरकशाङ्करभाष्यम्शाङ्ख्यायनगृह्यसूत्रम्शाचायनश्रौतसूत्रम्शुल्बसूत्रम् ( बौधायनीयम् ) शुल्बसूत्रम् ( आपस्तम्बीयम् ) कपर्दिभाष्योपेतम् । महादेवयज्वभाष्योपेतम् । ___" , करविन्दीयविवरणोपेतम् । सुन्दरराजीयवृत्तिसहितम् । श्रौतसूत्रवृत्तिः ( आपस्तम्बीया ) महादेव__यज्वकृता। श्रौतसूत्र-( आपस्तम्वीय ) चौण्डपाचार्य भाष्योपेतम् । संकर्षणकाण्ड:-भादृचन्द्रिका भास्करराय कृता। संवर्तस्मृतिःसर्वदर्शनसंग्रहःस्मृतिसमुच्चयःस्मृत्यर्थसार:-श्रीधराचार्यकृतः। स्मृतिचन्द्रिका-देवणभट्टः (संस्कारकाण्डः) " , (श्राद्धकाण्डः ) स्मृतिमुक्ताफलम्-वैद्यनाथदीक्षितकृतम् । स्मृतिरत्नाकरः-विष्णुभट्टकृतः । , ,, वैदिकसार्वभौमकृतः । स्मृतिकौस्तुभः - अनन्तभट्टकृतः । संस्कारकौस्तुभ:- , संस्काररत्नमाला-गोपीनाथदीक्षितकृता । " , महादेवयज्वकृता ।

________________________________________ संस्कारनिर्णय:-शंकरयज्वकृतः । संस्कारपद्धतिः-भास्करशास्त्रिकृता । स्कन्दमहापुरणम्स्मार्तप्रयोगवैजयन्ती-महादेवकृता । सापिड्यमाला-नागेशभट्टकता । सन्याख्या। सामवेदसंहितासामविधानब्राह्मणम्-सायणभाष्योपेतम् । हिरण्यकेशि(सत्याषाढ) सूत्रम् हारीतस्मृतिःहरदत्तकृतापस्तम्बसूत्रवृत्तिः । हेमाद्रेः (श्राद्धकाण्डः) | , (व्रतखण्ड:) होत्रमीमांसा-रामशास्त्रिकृता । होत्रपद्धतिः-सायणाचार्यविरचिता । प्रस्तावनी। -::- अद्य खलु श्रीमदनन्तसद्गुणगणालंकृतानन्तकोटिब्रह्माण्डमण्डलाखण्डलप्रभृतिवृन्दारक- वृन्दवन्दितपदारविन्दनिष्यन्दमानामन्दानन्दसंदोहमिलिन्दायमानमानसवैखानममुनिजनने- गीयमानविमलविरुदावलिविराजमानदिव्यलीलावतारसमनुगृहीतसमस्तभक्तजनकामनापरि- पूरणनिबद्धपरिकरश्श्रीपरमेश्वरकृपाप्रसादसमवाप्तविशुद्धशेमुषीविशेषविकसितविद्यावैभव कृ. तार्थीकृतधरित्रीवलयानां समस्तधरणीतलविराजमानविविधसभ्यसंभावितसभासभाजितवि- द्वत्त्वसौजन्यसौशील्याभूतिसद्गुणगणावाप्तप्रसरबुधजनसरस्वतीजगीयमानविमलयशोवलक्षी- कृतदिङमण्डलानां परमपूज्यताभाजनसमस्तसज्जनशिरःसरोजसंभावितनमस्क्रियाप्रभृतिपुर- स्क्रियाणां सकलवेदशास्त्रपारावारपारदृश्वनां निखिलकलाकलापकौशल्यशल्योत्खलितदुर्व द्धिनिबद्धाशयानां समस्तभूमण्डलनिवासिना सन्मान्यविद्वज्जनानां पुरतोऽद्य नूतनपरिचयप्र. भावपरिस्फुरदभिनवादरातिशयसमुत्कण्टितसरस्वतीमप्रसादसमवाससुमङ्गलमयगीर्वाणवाग्दे- वतामधुरतरविलासपोल्लासविकसितैः प्रास्ताविकैः कतिपयैर्वाक्यनिकुरम्यैः सुमङ्गलम- यमभिनवोदन्तं निवेदायितुं समुत्कण्ठतेऽस्मदीयं मानसम् । तदत्र समस्तविद्वज्जनानां सुविचारविलासितं चित्तमासमन्ततो विविधविचारणीयप्रस्तुतकार्यकदम्बकादावऱ्या प्रकृतेऽ. स्मदीयेऽभिनवोदन्तनिवेदनीये वक्तव्यांशे समवधानाय कृतक्षणं जायतामिति सप्रश्रयं साञ्जलिबन्धं संप्रार्य संप्रति निजवक्तव्यांशमुपोद्घातमुखेन प्रस्तोतुमारभामहे- 'अयि समस्तसज्जना:- -विदितमेव खलु सकलवैदिकधर्ममार्गानुयायिनां सदाचार- संपन्नानां तत्रभवतां भवताम् । यत्सकलवाङ्मयस्याऽऽदिवीजभूतो वेदो भगवद्रूप इति । तदेतदेव किंचिदत्र विविच्यते- तल्लोकपद्मं स उ एव विष्णुः प्राचीविशत्सर्वगुणावभासम् । तस्मिन्स्वयं वेदमयो विधाता स्वयंभुवं यं प्रवदन्ति सोऽभूत् ॥ इति भूतिमैत्रेयोक्तेः . साक्षाद्विष्णुरूपः स्वयंभूः सर्ववेदोपवेदेतिहासपुराणोपपुराण- वातादण्डनीत्यान्वीक्षिक्यादिभिः स्वोत्पन्नज्ञानविभूतिभिः सह सदैव विराजमानो वरीवर्ति । तस्मादेव . च ज्ञानस्वरूपेणोपादानकारणरूपाद्भगवतो वेदविद्याविर्भावः समभवत् । . . ऋग्यजुःसामाथाख्यान्वेदादीन्मुखतोऽसृजत् । शस्त्रमिज्यां स्तुतिस्तोमं प्रायश्चित्तं व्यधात्क्रमात् ॥ आयुर्वेद धनुर्वेदं गान्धर्व वेदमात्मनः । स्थापत्य चामृजद्वेदं कमात्पूर्वदिभिर्मुखैः ॥ ० [२] इतिहासपुराणानि पञ्चमं वेदमीश्वरः । सर्वेभ्य एव वक्त्रेभ्यः ससृजे सर्वदर्शनः ॥ ( भा० तृ०)। इत्यादिना । तांश्च स्वस्वरूपवन्नित्यसिद्धान्वेदान्भगवान्निनाचिन्त्यशक्त्या वैधदीक्षया ब्रह्माणमुपदिदेश । एतदेवोक्तं श्रुतौ- 'यो ब्रह्माणं विदधाति पूर्व यो वै वेदांश्च प्रहिणोति तस्मै इति । अनया श्रुत्या च नित्यसिद्धानेव स्वान्तःस्थितान्वेदान्प्रणवमातृकारूपेण सुसूक्ष्मान्ब्रह्ममुखे. भ्य ऋगादिस्थूलरूपेणाऽऽविर्भावयामासेति तावदुच्यते । अत एव- 'अनादिनिधना नित्या वागुत्सृष्टा स्वयंभुवा । आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः । ॥ इति स्मृतेः । वाचा विरूपनित्यया' (तै० सं० २।५।११) इति श्रुतेश्च वेदानां नित्यत्वम् । यच्चोक्तम्-'ऋचः सामानि जज्ञिरे' (ते. आ० ३।११) इति । तत्राप्याविर्भाव एव बोध्यः । जनेः प्रादुर्भावार्थकत्वात् । ननु--शास्त्रयोनित्वात् (ब्र० सू० १।१।३ ) इति व्याससूत्रस्य का गतिरिति चेत्-तत्र योनिशब्दः प्रमाणार्थक एव बोध्यः । तेन 'तं त्वौपनिषदं पुरुष पृच्छामि' इत्युपनिषद्वेद्यत्वं ब्रह्मणस्तत्सूत्रं प्रशास्ति । किंच “ एवं वा अरेऽस्य महतो भूतस्य निः- श्वसितमेतदृग्वेदो यजुर्वेदः सामवेदः " (बृह०२।४।१०) इत्यादिश्चतिरपि वेदानामुत्पत्ति निराकरोति । श्वासप्रश्वासादिवद्भगवानन्तःस्थितान्वेदाँल्लीलयाऽऽविर्भावितवानित्यस्मिन्ने- वार्थे श्रुतेस्तात्पर्यात् । ननु-लीलयाऽऽविर्भावकर्तृत्वेऽपि ब्रह्मोपादानता वेदानां नातैव । तथात्वे च तेषां पौरुषेयत्वं कथं न भविष्यति । न च ब्रह्मकार्यत्वेऽपि तेषां वेदानां पौरुषेयत्वं नामास्ति-पुरुषमात्रजन्यत्वेऽपि पौरुषेयत्वे वर्णानां नित्यत्वेऽप्यानुपूर्वीविशे- षस्य पुरुषजन्यत्वान्मीमांसकंमन्यस्यापि वेदाप्रामाण्यप्रसङ्गात् वर्णनित्यत्वमात्रेणैवापौरु- पेयत्वव्यवस्थापने लौकिकतदादिवाक्यस्याप्यपौरुषेयत्वप्रसङ्गाच्च । तस्मान्मानान्तरेणा- र्थमुपलभ्य रचितत्वं पौरुषेयत्वं सापेक्षत्वलक्षणानामा प्रयोजकम् । तच्च न वेदेषु वेदार्थस्य मानान्तरागोचरत्वात् । इदमेव हि श्रुत्या निःश्वासदृष्टान्तेन दर्शितम् । तथा हि-निःश्वासः पुरुषाज्जायमानो पि न पुरुषचिकीर्षाजन्यः सुषुप्तावपि तह. र्शनात् । एवं समग्रो वेदो ज्ञानस्वरूपेणोपादानकारणरूपाब्रह्मणो जायमानोऽपि न ब्रह्मचिकीर्षाजन् । वेदार्थस्य वेदातिरिक्तमानाविषयत्वात् । इत्यनया विधया ' कारण. गुणा हि कार्यगुणानारमन्ते ' इति न्यायेन कारणरूपस्य ब्रह्मणो नित्यत्ववत्तदाविर्भूत- वेदामामपि नित्यत्वं तावत्सिद्धम् । 1 [३] एतेषां वेदानां च प्रथमतः प्रणवरूपेण सूक्ष्मतयाऽवस्थितिरासीत् । ततः प्रणवतो मातृकाणामाविर्भावोऽभवत् । तास्ता एव मातृका या अक्षरसमाम्नायत्वेनोच्यन्ते । तस्मादक्षरसमाम्नायत एव सर्वा आन्वीक्षिक्यादयोऽष्टादशविद्या अपि ब्रह्मद्वारा संभूताः । तदेतदुक्तं श्रीमद्भागवते तृतीयस्कन्धे विदुरं प्रति मैत्रेयेण---- 'ऋग्यजुःसामाथाख्यान्वेदादीन्मुखतोऽसृजत् । इत्यारभ्य आन्वीक्षिकी त्रयी वार्ता दण्डनीतिस्तथैव च ' इत्यादिना ' शब्दब्रह्मात्मनस्तात ' इत्यन्तेन । तत्रतासामष्टादश विद्यानां भेदाः प्रत्येकशोऽन. न्तशाखावशादनन्तशः प्रसृताः सन्ति । मुख्यतया ता अष्टादशविद्याश्चाधुनोद्देशादिक्रमेण स्तोक प्रयन्ते- तत्र-ऋग्यजुःसामाथवभेदेन वेदाश्चत्वारः । शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिः- शास्त्र छन्दोविचितिरिति षड्वेदाङ्गानि । पुराणानि न्यायविस्तरः मीमांसा धर्मशास्त्रमिति चत्वार्युपाङ्गानि । आयुर्वेदधनुर्वेदगान्धर्वार्थशास्त्राणीति चत्वार उपवेदा इति मिलित्वा संकलनयाऽष्टादश विद्या भवन्ति । तत्र च महापुराणेषूपपुराणानामन्तर्भावः । न्यायनये वैशेषिकनयस्यान्तर्भावः । मीमांसायां वेदान्तस्यान्तर्भावः । धर्मशास्त्रे च महामारतरा- मायणयोः सांख्यपातञ्जलपाशुपतवैष्णवादीनां चान्तर्भावः । एवमष्टादशविद्यारूपाण्येता- वन्ति ह्यास्तिकानां धर्मप्रस्थानानि भवन्ति । अन्येषामेदेशिनां धर्मप्रस्थानान मेवेवान्त- र्भावः । इत्यमिह साक्षात्परम्परया परमार्थोपयोगिनां वेदोपाकरणानामेव प्रस्थानानां भेदो दिङ्मात्रेण दर्शितः । अर्थतेषां प्रस्था स्वरूपभेदहेतु: प्रयोजनभेदम्तावत्किचिदुच्यते-तत्र धर्मप्र- तिपादकमपौरुषेयं वाक्यं वेदः। स च मन्त्रबाहाणात्मकः । 'मन्त्रब्राह्मणयोर्वेदनामधेयम्। ( आप० श्री० परि० ) इति तत्स्वरूपस्यान्यत्रोक्तः । तत्र मन्त्रा अनुष्ठानकारक- भूतद्रव्यदेवताप्रकाशकाः । ते चर्यजुःसामभेदेन त्रिविधाः । अथर्वणवेदस्यैतेषु त्रिष्वे. वान्तर्भूतत्वेन पृथक्तयाऽनभिधानम् । तदेवं निरूपिता मन्त्राः । मन्त्रव्याख्यानरूपं ब्राह्मण- मपि त्रिविधम् । विधिरूपमर्थवादरूपं तदुभयविलक्षणं चेति । तत्र विध्यादीनां लक्षणभे- दादिविस्तरोऽन्यतो ऽवसेयः । तदेतद्ब्राह्मणं च पुनरष्टविधम् । तदुक्तं बृहदारण्यके- इतिहासः पुराणं विद्या उपनिषदः श्लोका: सूत्राणि ब्याख्यानान्यनुव्याख्यानान्यस्यैव निःश्वसितानि ' इति । तत्र कथाप्रतिपादक इतिहासः । विश्वस्य पूर्वावस्थानिरूपक पुराणम् । उपासनात्मविद्याप्रतिपादिका विद्याः । या चोपास्यदेवरहस्यप्रतिपादिका सोपनिषत् । ये मन्त्राः श्लोकवत्पठ्यन्ते ते श्लोकाः । संक्षिषार्थप्रतिपादक सूत्रम् । विस्तृ- तार्थप्रतिपादकं व्याख्यानम् । व्याख्यानस्याप स्फुटतापादकमनुव्याख्यानम् । एता. । । [४] न्यष्टं ब्राह्मणानि । शिक्षाकल्परहस्यादीनां च वेदसाङ्गतापादकत्वमेव मन्त्रब्राह्मणयोर्ध्या- ख्येयव्याख्यानताभावोऽस्ति । तच्च — मान्त्रवर्णिकम् ' इति सूत्रव्याख्याने प्रतिपादित वृत्तिकारैः । एवं च कर्मकाण्डगुणकाण्डब्रह्मकाण्डात्मको वेदो धर्मार्थकाममोक्षहेतुः । स च होत्राध्वर्यवीदानप्रयोगत्रयरूपेण राज्ञकर्मविभागनिहाथै भिन्नः । अथर्ववेदस्तु चतुर्थो वेदत्रय्यवशिष्टब्रह्मत्वकर्तव्यताप्रतिपादकोऽपि ( गा.णि कर्माणि ) शान्तिकपो- ष्टिकाभिचारिकादिकर्मप्रतिपादकत्वेन सर्वोपयोग्येव । आचार्यप्रवचनभेदात्प्रतिवेदं मिन्ना भूयम्यः शाखाः सन्ति । तज्ज्ञानं च चरणब्यूहाख्यवैदिकग्रन्थाद्बोध्यम् । अथ षण्ण शिक्षादिवेदाङ्गानां च प्रयोजनं तावदुच्यते । तत्र शिक्षाया व्याकरणस्य च सुस्पष्टवर्णोच्चारपदसाधुत्वविज्ञानार्थमुपयोगः । मन्त्रपदार्थज्ञानार्थं निरुक्तस्योपयोगः । तन्न हि निरुक्त नामाख्यातनिपातोपसर्गभेदेन चतुर्विध पदनातं निर्वचनेन निरूप्य वैदि- कंपदानामर्थः प्रदर्शितः । एवमृङ्मन्त्राणां पादबद्धानुष्टुबादिच्छन्दोविशिष्टत्वात्तदज्ञान च निन्दाश्रवणाच्छन्दोज्ञानार्थ पिङ्गलविरचितायाश्छन्दोविचितेरुपयोगः । एवं वैदि- ककर्मदर्शादिकालज्ञानार्थमादित्याभूतिप्रणीतस्य ज्योतिषस्योपयोगः । एवं शाखान्तरी- यगुणोपसंहारेण वैदिकानुष्ठानक्रमविशेषविज्ञानायाऽऽश्वलायनसांख्यायनसत्याषाढापस्तम्ब- बौधायनवाधूलभरद्वाजवैखानसाग्निवेशजैमिनिमानववराहमैत्रायणीकात्यायनपारस्करलाट्या- यनबाह्यारणगोभिलखादिरकौशिकादिप्रणी नां कल्पसूत्राणामुपयोगः । एवं निरूपितः षण्णां. वेदाङ्गानां प्रयोजनभेदः ।* अथ चतुर्णामुपाङ्गानां प्रयोजनभेदस्तावत्किंचिदुच्यते । तत्र सर्गप्रतिर्गमन्वन्तरवंश- वंश्यानुचरितप्रतिपादकानि भगवता बादरायणेन निरूपितानि पुराणानि । तानि च महा- पुराणोपपुराणोपोपपुराणभेदाच्चतुःपञ्चाशत् । तेषां पुराणानां च सर्गप्रतिसर्गादिज्ञान सद्धर्माचरणप्रवृत्तिदर्शनमेव सम्यक्प्रयोजनम् । न्याय आन्वीक्षिकी विद्या गौतमप्रणीता। प्रमाणप्रमेयादिषोडशपदार्थानामुद्देशलक्षणपरीक्षाभिस्तत्त्वज्ञानान्निःश्रेयसाधिगम एव तत्प्र- योजनम् ।कणादादिप्रणीतं वैशेषिकं शास्त्रमपि सप्तपदार्थवि(ब्यु)त्पादनकायोजनम् । तच्च न्याय एवान्तर्भूतमित्युक्तं प्राक् । मीमांसा द्विविधा-धर्ममीमांसा शारीरमीमांसा चेति । तत्र (द्वादशाध्यायी) । षोड- शाध्यायी । धर्ममीमांसा - 'अथातो धर्मजिज्ञासा' इत्यारभ्य (अन्वाहार्ये च दर्शनात् । ) 'यथा याज्यसंप्रेषो यथा याज्यसंप्रेषः' इत्यन्ता भगवता जैमिनिना प्रणीता । तस्याश्च धर्मप्रमाणादिविज्ञानपूर्वककर्मकाण्डव्यवस्थापरिज्ञानायोपयोगः । शारीरकमीमांसा च-

  • तद्विषये विशेषतोऽत्र पृथग्वक्तव्यं तदुपरिष्टावक्ष्यामः । .

[५] । अथातो ब्रह्मजिज्ञासा' इत्यारम्य- अनावृत्तिः शब्दादनावृत्तिः शब्दात् ' इत्यन्ता जीवनीकत्वसाक्षात्कारहेतुश्रवणाख्याविचारप्रतिपादकान्यायानुपदर्शयन्ती भगवता बाद- रायणेन कृताः । तस्याश्च जीवब्रह्मैक्यसाक्षात्कारः प्रयोजनम् । एवं धर्मशास्त्राणि मनुयाज्ञवल्क्यविष्णुयमाझिरोवसिष्ठदक्षशातातपपराशरगोतमशडयन लिखितहारीतापस्तम्बोशनोन्यासकात्यायनबृहस्पतिदेवलनारदपतीनसिप्रभृतिभिः कृतानि वर्णाश्रमधर्मविशेषाणां विभागेन प्रतिपादकानि । वर्णाश्रमधर्मविशेषविज्ञानमेवैषां प्रयोजनम्। एवं व्यासकृतं महाभारत वाल्मीकिकृतं रामायणं चेतिहासत्वेन प्रसिद्धे । ते च धर्म- शास्त्र एवान्तभूतें इत्युक्तं प्राक् । एवं सर्वदेवसाधारणमन्त्रशास्त्रं श्रीमहादेवब्रह्मगौतमादि- प्रणीत धर्मशास्त्र एवान्तर्भूतम् । स्वेष्टदेवतायाः सकाशात्स्वाभीप्सितफलप्राप्तिस्त- प्रयोजनम् । एवं निरूपितश्चतुणीमुपाङ्गानां प्रयोजनभेदः । अथ चतुर्णामुपवेदानां प्रयोजनभेदस्तावत्किंचिदुच्यते । वेदचतुष्टयस्य च क्रमेण चत्वार उपवेदाः । तत्रवेंदोपवेदस्य ब्रह्मप्रजापत्यश्व्यादिनिर्मितस्याऽऽयुर्वेदस्याष्टी स्थानानि भवन्ति । सूत्र शारीरमैन्द्रियं चिकित्सा निदानं विमानं कल्पं प्रसिद्धिश्चेति । कामशास्त्रस्याप्यायुर्वेद एवान्तावः । सुश्नुतेन वाजीकरणाख्यकामशास्त्रस्यामिधानात् । एवं समस्तस्याऽऽयुर्वेदस्य रोगतद्धेतुरोगनिवृत्तितत्साधनज्ञान प्रयोजनम् । तच्च मोक्षसा- धनीभूतशरीरारोग्यसंपादकत्वेन मोक्षोपयोग्येव । एवं यजुर्वेदोपवेदो धनुर्वेद पादचतुष्टयात्मको विश्वामित्रप्रणीतः । क्षत्रियाणां स्वधर्माचरणं युद्धं दुष्टदस्युचौरादिभ्यः प्रजापालनं च धनुर्वेदस्य प्रयोजनम् । एवं सामवेदोपवेदो गान्धर्व शास्त्र भरताचार्येणं प्रणीतम् । तत्र नृत्यगीतवाद्यभेदेन बहुविधोऽर्थः अपश्चितः । तस्य गान्धर्ववेदस्य देवता. राधननिर्विकल्पकसमाध्यादिसिद्धिः प्रयोजनम् । रसशास्त्रं च बहुविधं भरतेनैव प्रणीत गान्धर्ववेदान्तर्भूतम् । तच्च रसरीतिशब्दालंकारार्थालंकारनायकनायिकादिवर्णनरूपम् । अथा- धर्ववेदोपवेदोऽर्थशास्त्रम् । तहिकसर्वसुखोपलब्धिप्रयोजनम् । अथ च तदनुसाथैव नीति- शास्त्रमपि मन्वादिभिः सूत्रितं कामन्दकादिभिः प्रणीतम् । तत्संधिविग्रहादिभेदैरनेकधा | लौकिकसर्वव्यवहारनैपुण्यमेव तत्प्रयोजनम् । एवमश्वशास्त्रं गजशास्त्रं शिल्पशास्त्र सूपशास्त्रं चतुःपष्टिकलाशास्त्रं चेति नानाशास्त्राणि शालिहोत्रादिनानामुनिभिः प्रणीतानि । तेषां च सर्वेषों लौकिकतत्तत्प्रयोजनमेदो द्रष्टव्यः । एवमष्टादश विद्याः सप्रयोजनाः संक्षपतो नामनिर्देशन प्रोक्ताः । एवमेव कपिल मुनिप्रणीत सांख्यशास्त्रं पतञ्जलिमुनिप्रणीतं योगशास्त्रं भगवता पशुपतिना निर्मितं पाशु- पतशास्त्रं नारदादिभिः कृतं पाञ्चरात्रादिकं वैष्णवशास्त्रं चेत्येवमादिर्वेदानुकूलः प्रस्थान . 0 - 0 - [६] भेदः प्रदर्शितः । इत्थं हि वेदराशिमयस्य भगवतो ज्ञानमयं शरीरमित्याख्यायते । एतस्माद्वेदमयादब्रह्मण एव सकलसृष्टयुत्पत्त्यादिव्यवस्था प्रचाचलीतीति सर्वमनवद्यम् । अथ प्रकृतमनुसरामः । यदुक्तं प्राग्वेदमयस्य भगवत (उपाङ्गेषु ) अङ्गेषु परिंगण. नमिति । तद्विषयेऽधुना किंचिद्विवेकः प्रस्तूयते-'यहचोऽध्यगीषत' (ते. आ० २१९) इत्युपक्रम्य : पुराणानि कल्पान् ' (ले० आ० २ । ९) इति कल्पाः । कल्पसूत्राणि प्रयोगप्रतिपादकानि' इति माधवः । तथा चाथर्ववेदीयगोपथब्राह्मणे- एवमिमें सर्वे वेदा निर्मिताः सकल्पाः' ( गो० पू० प्र० २५.) इति । तथा च मुण्डकोपनिषदि-. 'तस्मै स होवाच द्वे विद्ये वेदितव्ये इति ह स्म ब्रह्मविदो वदन्ति परा चैवापरा च । तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति । अथ परा यया तदक्षरमधिगम्यते' (मु० १।२।५ इति । कल्पः सूत्रः ग्रन्थः । अनुष्ठेयक्रमः कल्प इत्यर्थः । कल्पसूत्राणां स्वतःप्रामाण्याधिकरणे ( जै० सू० १।३।७.) । कल्पसूत्राणि किं स्वत- न्त्रतया प्रमाणमुत परतन्त्रतयेति विप्रतिपत्तौ तानि पौरुषेयाणि-उनापौरुषेयाणीति चिन्तायां प्रामाण्यान्यथानुपपत्तेरपौरुषेयत्वेन स्वतन्त्रतया प्रामाण्यमेव कल्पसूत्रादीना मिति ब्रूमः । मूलकल्पने गौरवात् । 'षडङ्ग के ' इति स्मरणात् । कल्पसूत्रेषुपलभ्य, मानानां प्रत्यक्षश्रुतिवाक्यानां पौरुषेयत्वे सार्थक्यस्य दुरुपपादत्वात् । सत्यापाढीयादि- समाख्यानां शाकलादिवदुपपत्तेः । ' पुराणानि कल्पान् ' ( तै० आ० २।९ १०) इति कल्पानामपि अध्ययनविधिदर्शनाचेति पक्षोपक्षेपः । तन्निराकरणं च-सत्याषाढी- यादिसमाख्यानां दृढकर्तृस्मरणात्प्रवचननिवन्धनत्वायोगेन पौरुषेयत्वस्याक्षतत्वात् । दुर्बोधोपसंहारार्थेषु कल्पेषु सुबोधकैः शब्दैः प्रत्यक्षनिबन्धनस्याप्यावश्यकत्वात् नित्यब्रह्मयज्ञविधिविषयत्वस्य प्रवाहनित्यतयाऽप्युपपत्तेश्च न स्वतन्त्रतया कल्पसूत्रजालं प्रमाणमिति । अर्थवादाभावोऽप्यन्त्र कल्पस्यावेदत्व एक लिङ्गम् । प्रयोजनं च-सर्वोs- परपक्षः' (खा० गृ. ७१) इत्याचंशेषु संनिहिताभिः-'अमावास्यायाम् ' (स. सू० १।३।१९ ) इत्यादिप्रत्यक्षश्रुतिभिर्बोधितेषु कल्पसूत्राणामप्रामाण्यम् । अत्र भाष्य कृदभिमतं ' सर्वोऽपरपक्ष: ' इत्याद्युदाहरणं चिन्त्यम् । पूर्वपक्षापरपक्षयोरपि दर्शपूर्ण- मासकालत्वस्य प्रत्यक्षश्चतिसिद्धत्वात् । दर्शपूर्णमासकालातिक्रमप्रायश्चित्तपथिकृर्दिष्टेस्त- समानतन्त्रतानिन्दापूर्वकं दार्शपूर्णमासिकस्याऽऽययागस्यैव पथिकृद्गुणकत्वविधायिन्यां सूत्रकारायुदाहृतायाम्-' अथकेपा विवा एतस्य ' ( स० श्री० १५।३।२ ) इत्यादि- शाखान्तरीयश्श्रुतावगम्यमानया निन्दया नहि निन्दान्यायेन पथिकृद्गुणकत्वप्रशंसामा- अपरया विकल्पेन समानतन्त्रताया अपि शाखान्तराभिमतत्वेनानुमिते समानतन्त्रे. 1 4 ० - , , 4 , o - [७] वा ' ( स० श्री० १५१४।३) इत्यादिमिः सत्यापाठः दिवाक्यैरनुगृहीताया अन्यथा. नुपपत्त्या कालान्तरेऽपि दर्शपूर्णमासकरणस्य संभवाच्च । यच्च वार्तिकादिषु- 'अविशे- पादुभौ वा' ( का श्री० ३१८४ ) इत्यादिसूत्राणां श्रुतिविरोधेन तत्तन्न्यायाभासमूल. कतया चाप्रामाण्यमभिप्रेतं तदप्यनुपपन्नमिति द्रष्टव्यम् । अयं च सत्याषाढाख्यसूत्रकारः कस्मिन्नदीतीरे कस्मिन्क्षेत्र आसीदिति वृत्तं किंचि- निवेदयामः । महर्षिवैशम्पायनवंशसंभूतो महामुनिः सत्यापाढः सह्याद्रेः पूर्वमागे परशुरामक्षेत्रे वा हरणकाशीनदीतीरे बभूवेति स्कन्दोपपुराण तोऽवगम्यते । एकदा मुनिः सत्याषाढः स्वाश्चममागच्छन्तं परमपूज्यं वेदव्यासमपश्यत् । यथावत्कृतातिथ्यं सुस्थितं च तं पप्रच्छ देवेषु कः श्रेष्ठ इति । तदा तस्य मुखाच्छिव एव श्रेष्ठ इत्यवगत्य तपसे हरण. काशी ययौ । ततश्च तपसा सुसंतुष्टः शंकरः प्रत्यक्षीभूय तरमै वरानिष्टान्विततार । एवं शिवप्रसादतोऽधिगतदिव्यचक्षुर्मुनिः सत्यापाटो हिरण्यकेशी सर्वत्र पूज्यो बभूवेति सुविदितमेव प्रायो निगमविदाम् । तस्य च सूत्रानुयायिनः परशुरामक्षेत्रे ( देशे देशे) बहवो निवसन्ति । तस्मिन्सूत्रे पदार्थाश्च संक्षेमतो लिल्यन्ते - व्यासाद्गुरोरधिगतार्थयजुःसमाख्य- वेदप्रवर्तकमुनेराधिगत्य शाखाम् । देहेन तित्तिरखगाकृतिना मुनीन्द्रा- नध्यापयन्मुनिवरो व्यभजत्स्वशाखम् ।। हिरण्यकेशी भगवान्सत्याषाढाभिधानका : सप्तविंशतिप्रश्नाख्यं कल्पसूत्रमुदेश्यत् ।। आद्यप्रश्नद्वये दर्शपूर्णमासौ सुविस्तरौं । तृतीये साङ्गमाधानमग्निहोत्रसमन्वितम् ॥ चतुर्थे पशुबन्धं च चातुर्मास्यानि पञ्चमे । षष्ठे हविर्यानमानं प्रवासविधि मे( रे )व च ।। ज्योतिष्टोमाध्वर्यवं च त्रिभिः प्रश्नैरुदैरयत् । दशमे तद्याजमानं ब्रह्मत्वं दक्षिणाविधिम् ॥ प्रश्नद्वयेऽग्निचयनमुखासंभरणादिकम् । त्रयोदशे वाजपेयमश्वमेधं चतुर्दशे ॥ ततः पञ्चदशे प्रश्ने प्रायश्चित्तं सविस्तरम् । अग्निहोत्रं चैष्टिकं च पाशुकं सौमिकं तथा . . [८] षोडशे तु द्वादशाहं महाव्रतविधि गवाम् । ततः सप्तदशप्रश्ने एकाहाहीनसत्क्रियाम् ॥ अष्टादशे ततः प्रश्ने सत्राणि विविधानि च । एकोनविंशे विंशे तु गृह्यकर्मविनिर्णयम् ।। अथैकविंशे प्रश्ने तु हौत्रप्रवरनिर्णयौ । काम्येष्टिकाम्यपशवः प्रश्ने द्वाविंश ईरिताः ।। त्रयोविंशे च कौकिली सौत्रामणी सकाठकाम् । चतुर्विशे प्रवर्ग्यं च सप्रायश्चित्तकं तथा ॥ पञ्चविंशे विशेषेण, विहारयोगनिर्णयम् । षड्विंशे सप्तविंशे तु सर्वधर्मानशेषतः ॥ एवं सामान्यतः सर्वप्रश्नानामर्थसंग्रहः । पुनरेव हविः सोमः पाकयज्ञ इति त्रिधा ॥ अग्निहोत्रं दर्शपूर्णमासावाग्रयणः पशुः । चातुर्मास्यं पिण्डयज्ञः सौत्रामणी हविः क्रियाः ॥ अग्निष्टोमोऽत्यग्निष्टोम उक्थ्यषोडशिनी तथा । वाजपेयातिरात्राप्तोर्यामाः सोमतोर्मिदाः ।। होमो पाकावमाश्राद्धं माध्यावर्षं तथाऽष्टकाः । श्रवणाकर्माग्रहायणीः पाकयज्ञाः स्मृता बुधैः ॥ इत्येवं भगवान्सत्याषाढः सप्तविंशतिप्रश्नात्मके. सूत्रे श्रौतगार्डसामयाचारिकान्धर्मा' व्याख्यातवान् । ननु-'चोदनालक्षणोऽर्थो धर्मः' (जै० सू० १ । १ । २) इत्यत्र परोक्षापरोक्षद्विवि- धचोदनाया अपि संग्रहो विद्यत इति प्रत्यक्षवेदस्य विधिमन्त्रार्थवादरूपस्य प्रामाण्यविचारानन्तरं परोक्षतद्वाक्यप्रामाण्यविचार इत्युपपन्नम् । परोक्षत्वं चेदं न मन्वा- दिदृष्ट्या कित्वस्मदादिदृष्टया । मन्त्रादीनां तु तदपि प्रत्यक्षमेव । परंतु तत्तद्वाक्यं मन्वादिस्मृतिमूलभूतं विप्रकीर्णशाखागतमिति न तस्यापि मन्वादिभिः संप्रदायोच्छेदा- दिभिया पाठनं स्वकीयस्मृतीनामिव कृतमिति न दोषः । अयं भाव:--'स्वाध्यायोऽध्येतव्यः' (तै. आ०२।१५) इति विधिवाक्ये अध्या- यस्य स्वत्वविशेषणादेकवेदगतस्वपरम्पराप्राप्तशाखाध्यायनम् । वेदानीत्य वेदौ वा वेदं वाऽपि यथाक्रमम् । इति वचनाद्वेदान्तरीयसर्वशाखाध्ययनं च विधीयते । तथा च कृष्णयजुःशाखा- ध्यायिनां यजुर्वेदगतशुक्लयजुःशाखाध्ययनादिकं, ऋग्वेदगतस्वपरम्पराप्राप्पैकशाखाध्यान यिनां तद्वेदगतशाखान्तराध्ययनं च निषिद्धं गम्यते । गुणोपसंहाराधिकरणे च (२ । ४ । २ ) सर्वशाखीयानां धर्मे सर्वैरनुष्ठानं कर्तव्यमसति विरोधे, सति तु विरोधे व्यव- स्थितविकरूपादिकं निरूपितम् । तथा च शाखान्तरीयाणां धर्माणां शाखान्तरीयवाक्या- ध्ययनासंभवात्तेषामप्रत्यक्षत्वेऽपि मन्वादिस्मृतिमात्रपर्यालोचनया तादृशं किमपि वाक्य शाखान्तरे स्यादिति विश्वासेन तदानुष्ठानमावश्यकम् । तत्र घ मन्वादिभिः स्वसाक्षात्कृतस्यापि शाखान्तरीयवाक्यस्याध्ययनं यदि क्रियेत तर्हि 'स्वाध्यायोऽध्येतव्यः' (तै० आ० २ । १५) इति विधिविच्छेदः कृतः स्यात् । सस्याषाढादिकल्पसूत्रकारमते ह्यपूर्वस्य फलदातृत्वम् । आपातत ईश्वरानङ्गीकारः । मन्त्रमयी देवता, न विग्रहवती । अतीन्द्रियसुखाभावः । क्रियापरः सर्वो वेदः । वटवीजवत्संसारोऽनादिः । स्वर्गसुखप्राप्तिरेव कर्मणा मोक्षः । क्रियान्विते शब्दशक्तिः । अख्यातिवादः । सर्वं ज्ञान प्रमैव । स्थूलशरीराद्भिन्न आत्मा परमार्थनित्यः । धर्मस्य ( कर्मणः ) परमेश्वरबुद्ध्या निष्कामतयाऽऽचरणेऽन्तःकरणशुद्धया क्रमेण ब्रह्मात्मैक्य- ज्ञानेन कैवल्यमुक्तिरिति सत्याषाढगुरोर्व्यासमतं ब्रह्मकाण्डसिद्धान्तश्च । शास्त्रान्तरेषु यावन्ति पुस्तकान्यतिगभीराणि दुरवगाहाणि च वर्तन्ते ततोऽन्यूनं तानि कल्पसूत्रेऽपि विद्यन्त इति न वयमल्पज्ञाः पारयामोऽस्य परिच्छेत्तुं गभी- रतादिकम् । अस्य सत्याषाढसूत्रस्य प्राचीन कौशिकगोत्रोत्पन्नभट्टमहादेवकृतवैजयन्तीन्याख्यानं विस्तृत प्रथमषटकान्तं, ततः सप्तमप्रश्नादारभ्य दशमान्तं गोपीनाथभट्टकृतं ज्यो- तस्नावृत्तिनामकं व्याख्यानमुपलभ्यते संमुद्रितं च । तत एकादशप्रश्नादारम्यापरं नूतनं प्रयोगचन्द्रिकान्याख्यानं महादेवदीक्षितसोमयाजिसंकलितं स्वतन्त्रम् । अत्रेदानी मुद्रि- तुमारब्धं भागशः सत्वरं प्रकाश्यतेति विज्ञाप्य श्रीमतां विनायक गणेश आपटे बी. ए. तथा श्रीमता दत्तात्रेय विष्णु आपटे बी. ए. आनन्दाश्रमव्यवस्थापकानां चाऽऽयुरारो- ग्यादि संपदे भगवन्तमुमारमणं रमारमणं च सविनयं प्रार्थयते- पुण्यपत्तने, कातिकवदि द्वादश्यामिन्दुवासरे शके १८४९ प्रभवसंवत्सरे धारवाडग्रामनिवासी दण्डवत्युपात्रिकाण्डमण्डनाचार्य- महादेवदीक्षितः सोमयाजी । सत्यापाढचयनसूत्रोपोद्धातः । , . O सत्यापाढं नमस्कृत्य महादेवः सतां मुदे । तनुते तत्प्रसादेन करणीमिष्टकां शुभाम् ॥ अथ द्वितीयश्येनस्यैकविधस्येष्टकाकरणानि वक्ष्यन्ते । तत्राऽऽदौं पुरुषप्रमाणानय- नम् । ' विधासप्तमकरणी पुरुषस्थानीयां कृत्वा विहरेत् ' ( स० शु० सू० २५ । ९) इति शुल्बसूत्रम् | यावत्योऽर्विधाः सन्ति तासां सप्तमं या करोति मा विधा सप्तमक- रणी । तां पुरुषस्थाने कृत्वा तया चाऽऽत्मपक्षाच्छानि विहरेत् । अयमर्थः-यद्येकवि- धोऽग्निस्तं पञ्चदशधा विभज्य द्वौ भागौ समस्य समचतुरनं कृत्वा तस्य प्रमाण पुरुष- स्थाने कृत्वाऽनेनाऽऽत्मपक्षपुच्छानि विहरेत् । एवमेव द्विविधादिषु कुर्यात् । चत्वारि सहस्राण्यशीतिः सप्तमकरणीति ताः ( पुरुषः ) तेषां वर्ग एककोटिः षत्रियुतानि षड्- युतानि चत्वार्ययुतानि षट्सहस्राणि चत्वारि शतानि । रघष्टविधं पुरुषवर्गमष्टाभिर्गण- यित्वा पूर्वराश्यर्धेन संयोज्य तत्पश्चदशभिर्विभज्य लब्धं द्विगुणीकृत्य मूले गृहीते (स) तस्य पुरुषो. भवति । अपचये त्वरत्निप्रादेशानामभावान्नार्धसंयोग इतरदुपचयवदिति । अथ पुरुषानयनप्रकारः । विधासप्तमकरण्या अगुलयः १२० । एतं एवं चतु. त्रिंशताऽङ्कः ३४ गुणिताश्चे ४०८० तिला भवन्ति । एते तिला एतैरेवाकैर्गुमिता १६६४ ६४०० वर्गसंज्ञा भवन्ति । वर्गेषु १५० भक्तेषु सत्सु लब्धाङ्काः ११०९. ७६० । लब्धाङ्केषु द्विगुणितेषु सत्सु प्राधाङ्काः २२१९५२० । एतेषामकानां त्यक्त्वाऽन्त्याद्विपमाद्वर्ग मूलं द्विघ्नं न्यसेत्समे तद्धृते लब्धवर्ग हित्वाऽमाद्विषमात्पुनः, इति रीत्या मूलगणिते कृते लब्धमूलाङ्काः १४८९ एते च तिलाः । एतेषु ३४ भक्तेषु सत्सु ४३ अङ्गुलयः अवशिष्टाः २७ तिला मूलावशेषितं सैकमिति रीत्या शिष्टतिलेण्वेकाङ्के मिलिते अगुलयः ४३ तिला २ ८ अयमेकविधस्याग्नेः पुरुषो भवति । एतत्प्रमाणेनैव शुल्बोक्तप्रकारेणाग्निमानेष्टकाकरणादीनि विधेयानि । तत्रेयं प्रक्रिया-अष्टाविंशतितिलाधिकत्रिचत्वारिंशदङ्गुलप्रमाणः पुरुषः ४३ तिलाः २८ । एकविंशत्तिलाधिकैकविंशत्यालयः २१ तिलाः ३१ पुरुषार्थम् । सार्धद्वात्रिं- शत्तिला अधिकदशाङ्गुलयः १० तिलाः ३२ पुरुषचतुर्थोऽशः । अष्टमांशो नवतिलाधि- कषडङ्गुलयः ६ तिलाः ९ पुरुषसप्तमः सपादषोडशतिलाधिपञ्चाङ्गुलय: ५ तिलाः १६ पुरुषाष्टमोऽष्टमांशप्साहितपञ्चविंशतितिलाधिकागुलिद्वयं २ तिलाः २५ पुरुषोडशो- ष्टादशतिलाधिकपञ्चदशाङ्गुलयः १५ तिलाः १८ पुरुषचतुर्थः सविशेषः षड्विंशति- तिला अधिकसप्ताङ्गुलयः ७ तिलाः २६ चतुर्थ सविशेषाधं पादोनपञ्चदशतिला अधिकषोडशागुलयः १६ तिलाः १४ त्रिगुणिताष्टमः पश्चविंशत्तितिला अधिकचतु । [२] दशाङ्गुलयः १४ तिलाः २५ पटेष्टकादीर्घकरणी दशतिलाधिकदशाङ्गुलयः १० तिलाः १: पक्षेष्टकाहस्वकरणी द्वाविंशतितिलाधिकाङ्गुलिद्वयं २ तिलाः २२ पक्षक- रणीसप्तमः-अष्टमांशेन त्रयोविंशतितिलाधिकपञ्चाङ्गुलयः ५ तिलाः २३ पक्षकरणीस. तमः । पक्षायामस्त्रयोदशतिलाधिकनवत्यङ्गुलयः ९. तिलाः १३ चतुर्दशतिलाधिकै. कोनाशीत्यङ्गुलयः ७९ तिलाः १४ पक्षाग्रव्यतिरिक्तपक्षायामश्चतुर्विशतितिलाधिक कोनचत्वारिंशदङ्गुलयः ३९ तिलाः २४ पक्षकरणी अष्टादशतिलाधिकाष्टादशाङ्गु- लयः १८ तिलाः १८ पक्षनमनी । सप्तदशतिलाधिकषट्चत्वारिंशदङ्गुलयः ४६ तिलाः १८ अष्टादशकरणी। अन्न प्रक्रियायामुदाहृतप्रमाणानां केषांचिदिष्टकासूपयोगः । केषांचिदग्निमाने । अथेष्टकाकरणानि । तत्र तावद्धितीयश्येनेष्टकाः षड्विधाः पोडश्यर्धा पादा पक्षा पक्षमध्यीया पक्षानीया इति । तत्राऽऽदौ षोडशी । पोडशी चतुभिः परिगृह्णीयादृष्टमेन त्रिभिरष्टमैश्चतुर्थेन चतुर्थ- सविशेषेण इति सूत्रम् । अस्यार्थ:---षोडशीसंज्ञकामिष्टका चतुर्भिः फलकैः संपादयेत् । अष्टमेन सपादषोडशतिलाधिकपञ्चाङ्गुलिकनैकं फलकम् । त्रिभिरष्टमैः, त्रिगुणिताष्टमे- नेत्यर्थः । पादोनपश्चदशतिलाधिकषोडशाङ्गुलिकनैक, इमे पार्श्वफलके। चतुर्थेन सार्धतिलोनैकादशाङ्गुलिकेनैक तिर्यक् । चतुर्थसविशेषेण अष्टादशतिलाधिकपञ्चदशा- गुलिकेनैकमक्ष्णया तिर्यक् । इमे तिर्यक्फलके । एवं चत्वार । एतैः फलकैः षोडशी कार्या । एवमग्रेऽपि ज्ञेयम् । अथाष्टकाः । अर्धेष्टको त्रिभिाभ्यों चतुभ्यौं चतुर्थसविशेषणेति । अस्यार्थः पूर्ववत् । चतुर्थाङ्गुलयः ( चतुर्थम्-अङ्गुलयः ) १० तिलाः ३२ । एवं द्वे चतुर्थ- सविशेषः । अङ्गुलयः १५ तिलाः १८ इदमेकम् । एवं त्रीणि फलकानि । एतैरर्धेष्टका कार्या । इयं त्रिकोणा। अथ पादेष्टकाः । 'पादेष्टकां विभिश्चतुर्थनेक चतुर्थसविशेषार्धाभ्यां च' इति । अर्थः पूर्ववत् । चतुर्थ, अङ्गुलयः १० तिलाः ३२ इदमेकम् । चतुर्थसविशेषाऽङ्गुलयः ७ तिलाः २६ इमे दे । एवं त्रिभिः फलकैः पादेष्ठका कार्या । इयमपि त्रिकोणा । अथ पक्षेष्टकाः । पक्षेष्टकां चतुर्मिीभ्यां चतुर्थाभ्यां सप्तमाभ्यां चेति । अर्थः पूर्व- वत् । चतुर्थमङ्गुलयः १० तिलाः ३२ इमे द्वे पार्थे फलके । सप्तमम्-अङ्गुलयः ६ तिलाः ९ इमे द्वे फलके तिर्यक् । एतैश्चतुर्भिः फलकै पक्षेष्टका कार्यो । दीर्घचतुरनं कृत्वाऽनन्तरं नमयेत् । नमनप्रकारमाह सूत्रकारः-'पक्षकरण्याः सप्तमं तिर्यङ्मानी पुरुषचतुर्थे च पार्थमानी तस्या अक्ष्णया रज्ज्वा करणं प्रजम्भयेत् ' १ नक्षनमनी सप्तमः । २ चेति । - [३] इति । अस्यार्थः-पूर्वोक्तप्रकारेण दीर्घचतुरश्नं चतुष्फलकैः कृत्वाऽऽयकोट्यामेको रज्जु प्रबद्धय वायव्यकोट्यामेकां रज्जु प्रनध्य च वलेन रज्ज्वाऽऽकर्षयेत् । यथा कर्षणे कृते पार्धमान्योरन्तराल मृजुत्वेन पक्षकरणी सप्तमेन किंचिदूनत्रयोविंशतितिला- धिकपञ्चाङ्गुलिकेन समं भवति तथाऽऽकर्षयेत् । तिर्यङ्मान्योरन्तरालं तु पुरुषचतुर्थ- मेकं न तस्य हासः किंतु पार्श्वमान्योरन्तरालस्यैव । एवं च वायव्यकोणमारभ्याऽऽग्नेय- कोणपर्यन्तं पञ्चविंशतितिलाधिकचतुर्दशाङ्गुलयो १४ तिला: २५ भवन्ति । नत्य(ती)- , कोणमारम्यैशानीपर्यन्तं दशतिलाधिकदशाङ्गुलयः १० तिलाः १० भवन्ति । अथ पक्ष- मध्यीयाः । पक्षमध्यीयां चतुर्भिाभ्यां द्विसप्तमाभ्यां चेति । अर्थः पूर्ववत् । चतुर्थे अङ्गु- लयः १० तिला: ३२ इमे द्वे पार्श्वे फलके । द्विसप्तमेऽङ्गुलयः १२ तिलाः १७ इमे द्वे तिर्यक्फलके । एवं चतुर्भिः फलकैः पक्षमध्यीया कार्या । . एवं दीर्घचतुरनं कृत्वाऽनन्तरं नमयेत् । नमनप्रकारमाह सूत्रकार:-'पक्षनमन्याः सप्तमेन फलकानि नमयेत्' इति । अस्यार्थः-पूर्वोक्तचतुरश्रस्य द्विसधमात्मकफलकयो- मध्यभागी संनमयेत् । अथ ( ब ) मध्ये नमने कृते पक्षमीयां भागद्वयं पक्षकरण्या: सप्तमेन किंचिदूनत्रयोविंशतितिलाधिकपञ्चाङ्गुलिकेन समं भवति, तथा नमयेत् । तिर्य- मान्योरन्तरालं तु पुरुषचतुर्थमेव । अष्टादशतिलाधिकाष्टादशाङ्गुलात्मकपक्षनमन्याः सप्तमेन द्वाविंशतितिलाधिकद्वयङ्गुलात्मकेनैकस्मिन् तिर्यक्फलकमध्यभाग उन्नतिं चैक स्मिन्निनिति (नता ) च कुर्यात् । तथा चायं निष्कर्षः । एका पक्षेष्टकामाग्नेयोन्नतकोणां संस्थाप्य तदक्षिणतोऽन्यामी- शानोन्नतकोणां संश्लेषयेत् । संश्लिष्टमध्यफलके वे उद्धरेत् । एवं कृते पक्षेष्टकाद्यपरि- मिता षट्कोणा भवन्ति । अथ पक्षाग्रीयाः । पक्षानीयां त्रिभिश्चतुर्थेनैक चतुर्थसप्तमाभ्यामेकं चतुर्थसविशेष- सप्तमाम्यां चेति । अर्थः पूर्ववत् । चतुर्थ-अङ्गुलयः १० तिलाः ३२ । इदं पार्श्व- फलकम् । चतुर्थसप्तममगुलयः १७ तिलाः ७ चतुर्थसविशेषसमं-अङ्गुलयः २१ तिलाः २७ इमे द्वे तिर्यक्फलके । एवं त्रिभिः फलकैः पक्षानीया कार्या । एवं चेशानोन्नतकोणामेका पक्षा संस्थाप्य तद्दक्षिणतः पूर्वभागस्थचतुर्थसविशेष- पूर्वफलकाम/ संश्लेषयेत् । संम्लिष्टमध्यफलके द्वे उद्धरेत् । एवं कृते पक्षेष्टकार्धष्ट- कोभयपरिमिता पञ्चकोणा भवन्ति । एवं षड्विधाः । सहस्रचितिपक्षे षड्विधेष्टकानां प्रत्येकैकाः संख्याः-षोडश्यः ( १९२ ) अर्वेष्टकाः ( १०४ ) पादेष्टकाः ( १६८) पक्षेष्टकाः (४६४) पक्षमध्यीयाः ( २४ ) पक्षाग्रीयाः ( ४८ ) इति सभ्य संख्याः (१०००) एतासामिष्टकानामाकाराः प्रदर्श्यन्ते-आदौ षोडश्या:-अर्धेष्टकायाः-पादे. ष्टकाया:-पक्षेष्टकायाः । [४] This picture pertains to shape, size and numbers of bricks used in a particular yajna.

अथ गार्हपत्यधिष्णियानां चतुरश्रकरणत्वमित्येकः पक्षः परिमण्डलमित्यपरः तत्र चतुरश्र पक्षे करणानि आकार: परिमाणं च वक्ष्यन्ते अंगुल २२ अं.१३ ति.२४ गार्हपत्येष्टका सं.१०५

गार्हपत्येष्टका सं.१०५
गार्हपत्येष्टका सं.१०५

अं.१३ ति.२४ अंगुल ३२ होतुधिष्णियाकार:

ब्राह्मणाच्छंसि९
ब्राह्मणाच्छंसि९

अं.८

आग्नीध्रीयधिष्णियाकार:

संभूय ८
संभूय ८

अं.८ संभूय सं. १२ . ब्राह्मणाच्छं.१ अं.८ संभूय.८ अ.८ अं.८

अथ प्रशास्तृ पोतृनेष्ट्रच्छावाक शामित्रचात्वालावभृथधिष्णियानां करणानि, आकार: परिमाणं च प्रदश्यन्ते। प्रशास्त्राद्यष्टानां धिष्णियाकारः

अं.१२ संभूय सं. ५६ ब्राह्मणाच्छंसि२

ब्राह्मणाच्छंसि२

अं.१२ माजलीयधिष्णियेष्टकाकार: [[File:Biljetteken.PNG|100px|thumb|संभूय. ६] अं.१२ संभूच. अं.८ अं. अ.१२ Poona Lil he works 6895. [६] षोडश्यादयः सर्वा इष्टकाः सार्धत्रयोदशतिलाधिकषडङ्गुलोच्छ्रायाः कार्याः । एतासो पाकवशेन प्रमाणहास उपधानकाले पुरीषेण तां पूरयेत् । ब्राह्मणाच्छसिधिष्णियेष्टका एकादश (११) तासां मध्ये नवहोतृधिष्णियेष्टका (९) द्वे हौत्रकधिष्णियेष्टके एवमेकादश (११) । अथवा प्रशास्त्रादिधिष्णियानां करणमपि नास्त्येव । होतुमार्जा- लीयधिष्णियाभ्यां, एव चरितार्थत्वात् । संप्रदायवशादत्र प्रदर्शितमस्माभिः । एवं धिष्णियानां पञ्च करणानि । एकविधेऽनौ । गार्हपत्यातिरिक्ताधिष्णियानां चतुर्विशत्य- मुलसमचतुरश्नता । परस्परमष्टादशाङ्गुलः संचारः ( संचरः) सदसि पृष्ठ्याया दक्षिणत उत्तरतश्च द्वादशाङ्गुल इति । होतुधिष्णियदक्षिणतः प्रशास्तुः--उत्तरतो ब्राह्मणाच्छंसिपोतृनेष्ट्रच्छावाकानामाग्नीध्रीयादयः स्वस्वस्थानीयाः ( स्थानेषु )। अथ विहारः । तत्र साग्निक्या वेदर्द्विपदक्रमेण प्रमाणम् । एकविधे तु द्वादशाङ्गुल- प्रमाणं पदम् । चतुर्विशल्यॉलात्मकप्रक्रमेण विमानम् । आदौ पञ्च पञ्चदशरत्न्या- यामां त्रिंशदरनिविस्तरां देवयजनयोग्या भूमि कृत्वा प्राक्पश्चिमप्रान्तमध्यदेशे शङ्क- निखाय तयोः शङवो रज्जु प्रसारयेत् । एषा रज्जुः पृष्ठ्यासंज्ञिका । पश्चिमनि- हिताच्छोः पुरस्तादनुपृष्ठय पोदशप्रक्रमे शकुः । प्रथमशकोदक्षिणतः षट्मक्रमे शङ्कुः । एवमुत्तरतः । द्वितीयशोदक्षिणतः षट्प्रक्रमे शङ्कुः । एवमुत्तरतः । एवं षोडशारत्न्यायामो द्वादशारनिविस्तारः प्राग्वंशः । प्राग्वंशस्य पुरस्तादनुपृष्ठ्यं त्रिषु प्रक्रमेषु शङ्कुः । एष शङ्कुर्महावेदेः पश्चिममर्यादा । अथ महावेदिः पूर्वोक्तवेदिमर्यादा शङ्कोः पुरस्तादनुपृष्ठ्यं विंशतिशकवः । पृष्ठया- न्तप्राचीशङ्कुमर्यादाशङ्कुम्यां सह द्वाविंशतिः । तथाहि मर्यादाशङ्कुः प्रथमः । ततः- त्रया (३) है (६) कै (१) क ( १) भू (१) चन्द्र ( १ ) हक् (२) चन्द्र- (१) द्वय (२) वहिषु (३)। भू (१) द्वये (२) क (१) द्वि (२ ) तथैकेषु (१) तथा द्वये(२) कै (१) क ( १) भूमिषु (१)। आदिमेन सहैवात्र स्युविंशतिशङ्कवः । ( इति ) एतत्संख्याव्यवहितेषु प्रक्रमेषु शङ्कन्निहन्यात् । ततः षट्त्रिंशत्परिमिता- मेकां रज्ज्जमुभयतःपाशां कृत्वा तस्यां षोडशप्रक्रमे कर्षणार्थ लक्षणं कुर्यात् । अस्यां षोडशिका तिर्यमानी विंशतिका अक्ष्णया रज्जः । अन्यां रज्जु द्वादशप्रक्रमपारी- मितामुभयतःपाशां कुर्यात् । अस्या द्वादशिकेति संज्ञा । विमानकाले अभिमतशकुषु द्वादशिकां प्रसार्य तयोः शवोरेव षट्त्रिंशिकां, पाशौ प्रतिमुच्य वक्ष्यमाणस्थानानि कल्पयेत् । आद्यषष्ठयोज्दशिकां प्रसार्थ तत्रैव षट्त्रिंशिका पाशौ प्रतिमुच्य षोडशिका पश्चिमतः कृत्वा लक्षणेनापायम्य प्रथमशङ्कोर्दक्षिणतः पश्चदशे शङ्कुः । एवमुत्तरतः । इयं महावेद्याः पश्चिममर्यादा । एवमग्रेऽपि विमाने क्रमो ज्ञेयः । द्वितीयशङ्कोदक्षि- णतो दशप्रक्रमे शङ्कुः । उत्तरतोऽष्टप्रक्रमे शङ्कुः । एषा सदसः पश्चिममर्यादा । तृतीयचतुर्थयोः शवोर्दक्षिणतो द्वादशाङ्गुले शङ्खः । एवमुत्तरतः । अयं होतुधि- 3 [७] ष्णियोऽरत्निपारमितः समचतुरश्रो भवति । परस्परमष्टादशाङ्गुलः संचरोऽवशिष्यते । होतुधिष्णियस्य दक्षिणतः प्रशास्तुः, तद्दक्षिणतो ब्रह्मसदनम् । होतुधिष्णियस्योत्तरतो ब्राह्मणाच्छंसिपोतृनेष्ट्रच्छावाकानां धिष्णिया होतृधिष्णियवत्कार्याः । षष्ठशङ्कोः पूर्ववत्सदो विमायास्मादेव शङ्कोरुत्तरत एकादशप्रक्रमे सप्तदशप्रक्रमे च शङ्कः । एषाऽऽ- नधिमण्डपस्य पश्चिममर्यादा । अष्टमशङ्कोर्दक्षिणतो द्वादशप्रक्रमे शङ्कुः । एष मार्जाली- ..यस्य मध्यशङ्कुः । एवमुत्तरतः । एष आशीधीयस्य मध्यमशङ्कुः । नवमशङ्कोर्दक्षिणतः सार्धप्रक्रमचतुष्टये शकुः । एवमुत्तरतः । इयं हविर्धानस्य पश्चिममर्यादा । दशमशङ्को- रुत्तरतः पूर्ववदाग्नीध्रमण्डपः । त्रयोदशशङ्कोरुत्तरतश्च चतुर्दशप्रक्रमे शङ्कुः । अयमुत्करः । ततः षट्विंशिकायाः पाशयोर्विपर्यास कुर्यात् । चतुर्दशशङ्कोर्दक्षिणत उत्तरतश्च पूर्व- बद्धविर्धानम् । विंशतिशङ्कोरुत्तरतः सार्धपञ्चदशप्रक्रमे शङ्खः । एष शामित्रः पूर्वप्रा- न्तशङ्कोदक्षिणतो द्वादशप्रक्रमे शकुः । एवमुत्तरतः। इमौ महावेद्याअंसौ । इयं महावेद्याः प्रामादा। अस्मादेवं शङ्कोरुत्तरतस्त्रयोदशप्रक्रमे शङ्कुः । एषा चात्वालदक्षिणमर्यादा। दक्षिण( तो) हविर्धानस्य पश्चात्सार्धप्रक्रमद्वयं त्यक्त्वा पार्श्वयोरपि पादन्यूनप्रक्रम- द्वयं त्यक्त्वाऽरनिमात्रं समचतुरनं कुर्यात् । इदमुपरवाणां स्थानम् । एवं विमाय महावेदि सदो हविर्धानमाग्नीध्रमण्डपं धिष्णियं चात्वालं च रज्ज्वा परिवेष्टयेत् । पारवेष्टितेषु तेषु संभूय प्रमाणम् । महावेदिः षट्त्रिंशत्प्रक्रमायामा पश्चास्त्रिंशत्प्रक्रमविस्तारा पुरस्ताच्च- तुर्विशतिप्रक्रमविस्तारा विषमदीर्घचतुरश्रा भवति । सदश्चाष्टादशवक्रमोदगायतं नवप्रक्रम- 'विस्तारं भवति हविर्धानं तु नवारनिविस्तारं नवायामं भवति । आनीधमण्डपं तु षट्प्रक्रमायाम षटपक्रमविस्तारमर्धमन्तधिष्णियाश्चतुर्विशत्यङ्गुलसमचतुरश्राः । चात्वालः शम्यामात्रः । औदुम्बरीस्थानं तु सदोमध्ये पृष्टयाया दक्षिणतः प्रक्रमे । तु यूपस्थान तु महावेद्याः पूर्वे वेद्यधु वहिर्वेदि, पूर्वप्रान्तशकुरर्धमन्तवेद्य) बहिर्वेदि। प्राग्व- शस्य पश्चात्पत्नीशाला यथासंभव विस्तारायामा। अथाऽग्निविमानम् । पूर्वोक्तपुरुषचतुर्थ सार्धतिलोनैकादशाङ्गुलात्मकं प्रक्रमं कृत्वा तेनाऽग्निं विमिमीयात् । तद्यथा-पूर्वनिहितद्वाविंशतिशङ्कुषु षोडशशङ्क्वोः पुरतः, एकादशशङ्कानिहन्यात् । तत्र क्रमः- :-षोडशद्वयहि(१) (३) भू (१) चन्द्र (१) शशि ११) चन्दै (१) क (१) भूमिषु (१) । चन्द्र (१) क (१) शशि (१) चन्द्रेषु (१) हन्याच्छंकरशङ्घकान् । एवं निहत्य पञ्चविंशतिप्रक्रमात्मिकामेकां रज्जुमुभयतःपाशां कृत्वा तस्यां द्वादशप्रक्रममितायां कर्षणार्थं चिह्नं कुर्यात् । अस्यां द्वादशिका तिर्यग्रज्जु- स्त्रयोदशिकाक्ष्णया रज्जुः । अस्याः पञ्चविंशतिकेति संज्ञा । विमानकालेऽभिमतशङ्कुषु पञ्चविंशतिकापाशयोर्मध्य एवैषा यथा भवेत्तथा कृत्वा विमिमीयात् । षोडशशङ्कुमारभ्य प्रथमादिव्यवहारः । T 1 [८] अथ विमानम् । षोडशशङ्की पञ्चिकाया एकं पाशं प्रतिमुच्यान्यं यत्र समो भवति तत्र प्रतिमुच्चैतयोरेव शक्योः पञ्चविंशतिकापाशी प्रतिमुच्य द्वादशिका तिर्यकृत्वा दाल- णतो लक्षणेनापायम्य चतुर्यु प्रक्रमेषु शङ्कुः । एवमुत्तरतः । इदं पुच्छाग्रम् । एवमग्रेऽपि विमाने क्रमो ज्ञेयः । द्वितीयशङ्कोर्दक्षिणतः प्रक्रमे शङ्कुरेवमुत्तरतः । एष प्रथमः पुच्छाप्ययश्चतुर्थशङ्कोर्दक्षिणतः प्रक्रमत्रये शङ्कुत्रये । एवमुत्तरतः । एषोऽपरः पुच्छा- प्ययः । एवं चाग्रेऽष्टप्रक्रमविस्तारो मध्ये द्विपक्रमविस्तारो मूले षट्नकमावस्तारः पञ्चप्रक्रमायामः पुच्छो भवति । अस्मादेव शङ्कोर्दक्षिणतः पञ्चविंशतितिलसहितद्वय. मुलाधिकसप्तप्रक्रमे शङ्कुः । एष पक्षायामः । अस्माच्छङ्कोर्दक्षिणत एकप्रक्रमे शङ्खः । इदं पक्षानम् । एवमुत्तरतः शङ्कुत्रयम् । एवं पञ्चमादित्रिभ्यः शङ्कुभ्यो दक्षिणत उत्त. रतश्च शङ्कुत्रयम् । एवं कृते सार्धपुरुषोदगायामः पुरुषविस्तार आत्मा चतुर्दशतिलाधि- कैकोनाशीत्यङ्गुलोदगायामौ पुरुषमात्रविस्तारौ पक्षौ । पुरुषमात्रप्रागायाम प्रक्रमविस्तारे पक्षाने च भवन्ति । ततो दशमशङ्कोर्दक्षिणतः प्रक्रमे शङ्खः । एवमुत्तरतः । एवमेका- दशशङ्कोर्दक्षिणत उत्तरतश्च प्रक्रमे शङ्क । इदं शिरःस्थानम् । एवं कृते शिरसि प्रक्रमात्म- कानि चत्वारि चतुरश्राणि भवन्ति । तत्राग्रिमचतुरश्रद्वये दक्षचतुरश्र ईशानकोणमा. रम्य निर्गतिकोणपर्यन्तं रेखामालिख्याक्ष्णया भागद्वयं कृत्वाऽऽग्नेयभागं त्यजेत् । उत्त- रचतुरश्र आग्नेयकोणमारभ्य वायव्यकोणपर्यन्तं लेखामालिख्येशानभागं त्यजेत् । पक्षापयोरपि चत्वारि चत्वारि प्रक्रमात्मकचतुरश्राणि कृत्वा दक्षिण(दक्ष)पक्षचतुरश्रेषु शिरोमदक्षचतुरश्रवदाग्नेयमागत्यागः । उत्तरपक्षायचतुरश्रेषु शिरोग्रस्थोत्तरचतुरश्रवदी- शानभागत्यागः । अथ पक्षसंनमनम् । अत्राष्टमप्रक्रमपरिमितामेका रज्जुमुमयतःपाशां कृत्वा तस्या कर्षणार्थ मध्ये चिहं कृत्वा दक्षपक्षायामपश्चिमप्रान्तशङ्कयोः पाशौ प्रतिमुच्य लक्षणेन पूर्वतः कर्पयेत् । चिह्न यत्र पतति तत्र शकुं निहन्यात् । एवं दक्षपक्षायामपूर्वप्रान्तशब्क्योः पाशौ प्रतिमुच्य पूर्ववदाकृष्य चिह्न यत्र पतति तत्र शकुं निहन्यात् । एवं कृते पक्ष- पूर्वोन्नतः पश्चिमनिम्नो भवति । एवमुत्तरपक्षस्यापि विमानम् । ततः सर्वतः स्पन्धया । वेष्टयेत् ॥ प्रयोगचन्द्रिकावृत्तेः(त्तिः)सत्याषाढमुनेचः । कल्पसूत्रस्येह कृतः सूत्रार्थन्यायनिर्णयः ॥ शेखरे चन्द्रचूडस्य तुष्टयेऽस्तु मयाऽर्पितः । गृह्णाति हि किमप्येष भक्तैर्यद्यत्ततः कृतम् ।। इति सत्याषाढचयनसूत्रोपोद्घातः । १ अनन्तरमष्टमशड्कोः पाशौ विपर्यस्य दक्षिणत उत्तरतश्च शकुत्रयम् । पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२९ ॐ तत्सद्ब्रह्मणे नमः।

सत्यषाढविरचितं श्रौतसूत्रम्

महादेवशास्त्रिसंकलितपयोगचन्द्रिकाव्याख्यासमेतम् ।

अथैकादशप्रश्नप्रारम्भः ।

तत्र प्रथमः पटलः ।

यदर्पितं कर्म फलाय कल्पते. यदर्पितं बन्धविमुक्तयेऽपि च । सच्चित्सुखानन्तमनन्तमीश्वरं नमामि विष्णुं दुरितेभदारणम् || १ || वेदत्रयात्मन्न[न]लत्रयात्मन्नीशत्रयात्मन्प्रकृतेर्गुणात्मन् । जन्तोरवस्थात्रितयानुविम्धी(म्बि)बिम्बत्रयात्मन्नव मामनर्थात् ॥ २ ॥ विनेययुक्ताखिलसिद्धवर्यलसच्चिदानन्दसुखं मुनीन्द्रम् । नमामि सूत्रार्थविदे मुदाऽहं हिरण्यकेश्याख्यगुरुं कृपाब्धिम् ॥ ३ ॥ गुरुं गणपति नौमि जन्मज्ञानप्रदौ तथा । सह गौर्या महेशानं नौमि विष्णुं च पद्मया ॥ ४ ॥ ज्योतिष्टोमयाजमानं दशमप्रश्न ईरितम् । एकादशद्वादशयोर्वेक्ष्यन्ते (ते) चयनक्रतुम् (तुः) ॥ ५ ॥ ननु वैखानसाधा आचार्याः सप्त संस्थाः सोमस्योपदिशन्ति- अग्निष्टोमोऽत्यनि- होम उक्थ्यः षोडशी वाजपेयोऽतिरात्रोऽप्तोर्याम इति सप्त सोमयज्ञसंस्थाः ' (वै. श्री० १-१) इति । तासु चोत्तराः षडप्याद्यस्याग्निष्टोमस्य गुणविकारास्तत्केन विशेषणात्यग्निष्टोमवाजपेययोरनुपादानमिति चेन्न-प्रकृतिभूतानामेव ज्योतिष्टोमसंस्थाना- मत्रानुक्रमणस्याभिप्रेतत्वात् । न तु सोमसंस्थामात्रस्याग्निष्टोमगुणविकारमात्रस्य वा । तत्र न तावदत्यग्निष्टोमः कस्यचित्कतोः प्रकृतिः । वाजपेयस्तु न प्रकृतिः । नापि ज्योतिष्टोमः, सर्वसप्तदशत्वाद्वाजपेयस्य । अतो युक्तमेवानयोरनुपादानम् । तस्मादेवं सिद्धं पञ्चशा- खोऽग्निष्टोमो ज्योतिष्टोम एव सर्वसोमानां प्रकृतिरिति । तथा सर्वक्रतूनां प्रकृतिरग्निष्टोम इत्येतदभिप्राय द्रष्टव्यम् । न च- अग्निं व्याख्यास्यामः । स उत्तरऋत्वर्थः । इति वक्ष्यमाणसूत्रादुत्तरक्रत्वर्थत्वस्याग्निविषये विधानेनार्थादग्निष्टोम उत्तरवेदिसिद्धेः, आपस्त- म्लेन भगवता परिभाषासूत्रे- अग्निष्टोम उत्तरवेदिः । उत्तरेषु ऋतुष्वशिः ' ( आप. , , [११ प्रश्ने- , 6 , सत्यापाटविरचितं श्रौतसूत्रम्- पार० ४ । ७ । ८) इति स्पष्टवचनाचोक्थ्यादीनामग्निष्टोमविकारत्वादुक्थ्यादिष्वप्यग्नि- चित्या निषेधोऽस्त्विति वाच्यम् । गुणविकृतेन रूपेण तेषामनग्निष्टोमत्वादुत्तरक्रतुत्वाच्च । न च- अग्निष्टोम उत्तरवेदिः ' इत्यापस्तम्बसूत्रमपि पञ्चशाख (खा)प्रकृत्यभिप्रायम्- — उत्तरेषु ऋतुषु ' इति तु तद्विकाराभिप्रायमिति वाच्यम् । अन्यत्र साद्यस्वेभ्यो वाज- पेयात्षोडशिनः, ( आप० पार० ४।८) इति षोडशिपयुदासानुपपत्तेः । न च षोडशिविकाराद्वाजपेयादिति वाजपेयविशेषणतया षोडशी योज्यः इति वाच्यम् । व्यभिचाराभावेन विशेषणवैयर्थ्यात् । संभवव्यभिचाराभ्यां स्याद्विशेषणमर्थवादित्यमियु- तोक्तेः । न ह्यपोडशिविकारोऽपि वाजपेयोऽस्ति येन तद्व्यवच्छेदाद्विशेषणमर्थवद्भवेत् | किमिदानीमुक्थ्यादिषु लभ्यत एवोत्तरवेदिः । मैवम् । सर्वास्वेव विकृतिषु लभ्यते विक- स्पेन । अपचितिकामोऽपचितिभ्यामुभयसामानौ भवतः पक्षिम्यां साग्निचित्याभ्याम् , ( स० श्री० १७ । ११ ) इत्यत्र नियमदर्शनात् । · अनग्निकान्वा यज्ञक्रतूनाहरेत् इति बौधायनोक्तेश्च । तस्मात्सिद्धमुक्थ्यादिष्वाप भवत्येव पक्षेऽग्निचित्येति । अथेदानी- मुत्तरेषु ऋतुष्वाकासितमग्निचयनकर्म वक्तुं शिष्यावधानाय प्रतिजानीते-

अग्निं व्याख्यास्यामः ।। १ ।।

अग्निराग्निशब्दो यागनामप्रतीचेत(तये) । अग्निस्तोत्रमझेः शस्त्रमिति स्तोत्रशस्त्र- युक्तया निर्देशरूपलिङ्गदर्शनात् स्तोत्रशस्त्रयोः क्रत्वेकसम्बन्धत्वादिति स्तोत्रशस्त्र- वाक्येऽनुपपत्तिबलाल्लक्षणयाऽग्निशब्दस्य तयुक्तक्रतुपरत्वमात्रेण विद्वद्वाक्ये यागनामत्व. मग्निशब्दस्य, तं व्याख्यास्यामो. व्यक्तं वक्ष्याम इत्यर्थः ।। ननु- य एवं विद्वानग्निं चिनुते । इति श्रुतं तथेमान्यपि वचनानि– अथातोऽग्नि- मग्निष्टोमेनानुयजन्ति तमुक्थ्येन इत्यादि । तत्र संदेहः, किमयमग्निं चिनुत इति याम- विधिरुताग्निसंस्कारमात्रं स्वतन्त्रं विधीयते, किंवा ज्योतिष्टोमादिषु गुणो विधीयत इति । तदर्थं च किमग्निशब्दो यागनामधेयमुत द्रव्यवचन इति । तत्रांश्चदाभ्यवत्प्रकरणे पुनः संकीर्तनाभावान्न ऋतुसंयोगस्तदभावे च संस्कारमा स्वतन्त्रमनर्थकम् , ' अतोऽग्निं कुर्यात् । इति यामविधिः । चिनोतिश्चेष्टकाभिरग्निं चिनुते, इति वाक्यप्राप्तानुवादो निर्वपतिवत् । कथं पुनरसति यनिश्रवणे यागविधानम् । उच्यते-अग्निं कुर्यादिति ताक्संजयैव कर्म न्तरेऽवधारिते-'अथातोऽभिमग्निष्टोमेनानुयजन्ति' इति यदग्निं यजति तदा(द)शिष्टोमेनेति संस्थाविधिपरे वाक्ये यजतिनाऽनुवादादुत्पत्तौ यागवचनोंऽग्निशब्द इति गम्यते । यद्यपि नार्य संस्थाविधिः कित्वनिष्टोमसंस्थेन यागेनाग्निमनुयजन्तीति तथाऽप्यनेर्यानत्वम् । ने झन्यथाभूतमन्येरनृपष्टुं शक्यते । यथा देवदत्तमनुगच्छति , 1 , १ पटलः] - महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ३ यज्ञदत्त इत्युक्ते देवदत्तोऽपि गच्छतीति प्रतीयते, अन्यथाऽनुगमानुपपत्तेरेवमनुयजन- पशादेवाग्नेर्यागत्वसिद्धिः । तस्माधागविधानं स्यादिति प्राप्तेऽभिधीयते- अग्नेश्चयनसंस्कारमात्रमत्र विधीयते । तस्याथातोऽग्निमित्यादिवाक्यैः स्यात्क्रतुसंगतिः ॥ वह्नौ रूढोऽग्निशब्दोऽयं न हि यागस्य वाचकः' । नह्यग्निशब्दोऽत्यन्तरूढत्वाद्वाक्यभेदतत्प्रख्यतद्वयपदेशविधुरत्वाच्च यागनामत्वं प्रति- पद्यते । तेन ज्वलनस्ये(स्यै)वाऽयं चयनसंस्कारो विधीयते । तस्य च संस्कारस्य ऋतु- संबन्धपराण्यथातोऽग्निमग्निष्टोमेनानुयजन्ति, इत्यादीनि । अत्राग्निशब्दः प्रकरणाच्चयन- संस्कृतेऽनौ वर्तते । अनुशब्दश्चयनापेक्षया पश्चाद्भाव्यग्निष्टोमादि नामाऽऽह । तेन चयनसंस्कृतेऽग्नावग्निष्टोमादिभिर्यजेतेत्यर्थः। न त्वत्राप्यग्निशब्दो यजिसमानाधिकर- णो येन नाम स्यात् । म चावश्य तुल्यरूपाणामेव पौर्वापर्यम् । ' पाकमनुभुङ्क्ते इत्यादिषु विजातीयानामपि दर्शनात् । तस्मादपि ज्योतिष्टोमादिषु गुणविधिः ॥ १ ॥

स उत्तरक्रत्वर्थः । अन्यत्र साद्यस्क्रेभ्यो वाजपेयात्षोडशिनः सारस्वताच्च सत्रात् । अग्निशिनस्तोमो यथोपदिष्टं वा । रात्रिसत्रेषु समहाव्रतेष्वश्रवणार्था पुनश्चितिः ।। २ ।।

स चाग्निः परेडशिनि तद्विकारे च वाजपेयेऽसंकीर्तनान्न भवति । साद्यस्वेषु सद्यः परिसमाप्तेरसंभवाच्चयनाभावः । सारस्वते सत्रेऽनवस्थानान्नाग्निश्चीयते । अत एते. भ्योऽन्यत्रोत्तरेषु ऋतुष्वग्निः । उत्तरेषु ऋतुष्वग्निविधानात्तत्र प्रकरणाम्नातोत्तरवेदिः, तत्राऽऽहवनीयात्प्रणीयते । उत्तरेषु क्रतुप्वग्निष्टोमोत्तरकालकार्येषु साद्यस्क्रादिभ्योऽ- न्यत्राग्निष्टुज्ज्योतिष्टुदादिविकृतिष्वनारभ्याधीतोऽग्निश्चीयते । चितावाहवनीयप्रणयनम् । तेषूत्तरवेदिरपि लभ्यते–' साग्निचित्यो भवति पक्षिभ्यां साग्निचित्याभ्याम् ' इति क्वचि- नियमविधानादन्यत्रानियम इति केचिदाहुः । ' उत्तरवेद्या५ ह्यग्निश्चीयते ' इत्यनारभ्या- धीतोऽग्निरुत्तरवदिद्वारेण प्रकृतिं गच्छति । यथा स्रुवद्वारेण खदिरः । तत्राग्निचयनेन प्रकृताववरुद्धायां बढचवचनात्- 'अग्निवै देवानां होता तस्यैष स्वो लोको य उत्तर- नाभिः ' इति प्रणेयोऽग्निरुत्तरनाभौ प्रतिष्ठाप्यः । एवमुत्तरवेद्यन्तः प्रत्यायनमग्निचयनं विकृत्यर्थं भविष्यति साप्तदश्यवत् । तदाहाऽऽपस्तम्बः-अग्निष्टोम उत्तरवेदिः । उत्तरेषु क्रतुष्वग्निः, (आप० परि०४-८) इति । तत्रैवाग्निष्टोमसंस्थे ज्योतिष्टोमे वचना- ग्निचयनं भविष्यति । ' अथातोऽग्निमग्निष्टोमेनानुयजन्ति तमुक्थ्येन तमतिरात्रेण तं . 9 सत्यापाढविरचितं श्रौतसूत्रम्- द्विरात्रेण तं त्रिरात्रेण ' इति । अतः प्रकृतावेवाग्निचयनोत्तरषेद्योर्विकल्पितयोः प्रकृति- तिवद्विकृतिष्वपि विकल्पः । अत एव सर्वत्र विकृतिषु विकल्पप्रसक्ती-साग्निचित्यो भवति । पक्षिभ्यां साग्निचित्याभ्याम् ' इति नियमविधिरुपपद्यते, बीहिमयपशुपुरोडाश- वत् । द्विगवादिष्वग्निचयनविधानमोपदेशिकत्वेन गुणकामादिसिद्धयर्थमिति । नन्वग्निरनारभ्यवादविहितः स वाक्येन प्रकृतौ विकृतिषु च कासुचिद्विनियुज्यते- 'अथातोऽग्निमग्निष्टोमेनानुयजन्ति तमुक्थ्येन तमतिरात्रेण तं त्रिरात्रेण ' इत्येवमा द्वाद- शराबादनुक्रान्तः सोऽयमग्निर्यासु विकृतिषु वाक्येन नोपदिष्टो यथा षोडशिषु वाजपेये च तत्र कि चोदकप्राप्त्या कर्तव्यो नेति संशयः । तथाऽतिमाह्या नाम महाः प्रकृती श्रुताः, विकृतिष्वपि कासुचिद्रुपदिष्टाः 'उक्थ्ये गृहीयारपृष्ठे गृह्णीयात् विश्वनिति प्रगृ- (ग्रोहीतव्याः' इति । तेऽपि विकृत्यन्तरेषु ग्राह्या नेति संशयः । तत्र- 'चोदकेनापन्यतिमाझं विकृती न प्रदिश्यते । कासुचिच्छ्रवणं तस्य तथाहि स्यादनर्थकम् ॥ तस्मात्तदर्थवत्त्वाय प्रदेशो मेति कल्प्यते । तेन यत्रोपदेशोऽस्य तत्रैवान्यत्र न किया। उच्यते- अङ्गान्तरवदस्यापि प्राप्तिश्चोदकतो ध्रुवा । चोदकार्थस्य कृत्स्नत्वात्कासुचिच्छ्रवणं पुनः ॥ सामान्यविध्यासिद्धयर्थं नातिदेशे निवारयेत् । चेत्सामान्यविधी कोऽयोगुणकामप्रवर्तनम् ' ॥ यासु विकृतिषु विधीयते तासु प्रकृतौ च समान विधानं भवति । विकृत्यन्तरेषु तु चोदकतः प्राप्तिरिति न प्रकृतितुल्यं विधानं, समानविधानत्वे च प्रयोजनमग्न्याश्रितानां गुणकामानाम्-'श्येनचितं चिन्वीत स्वर्गकामः' इत्यादीनां सास्वपि विकृतिषु प्रवृत्तिः । गुणकामा हि प्रकृतमाग्निमाश्रयन्ति प्रकृतश्चाग्निः प्रकृतिविकृतिसाधारणभूत इति तथा- भूतस्याऽऽश्रयत्वाद्विकृतिष्वपि गुणकामप्रवृत्तिः । यासु विधिर्नास्ति तासु तु न गुणकामाः प्रवर्तन्ते निवृत्तिर्वा कर्मभेदात् ' इति न्यायात् । तदेवं गुणकामप्रवृत्त्यर्थ विकृतिषु कासुचिच्छ्रवणमिति न तहलेनातिदेशाभावः शक्यते कल्पयितुम् । तस्मादस्त्यतिदेशः। अत्र केचिदाहुः– अनारम्याधीतोऽग्निः प्राकरणिकोत्तरवेदिविरोधात्प्रकृतौ न लभ्यते निवेशम् । अप्राकृतश्च न विकृतिष्वतिदिश्यते तेनोपदेशेनैवास्य विकृतिषु प्राप्तिरित्यनु- पदेशतः षोडशिवाजपेययोनौग्निश्चेतव्य इति । तदयुक्तम् । अग्निष्टोमवाक्येन प्रकृतावपि विधानात् । न तु विकृत्यग्निष्टोमाभिप्रायं तद्भविष्यति प्रकृती प्राकरणिकोत्तरखें- १ पटलः ] - महादेवशास्त्रिसंकलितपयोगचन्द्रिकाव्याख्यासमेतम् । दिविरोधात् । न हि प्रकरणेन वाक्यसंकोचो युक्तः । किंच प्रकृतेरेवाग्निष्टोमत्वमन्यापेक्ष विकृतीनां स्वतिदेशापेक्षामिति प्रकृतिरेवानेनाभिधीयते । न चात्र साप्तदश्यन्यायः, साप्तदश्यस्य हि सामिधेनीमानसंबन्धो वाक्येनावगम्यते ऋतुसंबन्धः कल्पयितव्यः । पाश्चदश्यस्य तु प्रकरणेन संबन्धः क्लप्त इति युक्तं बलावलम् । अग्निष्टोमशब्दस्तु क्रतु- मेवाभिधत्त इति तत्संबन्धो वाक्यकृत इति न प्रकरणेन वाघमर्हति । तस्मादस्ति प्रकृ- तावनिरिति विकृतिप्वप्यतिदिश्यते । तत्र साद्यस्केषु सारस्वतेषु च सत्रेप्वशक्यत्वा- काममग्निर्न चीयतां षोडशिवाजपेययोस्तु चेतव्यः ॥ २ ॥

अपि वा धार्यमाणेऽग्नौ प्रजापतिस्त्वा सादयतु तया देवतयाऽङ्गिरस्वद्ध्रुवा सीदेत्यन्तर्वेदिमभिमृशेत् । तिस्रो वा स्वयमातृण्णा उपधाय तासामुपधानकल्पः स्वयमातृण्णा साम पुरीषं विश्वज्योतिः । एवं विहिता द्वितीया पुरीषा तृतीया ।। ३ ।।

अपि वा तिस्रश्च स्वयमातृण्णाः सर्वाश्च विश्वज्योतिषस्तासामुपधानकल्पः स्वयमातृण्णा साम पुरीषं विश्वज्योतिरेवं विहिता द्वितीया तृतीयस्यां तु विश्वज्योतिः प्रथमा । अथ पुरीषम् । अथ स्वयमातृण्णाम् । अथ साम ।। ४ ।।

शर्कराख्यानां क्षुद्रपाषाणानां मध्ये पुरुषप्रयत्नमन्तरेण या स्वत एव च्छिद्रयुक्ता सेयं शर्करा स्वयमातृण्णा, तामत्रोपदध्यात् । विश्वशब्दोपेतेश्च मन्त्रै (ते० सं०४ ( ४ । ६ ) रुपधेया विश्वज्योतिषः । ताश्च तिनः प्रथममध्यमोत्तमचितिधूपदध्यात् । शेष स्सष्टम् ॥ ३ ॥४॥

तं चेष्यमाणोऽमावास्यायां पौर्णमास्यामापूर्यमाणपक्षे वा पुण्ये नक्षत्र ऋत्विजो वृत्वा ।। ५ ।।

अग्नयाधारत्वादिष्टकास्थण्डिलमुच्यते तत्संयोगात्ऋतुरप्याशिरुच्यते । अग्निं चेप्य- माणः ( आप० श्री० १६-३-१) इत्यापस्तम्बोक्तेः । तं चेप्यमाणः स्थण्डिलरूपा- निगुणकेन ऋतुना यक्ष्यमाणो भवति । तस्यानेः सोमाङ्गत्वात्सोमाङ्गरिह न्यतिषङ्गः । तस्याग्नेरनारम्याधीतत्वा स च सोमाङ्गेन पृथक्फलकः । उत्तरवेदिकार्थे तस्यैष स्वलेोको यदुत्तरवेदिर्नाभिः, इति प्रणयने प्रकृती श्रूयते । साग्निचित्ये तु ऋतौ स्वयमातृण्णाया- मासादनम् ! तस्माद्विकृत्यर्थमकाम्यत्वात् । यदि काम्यः स्यागोदोहनादिवत्प्रकृती H न:- ० सत्यापादविरचितं श्रौतसूत्रम्- [११ प्रक्षे- निविशेत । तेनाऽग्निगुणकेन ऋतुना यक्ष्यमाणः । अमावास्यायां पौर्णमास्यामेकाष्टकायां वोखासंभरणं करोतीत्यापस्तम्बः । एकाष्टका व्याख्याता सूत्रकारेण-या माध्याः पौर्णमास्या इति । अषाढा ब्यालिखितेष्टका मध्य उपधीयते तामधिकृत्येके शाखिनो धर्मा पठन्ति । तदा तूखा तूष्णी, ये तूखालिङ्गमन्त्राः ये धतूखे ' ( इत्येवमादयस्तेषा निवृत्तिः। यथा ब्रीहिलिङ्गस्य मन्त्रस्य यवेषु । अत्र संभारानाह बौधायन:- ' उखाः संभरिष्यन्नुपकल्पयतेऽश्वं च गर्दभं च तयोरेव रशने मौञ्ज्यौ वा कुशमय्यौ वाऽनिं च ब्राह्मणसंपन्नां मृद च भावितां करणीयां वल्मीकवपां कृष्णाजिनं च पुष्करपणे च योक्त्रमुदकुम्भ- हिरण्यमर्मकपालानि शर्करा अवाञ्जनपिष्टा अजलोमानि कृष्णाजि- नलोमानि वैश्य५ प्तदशः सूनामधिकरणीमुखाकृतं कुशलमिति । अ(आ)माव स्थेन वा हविषेष्ट्वा नक्षत्रे वाऽग्रेण शाला शभ्यान्यासे गर्त खनयीत । तद्भावितां मृदमवलेपयति । समां विलेन करोति । तदुपसादयति कृष्णाजिनं च पुष्करपणे च योक्कमुदकुम्भ- हिरण्यमिति, (बौ० श्री० १०-१ ] इति । तत्र कर्म-ज्योतिषा विकद्रुकेणाग्निष्टोमेन साग्निचित्ते(त्ये)न सहस्रदक्षिणेन यक्ष्ये, स्वर्ग लोकमवाप्नवानीत्युक्त्वा विद्युदासि सोमप्रवाकवरणादि करोति । ततो देवयजनया- ञ्चच्या(मा)न्ते देवतोपस्थानान्ते वा ये प्रधानस्य कर्तारस्त एवाङ्गानां स एव देश इति न्यायात् । पूर्वमृविम्वरणादि देवयजनयाञ्चया(च्ना)क्रियते : सहाङ्गं प्रधानम् । ( आप० परि० २-३९) इति सूत्रान्तरवचनाच्च ॥ ५ ॥

बृहस्पतिपुरोहिता देवानां देवाः प्रथमजा देवा देवेषु पराक्रमध्वं प्रथमा द्वितीयेषु द्वितीया- स्तृतीयेषु त्रिरेकादशास्त्रयस्त्रिꣳशा अनु व आरभ इदꣳ शकेयं यदिदं करोमि स्वाहेत्याहुतिं जुहोति ।। ६ ।।

अग्नीन्विहृत्योखासंभरणार्थम् । अत्र बौधायनोऽप्याह-'परिस्तृणन्ति । दक्षिणत उपविशतो ब्रह्मा च यजमानश्च' (बौ• श्री० १०-१) इति । जुहोतिचोदना- स्वाहाकारप्रदानम् । साधननियममपि-'आहवनीय आहुतयो जुहा हूयन्ते । इति पारिभाषके द्रष्टव्यम् । देवा देवता ॥ ६ ॥

जुहूꣳ स्रुवं च संमृज्य चतुर्गृहीतमाज्यमष्टगृहीतं वा गृहीत्वा युञ्जानः प्रथमं मन इति यजुरष्टमा भिर्ऋग्भिरन्तर्वेद्यूर्ध्वस्तिष्ठन्सावित्राण्येकामाहुतिं जुहोति ।। ७ ।। 0 - १ पटलः ] महादेवशास्त्रिसंकलितमयोगचन्द्रिकाच्याख्यासमेतम् । मुहूनुवयोस्तूष्णीं संमार्गः । दर्शपूर्णमासवत्समन्त्रक इति भाष्यकृत् । अनाप्य- ष्टगृहीतेन होमः शाखन्तरीयः । चतुर्गृहीतहोमस्त्वस्मच्छाखोक्तः, 'चतुर्ग्रहीनेन जुहोति' ( ० सं०५-१-१ ) इति विधिदर्शनात् । 'युञ्जानः प्रथमं मनः, इत्यारम्य-इमं नो देव सवितर्यज्ञम् ' (० सं० ४-१-१) इति यजुरष्टमाभियंजुरष्टमं यासा ताभिर्यजुरष्टमाभिरिभरेकामाहुतिमन्तवेदि गार्हपत्याहवनीययोमध्य स्थितो जुहोति. । सविता देवता ॥ ७ ॥ अत्रेदं चिन्तनीयम्-किमेकैकं मन्त्रमुच्चार्य जुहुयात् , आहोस्वित्सर्वाणि(न्) वाक्यान्यु (मन्त्रानु) च्चायति । तत्र हेयोपादेयावुभौ पक्षो क्रमेण दर्शयति-

यं कामयेत पापीयान्त्स्यादित्येकैकं तस्य जुहुयात् । यं काम- येत वसीयान्त्स्यादिति सर्वाणि तस्यानुद्रुत्य जुहुयात् ।। ८ ।।

पापीयानतिशयेन पापो दरिद्र इत्यर्थः । वसीयान्वसुमत्तरः ॥ ८ ॥ अत्रेदमपरं चिन्तनीयम् । किम्यूपाषण्मन्त्रानुच्चार्य-इमं नो देव सवितरिति यजुः सप्तमं कृत्वा पश्चात् देव सवितरित्यूचामन्तिमां कुर्यात् । किंवैतामृचं सप्तमी कृत्वा तद्यनुरन्तिमं कुर्यादिति । तत्र हेयोपादेयपक्षौ क्रमेण दर्शयति-

यदि कामयेत च्छन्दाꣳसि यज्ञयशसेनार्पयेयमित्यृमन्ति- मां कुर्यात् । यदि कामयेत यजमानं यज्ञयशसेनार्पयेयमिति यजुरन्तिमं कुर्यात् ।। ९ ।।

यज्ञयशसं यज्ञफलमर्पयेथे संयोजयेयम् । छन्दोबद्धाया ऋचस्त्वन्तिमत्त्वे यज्ञफलं छन्दःसु गच्छेत् । यजुषस्तु च्छन्दोरहितत्वेग यज्ञफलं छन्दोगामि न भवति, किंतु यजमानगाम्येव भवति । तस्माद्यजुरेवान्तिमं कुर्यादित्यर्थः । एषोऽध्वर्युकाम इति भाष्यकृत् । यजुरष्टमविधेः प्रशंसेति न्यायः ॥ ९ ॥

ऋचा स्तोमꣳ समर्धयेति चतुर्गृहीतेनोत्तराम् ।। ११.१.१० ।।

आहुति जुहोतीत्यनुवर्तते । अग्निर्देवता ॥ १० ॥

देवस्य त्वेति चतुर्भिरभ्रिमादत्ते ।। (ख० १) ।। खादिरीं वैणवीं चा कल्माषींꣳसुषिरामसुषिरां वोभयतः क्ष्णू तामन्यतरतः क्ष्णू तां वा पालाशी- मौदुम्बरीमर्कमयीꣳ शमीमयीं वा । यो वा कश्चन वृक्षः फलग्रहिस्तस्य मुष्टिमात्रीं प्रादेशमात्री [९१ प्रौ- सत्यापादविरचितं श्रौतसूत्रम्-

मरत्निमात्रीं बाहुमात्रीं व्याममात्रीमपरिमितां वा ।। ११ ।।५

देवस्य त्वेत्यारभ्य-आनुष्टुभेन त्या छन्दसाऽऽददेऽशिरस्वदित्येवमन्तैश्चतुर्भिमन्त्रैरनिं (खनित्रं) काष्ठकुहालं गृह्णाति खादिरी वैणवीं वा । कल्माषी कृष्णबिन्दुलाञ्छिता, सुषिरा अन्तश्छिद्रा, असुषिरा घना, क्ष्णु तेजन इत्यस्माद्धातोरुत्पन्नः क्ष्णुशब्दस्तीक्ष्णत्वमा- चष्टे। उभयोरप्रमूलयोस्तक्षिणाऽनिरुभयतःक्ष्णूस्तादृशी कार्या । अथवा पालाशी पर्णमयी, औ(उ)दुम्बरो जन्तुफलः, अर्क प्रसिद्धः, शमी घण्टा । एतेषामभावे यो वा यः कश्चन . यज्ञियवृक्षः फल्याहिस्तस्यानिः कार्येत्यर्थः भाव्यकारस्तु फलानि बहूनि गृह्णा- तीति फलपहिः । वनस्पतीनां मध्ये यः फलपहिरस्ति एषां फलनहीणामपि मध्ये स वेणुरतिशयेन फलप्रहिः । ब्रह्माद्यग्रवद्वेणूनां समाप्तिसंवत्सरे गोधूमसदृशैर्बहुभिवनिरुपेत. तत्वात् । तस्मादियमभिर्वेगवी कार्येति । चतुर्भिररनिभिस्तुल्यो व्यामः । एतावती कार्यो । नियतपरिमाणरहितत्वमपरिमितत्वं विधत्ते-अपरिमिता भवति (तै० सं० ५।१।१) इति ॥ ननु-ये तु संख्यायुक्ता मन्त्राः । चतुर्भिरभ्रिमादत्ते ' ( तै० सं०५।१।१) इत्येवमादयस्तेषामपि पूर्ववद्विकल्पः । संख्यावशात्तु समुच्चयः । चतुःसंख्या हि कर्माङ्ग- भूता नासति समुच्चये संपद्यते । तत्र पूर्वप्रयुक्तानां मन्त्राणां संस्कारद्वारेण कारणत्वं चरमस्य तु साक्षादिति संख्यावचनसामर्थ्यादध्यवसीयते । तस्मात्समुच्चयः ॥ ११ ॥

इमामगृभ्णन्रशनामृतस्येत्यश्वाभिधानीमादाय प्रतूर्तं वाजिन्नाद्रवेत्यश्वमभिदधाति ।। १२ ।।

अश्वोऽभिधीयते बद्ध्वा धार्यते.यया रशनया सेयमश्वाभिधानी ॥ १२ ॥

तूष्णीं गर्दभस्याऽऽदाय युञ्जाथाꣳ रासभं युवमिति गर्दभम् ।। ।। १३ ।।

भरन्तमस्मयुमित्यन्तः । मन्त्रमन्तरेणैव गर्दभस्य रशनामादाय युञ्जाथामिति मन्त्रेण गर्दभमामिदध्यात् । अत्र निकृष्टकार्ये स्थापितस्तस्माल्लोकेऽपि गर्दभोऽश्वानिकृष्टतरः । रजकादय एव हि तमाद्रियन्ते न तु राजामात्यादयः ॥ १३ ॥

योगे योगे तवस्तरमिति तिसृभिरश्वप्रथमाः प्राञ्चो गच्छन्ति यत्र मृदं खनिष्यन्तो भवन्ति ।। १४ ।।

अच्छेहीत्यन्तः । गच्छन्तीति बहुवचननिर्देशादध्वर्युब्रह्मयजमानाः । अश्वप्रथमाः, यत्र यस्मिन्देशे दृदा मृत्तत्र गच्छन्त्यश्वः प्रथमस्ततो गर्दभस्तत इतरे । तत्राश्वस्य गर्द१ पटल: ] महादेवशाखिसकॉलतपयोगचन्द्रिकाव्याख्यासमेतम् । भात्पुरतो गमनं विशदयत्यापस्तम्ब:- यदि कामयेत पापवस्यसः स्यादिति गर्द- भप्रथमा गच्छेयुः' ( आप० श्री० १६-१-१२ ) इति । गर्दभोऽश्वात्पापीयानिति प्रसिद्धम् । अत उभयोः समानं गमनं मा भूदित्यश्वं पुरतो नयेयुः । तथाऽश्वं पूर्व नयन्ति, इति हि ब्राह्मणम् ।। १४ ॥

अग्निं पुरीष्यमङिरस्वदच्छेहीति येन द्वेष्येण संगच्छेत तमभिमन्त्रयेतापश्यन्निर्दिशति ।। १५ ।।

मृत्खनं प्रति गच्छत्सु मार्गमध्ये यदि केनापि द्वेष्येण संगच्छेत तदानीमिम मन्त्रं पठेत् । यदि द्वेष्यं न पश्यति तदाऽपि तं मनसा निर्दिश्य पठेत् ॥ १५ ॥

अग्निं पुरीष्यमङ्गिरस्वदच्छेम इति वा ।। १६ । ।

वाशब्दः शाखान्तरमतप्रदर्शनार्थः ॥ १६ ॥

सूर्यस्योदयनं प्रति वल्मीकवपामुपतिष्ठतेऽग्निं पुरीष्यमङ्गिरस्वद्भरिष्याम इति ।। १७ ।।

वल्मीकस्य योऽवयव उन्नतत्वेनाभिवृद्धः सेयं वपा, तथाविधासु वपासु मध्ये या वपा सूर्योदयस्याभिमुखा तस्या अग्रं किंचिदुद्धृत्य तां वपामनेन मन्त्रेणोपतिष्ठते ॥१७॥

अत्रैके समामनन्ति ( अग्निं पुरीष्यमङ्गिरस्वद्भरामः) ।। १८ ।।

यद्गमनकाले तद्वदागमनकालेऽपि । तत्र भरिष्याम इति पाठः । अत्र तु भराम इति विशेषः । यद्यप्यागमनस्य नायं कालः, तथाऽपि प्रसङ्गाद्बुद्धिस्थमन्त्रोऽयमान्ना- तस्तं चोपरिष्टादुत्कर्षेत् । अमुं विधिमेके शाखिनः पठन्ति ।। १८ ॥

अन्वग्निरुषसामग्रमख्यदिति वल्मीकवपायाः प्रक्रामति ।। १९ ।।

वुल्मीकयपायाः समीपं गच्छति ॥ १९ ।।

आगत्य वाज्यध्वन आक्रम्य वाजिन्पृथिवीमिति द्वाभ्यां मृत्खनमश्वमाक्रमयति ।। ११.१.२० ।।

मुत्खने दक्षिणपूर्वण पादेनाऽऽक्रमयन्ति ॥ २० ॥

द्यौस्ते पृष्ठमित्यश्वस्य पृष्ठꣳ संमार्ष्टि ।। २१ ।।

(इमं धनुचिइनान्तर्गतपाठ केचिन्न पठान्त।) १ क. रस्तदा । २ क. स्योदेतोस्तामुद्धत्योप । ३ ख. "म इति । १. सत्यापादविरचितं श्रौतसूत्रम् - सर्वतः स्पृशति ॥ २१ ॥

अभितिष्ठ पृतन्यतोऽधरे सन्तु शत्रवः । इन्द्र इव वृत्रहा तिष्ठापः क्षेत्राणि संजयन्निति यं द्वेष्टि तमधस्पदमश्वस्य मनसा ध्यायति ।। २२ ।।

यं देवदत्तमिति द्वेष्टि तमधस्पदमश्वस्य ध्यायति मनसा ॥ २१ ॥

उत्क्रामोदक्रमीदिति द्वाभ्यां मृत्खनादश्वमुत्क्रमयन्ति ।। २३ ।।

मृद्यस्मिन्प्रदेशे खन्यते स प्रदेशो मृत्खनः । तस्मादश्वमुदङ्मुखत्वेन निर्ग- मयेत् ।। २३ ॥

अपो देवीरुपसृजेत्यश्वस्य पदेऽप उपसृजति ।।२४ ।।

अश्वस्य लक्षिणपाद उदकं क्षिपति । सुपिप्पला इति मन्त्रान्तः ।। २४ ॥ .:

तस्मिन्हिरण्यं निधाय जिघर्म्यग्निमा त्वा जिघर्मीति मनस्वतीभ्यामेकामाहुतिं जुहोति ।। २५ ।।

जुहोतिचोदनात्स्वाहाकारपाठः। अग्निर्देवता । भूभी हिरण्यं निधाय तस्मिञ्जुहुयात् । चहीतेनाऽऽज्येनेति वैखानसः । सकृद्धृहीतेनेत्यपरे ॥ २१ ॥ )

अपादाय हिरण्यं परिवाजपतिरिति तिसृभिरभ्रया मृत्खंनं परिलिखति (बाह्यां वर्षीयसीम्) ।। २६ ।।

शुचिरिति मन्त्रान्तः । हिरण्यमपादाय स्वीकृत्य परिवाजपतिरिति प्रतिमन्त्र परि- लेखनम् । ' गायत्रिया परीिलिखति । त्रिष्टुभा परिलिखति । अनुष्टुभा परि लिखेति (ले० सं० ५-१-३ ) इति वचनात् । बाह्यां बाह्यां महतीम् । पदस्य : गायत्र्या परिलेखनमनुष्टुत्रिष्टुब्भ्यां बहिर्वहिः ।। २६ ।।

देवस्य त्वेति द्वाभ्यां खनति ।। २७ ।।

पुरीष्यमङ्गिरस्वत्खनामीत्यन्तः । ततः खननं द्वाभ्यामकं कर्म द्विमन्त्रकम् ।। २७ ।।

अपां पृष्ठमसीति पुष्करपर्णमाहरति । एतयैव विवेष्टयति । उपरिष्टात्कृष्णाजिनमुत्तरेण मृत्खनꣳ शर्म च स्थो वर्म च स्थ इति । । (ख० २) ।। द्वाभ्यां

१ "मेकाइति ।। १ पटलः ] - महादेवशास्त्रिसंकलितपयोगचन्द्रिकाच्याख्यासमेतम् ।

प्राचीनग्रीवमुत्तरलोमऽऽस्तृणात्युत्तरं पुष्करपर्णमधस्ताद्दण्डमुत्तानम् ।। २८

अपामुपरिवर्तमानत्यस्य विद्यमानस्यैवार्थम्याभिधायित्वादनुरूपेणैव मन्त्रेणैतत्पुष्करप- र्णमाहरति । वेष्टनमैतयैव पुनर्वेष्टयति । शर्म च स्थ इति द्वाभ्यां मृत्खनदेशस्योत्तरेण कृष्णाजिनं पुष्करपणे च स्तृणाति -यथा भवत्युपरिष्टास्कृष्णानिनस्य पुष्करपर्णमुत्तान तथेत्यर्थः ।। २८॥

पुरीष्योऽसि विश्वभरा इति मृदमभिमृश्य ।।२९।।

मृत्खनस्याभिमन्त्रणम् ॥ २९ ॥

कृष्णाजिने पुष्करपर्णे च संभरति त्वामग्रे पुष्करादधीति तिसृभिर्गायत्रीभिर्ब्राह्मणस्य । उत्तरा- भिस्त्रिष्टुग्भी राजन्यस्य जगतीभिर्वैश्यस्य ।।११.१.३०।।

यद्यप्यत्र-त्वामुग्न इत्यादिकास्तिस्त्र एव गायध्यः समाम्नातास्तथाऽपि चतसृभिर्वा, इत्यापस्तम्बादिकल्पेषु विकल्पेनोक्ताः । चतुझंपक्षे । पुरीप्योऽसि विश्वभरा इत्यनेन पूर्वोक्तिन मन्त्रेण सह संख्या पूरणीया | केचित्तु —त्यामग्ने पुष्करादधीति- कृष्णानिने पुष्करपणे च क्षिपति । चतसृभिस्ति- सृभिर्वा गायत्रीमिर्जाह्मणस्य संभरति । यदा तिमृभिस्तदा । त्वामझे पुष्कराधीत्या- रम्य तिमृभिः । यदा चतसृभिस्तदा पुरी योऽसील्यारम्भ चतसृभिः । अथवा त्वा प्रथमो निरमन्थदने, इत्याहुः । य एवैनमन्वपश्यत्तेनैवैनर संभरति ( तै० सं० ५।।४) य इति लिङ्गात् । तथैव चाभिमन्व्य तथैव च संभरणम् । चतसृभिरुपदेशः । तृतीयां तमु त्वा पाथ्य इति द्विरावर्तयति । तथा सप्तमी । त्रिष्टुग्भिः । सीद होतः' इत्येताभिश्चत- सृभिश्चतुर्थी जनिष्वा हि जेन्य इति देवमनुष्यानेवास्मै ससन्नान्प्रजनयति, इति लिङ्गात् । त्रिष्टुप्चतुर्थी तथैव च मृदोऽभिमर्शनम् । नगतीवेिश्यस्य-जनस्य गोपा इति तिसृमिः । असावि सोम इति चतुर्थी ॥ ३० ॥ अथ काम्यं समुच्चय विधत्ते-

यं कामयेत वसीयान्त्स्यादित्युभयीभिस्तस्य संभरेत् । गायत्रीभिश्च त्रिष्टुग्भिश्च ।। ३१ ।।

वसीयान्धनवान्भवेदिति । उभयीमिर्गायत्रीभित्रिष्टुभिश्च तस्य संभरणम् । तत्र गायत्रीभिस्तेजःप्राप्तिस्त्रिष्टुभिरिन्द्रियप्राप्तिः ॥ ३१ ॥ - . . १२ सत्यापादविरचितं श्रौतसूत्रम्-.. [११ प्रश्ने-

जनिष्वा हि जेन्य इति संभृतामभिमन्त्रयते ३२ ।।

संभृताया मृदोऽभिमर्शनं मृत्खनमन्यया मृदा पूर्यते यथा न लक्ष्यते तत्रा- वट इति ॥ ३२ ॥

सं ते वायुर्मातरिश्वा दधात्विति मृत्खनेऽप उपसृजति ।।३३ ।।

मृत्खनप्रदेशेऽपोऽवनयेत् । तुभ्यमिति मन्त्रान्तः ॥ १३ ॥

संलोभ्य मृत्खनꣳ समुद्गृह्य कृष्णाजिनस्यान्तान्सुजातो ज्योतिषा सहेति मौञ्जेनार्कमयेण वा त्रिवृता दाम्नोपनह्यति ।। ३४ ।।

संलोभनं विमोहनम् । कृष्णाजिनस्यान्तान्समुद्यम्य सर्वानुद्यम्य सुजात इति · क्षौमेण मौजेनार्कमयेण वा' (आप १०ी० १६ । १।२ । २५ ) इत्यापस्तम्बः । क्षोमेणा- हतवाससा दाना मौ न मुञ्जकृतेन, अर्कमयेण देवरूपिकाकृतेन दाम्ना बध्नाति ॥३४॥

उदु तिष्ठ स्वध्वरेति द्वाभ्यामुत्तिष्ठति ॥ ३५ ॥

विह्वयामह इत्यन्तः । सवितृलिङ्गकाभ्यामेताभ्यामुग्भ्यां बद्धमग्निं गृहीत्वोत्तिष्ठेत् । द्वितीयमन्त्रे-'देवो न सविता ' इत्युक्तत्वादेते सावित्र्यौ एताभ्यामुत्तिष्ठति । तथा चाऽऽहाऽऽपस्तम्बः-सावित्रीभ्यामुत्तिष्ठति, इति ॥ ३५ ॥

सजातो गर्भो असि रोदस्योरिति हरति ।। ३६ ।।

कनिक्रदगा इत्यन्तः । गर्दभसमीपं हरति ॥ ३६ ॥

स्थिरो भव वीड्वङ्ग इति गर्दभस्य पृष्ठ आसादयति ।। ३७ ।।

पुरीषवाहनः, इत्यन्तः । गर्दभस्य पृष्ठे स्थापयति मृदम् ॥ ३७ ॥

शिवो भव प्रजाभ्य इत्यासन्नमभिमन्त्रयते ॥ ३८ ॥

वनस्पतीनित्यन्तः । स्थापितमभिमन्त्रयते ॥ ३८ ॥

प्रैतु वाजी कनिक्रदरिति तिसृभिरत्वरमाणा अश्वप्रथमाः प्रत्यायन्ति ।। ३९ ।।

सत्यमित्यन्तः। अत्वरमाणों यथा भवन्ति तथाऽश्वप्रथमा यजमानगृहं प्रत्यांगच्छन्ति। न तु गर्दभप्रथाः ॥ ३९ ॥

अग्निं पुरीष्यमङ्गिरस्वद्भराम इति येन द्वेष्येण संगच्छेत तमभिमन्त्रयेतापश्यन्नि र्दिशति ।। ११.१.४० ।। O १ पटलः ] महादेवशालिसकलितप्रयोगचन्द्रिकाथ्याख्यासमेतम् । व्याख्यातम् । यजमानशत्रुणाऽस्य संगमो भवति तमभिमन्यते तेन मन्त्रेण । पदा न संगमस्तदा मन्त्रमुक्त्या द्वितीयया निर्देशो देवदत्तमिति ॥ ४ ॥

उत्तरेण विहारं परिश्रित ओषधयः प्रतिगृह्णीताग्निमेतु मिति द्वाभ्यामोषधीषु पुष्पवतीषु फलवतीषूपावहरति ।। ४१ ।।

सधस्थमाऽसददित्यन्तः । विहारस्योत्तरतोऽदूरे परिश्रिते वेष्टिते कटैरन्या प्रदेशे । ओषधीषु ब्रीहियवादिषु माम्यारण्यासू पुष्पाणि यासु विद्यन्ते फलानि च तासूपावहरति स्थापयति । द्वाभ्यामुपावहरति, औषधयः प्रतिगृह्णीताक्षिमेतम् * ( तै० सं०५-१-६) इति । एवमन्तो विहारः पश्चालौकिक: संपद्यते प्रयोजनाभावाद्विहारस्येति न्यायः ॥ ४१ ॥

वि पाजसेति विस्रꣳसयति ।। ४२ ।।

प्रणीतावित्यन्तः । प्रतिमुश्चति दाम्ना बद्धम् ॥ ४२ ॥

आपो हि ष्ठा मयो भुव इति तिसृभिरप उपसृजाति ॥ ४३ ॥

च न इत्यन्तः । ' तिसृभिरुपसृजति । ( तै० सं० ५-१-६ ) इत्यत्र ब्राह्म- णम् ॥४३॥

मित्रः सꣳसृज्य पृथिवीमिति द्वाभ्यां सꣳसर्जनीयैः सꣳसृजति ।। (ख०३)।। अर्मकपालैर्वेण्वङ्गारैर्व्रीहितुषैः पलाशकषायैश्च शर्कराभिः पिष्टाभिः कृष्णाजिनलोमभिरजलोमभिर्यच्चान्यद्दृढार्थमुपार्धं मन्यते ।। ४४ ।।

छन्दसाऽङ्गिरस्वदित्यन्तः । संसृजति मृदम् । द्वाभ्यां ससृजति संसर्जनीयैः संभारे- दृढीकरणैः संसृजति, अर्मो ग्रामाभावस्थानम् । तंत्र यानि कपालानि तानि शुचिभूतैः पिष्टैः संसृनंति वेण्वङ्गारेश्चूर्णीकृतीहीणां च तुषैः पलाशकषायेण चूर्णेन शर्करामिः पिष्टाभिः कृष्णाजिनलोमभिरालोमभिश्च संसृजति मृदम् । यच्चान्यवन्यमुपगंत मृद- मुपार्धं यदृढाथै यत्समर्थ तदर्थमुपगतं भवति । यज्ञियस्य यच्चान्यत्किचिच्चूर्णादिक सर्वैः संसृज्य मुदमिति । अत्र दायहेतुभिः कपालादिभिः संसर्गम्' अर्मपालैः समृनति, शर्कराभिः ससृजति, अनलोमैः ससृजति, कृष्णाजिनस्य लोममिः १५. सूजति' (तै० सं०५-१-६) इति ब्राह्मणव्याख्यातत्वाच ॥ ४४ ॥

मखस्य शिरोऽसीति पिण्डं करोति ॥ ४५ ॥

o ________________

१४ सत्यापाठविरचितं श्रौतसूत्रम् [११ प्रश्ने। गतार्थः ॥ ४॥ .. ...

यज्ञस्य पदे स्थ इति कृष्णाजिनं पुष्करपर्णं चाभिमन्त्रयते ।।४६।।

अभिट्टशति मृदिवाङ्गुष्ठाभ्यां निगृह्णातीत्यापस्तम्बः ॥ ५६ ॥ .

रुद्राः संभृत्य पृथिवीमिति चतसृभिः पिण्डान्प्रयच्छति ।। ४७ ।।

गर्भ आ इत्यन्तः । करें प्रयच्छति (आप० श्रौ० १६-२४) इत्यापस्तम्बः ॥४७॥

वसवस्त्वा कृण्वन्त्विति चतुर्भिश्छदोभिर्महिष्युखां करोति बहुभार्यस्य ।। ४८ ।।

यभमानायेत्यन्तः । महिप्यै प्रयच्छति यजमानो बहुभार्यः ॥ ४८ ॥

अध्वर्युरेकभार्यस्य ॥ ४९॥

अध्वर्युरे(र्यव ए) कभार्यः प्रयच्छति यजमानः ॥ ४९॥ . . . .. .......

एतैरेव यजुर्भिर्यजमानः क्रियमाणामभिमन्त्रयते ।। ११.१.५० ।।

वसवस्त्वेत्यादिभिर्यजुभिर्यजमानोऽनुमन्यते ।। ६० ॥

त्र्युद्धिं पञ्चोद्धिं वा करोति।। ५१ ।।

उद्धिर्वमवस्थितोऽयययविशेषः । यथा भाण्डस्योपर्यन्यद्धार्ड तस्याप्युपरि पुनरम्यन्यद्भाण्डमिति कक्ष्यावयं तथेयमेकैवोखा कक्ष्यात्रययुक्ता. वा कार्या । एवं पञ्चोद्धिं करोत्यिर्थः ॥ ११ ॥ .... ...

प्रादेशमात्रीमूर्ध्वप्रमाणेनारत्निमात्रीं तिर्यक्प्रमाणेन व्यायाममात्रीꣳ समन्तपरिमाणेनापरिमि तां वा कुर्वꣳश्चतस्रोऽश्रीः प्रतिदिशमुन्नयति ।। ५२ ।।

प्रादेशप्रमाणा भवत्यूर्ध्वप्रमाणेनारस्निमात्री तिर्यममाणेन व्यायाममात्री समन्ततः चतुररनिर्व्यायामः । अपरिमिता व्यायामात्पश्चप्रादेशाभ्यन्तरिषुमात्री वा । यथाऽऽ. हाऽऽपस्तम्ब:-'पञ्चप्रादेशामिषुमात्री वा यदि पञ्च पशवो भवन्तीति वाजसनयेकम् । (१६-२-८) इति । पञ्चपशुषु वानसनेयिमतादितरेऽपि विधयो लभ्यन्ते । पञ्चपशुष्वपि शाखान्तरस्थां कुर्वन्नुखां चतस्रोऽस्या अश्रीः करोति मृदा । न त्रिको णाम् ॥ १२ ॥ । । १ क- तिसृभिः । .. . ________________

१ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाच्या ख्यासमेतम् । १५

परिमण्डलां वा करोति ।। ५३ ॥

.. . .. परिमण्डला वृत्ता। यदा वृत्ता . तदा गार्हपत्यपरिमाणा। बाहुभ्यां यजमानो गृह्यते ॥ १३ ॥.... ... ...... . अधिकारिविशेषेणाश्रिषु संख्याविशेष विधत्ते- . . : :::

नवाश्रिमभिचरतः कुर्यात् ।। ५४ ।।

तथा च ब्राह्मणम् .. नवाश्रिमभिचरतः कुर्यात् । ( ३० सं०.६ । ।। ६) इति ॥ १४ ॥

अदित्यै रास्नाऽसीति मध्यदेश उपबिलं वा रास्नां करोति ।। .५५ ।।

अश्रीणां रास्नायाश्च संधौ द्वौ चतुरः षडष्टौ वा स्तनान्करोति ।। ५६ ।।

अश्रीणां रास्नायाश्च संधौ मेलने द्वौ यदा तदा प्राच्यामेव । यदा चतुरस्तदा प्रतिदिशमेकैकम् । यदा घट्तदा द्वयो द्वौ । यदाऽष्टौ तदा चतसृष्वपि द्वौ द्वौ। चतुरस्रा (श्रा) परिमण्डलां वा' करोति सस्तनाम् । तदेतत्सर्वं ब्राह्मणेन समानातम्द्विस्तनां करोति, चतुस्तनां करोति, अष्टास्तनां करोति । (त० सं५.६।) इति ॥ १६ ॥

अदितिस्ते बिलं गृह्णात्विति बिलं करोति ।। ५७ ।।

विलमन्तश्चिदम् ॥ १.७ ॥ .

कृत्वाय सा महीमुखामित्युत्तरतः सिकतासु प्रतिष्ठापयति।। ५८ ।।

निदधाति । यत्र कृता तस्माद्देशादुत्तरतो वालुकासु प्रतिष्ठापयति ॥ ६८ ॥

तस्या एव मृदोऽषाढामिष्टकां त्र्यालिखितां तूष्णीं चतुरश्रां करोति ।। ५९ ।।

यः करोत्युखां स एव करोत्यषाढाम् । उखामृत्तिकायाः चतुरश्री चतुरश्रेऽनौ न श्येनादिषु तेषु यथा. लक्षणं ,मध्य इष्टकानां तथा लक्षणं करोति, व्यालिखिता तु नित्या ॥ १९ ॥

गार्हपत्येऽश्वशकृत्युपसमाधाय वसवस्त्वा धूपयन्त्विति सप्तभिश्छन्दोऽभिरुखामश्वशकैर्धूपयति ।।(ख०४)।। ११.१.६० ।।

क. अत्रापि । २ ग. ब्राह्मणे समा । ३ ख. चतुरस्रां । 4 , 32 सत्यापाडावरचिर्वं श्रौतसूत्रम्- [११ प्रश्ने-

अश्वस्य शकोऽश्वशकृत् । सप्तभिर्मन्त्रैरश्वशकृतोखां धूपयति वसवस्त्वेति, एक धूपनकर्म बहुमन्त्रम् । तथाऽन्यानि यानि बहुवाक्यानि (बहुमन्त्राणि ) धुच्यन्ते । अत्र वाऽऽरोहाश्वशकृगार्हपत्यादपनीयाग्निधूपनम् । — गार्हपत्याद्भूपनपचने भवतः । इति न्यायः, तस्य (स्मिन् ) च त्यागः, अविधानादपि त्यागः ॥ ६ ॥

अदितिस्त्वा देवीरित्यग्रेण गार्हपत्यमवटं खात्वा लोहितपचनैः संभारैरवस्तीर्य देवानां त्वां पत्नीरिति तस्मिन्नुखामवदधाति ।। ६१ ।।

पुरस्ताद्गार्हपत्यस्यावटं लोहिता यैर्भवत्युखा पक्का ते लोहितपचनीया गोशकृदिक्षु- पत्रादयस्तैरास्तीय भूमिम् । देवानां त्वेति तस्मिन्नवट उखा क्षिपति ॥ ११ ॥

तूष्णीमषाढामन्ववधाय लोहितपचनीयैः संभारैः प्रच्छाद्य धिषणास्त्वा देवीरिति षड्भिर्गार्हपत्यात्पचति ।। ६२ ।।

तृष्णामिति वचनादपाढा वाग्यतः स्थापयित्वा यदा त्वषाढा मन्त्रैस्तदा तूखा तूष्णीम् । सर्वं च धूपनादिसंस्कारं तूणीमिति भाष्यकृत् । अवधानस्य तूष्णीमिति वचनादविहितसंस्कारो न क्रियत इति न्यायः । तूष्णीमेवावधानमषाढाया उखालिङ्गत्वा न्मत्राणां तैन) प्रच्छादनं, लोहितपचनीयः, इति पुनरभिधानं मन्त्रश्च लुप्यते । अत्र षड्भिः पचति (तै० सं० ५। १ । ७) इति दर्शनागार्हपत्यादग्निमुखायां लिपति ॥ ६॥

मित्रस्य चर्षणीधृत इति पच्यमानां मैत्रियोपचरति ।। ६३ ।।

पच्यमानामुखां मैर्य! प्रज्वलनादिभिरुपचरतीत्यर्थः ॥ ६३ ॥

देवस्त्वा सवितोद्वपत्विति पक्वामुद्वपति ।। ६४ ।।

पक्कामुखाम् । शक्त्या, इत्यन्तः ॥ ६४ ।।

अपद्यमाना पृथिव्याशा दिश आ पृणेत्युत्तरतः सिकतासु प्रतिष्ठापयति ।। ६५ ।।

ध्रुवा त्वमित्यन्तः । भस्मन उत्तरतो देशाद्वालुकासु प्रतिष्ठापयति ॥ १५ ॥

मित्रैतामुखां परिददाम्यभित्या एषा मा भेदीति मित्राय परिदाय वसवस्त्वा छृन्दन्त्विति चतुर्भिश्छन्दोभिरुखामजाक्षीरेणाऽऽच्छृणत्ति ।। ६६ ।।

- १ दर्शनादयोद्धा । ३ ख अजक्षी । ० - १ पटलः] महादेवशालिसकलितमयोगचन्द्रिकान्याख्यासमेतम् । पुनः परिदानं रक्षार्थम् । मित्रस्योखायाः । अत्र वाग्यतेनाषाढोद्वास्यते । तूष्णीमषाढा- मुद्रास्य (आप० श्री. १६ । २ । २३) इत्यापस्तम्बसूत्रात् । वसवस्त्वेति चार्मि- रनक्षीरेण सेचनमुष्णतापनयनार्थम् । अनेन दृढा च भवत्युखा-नक्षीरेण सिक्ता । लोकेऽनक्षीरस्य सर्वव्याधिपरिहारहेतुत्वाद्वेदेऽपि-आग्नेयी वा एषा । यदना' इत्युक्तः त्वात्परमत्वम् । सेचनसाधनं विधत्ते--अनक्षीरेणाऽऽच्छृणत्ति परमं वा (तै० सं० ५।१।७) इति ॥ १६ ॥

सप्तैकविꣳशतिं चतुर्विँशतिं वा माषानादाय पुरुषशिरोऽच्छैति राजन्यस्य वैश्यस्य वेषुहतस्याशनिहतस्य वा । पुꣳसो माषानुपन्युप्य ।। ६७ ।।

सप्तैकविंशतिं वा गृहीत्वा माषान्पुरुषशिरोभिमुखो गच्छति क्षत्रियस्य वा वैश्यस्य या । इषुणा यो विद्धो म्रियते विद्युता वा हतः । अथ वा- -एकविंशतिसंख्याकानि माषबीजानि स्वीकृत्य तैर्युक्तः पुरुषशीर्ष प्राप्तुं गच्छेत् । तथा च ब्राह्मणेनोक्तम् -'एक. विशत्या मापैः पुरुषशीर्षमच्छति (तै० सं० ५। १ । ८) इति । माषानुपन्यु- प्यास्य शिरसि मेध्यं कृत्वा हरति ( तै० सं० ५ । १।८) इति लिङ्गात् ।।६७॥

अयं योऽसि यस्य त इदꣳ शिर इति पुरुषशिरः प्रच्छिद्यैतेन त्वमत्र शीर्षण्वानेधीति सप्तधा वितृण्णां वल्मीकवपां शिरसः स्थाने प्रतिनिदधाति ।। ६८ ।।

अयं योऽसीति च्छेदनं पुरुषशिरसः। एतेन त्वमत्र शीर्षण्वानेधीति सप्तच्छिद्रां । पल्मीकवपां शिरःस्थाने निदधाति ॥१८॥

योऽस्य कौष्ठ्य जगतः पार्थिवस्यैक इद्वशी । यमं भङ्ग्यश्रवो यो राजाऽनपरोध्यः । येनाऽऽपो नद्यो धन्वानि येन द्यौः पृथिवी दृढा । हिरण्यकक्ष्यान्सुधुराहिरण्याक्षानयः शफान् । अश्वाननश्यतो दानं यमो राजाऽभितिष्ठतीति तिसृभिर्यमगाथाभिः परिगायति ।। ६९ ।।

यमो गीयते यास्वृक्षु ता यमगाथाः । योऽस्य कौष्ठ्येत्याचा आरण्यककाण्डे पितृमेध- प्रपाठके समानाताः । अत्रापेक्षिताना यमगाथानां संख्यां विधत्ते-तिसृभिः परिगायति (तै० सं० ५ । । । ८) इति । शिरः प्रदक्षिणं कुर्वन् । यमाथाभिः परिगायति वदतीत्यर्थः ॥ १९ ॥ ६ १८ 0 सत्यावाढविरचितं श्रौतसूत्रम्- (११

आहरञ्जपतीत्येके ।। ११.१.७० ।।

यमगाथा जाति वा प्रस्थितः । यस्तु ब्राह्मणो याजनाध्यापनप्रतिग्रहान् परित्यज्य गानेनैव जीविका संपादयति. तादृशाय ब्राह्मणाय शास्त्रीय देयं किमपि न दद्यात् । हि यस्माद्भाथा गानविद्यैव तद्रव्यममेध्यं कृत्वा वुङ्क्ते देवपितृकार्येभ्यो वर्जयति तस्मा- तादृशाय न देयम् । अत्र प्रसङ्गात्पुरुषार्थ कश्चिन्निषेधं दर्शयति-तस्माद्गायते न देयं गाथा हि तबुङ्क्ते ( तै० सं० ५। १ । ८) इति ।। ७० ॥

इदमस्माकं भुजे भोगाय भूयादिति पुरुषशिर आदत्ते।। ७१ ।।

आदानं पुरुषशिरसः ॥ ७१ ।।

उदेह्यग्ने अधि मातुः पृथिव्या इत्याहरति ।। ७२ ।।

पुरुषशिर इत्यनुवर्तते ।। ७२ ।।

परि त्रिविष्ट्यध्वरं यात्यग्नी रथीरिव । आ देवेषु प्र यो दधत् । परि वाजपतिः कविरित्येषा । परिप्रागाद्देवो अग्नी रक्षोहामीवचातनः । सेधन्विश्वा अपद्विषो दहन्रक्षाꣳसि विश्वहेति तिसृभिः पर्यग्नि करोति । मृदा प्रलिप्य निदधाति ।। (ख०५) ।। ७३ ।।

इति सत्याषाढहिरण्यकेशिसूत्र एकादशप्रश्ने प्रथमः पटलः ।। १ ।।

आहृतं शिरो लौकिकेनाग्निना परि त्रिविष्टयध्वरमिति तिसृभिः पर्यग्निकरणं सकृत् । त्रिरिति भाष्यकृत् । गार्हपत्याग्निना वेति । लौकिकेनोपायेन यथा क्रिमयो न जायन्ते तथा शिरः कृष्णमृदा प्रलिप्य स्थापयेत् । न च शवस्पर्शदोषः, प्रत्यक्षविधानात् । केचित्तु सचैलं स्नानं कुर्वन्तीति ।। ७३ ॥ इति हिरण्यकेशिसूत्रव्याख्यायों महादेवशास्त्रिसंकलितायां प्रयोगचन्द्रि कायामेकादशप्रश्ने प्रथमः पटलः ।। १ ।।

11.2 अथैकादशप्रश्ने द्वितीयः पटलः ।

अग्निभ्यः कामाय पशूनालभते । अश्वमृषभं वृष्णिबस्तं प्राजापत्यमजं तूपरं मुष्करा भवन्ति ।। १ ।।

काम्यन्त इति कामाः पुत्रपश्चादयः, तद्धेतवोऽप्रयः । अन्नयः कामा वा एक , ________________

३. पटलः ] महादेवशास्त्रिसंफलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । १९ इति वचनेन.. [कामो] गुणः । तानमावास्यायां पौर्णमास्यां वा पर्वसंनिधौ देवनक्षत्रे वाऽऽलभेत । अन्धादिपञ्चपशुशीर्षाण्युपदधाति (त० सं० २९ । २ । ९) इत्यादि ब्राह्मणे विहितम् । तत्रै याग्निप्रकरणेऽपि-प्रजापतिरग्निमसृजत (तै० सं० ५। ५ । १०) इति पञ्चपशुशीर्षोपधानं द्रष्टव्यम् । मुस्करा अण्डसहिताः पशवः । प्राजापत्यं च तूपरं शृङ्गरहितं पूर्वमुपाकरोति । तेभ्यः पश्चादश्चर्षभवृष्णिबस्तानग्निभ्यः कामायोपाकरोति । वाजसनेयिना तु पुरुष एव पशुभिर्विकल्पेन यदा तदा छियेत पुरुषशिरः । अत्र पश्वर्थवेदिकरणं तु चतुरथाक्षा पञ्चोपरा(१) रज्जुः, तस्यास्तृतीयेन भागेन वेदिमानं विद्यते । एकादशिनीविकारत्वात् । केचित्तु सौमिकामेव कुर्वन्ति । एकादशिनीप्रसङ्गे नोपयुक्तति पृथक्सोमप्रयोगानिरूढसामान्यान्निरूढविकारमपि । एकादशिनीधर्माश्च वैशेषिकाः संभवन्ति । अग्नीषोमीयः पशुमूलप्रकृतिर्दशश्च । :अत्र पशुकर्म-पशुना यक्ष्य इत्युक्त्वा षड्होता। केचित्तु न कुर्वन्ति षढोतारम् , अङ्गभूतत्वादिति । तैर्यक्ष्यमाणो न भवति । सोमेन यक्ष्यमाण इति तेषु विद्युदपि न कर्तव्यः । यक्ष्यमाणो वेष्ट्येति सोऽप्युक्तः । यद्यपि तैर्यक्ष्यमाणो न भवति । निरूदप्रकृतित्वात्तु षड्ढोता क्रियते विद्युच्च । उदवसानीयादिष्विह न क्रियते । सोमार्यमपामुपस्पर्शनं कृतं सोमे न तावस्क्रियते । तदेव.प्रसङ्गेनार्थ साधयति । परित्यज्याग्निमन्य प्रणीय पश्चिाष्टितोपायन शाखाहरणं यूपाहुत्यादि एकादशिनीवत् । यूपानां छेदन पञ्चानाम् । वेदं कृत्वा वेद्युत्तरवेदी, अग्निप्रणयनादि पशुवत् । प्रजापतये त्वा जुष्टमुपाकरोमि, इत्युपाकरणं प्राजापत्यस्य । अग्निभ्यः कामाय त्वा जुष्टमुपाकरोमीतीतरेपाम्-अश्वस्य बलीवर्दस्य वृष्णेः, मेषस्य.स्तस्येति । तथा नियोजनम्-प्रजापतये त्वा जुष्टं नियुनज्मि । अग्निभ्यः कामाय त्वा जुष्टं नियुनज्मि, इति । तथा प्रोक्षणादीनि॥१॥ तत्रैतासां सामिधेनीनां प्राकृतीभिः सामिधेनीभिः समुच्चयमभ्युपेत्य संख्याविशिष्टा सामिधेनीविधत्ते

एकविꣳशतिं चतुर्विꣳशतिं वा सामिधेनीः पराचीरन्वाहैकादश प्राकृतीरनूच्य समास्त्वाऽग्न ऋतवो वर्धयन्त्विति दशाऽऽग्निकीरन्वाहोपेमसृक्षि वाजयुर्वचस्यां च नो दधीत नाद्यो गिरो मे । अपांनपादाशुहेमा कुवित्स सुपेशसस्करति जोषिषद्धि । अपांनपादाह्यस्थादुपस्थं जिह्मानामूर्ध्वः स्वयशा उपस्थे । उभे अभि प्रियतमे सधस्थे आ च परा च चरति प्रजानन्निति तिस्रोऽप्सु मतीर्यदि चतुर्विꣳतिर्भवन्ति ।। २ ।। अमुत्र भूयादध

सत्यापाढविरचितं श्रौतसूत्रम्- [.११.प्रभे-

यद्यमस्येत्यामयाविनः कुर्यात् ।। ३ ।। बृहस्पते सवितर्बोधयैनमित्यनामयाविनः ।। ४ ।। राये अग्ने महे त्वा दानाय समिधीमहि । ईडिष्वा हि मही(हे)वृषन्द्यावा होत्राय पृथिवीम् । उद्वयं तमसस्परीति ज्योतिष्मत्या परिदधाति ।। ५ ।।

दानाय समिधीमहि । इंडिया हि मही(हे)उपन्यावा होत्राय पृथिवीम् । उद्वयं तमसस्परीति ज्योतिष्मत्या परिदधाति ॥ ५॥ एकविंशतिं चतुर्विशति वा सामिधेनीः पराचीरितिवचनात्प्रथमोत्तमयोः प्रयो बाजा ( ३-५-२) इत्येकादशोक्त्वा, आजुहोतेत्येकादशिनीतरेषां गोत्राणां, त्वं वरुण इति वसिष्ठराजन्यानामेकादशिनी । समास्त्वाऽग्ने (ते० सं० ४ १-७) इत्यष्टावुक्त्वा · बृहस्पते सवितर्बोधयनमित्यनामयाविनो नवमी । अमुत्र भूयादित्यामयाविनो नवमी (वा) । राये अग्न इति विंशी, उद्वयं तमसस्परीत्येकविंशी परिधानीया । यदा चतुर्विंशतिस्तदैकादश प्राकृतरिक्त्वाऽऽग्निकीश्च नव पूर्ववदुक्त्वा- 'उपेमसृक्षि' इति तिस्रोऽप्सुमतीरुक्त्वा-उद्वयं तमसस्परीति ज्योतिष्मती परिधानीया । - यत्तु-भाष्यकारेणोक्तम्-एकादश प्राकृतीः समास्त्वाऽग्न इति दशाऽऽग्निकीः । चतुर्वि- - शतिपक्षे तु तत्र शाखान्तरोक्ता उपेममृति वाजयुरित्याद्यास्तिस्रो धाय्याः संक्षिप्य चतुर्विशतिसंख्या पूरणीया, इति । पराचीरनावृताः ॥ २ ।। ३ ।। ४ ॥ ५॥

हिरण्यगर्भः समवर्तताग्र इति स्रुच्यमाघारयति ।। ६ ।।

आधारस्य प्रत्याम्नायो हिरण्यगर्भ इति ॥ ६ ॥

ऊर्ध्वा अस्य समिधो भवन्तीति प्रयाजानामाप्रियो भवन्ति ।। ७ ।।

यद्यप्येकादशैव प्रयाजास्तथाऽपि द्वितीयतृतीययोर्मन्त्रयोः पुरुषभेदेन व्यवस्थितत्वा. मन्त्राणां द्वादशसंख्या न विरुध्यते । सा च व्यवस्था सूत्रकारेण दर्शिता- नराशसो द्वितीयः प्रयानो वसिष्ठशुनकानां तनूनपादितरेषां गोत्राणाम् ' इति ॥ ७ ॥

आग्नेयीस्त्रिष्टुभ आग्नेयानां याज्यानुवाक्या भवन्ति ।। ८ ।।

आग्नेयीत्रिष्टुभः संभरणे सीद होतरिति तिस्रो भुवो यज्ञस्येति च तिस्रो याज्ञ- सेन्याश्चित्याः ॥ ८॥

यः प्राणत इति प्राजापत्यस्य ।। ९ ।।

यः पशुः प्राजापत्यस्तस्यैते याज्यानुवाक्ये इत्यर्थः । तत्र वपायां वे ऋचौ पुरो- डाशे द्वे ऋचौ हविषि द्वे ऋचाविति षडचो याज्यानुवाक्याः प्रजापतये छागस्य वपाया इति । अग्निभ्यः कामायाश्वस्यर्षभस्य वृष्णेस्तस्य च वपानां मेदसामिति प्रैषः । 1 . - १ पटलः ] महादेवशास्त्रिसंकलितमयोगचन्द्रिकान्याख्यासमेतम् । आतवेदश्च(श्वे)न्द्र वपाभिर्गच्छ देवानिति होमः । उक्ता उहा एकवचनान्ता अपि बहूनाम- नीनां साधयन्ति निगमाः । आग्नेयीत्रिष्टुभ इति वचनात् ॥ ९॥

वैश्वानरः प्राजापत्यो वा द्वादशकपालः पशुपुरोडाशो भवति ।। ११.२.१० ।। सिद्धꣳ संतिष्ठते ।।११।।

यत्प्राजापत्यं वायोश्छिद्यते । यद्वायन्यः पशुर्भवति तेन वायोर्न प्रच्यवते । यत्प्रा. जापत्यः पुरोडाशस्तेन प्रजापतेर्ने प्रच्यवते । यस्तु द्वादशकपालः पुरोडाशः क्रियते, तेन शाखान्तरविहिता देवता वैश्वानरस्तस्या अपि न च्यवते वैश्वानरो विकल्पेन लक्ष्यते ॥ १० ॥ ११ ॥

अपि वाऽऽग्नेयान्पर्यग्निकृतानुत्सृज्य तेषाꣳ शिराꣳसि प्रच्छिद्य मृदा प्रलिप्य निदधाति ।। १२ ।।

अपि वेति शाखान्तरपक्षप्रदर्शनार्थम् । अत्रेदं चिन्तनीयम्-किमाग्नेयाः पशव एवं नाऽऽलम्याः, किंवा तान्पशूनुपाकृत्य पर्यग्निकरणादूर्ध्वमुत्सृजेत् , आहोस्वित्समाप्तिपर्य- न्तमनुतिष्ठेदिति । नाऽऽद्यः–पशुप्राप्त्यभावप्रसङ्गात् । न द्वितीयः, मध्ये परित्यागेन यज्ञनंशप्रसङ्गात् । न तृतीयः-अत्रैवाश्ववृष्णिवस्तशिरसा गतसारत्वेन भविष्यन्त्यां चित्यामनुपधेयत्वप्रसङ्गात् । एतद्दोषत्रयपरिहारायेत्थं कर्तव्यम्--आलम्भेनोत्सर्गेण च प्रथमतृतीयदोषो न भविष्यतः । प्राजापत्येन तूपरेण समापनाद्यज्ञभ्रंशरूपो मध्यमदो- षोऽपि न भविष्यति । अपि वा मरणोत्तरकालं संज्ञप्तानां संज्ञप्तहोम हुत्वा शिरांसि छित्त्वा मृदा प्रलिप्य स्थापयति ॥ १२ ॥

अपः कबन्धान्यभ्यवहरति ।। १३ ।।

उदकेषु कबन्धान्निक्षिपति ॥ १३ ॥

प्राजापत्येन सꣳस्थापयति । । १४ । ।

प्राजापत्येन संस्थाप्य तस्या एव च निगमाः, नाग्नीनाम् ॥ १४ ॥

अपि वैतेषाꣳ सर्वेषाꣳ स्थाने वायवे नियुत्वते श्वेतमजं तूपरमालभेत ।। १५ ।।

नियुत्संज्ञका अश्वविशेषा यस्य वायोः सन्ति सोऽयं नियुत्वान् । तस्मै श्वेत छागं तूपरं शृङ्गरहितमालभेत । अपि वा पञ्चपशूनां स्थाने वायुर्नियुत्वान् ॥ १५ ॥

तस्य प्राजापत्येन कल्पो व्याख्यातः ॥१६॥

तस्य निरूढपशुवन्धवद्विधिः, विद्युदृष्टिवसमानविधानात्पञ्चपशुभिः । आप्रिय आधारश्च पञ्चपशुवत् ॥ १६ ॥ ________________

२२ . सत्यापादविरचितं श्रौतसूत्रम्.. [११ प्रश्ने....... .

वायुमती श्वेतवती वपाया याज्यानुवाक्ये भवतः ।। १७ ।।

इदं याजुषं हौत्रम् । पीवोऽन्ना५ रयि वृध इत्यूची वायुमत्यो श्वेतवत्यौ च, ते वायवे समनस इति वायुशब्दसद्भावाच्छ्वेतः सिषक्तीति श्वेतशब्दसद्धावाच्च । वायुर्नियुत्वान्ययोर्देवता ते वायुमती नियुत्वती दैवतस्य याज्यानुवाक्ये भवत इत्यर्थः ॥१७॥ ...

वायुमती नियुत्वती पशोर्दैवतस्य वैश्वानरः प्राजा पत्यो वा द्वादशकपालः पुरोडाशो भवति ।। १८।। सिद्धꣳ संतिष्ठते ।। १९ ।।

गतार्थः । अत्र, वायव्यः कार्याः ३ प्राजापत्याः ३ (ते. सं. ५।५।१) इति विचारित ब्राह्मणे । वायव्यः कर्तव्यः पशुः प्राजापत्यः पुरोडाश इति वैखानसः । यस्तु प्राजापत्यो द्वादशकपालः पुरोडाशः क्रियते तेन शाखान्तरविहिता देवता । वैश्वानरस्त्वग्निगुणकेनाभिहितम्(तः) । तस्याग्नये वैश्वानराय द्वादशकपालं पशुपुरोडाशं निर्वपति ( आप० श्री० १६ । २ । १२)। इति अन्यदेवता अपि पशुपुरोडाशदेवताः पशुदेवतां वर्धयन्ति । तस्मादवीवृधन्त पुरोडाशेनेत्यस्या निवृत्तिः । यथा त्वस्माकं पाठः-ॐ वीवृधन्त ग्रहेरिति । तेन ज्ञायते ग्रहास्त[एवं] देवता अतो ग्रहदेवता अभिवर्धयन्ति पशुदेवताः । अत एव पठितम् - 'इतरथा तु अवीवृधन्त ग्रहः पुरोडाशैः' इत्येवमवक्ष्यच्छृतिः । यः कश्चानानावानगुणके ऋतौ पशुरालभ्यते । अग्नीषोमीयसवनीयानूबन्ध्यासु वैश्वानर एवास्य द्वादशकपालः पुरोडाशः क्रियते। अग्निर्दे(गुणकदे)वता वैश्वानर इहापि । भाष्यकारस्तु-वचनादेवाग्निर्वैश्वानरोऽन्यत्र वैश्वानर एवेति व्याचष्टे । सिद्धं कृत्स्नं संतिष्ठते समाप्यते ॥ १८ ॥ १९ ॥

मृदा प्रलिप्य वायव्यस्य शिरो निदधाति ।। (ख०६) ।। ११.२.२० ।।

इति सत्याषाढहिरण्यकेशिसूत्र एकादशप्रश्ने द्वितीयः पटलः ।। २ ।।

तस्य शिरश्लित्त्वाऽभिमर्शने कृते मृदा च प्रलिप्य वाव्ययशिरः स्थाप्यते, तेनेष्ट्वा वायव्येन पशुना, पञ्च पशुभिर्वा, समानविधानत्वात् । संवत्सरं माँसपरिवननं स्त्रियाः परिगमनवर्जमुपरिशयनवर्जन च । यदाऽप्यक्सिंवत्सरादिज्या तदाऽपि संवत्सरं वायव्यव्रतानि बाध्यन्त इति भाष्यकृत् । साग्निकधर्मवतैश्च सर्वेषां समुच्चय . १.ग. मुच्छ्य । ........... ________________

३ पटलः ] महादेवशास्त्रिसंकलितमयोगचन्द्रिकान्याख्यासमेतम् । २६ इति न्यायः । अथ वा मांसाशनमुपरिशय्यो च कुर्यात् । स्त्रियं तु नोपगच्छेत् । एवं संवत्सरमिति वाजसनेयकम् । इति वायव्यपशुः ॥ ६ ॥ .... इति हिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रसंकलितायां प्रयोगचन्द्रिकाया. . .मेकादशप्रश्ने द्वितीयः पटलः ।

11.3 अथैकादशप्रश्ने तृतीयः पटलः ।

यत्प्राग्दीक्षणीयायास्तत्कृत्वा द्विहविषं त्रिहविषं वा दीक्षणीयामिष्टिं निर्वपति । आग्नावैष्णवमेकादशकपालमाग्नावैष्णवं वा घृते चरुमादित्यं च घृते चरुं वैश्वानरं द्वादशकपालं पुरस्तात्तृतीयमसंवत्सरभृतः ।। १ ।। दीक्षाहुतिकाल आकूत्यै प्रयुजेऽग्नये स्वाहेति पञ्चाऽऽध्वरिकीर्हुत्वाऽऽकूतिमग्निमिति षडाग्निकीर्जुहोति । विश्वेदेवस्य नेतुरिति सप्तमीम् ।। २ ।।

यत्पूर्व दक्षिणीयायाः कर्म तत्कृत्वा द्रव्यनिर्देशः संभारयजूंषि अग्निपरित्यागः सोमपरिवे(पे)षणं सप्तहोता परित्यज्याभिं क्रत्वर्थमनिं प्रणीय त्रिविष्कं आग्नापैष्णव आदित्यस्तृतीयो वैश्वानर इति । असंवत्सरभृतो यजमानस्याऽऽग्नावैष्णवादपि पुरस्ताद्वैश्वानरः । आदित्यस्य पुरस्तादिति भाष्यकारोक्तिस्तस्याऽऽनन्तर्यात् । अग्निस्तु वैश्वानरगुणकः, वाक्यशेषान्मन्त्रलिङ्गाच्च । आग्नावैष्णवं धृते चरुमिति घृतमग्नेः- घृतमस्य योनिघृते श्रितः' इत्यादिमन्त्रवर्णात् । तण्डुलास्तु विष्णोः प्रियाः । येऽणिष्ठास्तान् विष्णवे शिपिविष्टाय' इति श्रुतेः । तस्मादुभयप्रियत्वाद्धृतयुक्तश्वरुः कार्यः । अदितिर्देवता यस्य चरोः सोऽयमादित्यः । आग्नावैष्णवं हविः प्रथमं कृत्वा द्वितीयहविष्ट्वेनायमादित्यश्वरुः कार्यः । उख्यस्याग्नेः संवत्सरधारणं ब्राह्मणे विदधाति-यो वै संवत्सरमुख्यमभुत्वाऽग्नि चिनुते ( तै० सं०५-५-१) इति । तेन च धारणेन विनाऽग्निचयन परिपक्वगर्भपातेन समानम् । अतो यजमानो म्रियेत । तस्मात्संवत्सरं धारयितुमशक्तः पुमान्संवत्सरात्मागेच तिस्रः षड्डा दश वा रात्रीदक्षिाश्चिकीर्षुर्वैश्वानरं द्वादशकपालं निर्वपेत् , तस्य च वैश्वानरस्याग्नेः संवत्सररूपत्वात् । यथा लोके संवत्सरेण पूर्णो गर्भ: काले सुखेन जायत एवमप्यनयेष्ट्या संवत्सरं प्राप्य काले प्राप्ते चितवान्भवति । ततो न म्रियते । विहितानां हावयां त्रित्वं प्रशंसति--वीण्येतानि हवींषि भवन्ति । (तै० सं० ५-५- ३) इति । अत्र यानुषहौत्रसत्वे याजुषोक्तरीत्या सप्तदश . ________________

२४ सत्यापाढविरचितं श्रौतसूत्रम्- - [११ प्रश्नैसामिधेन्यः । अग्निरमे प्रथमो देवतानाम् , अग्निश्च विष्णो तम उत्तम मह इत्यग्नाविष्ण्वोर्याज्यानुवाक्ये । अदितिर्न उरुष्यतु महीम षु मातरम् , इत्यदितः । वैश्वानरो न ऊत्या पृष्टो दिवि, इति वैश्वानरस्य । त्रिविरपि दीक्षणीया आज्येडान्ता । त्रिधाकरणमादित्यवैश्वानरयोरिति न्यायः । भाष्यकारस्तु-आज्येडान्ते ब्रह्मभागं प्राश्योपस्थानं कृत्वा ब्रह्मा निष्कामति, इति व्याचष्टे । प्राग्वंशकरणं वपनं चोत्तरेण बहिरित्येवमादि प्राग्दीक्षाहुतिभ्यः | आवनीयमुपोपविशति, इत्येवमन्तं कृत्वा दीक्षाहुतयः । वैकल्पिका विधयः सर्वे लभ्यन्त इहापि । अध्वरो ज्योतिष्टोमः । अध्वरे मवा आध्वरिक्यस्ताः पञ्च-आकूत्यै प्रयुजेऽग्नये स्वाहेति वेण चतस्रः खुचा पञ्चमी । आकृतिमग्निमिति षडाग्निकीर्दीक्षाहुतीर्बुवा अत एव सह पूर्णाहुत्या हुत्वाऽभिधारणम् । भाष्ये तु मन्त्रे णाऽऽप्यायनमिति । विश्वेदेवस्य नेतुरिति सप्तमी पूर्णाहुतिः । सप्तमीतिवचनाद्यजमानोऽनुमन्त्रयते वातं प्राणमिति । ननु-अग्नौ प्रकृतितो दीक्षाहुतयः षट्प्राप्तास्तासां च षण्मन्त्राः प्रकृतित एव प्राधा:-आकृत्यै प्रयुजेऽग्नये स्वाहा (ले० सं० (१-२-२) इत्यादयः । अग्नावपरे षण्मन्त्राः-आकृतिमग्निं प्रयुजर स्वाहा' इत्यादयः । ते च दीक्षार्थतया विनियुक्ताः । षड्भिदक्षियति ( तै० सं० ५-३-१ ) इति । दीक्षाहुतीनां चाभ्यासः श्रूयते- द्वादश जुहोति ' इति । तत्र संशयः-किं वैकृतैर्मन्त्रैः प्राकृता बाध्यन्ते समुञ्चीयन्ते वेति । तत्र प्रत्यक्षपाठेन प्रत्यक्षवचनेन च । वैकृताः प्राकृतान्मन्त्रान्बाधेरनेककार्यतः ॥ यद्यपि · द्वादश जुहोति ' इति वचनाद्धोमानामभ्यासस्तथाऽपि वैकृतानामेव प्रत्यक्षवचनविहितानां चोदकेन प्राप्तप्राकृतमन्त्रबाधेन होमानत्वात्तैरेवाभ्यस्तैादशापि होतल्या इति प्राप्ठे ब्रूमः न प्रत्यक्षेण वाक्येन होमाथै वैकृताः श्रुताः। .....: : दीक्षार्थताबलात्तेषां होमाङ्गत्वं प्रकल्प्यते ॥ ... सकृत्प्रयोगमात्राच्च तादर्थ्यमुपपद्यते । . : . वैकृतैः प्राकृतास्तस्मात्समुच्चेया न बाधनम् ॥ । षड्भिक्षयति ' इति दीक्षार्थता श्रुता । सा च स्वाहाकारलिङ्गानां होमद्वारेणेति दीक्षार्थत्वसिद्धये होमागता कल्प्यते । सकृत्प्रयुक्तैरेव च षट्स होमेषु दीक्षार्थतासिद्धे नौम्यासे प्राकृतबाधे वा प्रमाणमस्ति तेनाभ्यासवशेन होमानी द्वादशत्वान्मन्त्राणामपि • प्राकृसवैष्कृतानों समुच्चयः ॥ १ ॥ २ ॥ ३ पटलः ] महादेवशास्त्रिसंफलितपयोगचन्द्रिकाव्याख्यासमेतम् । २५

यत्प्राङ्मुष्टिकरणात्तत्कृत्वा शणकुलायेन मुञ्ज कुलायेन वोखामुपस्तीर्य मा सु भित्था मा सु रिष इति द्वाभ्यामाहवनीयाङ्गारेषूखां प्रवृणक्ति ।। ३ ।।

मुष्टेः क्रिया मुष्टिकरणं पूर्व च- -मुष्टी कृत्वा ( स० सू० १।२।६) इति मुष्टिकरणं तत्कृत्वा यत्रावयु दणानि जुहोति इत्येवमादि संभारयजू पि नैनमध्वर्यु- चियति ( स० श्री० ७११ । ३) इत्यन्तम् । शणः पक्षिविशेषः, तस्य कुलायो नीडमित्यर्थः । मुञ्जाः शरखण्डास्तैः प्रच्छाद्याभ्यन्तरमुखायां मा सु भित्था मा सु रिष इति द्वाभ्यामाहवनीयेऽधिश्नयत्युखां बाह्याम् । अस्मिन्निति मन्त्रान्तः ॥ ३ ॥

मित्रैतामुखां तपेत्यङ्गारैः परितपति ।। ४ ।।

सर्वत इन्धनं प्रदक्षिणमङ्गारैः ॥ ४ ॥

द्रवन्न इति तस्यां क्रमुकमुल्लिखितं घृतेनाङ्क्त्वाऽवदधाति ।। ५ ।।

सस्यामुखायां क्रमुकमल्पं काष्ठशकलम् । उल्लिखितं क्रमुकं . घृतेन सेचयित्वा क्षिपति । चूर्णरूपं क्रमुकमुखायां क्षिपतीति वैखानसेनोक्तम् ॥ ५ ॥

मुञ्जाꣳश्च ।। ६ ।।

मुखैः सहावधातीत्यर्थः ॥ ६ ॥ यस्तु गतश्रीः सन्पुनर्भूतिं कामयेत तस्य मथिताग्निमपोद्य पूर्ववत्प्रवृजनमपि विधत्ते--

यो भूतिकामः स्याद्य उखायै संभवेत्स एव तस्य स्यान्मथित्वा गतश्रियोऽवदध्यात् ।। ७ ।।

आहवनीये प्रतप्तायामुखायां योऽग्निः संभवेत्स एव तस्य भूतिकामस्य गतश्चियः कार्यों नतु मथितः । एष संभवत्येष वै स्वयंभूनामि भवत्येव (तै० सं० ५ ॥ १।९) इति । अत उखायोगेष संभवति तस्मान्मथनापेक्षामन्तरेण स्वयमेवोत्पन्नत्वादेष स्वयंभू- रित्युच्यते । एवं सति यनमानो भवत्येव भूतिं प्राप्नोत्येव ॥ ७ ॥ यजमानद्वेषिणोऽध्वर्योः प्रकारान्तरं विधत्ते -

यं कामयेत भ्रातृव्यमस्मै जनयेयमित्यन्यतस्तस्याऽऽहृत्यावदध्यात् ।। ८ ।। ________________

२६ सत्यापाविरचितं श्रौतसूत्रम्-.. ११ प्रश्ने-: यमुद्दिश्य शत्रुमस्मै जनयेयमिति कामयेता वर्युस्तस्यान्यतो गृहान्तरादिप्रदेशादग्निमानीयोखायां प्रक्षिपेत् । तथा सति विलम्बमन्तरेणैव भ्रातृन्यं जनयति ॥ ८ ॥ अथ कामनाविशेषणान्यमनिं विधत्ते. .

अम्बरीषादन्नकामस्य ।। ९ ।।

घृतादिना शाकादिभर्जनार्थ यल्लौकिक लोहादिपात्रं तदम्बरीष तस्मिन्प्रतप्ते घृतपाने । पेण प्रौढा ज्वालोत्पद्यते । ततोऽग्निमाहृत्योखायामवंद्ध ।त् । लोके हि तस्मिन्नम्वरी शाकादिकमन्नं धार्यते । अतः काम्यमानेनान्नेनैतस्यानेः समानयोनित्वाद्यजमानोऽन्न: प्राप्नोत्येव ॥ ९॥

प्रदाव्यादाहरेद्यं कामयेत शूरो मे राष्ट्र आजायेतेति ।। ११.३.१० ।।

प्रदाव्यो वनदाहः । तस्मादाहोदुख्यम् । मम राष्ट्रे शूरो. धनंजयसदृशः, आजायेतेति तस्य प्रदाव्यादाहरणमुख्यस्य । अध्वर्युकाम इति भाष्यकृत् ।।- १५...

वृक्षाग्राज्ज्वलतो ब्रह्मवर्चसकामस्य ।। ११ ।।

तस्याऽऽहत्यावद्ध्यादित्यनुवर्तते । वृक्षायाज्ज्वलत आहृत्योख्यं ब्रह्मवर्चसकामस्य यजमानस्य ॥ ११ ॥

भर्जनादन्नकामस्य ।। १२ ।।

... .... अत्रापि तस्याऽऽहत्यावदध्यादित्यनुकपः । भर्जनं कम्बुः स यत्र त्यक्त्वाऽर्थाद्धानाभय॑न्ते तत आहृत्यावद्ध्यादित्यर्थः ॥ १२ ॥

काम्यमग्निं कुर्वाणो नाऽऽहवनीयेऽनुप्रवृञ्ज्यात् ।।१३ ।।

नाऽऽहवनाचे प्रवृञ्जनं काम्यमझिं कुर्वन्यजमानोऽपि ॥ १३ ॥

जात उख्येऽनुगमयत्याहवनीयम् ।। १४ ।।

air... भावनाये प्रवृञ्जनपक्ष उखायां जात उख्येऽनुगमयत्याहवनीयम् । १४ ॥

परस्या अधि संवत इत्यौदुम्बरीꣳ समिधमादधाति। परमस्याः परावत इति वैकङ्कतीम् । ताꣳ सवितुर्वरेण्यस्य चित्रामिति शमीमयीम् ।। १५ ।। शमीमयीं पूर्वामेके समामनन्ति । वैकङ्कतीमुत्तराम् ।। १६ ।।

समिदुख्य क्षिप्यते ॥ १५ ॥ १६ ॥ ४. : ________________

..३ पटलः] महादेवशास्त्रिसंकलितपयोगचन्द्रिकाव्याख्यासमेतम् ।

सीद त्वं मातुरस्या उपस्थ इति तिसृभिर्जातमुख्यमुपतिष्ठते ।। १७ ।।

मानिआसद इत्यातः । अत्र तिमभिरन्त उपस्थान बलवतो जातस्य ॥ १७ ॥

यदग्ने यानि कानि चेति पञ्चभिरपरषुवृक्णमौदुम्बरमिध्ममभ्यादधाति ।। १८ ।।

दधाम्यास्य इत्यन्तः । अपरशुत्रुक्णं परशुच्छेदरहितं काष्ठं यदल इत्यादिमन्त्रैः समिधमादध्यात् । अथवा-पञ्चभिरन्ते सकृदेकमुदुम्बरस्यावयवमपरशुवृवणं वास्यादिभि रच्छिन्नं हस्तेनैव भग्न मुख्य इध्मं विपति । १८ ॥ :::

तैल्वकमभिचरतः कुर्याद्ग्राहुका हैनꣳ समाꣳस्तेना भवन्ति ( इति) ।। १९ ।।

तेल्वकं तिलकस्येध्मम् । बहुगालवं तिलक इति केचित् ॥ १९ ॥

दꣳष्ट्राभ्यां मलिम्लूनित्याश्वत्थीं समिधमादधाति । ये जनेषु मलिम्लव इति वैकङ्कतीम् ।। यो अस्मभ्यमरातीयादिति शमीमयीम् । ता आदधद्यं द्वेष्टि तस्य वधं मनसा ध्यायति ।। ११.३.२० ।। २१ ।।

सर्वत्र समिधमादधातत्यिन्वयः । ताः समिध आधानकाले यं यजमानमुद्दिश्य द्वेष करोति तस्य वधमध्वर्युर्मनसा ध्यायतीत्यर्थः ॥ २० ॥ २१ ॥ -

सꣳक्षितं मे ब्रह्मोदेषां वा अतिरमित्युत्तमे औदुम्बर्यां समिधावादधाति ।। २२ ।।

- अहमित्यन्तः । औदुम्बयौँ द्वे समिधौ तूष्णीमाध्यादिति शेषः ॥ २२ ॥

अथ यजमानं वाचयति ।। (ख० ७) ।। २३ ।।

उतमे राक्षोऽनसूक्तस्यान्तिमे ऋचौ ' सशितं मे ' इति यजमानं वाचयेत् ॥२३॥ '. '

ब्रह्म क्षत्त्रꣳ सयुजा नह्यथ ते ब्रह्मा ह क्षत्त्रं जिन्वति क्षत्त्रियस्य क्षत्त्रं ब्रह्म जिन्वति ब्राह्मणस्य यत्समीची कृण्वतो वीर्याणीति जपति ।। २४ ।।

स्पष्टम् ॥ २४ ॥ ::

मातेव पुत्रं पृथिवी पुरीष्यमग्निꣳ स्वे योनौ भरिष्यत्युखा । तां विश्वैर्देवैर्ऋतुभिः संविदानः प्रजा [११ मों- सत्याषाढावरचितं श्रौतसूत्रम्-

पतिर्विश्वकर्मा युनक्त्विति मौञ्जे शिक्ये षडुद्यामे हादशोद्यामे वोखामवदधाति ।। २५ ।।

मौजे शिक्ये मुञ्जकृते पडद्यामः शिक्यपादः, ते यस्य षट् द्वादश वा तनोखा निदधाति । न यथा दह्यते शिक्यं तथोपायं कुर्यात् ॥ २५ ॥

अग्ने युक्ष्वा हि ये तवेति वैताभ्यामेकविꣳतिनिर्बाधो रुक्यः सूत्रोतस्तमन्तर्वेद्यासीनो दृशानो रुक्म इति बहिष्ठनिर्बाधं यजमानो विपर्यस्य प्रति मुञ्चतेऽधस्तान्निर्बाधꣳ सादयति ।।२६ ।।

सुवर्णफलके निम्नोन्नतभावमापद्य स्पर्शकारिणं पुरुष निःशेषेण बाधन्त इति निर्वाधाः स्फोटकसदृशा अवयवविशेषाः । ते चैकविंशतिसंख्याका यस्मिन्रुक्मे सोऽयमेकविंश- तिनिधिः ! तादृशं रुक्मं कुर्यात् । सूत्र उतः सूत्रोतः सूत्रे लाङ्गितः । दृशानो रुक्म इत्यनेन मन्त्रेणोपरिष्टाद्यजमानोऽन्तःस्फोटकं लङ्गयित्वा रुक्मं पश्चासहिः स्फोटकान्कुरुते ॥ २६ ॥

नक्तोषासेति कृष्णाजिनं प्रतिमुञ्चते ।। २७ ।।

नक्तोषासेति कृष्णाजिनमुपरि करोति बाहोः ॥ २७ ॥

विश्वा रूपाणीति शिक्यपाशान् ।। २८ ।।

प्रतिमुञ्चत इत्यनुवर्तते । शिक्यस्य यः पाशस्तं ग्रीवायां प्रतिमुञ्चते ।। २८ ।।

अपि वा शिक्यं प्रतिमुच्य कृष्णाजिनं प्रतिमुञ्चते ।। २९ ।।

अपि वा यथासमाम्नायपाठेन पठितस्तथेत्यर्थः ॥ २९ ॥

सुपर्णोऽसि गरुत्मानित्युख्यमवेक्षते ।। ११.३.३० ।।

अचलितस्यैवावेक्षणमुख्यम्य ॥ ३० ॥

सुपर्णोऽसि गरुत्मान्दिवं गच्छेत्युद्यच्छते ।। ३१ ।।

स्पष्टोऽर्थः ॥ ३१ ॥

ऊर्ध्वं नाभेर्धारयमाणो विष्णोः क्रमोऽसीति चतुरो विष्णुक्रमान् (प्राचः) क्रामति ।। ३२ ।।

नाभेरुपारंधारयमाण उख्यं, विष्णोः क्रमोऽसीति चतुरो विष्णुक्रमान्प्राची दिश क्रामति प्राङ्मुखश्च । यं द्विष्म इत्येवमन्ता विष्णुक्रममन्त्राः ॥ ३२ ॥ ________________

२. पटलः ] महादेषशास्त्रिसंकलितश्योगचन्द्रिकाव्याख्यासमेतम् । २९

अक्रन्ददग्निरित्युख्यमभिमन्त्रयते ।। ३३ ।।

अक्रन्ददित्येतयर्चा तमग्निमभिमन्त्रयते ॥ ३३ ।।

अग्नेऽभ्यावर्तिन्निति चतसृभिः प्रदक्षिणमावर्तते ।। ३४ ।।

विश्वतस्परीत्यन्तः । चतसृभिः प्रदक्षिणमावर्तते सहाऽग्निनेति शेषः । आवृत्तौ प्रादक्षिण्यं विधत्ते- दक्षिणा पर्यावर्तते । (तै० सं० ५ । २ । १ ) इति । दक्षिणा प्रादक्षिण्येन, दक्षिणभागमवस्थाप्य वामभागस्य पारभ्रमणं प्रादक्षिण्यम् । पुरुषस्य दाक्षभागे सामर्थ्यातिशयसद्भावात्तदेवानुसृत्याऽऽयत्तिः कृता भवति ॥ ३४ ॥

आ त्वाऽहार्षमित्याहृत्योपतिष्ठते यं कामयेत राष्ट्रꣳस्यादिति तं मनसा ध्यायेद्विशस्त्वा सर्वा वाञ्छन्त्विति ।। ३५ ।।

अस्य मन्त्रस्य प्रथमपादे वढेराहरणं प्रसिद्धमेव प्रतीयत इति दर्शयतिआ त्वाऽहार्षमित्याहाऽऽह्येवर हरति (तै० सं० ५। २ । १) इति । द्वितीयपादेऽन्वयव्यतिरेकाम्यां प्रतिष्ठा सिध्यत्यिाह- ध्रुवस्तिष्ठाविचाचलिरत्याह प्रतिष्ठित्य। (ते० सं० ५।२।१ ) इति । तृतीयपादे प्रजासमृद्धि चतुर्थपादे राज्यस्थैर्य च क्रमेण दर्शयति- विशस्त्वा सर्वा वाञ्छन्त्वित्याह विशैवैन समर्धयत्यस्मिन्राष्ट्रमधि 'श्रयेत्याह राष्ट्रमेवास्मिन्ध्रुवमकः ' ( तै० सं० ५।२।१) इति । विशा प्रजया । एनं यजमानम् । अस्मिन्यजमाने | अक: करोति । चतुर्थपादपाठ काले यजमानविषयं काम्यं मनसा ध्यानं विधत्ते–'यं कामयेत राष्ट्र५ स्यादिति तं मनसा ध्यायेद्राष्ट्रमेव भवति ' ( तै० सं०५।२ । १ ) इति । यं यजमानमुद्दिश्य राज्यमस्त्विति कामयेताध्वर्युस्तं चतुर्थपादोच्चारणकाले ध्यायेत् । ___ केचित्तु व्याचक्षते- तूष्णीमात्याऽऽसन्दीसमीपम् , आ त्वाऽहार्षमित्युपतिष्ठते । अग्रे बृहनुषसामूो अस्थादिति च । भाष्ये तु व्याचष्टे--आहरणार्थः पूर्व आ त्वाऽ. हार्षमिति । द्वितायनानेरुपस्थानम् । तूष्णीमाहृत्य द्वाभ्यामुपस्थानमित्येवं वैखा. नससूत्रनिबन्धनात् । यं कामयेत राष्ट्राधिपतिः स्यादिति तस्य ध्यानम् । इद राष्ट्रमधिश्रय देवदत्त, इति ॥ ३५ ॥

उदुत्तममिति शिक्यपाशमुन्मुञ्चते ।। ३६ ।।

शिक्यपाशमवनयति ग्रीवायाः ॥ ३६ ॥

अग्रे बृहन्नुषसामूर्ध्वो अस्थादित्युन्मुच्योपतिष्ठते ।। ३७ ।।

गतार्थः ॥ ३७॥ १ ख. पाशान्मु। ________________

३० . सत्यापादविरचितं श्रौतसूत्रम्- १११.ने

औदुम्वर्यासन्द्यरत्निमात्र शीर्षण्वाऽनूच्य प्रादेशमात्रपादा मौञ्जविवाना फलकास्तीर्णा वा मृदा प्रदिग्धा सीद त्वं मातुरस्या उपस्थ इति तस्यां चतसृभिरुख्यं सादयति ।।. ३८ ।।

औदुम्बर्या आसन्धाः प्रकृतत्वात्सैव तस्यामिति परामृश्यते । बृहदित्यन्तः । सीद त्वं मातुरित्यादिभिश्चतसमिरोदुम्बर्यामुख्याग्निं स्थापयेत् । अथ वा-उदुम्बरेणं कृता औदुम्बरी । आदित्यस्यामित्यासन्दी । अनिमात्रशीर्षण्याऽनूच्या यस्याः पादाः प्रादेशमात्राश्च । यस्या मौनैः शुरुवैर्विवानं कृतम् । फलकैरास्तीर्णा वा । न मुञ्जविवाना, मृदा च प्रलिप्ता, उभयं यथा न दह्यते तथेत्यर्थः । सीद त्वं मातुरस्या उपस्थ इति चतसृभिस्तस्यां सादयत्युख्यम् ॥ ३८॥

शर्करायां वा ।। ३९ ।।

तिभिः सादयति (आप • श्री० १६ । ४ । १७) इत्यापस्तम्बः । शगया वा सादयति ॥ ३९ ॥

हꣳसवत्योपतिष्ठत इत्येके समामनन्ति ।। (ख० ८) ।। ११.३.४० । ।

इति सत्याषाढहिण्यकेशिसूत्र एकादशप्रश्ने तृतीयः पटलः ।

अौके शाखिनः हसः शुचिषत्, इति हंसंवत्योपस्थानमा नन्ति ॥ ४० ॥ । इति हिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयो गचन्द्रिकायामेकादशप्रश्ने तृतीयः पटलः ॥ ३॥ मन

11.4 अथैकादशप्रश्ने चतुर्थः पटलः ।

मुष्टिकरणप्रभृतीनि कर्माणि प्रतिपद्यते ।।१ ।।

मुष्टिकरणप्रभृति सौमिकानि कर्माणि कर्तुं प्रतिपद्यते । प्रथमस्य दीक्षादिवसस्य कर्मानुपूर्व्यम् । संभारयजुषां वाचनं कृत्वा शणकुलायेन मुञ्जकुलायेन वोखां प्रच्छाधान्यमग्निं करोति (सौ ०११।३।३) ॥ १॥ ! . .

येन देवा ज्योतिषोर्ध्वा उदायन्निति प्रादेशमात्रैः काष्ठैरुख्यमुपसमिन्धे ।। २ ।।

येन देवा इति प्रादेशमात्रैः काठेख्येन्धनं, यजमानेनैव प्रकृतत्वात् । अध्वर्युरिति भाष्यकृत् ॥ २ ॥ १ अध्वर्युणैवेति वपुस्तकान्तरे पाठान्तरम् । ________________

४. पर्टलः ] : महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ३१ :

सदा ज्वलति ॥ ३ ॥

सदा नित्यो ज्वलति(१६ । । ।१९) इत्यापस्तम्बोक्तेः । व्रतकाल एव ज्वलति (वै श्रीमा । १) इति वैखानसः ॥ ३॥ :

अन्नपतेऽन्नं नो देहीति व्रतयिष्यन्नौदुम्बरीꣳ समिधं व्रते सत्रज्योख्येऽभ्यादधाति ।। ४ ।।

यदा व्रतं ग्रहीष्यस्तदोदुम्बरी समिधं व्रतार्थे क्षीरद्रव्ये समज्याङ्क्त्वा समिधं प्रक्षिपति यजमानः । व्रत इति सप्तमीनिर्देशान्मध्यंदिने मध्यरात्रे वा गृहीतो बेते यजमानेन । चतुष्पद इत्यन्तः ॥ ४ || ::

देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां गायत्रेण च्छन्दसा रात्रिमिष्टकामुपदधे तया देवतयाऽङ्गिरस्वद्ध्रुवा सीदेति सायमुख्यमुपतिष्ठते ।। ५ ।। देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां गायत्रेण च्छन्दसाऽहरिष्टकामुपदधे तया देवतयाऽङ्गिरस्वद्ध्रुवा सीदेति प्रातः ।। ६ ।।

उख्यमुपतिष्ठत इत्यर्थः ॥ ६ ॥६॥

श्वोभूते दिवस्परि प्रथमं जज्ञे अग्निरित्येकादशभिर्वात्सप्रेणोपतिष्ठते ।।. ७।।

द्वितीयेऽहनि वात्सप्रेणोपतिष्ठते ' (ले० सं० ५-२-१ ) इति । वत्सप्रीनामकेन महर्षिणाऽधीत दिवस्परीत्यादिकं सूक्तं वात्सप्र, तेनाग्निमुपतिष्ठेत ॥ ७ ॥

एवꣳ सदाऽऽक्रयणात् ।। ८ ।।

एवमुक्तप्रकारेण यावत्क्रय इति ॥ ८ ॥

पूर्वेद्युर्विष्णुक्रमान्क्रामति । उत्तरेद्युरुपतिष्ठते वात्सप्रेणेति ।। ९ ।।

पूर्वेयुः पूर्वस्मिन्नहनि विष्णुक्रमान्कामति । उत्तरेझुरुपतिष्ठते वात्सप्रेणेति । विष्णु. क्रमा वात्सप्रं च प्रथमेऽहनीति प्राप्त उच्यते-पूर्वद्युः प्रक्रामति उत्तरेयुरुपतिष्ठते ( ते ० सं०५-२-३) इति । केचित्तु-प्रथमेऽहन्युभयं कुर्वन्ति विष्णुक्रमानवात्स चेति । द्वितीयादिप्वहःसु द्वितीयं विष्णुक्रमांस्तृतीय वात्सप्रमिति कुर्वन्ति न्यत्यासं सदा यावत्कयः ' इति । यदहस्तु सोमक्रयस्तदहरुभयं क्रियते विष्णुकमाः प्रथम पश्चाद्वात्तप्रमिति ॥ ९ ॥ १५. तेऽपीति पाठः। ________________

सत्यापाढावेरचितं श्रौतसूत्रम्- [१६

यदहरग्निं चेष्यमाणः स्यात्तदहरुभयꣳ समस्येत् । प्रचक्रामेदुपतिष्ठेत ।। ११.४.१० ।।

यस्मिन्नहनि चेष्यमाणः स्यात्तस्मिन्दिने विष्णुक्रम उपस्थानं तयोः समस्येत् ॥ १०॥

यद्युख्ये भ्रियमाणेऽयं देवः प्रजा अभिमन्येत भिषङ्नो अग्न आवह । स्वꣳ रूपं कृष्णवर्त्मनो असि होता न ईड्यः । त्वं नो अग्ने भिषग्भव देवेषु हव्यवाहनः । देवेभ्यो हव्यवाडसि । भिषजस्त्वा हवामहे भिषजः समिधीमहि । भिषग्देवेषु नो भवेत्येताभिस्तिसृभिस्तिस्रः समिध आदध्याात् ।। ११ ।।

याख्ये श्रियमाणे उखास्थ आहवनीये । अयं देव (इति) अग्निरुद्रः प्रजा अमिमन्येत हिंस्यादुपसर्गेणाऽऽग्नेयीभिर्मिषवतीभिस्तिसमिः ( आप० श्री० १६-१-२८) इति तिस्रः समिधः प्रतिमन्त्रमादध्यात् ।। ११ ॥

यद्युख्ये भ्रियमाणे कामयेत वर्षेदिति सूर्यो अपो विगाहते रश्मिभिर्वाजसा तमः । बोधा स्तोत्रे वयो वृधः ।। परि यो रश्मिना दिवोन्तान्ममे पृथिव्याः । उभे आपप्र रोदसी महित्वा ।। वहि ष्ठेभिर्विहरन्यासि तन्तुमवव्ययन्नसि तं देव वस्वः । दविध्वतो रश्मयः सूर्यस्य चर्मेवावाधुस्तमो अभवन्तरित्येताभिस्तिसृभिस्तिस्रः समिध आदध्यात् ।। १२ ।।

यद्यख्ये नियमाणे धार्यमाणे किंचिद्यजमानस्य नश्येत् । यदि कामयेत वयः पर्जन्यः, इति । याः सौर्यः सूर्यदेवत्याः । रश्मिशब्दो यासु विद्यते ता रश्मिवत्यः । तामिः प्रतिमन्त्रं तिखः समिध आदध्यात् ॥ १२ ॥

यद्युख्ये भ्रियमाणे कामयेत न वर्षेदित्यदृश्रमस्य केतवो वि रश्मयो जनाꣳ अनु । भ्राजन्तो अग्नयो यथा ।। तरणिर्विश्वदर्शत इत्येषा ।। दिवो रुक्म उरुचक्षा उदेति दूरे अर्थस्तरणिर्भ्राजमानः । नूनं जनाः सूर्येण प्रसूता आयन्नर्थानि कृण्वन्नपाꣳसीत्येताभिस्तिस्रः समिध आदध्यात् ।। १३ ।।

१. बन्यामि । २ क, "त नव। ________________

६ पटलः ] महादेवशाखिसंकलितपयोगचन्द्रिकाव्याख्यासमेतम् । ३३ यदि कामयेत न वर्षेपर्जन्य इति । अतिवृष्टया । याः सूर्यदेवत्याः सौर्यः । धान:।। शब्दो यातुं विद्यते तो भ्राजस्वत्य स्ताभिस्तिसर्भिस्तिस्रः समिधः प्रतिमन्धमादध्यात् । 'अदृश्श्रमस्य केतवः इति च ॥१३॥

यद्युख्ये भ्रियमाणे किंचिन्नश्येदग्नेऽभ्यावर्तिन्निति चतसृभिरुपतिष्ठते । विन्दत्येवैतदिति विज्ञायते ।। ख० ९) १४ ।।

इति सत्याषाढहिरण्यकेशिसूत्र एकादशप्रश्ने चतुर्थः पटलः ।। ४ ।।

याख्ये नियमाणे धार्थमांणे किंचिद्यजमानस्य नश्येत् । अग्नेऽभ्यावर्तिन्निति चतसृभिरुपतिष्ठते यनमान उख्यम् । लभते तन्नष्ठमिति श्रुतेः । हिरण्यनाशेऽप्येतदेव । उल्ये -नियमाणा इनि कालविधानात् ॥ १४ ॥ .. ...... .....it । इति हिरण्यकशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोगचन्द्रिकाया .. .... मैकादशप्रक्षे चतुर्थः पटलः ॥ ४ ॥

11.5 अथैकादशप्रश्ने पञ्चमः पटलः ।

उदु त्वा विश्वेदेवा इत्युख्यमुद्यच्छते ।। १ ।।

.... __ यस्मिन्नहनि दीक्षासु वर्तमामासु प्रयायाद्देवयजनसमीपम् । तत्र स्पष्टमेवोक्तमापस्त बैन - यदहः प्रयायात् ( आप श्री० -१६ । ४ । ३५ ) इति । इह गहे दीक्षा नित्या सूत्रान्तरे प्रयाणविधानान्मन्त्रलिङ्गाच्च । उख्यमुद्यच्छति उद्गृह्णाति ।। १ ॥

सीद त्वं मातुरस्या उपस्थ इति चतसृभिर्द्वीपे शकट आसादयति ।। २ ।।

.शकडे प्रजम उल्यमासादयति (१६ । ४ । ३६ ) इत्यापस्तम्बः । ३ ईपे यस्य तदिदं द्वीर्ष तस्मिन्द्वीपे शकटे । न रथेन प्रयाति, रथस्य प्रत्याम्नायः शकटम् । मउगं मुखं बस्मिन्नुख्यः साद्यते, तिसभिर्वा साद्यते । हसवत्योपस्थानम् । इहापि प्रयाणं याजमानम् ॥ २ ॥....

तूष्णीमितरान्नग्नी आसाद्य प्रेदग्ने ज्योतिष्मानिति प्रयाति ।। ३ ।।

समोप्याग्नी पानयोगार्हपत्यदक्षिणाग्नी पश्चाहीस्वा - सादयति शकटे सभ्यावसध्ययोः पृथगरपयोरनी समारोप्य रथेन प्रयाति इति प्रकृतावग्निहोत्रदर्श

स. न लभ्यते। 3-________________

. ३४ सत्यापाडविरचितं श्रौतसूत्रम् [११ प्रश्ने- .. .. पूर्णमासयोरेव सम्यावसथ्यौ, नान्यत्रेति भाष्यकृत् । तूष्णीमितराविति. द्वयोरेवाग्न्योः । समारोपणविधामात् । भद्रादभिश्त्रेय इत्यस्य प्रेदने ज्योतिष्मान्याहीति प्रत्याम्नायः॥३॥

अक्रन्ददग्निरित्यक्षशब्दमभिमन्त्रयते ।। ४ ।।

यदि शब्दो जायतेऽक्षस्य ततोऽनुमन्त्रणम् | नद्युत्तारः प्रकृतिवत् ॥ ४ ॥

अध्यवसायौदुम्बरीꣳ समिधं घृतानुषिक्तामतिथि- वत्योख्येऽभ्यादधाति समिधाऽग्निं दुवस्यतेति गायत्र्या ब्राह्मणस्य । प्र प्रायमग्निरिति त्रिष्टुभा राजन्यस्य । जगत्या वैश्यस्य ।। ५ ।।

प्रयाणमन्त्रस्तु याजमानोऽपि । अग्निमधिकृत्य यजमानो ब्रूते-प्रेदग्ने ज्योतिष्मान्याहीति लिङ्गात् । तथा च प्रकृतावपि 'बृहस्पतिः पुर एता ते अस्तु (ते, सं० १। २।४) इति लिङ्गात् । प्राप्य देवयजनमदमन्म, इत्याग्निभिः सह प्रविशति देवयजनम् । अत्रापि गार्हपत्यदक्षिणाम्योः स्वस्वायतने निधाय गार्हपत्यमग्र उख्यं प्रतिछाप्य न वेष्टयत्यात्मानम् । यद्वा-पश्चात् । समिधाऽग्निं दुवस्यत इत्यवसिते प्रयाणे समाप्त इत्यर्थः । मुलादारम्यानासिक्ताऽनुषिक्ता तामादधाति यजमान एव प्रयाणवत. नेन्धन तानुषिक्ताधानानामेककर्तृकस्वात् । एवं त्रिष्टुमा क्षत्रियस्य घृतानुषिक्वाधानं - म प्रायमग्निरिति । जंगत्या वैश्यस्येति ज़नस्य गोपा इति ॥ १॥.

इन्धने व्रतनेऽध्यवसाने च सर्वासु संनिपाति तासु घृतानुषिक्तां प्रथमामादधाति ।। ६ ।।

पदा विन्धनस्य-येन देवा ज्योतिषो; उदायन्निति क्षेपणानि काष्ठानि भवत्युख्ये । मध्यदिनवतकालमाप्तं चेद्देवयजनमिति वैखानसः । यदा त्रयाणामेषां संनिपातस्तदा घृतानुषिक्ता पूर्वामादधाति यनमानस्तत इन्धनं व्रतनमध्यवसानमिति । काल. स्यानपायात् ॥ ६॥

यद्युखां भस्माभिसꣳसीदेदुख्यमादायोदकान्तं गत्वेमꣳ सुयोनिꣳ सुव्रतꣳ हिरण्ययꣳ सहस्रभृष्टिं महिषावरोह । उत्सं जुषस्व मधुमन्तमूर्वं समुद्रियꣳ सदनमाविशस्व । इमꣳ स्तनं मधुमन्तं धयापां( प्रप्यातमग्रे सरिरस्य मध्ये । उत्सं जुषस्व मधुमन्तमूर्व समुद्रियꣳ सदनमाविशस्व) इति द्वाभ्यामुख्यमुपावहरति ।। ७ ।। ________________

५-पटलः] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाच्याख्यासमेतम् । ३६

यथुखां भस्माभिनिष देदित्येवमाद्यध्वर्युव्यतिरिक्तः, यदि भस्म भवति, उखामुख्यमादाय सह शिक्येनोदकसमीपं गत्वा-' इम: सुनोनिं । इति. द्वाभ्यामग्निमुद्धृत्योखाया अपनीय शिक्यादुखाम् ।।

आपो देवीः प्रतिगृभ्णीत भस्मैतदिति तिसृभिरप्सु भस्म प्रवेशयति ।। ८ ।।

अप्सु क्षिपति । अपामसीत्यन्तः॥ ८॥ .

भस्मनः प्रत्यादाय प्रसद्य भस्मना योनिमिति द्वाभ्यामुखायां प्रत्यवदधाति ।। ९ ।।

उखायो भस्मन एकदेशमादाय- पीडयित्वा द्वाम्यामाम्यामुखायामनि भस्म प प्रत्यवदधाति. ,९.॥

पुनरूर्जा सह रय्येति द्वाभ्यां प्रत्येति ।। ११.५.१० ।।

'विश्वतस्परीत्यन्तः । देवयजने प्रति निवर्तते ॥ १० ॥

पुनस्त्वाऽऽदित्या रुद्रा वसवः समिन्धतामित्युपसमिन्धे ।। ११ ।।

अध्वर्युरिति वैखानसः।पुनरुख्यमुपसमिन्ध इत्यापस्तम्बबौधायनौ॥११॥

बोधा स बोधीति ।। (ख० १०) ।। बोधवतीभ्यामुप तिष्ठते ।। १२ ।।

बोधेति मन्त्रेण स बोधीति मन्त्रेण चैतमग्निं बोधयत्येव । आहवनीस्य दक्षिणभागो. यजमानस्योपस्थानदेशः । अतोऽत्रापि दक्षिणदेश एवं स्थित्योपतिष्ठते ।।.१२ ॥

नित्यमप्सु भस्मप्रवेशनं कृत्वा दीक्षितस्य कृतास्विष्टकासु अकृतास्विष्टकानाँ सꣳसर्गार्थं भवति ।। १३ ।।

अधिक भस्मनि जाते अप्सु भस्मप्रवेशनं विधाय कृतास्विष्टकासु नित्यं भवति भस्मप्रवेशनमित्यर्थः । अकृतासु या इष्टकार्था मृत्तया सह संसर्गार्थं भवतीत्यर्थः ॥१३॥

पुरीषे पशुकामः कुर्वीत ॥ १४ ॥

पुरीषे तु मृत्तिकायां पशुकामस्य भस्मप्रवेशन नाप्सु । सूत्रकारों भाष्यकाराश्चात्र कुर्वन्ति पुरीषमेवेति । न तु सत्यापाढमतिः । तूप्णांक समृन्मयं चेति काम्ययोरप्यनुहः पशुकामस्यापि ॥ १४ ॥

१ गृहीत । ........' सत्यापाडविरचितं श्रौतसूत्रम् - भाग [ ११:अमे-

अप्सु यायावरः प्रवपेत् ।। १५ ।।

यायावरः प्रयाणशीलः । यायावरोऽप्स्वेव प्रक्षिपेद्धस्मातिरिक्तम् ॥ १५ ॥

तिस्रो रात्रीर्दीक्षितः स्यात् । षड्रात्रीर्दीक्षितः स्यादिति ब्राह्मणव्याख्याताः काम्या दीक्षाकल्पाः, स्तेषां याथाकामी ।। १६ ।।

मौण्डयमानादिनियमस्वीकाररूपा दीक्षा । चीयमानस्याग्नेः संबन्धिन्या दीक्षया त्रिरा- अषडाप्रदशराबद्वाद दादशरात्रत्रयोदशरत्रिपञ्चदशरात्रसप्तदशरात्रचतुर्विशसिरांत्रत्रिंशदात्रमा- सचतुर्मासाष्टमासाद्वादशमासरूपास्त्रयोदश पक्षा विकारुपताः। ती प्रामणे--- अग्ने दीक्षया ( स०६।६।७) इत्यनुवाके काम्या दक्षिाकल्पा यथाकाम प्रीयाः । अत्र येन देवा इत्युख्यस्योपसमिन्धनान्तं कृत्वाऽयाङ्गुली न्यश्चति स्वाहा यज्ञे मनसैत्येव- मादिवाग्विसर्गमुदितेषु नक्षत्रेषु कृत्वा मध्यराने ते गृहीते-अनपरोडवस्य नो देही- त्यौदुम्बरी समित् । रात्रिमिष्टकामिति द्वितीया समित् । ततो हस्तप्रक्षालनाहि नाभ्यभि- मर्शनान्तम् । ततः सनीहारप्रस्थापनं जागरण चैतां रात्रिम् ॥ १॥ तत उपोदये वाग्य- मनादीनि वाग्विसर्गः, वात्सःणोपस्थान, मध्यदिने व्रत प्रीतगृह्य-- अन्नपतेऽन्नस्य नो देहीत्याधायाहरिष्टका द्वितीया । ततो हस्तावनेजनादि नाभिदेशाभिमर्शनान्तम् । ततोऽ- धिवृक्षमूर्ये कायमतादि रात्रिमिष्टका द्वितीया समित् । ततोऽग्ने वा मुभागृहि, हत्याह. वनीयाभिमन्धणं स्वप्स्यतः, अबुद्धस्थ त्वमझे व्रतपा असि, विश्वे देवा अभि मामाववृत्रन्, पुनर्मन इति जपे हों, उपोदये वाग्यमनं, उदिते च विसर्गः, रुक्मप्रभोचमावि विष्णु क्रमान् हंसवत्योपस्थानान्तम् । उख्यस्योपसमिन्धनं, पुनः पुनः प्रज्वलयति प्रादेश- मात्रैः काष्ठः । मध्यंदिन व्रतं कुर्वन्नहरिष्टको च कृते वात्सप्रेणोपस्थाने, एष विधिदी. क्षासु । यस्मिन्नहाने सोमक्रयस्तस्मिन्ननि विष्णुक्रमों वात्सप्रं च ॥ १६ ॥

दीक्षितस्येष्टकाः करोति मासप्रभृतिषु दीक्षाकल्पेषु पुरस्ताददीक्षितस्येतरेषूपरिष्टात्प्राजापत्यात्पशोः ।। १७ ।।

दीक्षितस्य यजमानस्येष्टकाः करोति मासप्रभुतिषु दीक्षाविधानेषु मासादिषु पूर्वस्मि- भानो बीमाः । यस्य मामवीक्षा तस्य पूर्वस्मिन्पक्ष इष्टकाः करोति । सर्वाश्चतुरो मासां- स्तस्य, पूर्वपोर्मास्योः । तथा संवत्सरे षण्मासेषु । अक्षितस्य तु इष्टका। करोति व्यहादिषु दीक्षाकल्पेषपार्रष्टात्तु प्राजापत्याद्वायच्याद्वा पशोः ॥ १७ ॥

मृन्मयीरिष्टका अविषमाश्चतुरश्रास्तासां तिस्रो ________________

५ पच्छः ]: महादेवशास्त्रिसंकलितप्रयोगन्द्रिकाव्यास्यासमेतम् । ३७ 1 .

मण्डलेष्टका ऋजुलेखा दक्षिणावृतः, सव्यावृत्तश्च त्र्यालिखिताः ।।१८ ।। मृन्मयीनामिष्टकानी प्रमाणमत्र नास्ति । विशेषतं आपस्तम्बसूत्रे वर्तते पादमाध्योऽर-' निमाच्य ऊर्वस्थिमाच्यो ऽणकमाय: ( आप० श्री०१६।४।२०) इति । पादमान्योऽरत्निमान्य इति न तु हिरण्यष्टकानामेष विधिः, सासामनियत:परिमाणम् । मृन्मयीनां तु शुल्वेषु व्याख्यातमतबाह्मणम् चतुर्भागीयणूिकमिति । पादमाध्यः पादप्रमाणाः । चतुर्भागो वा 'पदि । अथर्वा पाद एव । अरनिप्रमाणा अरत्निमान घ्यश्चतुर्विशत्याला वा ऊर्वोरस्थि ऊर्वस्थि । ता अपि चतुर्विशत्यगुला एव, द्वयो। भुल्योरेकार्थत्वात् । अणूकमयोऽणूकप्रमाणाः । चतुर्भागः पुरुषस्य निशदशुलयो पाइणूकम् । प्राजिवो लेजा यासामिष्टकानां वा जुलेखाः । प्रदक्षिणावृत्त एवं लेखा याला ता दक्षिणा वृतः । सध्यावृतश्च । तथा-तिस्रो लेखा- वासामूस्तिास्त्र्यालिलिताः । लेखानियमो मुममयीमामेव :

निर्मन्थ्येन लौहिनीः पचन्ति ।। १९ ।।

निर्मथितेनाग्निना पच्यते यथालोहिन्यो भवन्ति तथा पाकः क्रियते, इक्षपत्रशकृदादिमिः ॥ १९ ॥

न कृष्णां न लक्ष्मणां न भिन्नां चोपदधाति ।। ११.५.२० ।।

खण्डामिति वैखानसापस्तम्बौ । खण्डा, यस्याः किंचिच्छिन्नमेकदेशेऽपि । कृष्णा नीला एकदेशेऽपि कृष्णा अन्यवर्णा वा । म लोहिता सा लक्ष्मणा । ता एता मोपधेयाः श्रुतिप्रतिषिद्धत्वात् । खण्डादयः प्रतिनिधित्वेनापि में किन्यते प्रतिषेधात् । भाष्यकार-- खण्डाः प्रतिनिधित्वेनैव करोति । भुव-इति प्रायश्चित्तं दक्षिणाग्नौ हुत्वोषध्वादिति।।२०॥

पुष्करपर्णꣳ रुक्यो हिरण्मयः पुरुषः स्रुचौ सप्त स्वयमात्तणाः शर्करा हिरण्येष्टकाः पञ्च घृतेष्टका दूर्वास्तम्बः कूर्म उलूखलं मुसलं शूर्पमश्मानः पशुशिराꣳसि सर्पशिरश्चामृन्मयीरिष्टकाः ।। २१ ।।

पुष्करपणे पद्मपर्णम् । रुक्मो यो यजमानेन विष्णुक्रमकाले धृतः स एव । हिरण्मयश्च पुरुषः सुवर्णकृतः । खुची कामयमयी औदुम्बरी च । स्वयं भिन्नाः सप्त शर्कराः। हिरण्येष्टका अपरिमिताः । पञ्च घृतेष्टका घृतपिण्डाः । दूर्वाम्तम्बो हरिलिकास्तम्बः ।

२. ग. पुस्तके वृत्तः । १५. पुस्तके परिमाणाः । ३ ग. लप्रमाणा वा । ४ ग. कुर्यादिति । "सत्यापादविरचितं श्रौतसूत्रम् [११ प्रो- कूर्मः कच्छपः । उलूखलमूर्ध्वहननं मुसई महुर्मुहुः स्वनति । रामेषीक वैणवं था। अश्मानः पाषाणाः । पशुशिरांसि पुरुषाश्चर्षभवृष्णिकस्तानाम् । मृतस्य सर्पस्य च शिरः, एता अमृन्मयारिष्टका इष्टकात्वात्सादनं तया देवतया भवत्येव । चतुरश्रा प्रकृतिः पाद- माध्यो भवन्तीत्याम्नानादन्यथाऽपि प्रकृतिरेव तस्याप्यकाम्यत्वात् ।। २१ ॥

यावदग्निमाना मन्त्रा यथार्थं लोकंपृणा जानुदघ्नँ साहस्रं चिन्वीत प्रथमं चिन्वानः । नाभिदघ्नं द्विषाहस्रं द्वितीयम् । आस्यदघ्नं त्रिषाहस्रं तृतीयम् । उत्तरमुत्तरं ज्यायाꣳसम् ।। २२ ।।

जानुन्नै जानुप्रमाणम् । सहस्रपरिमाणे साहस्रम्। जानुदनं साहस्र' चिन्वीत । द्वितीय चिन्यानो द्विषाहलं नाभिघ्नम् । आस्यप्रमाणं . त्रिपाहत्रं चिन्वीत. तृतीय चिन्वानः । अथ वा सहस्रसंख्याकानामिष्टकाना' समूहः साहस्रम् । अथवा सहस्रसंख्याकामिरिष्टकाभिनिष्पाद्योऽग्निः साहस्रः । यः प्राथमिकमग्नि चिन्वीत सेतु साहस्रं कुर्यात् । द्वितीयवारं चिन्वानो द्विगुणम् । तृतीयवार चिन्वानास्त्रिगुणम् । तथा प्रथमद्वितीयतृतीयचितीनामुत्तरोत्तरमोन्नत्यम् । उत्तरमुत्तरं ज्यायांसमिति विधावभ्यासेन चतुर्थादिष्वपि संख्या च त्रिषाहस्राधिका : व्याख्याता, तत्र न ज्यायासं चिन्वीत, इति भावः ॥ २२ ॥

महान्तं बृहन्तमपरिमितं स्वर्गकाम श्चिन्वीते। वाजसनेयकम् ।। २३ ।।

बृहन्तं विधियुक्ताभिस्त्रिषाहस्राधिकाभिः । अपरिमितमसंख्यातम् । त्रिभ्यः साह-:: रोम्यः स्वर्गकामस्य । वाजसनेयकमिति वाजसनेयिना श्रुतिरेषा । नायं विधिनित्यः : काम्यत्वात् । पश्चात्तु न्यूनो न लम्यते । न ज्यायास चित्वा कनीयासं चिन्वीतेति ब्राह्मणाच ॥ २३ ॥

अपवृत्ते दीक्षापरिमाणेऽपेत वीतेति देवयजनमध्यवस्यति ।। २४।। उद्धत्य चितेरायतनं व्यायाम मात्रम् ।। ख० ११) ।। त्वतुरश्रं परिमण्डलं वाऽपेत वीतेति हरिण्या पलाशशाखया सꣳसृज्याद्भिरवोक्ष्याग्नेर्भस्मासीति सिकता निवपति ।। २५ ।।

अपवृत्ते परिसमाप्ते दीक्षाणां परिमाणे प्रबुध्य जपे वाग्विसर्गे कृते विष्णुक्रमवात्स- प्रसोमानदानेषु च कृतेषु । भाष्यकारस्तु-व्रतमपि ददातीति व्याचष्टे । - ततः क्रमः 9

o + । ________________

-६ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ०३९ काले बेतदानमिति । अपेत वीतेति देवयजनमाध्यवस्यति ती अपेतेत्यध्यवसाययतीत्यस्याः श्रुतेरर्थः । गार्हपत्यमुद्धननेनाध्यवसाययतीति । भरद्वाजस्य तु . अयमध्यक्सानमन्त्रः, एदमगन्मेत्यस्य प्रत्याम्नाय इति । अपेत वीतेति गाईपल्यचितेरायतनं शौल्वेन चतुरन्नि, मानयित्वा चतुरश्रं परिमण्डलं वाऽपेत वीतेति, उद्धननं तस्य : करोति । तूष्णीं शखिया समार्ग इति वैखानसः । प्राचीमुदीची वा दिशं प्रति तस्यास्त्यागः शाखायाः । "अवोक्षणमधस्तीत्पाणिना शं नो देवीरंभिष्टय इति । अग्नेभस्मासीति वालुका निवपति

संज्ञानमसि कामधरणमित्यूषान् ।। २६ ।।

निवपतीत्यनुवर्तते । भूयादित्यन्तः । पुष्टिहेतुत्वं प्रजोत्पत्तिहेतुत्वं चोषाणां यज्ञद्वारा (ले० सं०५।९।३) द्रष्टव्यम् ॥ २६ ॥

तान्निवपत्यददश्चन्द्रमसि कृष्णं तदिहास्त्विति मनसा ध्यायति।।२७।।

निवपने लवणमृत्तिकाया यददचन्द्रमसीति कृष्णरूपं ध्यायेत् ॥ २७ ॥

सं या वः प्रियास्तनुव इत्यूषान्सिकताश्च सꣳसृज्यानुव्यूहति।।२८।। चितः स्थ परिचित इत्येकविꣳशत्या शर्कराभिर्गार्हपत्याचितेरायतनं परिश्रयति ।। २९ ।।

ऊषाणां सिकानां च संसर्गः क्रियते चितः स्थ परिचित इत्येकविशत्या शर्कराभिर्वेष्टनं गार्हपत्यचितेः ॥ २९ ॥

तिस्रस्तिस्रः सꣳहिताः करोति ।।११.५.३०।।

तिम्रस्तिस्त्र एकीभूताः शर्करास्तासु तासु मन्त्रावृत्तिरिति न्यायात् । सीदतेति तासामभिधानात् । सन्मन्त्र इति भाष्यकृत् । अत्र नं कृणुध्वम्, इति शर्करा अभिमन्य' ( आप०. श्री.० १६-५-४) इत्यापस्तम्बः ॥ ३० ॥

अयꣳ सो अग्निरिति चतसृभिर्गार्हपत्य चितौ चतस्रः प्राचीरिष्टका उपदधाति ।। ३१ ।।

अन गार्हपत्यचिताविति प्रकृतत्वाश्चतस्रो मध्येऽग्नेरुपदधाति प्रांगनाः ॥ ॥

इडामग्नेऽयं ते योनिर्ऋत्विय इति द्वे पुरस्तादूर्ध्व , | सत्यापाविरचित श्रीससूत्रम् [११ प्री-

सꣳहिते चिदसि परि चिदसीति द्वे पश्चादूर्ध्व सꣳहिते लोकं पृण छिद्रं पृणेत्यवशिष्टं त्रयोदशभिर्लोकंपृणाभिः प्रच्छादयति ।। ३२ ।।

इडामनेऽयं ते योनिरिति पुरस्तादुपधात्यग्नेः । समीची प्रत्यन्द्रीधैं । तिरश्ची द्वितीये प्रस्तारे, उदग्दक्षिणांदीघे एवं पश्चादुपद्धाति । लमीची प्रथमै प्रस्तारे तिरश्ची द्वितीये प्रस्तारे ताभिते दिशो दृहन् , इति लिङ्गात् । प्रथमे प्रस्तारे द्वे पूर्व दक्षिणे कोणे वे उत्तराधरे द्वितीये प्रस्तारे द्वे पूर्वोत्तरकोणे द्वे अपर इति भाष्यकृत् । अवशिष्टमानि त्रयोदशभिः प्रच्छादयति ॥ ३९ ॥

द्वाभ्यां द्वाभ्यां मन्त्राभ्यामेकैकां लोकंपृणामुपदधाति ।। ३३ ।।

उदग्वा करोति, द्वाभ्यामृग्भ्यां लोकपृणामेकैकाम् । संकर्षणकारस्य तु पूर्वयो- पचायो तरयाऽभिमर्शनम् । अनुष्टुभाऽनुचरति, इति श्रुत्यन्तरं सूषकारेणानिसद्धम् ॥३३॥

पूर्वयोपधाय सूददोहसाऽभिमृशति ।। ३४ ।।

अध्वर्युरिति वैखानसः ॥ ३४ ॥

सर्वास्विष्टकासु तयादेवतमन्ततो दधाति ।। ३५ ।।

सर्वासु याश्चितिप्रकरणे सासु तया देवतयाऽन्ततः । म काठकेष्विति भाष्यकृत् । काठकानां तु परिपाठात्तत्रापि स्यात्तयादेवतम् ॥ १५ ॥

कृष्णोऽश्वः श्यावो वोत्तरतस्तिष्ठति ।। ३६ ।।

स्थापयेत् ॥ ३६॥

तयालभ्य चात्वालात्पुरीषमाहृत्य पृष्टो दिवीत्यनुव्यूहति ।। ३७ ।।

तमश्वमालभ्य स्पृष्ट्वा चावालस्थानात्पुरीषमाहृत्य पृष्टो दिवीत वैश्वामयंर्चा चिती स्थापयति म (त)न्त्रेणैव । वैश्वानर्य! पुरोषमुपद्धाति, इति वचनात् । केचित्तूष्णी वृदं न्युष्य पृष्टो दिवीति प्रसारणं कुर्वन्ति । पांसुप्रक्षेपं विधत्ते–'पुरीषेणाम्यूहति ' (ते. सं०५-२-३ ) इति । पांसुनाऽभ्यूहत्याच्छादयति ॥ ३५ ॥

सा चितिर्भवति ॥ ३८ ॥

सा चितिः पुरीषान्ता ॥ ३८ ॥

१५. पुस्तकेंऽये पाठो दृश्यते--लोकमिष्टकानाक्रान्तमवशिष्ट देश पूरयन्तीति लोकपृणाः । एतभामिका इष्टकास्त्रयोदशसंख्याका उपदच्यात् । एवं सति पूर्वोकाभिरष्टभिरिधकाभिः सहकविंशतिः संपद्यन्त इति। ६. पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ४१

पञ्चचितीकं चिन्वीत प्रथमं चिन्वानस्त्रिचितीकं द्वितीयमेकचितीकं तृतीयम् ।। ३९ ।।

एकां चितिं कृत्वा पुरीषेणाऽऽच्छादयेत् । तस्या उपरि द्वितीयां चितिं कृत्वा तामध्याच्छादयेत् । एवं चितिपञ्चकेन पुरीपपश्चकेन च दशसंख्यासंपत्तेः प्रशंसति ब्राह्मणे- पञ्च चितयो भवन्ति एञ्चभिः पुरीषैरभ्यूहति दश. संपद्यन्ते । (ते. सं० ५.२-३) इति । पञ्चचितीक चिन्वीत गार्हपत्यचिति, अय५ सो अग्निरित्या. रम्य पुरीषान्ताः पञ्च चितयः। द्वितीय चिन्वानस्त्रिचितीकम् । एकचितकिं तृतीय चिन्वान इति ॥ ३९ ॥

एकचितीको नित्यः कल्पः ॥ (ख० १२) ॥४०॥

इति सत्याषाढहिरण्यकेशिसूत्र एकादशप्रश्ने पञ्चमः पटलः ।। ५ ।।

अत ऊर्ध्वमेकचितीको नित्य आपस्तम्बकल्प इत्यर्थः । अत्र गार्हपत्यचितिकर्म । ॥ ४० ॥ इति हिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोगचन्द्रि' कायामेकादशपने पश्चमः पटलः ॥ ५॥ .

11.6 अथैकादशप्रश्ने षष्ठः पटलः ।

समितमिति चतसृभिर्गार्हपत्यचितावुख्यं निवपति ।। १ ।।

भवतमद्य न इत्यन्तः । गार्हपत्याचितावुख्यं निवपति स्थापयति चतसृभिः ॥ १ ॥

मातेव पुत्रमिति शिक्यादुखां निरूहति ।। २ ।।

विमुञ्चत्वित्यन्तः । शिक्णदुखामानीयेति वैखानसः ॥२॥

अत्रैवैके पूरणमामनन्ति न रिक्तामवेक्षेत ।। ३ ।।

रिक्तामुखाम् ॥ ३॥

यदस्य पारे रजस इति वैश्वानर्या शिक्यमादत्ते ।। ४ ।।

वैश्वानरशब्दो यस्यामृच्यस्ति सेयं वैश्वानरी । । अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः' इति स्मृतेजीठराग्निरूपस्य वैश्वानरस्य स्वादुत्वकारित्वात्तदीयमन्त्रेणोपात्तं शिक्यं स्वदयत्येवेनन् (तै० से ५-२-४) इत्यर्थवादं स्वादुकृतं भवतीत्यर्थः । नतीरिष्टकाः पूर्वमादाय यदस्य पारे रजस इति वैश्वानर्यर्चा शिक्यं गृह्णाति । इह तु देवताज्ञानं नियत कर्माङ्गम् । अन्यत्र च यत्र तु देवतोच्यते छन्दो वाऽऽर्षो वा यत्र तु नोकं तत्र तु ज्ञानेऽभ्युदयः । अज्ञानेऽप्यवैगुण्यम् ॥ ४ ॥ ________________

288. ४२ . सत्यापाठविरचितं श्रौतसूत्रम् - [ ११ प्रश्ने

नैर्ऋतीरिष्टकाः कृष्णास्तिस्रस्तुषपक्वाः शिक्यꣳ रुक्मसूत्रमासन्दीं चाऽऽदाय दक्षिणापरमवान्तरदेशꣳ हृत्वा स्वकृत इरिणे प्रदरे वा नमः सु ते निर्ऋत इति पराचीरसꣳस्पृष्टा उपदधाति ।। ५ ।।

नितिर्देवता यासामिष्टकानां ता नैर्ऋत्यः । तुषा इति यत्तदेतन्निते राक्षसदेवत्ताया भागधेयम् । अत एवैष्टिकरकरणे रक्षसां भागोऽसीति तुषोपवापमन्त्र आम्नातः । रूपं च नितिदेवतायाः कृष्णम् । अतस्तदानुकूल्यायेष्टयास्तुषपक्काः कृष्णवर्णाश्च कुर्युः । __अथवा –निर्ऋतिरिति देवता यासाः भवति ला नैर्ऋत्यः कृष्णास्तुपैश्च पवास्तिस्रस्ता आदाय शिक्यमादत्ते । दक्षिणापरमवान्तरदेशं प्रत्यध्वर्युब्रह्मयजमाना गच्छन्ति । नमः सुते निर्कत इति स्वकृत हरिणे देशे क्षारमृत्तिकादेश इत्यर्थः । प्रदरे वा स्वयमेव दीर्णे देशे । स्पष्टमन्यत् ॥ ५ ॥

(तस्येष्टकाभिः पाशमभ्युपदधाति ।।६।। यस्यास्ते अस्याः क्रूर आसञ्जुहोमीत्येताभिस्तिसभिः । पराचीरसस्पृष्टा दक्षिणापवर्गम् ।। ७ ॥)

( दक्षिणे पाशं स्थापयति शिक्यम् । शिक्यपाशस्योपरिष्टादुपदधातीष्टकाः, यस्यास्त इति तिसृभिः पराचीरनिवर्तयन्न संस्पृष्टा दक्षिणापवर्गाः । अथवा-विचष्ट इति मन्त्रान्तः । स्वकृत इारण उपदधाति प्रदरे वा, (तै० सं० ५-२-४) इति ब्राह्मणात् । स्वकृतं स्वयमेव निप्पन्नं न तु देशान्तरादानीय चयनस्थान इव प्रक्षितं, तादृश इरिण ऊपरे वा प्रदरे भूछिद्रे वा कृष्णास्तित्र इष्टका उपदध्यात् । शिक्योपरि जालमूलभागं पारित्यज्य पाशरूपमग्रभागमवल्क्ष्यावस्थितो यो देशस्तं देशमिष्टकोपधानस्य । इष्टकानां संख्यां विधत्ते-तिस्त्र उपदधाति (ते. सं० ५-२-४ ) इति । ' पराचीरसस्पृष्टा दक्षिणापवर्गम् ' इति दर्शनात् । दक्षिणामुखः पुरुष एकामुपधाय ततो दक्षिणतो द्वितीयां ततोऽपि दक्षिणतस्तृतीयामुपदध्यात् ।

न तयादेवतं करोति ॥ ८॥

नितिमव यनते ( ६-२-१) इत्युक्त मान्न तयादेवतं देवलिङ्गकत्वान्मन्त्रे .

यत्ते देवी निर्ऋतिराबबन्धेति शिक्यमधिन्यस्यति ।। ९ ।।

१ इदं सूत्र व्याख्यानं च ग. पुस्तके वर्तते। ________________

188y -६ पटलः ]. महादेवशास्त्रिसंकलितमयोगचन्द्रिकाव्याख्यासमेत। ४३

शिक्यजालेनैना इष्टकाः प्रच्छादयति ॥ ९॥

अत्राऽऽसन्दीꣳ रुक्मसूत्रं च निदधाति । । ११.६.१० । ।

अस्मिन्काल आसन्दी रुक्मस्य कविंशतिनिर्वाधस्य यत्सूत्रं च दाणित इष्टकांना 'निदध ति शर्करायां वाऽपारमदेतु इत्येताभिरनुमन्त्रणमुपहितानामिष्टकानाम् ॥ १० ॥

यदस्य पारे रजस इति वैश्वानर्या परिषिञ्चति ।। ११ ।।

स्वाहेत्यन्तः । तासामेव परिषिञ्चति ॥ ११ ॥

नमो भूत्या इति प्रदक्षिणमावर्तते । । १२ । ।

प्रदक्षिणं तासामेव ॥ १२ ॥

शं नो देवीरभिष्टय इति मार्जयन्ते ॥ १३ ॥

अद्भिरिति शेषः ॥ १३॥

ऊर्जं बिभ्रद्वसुमनाः सुमेधा गृहानैमि मनसा मोदमानः सुवर्चाः । अघोरेण चक्षुषाऽहꣳ शिवेन गृहाणां पश्यन्वय उत्तिराणीत्यप्रतीक्षमायन्ति ।। १४ ।।

अप्रेक्षमाणास्ता इष्टका निवर्तन्तेऽध्वर्यु:सयजमानाः ॥ १४ ॥

निवेशनः संगमनो वसूनामित्याहवनीयमुपतिष्ठन्ते । गार्हपत्यं वा ।। १५ ।।

- मन्त्रेणोपस्थानमा यस्य वोपस्थेयं ब्राह्मणे तु : गार्हपत्यमुपतिष्ठन्ते' ( तै० सं. .५-२-४) इति द्रष्टव्यम् ॥ १५॥

प्रायणीयेन प्रचरिते राजानं न्युप्य वेदिं कृत्वा समूलं हरितं दर्भस्तम्बं मध्येऽग्नेर्निंखाय जुह्वा पञ्चगृहीतं गृहीत्वा सजूरब्दो यावभिरिति समु- द्गृह्णन्दर्भस्तम्बे पञ्चाऽऽहुतीर्जुहोति ।। १६ ।।

अन प्रायणीयायास्तन्त्रं प्रक्रमयति ( H श्री० ७-२-५.) इत्यारम्य सा शवन्ता कृत्स्ना वा, इत्यन्तं कृत्वा राज्ञो निवपनादिसौमिकं कर्म प्रतिपद्यते । उत्तरवेदिदेश उपरवाणां वा लोहितमानडुहम् (स० श्री० ७-१-४ ) इत्यादिकर्म - कर्तुं प्रतिपद्यते । ततो वेदि कल्पयित्वा मध्येऽग्नौ मूलेन सह वर्तत इति समूलं हारत तादृशवणे कुशस्तम्बं प्रतिष्ठाप्य तस्मिन्पश्चाऽऽज्याहुतीर्जुहोति । यथालिङ्गं त्यागः॥१६॥

१५. अथ वा-अन्नतीक्षं पृष्ठतो दृष्टिमकत्वेत्यर्थः। .. ________________

दक्षिण ४४ . सत्यापाढविरचितं श्रौतसूत्रम्- .११ प्रो___ अथासिचयनभूमेः परिमाणं विधत्ते

यावान्पुरुष ऊर्ध्वबाहुस्तावता वेणुनाऽग्निं विमिमीते ।। १७ ।।

पुरुषोऽप्यूय प्रसारितस्य बाहोरुपार स्थितं वस्तु प्रष्टुं न शक्नोति । वेणुनानिषिमानं कुर्यात् । अथ वा यावान्यजमान ऊर्यवाहुस्तावामाणेन विमितमपि विध्यर्थ विमिमीते ॥ १७॥

त्रीन्प्राचः पुरुषाꣳश्चतुर उदीचस्तिर्यञ्चं पुरुषमात्राणि पक्षपुच्छानि भवन्ति ।। १८ ।।

त्रीन्प्राचः पुच्छादारभ्य प्रादेशं त्यक्त्वा चतुर उदीचो दक्षिणात्पक्षादारभ्यारनि त्यक्त्वोत्तरपक्षे समापयति । पुरुषप्रमाणानि पक्षपुच्छानि ॥ १८ ॥

आत्मा चतुःपुरुषोऽरत्निना दक्षिणतो दक्षिणं पक्षं प्रवर्धयति ।। १९ ।।

चत्वारः पुरुषा आत्मा । अरस्निना चतुर्विशत्यॉलैक्षिणतः पक्षं प्रवर्धयति दक्षिणे ॥ १९ ।

प्रादेशेन वितस्त्या वा पश्चात्पुच्छमरत्निनोत्तरत उत्तरं पक्षम् ।। ११.६.२० ।।

एवमुतरे, उत्तरं पतं प्रवर्धयति । द्वादशाङ्गुलेन पश्चात्पुच्छस्य वर्धनमग्रं (ने) वितस्त्या वा । वितस्तिमध्याङ्गुलिरङ्गुष्ठश्च प्रसारिते तदाऽपि न कारणान्तरम् । पुरीषेणैव संपूरणम् , एकविधादयो विकारा एव श्रूयन्ते सूत्रान्तरे- 'तदु ह वै सप्तविधमेव चिन्वीत सप्तविधो वाव प्राकृतोऽग्निस्तत ऊर्ध्वमेकोत्तरानिति वाजसनेयकम् । ( आप० श्री०१६-५-३१) इति । सप्तविधो वाव प्राकृतोऽग्निरिति वषडस्तु तुभ्यमिति तेप्वाप एकविधपरिमाणं यस्य स एकविधः । विध इति पुरुषाख्यः । पुरुषप्रमाणः पश्चारत्निः प्रथमाहारेऽग्निः । द्विपुरुषो द्वितीयः, एवमेव वर्धयत्येकैकस्य वृद्ध्या यावदेकशतविधाविति । सप्तविध इत्यारभ्य पक्षपुच्छानि, इति चान्तः । । अरनिः प्रादेशश्च यथाश्रुति संख्या, इष्टकानामूर्ध्वप्रमाणं च । अग्नीनामेकविधादीनां निन्दा विधाय श्रुत्यन्तरेण सप्तविध एव प्रथमश्चेतव्य इति विधीयते । सप्तविधश्च प्राकृतः प्रकृतिरित्यर्थः । तमधिकृत्यं समाम्नानात् । सप्तविधादारभ्यैकोत्तरशतं यावदेकशतविध इति । केचित्तु-प्रकृती भवः प्राकृत इति वर्णयन्ति । वाजसनेयिनामेषा श्रुतिरधिकविधेरनित्यत्वात् । अनित्यो विधावभ्यासः । वाजसनेयिनां मतमिति भाष्यकारः ॥ २० ॥ ________________

६ पटलः ] महादेवशास्त्रिसंकलितपयोगचन्द्रिकाव्याख्यासमेतम् । ४५

स्योना पृथिवि भवानृक्षरा निवेशनी । यच्छा नः शर्म सप्रथाः । बडित्था पर्वतानामिति द्वाभ्यां विमितमग्निमाक्रमन्ते ।। ( ख० १३) ।। २१ ।।

द्वाभ्यामृग्भ्यामध्ययुब्रह्मयजमाना आक्रमन्ते । विमितवचनाद्यावान्विमितस्तावन्तं सर्वमाक्रमन्त इति भाष्यकृत् ॥ २१ ॥

सं वरत्रा दधातनेति संप्रेष्यति ।। २२ ।।

संप्रेष्यत्यध्वर्युः । अक्षितमित्यन्तः । कर्षकान्प्रति संवैष इति भाष्यकृत् ॥ २२ ॥

निष्कृताहावमवटमित्यवटमाहावाꣳश्च खनति ।। २३ ।।

काष्ठपाषाणनिर्मितानां द्रोणीनामन्त(न्तः)स्थितावकाशरूपो. योऽयमवटस्तमवटमाहावं द्रोण्यवा(वान्द्रोणीर्वा) खनति कर्षकः ॥ २३ ॥

उद्रिणꣳ सिञ्चे अक्षितमित्यवटादाहावेषूदकमुत्सि- ञ्चति ।। २४ ।। तेषु बलीवर्दान्पाययन्ति ।। २५ ।।

प्रत्याहावं मन्त्रावृत्तिः, द्रव्यपृथक्त्वात् । तेष्वाहावेषु वलीवन्पाययत्यध्वर्युः । भाष्यकारस्तु-कीनाशा इत्यनुषजति कीनाशा बलीवाः (शाः कर्षकाः) ॥२४॥२५॥

उद्योजनयन्तर्याममीषां खगल्यँ शफम् । अष्ट्रां तालं प्रतीनाहमुभे मण्डूक्यौ युजाविति युगलाङ्गलꣳ संप्रसारयति ।। २६ ।।

तेषामेव वरत्राणां संधानं तेषामुद्योजनं जवनं, अन्तर्याममन्तराखण्डकूटमीषा लाङ्गलदण्डः, खगल्यं चुबुकः शर्फ वलयम्, अष्ट्रां तालं तुण्डका; प्रतीनाहं प्रतिसीरं रज्जुसमुदायं वरत्राणां चोभे मण्डूक्यौ वागुरिके, युजौ बलीवौ प्रसारयति कर्षणार्थे द्वौ द्वौ । युगं लागलं च युगलागलं, ततः प्रसारयति योजनार्थमित्यर्थः ।। २६ ॥

( सीरा युञ्जन्तीति द्वाभ्यां सीरं युनक्ति । षड्गवं द्वादशगवं चतुर्विꣳतिगवं वा ।।) सीरा युञ्जन्तीति द्वे पूषा युनक्तु सविता युनक्तु बृहस्पतिर्वो युनक्त्वग्नेस्तेजसा सूर्यस्य वर्चसेति तिसृभिर्युनक्ति षड्गवं द्वादशगवं वेत्येकेषाम् ।। २७ ।।

सीरा युञ्जन्तीति द्वाभ्यामृग्भ्यां तिसृभिर्वा युनक्ति सीरम् | सकृन्मन्त्रः । सौरस्य योजनार्थत्वात् । यदा षड्गवं तदा त्रीणि युगानि । एवमुत्तरत्रापि । नत्वेकस्मिन्युगे

  • धनुभिइनान्तर्गतपाठो ग० पुस्तके नास्ति ।

१ ख." वा सरिम् ।। ________________

४६ , सत्यापाढविरचितं श्रौतसूत्रम्- [११ प्रश्नेबहून्युनः संप्रसारयन्तीति । केचित्तु युजाविति वचनाद्वावपि लम्येतें कर्षणार्थमित्याहुः । बलीवर्दसंख्यां विधत्ते-'षड्गवेन कृषति' (५-२-५) इति । कक्ष्यात्रयरूपेणावस्थितेषु त्रिषु युगेषु बध्यमानाः षट्संख्याका गावो वलीवर्दा यस्य लाङ्गलस्य तत्पड्गवम् । पक्षातर विधन्ते- 'यद्वादशगवेन ' (ते० सं० ५-२ ५) इत्यादि । कक्ष्याषट्कगतेषु वध्यमाना द्वादशसंख्याका गावो यस्य लाङ्गलस्य तवादशगवं; तेन कृषतीत्यर्थः । एवं चतुर्विशत्यि]न्तो विकल्पो ज्ञेयः ॥ २७ ॥

उष्टारयोर्बिल्वयोरथो आबन्धनीययोः । सर्वेषां विद्म वो नाम बाहाः कीलालपेशस इति युक्तान नुमन्त्रयते ।। २८ ।।

युक्तानामनुमन्त्रणम्-उष्टारयोरिति कीलालपेशस इत्यन्तः ॥ २८ ॥

ब्रह्मजज्ञानमित्येषा । अनाप्ता या वः प्रथमा यस्यां कर्माणि कृण्वते । वीरान्नो अत्र मा दभꣳस्तद्व एतत्पुरो दधे ।। पर्यूषु प्र धन्व वाजसातये परिवृ- त्राणि सक्षणिः । द्विषस्तरध्यै ऋणया न ईयसे ।। सहस्रधारेऽव ते समस्वरन्दिवो नाके मधुजिह्वा असश्चतः । अस्य स्पशो न निमिषन्ति भूर्णयः पदे पदे पाशिनः सन्ति सेतव इति ब्रह्मवर्माणि जुहोति ।। २९ ।।

ब्रह्म जज्ञानमित्येका । पुरो दधे, इत्येवमन्ता द्वितीया । ऋणया न ईयस इत्यवेमन्ता तृतीया । सेतव इत्येवमन्ता चतुर्थी । ब्रह्मवाणीति होमनामं । एतैर्मन्त्रैर्यथा वर्म रक्षति तथा रक्षा क्रियत इति ब्रहावर्माणीत्युच्यन्ते ॥ २९ ॥

उदस्थाद्गोजिद्धनजिदश्वजिद्धिरण्यजित्सूनृतया परीवृतः । एकचक्रेण सविता रथेनोर्जं भागं पृथिवीमेत्वा पृणन्निति लाङ्गलमुच्छ्रयति ।। ११.६.३० ।।

लागलं योजनार्थमुत्क्षिपति ।। ३० ॥

मलिम्लुचो नामासि त्रयोदशो मास इन्द्रस्य वर्मा- सीन्द्रस्य शर्मासीन्द्रस्य वरूथमसि तं त्वा प्रपद्ये । सा मे शर्म च वर्म च भव । गायत्रीं लोमभिः प्रविशामि । त्रिष्टुभं त्वचा प्रविशामि । जगतीं माꣳसेन प्रविशामि । अनुष्टुभमस्थ्ना प्रविशामि । ________________

Gaadikichchh2 ६. पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ४७ .

पङ्क्तिं मज्ज्ञा प्रविशामि । ऐन्द्राग्नं वर्म बहुलं यदुग्रं विश्वे देवा नातिविध्यन्ति सूराः । तन्नस्त्रायतां तन्नो विश्वतो महदायुष्मन्तो जरामुपगच्छेम देवा इति विमितमग्निमाक्रमन्ते ।। ३१ ।।

मलिम्लुचो नामासीत्याक्रमणमग्नेः-जरामुपगच्छेम देवा इत्येवमन्तेनाध्वर्युबलीवर्दकीनाशानाम् । भाष्यकारस्तु-ब्रह्मयजमानावाक्रमत इति । केचित्तु-पूर्वहोमो ब्रह्माणि, मलिम्लुचो नामासीत्येवमादीनि वर्माणीत्याहुः । जरामुपगच्छेम देवा इत्येवमन्ताः सप्त होममन्त्रा वर्मणाम् । विमितमग्निमाक्रमन्ते तूष्णीम् ॥ ३१ ॥

लाङ्गलं पवीरवमिति द्वाभ्यां कृषति ।। ३२ ।।

धत्तमित्यन्तः । द्वाभ्यां कृषत्यध्वर्युः ॥ ३२ ॥

कीनाशा बलीवर्दानजन्ति ।। ३३ ।।

ताडयन्ति कर्षका वैश्या इति वैखानसः ॥ ३३ ॥

पुच्छशिरोऽधि कृषति ॥ ३४ ॥

पुच्छादारभ्य शिरस उपरिष्टात्कृषति । शिर इति पूर्वमन्नेरुपचरति ॥ ३४ ॥

प्रदक्षिणमावर्तयंस्तिस्रस्तिस्रः सीताः सꣳहिताः कृषन्ति काम कामदुघे धुक्ष्वेति ।। ३५ ।।

पक्षयोः पुरतः- कामं कामदुघे ' इति प्रदक्षिणमावर्तयञ्जपतीति । तिस्रस्तिस्रः सीता लागलपद्धतिः, ताः कृषन्त्य( न्ति ) संभिन्नाः । प्रजाभ्य इत्यन्तः ॥ ३५ ॥

सीतां प्रत्यवेक्षते ।। ६६ ।। घृतेन सीतेति सीतान्तरालान्संमृशति ।। ३७ ।।

संस्पृशति ॥ ३६ ॥ ३७ ॥ कर्षणे प्रकारविशेषमाह-

दक्षिणस्मात्पक्षादुत्तरं पक्षमभिकृषति ।। ३८ ।। दक्षिणस्याः श्रोणेरुत्तरमꣳसमुत्तरस्याः श्रोणेर्दक्षिणमꣳसमितरथा वा द्वादश संपादयति ।। ३९ ।।

दक्षिणस्मात्पक्षादारभ्य यावदुत्तरतरतावदेका सीता । पुनरुत्तरस्मात्पक्षादारभ्य निवृत्तिस्तस्याः पूर्वेण द्वितीया । पुनर्दक्षिणस्मादारभ्य यावदुत्तरतः । तस्याः पूर्व, दक्षिणायै ( णस्याः ) श्रोणेरारभ्य यावदुत्तरोंऽसः, (रांसम् ) इति तिस्रोऽपि सीता उत्तराय ( रस्याः । श्रोणेदक्षिणांसं तथैव, विपरीतं वा । उत्तरस्याः श्रोणेः पूर्वम् । पश्चाद्दक्षिणाया उत्तरांसं कर्पति । काममिति मन्त्रस्याऽऽवृत्तिः, द्रव्यपृथक्त्वात् । कामं : कामदुध इति तथा पर्यावर्तते यथा विहाराभिपर्यावर्तनं भवति । ________________

४८ . सत्यापाढविरचितं श्रौतसूत्रम्- [११ प्रश्ने यद्वा--पुच्छादारभ्य शिरःपर्यन्तं तिस्त्र: सीताः कृषेत् । तथा दक्षिणात्पक्षादारभ्योत्तरपक्षपर्यन्तं तिस्रः सीताः कृषेत् । तथा दक्षिणस्याः श्रोणेरारभ्योत्तरांसपर्यन्तं तिस्रः सीताः कृषेत् । तथोत्तरस्याः श्रोणेरारभ्य दक्षिणांसपर्यन्तं तिनः सीताः कृषेत् । एवं द्वादश सीताः संपद्यन्ते ।। ३८ ॥ ३९ ॥

मध्ये संभिन्ना भवति । ४० ॥

कर्षणकाले मध्येऽन्तराले संभिन्ना भवेद्रेखा ॥ ४०

विमुच्यध्वमघ्निया देवयाना अतारिष्म तमसस्पा- रमस्य । ज्योतिरापाम सुवरगन्मेति दक्षिणेऽꣳसे बलीवर्दान्विमुच्योत्तरे वा प्राच उदीचो वोत्सृ- जति ।। ४१ ।।

विमुच्यध्वमिति बलीवर्दविमोको दक्षिणेऽसे । उत्तरे से वेति । यदि विपरीतम् ॥ ४१ ।।

तानध्वर्यवे ददाति ।। ४२ ।।

तान्विमुक्तानुदीचः प्राचो वा. नीत्वाऽथ यजमानोऽध्वर्यवे ददाति । स प्रतिगृह्णाति रुद्राय गामित्यनूहेन ॥ ४२ ॥

पञ्चदशोदचमसान्निनयति ।। ४३ ।।

पञ्चदशोदकपात्राणि निनयतीत्यापस्तम्बः ॥ ४३ ॥

द्वादशानुसीतं त्रीनकृष्टे ।। ४४ ।।

उदकपात्राणि कृष्टेषु निनयत्यध्वर्युः, इति वैखानसः । उदकवन्ति पात्राण्युदकपा... त्राणि तानि द्वादश कृष्टे । एकैकं सर्वासु सीतासु । वीण्यकृष्ट प्रदेशे ॥ ४४ ॥

या जाता ओषधय इति चतुर्दशभिरोषधीर्वपति । सप्त ग्राम्या ओषधयः सप्ताऽऽरण्याः ।। ४५ ।।

अरिष्टतातय इत्यन्तः । तिलमाषत्रीहियवाः प्रियङ्ग्वणवो गोधूमाश्चेति सप्त ग्राम्या ओषधयः । वेणुश्यामाकनीवारजतिला गवीधुका मर्कटका गार्मुताश्चेति सप्ताssरण्या : ओषधयः । सर्वत्र या जाता ओषधयः, इति ओषधेरोषधेरैकैको मन्त्रो वपनार्थः । - ओषधीर्वपति ( तै० सं०५-२-५) इति विधिदर्शनाच ॥ ४५ ॥

कृष्टे ग्राम्या वपत्यनुसीतमकृष्ट आरण्याः ।। ४६ ।।

यदुक्तमापस्तम्बेन' सप्त ग्राम्याः कृष्टे सप्ताऽऽरण्या अकृष्टे ' (१६-६-१५) इति । तत्र ग्राम्याणां देशविशेष विधत्ते-- कृष्ट वपति' (तै० सं० १-१-५) इति । कृष्टे देशे वपति ग्राम्याः । एवमकृष्टे सप्ताऽऽण्याः । शेषमन्त्रा विकल्पाः ॥१६॥ ________________

है. पटलः ]: महादेवशास्त्रिसंकलितमयोगचन्द्रिकान्याख्यासमेतम् ।

या ओषधीनां नाधिगच्छेत्तस्याः स्थाने यवान्म धुमिश्रान्वपेत् ।। ४७ ।।

या ओषधीनां न लभ्यते ग्राम्याणामारण्यानां का तस्याः स्थाने यवान्मधुमिश्रा. त्वपेत् ॥ १७ ॥

मनसा ध्यायेदुप्ता मेऽसीति वा ।। ४८ ।।

उप्ता,मेऽसीति बीहितिलादिर्या न लभ्यते तस्या नाम मनसा ध्यायेत् ।। ४८ ।।

अधिगतायां यः प्रथम इध्म आगच्छति तस्मिन्नुपनह्यति ।। ४९ ।।

अधिगतायां लब्धायां वपनक्रियायां परिसमाप्तायां यः प्रथम इध्म आगच्छेदोपसदस्तस्मिन्निध्म एतां बध्नाति । क्षिपति चेमेन सह ॥ ४९ ॥

(ये वनस्पतीनां फलग्रहयस्तानिध्म उपसंनह्य प्रोक्षेत् ॥ ११.६.५० ॥)

ये वनस्पतीनां फलमहयः फलान्येषां. केवलानि ते वनस्पतयो बटोदुम्बरादयः । तेषामपि ये प्रस्तफला इप्यन्ते तानिध्मे बध्नाति । औपसिक्ते प्रथमे प्रोक्षेदितीम. स्काराणां प्रदर्शनार्थम् । क्षेपश्च सहेमेन ) ॥ १० ॥

यत्प्रागातिथ्यायास्तत्कृत्वा मा नो हिꣳसीज्जनितेति चतसृभिर्दिग्भ्योलोष्टान्समस्यति ॥ ५१ ॥ येऽन्तर्विधाद्बहिर्विधमापन्ना भवन्ति ॥ ५२ ॥

येऽन्तर्विधाबहिर्विधमापना भवन्ति ॥ ५२ .marate कर्षणे ये लोष्टाः पारमितक्षेत्राहिः पतन्ति -तान्पुनरन्तः पातयदित्यर्थः । वि. निराममीवामित्यन्तः । यद्वाकर्षणावसरे ये लोष्टा वेणुना विमितादग्निक्षेत्राहिर्दिक्ष पतितास्ताभ्यो दिग्भ्यस्तालोष्टानानीय क्षेत्रे संयोजयेत् । भाष्ये । चैतभिः प्रतिमन्त्रमेकैकस्यां दिशि लोष्टानामाहरणामिति ॥ ११ ॥ ५२ ॥ ... चतुर्थमन्ने कंचिद्विशेषं विधत्ते-

इषमूर्जमहमित आदद इति यस्यामस्य दिशि द्वेष्यः स्यात्तस्यै दिशो लोष्टमाहरेत् ॥ ५३ ॥

अयमग्निचियं पुरुषं द्विप्यात्स पुरुषो यस्यां दिश्यवतिष्त तस्यां दिशि लोष्टमिषमूर्नमिति मन्त्रेणाऽऽहरेत् ।। ५३ ॥

धनुश्चिनान्तर्गतग्रन्थः, घ. पुस्तके वर्तते । ........: Typ aminant 'सत्याषाढविरचितं श्रौतसूत्रम्-... [११ प्रश्ने

तथोपक्रमेत यथा तस्यां दिश्यपवर्गः स्यादुत्तरवेदिमुपवपति । यावानग्निर्व्याघारणान्तं कृत्वा ॥ ५४ ॥

प्राकृतेन प्रकारेणोलरवेदिं कुर्यात् । तस्यामुत्तरवेद्या पश्चादग्निश्चीयते । स्पष्टम

अग्ने तव श्रवो वय इति षड्भिः सिकता निवपति ॥ ५५ ॥

. रयिमित्यन्तः । षड्भिर्वालुका निवपति क्षिपति । एतान्मन्त्रान्विनियुङ्क्ते-- अग्ने तव श्रवो वय इति सिकता निवपति ' (तै० सं० ५-२-६) इत्यादि ।। ५५ ।।

चितः स्थ परिचित इत्यपरिमिताभिः शर्कराभिराहवनीयचितेरायतनं परिश्रयति यथागार्हपत्यचितेः ॥ ५६ ॥

चितः स्थ पार चित इति अपरिमिताभिरसंख्यामिराहवनीयचितेर्वेष्टनम् । यथैव गार्हपत्यस्य तित्रस्तित्रः संहिताः । न तु वनमित्यभिमन्त्रणम् । अथ वा सीदतेत्यन्तःशरैः क्रियन्ते निष्पाद्यन्त इति व्युत्पत्त्या शर्करा इति नाम संपन्नम् ॥ ५६ ॥ .. शर्करासु काम्यां संख्यामाह-

त्रिसप्ताभिः पशुकामस्य ॥ ५७ ॥

पारमिनुयादिति शेषः । त्रीणि सप्तकानि यासां शर्कराणां तास्त्रिसप्ताः । ताभिरेकविंशतिसंख्याकाभिरित्यर्थः । परिमिमुयात्परिमित्य स्थापयेत् ।। १७ ॥ अयान्या काम्यां संख्यामाह

त्रिणवाभिर्भ्रातृव्यवतः ॥ ५८ ॥

पारिमिनुयादित्यनुवर्तते । त्रीणि नवकानि यासां तास्त्रिणवाः सप्तविंशतिसंख्याका इत्यर्थः ॥ १८ ॥ पक्षान्तरमाह

अपरिमिताभिः परिमिनुयात् ॥ ५९ ॥

अपरिमित यो धनं कामयेत सोऽपरिमितकामः । यो वा सर्वान्कामाम्प्राप्तुमिच्छत्ति सोऽपरिमितकाम इति केचित् ।। ५९ । ________________

1 . 0 1887 ७ पटलः ]- महादेवशास्त्रिसंकलितपयोगचन्द्रिकाव्याख्यासमैतम् । ५१

आ प्यायस्व सं त इति सौमीभ्याꣳ सिकता व्यूहति ॥ ११.६.६० ॥

. विष्वेत्यन्तः । सोमो देवता यस्यामृचि प्रतीयते सेयमुक्सौमी । विश्वतः सोमेत्याद्यायामृच्यसौ प्रतीयते । अमृतायः सोमेत्युत्तरस्याभूचि प्रतीयते । तया सौम्या पूर्व न्युप्ताः सिकता विविध प्रसारयेत् ॥ ६ ॥

अपिवा गायत्रिया ब्राह्मणस्य व्यूहेत्त्रिष्टुभा राजन्यस्यासावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् । पुनानो वारं पर्येत्यव्ययं श्येनो न योनिं घृतवन्तमासदमिति जगत्या वैश्यस्य ॥ ६१ ॥

अपिवेति पूर्वोक्तपक्षाद्विकल्पः । आ प्यायस्व समेतु त इति प्रसारयेद्वालुकाः । सं ते पयासि, इत्युत्तरा त्रिष्टुपक्षत्रियस्य त्यूहनार्था । असावि सोम इंति जगत्या वैश्यस्य न्यूहनम् ॥ ११॥ अथान्वयव्यतिरेकाम्या पारश्रयणं दृढी करोति-

यं कामयेतापशुः स्यादित्यपरिमित्य तस्य शर्कराः सिकता व्यूहेत् । यं कामयेत पशुमान्त्स्यादिति परिमित्य तस्य शर्कराः सिकता व्यूहेत् ॥ ( ख० १५ ॥ ६२ ॥

इति सत्याषाढहिरण्यकेशिसूत्र एकादशप्रश्ने षष्ठः पटलः ॥ ६ ॥

पूर्व न्युप्तायाः सिकताया न्यूहनं विधास्यति । यजमानस्य पशुराहित्यं कामयमा. नोऽध्वर्युः परितः शर्करास्थापनमकृत्वैव सिकताप्रसारणं कुर्यात् । तथा सति पारश्रयणाभावादपरिगृहीत एव स्थाने यजमानस्य रेतो विविधं यथा गच्छति तथा विनाशयति । ततोऽयमपशुरेव भवति सोऽयं व्यतिरेकः । एतस्माद्विपरीतोऽन्वयः । तस्मात्पशुलामाय शर्करापरिश्रयणपूर्वकमेवं सिकतीव्यूहनं कर्तव्यमिति तात्पर्यार्थः ॥ १२ ॥ इति हिरण्यकेशिसूत्रन्याख्यायां महादेवशास्निसंकलितायां प्रयोगचन्द्रि ५. कायामेकादशप्रश्ने षष्ठः पटलः ॥

11.7 अथैकादशप्रश्ने सप्तमः पटलः ।

आतिथ्याप्रभृतीनि कर्माणि प्रतिपद्यते । । १ ॥ ५२ . 'सत्यापाढविरचिनं श्रौतसूत्रम्-.. [११ प्रश्नै___ अत्रातिश्यायास्तन्य प्रक्रमयति ( स० श्री. १७-०३-१७) इत्यारभ्य ध्रुवायाः शेषं करोति, इडान्ताऽतिथ्या(.७-३-११: ): इत्यस्तानि मौमिककर्माणि ॥ १ ॥

प्रथमाभ्यां पौर्वाह्णिकीभ्यां 'प्रवर्ग्योपसद्भ्यां प्रचर्याग्रेण प्राग्वꣳशꣳ रोहिते चर्मण्यानडुहे प्राचीनग्रीव उत्तरलोम्नि प्रथमायाश्चितेरिष्टकाः सꣳसादयति ॥२॥।

प्रवग्यापसद्भया प्रत्ये सुब्रह्मण्यान्तामुपसदं कृत्वा, यदि पश्चादुपसत् । अग्रेण प्राग्वंशमदूरेण प्राग्नशम्य लोहित आनडुहे शकटवाहिनश्चर्माण, प्राचीना यस्य ग्रीवा तत्प्राचीनग्नीवम् । उत्तराणि लोमानि यस्य तदुत्तरलोम । तस्मिञ्छकटस्यो. परि स्थापिते प्रथमायाचितेनित्य इष्टकास्ता एकीकृत्य सादयति ॥ २ ॥

अपिवा तिस्रः स्वयमातृण्णाः सर्वाश्च विश्वज्योतिषः॥ ३॥

अथवा तिस्रः स्वयमातृष्णास्तित्रश्च विश्वज्योतिषः सादयतीत्यर्थः ॥ ३ ॥

दर्भाग्रमुष्ट्नाऽऽज्येनावोक्ष्य ताः समुद्यम्य चित्याग्निभ्यः प्रणीयमानेभ्योऽनुब्रूहीति संप्रेष्यति । प्रणीयमानेभ्योऽनुब्रूहीति वा ॥ ४ ॥

बृहस्पतिस्त्वा सादयतु पृथिव्याः पृष्ठे, इति या एतैर्मन्त्रैरुपधीयन्ते ताः। दर्भाप्रमुष्टिर्नाम प्रभूतमुष्टिस्तेन दर्भाग्रमुष्टिना । आज्येन विविधमवोक्ष्य सर्वेषु देशेषु समुद्यम्येति पाक्षिकः वदा तिखः । स्वयमातण्णास्तिस्त्रश्च विश्वज्योतिषस्तैदी "प्रथमनिते शिष्टकामामशक्यमेवोधमनम्। "चित्यग्नयः इष्टकाचित्यर्थास्तम्ब आनीयमानेभ्योऽनुवहोलि पार्थः। प्रणीयमानेभ्योऽनुबृहीति वा विकल्पश्रुतिरुद्गृह्यते ॥ ४ ॥

त्रिरनूक्तायामश्वप्रथमाः प्राञ्चो गच्छन्ति ॥ ५ ॥

प्रथमायां त्रिरक्तायामश्वं पुरस्कृत्य गच्छन्त्यध्वर्युब्रह्मयजमानाः ॥ ५.

उत्तरवेदिं प्राप्य प्रजापतिस्त्वा सादयतु तया देव तयाऽङ्गिरस्वद्ध्रुवा सीदेत्युत्तरवेदिमभिमृश्य मयि गृह्णामि यो नो अग्निरिति द्वाभ्यामात्मन्नग्निं गृहीत्वा यास्ते अग्ने समिधो यानि धामेति स्वयंचित्याऽभिमृशति ॥ ६ ॥

अभिमृशत्युत्तरवेदिम् ॥ १॥ .. .... ७ पटलः ] महादेघशास्त्रिसंकलितप योगचन्द्रिकाध्याख्यासमेतम् । ५३

इष्टकाभिरग्निं चिनोत्यध्वर्युर्यजमानो ब्रह्मा वा स्वयमग्निं चिन्वन्नाऽऽत्मन्नग्निं गृह्णीते न स्वयं चित्याऽभिमृशति । ७ ॥

इष्टकाभिरग्निं चिनोत्यध्वर्युर्यजमानो वेत्यापस्तम्बः । यान्युखासंभरणवायव्यादीनि चित्यङ्गानि कर्माणि तान्यध्वर्युरेव करोति । अत इष्टकाभिरित्युच्यते । इष्टकाप्रणयः नादिकं कर्म कथं स्यादितिचेत्- स्वयं चिन्वानो यजमानो नानिं गृह्णात्यत्मिन्नाग्निम् । नाप्यभिमृशति स्वयंनितिम् । नाध्वर्युरात्मनोऽन्तरेतीति । यध्वर्युरात्मन्नग्निमगृहीस्वाऽनि चिनुयात्, इत्यध्वर्युवचनात् । . ... ....... ननु-इष्टकाभिः (१४-१-१) अग्निचंयनसाधन भूता इष्टका धातुमय्यो मय्यो वाड नियमेनोपादेयाः । इष्टकाशब्दस्य घटादिपदवज्जातिवचनत्वे वा वेदिपदवंदाकृतिवचनस्वे वोभयत्रापि प्रयोगदर्शनात् । प्रवृत्तिनिमित्तस्य धातुमयीष्वप्यविशिष्टत्वादिति प्राप्त यन्मृच्चाऽऽपश्चाग्नेरना(मा)द्यमथ कस्मान्मृदा चाद्भिश्वानिश्चीयते (ते० सं०५-६-४ ) इति वाक्यशेषान्निर्मन्थ्येनेष्टका: पचन्ति, इति विहितपाकस्यादृष्टार्थत्वापत्तेश्य मन्मथ्य एव। यत्तु मूल इष्टकाशब्दस्य.. जातिवचनवं निरस्याऽऽकृतिवचनत्वं तदर्थसंशयान्तरं प्रदर्य साधितं, तन्नातीवोपयुक्तमयुक्तं चेत्युपेक्षितम् ॥ ७ ॥

दक्षिणावृतो दक्षिणत उपदधात्युत्तरतः सव्यावृत ऋजुलेखाः पश्चात्पुरस्ताच्च भवन्ति॥ ८॥त्र्यालि खिता मध्ये प्राचीरुपदधाति॥ ९ ॥ प्रतीचीरुप दधातीति गणेषु रीतिवादः । प्राचीमुपदधाति प्रतीचीमुपदधातीति कर्तुर्मुखवादः पुरस्तादन्याः प्रतीचीरुपदधाति । पश्चादन्याः प्राचीरपवर्गवादा वचनात्पक्षपुच्छेषु श्रोण्योरꣳसयोरित्युपदधाति॥११.७.१०॥

प्राचीरुपदधाति प्रतीचीरुपदधातीति यत्रं गणेषु श्रूयते पुरस्तादन्याः प्रतीचीरुपदधातीति तत्र रीतिवादः । प्राचीरुपदधाति प्रतीचीरुपदधातीति यत्र श्रूयते तत्र मुखाभावादिष्टकोपधानकर्तुर्मुखवादः । ' पश्चात्याचीमुत्तमामुपदधातीति पश्चचौडायाम् । ननु-गणेषु (जै० सू० १४-१-१९.) प्राचीरुपदधाति प्रतीचीरुपदधाति, इत्यादौ यत्रेष्टकागणानुवादेन प्राङ्मुखत्वादिकं विधीयते तत्र चतुरश्रेष्टकासु मुखाभावात् प्राङ्मुखकर्तृपधेयत्वेनैवेष्टकानां प्राङ्मुखत्वाद्युपचार इति प्राप्ते-एकैकस्या इष्टकाया मुखाद्यसंभवेऽपि बहूनामिष्टकानामुपधाने प्रासंस्थत्वादेरनियमन प्राप्तौ प्रागपंवर्गा एवेत्यादि ________________

.: सत्यापादविरचितं श्रौतसूत्रम्-... [११. प्रक्षे-, नियमार्था विधयः । अत एव प्रतीचोऽन्याजान्यजति, इत्यस्य वाक्यशेषे प्राञ्चमुत्तम संस्थापयत्युत्तमेनेत एव नु संभिनत्ति, इत्यत्र प्रत्यगपवर्गत्वे प्राप्ते-प्रासंस्था आहुतीदिधाय चरमयेतरयोरनुसंभेदेनेव प्रत्यक्त्वमुपपद्यते । ... ननु-पश्चात्प्राचीमुत्तमामुपदधाति तस्मात्पश्चात्प्राची पल्यवास्ते (१४-१-२..) इत्यत्राप्युक्तन्यायेन रीतिवादे प्राप्ते-गणेषु तथा संभवेऽन्येकड्यां तदयोगाचाक्यशेषे. कर्तृगतत्वेनैव विवरणाच्च कर्तुरेवायं मुखवादः पुरस्तास्प्रत्यश्चमिति कर्तुर्मुखवादः । पुरस्तात् प्रत्यश्चमिति तु कर्ममुखवादः ॥ ___ ननु–पुरस्तादन्याः प्रतीचीरुपदधाति पश्चादन्याः प्राची:, इत्यत्रापि कर्तुर्मुखवादः । पश्चात्प्राचीरिति पदस्य पूर्वाधिकरणे निर्णीतार्थकत्वात्संनिधानाचेति प्राप्ते-बहुवादिष्टकानामपवर्गनियमावेव विधी । तस्मात्प्राचीनानि प्रतीचीनानि च नक्षत्राण्यावर इति नक्षत्रमण्डलेष्टकाविन्यासस्तुतिदर्शनात् ।। ८ ।।.९ ॥ १० ॥

श्वेतोश्वो दक्षिणतस्तिष्ठति ॥ ११ ॥

दक्षिणतोऽग्नेः ॥ ११ ॥

तमालभ्येष्टका उपदधाति ॥ १२ ॥

यत्र श्वेतोऽश्वस्तिष्ठति तमालभ्य स्पृष्टेष्टकामुपदधाति । उत्तरतस्तु कृप स्तमाकम्प पुरीषमुपदधाति, इत्येषा श्रुतिद्धा सूत्रकारेण । अश्वावभितस्तिष्ठेमां. कृष्ण उत्तरतः श्वेतो दक्षिणतस्तावालभ्येष्टका उपदध्यादित्येतदपि लभ्यते ॥ १२ ॥

इन्द्रं विश्वा अवीवृधन्नित्यैन्द्रियर्चाऽऽक्रमणं प्रतीष्टकामुपदध्यात् ॥१६॥ उत्तरतः पश्चादुपचारो वाऽग्निः॥ १३॥

इन्द्र विश्वा अवीवृधन्निति पुच्छसंधेरुत्तरेणाऽऽरोहणं करिष्यामीति तत्रेष्टकामुपदधाति । अन्तर्विधप्रदेशे विधाः पुरुषा । अग्नेरभ्यन्तर इत्युक्तं भवति । यत्राऽऽक्रमत्यारोहणे तत्रेष्टकामुपदधाति । उत्तरे वा पक्ष आक्रमणं प्रतीष्टकामुपदध्यादिति । यद्युत्तरत उपचारोऽथवा पश्चात्पुच्छे वाऽऽक्रमणं प्रतीष्टकामुपदधाति । पदि पश्चादुपचारश्चिन्वन्नधिक्रामति, इति वचमात् । प्रथमाया चित्यामेव । केचित्तु-पिता चितावाक्रमणं प्रतीष्टकामुपद्धाति, इति । तन्न, एवमुपधान सूत्रेऽपि नास्ति ॥ १३ ॥

वाङ्म आसन्नसोः प्राण इत्यग्निमधिक्रामन्सर्वेष्वाक्रमणेषु जपति ॥ १४ ॥

हिसारित्यन्तः । वाङ्म आसन्निति पश्चस्वपि चितिष्वारोहणं जाति । प्रत्यवरोहर्ण चेति पुरीषमुपधाय श्रुत्यन्तरादयं विधिरिति गम्यते । अस्माकं तु सकृदेव चिन्व ७ पटलः ] महादेवशास्त्रिसंकलितपयोगचन्द्रिकाव्याख्यासमेतम् । ५५ अधिकामति' इति वचनात् । सस्था यामि इति होमं हुत्वा वाङ्म आसन्निति जपत्यारोहन् । भाष्यकारस्तु-हुस्खोऽऽरोहणं जपति, इति अस्मिन्क्रमे शाखान्तर आन्नातो यः क्रम इति अपति सट्टा पश्चम्याम् । पुरीषमुपधाय प्रत्यवरोहणं जपति, इत्येतदपि श्रुत्यन्तरम् ॥ १४ ॥

तत्त्वा यामि ब्रह्मणा वन्दमान इति वारुण्यर्चा शालामुखीये जुहोति ॥ १५ ॥

प्रमोषीः स्वाहा । वरुणो देवता । शालामुखीये होमः । चयनाङ्गं शालामुखीयग्रहणं चित्थे मा भूद्धोम इति ॥ १५ ॥

अभ्यस्थाद्विश्वाः पृतना अरातीरिति प्राञ्चमश्वं दक्षिणेन पादेन दर्भस्तम्बमाक्रमयति ॥ १६ ॥

इदानी वाड्म आसन्निति अपत्यारोहन् सहाश्वेन | प्राञ्चं प्राङ्मुखम् । । अभ्य. स्थाविश्वाः' इति दक्षिणेन पादेन दर्भस्तम्बमाक्रमयति ॥ १६ ॥

यदक्रन्दः प्रथमं जायमान इति प्रदक्षिणमश्वं पर्याणयति ॥ १७॥

प्रदक्षिणमश्वं परिवयित्वा यदक्रन्द इति पुनरेवाऽऽक्रमयति दर्भस्तम्बम् ॥ १७ ॥

दक्षिणतो धार्यमाणेऽपां पृष्ठमसीति दर्भस्तम्बे पुष्करपर्णमधस्ताद्दण्डमुत्तानमुपदधाति ॥ १८ ॥

अपां पृष्ठमसीत्यश्वस्य पदे दर्भस्तम्चे पुष्करपर्णमधस्ताद्दण्डमुपदधात्युत्तानम्॥ १८ ॥

तपो योनिरसि विश्वाभिस्त्वा धीभिरच्छिद्रꣳ सजातवनस्यावारु(उ)पदधाम्यमृतं योनिर्ब्रह्म योनिः क्षत्त्रं योनिः पृथिवी योनिरन्तरिक्षं द्यौर्योनिर्दिशो योनिरिति वा ॥ १९ ॥

अनेन मन्मेण वा साभ्यं श्मपत्रोपधानम् ॥ १९ ॥

ब्रह्म जज्ञानमिति पुष्करपर्णे रुक्ममधस्तान्निर्बाधमुपदधाति ॥ ११.७.२० ॥

वि व इत्यन्तः । ब्रह्म जज्ञानमिति पुष्करपणेऽधःस्फोटकं रुक्ममुपदधाति । यो विष्णुक्रमणकाले भूतः स इति । यथाऽस्य च्छिद्रमुत्तरतो भवति तथोपदधाति रुखममा'दित्यस्वरूपम् । तमिमं मन्त्रं ब्राह्मणे विनियुक्ते'ब्रह्म जज्ञानमिति रुक्ममुपदधाति । '(ले० सं० ५-३.७) इत्यादि । २० ५६ १३. .... सत्याषाहावरचितं श्रौतसूत्रम्- ११ प्रश्ने

हिरण्यगर्भः समवर्तताग्र इति हिरण्मयं पुरुषं प्राञ्चमुत्तानं दक्षिणतो रुक्मस्य द्रप्सश्चस्कन्देत्यभिमृश्य पुरुषसाम्नाऽभिगीयते ॥ २१ ॥

हिरण्यगर्भ इति तस्मिन्रुक्मे हिरण्मयं सुवर्णमयं पुरुषं प्राचीनं प्राक्शिरसमुत्तानं दक्षिणतश्छिद्रस्योपदधाति, तद्विमुच्यमाना (१) द्वारं प्राङ्मुखः को उपदधाति हिरण्मयः पुरुष आदित्यान्तः पुरुषस्य रूपं तमुपदधाति । पुरुषं साम गायोति साम । यदि तन्नेच्छत्युद्गाता, पुरुषसामगानं कर्तुम् । अध्वर्युरेव भूर्भुवः सुवरिति साम गायति यजमानोऽपि । चयनं करिष्यन्द्रप्सश्चस्कन्देति पुरुषस्याभिमर्शनं करोति ॥ २१ ॥

नमो अस्तु सर्पेभ्य इति तिसृभिः सर्पनामभिरुपतिष्ठते ॥। २२ ॥

सर्पेभ्यो नम इत्यन्तः । तिमिरुपस्थानं पुरुषस्य करोति ॥ २२ ॥

कृणुष्व पाज इति पञ्चभिरक्ष्णया पुरुषं व्याघारयति यथोत्तरवेदिम् ॥ २३ ॥

५ शनित्यन्तः 4- पुरुषस्य व्याधारणं तदुत्तरवेदिवत् ॥ २३ ॥

घृतस्य दध्नश्च पूर्णे स्रुचावभितः पुरुषमुपदधाति अग्नेस्त्वा तेजसा सादयामीति ॥ २४ ॥ घृतस्य पूर्णां दक्षिणां कार्ष्मर्यमयीमिन्द्रस्य त्वौजसा सादयामीति दध्नः पूर्णामुत्तरामौदुम्बरीं ते उपधाय मूर्धन्वतीभ्यामुपतिष्ठते ॥ २५ ॥

अत्र-खुचावुप दधाति । (ले० सं० १-२-७ ) इति विधिदर्शनात् । तयोः खुचोर्विशेषणं दर्शयति-घृतस्य पूर्णां दक्षिणां कार्मर्यमयीं दध्नः पूर्णामुत्तरामौदुम्बरीमिति । श्रीपर्णाख्यो वृक्षविशेषः कामयस्तेन निर्मिता काचिनुक्काममयी, सा चाऽऽज्येन पूर्णा । उदुम्बरेण निर्मिता काचित् , सा च दना पूर्णा । एतद्गुणविशिष्टयोः खुचोरुपधानस्य विधानान्त्र वाक्यभेदः शङ्कनीयः । इष्टकान्तरोपधानवत्तमन्त्रत्वस्य शङ्का लौकिकवाक्यं वा निवारयितुमाह ब्राह्मगे- तूष्णीमुपद्धाति । (तै० सं० ५-२-७ ) इति । यस्मादाम्नातो मन्त्रो नास्ति तस्माद्यजुषा मन्त्रेणैते उपधातुं 'नार्हति । तयोदिग्विशेषं विधत्ते दक्षिणां कार्मर्यमयींमुत्तरामौदुम्बरी तस्मादस्या असावुतरा ( ते सं० ५-२-७.) इति । यस्मादयुलोकरूपौदुम्बरी ख्रगुत्तरस्यां दिश्युपहिता तस्माल्लोकेऽप्यसौ चौरस्याः पृथिव्या उत्तरोर्वभाविनी । स च दिग्विशेष

७ पटलः ] महादेवशास्त्रिसंकलितपयोगचन्द्रिकाव्याख्यासमेतम् । ५७ आपस्तम्बेन स्पष्टमभिहितः-आज्यस्य पूर्णी कार्मर्यमयीं दक्षिणेन पुरुषं दध्नः पूर्णाभौदुम्बरीमुत्तरेण पुरुषम् ( आप० श्री. १६-७-५ ) इति । अग्निमूर्धति कामर्यमय्या उपस्थानं भुवो यज्ञस्येत्यौदुम्बर्याः ॥ २४ ॥ २५ ॥

अपिवा तूष्णीमुपधाय मूर्धन्वतीभ्यामुपतिष्ठते । मूर्धन्वतीभ्यामुपधाय यजुर्भ्यामुपतिष्ठत इत्येकेषाम् ॥ २६ ॥

अथवा तृष्णीं तयोरुपधानम् । मूर्धन्वतीभ्यामुपस्थानमित्येकः पक्षः । अग्निर्धा, भुवो यज्ञस्येति द्वाभ्यां कार्मर्यमयीमौदुम्बरी चोपधायाऽग्नेस्त्वा, इन्द्रस्य त्वा, इति यजुर्गामुपस्थानमित्यपरः पक्षः । अथवा तूप्णीमुपधान ऋग्म्यामुपधाने वा यजुया॑मुपतिष्ठत इत्येके शाखिनः परिपठन्ति ।। २६ ॥ पाशुकस्योत्तरवेदिवद्रुक्मस्यौपार न्याधारणमाह-

रुक्मं व्याघारयति । यथापुरुषम् ॥ ( ख० १७) ॥ २७ ॥

पुरुषवद्रुक्मं व्याघारयेत् ॥ २७ ॥

ध्रुवाऽसि वरुणेति स्वयमातृण्णामभिमृश्याश्वेनावघ्राप्य प्रजापतिस्त्वा सादयतु पृथिव्याः पृष्ठे व्यचस्वतीमिति मध्येऽग्नेरविदुषा ब्राह्मणेन सहोप दधाति । भूरिति चैतया व्याहृत्या ॥ २८ ॥

ध्रुवाऽसीति स्वयमातृण्णामालभतेऽश्वेनावनाप्याऽऽरूढेनाग्निमविद्वानपि मन्त्रानध्याप्य सह तेनोपधान, प्रजापतिस्त्वा सादयतु पृथिव्याः पृष्ठ इत्यारभ्य सदित्युक्त्वा भूरित्युपधीयते । यद्वा स्वयमातृष्णा तु यद्यपि पुरुषैरनिर्मिता तथाऽपि तस्या इष्टकात्वं मुख्यमित्यभिप्रेत्य मुख्यास्विष्टकास्वस्याः प्राथम्यमुच्यते--प्रथमेष्टकोपधीयमाना, (५-२-८) इत्यादि ब्राह्मणे । अत्राविदुषो ब्राह्मणस्य हस्ते मन्त्रसंस्कृतां स्वयमातृष्णां दद्यात् । ततः स ब्राह्मणोऽध्वर्युश्च मिलित्वा तामुपद्ध्यातामित्यर्थः ॥ २८ ॥

चितिं जुहोमीति स्वयमातृण्णायाꣳ हुत्वाऽनुप्राणिति ॥ २९ ॥

हविः स्वाहा । विश्वकर्मा देवता । चिति जुहोमीति हुत्वाऽऽज्यमुपरि तस्याः प्राणनं करोति नासिकावातम् ॥ २९ ॥

अविद्वान्ब्राह्मणो वरं ददाति । एकं द्वौ त्रीन्वा ॥ ११.७.३० ॥

यः स्वयमविद्वान्सनिष्टकामुपदधाति स्वयमातृण्णां स एष आर्तिमाप्तुं समर्थो भवति । ________________

- ___सत्यापाढविरचितं श्रौतसूत्रम्- [११ प्रश्नेअतस्तत्पारिहारायाध्वर्यवे वरदानं कुर्यात् । वरशब्देन श्रेष्ठत्वाद्गौरुच्यते । त्रीन्द्वावेकः मिति पक्षा विकल्पिताः ॥ ३० ॥

तेजोऽसि तेजो मे यच्छ पृथिवीं यच्छ पृथिव्यै मा पाहीति हिरण्येष्टकाम् । पृथिव्युदपुरमन्नेन विष्टा मनुष्यास्ते गोप्तार इति मण्डलेष्टकाम् । भूरसि भुवनस्य रेत इष्टकाः स्वर्गो लोको मनसा त्वाऽन्वारोहामि सुवरसि सुवनस्य रेत इष्टकाः स्वर्गो लोको मनसा त्वाऽन्वारोहामीत्यन्वारोहे द्वे उप दधाति ॥ ३१ ॥

तेजोऽसि तेजो मे यच्छेति हिरण्येष्टकामुपदधाति । अनियतदेशाद्व्योष्टकानामप्युपरि मृन्मय्य उपधीयन्ते द्रव्येष्टकाश्चावटे । मृन्मथीनामेव संख्यापूरणं स्यादापस्तम्बे । तबाहेष द्विशतः प्रस्तार इति । यत्प्राचीनमैष्टकाद्यजुः क्रियत इति लिङ्गाच । पृथिव्युदपुरमन्नेनेति मण्डलेष्टकाम् ।: मन्त्रेणैवास्य मण्डलेष्टकात्वम् । बौधायनीयस्य तु मण्डलं मण्डलेष्टकायामालिख्यते । ऋषभमृषभेष्टकायामिधु विकर्ष्यामिति । आपस्तम्बस्य तु अनिमित्तानीष्टकानामधेयानीति पक्षः । यथाऽऽत्मेष्टकामिति । भूरसीत्यन्वारोहे द्वे आक्रमणं प्रतीष्टकायाः समीप उपधीयते ॥ ११ ॥

काण्डात्काण्डात्प्ररोहन्तीति द्वाभ्यां दूर्वास्तम्बꣳ सलोष्टमप्रच्छिन्नाग्रं यथाऽस्य स्वयमातृण्णामग्रं प्राप्नुयात् ॥ ३२ ॥

दुर्वास्तम्बमूलं तत्सह लोप्टेन हरितमप्रच्छिन्ना-काण्डात्काण्डात्-इति द्वाभ्यामृग्भ्यामुपहितस्य यथा स्वयमातृण्णामयं प्राप्नोति तथोपदधाति ।। ३२ ॥

हिरण्यशकलौ प्रबाहुगिष्टकायामध्यूह्य यास्ते अग्ने सूर्ये रुच इति द्वाभ्यां वामभृतम् ॥ ३३ ॥

प्रबाहुक् समम् । इष्टकायां तुल्यदेशे हिरण्यशकलौ स्थापयित्वा यास्त अग्ने सूर्ये रुष इति द्वाभ्यां वामभृतं स्थान यति ।। ३३ ।।

विराड्ज्योतिरधारयदिति तिस्रो रेतःसिचः ॥ ३४ ॥

रेतःसिचस्तिस्त्र उपदध्यादिति शेषः । त्रिभिर्मन्नैरिति वैखानसः ।। ३ ।।

द्वे एके समामनन्ति ॥ ३५ ॥

एके शाखिनः समामनन्ति, अदितो द्वे ।। ३५ ।। ________________

७ पटलः ] महादेवशास्त्रिसंकलितपयोगचन्द्रिकाव्याख्यासमेतम् । ५९

ताः प्रथमायां चित्यां यून उपदध्यात् । मध्यमायां विवयसः । प्रथमायामुत्तमायां च स्थविरस्य ॥ ३६ ॥

तासां तु विधिः -प्रथमायां द्वे चिल्या तरुणस्य तस्य तृतीया नास्ति । मध्यमाया चित्यां मध्यमवयसास्तिस्रोऽपि प्रथमायां चित्यामेको पञ्चम्यामेका स्वराडिति स्थविरस्य । रेत एवास्य सिक्तमाभ्यामुभयतः पारंगृह्णाति, इति द्यावापृथिवीसंस्तवात् । एकतगं त्वापस्तम्बेनोक्ताम्---अन्यतरामुपदध्यावेप्यस्य । यजुषेमां चामू चोपदधाति । मनसा मध्यमाम् , ( आप. श्री० १६-७-२०) इति । द्वेप्यस्योपदधातीति प्रतिषेधार्थम् । यजुषा पृथिवीं च द्यां चोपदधाति । उपांशु प्रथमतृतीययो. विधिः । तयोः पृथिवीधुलोकसंस्तवात् । मध्यमा द्वितीया, तां मनसोपदधाति--सनाड्: ज्योतिरिति यजुषैव ॥ ३६ ॥

बृहस्पतिस्त्वा सादयतु पृथिव्याः पृष्ठे ज्योतिष्म तीमिति विश्वज्योतिषम् । अग्नेर्यान्यसि देवानामग्नेर्यान्यसीति द्वे संयान्यौ । मधुश्च माधवश्चेति द्वे ऋतव्ये । समानतया देवते भवतः ॥ ३७ ॥

विश्वज्योति:-बृहस्पतिस्त्वा सादयत्तिति या प्रणीता । अग्नेर्यान्यसीति संयान्यो, मधुश्च माधवश्चेति द्वे ऋतन्ये, समानतया देवते ॥ ३७॥

सर्वास्वृतव्यास्ववकामुपदधाति ॥३८॥

सर्वासु ऋतव्यासु, उपधाय द्वे पश्चादवकां तयोरुपर्युपदधाति । अवकासु साक्ष्यतीत्येके .( आप० औ०-१६-७-२२) इत्यापस्तम्बः ॥ ३८ ॥

घर्मेष्टकामुपदधाति । तस्याः प्रवर्ग्ये मन्त्र आम्नातः ॥ ३९ ॥

घर्मेष्टका तृपधेयोदस्य शुष्माद्भानुरिति प्रवर्यपरिपठितो मन्त्रः ॥ ३९ ॥

अषाढाऽसीत्युपरिष्टाल्लक्ष्माणमषाढां द्वेष्यस्याधस्ताल्लक्ष्माणं यास्ते अग्न आर्द्रा योनयो याः कुलायिनीः । ये ते अग्न इन्दवो या उ नाभयः । यास्ते अग्ने तनुव ऊर्जो नाम ताभिस्त्वमुभयीभिः संविदानः । इह प्रजानां तन्वा निषीदेति कुलायिनीम् ॥४०॥

उखया सह कृता द्वाभ्यामुपदधात्यषाढाम् । अषाढाऽसीति मध्येऽख्यालिखितां मध्य इति । यथा च्यालिखितोपरिष्टाद्भवति तथोपदधाति । तथा चोक्तं ब्राह्मणे-यं ________________

६० " सत्यापादविरचितं श्रौतसूत्रम्-- [११ मनेकामयेत वसीयान्भवेदिति । उपरिष्टाच्यालिखिता यथा भवति स्थोपदधाति । ये कामयेत पापीयान्भवेदित्यधस्तात्तस्योषधेयेति ग्यालिखिता प्रतिषेधार्थम् । कुलायिनीपास्ते अग्न आर्द्रा योनयो या इति च प्रवर्यपरिपठितो मन्त्रौ ॥ ४० ॥

मधु वाता ऋतायत इति तिसृभिर्दध्ना मधुमिश्रेण कूर्ममभ्यनक्ति ॥ ( ख० १८) ॥ ४१ ॥

भवन्तु न इत्यन्तः । तिसृभिरभ्यो दध्ना मधुमिश्रण कूर्मस्य ।। ४१ ॥

अपां गम्भीरं गच्छ मा त्वा सूर्यः परीताप्सीन्मो अत्रिर्वैश्वानरः । अघोरः प्रजा अभि विपश्यानु त्वा दिव्या वृष्टिः सचताम् ॥ सꣳसर्प त्रीन्समुद्रान् न्स्वसलिलार्ग्याꣳल्लोकानपांपतिर्वृषभ इष्टकानाम् । तत्र गच्छ यत्र पूर्वे परेताः पुरीषं वसानः स्वां योनिं यथायथमित्यभिमन्त्र्य मही द्यौः पृथिवी च नश्चतस्र आशा इति द्वाभ्यां पुरस्तात्प्रत्यञ्चं जीवन्तं प्राङ्मुख उपदधाति ॥ अवकाभिः परीतꣳ त्य(रितत्य) जालेनावच्छाद्य शङ्कुभिः परिणि हन्ति ॥ ४२ ॥

अपां.गम्भीरं गच्छेत्युपहितस्याभिमन्त्रणं विधाय मही योश्चतस्त्र आशा इति द्वाभ्यामृग्भ्यामुपदधाति कूर्म पुरस्तात्स्वयमातृष्णायाः प्रत्यङ्मुख जीवन्तं प्राङ्मुखः कर्ता । आपस्तम्बसूत्रे चतस्त्र आशा इति वेति विकल्पेनोपदधाति, अवकांभिर्वेष्टितं परिंगतेन जालेन प्रच्छाद्यते शङ्कुभिश्च निहन्यते यथोपहितो न चलति । उपधेयस्य कूर्मस्य जीवनोपेतत्वगुणं ब्राह्मणे विधत्ते-श्मशानं वा एतक्रियते (तै० सं० ५-२८) इत्यादि मृतानां पशूनामश्ववृषभवृष्णिवस्तानां शिरांस्युपधेयानी युपरिष्टावक्ष्यति । तदेतत्स्थानं श्मशानमेव कृतं भवति । जीवत्कोपधाननायं यजमानोऽश्मशानचिद्भवति । किंच यः कूर्मोऽस्ति स एष वास्तव्यो निवासयोग्यः कूर्मपृष्ठे भूमेरवस्थितत्वात् । ततोऽपि कूर्मोपधानमित्यर्थः ॥ ४२ ॥ .

यच्चिद्धि त्वं गृहे गृह उलूखलक युज्यसे । इह द्युमत्तमं वद जयतामिव दुन्दुभिरिति दक्षिणस्याꣳ श्रोण्यामुलूखलं मुसलं प्रयुनक्ति ॥ ४३ ॥

दक्षिणस्यो श्रोण्यामासादयत्युलूखलं मुसलं मन्त्रेण द्रन्ययक्त्वादावृत्तिः ॥ ४३ ॥ ७. पटलः ] महादेवशास्त्रिसंकलितपयोगचन्द्रिकाव्याख्यासमेतम् । ६१

औदुम्बरं प्रादेशमात्रं चतुःस्रक्त्युलूखलमपरिमितं मुसलं भवति ॥ ४४ ॥

उदुम्बरस्यावयव औदुम्बरस्तं प्रादेशमात्रनमाणमुलूखलमपरिमितं मसलं तदौदं. म्वरम् । उलूखलस्य प्रकृतिद्रव्यं विधत्ते-औदुम्बरं भवति ( तै० सं०५-२-८) इत्यादि ॥ १४ ॥

उत स्म ते वनस्पते वातो विवात्यग्रमित् । अथो इन्द्राय पातवे सुनु सोममुलूखलेति सर्वौषधस्य पूरयित्वाऽवहन्ति ॥ ४५ ॥

सप्त ग्राम्याः सप्ताऽऽरण्या ओषधयस्ताभिः पूरयित्वा तूप्णीमुत स्म त इति मन्त्रेणावह्ननम् । सुनु सोममुलूखलेति मन्त्रलिङ्गात् ।। ४५ ॥ देशविशेषमाह -

तद्विष्णोः परमं पदमिति मध्येऽग्नेरुलूखलं मुसलमुपदधाति विष्णोः कर्माणि पश्यतेति वा मुसलम्॥

मध्यत उपदधाति ( तै० सं० ५-२-८) इत्यादिब्राह्मणम् । अग्नेर्मध्य उपदधात्युलखलं मुसलं द्रव्यपृथक्त्वादभ्यावर्तते, इति न्यायादेकमन्त्रपक्षेऽपि । मन्त्रद्वयपक्षे तु तद्विष्णोरित्युलूखलं, विष्णोः कर्माणीति मुसलं चोपदयात् ॥ १६ ॥

दिवो वा विष्णविति शूर्पम् ॥ ४७ ॥

दिवो वा विष्णवित्याशी:पदयर्चा शूर्पे, सत्यादित्येवमन्तया ॥ १७ ॥ उपधेयाया उखायाः सिकतापूरणं चाह -

सिकताभिरुखां पूरयति ॥ ४८ ॥

स्पष्टोऽर्थः ॥ १८॥

दध्ना मधुना घृतेन वा ॥ ४९ ॥

पूरयतीत्यनुवर्तते । स्यूता देवोभरित्युखों पूरयति घृतेन मधुना सिकताभिर्वा सर्वैर्वा । घृतेन संसृज्य पूरयति न रिक्ताया अवेक्षणप्रतिषेधो बहिरपि शुग्विाविशुद्धिा भवति, इत्यापस्तम्बेनोक्तत्वात् । पूरणोत्तरकालं पय आनयत्यस्याः संनिवापे तु कृते पूरणमेके परिपठन्ति । अतः क्रमः || ४९ ॥ अन्वयन्यतिरेकाभ्यां पूरणं प्रशंसति -

यं कामयेत क्षोधुक्स्यादित्यूनां तस्योपदध्यात् । यं कामयेतानुपदस्यदन्नमद्यादिति पूर्णां तस्योप दध्यात् ॥११.७.५० ॥ ... सत्यापादविरचितं श्रौतसूत्रम्- [११ प्लने, सिकताभिः पूरिताया ईषन्न्यूनाया उखाया उपधाने सति क्षोधुकोऽन्नरहितः क्षुधाशीलो भवति । सोऽयं व्यतिरेकः । सिकतापूर्णया उपधाने त्वनुपदस्यदेवाक्षीयमाणमेवान्नमत्ति । सोऽयमन्वयः ॥ ५० ॥

स्यूता देवेभिरमृतेनाऽऽगा उखाँ स्वसारमधिवेदि मस्थात् । सत्यं पूर्वैर्ऋषिभिश्चाकु(कृ)पानो(णो)ऽग्निः प्रविद्वानिह तत्करोत्वित्युखामादाय धुवाऽसि पृ- थिवीति च ॥ पृथिवी पृथिव्याꣳ सीद माता मातरि माता स्योना स्योनायां क्रतुर्देवानां महि मानमीमहेऽग्निꣳ सधस्थे सदनेषु सुक्रतुः । वैश्वा- नरं ब्रह्मणा विश्वव्यचसꣳ सो(स्तो)मस्य धामं नि (मन्नि)हितं पुरीष्यम् । समिद्धमग्निꣳ समिधा समिध्यसेऽग्निꣳ सधस्थे सदनेष्वच्युतम् ॥ वैश्वानरं ब्रह्मणा विश्वव्यचसꣳ स्तोमस्य धाम नि (न्नि)दधे पुरीष्यम् । न्ययुर्मात्रया कवयो वयोधसोऽग्निꣳ सधस्थे सदनेष्वाहुतम् ॥ वैश्वानरं ब्रह्मणा विश्वव्यचसꣳ स्तोमस्य धाम प(न्प)वमा- नमादृतम् ॥ धुवाऽसि पृथिवी तया देवतयाऽ ङ्गिरस्वद्ध्रुवा सीदेति मध्येऽग्नेरुखामुपदधाति ॥५१ ॥

उपदधाति स्थापयति ॥ ११ ॥

उपरिष्टादुलूखलस्येत्येकेषाम् ॥ ५२ ॥

पृथिवी पृथिव्याः सीदेति वोलूखलस्योपर्युखामुपद्धाति वाजसनेयिब्राह्मणम्॥५२॥

अग्ने युक्ष्वा हि ये तवेति युक्तवतीभ्याम् ॥ ख० १९) ॥ उखायामेकाहुतिं जुहोति ॥ ५३ ॥

उपाहितायामुखायां होमः । अग्निर्देवता ॥ ५३ ॥

पुरुषशिरसः प्राणेषु हिरण्यशल्कान्प्रत्यस्यति । ऋचे त्वेति दक्षिणेऽक्षिकटे । रुचे त्वेत्युत्तरे भासेति दक्षिणस्यां नासिकायां ज्योतिषे त्वेत्युत्तर स्यामभूदिदं विश्वस्य भुवनस्य वाजिनमित्यास्येऽग्निज्योतिषा ज्योतिष्मानिति दक्षिणे कर्णे रुक्मो वर्चसा वर्चस्वानित्युत्तरे ॥ ५४ ॥ ________________

७ पटलः ] महादेवशाखिसंकलितप्रयोगन्द्रिकाव्याख्यासमेतम् । ६३ तस्य पुरुषशीर्षस्याऽऽस्यादिच्छिद्रेषु हिरण्यशकलप्रक्षेपं वक्ति श्रुतिः-प्राणेषु हिरण्यशल्कान्प्रत्यस्यति ' (ते. सं० ५-२-९) इत्यादि । प्राणसंचारस्थानेष्वास्यादिषु हिरण्यशकलान्प्रक्षिपेत् । एवमापस्तम्बादिषु द्रष्टव्यम् ॥ ५४॥

समित्स्रवन्ति सरितो न धेना इति शृतातङ्क्येन दध्ना मधुमिश्रेण पुरुषशिरः पूरयित्वा सहस्रधा असि सहस्राय त्वेत्यादायाऽऽदित्यं गर्भं पयसा समञ्जन्नित्युखायामुत्तानं प्राक्चुबुकमुपदधाति॥५५॥

आसामित्यन्तः । अहं मधव्योऽसानि (५-२-९ ) इति मधुररसमोगयोग्यो भवानीत्यनेनाभिप्रायेणैतत्पुरुषशिरो मधुयुक्तेन दना पूरयेत् । अत्र द्विविधं दधि । तत्रक रजतप्रक्षेपादिना स्वयमेव घनीभवति । अन्यत्तु पक्वक्षीरादातश्चनेन निष्पद्यते । तत्र क्षीरातश्चनाभ्यां निप्पन्न यागयोग्यम् । तस्मात्तादृशेनैव पूरयेत् । सर्वेषां पशुशिरसां चाश्चादीनां हिरण्यशकलप्रक्षेपः पुरुषशिरोवत्पूरणं तद्वदेवेति वाजसनेयिनः परिपठन्ति । सहस्रधा इति पुरुषशिरो गृहीत्वाऽऽदित्य गर्भ पयसेत्युखायामुपद्धाति, यथा पुरस्ताद्धनुर्भवति प्राचीनं पुरस्ताच्चुबुकमिति व्याख्यातमुत्तानम् । प्राङ्मुखः कर्ता उपधातीत्यर्थः ॥ ५५ ॥

उदु त्यं चित्रमिति सौर्यर्चाभ्यामक्षिकटयोरभिजुहोति ॥ ५६ ॥

सौर्यचर्चाभ्यां होमः सूर्यो देवता । यद्वा-चित्रमिति दक्षिणेऽसिकटे, आ प्राद्यावा पृथिवी इति सव्ये जुहोति ॥ १६ ॥

पशुशीर्षाण्युपदधाति ॥५७॥

पशुशिरसामुपधानं करोति ॥ १७ ॥

यं कामयेतापशुः स्यादिति विषूचीनानि तस्योपदध्यात् । यं कामयेत पशुमान्त्स्यादिति समीचीनानि तस्योपदध्यात् । यं कामयेत कनीयोऽस्यान्नꣳ स्यादिति संतरां तस्य पशुशीर्षाण्युपदध्यात् ॥ यं कामयेत समावदस्यान्नꣳ स्यादित्यभितस्तस्य स्वयमातृण्णामुपदध्यात् । यं कामयेत भूयोऽस्यान्नꣳ स्यादित्यन्तेषु तस्य व्युदुह्योपदध्यात् ॥५८॥

यं कामयेतापशर्भवेदिति विषचीनानि पराङ्मुखाणि । पुरुषशिरसः प्रतिषेधोऽयं न विधिः । विषचोऽस्य पशवः, सर्वेश्यादयः पलायन्ते, समीचीनानि अपर मुखाणि । पुरुषशिरस इति विधिः प्रशस्यते । समीचो यजमानसमीपेऽश्वादयः पशव आयान्तिा ६४ . सत्यापाढविरचितं श्रौतसूत्रम्- [११ प्रश्ने(अता) पशुमान्भवति । यजमानसमीप एवं दधाति । एवमुत्तरत्र यं कामयेताल्पमस्यान स्यादिति संतरां संगतान्तरामुखायामेव पशुशीर्पाण्युपधेयानीति प्रतिषेधार्थमुच्यते । समानवत्समानाधिकं न न्यून संवत्सरप्रक्रान्तं मध्यतस्तस्याग्नेरुपदध्यात् । चतसृष्वपि दिक्षु । यं कामयेत बन्नं स्यादित्यन्तेषु तस्य चतुर्दिशमप्यनेविदुह्य मृत्तिकामपनीयोपधानं कर्तव्यम् । दिगन्तेष्वन्ततः । तस्मान्नं स्यात्ततोऽन्नं लभ्यते भूयो बन्नं भवति ॥१८॥

वातस्य ध्राजिमिति पुरस्तात्प्रतीचीनमश्वस्योपदधाति । अजस्रमिन्दुमिति पश्चात्प्राचीनमृषभस्य । वरूत्रिं त्वष्टुरिति दक्षिणत उदीचीनं वृष्णेरुत्तरतो वा दक्षिणं यो अग्निरग्नेरित्युत्तरतो दक्षिणं वस्तस्य दक्षिणतो वोदीचीनं तान्युत्सर्गैरव्यवायन्प्रदक्षिणमनु परिक्रामन्प्रतिदिशमुपतिष्ठते ॥(ख० २०) ॥ इमं मा हिꣳसीर्द्विपादमिति पुरुषस्य । इमं मा हिꣳसीरेकशफमित्यश्वस्य । इमꣳ समुद्रमित्यृषभस्य । इमामूर्णायुमिति वृष्णेः । अजा ह्यग्नेरिति बस्तस्य ॥ ५९ ॥

वास्य नाजिमिति पुरुस्तादग्नेः प्रतीचीनं प्रत्यङ्मुखः पुरुषशिरोभिमुखमश्वशिर उपदधाति । अजस्रमिन्दुमिति पश्चादनेः प्राङ्मुखः पुरुषशिरोभिमुखमृषभस्य शिर उपदधाति । वरूत्रिं त्वष्टुरिति दक्षिणत उदीचीन उदङ्मुखः पुरुषशिरो[ मि ]मुखं वृष्णेः शिर उपदधाति । यो अग्निरलेरित्युत्तरतोऽमेर्दक्षिणामुखः पुरुषशिरोभिमुख बस्तस्य शिर उपदधाति । तान्युपतिष्ठन्ते शिराँसि, अव्यवायेनान्तरं तेषामगच्छन् । उत्सगैम्यिाणां पशूनाम्, आरण्यास्तु तद्रूपा मयुप्रभृतयस्तेषामश्वमेवे वक्ष्यति । इमं मा हिसीर्द्विपादमिति पुरुषशिरस उपस्थाने । इमं मा हिसारेकशफमित्यश्वस्य, इम समुद्रमित्युषभस्य, इमामोयुमिति वृष्णेः, अजा ह्यन इति वस्तस्य ॥ १९ ॥

अथ यदि वायव्यस्य शिरो भवति ॥ ११.७.६० ॥

मुख्यस्थाने सर्वैरुपधाय सर्वैरुत्सर्गैरुपतिष्ठते ॥ ६१ ॥

यदि वायन्यस्य शिरः स्यात्सर्वेषां स्थाने कृतं, मुख्यस्य स्थाने पुरुषशिरसः सर्वेषाजमुपधानमन्त्रैरुपधाय, उखायाम्-आदित्यं गर्भ वातस्य धाजिमजस्रमिन्दं वरूत्रिं : स्वष्टः, यो अग्निरग्नेरित्येतेः सर्वैरुपधाय चित्र देव नामित्यक्षिकटयोर्तुत्वा सर्वेषामुत्सगैरुपस्थानं भवतीति भावः ॥ ६० ॥ ११ ॥ अथवा- -ऋचमेव , ॐ पर्टलः ] यहादेवशाखिसंकलितमयोगचन्द्रिकान्याख्यासमेतम् ।

अपिवा तस्य तस्य स्थान उपधाय तस्य तस्योत्सर्गेणोपतिष्ठते ॥ ६२ ॥

अथवा पुरुषशिरःस्थान उपचायार्धर्चाभ्यां हुत्वा तस्यैवोत्सर्गेणोपस्थानम् । एव- मश्वादिहोमवर्जमुपधानं कृत्वोत्सर्गेणोपस्थानं भवतीत्यर्थः ॥ ६२ ॥

नमो अस्तु सर्वेभ्य इत्येतेषामेकेनोत्तरेऽꣳसे सर्पशिर उपदधाति । विषूचीनं पशुशिरोभिः ॥६३॥

नमो अस्तु सर्पेभ्य इत्येकया वा सर्पशिरस उपधानं भवति । अत्रैकमन्त्राणि कर्मा- णीति न्यायात् । विपूचीन, न पशुशिरसोऽभिमुखम् ॥ ६३ ।।

अपिवा यजुरेव वदेन्नोपदध्यात् ॥ ६४ ॥

ब्रूयात् न चातुःस्वर्येण जपति, इत्यनूक्तत्वान्नोपदध्यात्सर्प- शिरः । अथो खलूपधेयमेव यदुपद्धाति ! (ले० सं० ५-२-९) इति पुनर्वच- नात् । प्राकृतेऽसौ नित्यम् । एकविधादिषु गुणविकारेषु च 'यद्यजुर्वदति तेन शान्तम्' (५-२--९ ) इति । सूत्रकारस्य त्वेवंविधेषु यदर्थवादे फलमुद्दिश्य तत्कामस्य सह- विधिः । सदीप्तिः शान्तिरिति फलम् ॥ ६४ ॥

मा छन्दस्तत्पृथिव्यग्निर्देवता तेनर्षिणा तेन ब्रह्मणा तया देवतयाऽङ्गिरस्वद्ध्रुवा सीद । प्रमा छन्दस्तदन्तरिक्षं वातो देवता । प्रतिमा छन्दस्तद्द्यौः सूर्यो देवता । अस्रीविश्छन्दस्तद्दिशः सोमो देवता । विराट्छन्दस्तच्चक्षुः पूषा देवता । गायत्री छन्दस्तदजा बृहस्पतिर्देवता । त्रिष्टुप्छन्दस्तद्धिरण्यमिन्द्रो देवता । जगती छन्दस्तद्गौः प्रजापतिर्देवता । अनुष्टुप्छन्दस्तद्वा ग्वरुणो देवता । उष्णिहा छन्दस्तदायुर्मित्रो देवता ॥ । पङ्क्तिश्छन्दस्तत्कृषिः पर्जन्यो देवता । बृहती छन्दस्तदश्वः परमेष्ठी देवता तेनर्षिणा तेन ब्रह्मणा तया देवतयाऽङ्गिरस्वद्ध्रुवा सीदेति द्वादशभिस्त्रिरभ्यावर्तयन्षट्त्रिꣳशता पुरस्तात्प्रतीचीं पुरुषाकृतिं चितिं चिनोति ॥६५॥

मा छन्द इत्येवमादिभिर्दादशेषकास्त्रिरभ्यासमुपदधाति, प्रत्यगपवर्गम् । पशि- दिष्टका: प्रतीचीमिति च वैखानसे वचनात् ॥ १५ ॥ , $ . सत्यापाढविरचितं श्रौतसूत्रम्- [११ प्रभे

पुरुषशिरोऽस्याः शिरो भवति ॥ ६६ ॥

यया पुरुषस्याऽऽकृतिः सर्वाभिर्जायते तथा करोति । पुरुषशिरश्च यथास्थाने भवति प्राक्पाद उत्तान उर्वहस्तश्च क्रियत इति भाष्यकृत् ।। ६६ ॥

तामुपधाय सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपादिति पुरुषेण नारायणेनोपतिष्ठते ॥(ख० २१)॥६७॥

इति सत्याषाढहिरण्यकेशिसूत्र एकादशप्रश्ने सप्तमः पटलः ॥ ७ ॥

सहस्रशीर्षा पुरुष इति तां यजमान उपतिष्ठते, प्रत्यङ्मुखः ।। ६७ ॥ ... इति हिरण्यकशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोगचन्द्रि- ..... कायामेकादशप्रश्ने सप्तमः पटलः ।।

11.8 अथैकादशप्रश्नेऽष्टमः पटलः ।

अपस्या उपदधाति । अपां त्वेमन्त्सादयामीति पञ्च पुरस्तात्प्रतीचीः । अर्णवे सदने सीदेति पञ्च दक्षिणत उदीचीः । अपां त्वा सदने सादयामीति पञ्च पश्चात्प्राचीः । गायत्री छन्द इति पञ्चोत्तरतो दक्षिणाः ॥ १ ॥

अब्लिङ्गगतर्मन्त्ररुपधेया इष्टका अपस्याः । ताश्चोपध्यायत् । अपस्याः-अपर्णा त्वेमन्त्सादयामीति विंशतिः । पञ्च पुरस्तादग्नेः प्रत्यगपवर्गाः । पञ्च दक्षिणतोऽमेरुत्तरापवर्गा:-अर्णवे सदने सीदेति । अपां त्वा सदने सादयामीति पञ्च प्रागपवर्गाः पश्चादग्नेः । गायत्री छन्द इत्युत्तरतोऽग्नेर्दक्षिणापवर्गाः । पक्षयोः पुच्छे चार्णवे सदन इत्येवमाद्याः ॥ १॥

ये यज्ञं समगृभ्णन्देवा देवेभ्यः परि । तान्गायत्री नयतु प्रजानती स्वर्गे लोके अमृतं दुहाना । ये ज्योतीꣳषि संदधति स्वरारोहन्तो अमृतस्य लोकम् । ते यन्तु प्रजानन्तो यज्ञं विदानाः सुकृतस्य लोके । ये पशवो मेध्यासो यज्ञस्य योनिमभि संबभूवुः । तान्ददन्ते कवयो विपश्चितो यज्ञं विदानाः सुकृतस्य लोके । यः पन्था विततो १ क. सुवर्ग ८ पटलः ] महादेवशास्त्रिसंफलिसंप्रयोगचन्द्रिकाव्याख्यासमेतमें। ६७

देवयानश्छन्दोभिर्विगृहीतं एति । तेनातिष्ठद्दिव- मन्तरिक्षं यज्ञं गृहीत्वा सुकृतस्य लोकम् । यो यज्ञः सहस्रधारो द्यावापृथिव्योरधि निर्मितः । तेनैतु यजमानः स्वस्त्या दिवोऽधि पृष्ठमस्यादिति पञ्च हिरण्येष्टकाश्चतस्रः प्रतिदिशमेकां मध्ये ॥२ ॥

ये यज्ञमिति प्रतिमन्त्र प्रतिदिशं हिरण्येष्टकामुपदधाति । एकां मध्ये ॥ २ ॥

आयवे स्वाहा योष्कृते स्वाहा योष्यत्वने स्वाहा विष्णवे स्वाहा बृहस्पतये स्वाहेति पञ्च हिरण्येष्टकाश्चतस्रः प्रतिदिशमेकां मध्ये । त्रिवृत्ते अग्ने शिरस्तन्मे अग्ने शिरः पञ्चदशौ ते अग्ने बाहू तौ मे अग्ने बाहू सप्तदशस्ते अग्न आत्मा स मे अग्न आत्मैकविꣳशौ ते अग्न ऊरू तौ मे अग्न ऊरू त्रिणवौ ते अग्नेऽष्ठीवन्तौ तौ मे अग्नेऽष्ठीवन्तौ त्रयस्त्रिꣳशं ते अग्ने प्रतिष्ठानं तन्मे अग्ने प्रतिष्ठान- मित्येताः शिरसि पक्षात्पुच्छेषु श्रोण्योरꣳसयोरुपदधाति । त्रिवृत्ते अग्ने शिरस्तेन माऽभिपाहि पञ्चदशौ ते अग्ने बाहू ताभ्यां माऽभिपाहि सप्तदशस्ते अग्न आत्मा तेन माऽभिपाह्येकविꣳशौ ते अग्न ऊरू ताभ्यां माऽभिपाहि त्रिणवौ ते अग्नेऽष्ठीवन्तौ ताभ्यां माऽभिपाहि त्रयस्त्रिꣳशं ते अग्ने प्रतिष्ठानं तेन माऽभिपाहीत्युपहिता यज- मानोऽनुमन्त्रयते ॥ ख०२२ )॥ ३ ॥

आयवे स्वाहेति पञ्चानां हिरण्येष्टकानां यथावकाशमुपधानं मवति । त्रिवृत्ते अमे इत्येताः पञ्च मृदिष्टकाः शिरसि वा यथावकाशमित्येकेषां मतम् । उपहितानामिष्टकानां त्रिवृत्त इत्यनुमन्त्रणं यनमानस्य ॥ ३ ॥

अद्भ्यः संभूतः पृथिव्यै रसाच्च विश्वकर्मणः समवर्तताधि । तस्य त्वष्टा विदधद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्र इत्येतामुपधायर्तसदसि सत्यसदसि तेजःसदसि वर्चःसदसि यशःसदसि गृणानाऽसि । धामासि धाम्यै त्वा धामभ्यस्त्वा धामसु सीद । सनिरसि सन्यै त्वा सने . सत्यापाढविरचितं श्रौतसूत्रम्- . [११ प्रश्ने

सनेयम् । वित्तिरसि वित्त्यै त्वा विदेयम् ।शक्तिरसि शक्त्यै त्वा शकेयम् । भूतिरसि भृत्यै त्वा भूयासम् । कर्मासि कर्मणे त्वा क्रियासम् । गूर्दोऽसि गूर्दाय त्वा गूर्देभ्यस्त्वा गूर्दे सीद । क्षत्त्रं पाहि क्षत्त्रं पिन्व क्षत्त्रं जिन्व क्षत्त्रं यच्छ क्षत्त्रं दृꣳह क्षत्त्रमसि क्षत्त्राय त्वा क्षत्त्रेभ्यस्त्वा क्षत्त्रे सीद । विश्वेषु त्वा पार्थिवेषु सादयामि । विश्वेषु त्वान्तरिक्षेषु सादयामि । विश्वेषु त्वा दिव्येषु साद- यामि । विश्वेषु त्वा देवेषु सादयामि । विश्वासु त्वाऽप्सु सादयामि । विश्वासु त्वौषधीषु सःदयामि । विश्वेषु त्वा वनस्पतिषु सादयामि । विश्वासु त्वा दिक्षु सादयामि । दिवि सीद । स्वर्जिदसि पृतनाजिदसि भूरिजिदस्यभिजिदसि विश्वजिदसि सर्वजिदसि सत्राजिदसि धनजिदसि भ्राडसि विभ्राडसि प्रभ्राडसि । सपत्नहनं त्वा वज्रꣳ सादयामि । आभिमातिहनं त्वा वज्रꣳ सादयामि । अरातिहनं त्वा वज्रꣳ सादयामि । यातुहन त्वा वज्रꣳ सादयामि । पिशाचहनं त्वा वज्रꣳ सादयामि । रक्षोहणं त्वा वज्रꣳ सादयामि । शत्रुहणममित्रहणं भ्रातृव्यहणमसुरहणं त्वेन्द्रं वज्रꣳ सादयामि । उद्वदस्युदितिरस्युद्यत्यस्याक्रममाणाऽस्याक्रामन्त्यस्याक्रा- न्तिरसि संक्रममाणाऽसि संक्रामन्त्यसि संक्रान्तिरसि स्वर्ग्याऽसि स्वरसि । इषि सीदोर्जि सीद भगे सीद द्रविणे सीद सुभूते सीद पृथिव्या यज्ञिये सीद् विष्णोः पृष्ठे सीदेडायाः पदे सीद घृतवति सीद पिन्वयाने सीद । संवत्सरे सीद परिवत्सरे सीदेदा(डा)वत्सरे सीदेदुवत्सरे सीदेद्वत्सरे सीद वत्सरे सीद । एकस्याँ सीद दशसु सीद शते सीद सहस्रे सीदायुते सीद नियुते सीद प्रयुते सीदार्बुदे सीद न्यर्बुदे सीद समुद्रे सीद मध्ये सीद पद्मे सीदान्ते सीद परार्धे सीद । पिन्वमानाऽसि पिन्वमानाय त्वा पिन्वमानेभ्यस्त्वा पिन्वमाने सीद । ऋतमस्यृताय त्वर्तेभ्यस्त्वर्ते सीद । सत्यमसि सत्याय त्वा सत्येभ्यस्त्वा सत्ये सीद । संधिरसि ८ पटलः ] महादेवशास्त्रिसंकलितपयोगचन्द्रिकाव्याख्यासमेतम् । ६६ '

संधये त्वा संधिभ्यस्त्वा संधिषु सीद । सꣳश्लिडसि सꣳश्लिषे त्वा सꣳश्लिड्भ्यस्त्वा सꣳश्लिट्त्सु सीद । संपदसि संपदे त्वा संपद्भ्यस्त्वा संपत्सु सीदेत्येताभ्यामनुवाकाभ्यामृषीष्टका उपदधाति ॥ ४ ॥

मृदिष्टका यथावकाशम् -अन्यः संभूत इति च । ऋतसदसीति सप्त, सनिरसीति पञ्च, गूर्द इति षष्टः । क्षत्रं पाहीति षट् । विश्वेषु त्वा पार्थिवेषु सादयामीति दिवि सीदेत्येवमन्ता दश । स्वर्षि:सीत्येवमाद्याः प्रभाडसीत्येवमन्ता एकादश । सपत्नहनमित्याचा वजाः सप्त । उदसीत्येकादश । इपि सीदेति दश । संवत्सरे सीदेति षट् संवसराः । एकस्या५ सीदेति च र्दश । पिन्वमानाऽसीति षट् संपदन्ताः । ये तु सादनं न प्रवदन्ति ते अनुवाकाः शाखान्तरे । ये तु सादनं प्रवदन्ति तेषामनुवाकपरिमाण नोक्तम् । सर्वा एता ऋषीष्टका इत्युच्यन्ते । केचित्त्वाहु:-अनुवाका एव ऋषीष्टका इति । प्रथमचित्र स्त्वेिते तस्य मन्त्राणां मध्य आम्नानात् । प्रथमस्य त्वग्ने ऋषीष्टका उपधाय लोकंपृणाः । त एव प्राणभृतो गणप्रभृतय इति । न च गणभेदो युक्तः, बौधायनमतान्मन्त्रलिङ्गाच्च यदेकधोपदध्यात् । इति । केचित्तु द्विपस्तारे प्रथमेऽप्यग्नौ प्राणभूदादीनामुपधानं कृत्वा, ऋषभस्य च पुरी(पान्तीपोपधानं कुर्वन्ति । पुरीपान्ता चितिरिति वचनात् । पश्चाच्च द्वितीयां चितिम् । तस्मिन्नेव प्रस्तारे पुरीषान्तां कुर्या: दिति । एवं तु सूत्रकाराभिप्रायः । द्विस हा द्विपस्ताराश्चितयो भवन्तीति न साहले। केचित्तु ऋषीष्टकाः परित्यज्याधिकविधिरनित्य इति । अयं पुरो भुव इत्येव कुन्ति प्रथमे प्यग्नौ । तथाऽपि गणमेदो जायत एवातो द्वितीये तृतीये वाऽग्नौ प्राणभूदानामुपयोगः । प्रथमायां चित्यामेव सूत्रकारेणाऽऽन्नानात् ॥ ४॥

अयं पुरो भुव इति पञ्चाशतं प्राणभृतः । दश दश प्रतिदिशमक्ष्णया दश । मध्ये बाह्यां बाह्यामुपधायान्तरामन्तरामुपदधाति ॥ ५ ॥

प्राणभृतः, अयं पुरो भुव इति पञ्चाशतमुपदधाति । दश दश तु प्रतिदिशमक्ष्णया वक्रमुपदधाति । दश मध्ये ता अक्ष्णया, अग्नेरभ्यन्तरमुपधाय बाह्याः पश्चादुपदधाति । यद्वा-एतैर्मन्त्रैः साध्यमुपधानमाह-प्राणभृतमुपदधाति (ले० सं० ५२-१०) इत्यादि सामान्येन विहितं पुनर्विशेषाकारेण विधत्ते-अयं पुरो भुव इति पुरस्तादुपदधाति प्राणमेवैताभिर्दाधाराय दक्षिणा विश्वकर्मेति दक्षिणतो मन एवैताभिर्दाधाराय पश्चाद्विश्वव्यचा इति पश्चाच्चक्षुरेवैताभिर्दाधारेदमुत्तरात्सुवरित्युत्तरतः श्रोत्रमेवैताभिदर्दीधारेयमुपरि मतिरित्युपरिष्टाद्वाचमेवैताभिदार्धार (तै० सं० ५-९-१०) इति । - सत्यापाढविरचितं श्रौतसूत्रम्- - .. [ ११ प्रश्न एकैकस्यां दिश्युपधेयावामिष्टकानां संख्यां विधत्ते --. दश दशोपदधाति । (५-२-१०) इति । एकैकं मन्त्रं दशकृत्व आव] दशेष्टका उपदध्यात् । अत्रोपयाने वक्रत्वं विधत्ते-- 'अक्ष्णयोपदधाति । (५-२-१० ) इत्यादि । प्रतांच्यामुपक्रम्य प्राध्यामबमाने सत्यार्जवं भवति । नैर्ऋत्यामुपक्रम्यशान्यां समापनं. वक्रत्वम् । एवमितापि । तदिदमक्ष्णयेत्यनेनोच्यते । कनु- प्राणभृत उपदधाति '(१-४-१८ ) इत्यत्रापि पूर्ववदेव मन्त्रीपादान, मर्थवादार्थ विध्यर्थं वेति विवेक्तव्यम् । निमित्तान्तरकथनार्थं तु सूत्रान्तरम् । तत्र हि भूनाशल्दप्रयोगः । इह तु लिङ्गवतामरूपत्वात्तत्समवायमात्रेण शब्दप्रवृत्तिः । प्राण: भृद्गणे हि प्राणभृत्समवायोऽस्ति । प्राणभृदप्राणभृद्णेऽपि. प्राणभृत्समवायोऽस्तीत्यनेन्द सादृश्येन शशभृच्छन्दः । तदेवम् –'वसिद्धिजातिसारूप्यप्रंशसालिङ्गभूमिभिः । षड्मिः सर्वत्र शब्दानां गौणी वृत्तिः प्रकल्पिता ॥ ५ ॥

प्राची दिशां वसन्त ऋतूनामिति पञ्चाशतमपानभृतो यथा प्राणभृतोऽन्तरामन्तरामुपधाय बाह्यां बाह्यामुपधाति ॥ ६ ॥

अपानभृतः प्राचीदिशामित्युपदधाति, यथा प्राणभूतः । प्रतिदिशमक्ष्णया च बाह्या मुपया या स्तरोपधीयते । यदा-अन्तर्देशे प्राणभृदाख्याः पूर्वोक्ता इष्टका उपधाय बहिर्देश संयदाख्या इमा अपानभृत इष्टका उपदध्यात् ॥ ६ ॥ प्राणभृद्भच्चो विपरीतप्रकारं विधत्ते-

विषूची प्राणभृतं चापानभृतं चोपदधाति ॥ ७ ॥

यस्मात्प्राणभृतामपानभूतां चान्योन्यविपर्ययक्रमः, तस्माल्लोकेऽपि प्राणापामावन्योन्य विपरीतस्वरूपौ । बहिर्गतिः प्राणोऽन्तर्गतिरपानः ॥ ७ ॥

आयुषः प्राणꣳ संतन्वित्येतेनानुवाकेन संयत उपदधाति ॥(ख०२३)॥८॥

आयुषः प्राणमिति द्वादश संततीरित्यापस्तम्बः, अनियतदेशाः ॥ ८॥

पृथिव्यसि जन्मना वशा साऽग्निं गर्भमधत्ताः(त्थाः) सा मया संभव । द्यौरसि जन्मना वशा साऽऽदित्यं गर्भमधत्ताः(त्थाः) सा मया संभव । नक्षत्राण्यसि जन्मना वशा सा चन्द्रमसं गर्भमधत्ताः(त्थाः) सा मया संभव । आपोऽसि जन्मना वशा सा वरुणं गर्भमधत्ताः(त्थाः) सा मया संभव । औषधोऽसि जन्मना वशा सा सोमꣳ राजानं गर्भम ७१ ८ पटलः महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् ।

धत्ताः(त्थाः)सा मया संभव । वयोविनिरसि जन्मना वशा(साजरां) सा मह्यं गर्भमधत्ताः(त्थाः) सा मया संभव । विराडसि जन्मना वशा सा राजानं गर्भमधत्ताः(त्थाः)सा मया संभवेत्येते नानुवाकेन वशेष्टका उपदधाति ॥ ९ ॥

पृथिव्यसीत्यारभ्य सप्त वशाः । पञ्च वशा इत्यापस्तम्बः ॥९॥ .

या देव्यसीष्टक आयुर्दा उपशीवरी । सा मामुपवेशेषु जायेव पतिमित्सदा ॥ या देव्यसीष्टके प्राणदा अपानदा व्यानदाश्चक्षुर्दाः श्रोत्रदाः पृथिविदा अन्तरिक्षदा द्यौर्दाः सुव(स्व)र्दाः कुमारीदाः प्रफर्वीदा युवतिदा उपशीवरी । सा मामुपवेशेषु जायेव पतिमित्सदेत्येतेनानुवाकेनोपशीवरीरुपदधाति ॥ ११.८.१० ॥

स्पष्टोऽर्थः ॥ १० ॥

अर्थेतः स्थाध्वगतोऽग्नेर्वस्तेजिष्ठेन तेजसा देवताभिर्गृह्णामि । शुक्राः स्थ वीर्यावतीरिन्द्रस्य व इन्द्रियावतो देवताभिर्गृह्णामि । अधिपत्नीः स्थ तेज स्विनीरादित्यानां वो देवानां देवताभिर्गृह्णामि । मन्द्राः स्थाभिभुवो विश्वेषां देवानां देवताभिर्गृ ह्णामि । क्षत्रभृतः स्थौजस्विनीर्मित्रावरुणयोर्ब्रह्मणा देवताभिर्गृह्णामि । व्रजक्षितः स्थ ऊर्ध्वश्रितो बृहस्पतेर्वो ब्रह्मणा देवताभिर्गृह्णामीति द्वादश कुम्भेष्टका अद्भिः पूरयित्वा षट्कुम्भान्षट्कुम्भी र्हिरण्यवर्णाः शुचयः पावका इत्येतेनानुवाकेन प्रतिमन्त्रं कुम्भं कुम्भीं च प्रतिदिशमनुसीतमुपदधाति । चतस्रो मध्ये ॥ ११ ॥

अर्थतः स्थाध्वगत इति ग्रहणमपां कुम्भकुन्भ्योश्च युगपदिति भाष्यकृत् । अपामभिधा. यका मन्त्रा इति । अशक्तावेकैकस्य पूरणमिति न्यायाच्च । कुम्भेष्टकानां द्वे द्वे समान, सया देवते । वाजसनेयिनां पाठात्-शर्म च स्थ वर्म च स्थ देवस्य वः सवितुः प्रसदे मधुमतीः सादयामि तया देवतयाऽङ्गिरस्व वा सीदतमिति तथा पुरस्तादनेरुपदधाति ७२ . सत्यापाढविरचितं श्रौतसूत्रम्- [११ प्रश्नेयथासीतम् । कुम्भमपरतः कुम्भी पूर्वतः । ज्योतिषे वामिति हिरण्यशल्क(ल्को तयोः प्रक्षिपतीत्यापस्तम्बवैखानसौ । युगपत्कुम्भकुम्भ्योश्च द्विवचनत्वान्मन्त्रस्य। एवमनेन कारण पूरणमुपधानं हिरण्यशल्कक्षेपश्चोत्तरा उत्तरमन्त्रैः प्रतिदिशं तूपधीयन्ते । दक्षिणतो द्वे तथाऽपरत उत्तरतश्च कुम्भो दक्षिणतश्च कुम्भीमुत्तरतोऽनुसीतं च । सर्वत्राधस्तात्पाषाणेष्वेवावस्थानं कुम्भेष्टकानाम्-यदपोऽशेरधस्था( स्ता )दुपदधाति (ले० सं० ५... ६-२) इति । एवमपरतोऽपि तथैव कुम्भोऽपरतः कुम्भी पूर्वतः । उत्तरतः कुम्भो दक्षिणतः कुम्भी, उत्तरतश्चतस्रस्तु मध्ये ता अनुसीत द्वे द्वे समानतया देवते, पूर्वदि. वर्तिनीषु तिसृषु सीतासु कुम्भं कुम्भी चेति द्वंद्वम् । एवं दिगन्तरेष्वपि । तदिदमु. च्यते-- द्वंद्वमन्या उपदधाति चतस्त्रो मध्ये धृत्यै '(त० सं०५-६-३) इति । द्वादशाना मध्ये दिक्चतुयेऽष्टौ गताः । अथावशिष्टाश्चतस्रो मध्ये स्थापयेत् । तच्च धृत्यै दाढ्याय भवति ॥ ११ ॥

दिवि श्रयस्वान्तरिक्षे यतस्वेति बार्हस्पत्यं नैवारं चरुं पयसि शृतं मध्ये कुम्भेष्टकानाम् ॥ १२ ॥

उपदधातीत्यनुवर्तते । दिवि श्रयत्वेत्युपधान नैवारस्य, वार्हस्पत्यसंकल्पेन लौकिकेऽग्नौ ( नेवारपचनं ) नैवारचरुश्रपणं भवति । गार्हपत्ये पचनमिति भाष्यकृत् । केचित्त-हिरण्यवर्णा इत्यारभ्य मातर इत्यन्ता द्वादशः कुम्भकुम्भ्योरुपधाने विनियुज्यावशिष्टे । तस्मा अरम्-दिवि श्रयस्वान्तरिक्ष इति च नैवारोपस्थानं कुर्यान्नैवारस्य चरोनॊपधानमिति व्याचक्षते ॥ १२ ॥

तेजसे वां वर्चसे वां चक्षुषे वां ज्योतिषे वाꣳ रेतसे वां प्रजाभ्यो वामिति द्वौ द्वी हिरण्यशकलानुपास्यति ॥ १३ ॥

तेजसे वामिति हिरण्यशकल(लौ त)योः लिपति । युगपत्कुम्भकुम्भ्योश्च द्विवचनत्वान्मन्त्रस्य ॥ १३ ॥

त्वामग्ने वृषभं चेकितानमित्यृषभं हिरण्यशकलं चितौ प्रास्य चितिमचितिं चिनवदिति चिति. क्लृप्त्याऽभिमृशति ॥ (ख० २४) ॥ १४ ॥

स्थामने वृषभमित्वृषभोपधानमुत्क्रमेणापि प्रथमेऽसौ क्रियते । चित्या चित्यामृषभ. मुपदधाति, इति । लोकंपृणाश्च पूरणार्थाः । लोकं पृण च्छिद्रं पृणेति लिङ्गात् । लोकपृण ता अस्य सूददोहस इति लोकंटणामिश्छादयति सर्वमग्निम् । सर्वांन्वर्णानिष्टकानां (करोति )कुर्यादिति श्रुतिः । न श्वेतपीतादीन्वर्णानिदधाति । लेखा वर्णा इत्युच्यन्ते, ८ पटलः ] . महादेवशास्त्रसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ७३

श्रुत्यन्तर एवं विहितल्वात् । चितौ हिरण्यं स्थापयित्वा चित्तिभचित्तिमित्यभिमृशति । चितिक्लप्पिरित्यस्या नामधेयम् ॥ १४ ॥

यत्तेऽचितं यदु चितं ते अग्ने यदूनं यद्वाऽत्राति रिक्तम् । विश्वे देवा अङ्गिरसश्चिन्वन्नादित्यास्ते चितिमापूरयन्तु ॥ यास्ते अग्ने समिधः ॥ चित्तिमचित्तिम् । वयमग्ने धनवन्तः स्यामालं यज्ञायोत दक्षिणायै । ग्रावा वदेदभि सोमस्याꣳशुनेन्द्रं शिक्षेमेन्दुना सुतेन ॥ रायस्पोषं नो धेहि जातवेद ऊर्जो भागं मधुमत्सूनृतावत् । दधाम यज्ञं सुनवाम सोमं यज्ञेन त्वामुपशिक्षेम शक्र ॥ ईशानं त्वा शुश्रुमो वयं धनानां धनपते गोमदग्ने । अश्वावद्भूरिपुष्टं हिरण्यवदन्नमध्येहि मह्यम् ॥ दुहां ते द्यौः पृथिवी पयोऽजगरस्त्वा सोदको विसर्पतु । प्रजापतिनाऽऽत्मानमाप्रीणे रिक्तो म आत्मा । यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु देवा इति सप्तभिः स्वयंचित्याऽभिमृश्य लोकंपृणाभिः प्रच्छादयति ॥ १५॥

यत्तेऽचितमित्यारभ्यताभिरष्टाभिरभिमृश्य लोकंपृणाभिः प्रच्छादयति सर्वमग्निम् ॥ १५ ॥

द्वाभ्यां द्वाभ्यां मन्त्राभ्यामेकैकां लोकंपृणामुपदधाति ॥ १६ ॥

पूर्वयोपधाय सूददोहसाऽभिमृशति॥ १७ ॥

चित्तिमचित्तिमित्यभिमृश्य यतेऽचितमित्यारभ्यताभिरभिमृशत्यष्टाभिः ॥ १६॥ १७ ॥

सर्वास्विष्टकासु तया देवतमन्ततो दधाति ॥ १८ ॥

इष्टकोपधानेषु मन्त्रान्ते तया देवतयाऽङ्गिारस्व वा सीद, इत्यन्तः ॥ १८ ॥

कृष्णोऽश्वः श्यावो वोत्तरतस्तिष्ठति । तमालभ्य चात्वालात्पुरीषमाहृत्य पृष्टो दिवीत्यनुव्यूहति ॥ १९ ॥ सा चितिर्भवति ॥ ११.८.२० ॥

उत्तरत उत्तरतोऽग्नेस्तिष्ठति कृष्णाश्च उपधानादारभ्य, श्वेतो वा । तमुपस्पृश्य चात्वालात्पुरीषमाहृत्य वैश्वानर्यर्चा पुरीषमनुव्यूहति, नैवमुपदधाति । वैश्वानर्यर्चा पुरी १० सत्यापाढविरचितं श्रौतसूत्रम्-...... १६ प्रभेपमुपदधाति, इति श्रुतिः । पुरीषान्ता श्रु(चि)तिर्भवति । प्रत्यवरोहण वाङ्म आसनित्युक्त्वा ॥ १९ ॥ २० ॥

यो अप्स्वन्तरग्निर्यो वृत्रे यः पुरुषे यो अश्मनि । य आविवेश भुवनानि विश्वा तेभ्यो अग्निभ्यो हुतमस्त्वेतत् । यꣳ हुतादमग्निं यमु काममाहुर्यं दातारं प्रतिग्रहीतारमाहुः । यो देवानां देवतमस्त्वः(स्त)पोजास्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् । पृष्टो दिवीत्येषा । यः सोमो अन्तर्यो गोष्वन्तर्वयाꣳसि य आविवेश यो मृगेषु । य आ विवेश द्विपदो यश्चतुष्पदस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् । येनेन्द्रस्य रथꣳ(थाः) संबभूवुर्यो वैश्वानर उत वैश्वदेव्यः ॥ धीरो यः शु(श)क्रः भ(प)रि भूरिदाभ्यस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् । उक्षान्नाय वशान्नायेति षड्भिश्चितिं चितिमुपधायाभि जुहोति ॥ २१ ॥

यो अप्स्वन्तरनिरिति षड्भिश्चितिं चितिमुपधाय पुरीषान्तामुपरि जुहोति । सर्वत्रानिर्देवता । चितावेव हिरण्यं निधाय तस्य. जुहुयादित्येके ॥ २१ ॥

एवमेतान्यत ऊर्ध्वमृषभप्रभृतीनि सर्वेषु चित्यन्ते समानानि क्रियन्ते ॥ २२ ॥

सर्वेषु वक्ष्यमाणचित्यन्तेषु चर्षभप्रभृतीनि कर्माणि समानान्येव ॥ २२ ॥

आग्नेय्या गायत्रिया प्रथमां चितिमभिमृशेत् । त्रिष्टुभा द्वितीयाम् । जगत्या तृतीयाम् । अनुष्टुभा चतुर्थीम् । पङ्क्त्या पञ्चमीम् । सर्वासां धामच्छद्द्वितीया । अग्ने भूरीणि तव जातवेद इति धामच्छत् । अग्ने देवाꣳ इहाऽऽवह जज्ञानो वृक्तबर्हिषे । असि होता न ईड्यः । अगन्म महा मनसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे । चित्रभानू रोदसी अन्तरुर्वी स्वाहुतं विश्वतः प्रत्यञ्चम् ॥ मेधाकारं विदधस्य प्रसाधनमग्निं होतारं परि भूतमं मतिम् । त्वामर्भस्य हविषः समानमित्त्वां महो वृणते नरो नान्यं त्वत्। मनुष्वत्त्वां निधी ८ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाध्याासमेतम् । ७५ .

महि मनुष्वत्समिधीमहि । अग्ने मनुष्वदङ्गिरो देवान्देवायते यज । अग्निर्हि वाजिनं धिशे ददाति विश्वचर्षणिः । अग्नी राये स्वाभुवꣳ स प्रीतो याति श्वाऽऽर्यमिषꣳ स्तोतृभ्य आभरेत्येता आम्नाता भवन्ति ॥ २३ ॥

अग्ने भूरीणाति सप्तमी जुहोतीत्यापस्तम्बः । उपरथानं करोति चितेरिति वैखानसः । आग्नेय्या गायत्र्या प्रथमां चितिमभिमृशेत् , इति ब्राह्मणोत्तम् । अग्निर्यस्या देवता गायच्या प्रथमां चितिमेतया होमे कृतेऽभिमृशति । त्रिष्टुभाऽभिमृशति द्वितीयाम् । अगत्या तृतीयाम् | अनुष्टुभाऽभिमृशति चतुर्थीम् । पङ्क्त्याऽभिमृशति पञ्चमीम् | अग्ने भूरीणीति धामच्छत् । अग्ने देवार इहाऽऽवह इत्येवमाद्या आग्नेय्या गायत्र्या प्रथमा चितिमभिमृशेत् । तस्मिन्नाम्नाये शाखान्तर आम्नाताः पवत्यन्ताः ॥ २३ ॥

षडुपसदः ॥ २४ ॥

उपसदोऽग्निसंयोगेन षड्भवन्ति । सोमानमपि सत्यं चित्यसंयोगे षड्भमन्ति ॥ २४ ॥

अनुपसदमग्निं चिनोति । अन्वहमेकैका चितिद्वयहमुत्तमा चितिः ॥ २५ ॥

यह द्वयहमेकैकेनोपसन्मन्त्रेण जुहोति । अनुपसदमान चिनोति द्वयहम् | उत्तमा 'चितिः, (आप० श्री० १६-१०-२३) इत्यापस्तम्बः । उपसदमनु अनुपसदम् । 'उपसदि समाप्तायामनिं चिनोति, प्रवर्यः पश्चात् । उपसदो न लम्यन्त इति भाष्यकृत् । उपसदमेवं कृत्वाऽग्निं चिनोतीति सूत्रकाराभिनायः । द्वयहमुत्तमा चितिः [ इति ] द्वाभ्यां पारसमाप्यते ॥ २५ ॥

त्रीणि चतुस्तनानि व्रतानि भवन्ति । एवं त्रिस्तनानि द्विस्तनान्येकस्तनानि ॥ २६ ॥

व्रतानि त्रीणि चतुस्तनानि क्रयदिवसस्य रात्र्या व्रतानि भवन्ति । एवं त्रीणि निस्तनानि त्रीणि द्विस्तनानि व्रतान्यग्नीषोमायदिन एकस्तनम् ॥ २६ ॥

आपराह्निकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचर्य यदक्रन्दः प्रथमं जायमान इति श्वेतमश्वं प्रदक्षिणं परिणीय वसन्ति वसन्ति ॥ ख० २५) ॥ २७ ॥

इति सत्याषाढहिरण्यकेशिसूत्र एकादमप्रश्नेऽष्टमः पटलः ॥ ८ ॥

इति सत्याषाढसूत्र एकादशप्रश्नः ॥ ११ ॥