सामग्री पर जाएँ

कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्/प्रश्नः ०७

विकिस्रोतः तः
← प्रश्नः ०६ कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्
प्रश्नः ०७
हिरण्यकेशिः/सत्याषाढः
प्रश्नः ०८ →

आनन्दाश्रमसंस्कृतग्रन्थावलिः ।
ग्रन्थाङ्कः ५३
सत्याषाढविरचितं श्रौतसूत्रं
गोपीनाथभट्टविरचितज्योत्स्नाव्याख्यासमेतम् ।
तत्र
सप्तमाष्टमप्रश्नद्वयात्मकः प्रथमो भागः।
एतत्पुस्तकं
वे० शा० सं० रा०रा० काशीनाथशास्त्री आगाशे
इत्येतैः संशोधितम् ।
तच्च
 हरि नारायण आपटे
इत्येतैः
पुण्याख्यपत्तने
आनन्दाश्रममुद्रणालये
आयसाक्षरैर्मुद्रयित्वा
प्रकाशितम् ।
शालिवाहनशकाब्दाः १८३०
ख्रिस्ताब्दाः १ꣳ०८
(अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वाय....
ॐ तत्सद्ब्रह्मणे नमः।
सत्याषाढविरचितं श्रौतसूत्रं ।
गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ..
अथ सप्तमप्रश्नप्रारम्भः ।
तत्र प्रथमः पटलः।
सर्वकामोऽग्निष्टोमः।
युगपत्कामयेत।
आहारपृथक्त्वे वा।
तेन वसन्ते वसन्ते यजेत।
तस्य नानुपक्रान्तयोर्दर्शपूर्णमासयोराहारः।
स प्रथमः सोमानाम् ।
अतिरात्रमेके प्रथमं यज्ञमधीयते ।
अमावास्यायां यजनीयेऽहनि दीक्षते
पौर्णमास्यां यजनीयेऽहनि सुत्यमहः ।
अमावास्यायां पौर्णमास्यां वा ।
यदि त्वेका दीक्षा दे तिस्रश्चतस्रोऽपरिमिता वा तत्रापर्वणि सुत्यमहर्दीक्षा वा।
महन्मेऽवोचो यशो मेऽवोचो भर्गो मेऽवोचो भुक्तिं मेऽवोचः स्तोमं मेऽवोचः सर्वं मेऽवोचस्तन्माऽवतु तन्मा विशतु तेन भुक्षिषीयेति वृतो वृतो जपति ।
देवो देवमेतु सोमः सोममेत्वृतस्य पथा विहाय दौष्कृत्यमित्यभिप्रव्रजति ।
पद्वा नामासि श्रुतिः सोमसरणी सोमं गमेयमिति पन्थानमातिष्ठते ।
पितरो भूरिति त्रिः पितॄनभिमन्त्रयते ।
दीक्षिष्यमाणस्याग्निर्यजुर्भिरिति द्वादश संभारयजूꣳषि जुहोति ।
सप्तहोतारं मनसाऽनुदुत्य सग्रहꣳ हुत्वा दीक्षणीयामिष्टिं निर्वपति ।
आग्नावैष्णवमेकादशकपालमाग्नावैष्णवं वा घृतेचरुम् ।
सप्तदश सामिधेन्यः ।
न यजमान भागमवद्यति सर्वेषु सौमिकेष्विष्टिपशुबन्धेषु ।
नान्वाहार्यं ददाति ।
ध्रुवायाः शेषं करोति ।
पत्नीसंयाजान्ता दीक्षणीया संतिष्ठते भक्षयित्वाऽऽज्येडा विरमन्ति ।
धारयत्याहवनीयम् ।
प्राचीनवꣳशं विमितं विमिन्वन्ति ।
परिश्रयन्तः स्रक्तिष्वतीरोकान्कुर्वन्ति ।
उत्तरपूर्वमवान्तरदेशं प्रति पञ्चमम् ।
दिक्षु द्वाराणि ।
एकद्वाराः काम्याः कल्पाः ।
प्राग्द्वारꣳ स्वर्गकामस्य दक्षिणाद्वारं पितृलोककामस्य प्रत्यग्द्वारं मनुष्यलोककामस्योदग्द्वारं प्रजाकामस्यो- त्तरतःपुरस्ताद्यः कामयेतोभयोर्लोकयोर्ऋध्नुयामिति ।
सर्वतोद्वारं यः कामयेत सर्वासु दिक्ष्वृध्नुयामिति ।
प्रतिमायाश्च कुर्वन्ति दिक्षु प्रघाणरूपाणि ।
उत्तरेण प्राग्वꣳशं परिश्रिते यजमानस्य केशश्मश्रूणि वापयते ।
श्म्रश्रूण्यग्रे वापयतेऽथोपपक्षावथ केशान् ।
आप उन्दन्तु जीवस इति दक्षिणं गोदानमुनत्ति ।
ओषषे त्रायस्वैनमित्यूर्ध्वाग्रामोषधिमन्तर्दधाति ।
स्वधिते मैनꣳ हिꣳसीरिति क्षुरेणाभिनिदपाति ।
देवश्रूरेतानि प्रवप इति प्रवपति ।। १ ।।
अभ्यन्तरं नखानि निकृन्तते हस्त्यान्यग्रेऽथ पद्यानि सव्यस्याग्रे कनिष्ठिकातोऽथ दक्षिणस्य ।
स यदाऽक्ताक्षो भवत्यथैनमेकविꣳशत्या दर्भपुञ्जीलै स्त्रेधा विभक्तैस्त्रिः सप्तभिः सप्तभिः पावयति चित्पतिस्त्वा पुनात्वित्येतैर्मन्त्रैर्द्विरूर्ध्वं नाभेरुन्मार्ष्टि सकृद- वाङवमार्ष्ट्यच्छिद्रेण पवित्रेणेति सर्वत्रानुषजति ।
तं प्राग्वꣳशं प्रपाद्यात्र दीक्षणीयामेके समामनन्ति ।
ध्रुवाशेषादाकूत्यै प्रयुजेऽग्नये स्वाहेति स्रुवेण चतस्रो दीक्षाहुतीर्जुहोति ।
आपो देवीरिति स्रुचा पञ्चमीम् ।
विश्वे देवस्य नेतुरिति षष्ठीं द्वादशगृहीतेन स्रुचं पूरयित्वा बिलावकाशां वा कृत्वोत्तमस्रुवेऽभिपूरयत्युपोत्तमे वा ।
कृष्णाजिनस्य दक्षिणं पूर्वपादमन्तर्माꣳसं परिषीव्यति ।
द्वे वा विषूची माꣳससꣳहिते करोति ।
इन्द्रशाक्वर गायत्रीं प्रपद्ये तां ते युनज्मीन्द्रशाक्वर त्रिष्टुभं प्रपद्ये तां ते युनज्मीन्द्रशाक्वर जगतीं प्रपद्ये तां ते युनज्मीन्द्रशाक्वरानुष्टुभं प्रपद्ये तां ते युन- ज्मीन्द्रशाक्वर पङ्क्तिं प्रपद्ये तां ते युनज्मीत्यन्तर्वेदि कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमाऽऽस्तृणाति ।
तदारूदे यजमाने पत्न्याः शिरसि जालं प्रतिमुञ्चति ।
तामहतेन क्षौमेण वाससोर्ध्ववास्येन दीक्षयति ।
शरमुञ्जानां मेखला त्रिवृद्वेणी कार्या ।
ऊर्गसीति तया यजमानं नाभिदेशे त्रिः प्रदक्षिणं परिव्ययति द्विरित्येके पूषा ते ग्रन्थिं ग्रथ्नात्वित्युतरतो नाभेर्निष्टर्क्यं ग्रन्थिं कृत्वा स ते मा स्यादिति दक्षिणतो नाभेः परिकर्षति यं द्विष्यात्तं ध्यायेत्।
सं त्वा नह्यामीति पत्नीꣳ संनह्यति यथा दर्शपूर्णमासयोः ।
इन्द्रस्य योनिरसीति त्रिवलिं पञ्चवलिं वा कृष्णविषाणां यजमानाय प्रयच्छत्याबध्नाति वा ।
पत्न्याः शिरसि जालं यथा सुष्ठु कल्पयति ।। २ ।।
औदुम्बरो दीक्षितदण्डो यो वा कश्चन वृक्षः फलग्रहिस्तस्य ।
मुष्टिमात्रो मुखेन संमितश्चुबुकदघ्नो वा ।
ऊर्ध्वसूरसि वानस्पत्यः सुद्युम्नो द्युम्नं यजमानाय धेहीति तं यजमानाय प्रदाय संभारयजूꣳषि वाचयति जुहोति चैतैर्मन्त्रैः ।
तं वाग्यतमदीक्षिष्टायं ब्राह्मणोऽसावामुष्यायणोऽमुष्य पुत्रोऽमुष्य पौत्रोऽमुष्य नप्ताऽमुष्याः पुत्रोऽमुष्याः पौत्रोऽमुष्या नप्तेति त्रिरुपाꣳश्वावेदयति त्रिरुच्चैः ।
असाविति नाम गृह्णात्यामुष्यायण इति पितुर्नामधेयेन ।
यः कश्चिद्दीक्षते ब्राह्मण इत्येवाऽऽवेदयेत् ।
देवाञ्जनमगन्यक्षस्ततो मा यज्ञस्याऽऽशीरागच्छतु गन्धर्वाञ्जनमगन्यज्ञस्ततो मा यज्ञस्याऽऽशीरागच्छतु पितॄञ्जनमगन्यज्ञस्ततो मा यज्ञस्याऽऽशीरागच्छत्वप ओषधीर्वनस्पतीञ्जनमगन्यज्ञस्ततो मा यज्ञस्याऽऽशीरागच्छतु पञ्चजनाञ्जनमगन्यज्ञस्ततो मा यज्ञस्याऽऽशीरागच्छतु वर्धतां भूतिर्दध्ना घृतेन मुञ्चतु यज्ञो यज्ञपतिमꣳहसो भूपतये स्वाहेत्यभिमन्त्रयते
यद्यन्यत्र कृष्णाजिनादासीत नित्यवृत्तावत ऊर्ध्वम् ।
अग्नीञ्ज्योतिष्मतः कुरुत दीक्षित वाचं यच्छ पत्नि वाचं यच्छेति पुरादयमधिवृक्षसूर्ये च व्रतप्रदः संप्रेष्यति ।
उदितेऽस्तमिते च व्रतं दोहयति वत्सस्यैकꣳ स्तनमवशेष्य ।
गार्हपत्ये दीक्षितस्य व्रतꣳ श्रपयति पत्न्या दक्षिणाग्नौ ।
अपरेणाऽऽहवनीयं व्रतमत्याहृत्य दीक्षिताय प्रयच्छति ।
भद्रादभि श्रेयः प्रेहीति दीक्षितं प्रयातमनुमन्त्रयते ।
दीक्षितस्य यूपं छिनत्ति यथा निरूढपशुबन्धे ।
न यूपाहुतिं जुद्दोति होमार्थामृचं जपित्वाऽभिप्रव्रजति ।
अपि वाऽऽज्यमरणी चाऽऽआदाय यूपस्यान्तिकेऽग्निं मथित्वा यूपाहुतिꣳ हुत्वा यूपं छिनत्ति ।
क्रीते वा राजन्याहवनीये यूपाहुतिꣳ हुत्वा यूपं छिनत्ति ।
अग्नीषोमीयसवनीययोरनूबन्ध्यायाश्च ।। ३ ।।
समानो यूपः स्वरुराहवनीयो हृदयशूलश्च ।
अपवृत्ते दीक्षापरिमाणे ।
उत्तरवेदिदेश उपरवाणां वा लोहितमानडुहं चर्म प्राचीनग्रीवमुत्तरलोमाऽऽस्तीर्य तस्य दक्षिणे पक्षे राजानं न्युष्पोत्तरत उदकुम्भं निधाय सर्वतः परिश्रित्योदीचीं द्वारं कृत्वा सोमविक्रयिणं प्रपादयति कौत्सꣳ शूद्रं वा ।
सोमविक्रयिन्सोमꣳ शोधयेति संप्रेष्यति शुन्ध सोममापन्नं निरस्येति वा शुन्ध सोममापन्न निरस्त इति वा ।
यदन्यदꣳशुभ्यस्तदपोद्धरति ।
नाध्वर्युः सोमं विचिनुयान्नास्य पुरुषो न यजमानो न यजमानस्यामात्या न विचीयमानस्योपद्रष्टारो भवन्ति ।
प्रायणीयाप्रभृतिष्ववभृथान्तेष्विष्टिपशुबन्धेषु व्रतोपायनं जागरणं पत्नीसंनहनमारण्याशनं च न विद्यते ।
सर्वाण्युत्तरासु क्रियन्ते ।
सवनीये पशौ सवनीयेषु च पुरोडाशेषु नाग्न्यन्वाधानं विद्यते ।। ४ ।।

7.2 अथ सप्तमप्रश्ने द्वितीयः पटलः ।
प्रायणीयायास्तन्त्रं प्रक्रमयति ।
अग्नीनन्वाधायेध्माबर्हिराहरति ।
सप्तदश सामिधेन्यो नानूयाजसमिधमुपसंनह्यति यद्यनूयाजा न भवन्ति ।
वेदं कृत्वाऽग्नीन्परिस्तीर्य पाणी प्रक्षाल्योलपराजीꣳ स्तीर्त्वा यथार्थं पात्राणि प्रयुनक्ति स्थालीं कपालानाꣳ स्थाने प्रयुनक्ति ।
निर्वपणकालेऽदित्यै प्रायणीयं चरुं निर्वपति पयसि श्रपयति ।
चतुर्गृहीतान्याज्यानि गृह्णाति यद्यनूयाजा न भवन्ति ।
षड्ढोत्रा प्रायणीयमासादयति ।
सर्वमिध्ममादधाति सर्वमौपभृतꣳ समानयते यद्यनूयाजा न भवन्ति ।
आज्यभागाꣳश्चतुरो यजति पथ्याꣳ स्वस्तिं पुरस्तादग्निं दक्षिणतः सोमं पश्चात्सवितारमुत्तरतोऽदितिं मध्ये हविषा स्थालीं निष्कासं मेक्षणं च निदधाति ।
ध्रुवायाः शेषं करोति ।
शंय्वन्ता कृत्स्ना वा ।
न यजमानभागमवद्यति यदि शंय्वन्ता ।
अत्र राज्ञो निवपनमेके समामनन्ति ।
ध्रुवाशेषाच्चतुर्गृहीतं पञ्चगृहीतं वा गृहीत्वेयं ते शुक्रतनूरिति दर्भेण हिरण्यं निष्टर्क्यं बद्ध्वाऽऽज्येऽवदधाति ।
अमङ्गलं तद्यत्नेन देवकार्ये विवर्जयेत् ।
उपक्लृप्ता सोमक्रयणी समङ्गा बन्धुमती यथाऽग्नीषोमीयो बभ्रुररुणा रोहिणी वोपध्वस्ता प्रपीनाऽथ वा रोहिणी पिङ्गाक्षी बभ्रुलोम्नी श्वित्रोपकाशा पृश्निवाला पृश्निशफैकहायनी द्विहायनी त्रिहायणी वा जूरसीति तामीक्षमाण एतच्चतुर्गृहीतं जुहोति ।
अपरं चतुर्गृहीतं गृहीत्वा शुक्रमस्यमृतमसीति हिरण्यं घृतादुद्धरति ।
वैश्वदेवꣳ हविरित्यभिमन्त्रयते ।
इविरसि वैश्वदेवमित्यवेक्षते ।
सूर्यस्य चक्षुरारुहमिति सहिरण्येन पाणिनाऽऽदित्यमुपतिष्ठते ।। ५ ।।
अशून्यं तु करं कुर्यात्सुवर्णरजतै कुशैः ।
चिदसीति सोमक्रयणीꣳ सꣳशास्ति ।
-मित्रस्त्वा पदि बध्नात्विति दक्षिणे पूर्वपादे बध्नाति ।
पूषाऽध्वनः पात्विति नयति यत्र सोमोऽबद्धामकर्णगृहीतां बद्धां वा कर्णगृहीताम् ।
तस्या वस्व्यसीत्येतैर्मन्त्रैर्दक्षिणेन पूर्वपादेन षट्पदान्यनुनिक्रामति ।
बृहस्पतिस्त्वा सुम्ने रण्वत्विति सप्तमं पदमभिगृह्णाति ।
तस्मिन्हिरण्यं निधाय पृथिव्यास्त्वा मूर्धन्नाजिघर्मीत्येतच्चतुर्गृहीतं जुहोति ।
अपादाय हिरण्यं परिलिखितमिति स्फ्येन पदं परिलिखति यावद्घृतमनु विसृतं भवति तूष्णीं विषाणया चानुपरिलिख्यास्मे राय इति स्थाल्यां पदं निवपति ।
पदायतने सहिरण्यौ पाणी प्रक्षाल्य त्वे राय इति पदं यजमानाय प्रयच्छति ।
तोते राय इति यजमानः पत्नियै ।
माऽहदꣳ रायस्पोषेण वियोषमिति पत्नी प्रदीयमानं प्रतीक्षते ।
सं देवि देव्योर्वश्या पश्यस्वेति सोमक्रयण्या पत्नीꣳ संख्यापयति ।
उन्नम्भय पृथिवीमिति पद उदपात्रं निनीय त्रैधं पदं प्रतिविभज्य गार्हपत्यस्य शीते भस्मनि तृतीयमुपवपत्याहवनीये तृतीयम् ।
प्रतिषिद्धमेकेषामाहवनीये ।
तृतीयं पत्नियै प्रयच्छति तत्सा गृहेषु निधत्ते ।
सूर्यस्य चक्षुरारुहमित्यत्राऽऽदित्योपस्थानमेके समामनन्ति ।
अपि पन्थामगस्महीति परिश्रितेन शकटेन च्छ दिष्मतोद्धृतपूर्वफलकेन राजानमच्छ याति ।
उत्तरेण राजानꣳ शकटं मुखेन प्रतिष्ठाप्या मात्योऽसीत्यभिमन्त्रयत आस्माकोऽसीति वा ।
अꣳशुना ते अꣳशुः पृच्यतामित्यꣳशून्समुद्वपति ।
उत्तरेण राजानं चर्मणि क्षौमं वासोऽहतं महद्विगुणं चतुर्गुणं वा प्राचीनदशमुपरिष्टाद्दशमास्तीर्याभित्यं देवमिति तस्मिन्सहिरण्येन पाणिनाऽतिच्छन्दस र्चा राजानं मिमीत एकैकयाऽङ्गुल्या प्रसारितया ।
सर्वास्वङ्गुष्ठमुपनिगृह्णाति ।
यया प्रथमं न तया पञ्चमं तयैव दशमम् ।
पञ्चकृत्वो यजुषा मिमीते पञ्चकृत्वस्तूष्णीम् ।
प्रजाभ्यस्त्वेति परिशिष्टानꣳशूनुपसमूहति ।
समुद्गृह्य वाससोऽन्तान्प्राणाय त्वेति क्षौमेणोष्णीषेणोपनह्यति ।
व्यानाय त्वेत्यनुशृन्थति ।
प्रजास्त्वमनुप्राणिहि प्रजास्त्वामनुप्राणन्त्वित्यवेक्ष्यैष ते गायत्रो भाग इत्येतैर्मन्त्रैरभिमन्त्रयते ।। ६ ।।
देव सूर्य सोमं क्रेष्यामस्तं ते प्रब्रूमस्तं त्वं विश्वेभ्यो देवेभ्य ऋतून्कल्पय दक्षिणाः कल्पय यथर्तु यथादेवतमिति सहिरण्येन पाणिनाऽऽदित्यमुपतिष्ठते ।
सोमविक्रयिणे राजानं प्रदाय तं पृच्छति सोमविक्रयिन्क्रय्यस्ते सोमा ३ इति ।
क्रय्य इति स प्रत्याह ।
दशभिः क्रीणाति ।
सप्त गावो हिरण्यं वासोऽजा च त्रीण्येतानि ।
दश गावो भवन्त्यथैतानि त्रीणीत्येकेषाम् ।
अपि वा चतुर्भिरेव ।
गवा चैतैश्च त्रिभिः ।
गवैकविꣳशातिदक्षिणस्य ।
त्रिꣳशता सहस्रदक्षिणस्य ।
सप्तविꣳशतिर्गावो हिरण्यं वासोऽजा च त्रीण्येतानि ।
त्रिꣳशद्गावो भवन्त्यथैतानि त्रीणीत्येकेषाम् ।
शतेन वाजपेये द्वाभ्याꣳ राजसूये सहस्रेणाश्वमेधे ।
सोमं ते क्रीणामीति क्रीणाति ।
सोमं महान्तं बह्वर्धꣳ शोभमानमिति वोक्त्वैकैकमनुदिशति ।
कलया ते क्रीणानि कुष्ठया ते क्रीणानि शफेन ते क्रीणानि पदा ते क्रीणानीति गोस्त्रीन्पादान्प्रसंख्याय गवा ते क्रीणानीति गाम् ।
भूयो वाऽतः सोमो राजाऽर्हतीति सोमविक्रय्या संपदः प्रत्याह ।
भूय एवार्हतीत्यध्वर्युः ।
शुक्रं ते शुक्रेण क्रीणामीति हिरण्यम् ।
तपसस्तनूरसीत्यजाम् ।
धेन्वा ते क्रीणामीति धेनुम् ।
ऋषभेण ते क्रीणामीत्यृषभं वत्सतरेण साण्डेनेत्येकेषाम् ।
अनडुहा ते क्रीणामीत्यनड्वाहम् ।
मिथुनाभ्यां गोभ्यां क्रीणामीति मिथुनौ गावौ ।
वाससा ते क्रीणामीति वासः ।
दशभिः संपादयति भूयस एके सोमक्रयणानामनन्ति ।। ७ ।।
पञ्चदशभिः क्रीणाति सप्तदशभिः क्रीणाति चतुर्विꣳशत्या
क्रीणात्यपरिमिताभिः क्रीणाति क्रीणामीत्यन्ततो वदति ।
संपाद्य सम्यत्ते गोरस्मे चन्द्राणीति हिरण्यं प्रत्यादत्ते ।
अस्मे ते बन्धुरिति शुक्लामूर्णास्तुकां यजमानाय प्रयच्छति ।
तां वितननकाले दशापवित्रस्य नाभिं करोति ।
शुक्लानामाविकोर्णानाममोते द्वे दशापवित्रे भवतोऽदशाकमन्यतरत् ।
उदकेन क्लेदयित्वा कृष्णामूर्णास्तुकामिदमहꣳ सर्पाणां दन्दशूकानां ग्रीवा उपग्रथ्नामीत्युपग्रथ्य सोमविक्रयिणि तम इति तया सोमविक्रयिणꣳ रराटे विध्यति ।
स्वजा असि स्वभूरस्यस्मै कर्मणे जात ऋतेन त्वा गृह्णाम्यृतेन नः पाहीति क्षोमविक्रयिणो राजानमपादत्ते ।
यदि कृच्छ्रायेतापैव हरेत ।
इन्द्रस्योरुमाविश दक्षिणमिति यजमानस्योरौ राजानमासादयति ।
नीव गृह्णीते ।
अध्वर्यवा शक्तवा इति यजमानः पृच्छत्याशकामेत्यध्वर्युः कथमाशकतेति विष्णुꣳ स्तोममरुत्स्महि बृहस्पतिं छन्दाꣳस्युत्थाय यजूꣳषि वि पर्वता अजिहत सुतरणा अपो अतारिषमित्यध्वर्युः ।
स्वानभ्राजेति सोमक्रयणाननुदिशति ।
रुद्रस्त्वाऽऽवर्तयत्विति सोमक्रयणीमावृत्यान्यया गवा निष्क्रीय यजमानस्य गोष्वपिसृजति ।
पृषता वरत्राकाण्डेन सोमविकयिणमपक्षामं नाशयति ।
लोष्टैर्घ्नन्ति लकुडैर्घ्नन्तीत्येकेषाम् ।।। ८ ।।
इति हिरण्यकेशिसूत्रे सप्तमप्रश्ने द्वितीयः पटलः ।

7.3 अथ सप्तमप्रश्ने तृतीयः पटलः ।
अदित्याः सदोऽसीति शकटस्य नीडे कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमाऽऽस्तृणाति प्रत्तꣳ राजान- मदित्याः सद आसीदेति तस्मिन्नासादयति ।
अस्तभ्नाद्द्यामित्यासन्नमभिमन्त्रयते ।
आसादयतीत्येकेषाम् ।
वनेषु व्यन्तरिक्षं ततानेति वाससा पर्यानह्यति ।
उदु त्यं जातवेदसमिति कृष्णाजिनेनोर्ध्वग्रीवेण बहिर्लोम्नाऽपिदधाति तरणिर्विश्वदर्शत इति वा ।
उस्रावेतं धूर्षाहावित्यनड्वाहावुपासजति ।
धूरसीति धुरावभिमृशति ।
वारुणमसीति शकटमुत्खिदति ।
प्रागीषमवस्थाप्य वरुणस्योत्तभ्नात्वित्युपस्तभ्नोति ।
दक्षिणमनङ्वाहं युनक्ति ।
वारुणमसीति योक्त्रं परिकर्षति ।
वरुणस्य स्कम्भनिरसीति शम्यामवगूहति ।
प्रत्यस्तो वरुणस्य पाश इति योक्त्रपाशं प्रत्यस्यति ।
बलीवर्दं चाभिनिदधाति ।
एवमुत्तरमनड्वाहं युनक्ति।
हरिणी शाखे बिभ्रदन्तरेषाꣳ सुब्रह्मण्य उपसर्पति पलाशशाखे शमीशाखे वा ।
शकटमन्वारभ्य सोमाय राज्ञे क्रीताय प्रोह्यमाणायानुब्रूहि ब्रह्मन्वाचं यच्छ सुब्रह्मण्य सुब्रह्मण्यामाह्वयेति संप्रेष्यति ।
त्रिरनूक्तायां प्रच्यवस्य भुवस्पत इति प्राञ्चोऽभिप्रयाय प्रदक्षिणमावर्तन्ते ।
अपि पन्थामगस्महीत्युत्तरेण राजानं पूर्वावतिक्रामतो यजमानोऽध्वर्युश्च ।
प्रज्वलयन्त्यग्नीनाहवनीये वर्षिष्ठमादधाति ।
उपक्लृप्तोऽग्नीषोमीयः समङ्गो वन्धुमान्यथा निरूढपशुबन्धे लोहस्तूपरः श्मश्रुलः स्थूलः पीवा ।। ९ ।।
कृष्णश्वेतो लोहितश्वेतो वा तेन कर्णगृहीतेन यजमानो राजानं प्रतीक्षते ।
सामान्यविधिरस्पष्टः संह्रियेत विशेषतः । स्पष्टस्य तु विधेर्नैवमुपसंहार इष्यते ।। इति ।
औदुम्बर्यासन्द्यरत्निमात्रशीर्षण्यानूच्या नाभि. दघ्नपादा मौञ्जविवाना तामध्वर्यव उद्गृह्णन्ति ।
अग्रेण प्राग्वꣳशं वारुणमसीति शकटमाक्खिदत्युदगीषमवस्थाप्य ।
बरुणस्त्वोत्तभ्नात्वित्युपस्तभ्नोति ।
दक्षिणमनड्वाहं विमुञ्चति ।
वारुणमसीति योक्त्रं परिकर्षति ।
वरुणस्य स्कम्भसर्जनिरसीति शम्यां प्रवृहति ।
विचृतो वरुणस्य पाश इति योक्त्रपाशं विचृन्तति ।
उन्मुक्तो वरुणस्य पाश इत्यभिधानीमुन्मुञ्चति ।
एवमुत्तरमनड्वाहं विमुञ्चति ।
अविमुच्योत्तरमातिथ्यायास्तन्त्रं प्रक्रमयति ।
उभौ वा विमुच्य ।
अग्नीनन्वाधायेध्माबर्हिराहरति ।
सप्तदश सामिधेन्यः ।
इक्षुशलाके विधृती ।
कार्ष्मर्यमयान्परिधीनिध्म उपसंनह्यत्याश्ववालं प्रस्तरं बर्हिषि।
निर्वपणकाले वैष्णवं नवकपालं पत्न्या हस्तेन निर्वपति ।
पत्न्या वा हस्तात् ।
अन्वारब्धायां वा स्रुचा ।
अग्नेरातिथ्यमसीत्येतैः पञ्चभिस्त्रिषु सावित्रं जुष्टं चानुषजति ।
विष्णुमेवोत्तरेषु निगमेषूपलक्षयेत् ।
यत्प्रागुद्वपनात्तत्कृत्वोत्तरमनड्वाहं विमुञ्चति तेनैव कल्पेन यदि पुरस्तादविमुक्तो भवति ।
वारुणमसीति राज्ञो वासोऽपादत्ते ।
वरुणोऽसि धृतव्रत इति राजानम् ।। १० ।।
अच्छिन्नपत्रः प्रजा उपावरोहोशन्नु शतीः स्योनः स्योना इत्युपावहरति ।
अत्राऽऽसन्द्या उद्ग्रहणमेके समामनन्ति ।
उर्वन्तरिक्षमिति गच्छति ।
या ते धामानीति सौम्यर्चा राजानं पूर्वेण द्वारेण प्राग्वꣳश प्रपादयति ।
उर्वन्तरिक्षं वीहीत्यपरेणाऽऽहवनीयं दक्षिणाऽतिहरति ।
वरुणस्यर्तसदनिरसीति दक्षिणेनाऽऽहवनीयमासन्दीं प्रतिष्ठापयति ।
अदित्याः सदोऽसीति तस्यां कृष्णा- जिनं प्राचीनग्रीवमुत्तरलोमाऽऽस्तृणाति ।
प्रत्तꣳ राजानमदित्याः सद आसीदेति तस्मिन्नासादयति ।
वरुणस्यर्तसदनमासीदेति वा ।
षनेषु व्यन्तरिक्षं ततानेति वाससा परिश्रयति ।
वरुणोऽसीति राजानमभिमन्त्रयते वरुणाय त्वेति वा । ।।
एवा वन्दस्व वरुणं बृहन्तं नमस्या धीरममृतस्य गोपाम्। स नः शर्म त्रिवरुथं वि यꣳसत्पातं नो द्यावापृथिवी उपस्थ इति वारुण्यर्चा राजानं परिचरति ।
यत्र क्व चाऽऽसीदेदैतयैवाऽऽसीदेत् ।
अग्निꣳ राजानं चान्तरेण मा संचारिष्टेति संप्रेष्यति ।
उद्वपनप्रभृतीनि कर्माणि प्रतिपद्यते ।
गार्हपत्ये नव कपालान्युपदधाति ।
चतुर्गृहीतान्याज्यानि गृह्णाति ।
चतुर्होत्राऽऽतिथ्यमासादयति ।
वेदं निधाय सामिधेनीभ्यः संप्रेष्यति ।
सर्वमिध्ममादधाति सर्वमौपभृतꣳ समानयते ।
आज्यभागाभ्यां प्रचर्य विष्णुꣳ हविषा यजति ।
ध्रुवायाः शेषं करोति ।
इडान्ताऽऽतिथ्या संतिष्ठते ।
ध्रुवाशेषादापतये त्वा गृह्णामीति कꣳसे चमसे वा तानूनप्त्रꣳ समवद्यति चतुरवत्तं पञ्चावत्तं वा ।
अवशिष्टो विकल्पार्थो यदि चतुरवत्तम् ।
तदनाधृष्टमसीति सर्वर्त्विजः समवमृशन्ति ।
समवमृष्टं प्रजापतौ त्वा मनसि जुहोमीति त्रिरवघ्रायान्तर्वेदि निनयति ।
प्रतिषिद्धमेकेषाम्
असंचर उत्सिञ्चतीत्येकेषाम् ।
अग्नीन्मदन्त्याऽऽपा ३ इति पृच्छति ।
मदन्ति देवीरमृता ऋतावृध इत्याग्नीध्रः प्रत्याह ।
ताभिराद्रवेति संप्रेष्यति ।
मदन्तीभिः पाणीन्प्रक्षालयन्ते ब्रह्मा राजानं विस्रꣳसयति ।
अꣳशुरꣳशुरिति तꣳ सर्वे सहिरण्यैः पाणिभिराप्याययन्ति ।
प्रत्युपनद्धेऽप उपस्पृश्येष्टा राय इति प्रस्तरे निह्नुवते सव्यान्नीचः पाणीन्कृत्वा दक्षिणानुत्तानान् ।। ११ ।।
इति हिरण्यकेशिसूत्रे सप्तमप्रश्ने तृतीयः पटलः ।

7.4 अथ सप्तमप्रश्ने चतुर्थः पटलः ।
प्रवर्ग्येण प्रचर्योपसदा प्रचरत्युपसदा वा प्रचर्य प्रवर्ग्येण प्रचरति ।
यदातिथ्याया बर्हिस्तदुपसदां तदग्नीषोमीयस्य तत्प्रस्तरपरिधि ।
स्तीर्णं प्रस्तरबर्हिरुपसत्सु शयाः परिधयः ।
उपसदस्तन्त्रं व्याख्यास्यामः ।
तस्यामाज्यꣳ हविः ।
अग्निः सोमो विष्णुर्देवताः ।
उपाꣳशुयाजेन कल्पो व्याख्यातः ।
अग्नीनन्वाधाय षोडशदारुमिध्मꣳ संनह्यति ।
वेदं कृत्वाऽग्नीन्परिस्तीर्य पाणी प्रक्षाल्योलपराजीꣳस्तीर्त्वा यथार्थमाज्यपात्राणि प्रयुनक्ति स्फ्यꣳ स्रुवꣳ स्रुच आज्यस्थालीं येन चार्थः ।
पवित्रे कृत्वा यजमान वाचं यच्छेति संप्रेष्यति वाग्यतः पात्राणि संमृशति प्रोक्षितेषु वाचं विसृजते ।
स्फ्यमादाय स्तीर्णाया वेदेर्लोमभ्योऽधिस्तम्बयजुर्हरत्युपरं परिग्राहं परिगृह्य संप्रैषेण प्रतिपद्यते ।
यदन्यद्बर्हिषः पत्नीसंनहनाच्च तत्संप्रेष्यति ।
यत्प्रागाज्यग्रहणात्तत्कृत्वा ध्रुवायामेव गृह्णाति ।
प्रोक्षणीरभिमन्त्र्य ब्रह्माणमामन्त्र्येध्मं वेदिं च प्रोक्ष्य प्रोक्षण्य- वशेषं निनीय पवित्रे अपिसृज्याग्निमभिमन्त्र्य पूर्वामाघारसमिधमाधाय धुवाꣳ स्रुवं च सादयत्येषाऽसददिति मन्त्रꣳ संनमति विष्ण्वसि वैष्णवं धाम प्राजापत्यमित्याज्यमभिमन्त्रयते ।
वेदं निधाय सामिधेनीभ्यः संप्रेष्यति नवधेष्मं प्रतिविभज्य सर्वमिध्ममादधाति ।
अष्टासु देवतास्वग्निमुपवाज्य स्रुवाघारमाघार्याग्नीत्परिधीꣳश्चाग्निं च त्रिस्त्रिः समृड्ढीति संप्रेष्यति संमृष्टे प्रवरं प्रवृणीते यथा महापितृयज्ञे सीद होतरित्युक्त्वा ।।१२।।
ध्रुवाया अष्टौ जुह्वां गृह्णाति चतुरुपभृति ।
सादयति स्रुचौ होताऽऽदापयति ।
घृतवतीमध्वर्यो स्रुचमास्यस्वेत्युच्यमाने जुहूपभृतावादाय सकृदतिक्रान्तस्तिस्रो देवता यजति ।
उत्तरतः प्रथमायाः पुरोनुवाक्याꣳ संप्रेष्यति दक्षिणत इतरयोः ।
यज्जुह्वामाज्यं तस्यार्थेनाग्निं यजत्यर्धेन सोमम् । यदुपभृति तज्जुह्वामानीय तेन विष्णुम् ।
प्रत्याक्रम्य या ते अग्नेऽयाशया तनूरिति स्रुवेणोपसदं जुहोति ।
मदन्तीभिः पाणीन्प्रक्षालयन्ते ब्रह्मा राजानं विस्रꣳसयत्याप्याययन्ति निह्नुवते च यथा पुरस्ताद्दक्षिणोत्तानैः पूर्वाह्णे सव्योत्तानैरपराह्णे ।
अग्नीद्देवपत्नीर्व्याचक्ष्व सुब्रह्मण्य सुब्रह्मण्यामाह्वयेति संप्रेष्यति ।
बाग्वायोः पत्नीत्यपरेण गार्हपत्यमुपविश्याऽऽग्नीध्रो देवपत्नीर्व्याचष्टे सेनेन्द्रस्य धेनेति वा ।
सुब्रह्मण्यः सुब्रह्मण्यामाह्वयति ।
अनूपसदमेतानि क्रियन्ते ।
एवं त्रिरात्रꣳ सायंप्रातः प्रवर्ग्योपसद्भ्यां प्रचरति ।
सुपूर्वाह्णे पौर्वाह्णिकीभ्याꣳ स्वपराह्ण आपराह्णिकीभ्याम् ।
या ते अग्नेऽयाशया तनूरिति प्रथमेऽहनि सायंप्रातः स्रुवप्रदानां जुहोति ।
या ते अग्ने रजाशयेति द्वितीये ।
या ते अग्ने हराशयेति तृतीये ।
यदि पुरो युध्येयुरयः प्रथमायामवधाय जुहुयात् ।
रजतꣳ हिरण्यं मध्यमायाम् ।
हरितमुत्तमायाम् ।
यदि सङ्ग्रामं युध्येयुरित्येकेषाम् ।
अयज्ञसंयुक्तः कल्पः ।। १३ ।।
मध्यमाभ्यां पौर्वाह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचर्याग्रेण प्राग्वꣳशं त्रीन्प्राचः प्रक्रमान्प्रक्रम्य शङ्कुं निहन्ति स पश्चार्धे वेदेः ।
विमिमे त्वा पयस्वतीं देवानां धेनुꣳ सुदुघामनपस्फुरन्तीमिन्द्रः सोमं पिबतु
क्षेमो अस्तु न इति षट्त्रिꣳशत्प्राचः प्रक्रमान्प्रक्रम्य शङ्कुं निहन्ति स पूर्वार्धे ।
पश्चार्ध्याच्छङ्कोः पञ्चदश दक्षिणतः पञ्चदशोत्तरतः प्रक्रम्य शङ्कू निहन्ति ते श्रोणी पूर्वार्ध्याच्छङ्कोर्द्वादश दक्षिणतो द्वादशोत्तरतः प्रक्रम्य शङ्कू निहन्ति तावंसौ ।
अक्ष्णया मानेन संपाद्य प्रदक्षिणꣳ स्पन्द्यया पर्यातनोति ।
अन्वातनोति पृष्ठ्याम् ।
तां करोति यथा दर्शपूर्णमासयोर्यदन्यत्संनामात् ।
स्फ्येन विघनेन पर्श्वा परशुना च ।
यत्प्रागुत्तरस्मात्परिग्राहात्तत्कृत्वोत्तरवेद्याः कल्पेन दशपदामुत्तरवेदिं करोति ।
अꣳहीयसीं पुरस्तादित्येकेषाम् ।
उत्तरेणोत्तरं वेद्यꣳसं प्रक्रमे चात्वालः
पश्चाद्द्वादशसूत्करो विद्यतेऽपरिमिते वा ।
तावन्तरेण वेदेः संचरः ।
प्राचीनमाग्नीध्रात्प्रतीचीनं चात्वालादित्येकेषाम् ।
उदुम्बरशाखाभिश्छन्नां परिवासयति ।
श्वोभूते ।। १४ ।।
उत्तमाभ्यां पौर्वाह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचर्यार्धव्रतं प्रदाय तदानीमेवाऽऽपराह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचरति ।
प्रवर्ग्यमुद्वास्योपसदमुपैति यदि पूर्वो भवति ।
अर्धव्रतं प्रदायाऽऽग्नेरावृताऽग्निं प्रणीयाग्न्यायतन ऊर्णास्तुकां निधायाग्निं प्रतिष्ठाप्याऽऽमिक्षायै मैत्रावरुण्यै सायंदोहाय वत्सानपाकरोति ।
इन्द्राय च दधिघर्माय घर्मदुघो वत्सम् ।
सर्वाण्यैन्द्राणि भवन्तीत्येकेषाम् ।
अग्निवत्युत्तरं परिग्राहं परिगृह्णाति ।
न परिगृहीतामप्रोक्षितामधिचरत्यास्तरणात् ।
सुत्यार्थानि काष्ठानि माहावेदिकं च बर्हिरुपक्लृप्तं भवति तूष्णीकाभिरद्भिः काष्ठानि वेदिं बर्हिश्च त्रिस्त्रिः प्रोक्षति ।
तूष्णीं बर्हिषा वेदिꣳ स्तृणाति यया दर्शपूर्णमासयोः ।
आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् । येषामिन्द्रो युवा सखेति स्तरणीमेके समामनन्ति ।। १५ ।।
इति हिरण्यकेशिसूत्रे सप्तमप्रश्ने चतुर्थः पटलः ।

7.5 अथ सप्तमप्रश्ने पञ्चमः पटलः ।
उपक्लृप्ते शकटे मण्डलचक्रे प्रयुक्तपूर्वे तयोः पुराणान्ग्रन्थीन्वि- स्रस्य प्रक्षाल्य नवान्कुर्वन्ति च्छदिष्मती युग्यकृते कृत्वाऽग्रेण प्राग्वꣳशमवस्थाप्य युञ्जते मन इत्यौत्तरवेदिके जुहोति ।
देवश्रुताविति पदतृतीयस्यैकदेशेन पत्नी दक्षिणस्य हविर्धानस्य दक्षिणामक्षधुरं दक्षिणेनोत्तानेन त्रिः पराचीनमुपानक्त्येवमुत्तरस्य ।
सर्वा उपानक्तीत्येकेषाम् ।
आज्येन चेत्येकेषाम् ।
हविर्धानाभ्यां प्रवर्त्यमानाभ्यामनुब्रूहीति संप्रेष्यति प्रवर्त्यमानाभ्यामनुब्रूहीति वा ।
त्रिरनूक्तायां प्राची प्रेतमिति समुद्गृह्णन्तः प्राची प्रवर्तयन्ति ।
सुवाग्देव दुर्याꣳ आवदेत्यभिमन्त्रयते यद्यक्ष उत्सर्जेत् ।
यत्र वेदिमवक्रामतस्तद्दक्षिणस्य इविर्धानस्योत्तरस्यां वर्तन्यां वेद्यन्ते हिरण्यं निधायेदं विष्णुरिति जुहोति ।
इरावती धेनुमती इत्येवं प्रतिप्रस्थातोत्तरस्य ।
अध्वर्युर्दक्षिणस्य हविर्धानस्य कर्माणि करोति प्रतिप्रस्थातोत्तरस्य ।
अपजन्यं भयं नुदाप चक्राणि वर्तय गृहꣳ सोमस्य गच्छतमिन्द्रस्य सꣳसदमिति पश्चार्धे वेदेर्वितृतीयदेशे मनसा होता पदा जन्यं भयं प्रतिनुदत्यध्वर्युर्यजमानो ब्रह्मा वा ।
अपरेणोत्तरवेदिं त्रीन्प्रतीचः प्रक्रमान्प्रतिविक्रम्यात्र रमेथामित्यभितः पृष्ठ्यां नभ्यस्थे स्थापयतः ।
यथार्थꣳ हविर्धानयोः ।। १६ ।। अन्तरालं कुरुतः ।
वैष्णवमसि विष्णुस्त्वोत्तभ्नात्वित्युपस्तभ्नुतः ।
पुरस्तादुन्नते भवतः ।
दिवो वा विष्णवुत वा पृथिव्या इत्याशीर्पदयर्चा दक्षि- णस्य हविर्धानस्य दक्षिणं कर्णातर्दमपरेण गेयो निहन्ति विष्णोर्नुकमित्युत्तरस्योत्तरं कर्णातर्दमपरेण प्रतिप्रस्थाता ।
विष्णोर्ध्रुवमसीति तत्रैते निबध्नीतः ।
विष्णोर्ध्रुवोऽसीति ग्रन्थी कुरुतस्तौ प्रज्ञातौ भवतः ।
ऊर्ध्वाः शम्याः समुत्कृष्योपरिष्टात्परिवेष्टयतो यथा सुष्ठु।
पर्यन्त्याः स्थूणा मिनुतः ।
यथाऽग्रेण खरꣳ संचरो भवति ।
अग्रेण हविर्धाने स्थूणे निहत्य तयोरुद- गग्रं वꣳश निधाय प्राचो वꣳशानादधाति ।
विष्णोः पृष्ठमसीति मध्यमं छदिरधि निदधाति ।
विष्णो रराटमसीति पुरस्ताद्ररार्टी परिश्रयति ।
तेजनी रराट्यैषीकी प्राच्यणूकाण्डा मध्ये विततां तां वꣳशे निबध्नाति ।
विष्णोः श्न्यप्त्रे स्थ इति रराट्या अन्तौ व्यवास्यति ।
कटाꣳस्तेजनीश्च प्रवर्तं छदिषामन्तरालेष्वन्ववस्यन्ति ।
तानन्तर्वर्ता इत्याचक्षते ।
परि त्वा गिर्वणो गिर इत्यभितः परिश्रयतः ।
पूर्वमपरं च द्वारे कुरुतः ।
अध्वर्युर्दक्षिणां द्वारेयीं परिषीव्यति प्रतिप्रस्थातोत्तराम् ।
विष्णोः स्यूरसीति सीव्यतः ।
विष्णोर्ध्रुवोऽसीति ग्रन्थी कुरुतस्तौ प्रज्ञातौ भवतः ।
वैष्णवमसि विष्णवे त्वेति संमितमभिमृशतः ।
प्र तद्विष्णुः स्तवते वीर्याय मृगो न भीमः कुचरो गिरिष्ठाः । यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वेति संमिताद्धविर्धानात्प्रागुपनिष्क्रामतः ।
उपनिष्क्रम्य वा जपतः ।
त्रीन्प्राचः प्रक्रमान्प्रक्रम्य जपत इत्येकेषाम् ।। १७ ।।
इति हिरण्यकेशिसूत्रे सप्तमप्रश्ने पञ्चमः पटलः ।

7.6 अथ सप्तमप्रश्ने षष्ठः पटलः
दक्षिणस्य हविर्धानस्य पुरोक्षं चत्वार उपरवा भवन्त्यवान्तरदेशेषु प्रादेशमुखाः प्रादेशान्तराला बाहुमात्राः संतृण्णा अधस्ताद्विधृता उपरिष्टात् ।
अभ्रेरादानं परिलेखनं च यूपे व्याख्यातम् ।
पूर्वयोर्दक्षिणं परिलिख्यापरयोरुत्तरं परिलिखत्यपरयोर्दक्षिणं पूर्वयोरुत्तरम् ।
एवमनुप्रर्वाण्येषां कर्माणि क्रियन्ते ।
रक्षोहणो वलगहनो वैष्णवान्खनामीति खनति ।
रक्षोहणो वलगहनो वैष्णवान्निष्खिदामीति निष्खिदति ।
बृहन्नसीत्यभ्रिं प्रहरति ।
विराडसीति बाहुमुपावहरति बाहू वा ।
इदमहं तं वलगमुद्वपामीति पाꣳसूनुद्वपति ।
इदमेनमधरं करोमीत्युपरवबिलेऽवबाधते ।
निरस्तो वलग इति हरति ।
अवबाढो दुरस्युरिति यत्र खरं करिष्यन्भवति तस्मिन्देशे निवपति ।
गायत्रेण छन्दसाऽवबाढो वलग इत्युपरवबिलेऽभ्र्या निगृह्णाति ।
एवमितरेषु ।
उत्तरेणोत्तरेण मन्त्रेण बाहुमुपावहरत्युत्तरेणोत्तरेण च छन्दसा निगृह्णाति ।
गायत्रं त्रैष्टुभं जागतमानुष्टुभमित्याम्नातानि छन्दांसि ।
विराङसीति पूर्वयोर्दक्षिणं यजमानोऽवमृशति सम्राडसीत्यपरयोरुत्तरमध्वर्युः ।
संमृश इमानायुषे वर्चसे च देवानां निधिरसि द्वेषो यवनो युयोध्यस्यमद्द्वेषाꣳसि यानि कानि चकृम- देवानामिदं निहितं यदस्त्यथाभाहि प्रदिशश्चतस्रः कृण्वानो अन्याꣳ अधरान्सपत्नानित्यधस्तात्संमृशतः ।
किमत्रेत्यध्वर्युः पृच्छति भद्रमिति यजमानः प्रत्याह तन्नौ सहेत्यध्वर्युः ।
स्वराडसीत्यपरयोर्दक्षिणं यजमानोऽवमृशति विश्वाराडसीति पूर्वयोरुत्तरमध्वर्युः ।
संमृशतो यथा पुरस्तात् ।
किमत्रेति यजमानः पृच्छति भद्रमित्यध्वर्युः पत्याह तन्म इति यजमानः ।
रक्षोहणो वलगहनः प्रोक्षामि वैष्णवानिति ।। १८ ।। यवमतीभिरद्भिरुपरवाꣳस्त्रिः प्रोक्षति ।
रक्षोहणो वलगहनोऽवनयामि वैष्णवानिति यवमतीरपोऽवनयति ।
यवोऽसीति यवं प्रास्यति ।
रक्षोहणो वलगहनोऽवस्तृणामि वैष्णवानिति प्राचा बर्हिषाऽवस्तृणाति ।
रक्षोहणो वलगहनोऽभिजुहोमि वैष्णवानिति हिरण्यमन्तर्धाय स्रुवेणाभिजुहोति ।
रक्षोहणौ वलगहनौ प्रोक्षामि वैष्णवे इत्यधिषवणफलके प्रोक्षत्यौदुम्बरे कार्ष्मर्यमये पालाशे वा तष्टे प्रधिमुखे सꣳहिते पुरस्तात्समापिकर्ते पश्चाद्द्वयङ्गुलेन त्र्यङ्गुलेन चतुरङ्गुलेन वा पश्चादसꣳहिते संतृण्णे असंतृण्णे वा ।
रक्षोहणौ वलगहनावुपदधामि वैष्णवी इत्यधिषवण फलकाभ्यामुपरवानपिदधाति द्वौ दक्षिणेन द्वावुत्तरेण ।
रक्षोहणौ वलगहनौ पर्यूहामि वैष्णवी इत्यौपरवेण पुरीषेण पर्यूहति ।
रक्षोहणौ वलगहनौ परिस्तृणामि वैष्णवी इति दर्भैः परिस्तृणाति ।
रक्षोहणौ वलगहनौ वैष्णवी इत्यभिमन्त्रयते ।
रक्षोहत्त्वा बलगहत्प्रोक्षामि वैष्णवमित्यधिषवणचर्म प्रोक्षति ।
लोहितमानडुहमुपरिष्टाल्लोमाऽऽसेचनवद्यथाऽभिषवायोपाप्तं भवति ।
रक्षोहत्त्वा वलगहत्स्तृणामि वैष्णवमित्यधिषवणफलकयोरास्तृणाति ।
तस्मिꣳश्चतुरो ग्राव्णः सꣳसादयत्यूर्ध्वसानूनाहननप्रकारानुपरं प्रथिष्ठं मध्ये पञ्चमम् ।
बृहन्नसीत्येकैकम् ।
रक्षोघ्नो वो वलगघ्नः प्रोक्षामि वैष्णवानि- त्युपरे ग्राव्णः संमुखान्कृत्वा प्रोक्षति ।
औपरवस्य पुरीषस्याग्रेणोपस्तम्भनं चतुरश्रं खरं करोति यावन्तमाप्तं पात्रेभ्यो मन्यते ।। १ꣳ ।।
इति हिरण्यकेशिसूत्रे सप्तमप्रश्ने षष्ठः पटलः ।

7.7 अथ सप्तमप्रश्ने सप्तमः प्रटलः ।
उत्तरत आग्नीध्रीयं मिनोति मध्ये वेदेरर्धमन्तर्वेद्यर्धं बहिर्वेदि प्राचीनवꣳशं विमितं विमिन्वन्ति दक्षिणतउपचारम् ।
अग्रेणापरं वेद्यन्तं त्रिषु प्रक्रमेष्वपरिमिते वोदीचीनवꣳशꣳ सदो दक्षिणतः प्रतिकृष्टतरं यावदृत्विग्भ्यो धिष्णियेभ्यः प्रसर्पकेभ्यश्चाऽऽप्तं मन्यते ।
दक्षिणेन पृष्ठ्यां प्रक्रमे मध्ये सदस औदुम्बर्यवटः ।
अभ्रेरादानं परिलेखनं च यूपे व्याख्यातम् ।
दिवे त्वेति परस्तादर्वाची प्रोक्षति ।
अपामवनयनं यवप्रासनं बर्हिषाऽवस्तरणं च यूपे व्याख्यातम् ।
उच्छ्रयस्व वनस्पते सजूर्देवेन बर्हिषेति प्राचीनकर्णामुद्गात्रा सहोच्छ्रयत्युद्दिवꣳ स्तभानेति वा ।
द्युतानस्त्वा मारुतो मिनोत्वित्यवटेऽवदधाति ।
पर्यूहणं परिरक्षणं परिषेचनं च यूपे व्याख्यातम् ।
तस्याः कर्णे विशाखे वा हिरण्यं निधाय घृतेन द्यावापृथिवी आपृणेथाꣳ स्वाहेति स्रुवेणाभिजुहोति ।
आमूलादन्ववस्रावयति ।
यजमानमात्रीसंमिता वर्षिष्ठाः स्थूणा मिनुतो यथा सुष्ठु ।
पर्यन्त्या नाभिदघ्ना ओदुम्वरीमभ्यग्ना मिनोति ।
नीचैः सदो वृष्टिकामस्य मिनुयादुच्चैरवृष्टिकामस्य विपरीतमेके समामनन्ति ।
नव च्छदीꣳष्युपक्लृप्तानि भवन्ति।
उदीचो वꣳशानाधाय प्राचो वꣳशानादधाति ।
ऐन्द्रमसीति त्रीणि मध्यमानि छदीꣳष्युदञ्चि निदधाति ।
इन्द्रस्य सदोऽसीति त्रीणि दक्षिणानि विश्वजनस्य छायेति त्रीण्युत्तराणि ।
दक्षिणान्युत्तराणि करोत्यौदुम्वरीमभिसंमुखानि ।
नवछदि तेजस्कामस्य मिनुयादितिब्राह्मणव्याख्यातानि काम्यानि छदीꣳयपि तेषां याथाकामी ।
कटाꣳस्तेजनीश्च प्रवर्तं छदिषामन्तरालेष्वन्ववस्यन्ति तानन्तर्वर्ता इत्याचक्षते परि त्वा गिर्वणो गिर इत्यभितः परिश्रयतः पूर्वमपरं च द्वारे कुरुतोऽध्वर्युर्दक्षिणां द्वारेयीं परिषीव्यति प्रतिप्रस्थातोत्तरामिन्द्रस्य स्यूरसीति सीव्यत इन्द्रस्य ध्रुवोऽसीति ग्रन्थी कुरुतस्तौ प्रज्ञातौ भवतः ।
ऐन्द्रमसीन्द्राय त्वेति संमितमभिमृशतः ।
प्राग्वꣳशस्य सदोहविर्धानयोश्च ।। २० ।। समानꣳ सांकाशिनम् ।
नासꣳस्थिते सोमेऽध्वर्युः पूर्वेण द्वारेण हविर्धाने प्रविश्यापरेण निष्क्रामेद्यदि निष्क्रामेदिदं विष्णुर्विचक्रम इति जपेत् ।
नापरेण सदः प्रविश्य पूर्वेण निष्क्रामेद्यदि निष्क्रामेदुत्तिष्ठन्नोजसा सहेति जपेत् ।
अत्रोपरवकर्मैके समामनन्ति ।
चात्वालात् पुरीषमाहृत्य धिष्णियान्निवपति चतुरश्रान्परिमण्डलान्वा ।
विभूरसीत्याग्नीध्रीयमाग्नीध्रागारे यथोत्तरेणान्तर्वेदि संचरो भवति ।
अन्तःसदसमितरान् ।
वह्निरसीत्यपरेण सदोबिलं पृष्ठ्यायां प्रक्रमे होत्रीयम् ।
श्वात्रोऽसीति दक्षिणेन होत्रीयं मैत्रावरुणस्य ।
उत्तरेण होत्रीयमुदगायतानितरान् ।
तुथोऽसीति ब्राह्मणाच्छꣳसिन उशिगसीति पोतुरन्धारिरसीति नेष्टुरवस्युरसीत्यच्छावाकस्य प्रतिकृष्टतरम् ।
शुन्ध्यूरसीति मार्जालीयं बहिःसदसं दक्षिणार्धे वेदेः सममाग्नीध्रीयेण यथा दक्षिणेनान्तर्वेदि संचरो भवति ।
रौद्रमनीकꣳ सर्वत्रानुषजति ।
अत्र वेदिस्तरणमेके समामनन्ति ।
उत्तरवेदिं खरमुपरवान्धिष्णियाꣳश्च न स्तृणाति ।। २१ ।।
इति हिरण्यकेशिसूत्रे सप्तमप्रश्ने सप्तमः पटलः ।

7.8 अथ सप्तमप्रश्नेऽष्टमः पटलः ।
अग्नीषोमीयस्य पशोस्तन्त्रं प्रक्रमयति ।
तस्य निरूढपशुबन्धेन कल्पो व्याख्यातः ।
षड्ढोता पश्विष्टिश्चाङ्गभूते न विद्येते ।
अग्नीनन्वाधायाऽऽतिथ्यापरिधीनिध्म उपसंनह्यति ।
अग्नीन्परिस्तीर्य पाणी प्रक्षाल्योलपराजीꣳस्तीर्त्वा यथार्थं पाशुकानि पात्राणि प्रयुनक्ति ।
यत्प्रागाज्यग्रहणात्तत्कृत्वा प्रतिहृत्य गार्हपत्ये पाशुकान्याज्यानि गृह्णाति ।
एवा वन्दस्वेत्युपस्थे ब्रह्मा राजानं कुरुते ।
आददते ग्राव्णो वायव्यानि द्रोणकलशं चमसानातिथ्याबर्हिरिध्ममाज्यान्यग्नीषोमीयं चानुनयन्ति ।
उत्पत्नीमानयन्त्यन्वनाꣳसि प्रवर्तयन्ति ।
प्रैतु ब्रह्मणस्पत्नीति नेष्टा पत्नीमुदानयति ।
अथाहमनुकामिनीत्यानीयमाना जपति ।
सुप्रजसस्त्वा वयमित्यपरेण शालामुखीयमुपविश्य दार्शपौर्णमासिकान्मन्त्राञ्जपति ।
शालामुखीयं गार्हपत्यकर्मभ्योऽन्ववस्यन्ति तस्मिन्गार्हपत्यकर्माणि क्रियन्ते ।
समपिव्रतान्ह्वयध्वमिति संप्रेष्यति ।
तꣳ ह्वयन्ते यजमानस्यामात्यान् ।
अध्वर्युं यजमानोऽन्वारभते यजमानं पत्नी पत्नीं यजमानस्यामात्याः ।
तानहतेन वाससा प्रच्छाद्य प्रचरण्यां चतुर्गृहीतं गृहीत्वा प्रच्छादनार्थस्य वासस्ते दशायाꣳ हिरण्यं बद्ध्वाऽज्येऽवधाय स्रुग्दण्डे वाससोऽन्तमुपनियम्य शालामुखीये वैसर्जनौ जुहोति त्वꣳ सोम तनूकृद्भ्य इति पूर्वामाहुतिं जुहोति जुषाणो अप्तुराज्यस्य वेतु स्वाहेति द्वितीयाम् ।
शेषमाज्यस्य करोति ।
शालामुखीयेऽग्निप्रणयनान्यादीपयति सिकताश्चोपयमनीरुपकल्पयत उद्यच्छतीध्ममुपयच्छ त्युपयमनीरुपयते धार्यमाणे ।। २२ ।।
अग्नीषोमाभ्यां प्रणीयमानाभ्यामनुब्रूहीति संप्रेष्यति प्रणीयमानाभ्यामनुब्रूहीति वा ।
त्रिरनूक्तायामयं नो अग्निरित्यग्निप्रथमाः सोमप्रथमा वा प्राञ्चो गच्छन्ति ।
यथार्थमनुनयन्ति ।
अनुगच्छन्त्यमात्याः ।
अनुनयन्त्यग्नीषोमीयम् ।
आग्नीध्रीय एतमग्निं प्रतिष्ठाप्याग्ने नयेति नयवत्यर्चाऽऽग्नीध्रे जुहोति ।
शेषमाज्यस्य करोति ।
निदधति ग्राव्णो वायव्यानि द्रोणकलशं चमसांश्च ।
अतिहरन्तीतराणि ।
उत्तरेणाऽऽग्नीध्रीयं धिष्णियं परीत्योरु विष्णो विक्रमस्वेत्यौत्तरवेदिके जुहोति ।
यथेतममात्याः प्रतिगच्छन्ति ।
सोमो जिगाति गातुविदिति सौम्यर्चाऽपरेण द्वारेण हविर्धाने ब्रह्मा राजानं प्रपादयति
पूर्वेण गतश्रियः ।
उर्वन्तरिक्षमन्वेमीति पूर्वेणाध्वर्युः प्रविश्यादित्याः सदोऽसीति दक्षिणस्य हविर्धानस्य नीडे कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमाऽऽस्तृणाति ।
प्रत्तꣳ राजानमदित्याः सद आसीदेति तस्मिन्नासादयति ।
प्रोक्षणीरभिमन्त्र्य ब्रह्माणमामन्त्र्येध्मं वेदिं च प्रोक्ष्य प्रोक्षण्यवशेषं निनीय पवित्रे अपिसृज्यापरेणोत्तरवेदिं मन्त्रेण बर्हिः स्तृणाति यया दर्शपूर्णमासयोः ।
सन्नेष्वाज्येषु यूपसंमानेन प्रतिपद्यते ।
अग्नीषोमीयं पशुमुपाकरोति ।। २। ।। स व्याख्यातरूपः ।
प्रवरं प्रवृत्याऽऽश्रावमृतुप्रैषादिभिः सौमिकानृत्विजो वृणीते ।'
इन्द्रꣳ होत्रात्सजूर्दिव आ पृथिव्या इति होतारम् ।
अपिसृज्य तृणमस्फ्य उतरान्वृणीते ।
अग्निमाग्नीध्रादित्याग्नीध्रम् ।
अश्विनाऽध्वर्यू आध्वर्यवादित्यात्मानं प्रतिप्रस्थातारं च ।
मित्रावरुणौ प्रशास्तारौ प्रशास्त्रादिति मैत्रावरुणमिन्द्रो ब्रह्मा ब्राह्मणादिति ब्राह्मणाच्छꣳसिनं मरुतः पोत्रादिति पोतारं ग्नावो नेष्ट्रादिति नेष्टारम् ।
अग्निर्देवीनां विशां पुर एताऽयꣳ सुन्वन्यजमानो मनुष्याणां तयोरस्थुरि गार्हपत्यं दीदाय गच्छतꣳ हिं मा वायुराधाꣳसीत्संपृञ्चानावसंपृञ्चानौ तन्व इति यजमानम् ।
जुष्टो वाचो भूयासमित्येताभ्यां प्रवृतः प्रवृतो दूरेत्यनन्तरं प्रवरात् ।
हुत्वाऽध्वर्युरुत्तरान्वृणीते ।
सवनीय एके प्रवरानामनन्ति ।
हुतायां वपायाꣳ सुब्रह्मण्य सुब्रह्मण्यामाह्वयेति संप्रेष्यति पितापुत्रीया सुब्रह्मण्या भवति ।
अपराह्णे वसतीवरीर्गृह्णाति वहन्तीनाम् ।
नान्तमा वहन्तीरतीयात् ।
संधावातपस्य च्छायायाः ।
कूलस्य वृक्षस्य स्वयं वा छायां कृत्वा ।
हविष्मतीरिमा आप इति प्रतीपं तिष्ठ- न्कुम्भं कुम्भीं वाऽभिपूरयति ।
यद्यगृहीताः सूर्योऽभिनिम्रोचेद्यो ब्राह्मणो बहुयाजी तस्य गृहात्कुम्भ्यानां गृह्णीयात् ।
यदि तं न विन्देयुरग्निꣳ हिरण्यं चाऽऽदाय परेयाद्यत्राऽऽपः स्युस्तज्ज्योतिरुपरिष्टाद्धारयन्हिरण्यमन्तर्धाय वरे दत्ते गृह्णाति ।
अग्नेर्वोऽपन्नगृहस्य सदसि सादया. मीत्यपरेण शालामुखीयमुपसादयति ।
अस्तमिते संवादप्रभृतिना पशुतन्त्रेण प्रतिपद्यते ।
तस्य दक्षिणेन इविर्धानमुत्तरेण वा समवत्तं परिहरति ।
न यजमानो भक्षान्भक्षयति भक्षणमेके समानन्ति ।
पत्नीसंयाजान्तः ।। २४ ।। अग्नीषोमीयः संतिष्ठते ।
निशायां बसतीवरीः परिहरति सर्वतो न पुरस्तात् ।
उत्क्रामतेत्युक्त्वाऽन्तर्वेदि यजमानः पत्नी च भवतः ।
नादीक्षितमभि परिहरति ।
आदाय कुम्भꣳ सव्येऽꣳसेऽत्याधायापरेण प्राज हितमतिक्रम्य दक्षिणया द्वारोपनिर्हृत्य दक्षिणं वेद्यन्तमनु परिहृत्येन्द्राग्नियोर्भागधेयीः स्थेति दक्षिणस्यामुत्तरवेदिश्रोण्याꣳ सादयति ।
आदाय कुम्भं दक्षिणेऽꣳसेऽत्याधाय यथेतं प्रत्येत्योत्तरपूर्वया द्वारोपनिर्हृत्योत्तरं वेद्यन्तमनु परिहृत्य मित्रावरुणयोर्भागधेयीः स्थेत्युत्तरस्यामुत्तरवेदिश्रोण्याꣳ सादयति ।
आदाय कुम्भꣳ सव्येऽꣳसेऽत्याधाय तीर्थेन प्रपाद्य विश्वेषां देवानां भागधेयीः स्थेत्याग्नीध्रे सादयति ।।
अत्र वसन्ति ।
सुब्रह्मण्य सुब्रह्मण्यामाह्वयेति संप्रेष्यति पितापुत्रीया सुब्रह्मण्या भवेति ।
या यजमानस्य व्रतधुक्तामाशिरे दुह्रत या पत्न्यास्तां दधि- ग्रहाय या घर्मधुक्तां दधिघर्माय तप्तमनातङ्क्यं पयो मैत्रावरुणाय शृतातङ्क्यं दध्यादित्यग्रहाय कुरुतादिति संप्रेष्यति।
आग्नीध्र ऋत्विजोऽलंकृता वसन्ति ।
प्राग्वꣳशे पत्नीं जागरयन्ति ।
हविर्धाने यजमानो राजानं गोपायति गोपायति ।। २५ ।।। इति हिरण्यकेशिसूत्रे सप्तमप्रश्नेऽष्टमः पटलः ।
संपूर्णोऽयं सप्तमः प्रश्नः ।

ॐ तत्सद्ब्रह्मणे नमः।

सत्याषाढविरचितं श्रौतसूत्रं ।

गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् ।

अथ सप्तमप्रश्नप्रारम्भः ।

तत्र प्रथमः पटलः ।

वात्सल्यास्पितरौ कपोलयुगलं स्वस्याऽऽगतौ चुम्बितुं दृष्ट्वाऽऽकुञ्चितमास्यपद्मममलं से पस्मितं सत्त्वरम् । भन्योन्यं शिवयोस्ततः सुवदने युक्त ह्यभूतां तयो- रित्य येन विनोदिती स भगवान्बालो गजास्योऽवतु ।। १ ।। विद्यामहागणपतिं देवं व्याडीश्वरं तथा । योगेश्वरी च वाग्देवी लक्ष्मीनारायणौ रविम् ॥ २ ॥ सत्याषाढ़ मुनिश्रेष्ठं जातरूपशिरोरुहम् । गुरूंश्च मातापितरौ नत्वेदानों यथामति ॥ ५ ॥ भोकोपाहन कुतुकाद्गोपीनाथेन धीमता । सत्यापाडेन रचितं सूत्रं व्याख्यायते मया ॥ ४ ॥ सूत्रचा िमया तर्तुमारब्ध मन्दशक्तिना । तत्रावलम्मो मम तु पारे गन्तुं गुरुस्मृतिः ॥ ५ ॥

सर्वकामोऽग्निष्टोमः।

काम्यन्ते ते कामा इष्टानि सर्व कामा येन साध्याः स सर्वकामोऽग्निष्टोमः । ते च कामाः स्वर्गप्रजापशुहिरण्यादयः । एवं क्रियान्तरसाध्या अन्येऽपि लोकन्यासात्सू. दमव्यवहितविप्रकृष्टज्ञानं भुवनज्ञान सूर्ये संयमादित्यादिपातञ्जलसूत्रबोधितयोगधारणा- साधनकमुवनज्ञानमपि सर्वशब्देन ग्राह्यम् । प्रगीत्यधिकरणीभूतसंख्यावाची स्तोग- शब्दः । स चात्र लक्षणया तत्संबद्धयज्ञायज्ञियाख्यस्तोत्रविशेषकरणकस्तुतिपरो ज्ञेयः । अग्नेः स्तोमः स्तुतियस्मिन्सोऽग्निष्टोमः । योगरूढं पदम् । अग्निस्तुतिसंपाद - केन यज्ञायक्षियनामकेन स्तोत्रेण संस्था समाप्तिर्यस्य सोऽग्रिष्टोम इति निष्कृष्टोऽग्नि . ५. 1 ५५० सत्यापाढविरचितं श्रौतसूत्रं- [७.सप्तमप्रक- टोमशब्दार्थः । अग्निष्टोगस्य सर्वकामत्वे श्रूयते शाखान्तरम्-"एकस्मै वा अन्ये यज्ञाः कामायाऽऽहियन्ते सर्वेभ्योऽमिष्टोमः " इति । आहियन्ते क्रियन्त इत्यर्थः । काम्प एव फलवत्ता जैमिनीयः साधिता । न चास्मच्छाखायाममिष्टोमस्य फळं श्रूयते । नच तस्मिन्नसति कथमित्याकाशाप्रकरणमुदेति । तथा च तेन वसन्ते वसन्ते यजेत तस्य नानुपकान्तयोर्दर्शपूर्णमाप्तयोराहार इत्यादिक न व्याख्यातुं युक्तमिति फलमेव बुद्ध्वा पुरुषः प्रवर्तत इति तदादौ वक्तुं युक्तम् । ननु सर्वकामोऽग्निष्टोम इति वाक्यस्य फलसाधनीभूताग्निष्टोमविधायकत्वात्फलस्य यजमाननिष्ठत्वादेतद्वाक्यं याजमानसूत्र एष पठितव्यमिति चेन्न । साध्यसाधनाकाक्षानिवृत्तौ सत्यमितिकर्त- व्यताकासोदयेन तदर्थ साध्यसाधनाकासानिवर्तकस्याऽऽध्वर्यवादिप्रयोगरूपेतिकर्तः व्यताविधानात्पूर्वमेव सर्वकामोऽनिष्टोम इति वाक्यपाठस्य युक्तत्वात् । नन्वेकस्मै वा भन्ये यज्ञाः कामायाऽऽहियन्ते सर्वेम्पो ज्योतिष्टोम इत्यपि श्रूयते । ततश्च त्रिवृ. स्पञ्चदशः सप्तदश एकविशः। एतानि वाव तानि ज्योती श्रपि । य एतस्य स्तोमा इत्यनया श्रुत्या स्तोमचतुष्टयवरसु कर्मसु शक्त्यवगमाद्व्यापकं धर्म परित्यज्य किपर्य व्याप्यधर्मनिर्देशः कृत इति चेन्न । उक्थ्येन पशु कामो यमेत, षोडशिना वीर्यकामो यजेत, अतिरात्रेण प्रनाकामो यनेतेत्यादिभिः श्रुतिभिरुक्थ्यादिषु स्तोमचतुष्ट यवत्सु अग्निष्टोमगुणविकारेषु कर्मसु नियतफलश्रवणताया बाधितत्वेन ज्योतिष्टोमश- देनानिष्टोमस्यैव ग्रहणात् । नच पातिष्टोमेन स्वर्गकामो येनत...श्रावप्याग्निष्टो. मस्य ग्रहणं ज्योति नामशब्देनास्त्विति वाच्यम् । एकस्मै वा अन्ये यज्ञा इति सर्वका मत्वानिकश्रुतिविरोधापत्त्या तथा वक्तमशक्यत्वात् । उक्मादिपरत्वमपि वकुम- शक्यम् । तेष्वपि स्वतन्त्रफलश्रवणात् । मच ज्योतिष्टोमेन स्वर्गकामो यजेत त्यस्साः श्रुतेः कावकाश इति शक्यम् । अत्यग्निष्टोमादिष्ववकाशसंभवात् । विश्वनिति तु , फलस्पाश्रवणात्फलमन्तरेण विधिश्नुतेर नुपपत्तरवश्यं फले कल्पयितव्ये सर्वाभिलषितत्वेन स्वर्ग एवं कल्पितो जैमिनिना स स्वर्गः स्यात्सर्वान्प्रत्यविशिष्टत्वादिति सूत्रेण । सूत्रार्थस्तु यदेकं फलं स स्वर्गः स्यात्सर्वान्सर्वपुरुषान्प्रति अविशिष्टत्वादिति । यन्न दुःखेन संभिन्न नच ग्रस्तमनन्तरम् । अभिलाषोपनीतं च तत्मुखं स्वःपदास्पदम् ॥ इति यवनप्रतिपादितनिरतिशयसुखविशेषात्मस्वर्गस्याभिमतत्वेन विशिष्टतुल्यत्वादि- त्यर्थः । स्वर्गसुख दुःखाननुषक्तनिति कृत्वा सर्वाभिमतं पश्वादिसुखं दुःखानुषक्तमरूपं चेति केचिदेव प्रार्थयन्ते । स्वर्गसुखं तु बहवः प्रार्थयन्त पूर्वसूत्रार्थः । प्रत्ययाचति दिलीय सूत्रम् । तस्यार्थः-प्रतीयते निरतिशयसुखत्वेनामिलण्यते सर्वैरिति प्रत्ययस्त- म्माच हेतोरित्यर्थः । तथा चार्य निर्गवितोऽर्थः-दुःखाननुषक्तस्माधिकरणक्षणध्वंसान- १७० पटलः ] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । ५५१ धिकरणनिरतिशयसुखात्मस्वर्गस्य सर्वपुरुषाभिमतत्वेन सर्वाभिलषितत्वेन च. एष फलत्वेन परिकल्प्यत इति । प्रत्यवायपरिहारस्तु सर्वाभिलषितोऽपि प्रत्यवायापेक्षया कियताऽपि विलम्बेन हृदयमागच्छति । स्वर्गः कस्यचित्पुरुषस्याविनतः कस्यधिमा भिमत इत्ययं विशेषोऽत्र नास्ति किंतु सर्व पुरुषाभिमत एवेत्यतो मात्यविशिष्ट इति सूत्रेण । सूत्रास्तु-यदेकं फलं स स्वर्गः स्यात्सर्वान्सर्व पुरुषान्प्रत्यविशिष्टवारिति । यन्न दुखेन संभिन्नं नच ग्रस्तपनन्तरम् । अभिलाषोपनीतं च तत्सुखं स्वःपदास्पदम् ॥ इति वचनप्रतिपादितमुखविशेषमयस्वर्गस्य भूयोमिछषितत्वात्सर्वाभिमतत्वास्थकरत्वाच स्वर्ग एव फलस्वेन कल्प्यते । प्रत्यवायपरिहारस्य सर्वाभिलषितत्वेऽफि दुष्करत्वेन सस्य फलत्वं न कल्प्यत इति । प्रत्ययान्त्रतीयते निरतिशयमुखत्वेन संबीयत इति प्रत्ययस्तस्माश्च हेतोः स्वर्ग एवं फलत्वेन कहप्यत इति प्रत्ययाचेति द्वितीयसूत्रार्थः । अतः स फलं न भवति । एतदुःखनिवृत्तिरपि फळं न भवति दुष्करस्वात् । ततस्तु सुकरज्ञानं सुखमेव परं फलं, तच्चानतिशयत्वन स्वर्गरूपमिति. द्रष्टव्यम् । अयं स्पायश्चतुर्थाध्याये तृतीयपादे वर्तते । निश्रेयसफलकत्वं तु अग्निष्टोमोक्थ्यादिसाधारण कर्मभिनिश्रेयसमित्यनेनाऽऽचार्येण प्रदर्शितम् । नियतकर्ममात्रविषयं वैतत् । तथः ज्ञानद्वारा साक्षाद्वेत्यन्यदेतत् । य एवं विद्वानग्निष्टोमेन यजते प्रामाताः प्रजा जनपति परिप्रमाता गृह्णातीत्यर्थवादेन फलकल्पनाऽपि साक्षाच्छूपमाणे श्रौते. फळे सति न युक्ता । रात्रिसत्रे स्वतन्त्रे कर्मणि तु प्रतितिष्ठन्ति ह वै य एता रात्रीरुपयन्तीत्यत्र विध्युदेशे फलाश्रवणारफलमन्तरेण विधिश्नुतेरनुपपत्तेरवश्यं फले कल्पयितव्य भार्थवादिकं प्रतिष्ठाख्यं फलमुक्तम् । विश्वजिदधिकरणन्यायेनानुपस्थितस्वर्गकल्पने तस्य प्रकृतसंबन्धकल्पने गौरवाववादोपस्थितस्यैव प्रकृतफलत्वकल्पने. लाघवात् । एतदुक्तं नैमिनिना-ऋतौ फलार्थवादमङ्गवत्काणानिनिः । फलमात्रेयो निर्देशादश्रुती मनमानं स्यात् । अङ्गेषु श्रुतिः परार्थत्वादिति । कतौ रात्रिसत्रे प्रतितिष्ठन्ति ह वै य एता रात्रीरुपयन्तीति फलश्रुतिः । यस्य पर्णमयी जुहूर्भवति न पाप५ श्लोकः शृणो- तीति पर्णतादावन इव फलार्थवाद कामजिनिराचार्यों मन्यत इति प्रथमसूत्रार्थः । भात्रेय आचार्यस्तु प्रतितिष्ठन्ति ह वै, य एतां सत्रीरुपयन्तीति श्रुती प्रतिष्ठाया निर्देशात्प्रतिष्ठेव फलम् । अश्रुती, अर्थवादेऽपि फैलाश्रवणे मति हि अनुमान कल्प्य स्वर्गादिरूपं फलं स्यात् । प्रकृते तु प्रतिष्ठारूपफलश्नवणमेवास्ति । अतो मात्र स्वर्गः फलस्वेन करप्यत इति मन्यते । रात्रिशब्देन ज्योतिौरायरित्यादिवाक्योत्पा- । 1 । १स.ग. फलध। . ५५२ सत्यापाठविरचितं श्रौतसूर्व- [समप्रमे . दितानि सौत्यानि कर्माण्युच्यन्ते । तरूपः कर्मसमुदायः समिति द्वितीयसूत्रार्थः । अङ्गेषु श्रुतिः फलश्रुतिः परार्धत्वारकानां प्रधानार्थत्वादळे पु अङ्गविषयिणी या श्रुतिः फलश्रुतिरर्थवाद एवेति कामनिम्याययोरुभयोरपि मते तुल्यमेवेति तृतीयसूत्रार्यः । इदमधिकरणं चतुर्थाध्याये तृतीयपादे वर्तते । साक्षाच्छ्यमाणश्रौनफासत्तादेव रात्रि- सत्र आर्थवादिकफलकल्पनम् । भङ्गेषु फलश्रवणं कमिधातुश्रवणं विनाऽर्थवाद एव । तथाच सूत्रम्-समस्ते कतावर्थ श्रूयमाणं यनमान: कामयते तथा नित्येषु यज्ञालेषु यानि तु कामयतिः श्रावयति पषाऽऽपारस्योधताया नीचेस्तायां पार्थवादा इतरे तथाऽन्येषु यताने पुरीषवती करोति प्रनयवेन पशुभिः पुरोषवन्तं करोति यद्यूपं मिनोति सुवर्गस्य लोकस्य प्रज्ञात्या इषे त्यो खेति शाखामाच्छिनत्तीषमेवोर्न यजमाने दधातीति । जैमिनिरपि चतुर्थीध्याये तृतीय- पाई द्रव्यसंस्कारकर्मसु परार्थ वारफलश्रुतिरर्थवादः स्यादुत्पत्तेश्चातत्प्रधानत्वादिति । भत्र द्रव्ये फलश्रुतिर्यस्य पर्णमयी जुहूर्भवति न पाप५ श्लोकर गृणोतीत्येवमाया। संस्कारे फलश्रुतिर्यदाते चक्षुरेव भ्रातृव्यस्य वृत इत्येवमाचा । कर्मणि फलश्रुतिर्य- प्रयानान्याना इज्यन्ते वर्भेव तद्यज्ञाय कियते वर्मयजमानायेत्येवमाद्या । अत्र कर्म- पद त्वर्थकर्मपरं द्रष्टव्यम् । संस्कारकर्मणः पृथक्संकीर्तनात् । एवं १ कमिधातुर्येषु श्यते तान्येवेच्छाविषयाणि कामयितव्यानि नान्यानीति । द्रव्ये संस्कारेऽर्थकर्मणि च फलश्नतिरर्थवादः स्यात्तेषां परार्थत्वात्क्रत्वर्थत्वादिति पूर्वमूत्रार्थः । उत्पत्तेः, यस्य पर्ण मयी जुहूर्भवतीत्यादितत्तद्वाक्यबोधितपर्णमयत्वादित्याद्युत्पत्तेः । भतत्प्रधानत्वात्तच्छ. मेन पुरुष उच्यते । स एव प्रधानं यत्र सा तत्प्रधाना न तत्प्रधानाऽतत्पधनी सस्या भावस्तत्त्वं तस्मात्पुरुषप्रधानत्वाभावादित्यर्थः । तेनास्फितुप्रधानत्वं सिद्ध भवति । तत्प्रधानत्वं तदर्थत्वं तस्याभावादिति निर्गौलतोऽर्थ इति द्वितीयसूत्रार्थः । स्थानः क्रत्वर्थपुरुषार्थयोनिज्ञासेति सूत्रे प्रथमोपात्तक्रत्वर्षपदसूचिता कतुप्रयुक्तिः पारद्वयेन विचारिता, इदानी चरमोपात्तपुरुषार्थपदसूचिता प्रयुक्तिर्विचार्यत इति पादा. न्तरत्वमानन्तर्य च बोध्यमिति ससोमके कर्मणि त्रिभि षभिराचार्यों व्यवहरति सर्व- कामोऽमिष्टोमः, यस्य भ्रातृव्यः सोभेन यजेत ज्योतिष्टोमे प्रागनीषोमीयादिति । ज्योतिष्टोमे प्रागनीषोमीयादित्यत्र ज्योतिष्टोमशब्दः साधारण एव विरोधाभावात् । मन्ये वानपेये त्रिवृत्पञ्चदशः सप्तदश एकविरशः । एतानि वाव तानि ज्योति वि। यं एतस्य स्तोमा इतिश्रुतिसिद्धस्तोमचतुष्टयसाध्यत्वाभावेन ज्योतिष्टोमवाभावात्कर्ष थार्वेदिकमन्त्राणामिवाऽऽदिकसामवेदीयमन्त्राणामपि प्रागनीषोमीयादुपांशुस्वनियम- प्राप्तिः संभक्तीवि चेन्न। प्रकृतिप्वेतेन वचनेनोपांशुत्वनियमे सिद्धे वाजपेये प्रकृतिवादि। 9 स. म. जैनात ज्यों। ५५३ ११०पटल गोपीनाथमदृकृतज्योसाव्याख्यासमेतम् । कृतिः कर्तव्यतिन्यायेनैव तत्प्राप्तिसंभवात् । नचैवमग्निष्टोमशब्द एवात्र प्रयोक्तव्यः । उक्थ्यादिषु तु वाजपेय इवोपांशुवनियमः प्राप्नोत्यवेति वाच्यम् । उक्थ्यादीनां चतु- र्णामपि तत्तत्क्रतुविशेषे प्रकृतित्वमस्तीति ज्ञापना-ज्योतिष्टोमशब्दोपादानाज्ज्योतिष्टोम- शब्देनाप्यागरणकर्तव्यताप्रतिपादनार्थत्वात् । भग्निष्टोमवदुक्थ्यादीनां नित्यत्वमपि भवतीतिज्ञापनार्थत्वाच्च । ज्योतिष्टोमशब्दः स्तोमचतुष्टयवत्कर्मपर इत्युक्तमेव । अग्नि टोमशब्दः संस्थाविशेषपरः । सोमशब्दोऽत्र लताविशेषपरो नतु चन्द्रादिपरः । तस्य प्रकृतेऽनुपयोगात् । अन्यथा द्रव्याकाङ्क्षानिवृत्तिर्न स्यात् । सोमशब्दवाच्यद्रव्यवि. शेषस्य मत्वर्यलक्षणया यागविशेषणत्वम् । तथाचायमों भवति सोमवता यागेनेष्ट भावयेदिति । एतेनोद्भिदादिवद्यागनामधेयत्व निरस्तं ज्ञेयम् । तत्र श्यामलाऽम्ला च निष्पन्ना क्षारिणी त्वचि मांसला श्लेष्मला मनी वल्लो सोमाख्या छागभोजनमिति मायुर्वेदतः सोमस्वरूपमवगन्तव्यम् । स च मुख्यः पर्वतजः सोमस्येव मौनवतस्य मक्ष इति लिङ्गात् । मूजवता मनवतो होति बौधायनेनाध्वर्युसोमविक्रयिणोः प्रश्न- प्रतिवचनयोरेव तथोक्तत्वाच । अभाव इतरः । मूनवच्छन्दः पर्वतवाची । सोमाभावे पूर्तीकानमिषुणयादित्यादिः प्रतिनिधिर्यायः । प्रतिनिधावपि मुख्यशब्न एव प्रवर्तते । प्राकृतास्त्वेव मन्त्राणां शब्दाः प्रतिनिधिष्वपीत्याश्वलायनोक्तेः । आम्नानादशब्दत्वमपा. वाचतरस्य स्यात् । तादाद्वा तदारुगं स्यात्संस्कारैरविशिष्टत्वात् । उक्तं च तत्वम- स्येति प्रतिनिधौ चाविकारमाश्रित्यैव मन्त्रः प्रयोक्तव्य इति प्रथमसूत्रार्थः । आन्ना- नात्सोमाभावे पतीकानभिषणुयादितिप्रतिनिधेराम्नानात् । इतरस्य प्रतिनिधेरित रस्य मुख्यस्येति यावत् । प्रतिनिधौ गृहोतेऽपि अमावाच । अशब्दत्वं प्रतिनिधी न विद्यते शब्दो मुख्यद्रव्यवाचकः शब्दो यत्र. सोमशब्दः प्रतिनिधिस्तस्य मानस्तत्त्वं तत्स्यात्प्रतिनिक्भूितद्रव्ये मुख्यद्रव्यशब्दप्रवृत्तिर्न भवतीति द्वितीयसूत्रार्थः । इदं पूर्व- सूत्रार्थोपरि पूर्वपक्षसूत्रम् । स एव मुख्यस्य योऽर्थः . स एवार्षः प्रयोननं यस्य स तदर्पः प्रतिनिधिस्तस्य भावस्तत्वं तस्मात् । प्रतिनिधेस्तादात्प्रतिनिधिरूपं द्रव्य तदारूपं सेवाऽऽख्या यस्य तत्तदाख्यं तन्नामकमेव स्यात् । संस्कारैरविशिष्टत्वात्संस्कारस्तुल्यत्वाचे संस्कारा मुख्यद्रव्यस्य त एवास्येत्येवं च तुल्यसंस्कारत्वम् । प्रतिनिधिना कृतेऽपि मुख्येनैव कृतं भवतीति रहस्यम् । वाशब्दः पूर्वपक्षव्यावर्तकः । इति तृतीयसूत्रार्थः । उक्तं षष्टाध्याये तृतीयपादे तत्त्वं संस्कारैरविशिष्टत्वम् । अस्य प्रतिनिधेर्दव्यस्य प्रतिनिधौ चाविकारादिति जैमिन्युक्तेश्च नवमाध्याये तृतीयपादे ।

युगपत्कामयेत।

पूर्वसूत्रेऽमिष्टोमस्य सर्वकामतोक्ता तत्रैकस्मिन्नेव प्रयोगे सर्ने कामाः कामयितव्या आहोस्वित्प्रयोगभेदेनेति विचारे, उच्यते-एकस्मिन्प्रयोगे सहव सन्किामान्स्वर्ग- १५. ग. शन्दे । [७ सप्तमप्रभे- SS ५५४ सत्याषाढविरचितं श्रौतसूर्व- प्रमापशुहिरण्यादीनीप्सितान्कामयेत । यथा पशुकामोऽनेकान्पशनेकस्मिन्प्रयोगे काम- पत एवं सर्वान्कामान्कामयेत । यथा वैकस्मादानरोपणात्फलं लाया गन्ध इत्यनूत्पयन्ते तपैकेन प्रयोगेणानेकानि फलान्यप्युत्पयन्त एवेति मूत्रार्थः ।

आहारपृथक्त्वे वा।

वाशब्दः पूर्वपक्षं ज्यावर्तयति । तदस्ति युगपरकामयेतेति किं तार्ह आहारपृ. थक्व एव । आहारःप्रयोगः। एकैकस्मिन्प्रयोग एकैकं कामं कामयेतेति प्रधानभूतानि नदर्थानि कर्माणि प्रधानसंनिधौ गुणः शिष्यमाणः प्रतिप्रधान विभज्यते हि । पशुदृष्टान्ते हि एकनात्या क्रोडीकृतानां बनामपि पशूना मेकफलस्वमेव । नयात्र तथा किंतु तत्तत्फलस्य तत्तत्स्वरूपेणैव फलत्वं नतु फलत्वेन कोडौकारः । नहि सर्व- स्य सर्व काम्यमानत्वेन काम्यम् । तथाचेदमिदमिति बुद्धचा यग्राह्य तनै कया कोसक शक्यत इति प्रतिप्रधानमनावृत्तिर्युक्तैन । यच्चैकस्य कर्मणोऽनेकफलता दृष्टेति तदप्यनकान्तिकमेव । प्रको सर्वेषां फलानो स्वतन्त्रत्वेनाऽऽनुषङ्गिकफलस्य दृष्टान्तत्वेनोपादानासंभवात्। चतु(ध्याये तृतीयपादे तत्र सर्वेऽविशेषात् । योमसिद्धियों. स्पत्त्यसंयोगादिति सूत्राम्यां जैमिनिनाऽपि एवमेव सिद्धान्तितम् । सूत्रार्थस्तु तत्र सर्व- कामे कर्मणि अविशेषात्कामत्वाविशेषात्सर्वे कामा अपि युगपत्स्यूरिति पूर्वसूत्रार्थः । उत्तरसूत्रार्थस्तु यस्य यस्मिन्कामे ऽभिलाषस्तस्य तादृशस्यार्थस्य कामस्यैव योगेन प्रयोगे- णानुष्ठानेन सिद्धिर्न सर्वेषामर्थानां युगपत् । सर्वोत्पत्ताषयोगित्वात्सर्वस्वस्योद्देश्यपती. तिपर्यवसानार्थत्वाभावात् । सर्वशब्दस्येह मुख्यत्वेऽपि नोद्देश्यसमर्पकत्वं सापेक्षत्वारिकतु निरपेक्षत्वात्कामशब्दस्यैव । ततश्व ग्रहत्त्ववत्सर्वत्वस्योद्देश्यप्रतीतिपर्यवसानार्थत्वामा- वादुद्देश्यविशेषणत्वमेवेति ग्रहैकत्वनदविवक्षितत्वान्न साहित्येन फलत्वं किंतु एकैकस्यैव कात्तम् । करस्य प्रधानत्वात्कर्मणो गुणत्वारप्रतिप्रधान गुमावृत्तिर्युकैवेति भावः ।

तेन वसन्ते वसन्ते यजेत ।

वेनाग्निष्टोमैन । तच्छन्दस्य सर्वनाम्न उत्सर्गतः निहितपरामर्शित्वात्काग्यस्य नियतकालनाबाधाच तच्छन्नेन संनिहितस्यामिष्टोमस्य विशेष्यस्यैव परामर्शो न तु सर्वकामविशेषणस्यापि परामर्शः । नहि कामनाया वसन्त एवं जननमिति नियमः । तेनापोनित्ये पर्यवस्यति । वसन्तग्रहणं वसन्तमात्रमेव ग्राह्यामति । यदि संवत्सरे संब. म्सर इत्युच्यते तदा यस्यां तिषी प्रथमः प्रयोगस्तस्यामेव तियावम्यासः कर्तव्यः स्यात्तथा मा मृत् । बसन्ते यस्यां कस्यांचिदनिषिद्धायां तिथी यतेति । नित्यत्वेऽप्ये. तस्य दर्शपूर्णमासादिवत्फलोपबन्धः प्रत्येतव्यः । नित्यत्वं चैतस्पर्णसंस्तवात् । तथा हि भूषते भायमानो वे बामणमिमिक्रणवा नायते ब्रह्मवणर्षिम्यो योन देवेभ्यः ५५५

१५० पटलः ] गोपीनाथंमकृतज्यालाव्याख्यासमेतम् । अनया पितृभ्य इति । सोमान्तान्यज्ञाननुक्रम्य नैयमिक ह्येतहणसंस्तुनमिति वसिष्ठवचन सोमपायविच्छेदे प्रायश्चित्तश्रवणम् । अनधीत्य द्विनो वेदाननुत्पाद्य च वै प्रनाः । अनिष्वा शक्तितो पर्मोक्षमिच्छन्त्र नत्यधः ॥ इति भकरणे प्रत्यवायश्रवणं चापि नित्यत्वे साधकम् । अत्र यद्यपि यरित्यवि. शेषणोक्त तथाऽप्यग्निष्टोमसंस्थो ज्योतिष्टोमः सोम एव । स एष यतः पञ्चविधोऽग्नि- होत्रं दर्शपूर्णमाप्ती चातुर्मास्यानि पशुः सोमः स एष यज्ञानां संपन्नतम इति पक्षसं. स्थावश्यकताबोधकवचनाप्रणवाक्ये सोमस्यैव संपन्नतमपदेन मुरूपयज्ञस्वोक्तः । एष वात प्रथमो यज्ञो यज्ञानां यन्न्योतिष्टोमो य एतेनानिष्ट्वाऽधान्येन यतेत्यत्र ज्योतिष्टोमस्य य एतेनेत्यग्निष्टोमः प्रकरणालिका चति पञ्चमाध्याये तृतीयपादगतसूत्रो. क्तन्यायेन प्रथमयज्ञत्वाज्ज्योतिष्टोमोऽग्निष्टोमसंस्थः सोमो नित्यः सर्वकामोपचन्धात्का- भ्यश्च । सूत्रार्थस्तु एनेनेत्यनिष्टोम संस्था निश्यिते । तसंस्थायु तस्यैव प्रकरणत्वादिति प्रथमसूत्राः । छिनादपि अग्निष्टोमसंस्थस्यैव निर्देशः प्रथमो यज्ञ इति लिकम् । इति द्वितीपसूत्रार्थः । ज्योतिष्टोमोऽग्निष्टोमसंस्थो नित्यः सर्वकामोपबन्धारकाम्या । तदेतत्वष्ठाध्याये द्वितीयपादे तदेतद्राह्मणस्य सोमविद्याप्रजमणवाक्पेन संयोगादिति सूत्रेण काम्पत्वं पूर्वपक्षीकृत्य तत्रैवर्णसंस्तवान्नित्यत्वमेवेति साधितं मीमांप्सकैः । सूत्रा- 4स्तु सोमश्च विद्या च प्रना च, एतेषां समाहारः सोमविद्यापनम् । एतत्सोमविग्राः प्रनं जायमानो वै ब्राह्मण इत्यृणवाक्येन संयोगात्खलु सोपविद्याप्रनं बामणस्यैवाऽऽ. वश्यकमिति मन्यसे नैतद्युक्त विधिवाक्येव विशेषश्राणादिति । तथा च ब्राह्मणग्रहणस्य सत्रियवैश्योपलक्षणार्थता सिद्धा भवतीति । प्रकारान्तरमाकरे द्रष्टव्यम् । संस्थाचतुष्ट - यं तु काम्यमेव । पशुकाम उक्थ्यं गृहीयात, पोडशिना वीर्यकामः स्तुवीत, अति. रात्रेण प्रनाकाम यानयेत्, पशुकामोऽसोर्यामेण यानयेदिति प्रकृतज्योतिष्टोमामिष्टो. माश्रितसंस्थाचतुष्टयस्य फलोपबन्धो यतः । प्रकृताग्निहोत्रहोमाश्रितस्येव दनः । संस्थाचतुष्टयस्य केवलकाण्यत्वेऽपि तापकवलान्नित्यत्वमापे । तच्च मागेवोक्तम् । अत्र मीमांसका अमिष्टामसंस्थ एव प्रथमः प्रयोज्यः । य एतेनानिष्ट्वैति श्रुतेः । अतिरावस्य प्रथमयज्ञत्वपक्षेऽपि नामिष्टोमं विना कन्वन्तरारम्भः । सोमपूर्वाधाने स्वामष्टोम एवं सर्वेषां पूर्वो नातिरात्र इति प्राहुः । उक्थ्यः षोडश्यतिरात्रोऽतोर्यामश्वेत्यनिष्टोमस्य गुणविकारा भवन्तीति वक्ष्यमाणसूत्रादग्निष्टोमस्वमुक्थ्यादिषु चतुर्वपि अग्निष्टोमवदु. क्थ्यादयोऽपि प्रकृतय एवेत्याचार्यमतमेतदिति ज्ञायते । तेन ज्योतिरुकध्यादौन्विना ख, ग, 'माधि। सत्याषाढविरचितं श्रौतसूत्र-- .[ सप्तमप्रश्न विकृतिभूता उध्यादयो न मन्ति । प्रथमयजत्वं तु मुख्याग्निष्टोपस्यैव । वचनादति- तु रात्रस्यापि । न तूक्थ्यादीनामग्निष्टोमातिरात्रिपूर्वमावित्वमिति । उत्तरभावित्वं त्वमि- ष्टोमन एव नातिरात्रादिति ज्ञेयम् । अग्निष्टोमोऽत्यग्निष्टोमा उक्थ्यः षोडशी वाजपेयोऽ. तिरात्रोऽतोर्याम इति सप्त सोमयज्ञसंस्था इति गौतमेन संस्कारमध्ये गणनात्, अष्टाच- स्वारिंशसंस्कारैः संस्कृतो ब्रह्मणः सायुज्यमामोतीति वचनात् , अकरणे प्रत्यवायश्रव- णाच्च सप्तापि सोमयज्ञसंस्था नित्या इति केचित्प्राइः । अस्मिन्सूत्रे योगविभागः- कार्यः । तेन वसन्त इत्येकं सूत्रम् । यतेत्युत्तरस्मादपकृष्यतेऽत्र । तेन नित्यनाग्नि- टोमेन वसन्ते यनेतेति तदर्थः । वरन्ते यनेतेति मिन्नं सूत्रम् । अस्मिन्सूत्रे पूर्वतनं कृत्सं सूत्रमाकृष्यते । तेन नित्येनाग्निष्टोमेन वसनो वसन्ते यनोत्यर्थों भवति । पूर्व- सूत्रेण नित्यस्य सकृत्प्रयोगो वसन्ते कर्तव्यत्वेन विधीयते । उत्तरसूत्रेणाभ्यासो विधी- यते । भम्यासस्यावधेरभावाद्यावजीवत्वमर्थात् । अभ्यासस्यानित्यवे लिङ्गमध्यस्ति अपुनर्भक्षोऽस्य सोमपीयो भवतीति । अथवा तेनेत्यनेन नित्योऽग्निष्टोमः प्राप्यते । तत्र च साभ्यासो वसन्तः कालो विधीयते । अन्यत्र तु कृत्स्नोदगयनात्मकः । तदुक्तं' छन्दोगः-उदगयन आपूर्थमाणपक्षे पुण्याहे यज्ञकालोऽनादेश इति । अयमेवानिर्दिष्ट- कालानामपि कालः । सोमपूर्वाधाने सोमेन यक्ष्यमाण आदधानो नर्तुं न नक्षत्रं सूझे. दित्येकेषामित्येतत्सूत्रविहिते नहुधा विप्रतिपत्तयः । तत्र केचिदाहुः-प्रकरणाझधानका लस्यैव बाधः, सोमस्य वसन्तकालता तु नैव बाध्यत इति । अन्ये तु सोमस्यापि य ऋतुस्तमपि न सूर्तत् । तथाचोभयकालबाध इत्याहुः । परे तु उदगयन आपूर्यमाणपक्षे पुण्याहे यज्ञकालोऽनादेश इति चन्दोगसूत्रोक्तोदमयनाचाचेन सोमाभिसंविरूपकाला. न्तरविधानं सोमपूर्वाधाने । सोमे तूहगयनरपेक्ष्यत एवेत्याहुः । अपरे तु यदैवैनं यज्ञ उपनमेदिति सर्वकालानादर उक्त इति भारद्वाजसूत्रात्सर्वकालयाध उभयत्रेति प्राङ्गः । सोमेन यक्ष्यमाणोऽग्नीनाधास्ये यानि कर्माणि कर्तुं शक्ष्यामि यैश्वास्यधिकृत इति सोमपूर्वाधानं संकल्प्य पवमानेष्टयन्ते कृते प्रतिबन्धेन सोमारम्मो यदि न जायते तदा सोमारम्भपर्यन्तमारम्भधर्मरहिता गुप्त्यर्थं तूष्णी होमाः कार्याः । इष्टयारम्भोऽपि. न भवति । सोमोत्तरमग्रिमपौर्णमासेऽन्वारम्भणीयां कृत्वा पौर्णमासेष्टयादि कुर्यात् ।

तस्य नानुपक्रान्तयोर्दर्शपूर्णमासयोराहारः।

तस्याग्निष्टोमस्यानुपकान्तयोरनारब्धयोः सतोसहारः प्रयोगो नेत्यर्थः। तथा च भरद्वाजः-न दर्शपूर्णमासाभ्यामनिष्ठा सोमेन यनेनेति । वैखानप्तवाधूलावपि-दर्शपूर्ण-' मासाभ्यामिष्टा सोमेन यजेतेति । ब्राह्मणे-यो दर्शपूर्णमालाविष्का सोमेन यनते स्थस्पष्ट एवावसाने वरे देवानामवस्यतीति सोमस्य दर्शपूर्णमासोत्तरभावित्वमेव प्रस्तुतम् । शाखान्तरे ज्योतिष्टोमप्रकरण एव दर्शपूर्णमालाम्यामिष्ट्वा सोमेन य नेतेति या श्रुतिः - 1 । १प्र. पटलः ] गोपीनाथमट्टकृतज्योत्स्नाव्याख्यासमेतम् । ५५७ सा दर्शोत्तरकालतामात्रविधायिका नत्यनाङ्गीमावोधिति द्रष्टव्यम् । तथा च जैमि. निश्चतुर्थाध्याये तृतीयपाद उत्पत्तिकालविषये कालः स्याद्वाक्यस्य तत्प्रधानत्वादिति सूत्रणामुमर्थमाह । एतत्सूत्रार्थस्तु कर्मान्तरोत्पत्तिकालविधिसंदेहे कालः स्यात्, दर्श- पूर्णमासाभ्यामितिवाक्यस्य कालप्राधान्यादिति सोमेन यक्ष्यमाण आदधानो नतुं न नक्षत्रं सूर्सेदियेकेषामित्यनेन दर्शपूर्णमामारम्भात्याग्निधानादेतेन प्रतिषेधाच्च विकरूपः । आश्वलायनोऽपि विकल्पमेवाऽऽह दर्शपूर्णमासाम्यामिष्ट्येष्टि पशुचातुर्मास्यरथ सोमेनोर्थ दर्शपूर्णमासाभ्यां यथोपयत्येक प्रागपि सोमेनैक इति । जैमिनिरपि विकल्पमुक्तवान्व- धनादिष्टिपूर्वत्वं सोमवैकेषामन्याधेयस्यर्तुनक्षत्रातिकमवचनात्तदन्तेनानर्थक हि स्यादित सूत्राभ्याम् । सूत्रार्थस्तु दर्शपूर्णमासाविष्ट्वा सोमेन यजेतेतिवचनात्सोमस्येष्टिपूर्वत्वमेव स्यादिति पूर्वसूत्रार्थः । उत्तरसूत्रार्थस्तु सोमोऽप्येकेषामाचार्याणां मते सोमेन यक्ष्य. माणोऽग्नीनादधानो नतु पृच्छेन्न नक्षत्रमिति [ऋतु] नक्षत्रा[तिक्रम]वचनात्पक्ष इष्टिपूर्व- भावी सोनोऽपि तदन्त [न] भावप्रधानो निर्देशः । तेन तदन्तत्वेनेत्यर्थः । तदन्तस्वेने- श्यन्तत्वेनेष्टश्रुत्तरभावित्वेन । इदं वचनमनर्थ के यतो पवेदतो नेष्टान्तत्वमिति नियमः । तस्य नानुपक्रान्तयारित्यनेन प्रकृति विना विकृतिर्न कर्तव्येति प्रदर्शितं भवति । यो ज्येष्ठयज्ञोऽग्निष्टोमः स दर्शपूर्णमासारम्भ विना न भवति किम वक्तव्यमिष्टिपशवो न भवन्तीति । यस्यैन्द्राग्नाश्विनौ पश् न स्तस्तस्याऽऽधानत्रयं विकल्पते । यस्य तु तौ स्तस्तस्य न सोमपूर्वस्वमसंभवादिति केचित् । मध्ये प्रायश्चित्तपशुभ्यां व्यवधानेन दर्शपूर्णमासारम्भं विना तयोरसंभवेन सोमपूर्वत्वस्यासमवादित्येतन्मताशयः । अन्ये तु एतयोः सोमारम्भानुगुणत्वादव्यवधायकत्वमेवेति वदन्ति । पत्रमानेष्ट्यव्यवहितोत्तरमेव चतुर्दश्यां पश्वोस्त नेणोत्तरवेदिकरणान्तं कृत्वा पर्वणि पशू तन्त्रेण कृत्वा यजनीयेऽहनि सोमारम्भं कुर्यात् । अथवा पवमाने प्ठ्यव्यवहितोत्तरं चतुर्दश्यामेत्र तत्रेण पश् कृत्वा पर्वणि सोमारम्भं कुर्यात् । अथवा चतुर्दश्यामवेन्द्रासपशोरु तरवेदिकरणान्तं कृत्वा पर्वण्येन्द्राग्नेनेष्ट्वाऽनन्तरपर्वण उपवसथेऽहन्याश्विनपशोरुत्तरवेदिकरणान्तं कृत्वा पर्व- प्याश्विनेनेष्ट्वा तृतीये पर्वणि सोमारम्भं कुर्यात् । सोमार मात्प्रागुप्त्यर्थं तूष्णीमग्निहोत्र- होमाः कार्या इति प्रयोगक्रमत्रयमव्यवधायकस्ववादिमते सोमपूर्वाधानेऽग्नीषोमायण सवनीयेन वा सहोपालम्भत्वमपि पक्षे । अस्मिन्नर्थे ज्ञापकमग्रे वक्ष्यते । नाकृतायां प्रकृतौ विकृतिः कार्यत्ययं नियमस्तु यथा पवमानेधिपूर्वमाविस्वविषये न भवति तथा प्रायश्चित्तपशुपूर्वमावित्वविषयेऽपि नेति क्षेयम् । न च सोमपूर्वाधानं विच्छिन्न- सोमपीथस्य न भवति । दर्शपूर्णमासारम्भ विना प्रायश्चित्तपश्चारम्भासंभवात् । नाकृतायां प्रकृती विकृतिरिति नियमस्य जागरूकत्वादिति वाच्यम् । प्राय- श्चित्तपश्वोः सोमानुगुणत्वेन सोमवत्तदारम्मेऽपि बाधकाभावात् । सत्यां सोमपीथे. च्छायां तन्निरोद्धरभावाच । एतेन प्रायश्चित्ताश्वोः सानास्यविकृतित्वासांनाच्यारम्न ५५८ सत्याषाढविरचितं श्रौतसूत्रं- [७सप्तमप्रश्न- विना तयोरारम्भाप्तमवेन प्रायश्चित्तपश्वनुष्ठानं विना सोमासंभवेनान्योन्याश्रयपरिहा. रार्थ कापेयपक्षमाश्रित्य पूर्व सांनाय्यमनन्तरं प्रायश्चित्तपशू इति केषांचिदुक्तिः परास्ता । सर्वथाऽपि तावसिद्धं विच्छिन्नसोमपीथस्यानालब्धव्रात्यपशोर्न सोम इति । विच्छिन्नसोमपीथपदार्थ उक्तो ब्राह्मणे-ऐन्द्राग्नं पुनरुत्सृष्टमाउभेत य आतृतीयात्पु- रुषात्सोमं न पिबेद्विच्छिन्नो वा एतस्य सोमपीथ इति । तत्र च त्रयः प्राञ्चस्त्रयः प्रत्यञ्च इत्यादौ प्राक्त्वेनोक्ता दीक्षावेदननामसुब्रह्मण्यादौ नामभिः संकीर्त्यमाना पित्रादि. त्रिपुरुषी तस्यां चरमः प्रपितामहस्तृतीयोऽभिप्रेतो नत्वात्मनस्तृतीयः पितामहः । कुतः, सोमपानोद्यतस्याऽऽत्मनस्तद्विच्छेदाभावात् । एतत्ते तत ये च त्वामन्विति. तिसृषु सक्तीषु निदधाति तस्मादातृतीयात्पुरुषान्नाम न गृह्णन्तीत्यादौ व्यक्तार्थत्वाच्च । तथाच विध्यर्थत्वमप्यत एव निदर्शनादवगन्तव्यम् । तदयमर्थो भवति यस्य पित्रादयस्त्रयः पुरुषाः सोमं न पीतवन्तः स सोमपीतार्थी-रेन्द्राग्नं पशुमालभेतेति । केचित्त द्विपुरुषविच्छित्ता. वप्ययमिष्यते । यथाऽऽह कात्यायन:-वसन्तेऽग्निष्टोम ऐन्द्राग्नं पुनरुत्सृष्टमालम्य द्विपुरुषाः सोमपीथिन इति प्राहुः । अन्ये तु पितुः पितामहस्य वोभयोर्वा सोमपीथामाव. ऐन्द्राग्न आलब्धव्यः सोऽयं व्रात्यपशुः पित्रादीनां त्रयाणामानन्तर्येण सोमपीथाभाव ऐन्द्रामनेष्वाऽऽश्विनं धूम्रललाममालभतेत्याहुः । अकस्य सोमपानाभावे य ऐन्द्राग्न उक्तः स न युक्तः । यस्य परौ द्वावलोमो स्यातां स ऐन्द्रामेनेष्ट्वा सोमेन यतेत्यगस्त्यसूत्रे द्वयोरसोमपीथत्व एव तस्योकैः । यस्य वेदश्च वेदी च.विच्छियेते त्रिपुरुषम् । स वै दुर्नामणो नाम ब्रह्मवादिषु गर्हितः ॥ इति स्मृतौ यागाध्ययनयोरुभयोरेव विच्छेदे दौाह्मण्यं मन्यमानाः सोममात्रविच्छेद आश्विनं नेच्छन्ति केचित् । अस्मिन्वचने चकाराम्यां व्यक्तसमुच्चयावगमादुभयवि- च्छेद एव भवत्याश्विनो नान्यतरमात्रविच्छेद इत्यन्ये । तदुभयमप्यसत् । आश्विनं धूम्रललाममालमेत यो दुमिणः सोमं पिपासेदिति प्रकृत्याश्विभ्यां पूर्वमसोमपाभ्यां पश्चात्प्राप्तसोमपानाम्यां दुर्ब्राह्मणस्य सादृश्यमपेक्ष्याश्विनावेव देवतां कर्तुं सोमपी. यस्य प्रदानमुपनातं च ब्रुवन्वाक्यशेषः सोपथिविच्छेद एवाऽऽश्विनं दर्शयति नाध्ययनमात्रविच्छेदेन वोभयविच्छेदे । तस्मादसत्यप्यध्ययनविच्छेदे सोमपीथमात्र. विच्छेद आश्विनः कार्यः । यत्तु स्मृतिवचनं तदन्यतरविच्छेदेऽप्युपपद्यते । अत्र प्रत्येक वाक्यपरितमाप्तिराश्रीयते श्रुत्यनुरोधाय तर्हि सत्यामपि वेद्यां वेदविच्छेद आश्विनप्र. सङ्गः।न। तस्य तु दुर्बाह्मणत्वं स्मयते परं तु नाऽऽश्विनाधिकारः । किंच वेदविच्छित्तौ वेदिविच्छित्तिरवश्यंभाविनी । अथापि नावश्यं भाविनी श्रद्दधानस्य साधुवृत्तस्योत्पत्ति- शुद्धस्य तस्य मूत्रकारैरविकारोक्तेः । नहि वैनुष्ये सत्येव ब्राह्मण्यं सुसंपादं भवतीति । १५०पटछ:] गोपीनाथभट्टकृतज्योत्माम्याख्यासमेतम् । ५५९ सर्वथाऽपि न दुर्वाषणमात्रस्याऽऽश्विनोऽभिधीयते । तथाच सोमपीपविच्छेद एवाऽऽ. श्विनः । वेदविच्छेदे स्मात प्रायश्चित्तं कर्तव्यं प्रथमयज्ञे प्रवर्यश्चेति । यत्तु बौधायनवच. नम्-औपासनं वा धारयमाणो भवतीति तहौ मण्यनिवृत्तिपरं नत्वाश्विननिषेधपरं, न तस्य प्रवर्गनियमः स्मार्तप्रायश्चित्तं च नेति द्रष्टव्यम् । वेदिशब्देन महावेदिः । तया सोमयागो लक्ष्यते । विच्छिद्यते इति द्विवचनं वेदवेद्यभिप्रायेण । विच्छिद्यतेति पाठ शन- रेव । वेदिशब्दो दीर्घकारान्तः । यस्य वेदश्च वैदिश्चेति पाठः सरल एव । ऐन्द्राग्नः पशुः पुनरुत्सृष्ट ऐन्द्रानं पुनरुत्सृष्टमालभेति श्रुतेः । वाहोत्सृष्टः पुनर्वहन्पुनरुत्सृष्टः । लिङ्गं चात्र भवति पुनरुत्सृष्ट इव हतस्य सोमपीच इति । स च च्छागः । तथा च मारद्वान:- शागः पुनरुत्सृष्ट इति । पुनरुत्सृष्टोऽनड्वानिति सूत्रान्तरे । गोपशुः पुनरुत्सृष्टोऽग्नीपो. भीयो भवतीति शाखान्तरे । अस्यां श्रुतौ पुनरुत्सृष्टशब्दार्थस्य गोशब्दे विशेष. जागो व्यतिरिक्ते छागेऽपि पुनरुत्सृष्टभाक्त्वमस्तीति गम्यते । छागे वहनकर्तृत्वं हिमा- पले प्रसिद्धम् । लौगाक्षिस्तु ऐन्द्राममनुसृष्टमाळभेतत्याह । एतछक्षणमयाह स एष यमयोर्यः परो मातः सोऽनुसृष्ट इति । अत्रापि च्छाग एव । कलौ गोयागस्य निषेधाच्छाग एव प्रायः । तत्र सोमात्पूर्वभाविनोः पर्वणोरुपादानपृथक्त्वात्क्रमणती कर्तव्यो । तत्र प्रथमपर्वण्येन्द्रामः पशुः , तदनन्तरपर्वण्याश्विनः , असंभवे सोमात्पूर्व- भाविन्येकस्मिन्नेव पर्वणि समानतन्त्रावेतौ कर्तव्यो । अत्रापि पाठक्रमात्पूर्व ऐन्द्रामोऽ. नन्तर आश्विनः । पञ्चपशुप्रकृतित्वादैन्द्राग्नविकारौ । पक्षेऽग्नीषोमीयविकारत्वमपि । अत्र ज्ञापकमने वक्ष्यते । समानतन्त्रत्वे द्विवचनान्त उहः । तन्त्रानन्तःपातित्वारषड्ढोतृ- पश्विष्टी विद्यते एत । एवं दक्षिणाऽपि । समानतन्त्रत्वेऽप्येक एव पड्ढोता, एकैव पश्विष्टिदक्षिणा च । ऐन्द्राग्नेन पशुना यक्ष्ये विच्छिन्न सोमपीथसंधानार्थमिति संकल्प- वाक्य, नैमित्तिकत्वान्नास्ति कामना, पुनरुत्सृष्टस्य च्छागस्य वपायाः पुनरुत्सृष्टस्य च्छागस्य हविष इति प्रेषयोषिकार इति केचित् । छागशब्देनैवाऽऽश्विन इत्यपि केचित् । वस्तुत छागशब्देनैवोभयत्रापि विशिष्टन था। विशिष्टोल्लेखपक्षे धूम्रलला- मस्य च्छागस्य हविष इति प्रैषावाश्विनेऽपि । आश्विनस्य मिन्नतन्त्रत्व आश्विनेन पशुना यक्ष्ये दौीमण्यपरिहारार्थमिति संकल्पवाक्यम् । समानतन्त्रत्वे विच्छिन्नसो- मपीथसंधानार्थेनन्द्राग्नेन पशुना दो मण्यपरिहारार्थनाऽऽश्विनेन पशुना च सम्प्रेण यक्ष्य इति संकल्पवाक्यम् । गणवग्रहः । एक एव यूपः । स्वरुरशनादयशूला भिन्नाः । अग्नीषोमायेण सवनीयेन वा समानतन्त्रत्वेऽग्नीषोमीयसवनीयानूबन्ध्यान स्वरुदयशूली समानावेव । ऐन्द्रामाश्विनयोस्तु स्वरुहृदयशूलौ मिन्नावेव । यूषः सर्वेषामपि समान एव । यत्रिषु यूपेष्वालमेत बहिर्धाऽस्मादिन्द्रियं वीर्य दध्यात् । भ्रातृव्यमस्मै मनयेत्, इति श्रुत्या प्रतिपशु यूप इत्यमुं पक्षं निन्दित्वा, एकरूप आल. , 1 - -

५६०

सत्याषाढविरचितं श्रौतसूत्रं- [ ७ सप्तमप्र- भते, एकधैवास्मिन्निन्द्रियं वीयं दधाति नास्मै भ्रातृव्यं जनयतीति सौत्रामण्यामेकयू- पस्यैव सिद्धान्तितत्वात् । पशुरशनाकुम्भीप्लक्षशाखावपाश्रपण्यो भिन्ना एव । मीमांस- कमते सजातीयपशुबहुत्वेऽपि कुम्म्यादि तदेवेति द्रष्टव्यम् ।

स प्रथमः सोमानाम् ।

सोमानां मध्ये सोऽग्निष्टोमः सोमः प्रकृतित्वात्प्रथमो भवतीति शेषः । सर्वेभ्यः सोमेभ्यः पूर्वमग्निष्टोमाख्यः सोमः कर्तव्यो न त्रिवृदादयस्तद्गुणविकारा नचान्य उक्थ्यादय एकाहा द्विरात्रादयोऽहीनाश्चेत्यर्थः । तथाचाग्निष्टोमं प्रस्तुत्य ब्राह्मणम्- तस्मादाहुन्येष्ठयज्ञ इति प्रजापति व ज्येष्ठः स ह्येतेनाग्रेऽयजतेति । प्रजापतेज्येष्ठत्वं प्रथमोत्पन्नत्वात् । तेनेव सर्वेभ्यः सोमेभ्यः पूर्वमग्निष्टोमस्यानुष्ठितत्वाज्येष्ठत्वम् । प्रजापतिर्यथा सर्वोत्पादकत्वाज्ज्येष्ठस्तथाऽग्निष्टोमोऽपि सर्वेभ्यः सोमेभ्यो धर्माणां समर्पणाज्ज्येष्ठः । प्रजापतेः सर्वोत्पादकत्वं हिरण्यगर्भः समवर्तताग्र इत्यादिषु मन्त्रेषु प्रतिपादितम् । हिरण्यगर्भः प्रजापतिरेव । प्रजापति हिरण्यगर्भ इति श्रुतेः । एवं चाग्नि- ष्टोमे ज्येष्ठत्वं नाम प्रकृतित्वमेव । छन्दोगब्राह्मणमप्यग्निष्टोमस्य प्रथमत्वमाह एष वाव प्रथमो यज्ञो यज्ञानां य एतेनानिष्ट्वाऽन्येन यजते कञपत्यमेव जायते वा प्रमीयत इति । अस्ति चाग्निष्टोम एव सर्वधर्माम्नानम् । अतोऽग्निष्टोम एव प्रकृतिः । अत एव प्रथमो भवति । उक्थ्यः षोडश्यतिरात्रोऽप्तोर्यामश्चेत्यग्निष्टोमस्य गुणविकारा भवन्तीति वक्ष्यमाणसूत्रा. स्पष्टमग्निष्टोमस्य प्रकृतित्वं द्रष्टव्यम् । भरद्वाजोऽपि मुस्पष्टमाह नाग्निष्टोमेनानिष्ट्वैतरैः क्रतुभिरितीति । यजेतेति शेषः । नन्विद सूत्रं व्यर्थ नाकृतायां प्रकृतौ विकृतिर्भवतीति शास्त्रान्तरप्रसिद्धन्यायेनैव सिद्धेरिति चेन्न । स्वशास्त्र एतादृशन्यायसिद्धयर्थमेवैतत्सूत्र• प्रणयनात्।

अतिरात्रमेके प्रथमं यज्ञमधीयते ।

अतिरात्रस्य प्रकृतित्वाभावेऽपि प्रकृतिभूताग्निष्टोमादपि पूर्वभावित्वमतिरात्रस्य वचनादेक आचार्या वदन्तीत्यर्थः । तच्च वचनं शाखान्तरादुन्नेयम् । अत्रातिरात्रो ज्योतिरतिरात्रो ग्राह्यः । तेन ज्योतिष ऋद्धिकाम इति वक्ष्यमाण योनिभेदेन जैमिनि. नोक्तोऽतिरात्रः प्रथमो न भवति । अत्रेदं सिद्धमतिरात्रस्य सोमात्पूर्वभाविस्वमुत्तर- मावित्वं वा । अतिरात्रव्यतिरिक्तानां ऋतूनां त्वादग्निष्टोमोत्तरभावित्वमेवेति । सोमा- नामतिरात्रो वा प्रथमो यज्ञ इत्येतावतैव विकल्पे सिद्ध एके, एकेषामित्येवं क्वचित्क- चिद्वचनं मङ्गलार्थ कृतं द्रष्टव्यम् । तच्च विशेषणैकशब्दस्मारितविशेष्यभूताचार्यस्मर- णरूपं ग्रन्थस्य निर्विघ्नपरिसमाप्तये ग्रन्थमध्ये तस्य निबन्धनं तु शिष्यशिक्षार्थम् । प्रकृते फलं तु कर्मण्यपि मध्ये मध्ये मङ्गलकरणम् । आचरन्ति च शिष्टा ग्रन्यादौ न । १० पटलः ] गोपीनाथमदृकृतज्योत्सान्याख्यासमेतम् । अन्धमध्ये अन्यान्ते च मङ्गलं विघ्नशङ्कया । ग्रन्थादौ मङ्गलं यज्ञं व्याख्यास्याम इति यज्ञशब्दोपादानेन कृतम् । यज्ञो हि विष्णुरेव भवति यज्ञो वै विष्णुरिति श्रुतेः। कर्मण्यपि मङ्गलकरणं बौधायनेनोक्तं यज्ञाधिदैवतं विष्णु ध्यायतीत्यनेन । मङ्गलस्य समाप्तिसाधनत्वं तु मङ्गलं समाप्तिफलकं समाप्त्यन्याफलकत्वे सति सफलत्वादिति तार्किकोद्धोषितपरिशेषानुमानात् । तत्र विघ्नध्वंप्त एव मङ्गलस्य फलमिति नवीनास्ता- किंकाः । विघ्नध्वंतपूर्वकसमाप्तिः फलमिति प्राचीनास्तार्किका इत्यास्तामप्रस्तुतम् । वाशब्दप्रदर्शितविकल्पस्थले तुल्यविकल्पमात्रप्रदर्शनमेव नतु मङ्गलार्थत्वमपीति द्रष्ट- व्यम् । नन्वेक इत्येकेषामिनि वा यत्र पठ्यते तत्र तत्पक्षस्य हेयत्वप्रदर्शनार्थत्वमेवा- स्त्विति चेन्न । तत्पक्षानुक्त्यैव निर्वाहे तत्पक्षप्रदर्शनस्य निरर्थकत्वापत्तेः केषुचिरस्थ- लेषु मङ्गलार्थकत्वप्रदर्शनपूर्वकविकल्पदर्शन केषुचिकेवलविकल्पप्रदर्शनमेवेत्यत्र निया- मकं खतन्त्रेच्छस्य मुनेनियोगपर्यनुयोगानहत्वादिति न्याय एवं नान्यदिति ज्ञेयम् ।

अमावास्यायां यजनीयेऽहनि दीक्षते पौर्णमास्यां यजनीयेऽहनि सुत्यमहः ।

अमावास्यायां पौर्णमास्यामित्युभयत्रापि समीपसप्तमी । अमावास्यासमीपवर्ति यद्य- मनीयमहस्तस्मिन्दीक्षते । पौर्णमासीसमीपवर्ति यद्यननीयमहस्तस्मिन्नहनि सुत्यं सुत्या- पदहः । भवतीति शेषः । अर्शआदित्वामित्वर्षीयाच्प्रत्ययः । सूत्यमित्यत्र सुत्याशब्देन सोमकण्डनवत्कर्मोच्यते तद्वदित्यर्थः । यद्यप्यमावास्याशब्दः सूर्याचन्द्रमसोः परमसनि. कनिमित्तः पौर्णमासीशब्दश्च परमविप्रकर्षनिमित्तोऽतः संनिकर्षों विप्रकर्षश्च संधिमा ध्यमाणमात्रं तच्च पञ्चदशीप्रतिपदोः समानमेवेति तयोर्द्वयोरप्यमावास्यापौर्णमासीश- ब्दाभ्यां ग्रहणं सिद्धं तथाऽप्यत्रामावास्यासमीपवतियजनीयेऽहनि दीक्षायां पौर्णनासी- समीपवतियजनीयेऽहन्येव सुत्या न तु पर्वण्यपीतिप्रदर्शनार्थम् । यजनीयदीक्षासुत्या- विषय एव पौर्णमासीसमीपवर्तियजनीयेऽहनि दीक्षा, अमावास्यासमीपवतियजनीयेs: हनि मुत्येत्येतादृशवपरीत्यव्यावृत्त्यर्थं च । ननु संनिकनिमित्तप्रयुक्त पौर्णमाप्तीवं विप्रकर्षनिमित्तप्रयुक्तममावास्यात्वं पञ्चदशीवत्प्रतिपद्यपि समानमेवेति प्रतिपदोऽपि पर्णिमास्यमावास्याशब्दाभ्यां यथायथं ग्रहणमिति उक्तं तत्कथामिति चेत् । उच्यते- पौर्णमास्यां पौर्णमास्या यनतेऽमावास्यायाममावास्ययेति वाक्याभ्यां विहितो यागः संधौ यतेतिश्रुत्या पर्वप्रतिपत्संधी प्राप्तः । तत्र च यागाधिकरणीभूतपर्वप्रतिपरसंधि- रूपस्य कालस्य दुर्लक्ष्यत्वेन तस्यायोग्यत्वेन संधिममितो यजेतेति श्रुतिः संधिपार्श्वद्वय- गतं कंचित्स्थूलं काळं लक्षयति । तस्याप्ययोग्यत्वालक्षान्ता उपवस्तव्याः पक्षादयोऽ- भियष्टच्या इति गोभिलेन पञ्चदशीवत्प्रतिपदोऽपि यागाधिकरणत्वेन स्वीकारात्तत्रापि पर्वत्वमवश्यं स्वीकार्यम् । अन्यथा पौर्णमास्यां पर्णिमास्या यजतेऽमावास्यायाममावा- स्थयेत्ति वाक्याभ्यां पौर्णमास्यमावास्ययोर्याग उक्तः स प्रतिपदि विरुध्येत । अतोऽनु. ५६२ सत्याषाढविरचितं श्रौतसूत्रं- [७ सप्तमप्रश्ने- पपत्त्या चन्द्रपूरणनिमित्तोपलक्षितत्वेन चन्द्रशयनिमित्तोपलक्षितत्वेन च तत्तत्प्रतिपद्यपि पौर्णमासीत्वममावास्यात्वमवश्यमङ्गीकार्यमेव । तथा चन्द्रपूरणनिमित्तोपलक्षिता तत्प्र. तिपदपि पौर्णमासी चन्द्रक्षयनिमित्तोपलक्षिता तत्प्रतिपदपि अमावास्येति तत्र यष्टव्य. मित्यर्थादुक्तं भवति । यः परमो विप्रकर्षः सूर्याचन्द्रमसोः सा पौर्णमासी यः परमः संनिकर्षः साऽमावास्येति गोभिलवाक्ये क्षणमात्रमेव परमविप्रकर्षसनिकर्षशब्दवाच्यम् । उभयत्रापि पर्वप्रतिपदोः स स एव संघानं तदुभयोरपि तिथ्योः सममेवेति तिथिद्वया- स्मकः कालः स एव क्षणः । चन्द्रस्य पूरणनिमित्तलेन क्षयनिमित्तत्वेन चोपलक्षितस्त- त्तदुत्तरक्षणश्च तावान्कालः संधिशब्दवाच्यः । स च तिथिद्वयसंबद्ध इति पश्चदशीप्र- तिपदोरुभयोरप्यमावास्यापौर्णमाप्तीशब्दाभ्यां ग्रहणं युक्तमेवेति सुस्थम् ।

अमावास्यायां पौर्णमास्यां वा ।

मण्डूकप्लुत्या दीक्षत इत्येवानुवर्तनीयम् । तेनामावास्यायां दीक्षते पौर्णमास्यां का दीक्षत इत्यर्थो भवति । सुत्या तु सोमेनेष्टया पशुवन्धेन वाऽमावास्यायां पौर्णमास्यां वा यजेतेति सामान्यसूत्रादमावास्यायां पौर्णमास्यां वा भवति । अस्मिन्सूत्रे मुख्य- त्वेन मुत्याया एव यागशब्देन ग्रहणम् । एवं चात्रापि षोडशापवर्गताऽपरपक्षे यागश्व सिध्यति । ननु यं कामयेत क्सीयान्त्स्यादिति तं पूर्वपक्षे यानयेत्, वसीयानेव भव. तीति पूर्वपक्षयागस्य प्रस्तुतत्वात्, यं कामयेत पापीयान्त्स्यादिति तमपरपक्षे यांनये. त्पापीयानेव भवतीत्यपरक्षयागस्य निन्दितत्वात्कथमेतदिति चेन्न । आमावास्येन वा पौर्णमासेन वा हविषेष्ट्वा दीक्षतेति प्रत्यक्षश्रुत्या सोमे पूर्वपक्षयागनियमश्रुतेर्वाधितत्वात्। अस्यां श्रुतौ क्त्वाप्रत्ययश्रवणात्प्रकृतियागप्तमाप्तिप्तोमारम्भाव्यवधानमपि लभ्यते । पाशब्दद्वयश्रवणं द्वयोस्तुल्पबलत्वख्यापनार्थम् । न चोदगयन आपूर्यमाणपक्षे पुण्याहे यज्ञकालोऽनादेश इति च्छन्दोगसूत्रविरोधः । अस्मिन्नेव सूत्रेऽनादेश इति श्रवणादा. देशव्यतिरिकस्थल एवैतस्य कालस्य प्रवृतेः । प्रकृत आदेशस्यैव सत्त्वेन सूत्रविरोधा- भावात्पुण्याहपदसाहचर्यात्पाकयज्ञपरताऽपि च्छन्दोगसूत्रस्य गम्यते । यं कामयेत वतीयास्यादिति पूर्वपक्षयागप्रस्ताविका श्रुतिरप्यनादेश एव सावकाशा । वक्ष्यति च गृह्ये पाकयज्ञेष्वापूर्यमाणपक्ष इति पर्वणोः खण्डत्वे संधिमदहोरात्रयोदक्षिामुत्ये भवतः । एतदनुरोधेन दीक्षावृद्धिहातौ । कर्मण आरम्भापवर्गप्रधानत्वादेकादिदीक्षापक्षे मुख्यकाल उभयोरसंभवेनान्यतरचो- दितकाले कर्तव्यमित्यभिप्रायेणाऽऽह-

यदि त्वेका दीक्षा दे तिस्रश्चतस्रोऽपरिमिता वा तत्रापर्वणि सुत्यमहर्दीक्षा वा।

दीक्षाशब्दस्य वचमविपरिणामेन द्वे तिस्र इत्यादिष्वन्वयः । अपरिमितशब्द उक्तप्रमाणाधिकपमाणवाची । अपरिमितं प्रमाणादूय इति कात्यायनोक्तः । तत्रापरि- १५० पटलः ] गोपीनाथभट्टकृतज्योसाव्याख्यासमेतम् । ५६३ मितत्वावधिर्मासः संवत्सरो वा सामर्थ्यानुसारेण । अथवा यावत्पर्यन्तं कृशता तावत् । तथाचाऽऽपस्तम्बः-द्वादशाध्यमवरं दीक्षितो माति माम संवत्सरं यदा वै कृशः स्यादि. त्यपरमिति । अत्राऽऽश्वलायनो व्यवस्थामाह-दोक्षणादिरात्रिसंख्यानेन दीक्षा अप-. रिमिता एकाहप्रभृत्या संवत्सरात्संवत्सरं वेव सवते द्वादशाह तापश्चितेषु यथा मुत्यो- पसदः कर्माचारस्त्वेकाहानामेका तितो वा दीक्षास्तिस्त्र उपलदः सुत्यमहरुत्तम दीक्षान्ते रानक्रयस्तदहः प्रायणीयेष्टिरिति । द्वादशाहस्तु लिङ्गात्स्यादिति सूत्राभ्यां द्वादशाहनापश्चितेषु सत्रेषु यथा मृत्योपसदस्तथा दीक्षा अपि उपमन्संख्याया अध्यन्यत्राविहितत्वादत्रैव विधिः कल्प्यते वसंख्याः सुत्या उपसदश्च तत्संख्या एवेति । पतदुक्तं भवति-द्वादशाहतापश्चिनेषु यत्संख्याः मुत्यास्त संख्या एवोपसदश्च दीक्षाश्च भवन्तीति । आचर्यतेऽस्मिन्नित्याचारः कालः कर्मण आचारः कर्माचार एकाहाना प्रयोगकालो वक्ष्यत इत्यर्थः । एकाहशब्देन विकृत्येकाहा उच्यन्ते बहुवचनसंबन्धात् । प्रकृतौ दीक्षाणां विहितत्वाच्चतुःशब्दो विशेषविष्यर्थोऽन्यत्स्पष्टम् । एते कल्पाः प्रकृ. तावेव विकल्पते सर्वेषां प्रकरणानानाविशेषात् । यथोक्तं षष्ठाध्याये पञ्चमे पादे नैमिनिना दीक्षापरिमाणे याधाकाम्यमविशेषात् । सर्वेषां पक्षाणामविशेषात्, विशेषा- भावात् । द्वादशाहस्तु लिङ्गात्स्यादिति सूत्राभ्याम् । द्वादशाहं दीक्षितो भृति वन्वी. तेति लिहाबादशदीक्षापक्षोऽपीति द्वितीयसूत्रार्थः । भृतिवननं तु द्वादशपक्षे मविष्यति । यद्वा दीक्षितो भृति वन्वीतेत्येतावद्विधीयते । द्वादशमहणं तु प्रदर्शनार्थमिति पातिक- कारतिमनुस्त्येदं व्याख्यानम् । यदि त्वेकायन्यतमदीक्षापक्षस्तदा गौणमुख्यन्याये- नापर्वणि सुत्यमदीक्षा वा भवतीत्यर्थः । तत्र पर्वणि मुत्ये ययमेव पक्षः प्रबलः । सोमैनेष्टवीतपरिभाषासूत्रात् । कथमेकावरेषु दीक्षाकल्पेषु तत्रापर्वणि दीक्षा मुत्या. वा स्यादपर्वणि वा दीक्षां पर्वण्येव सुत्यां संपादयविति भारद्वानसूत्रात् । अङ्गगुणविरोधे च तादर्यादिति द्वादशाध्याये द्वितीयपादे जैमिन्युक्तेश्च । अङ्गानि दीक्षणीयादोनि तेषां गुणः प्रथमदिनादिकर्तव्यतारूपः । तत्र संकलशादिय्पच्छे इनान्तं प्रथमदिने कर्तव्यम् । प्रवर्यसत्त्वे प्रवर्यसंभरणमपि । प्रायणीया सोमक्रय आतिथ्या प्रवर्य उपस- त्प्रवर्दी उपसचेत्येतानि द्वितीयदिने कर्तव्यानि । प्रवर्य उपसत् , वेदिकरणं वार्य उपसञ्चेत्येतानि तृतीयदिने कर्तव्यानि । प्रवर्य उपसत्प्रवर्य उपसत्प्रवग्योंद्वाप्सनमग्नि- प्रणयनं शाखाहरणं काष्ठवेदिनहि प्रोक्षणं वेविस्तरण हविर्धानप्रणयनमुपरवकरणमाग्नी- धीयमानमौदुम्बयुच्छ्रयणं सदाकरण धिष्णियनिवपनान्वाधानादिक साग्नीषोम प्रणयन- वसतीवर्याहरणं पमुतन्त्रं वसतीवरीपरिहरणादिकं चेत्येतानि चतुर्धदिने कर्तव्यानि । प्रधानो जघन्यः सोमयागः ससवनीयादिः पञ्चमदिने कर्तव्यस्तत्र य इति वाक्येन विहितपर्वकालविरोधे प्रधानस्यैव धर्मानुग्रहः । अङ्गानां प्रयानसागुण्यार्थत्वेन तद्विरो. १ क, नट्वेति। - - ५६४ सत्यापाढविरचितं श्रौतसूत्र- [७ सप्तमप्रश्ने- धेसाहुण्यस्याकिंचित्करत्वात् । लोके प्रथमं बहुमिरवरुद्धे स्थले पश्चादागतस्यैक- स्यापि राजस्तद्ग्रहणदर्शनाच्च । अतस्तत्र सोमयागस्यैव पाठतोऽनुष्ठानतश्च जघन्य. स्यापि प्रधानतया पर्वकालकत्वम् । दीक्षणीयादेस्तु पाठतोऽनुष्ठानतश्च प्रथमोपस्थित- त्वेऽपि एकादिदीक्षापक्षे न पर्वानुग्रहः । द्वादशदीक्षापक्षे त्वविरोधादीक्षणीयायामपि सः । अङ्गगुणेन सह विरोधोऽङ्गगुणविरोधः । तस्मिन्नङ्गगुणविरोधे । अङ्गगुणविरोध इत्यत्र प्रधानगुणस्येति शेषः । तथा च गुणेन सह प्रधानगुणस्य विरोधे सतीत्यर्थों भवति । तच्छब्दस्य सर्वनामत्वेन प्रधानपरामर्शित्वम् । तथाच तादात्प्रधानार्थत्वा- दित्यर्थो मवति । अङ्गानामिति शेषः । अङ्गानां प्रधानार्थत्वात्प्रधानानुग्रह एव न्याय्य इति सूत्रार्थः । दीक्षाया एकत्वादिकं शतपथ आम्नातम्-एकरात्रं दीक्षितो राजानं क्रीणाति यहे व्यहे चतुरहेऽपरिमिते ति । इदं च यानमानसू. त्रेऽप्यनूदितमाचार्येण । अमावास्यायां यजनीये वा दीक्षायां चतुर्थ्यादिषु पञ्च- म्यादिषु वा यथोपनतं सुत्या । पौर्णमास्यां यजनीये वा सुत्यायां तदनुरोधे. नैकादिदीक्षाकल्पनम् । असंभवे शुक्लपक्षान्तर्गते देवनक्षत्र एव वा । यान्येव देवनक्षत्राणि । तेषु कुर्वीत यत्कारी स्यात् । पुण्याह एव कुरुत इति श्रुतेः । भामावास्येन वा हविषेष्ठा नक्षत्रे वेति सोमे बौधायनवचनाच्च । यत्कर्म कर्तुं शीलं यस्य स यत्कारी । देवनक्षत्राणि श्रुतौ प्रदर्शितानि-कृत्तिकाः प्रथम विशाखे उत्तम तानि देवनक्षत्राणीति । ज्योतिःशास्त्रे सोमदेवते नक्षत्र आरम्मोऽतिप्रशस्त इत्युक्तम् । सोमारम्भो वसन्तेऽतिप्रशस्तः । सोमदेवत इति सोमदेवतं मृगशिरः केवलं शुक्लपक्ष एव वा । उक्तं च कौषीतकिमिः-अमावास्यायां पौर्णमास्यां वा मुत्यमहर्दीक्षा वा शुक्लपक्ष एव वेति । केवले शुक्लपक्ष एव वोभयमित्यर्थः । शाखायन:-शुक्लपक्षे दीक्षा पुण्ये नक्षत्रे समापनं चेति । सूत्रकृताऽपि सोमेनेष्ट्या पशुबन्धेन वाऽमावास्यायां पौर्णमास्यां वा यनेतेति विपरीताभिधानेन ज्ञापितमस्ति अमावास्यापौर्णमासीमध्यगत. कालस्य केवलस्यापि कृत्स्नयागाङ्गत्वमस्तीति । एतेनापरपक्षस्य नास्तीत्यर्थासिध्यति । पौर्णमास्यां दीक्षायां चतुर्थादिषु सुत्या तद्यननीयायां दीक्षायां पञ्चम्यादिषु सुत्येत्यपि द्रष्टव्यम् । श्रूयते तिरेयिणामस्मिन्नर्थे श्रुतिः-आमावास्येन वा हविषेष्ट्वा पौर्णमासेन वा तस्मिन्नेव हविषि तस्मि-बर्हिषि दीक्षेतैषो एका दीक्षेति । अमावास्या. काले कर्तव्यं हविरामावास्यं पौर्णमास्यां कर्तव्यं हविः पौर्णमास, हविःशब्दोऽत्र यज्ञमुपलक्षयति । वाशब्दो समुच्चयार्थो । अमावास्यासंबन्धिना पूर्णमाप्तीसंबन्धिना वा यज्ञेनेष्ट्वा दीक्षेत तस्मिन्हविष्यवेत्येवमन्वयः । तस्मिन्बहिषीत्यत्राप्येवेत्यस्यान्वयः । अत्रापि हविःशब्दो यज्ञोपलक्षकः । एवं बर्हिःशब्दोऽपि । तस्मिन्नामावास्याख्ये हविषि यज्ञे तस्मिन्पौर्णमासाख्ये बर्हिषि यज्ञेऽनुष्ठिते सति पश्चादेव दीक्षतेत्यर्थः । तस्मिन्नेव हविषि तस्मिन्बाहिपि दीक्षेतेत्ययमुक्तस्यैव प्रपञ्चः । एषा उ इति पदच्छेदः। - १५०पटलः ] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । उकारोऽपिशब्दार्थकः । एषाऽप्येका दीक्षा । एवमुक्ते सत्यप्यन्याऽपि काचिद्दीक्षाऽ. स्तीति सूचितं मवति । अत एव सूत्रकार इष्टिपूर्वत्वं सोमपूर्वस्वं चेत्युभी पक्षादान- हार । लाट्यायनद्राह्मायणावाहतुः-प्रथमायां पूर्वपक्षस्य दीक्षेतेषो एका दीक्षा दृष्ट्वा वा नक्षत्रयोगमिति । नक्षत्र योगमित्यस्यायमर्थः-चैत्र्यादिपौर्णमासीयु चित्रादिनक्षत्रयोग दृष्ट्वा दीक्षतेति । अमावास्यायां सुत्यायों तु शास्त्रान्तराद्वादशैव दीक्षा नियताः । पूर्व- पक्षयागविधायिका श्रुतिस्तु आदेशव्यतिरिक्तस्थल एवेति दर्शितमेव प्राक् । अमावा. स्यायां दीक्षा पौर्णमास्यां सत्येत्यस्मिन्कल्पे दर्शपूर्णमासेष्टी अतिपन्ने तदर्थ ऋतुसमाप्त्य- नन्तरं पधिकृवैश्वानयाँ कायौँ । यदि द्वितीयादिप्रयोगोऽनयोः । एकस्या अतिपातने पाथिकृती वैश्वानरी वा । पौर्णमास्यां दीक्षाऽमावास्यायामावर्तनप्राक्कालिकसंधिमल्या मुत्या यदा तदा पौर्णमासदर्शातिपातने दोषो नेति कचित् । यदाऽऽवर्तनोत्तरकालिक. संधिमत्याममावास्यायां दीक्षाऽऽवर्तनप्राकालिकसंधिमत्यां पौर्णमास्यां सुत्या तदा तु पूर्णमासस्य चैकापूर्वजनकत्वनिर्वाहान्यथानुपपत्त्या लोपप्रायश्चित्तं कर्तव्यमेवेत्यवश्य- मङ्गीकर्तव्यमेव । यदा तु प्रथमः पूर्णमासस्य लोपोऽनन्तरं दर्शस्य तत्र प्रायश्चित्तं नैवेति द्रष्टव्यं सुधीभिः । जुहोतेणं यजतेरुपलक्षणम् । आधानानन्तरं प्रथमसंवत्सरे घसन्ते सोमारम्भः कर्तव्य इति यानिकप्रसिद्धम्। तत्र वसन्तश्चान्द्रप्सौरभेदेन द्विविधः । पैत्रवैशाखात्मकमासद्वयात्मा चान्द्रः । मध्ये मलमासेऽपि षष्टया तु दिवसासः कथितो बादरायणैः । इति स्मृतमसिद्धगात्मक एको मासस्तेन मासद्वयात्मकत्वं न विरुध्यते । मासद्वयात्म. कत्वं वसन्तर्मिधुश्च माधवश्च वासन्तिकावृतू इत्यनया श्रुत्या । सौरो वसन्तस्तु मीनमेषात्मको मेषवृषात्मको वा । मीनमेषयोर्मेषवृषयोर्वा वसन्त पायनोक्तेः। अनयोविनियोगः स्मृतौ-- श्रौतस्मातक्रियाः सर्वाः कुर्याचान्द्रमसतुषु । तदभावे तु सौरतुष्विति ज्योतिर्विदां मतम् ॥ इति । एतादृशद्विविधवसन्तान्तर्गतपर्वमु मध्ये यत्पर्व मलमासास्तादिक्षितं न भवति तत्रैव सोमस्य कर्तव्यत्वात्तदर्थ निर्णयः क्रियते । तत्र कालादर्श स्मृतिः- अनित्यमनिमित्तं च दानं च महदादिकम् । अग्न्याधानाध्वरापूर्वतीर्थयात्रामरक्षणम् ।। देवारामतडागादिप्रतिष्ठा मौजिबन्धनम् । आश्रमस्वीकृतिः काम्यवृपोत्सर्गश्च निष्क्रमः ॥ 7 - - ५६६ सत्याषाढविरचितं श्रौतसूत्र- [७ सप्तमप्रश्ने- राजाभिषेकः प्रथमश्चूडाकर्म व्रतानि च । अन्नप्राशनमारम्मो गृहाणां च प्रवेशनम् ॥ नानं विवाहो नामातिपन्नं देवमहोत्सवः । व्रतारम्भ समाप्तिं च काम्यस्यैव च पाप्मनः ॥ प्रायश्चित्तं तु सर्वस्य मलमासे विवर्जयेत् ॥ इति । अध्वरो यज्ञः। काठकगृह्ये- रविसंक्रमहीने यो वावयविधिः स्मृतः । स एव तु द्विसंक्रान्ते मलमासेऽप्युदीरितः ॥ इति । बृहस्पतिः-बाले वा यदि वा वृद्धे शुक्रे चास्तं गते रवौ । मलमास इवैतानि वर्जयेद्देवदर्शनम् ॥ इति । लल्लः-नीचस्थे वक्रसंस्थेऽप्यति चरणगते बालवृद्धास्तगे वा संन्यासो देवयात्रा व्रतनियमविधिः कर्णवेधस्तु दीक्षा । मौजीबन्धोऽङ्गनानां परिणयनविधिर्वास्तुदेवप्रतिष्ठा वाः सद्भिः प्रयत्नात्रिदशपतिगुरौ सिंहराशिस्थिते च ॥ इति । दीक्षा यागदीक्षा मन्त्रदीक्षा च । क्षयमासादिनिषेधास्तत्प्रतिप्रसवाश्च मत्कृतस्मात- संस्काररत्नमालातोऽवगन्तव्याः । यद्यपि काम्यारम्भं समाप्तिं च मलमासे च वर्जये. दिति काम्पारम्भसमाप्तिनिषेधेन नित्यनैमित्तिकारम्भप्समाप्त्योरनिषेधस्तथाऽपि मलेऽन- न्यगतिं कुर्यान्नित्यां नैमित्तिकी क्रियामिति वचनात्संभवे निषेधोऽनयोरप्यस्त्येव । प्रथमे प्रयोगे गत्यन्तराभाव आरम्मः कर्तव्य एव । यद्यनतिक्रान्तः कालो भवति । यानि तु-उपरागोऽधिमासश्च यदि प्रथमपर्वणि। तथा मलिम्लुचे पौषे नान्वारम्मणमिष्यते ॥ गुरुभार्गवयोर्मोत्ये चन्द्रसूर्यग्रहे तथा । इत्यादीनि वचनानि तान्यालस्यादिनाऽतिक्रान्तशुद्धकालपारम्भविषयाणि । नामकर्म च दर्शष्टिं यथाकालं समाचरत् । अतिपाते सति तयोः प्रशस्ते मासि पुण्यभे ॥ इत्यपरार्के गर्गोक्तेरिति धर्मशास्त्रनिबन्धकाराः । कालप्राप्तस्य न दोष इति भावः । एवं चाष्टदोषग्रस्तो विकल्पः परिहृतो भवति सति संभवे । दर्शेष्टिग्रहणं नित्यनैमित्ति- कौतकर्मोपलक्षणम् । आरम्भणीयाग्रहणं कर्मारम्भोपलक्षणम् । पूर्वत्र दीक्षानिषेधः काम्यदीक्षापरः कालान्तरसंभवे दीक्षानिषेधपरो वा । इदानीमाचारस्तु शिष्टानामननु. १ क. ख. नां प्रतिगमन । १०. पटलः ]. गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । छानमेव । यदि तु वसन्तेऽन्तिममेव पविशिष्टं तच व्यतीपातादिदोषग्रस्तं तत्र श्रौतस्य प्रावल्यात्कारम्मः कर्तव्य एवेति यद्यपि प्राप्त तथाऽपि ज्योतिःशास्त्रस्य "निरवकाशत्वाद्वेदाङ्गत्वेन समबलत्वाच्च तदुक्ता दोषा अप्यङ्गोकार्यो एवेत्यस्त्व- प्रस्तुतविचारः । यदि त्वेकादिदीक्षास्तत्रापर्वणि मुत्यमहदींक्षा वेत्येतावत्येव वक्तव्ये चतुर्णा पृथगुपादानमारम्भे यः पक्षः कर्तव्यो भवति तस्य संकल्पे ऽवधारणं कर्तव्यं पञ्च- षट्सप्ताष्टनवदशैकादशान्यतमसंख्यात्मकापरिमितदीक्षापक्षे पञ्चषट्सप्ताष्ट नवदशैकाद- शान्यतमाविभक्तिकसंख्याशब्दमुच्चा-परिमितदीक्षापक्षमाश्रित्येत्येवमुच्चार्यमित्येवरूपेण संकल्पेऽवधारणम् , एकद्वित्रिचतुरन्यतमसंख्यात्मकदीक्षापक्ष एकद्वित्रिचतुरन्यतमम- विमक्तिक संख्याशब्दमुच्चार्य दीक्षापक्षमाश्रित्येत्येवमुच्चार्यमित्येवंरूपेणैव संकल्पेऽव. धारणमित्येताहशप्रयोजनभेदं प्रदर्शयितुम् । युगपत्कामयेताऽऽहारपृथक्त्वे वेति प्रथ- मसूत्रप्रयुक्तो विचार इत्यनन्तरं निरूपणम् । कालस्य सर्वापेक्षया मुख्यानत्वात्तदनन्तरं विधिः । प्रसङ्गसंगत्या तदनन्तरं प्रकृतिविकृतिपौपिनियामको दर्शपूर्णमासारम्मा- साकर्तव्यतानिषेधः । तदनन्तरं प्रसङ्गसंगत्वाऽनिष्टोमस्य सर्वसोमप्रकृतित्वप्रदर्शनम् । प्रसङ्गसंगत्याऽतिरात्रस्याग्निष्टोमपूर्वमावित्वप्रदर्शनम् । आकाक्षितत्वात्तदनन्तरं दीक्षाणां यागार्थानां संख्यादिप्रदर्शनं चात्रैव कृतमिति द्रष्टव्यम् । अमावास्यायां यजनीयेऽ. हनीत्यादिदीक्षा वेत्यन्त सर्वक्रतुसाधारणम् । विशेषतस्तु तत्र तत्र सूत्रकारः एक वक्ष्यति । यत्र कर्तृनिर्देशो नास्ति तत्र य देनाध्वर्युरिति परिभाषयाऽवयुरेव कर्तेति सार्वत्रिकम् ।

महन्मेऽवोचो यशो मेऽवोचो भर्गो मेऽवोचो भुक्तिं मेऽवोचः स्तोमं मेऽवोचः सर्वं मेऽवोचस्तन्माऽवतु तन्मा विशतु तेन भुक्षिषीयेति वृतो वृतो जपति ।

यज्ञोपवीतं कृत्वाऽप आचम्य प्राङदवा तिष्ठञ्जपत्यासीनो वेति भरद्वानः । यजमानेन वृतो वृत ऋविगिम मन्नं जपतीत्यर्थः । वृतो वृत इति वीप्सा यदेनाध्वर्युरिति परिभाषयाऽध्वयोरेव स्यात्तन्मा मृत् । किं तु सर्वेषामपि यथा स्यादित्येतदर्थम् । वृतो यजमानेन प्रार्थनया स्वकर्तव्याग्निष्टोम आविज्य- प्रवृत्तिमाकृत इत्यर्थः । तथा चाऽऽश्विज्यप्रवृत्तावेवायं मन्त्रजप इति लम्यते । अमुमर्थमाहतु द्यायनद्राह्मायणौ-सोमप्रवाकमकरिष्यन्नमः सोमाय राज्ञ इत्युक्त्वा प्रत्याचक्षीत महन्मेऽवोच इति करिष्यन्प्रतिमनयेतेति । एतेनायाजयिष्यतोऽपि पो भूर्भुवः सुवरायुमें प्रायोचो वर्षों में प्रावोचो यशो मे प्रावोचः श्रियं मे प्रावोच आयु- प्मानहं वर्चस्वी यशस्वी श्रीमानपचितिमान्भूयास भूर्भुवः सुवः सबै भूयासमित्युक्त्वा प्रति वाऽऽचष्टे प्रति वा जानीत इति भारद्वानोक्तो निवार्यते । प्रत्याख्यानं निराकर५६८ सत्याषाढविरचितं श्रौतसूत्रं- [७सप्तमप्रश्ने- णम् । प्रतिज्ञानमात्विज्यं करिष्यामीति निश्चयः । सत्रे वरणाभावाजपस्याप्यभावः इत्यप्येतेन सिद्धं भवति । जप उच्चारणमात्रम् । व्याकरणरीत्या स्वराणां विज्ञातत्वे जपत्वाच्चातुःस्वयम् । अविज्ञातत्व ऐकश्रुत्यम् । एवं सर्वत्र सौत्रमन्त्रजपे द्रष्टव्यम् । जपव्यतिरिक्तकर्मसु सौत्रेषु वैदिकेषु च मन्त्रेषु तु यज्ञकर्मण्यजपन्यूलसामस्विति पाणिनिस्मरणादैकश्रुत्यमेव । तानो वा प्रावचनो वेति कात्यायनप्रातिशाख्यसूत्रात्पक्षे चातुःस्वर्यमाप । तान ऐकश्रुत्यम् । तत्स्वरूपमाहाऽऽश्वलायनः-उदात्तानुदात्तस्वरि- तानां परः संनिकर्ष ऐकश्रुत्यमिति । प्रवचनो वेदपाठस्तत आगतः प्रावचनः । यथा वेदे पठितः स्वरस्तथेत्यर्थः । आचार्यस्य तूमयमपि अभिमतमिति विशेषानुक्त्या ज्ञायते । वैदिकमन्त्राणां जपे तु चातुःस्वयमेव । अभिमन्त्रणानुमन्त्रणाभिमर्शनोपस्थानानामपि नागृहीतविशेषणा बुद्धिरिति न्यायेन जपपरत्वाजपवदेतेषामपि स्वरः उपांशुत्वं यानुर्वेदिकत्वाद्यजुर्वेदेनोपांश्वितिपरिभाषासिद्धम् । साँपाशु ज्योतिष्टोमे प्रागनीषो- मीयादिति सूत्रादित आरभ्यानोषोभीयस्य पशोस्तन्त्रं प्रक्रमयतीत्येतस्मात्प्राग्य ऋग्वेद- सामवेदमन्त्रास्तेऽपि उपांश्चैव प्रयोक्तव्याः । तत ऊर्ध्व यथोक्तस्वर एवेति द्रष्टव्यम् । श्रोते सौत्रमन्त्रवैदिकमन्त्राणामृष्यादिस्मरणे विकल्पः । तत्रर्षयः काण्डानुक्रमणिकातो द्रष्टव्याः । छन्दः पिङ्गलादिशास्त्रात्पादंबद्धमत्राणाम् । देवतास्तु 'मन्त्रलिङ्गात् । इदानी शिष्टैरस्वीकारादृष्यादिकं नात्र प्रदर्यते । प्रयोगकाले मन्त्राणां पाठः सर्वत्र मध्यमया वृत्त्यैव नतु द्रुतया विलम्बितया च वृत्त्या । तथा च स्मृत्यन्तरम्- अभ्यासार्थे द्रुतां वृत्तिं प्रयोगार्थे तु मध्यमाम् । शिष्याणामुपदेशार्थे कुर्यावृत्तिं विलम्बिताम् ॥ इति ।

देवो देवमेतु सोमः सोममेत्वृतस्य पथा विहाय दौष्कृत्यमित्यभिप्रव्रजति ।

दीक्षणीयाविहारं गन्तुं गृहाबहिनिर्गच्छति देवो देव इ(मि)तिमन्त्रेण ।

पद्वा नामासि स्रुतिः सोमसरणी सोमं गमेयमिति पन्थानमातिष्ठते ।

दीक्षणीयाविहारगामिनं गं) पन्थानं प्रपद्यते पवेति मन्त्रेण ।

पितरो भूरिति त्रिः पितॄनभिमन्त्रयते ।

स्वाम्पितूनभिमन्त्रयते । दिव्यान्वा । मन्त्रप्रतिपाद्यं पदार्थं ध्यायंस्तत्पदार्थाभिमुख. स्तमीसंस्तं* संस्तुवन्मन्त्रं पठेदित्येतदभिमन्त्रणम् । अत्र मन्त्रप्रतिपाद्याः पितरस्तेषाम

  • ईक्षनिति प्रामादिकम् ।

१ क. 'दम। १५० पटलः ] गोपीनाथभट्टकृतज्योत्साव्याख्यासमैतम् । ५६९ प्रत्यक्षत्वादभिशब्दार्थ आभिमुख्यं न भवति कित्यभिध्यानमेव । तथाचाभिशब्दोऽन्त्रि- त्युपसर्गस्यार्थे । तथाचाभिमन्यत इत्यस्यानमन्त्रणमेवार्थ इति । अथवा-एषा वै पितृणां दिगिति श्रुत्या दक्षिणदिशः पितृसंबन्धित्वदर्शनापितॄणामप्रत्यक्षत्वेऽपि तत्सं- बन्धिदिशः प्रत्यक्षत्वात्तदाभिमुख्येन पित्राभिमुख्यमेव । दिक्शब्देन देश एवात्र ग्राह्यः । अन्यथा तहोपतावस्थ्यापत्तेः। एतेन दूरत्वसमीपत्वकृतपरत्वापरत्वलिङ्गकानुमानगा म्याया दिशः कथं प्रत्यक्षत्वमिति शङ्का परास्ता । अत्र दक्षिणाभिमुखता, एषा के पितृणां दिगिति दर्शनात् । आपस्तम्भेनापि दक्षिणावृत्तः पितॄनुपतिष्ठत इति दक्षिः णावृत्तशब्देनोक्ता । भरद्वाजस्तु पितृन्दक्षिणामुख उपतिष्ठत इति स्पष्टमेव दक्षिणा मुखतामाह । अत्र प्राचीनावीते विकल्पः । अनियमोऽन्यत्रेति परिभाषासूत्रात् । यत्र यंत्र प्राचीनावीतित्वविधानं तत्रैव तन्नान्यत्रेत्यवश्यं वक्तव्यम् । अन्यथा तस्य वैय- र्थ्यांपत्तेः । तथा च प्रकृते विधानाभावाददनियमोऽन्यत्रेति परिभाषाया एव प्रवृत्तिः । यत्रैकस्मिन्द्रव्ये चेष्टापृथक्त्वेनापों निष्पद्यते सकृदेव तत्र मन्त्रं ब्रूयादिति परिभाष या सकृन्मन्त्रेण द्विस्तूष्णीमिति न भवति किं तु मन्त्रावृत्तिरेवात्र । अभिमन्त्रणस्योच्चार- पप्रधानत्वात् । स्वपितृपक्षे जीवरिपतृकस्यामिमन्त्रणे विकल्पः । तथा च लाद्यायन. दाह्मायणौ--यजुरन्तरयेऽन्वाहारं धानंजय्य उपेक्षण शाण्डिल्य इति । अस्याः-- यजुषामन्तरयो यजुरन्तरयस्तस्मिन्यजुरन्तरये । अन्तरय उत्सर्गः । जीवरिपतृकस्यैत- नमन्त्रोत्सर्गे विचार उत्सर्गः कर्तव्यो वा न कर्तव्य- इति । तत्र धानंजय्योऽन्वाहार मन्यते । अन्वाहारोऽनुत्सर्ग इति । उपेक्षणं वर्जनमिति शाण्डिल्यो मन्यत इति । यजमानस्य पितॄनग्निप्वात्तादीन्पितन्वाऽवमादीन्पितन्वोद्दिश्य जपः कर्तव्य एवेति धान. अय्याशयः । स्वानेव पितॄनुद्दिश्य जपः स्वपितृजीवने लोप एवेति शाण्डिल्याशयः । तथाथैवं सिद्धं भवति-स्वपितृपक्षे स्वपितु वने लोपः । यजमानपितृपक्षे यजमानपितृ जीवने. लोपः । दिव्यपक्षेऽमिष्वात्तादीनामुपस्थान जीवपितृकेणापि कार्यमेव । त्रयों ह नु वै पितरोऽवमा और्वाः काव्या इति च्छन्दोगश्रुत्युक्तानामवमादीनां वेति । एकव- चनादध्वयोरेव देवो देवमित्यादि न सर्वेषामृस्विनाम् । अथवा वृतो वृत इत्यनुवर्तनी- यम् । एवं च समन्त्रकमभिप्रजननं पन्था(थ्य)धिष्ठानमनिमन्त्रणं च सर्वेषामपि भवति । अस्मिन्पक्षे संमारयज़हमिऽपि सर्वकर्तृकतां व्यावर्तयितुमेवाग्रिमसूत्रे दाक्षिण्यमाणवचनम् । अत्र कूश्माण्डहोमः कर्मादिप्वाहयादिति श्रुतेः । स च श्रुत्युक्तरीत्या बौधायनोक्त- रीत्या वा । श्रुत्युक्तरीत्या क्रियमाणे वैश्वानरायेत्यनुवाकेन सणवोपस्थानं नत्वन्त्यया समिदाधानमेवं वरदानमपि न | बौधायनोक्तरीत्या क्रियमाणेऽन्त्यया समिदाधान वर- दानं च भवति । विष्योऽभ्यातिन्यथास्मिन्कुश्माण्डहोमे बौधायनोक्तरीत्या क्रियमा- णेऽपि न भवन्ति । उद्धरणपक्षे कूश्माण्डहोमार्थमुद्धृतमाहवनीयं परित्यज्याऽऽयतनं '- - ५७० सत्याषाढविरचितं श्रौतसूत्रं- [७ सप्तमप्रश्ने- गोमयेनोपलिप्यं पुनस्तं विहृत्य प्रवर्यसभरणं कुर्यात् । अत्र प्रवर्यसंभरणे यजमानस्य दीक्षितत्वाभावाद्धोमो भवत्येव ।

दीक्षिष्यमाणस्याग्निर्यजुर्भिरिति द्वादश संभारयजूꣳषि जुहोति ।

द्वादशभिः समारयजुभिः संभारयजुःसंज्ञकैर्मन्त्रैर्नुहोतीत्यर्थः । अथवा द्वादशसं. भारयजुर्नामकान्होमा होतीत्यर्थः । प्रथमान्ता अग्न्यादयस्तृतीयान्ता यजुरादयश्च देवताः । उत्तमस्य मह्यं श्रद्धाया इति । अथवाऽहंकाराख्यदेवताविशेषस्य वाचकमह. मित्यव्ययात्मकं पदम् । अस्मिन्पक्षेऽहं श्रद्धाया इदमित्येवोद्देशत्यागवाक्यम् । यजुभिः सहितायाग्नय इदं० । स्तोमैः सहिताय सवित्र इदं० इत्येवमेव त्यागवाक्यानि युक्तानि । उत्तमं तु श्रद्धया सहिताय मह्यमिदं० श्रद्धया सहितायाहमिदमिति वेति ज्ञेयम् । दीक्षिष्यमाणवचनमतस्य होमस्य दीक्षार्थत्वमेव न वरणार्थत्वमिति बोधयितुम् । वरणप्रयुक्तत्वाभावादेव सर्वविक्ककिताव्यावृत्तिरित्यांशिक प्रयोजनं प्रागुक्तमेव । अन्यच्च प्रयोजनं यः प्रधानस्य कालः सोऽङ्गाना स देशः स कर्ता सोऽग्निरिति परिभाषया दीक्षाया अपराह्ने क्रियायामतस्याप्यपराह्न एव कर्तव्यतेति । तत्राय प्रकारः-प्रातरेव संकल्पादिकूश्माण्डहोमान्ते कर्मणि जाते सत्यपराह्णप्रतीक्षार्थ विर- म्यापराह्न एव द्वादशसंभारयजुर्चीमादीति । कूश्माण्डहोमोत्तरं प्रवर्यस्यैवाऽऽदौ संभ. रणमिति कल्पे प्रातरेव तदन्ते कर्मणि जाते विरम्यापराह्ने द्वादशसंभारयजु)मादीति । अत्रापराहो द्वेधाविभक्तदिवसस्य द्वितीयो भागस्त्रेधाविभक्तदिवसस्य तृतीयो भागो वा ननु पञ्चधाविभागोऽत्रेत्यत्र मूलं याजमानसूत्रे प्रदर्शयिष्यते । द्वादशवचनमितरमन्त्र. निवृत्त्यर्थमितरहोमनिवृत्त्यर्थं वा । अग्निर्यमिरितिवचनं संभारयषि वाचयति जुहोति चैतमन्त्रैः संभारयषि व्याख्याय निर्मन्थ्यस्याऽऽवृता निर्मन्थ्येन प्रचरतीत्येतेषु संभारयजूंषि कानीत्याकाङ्क्षा निराकर्तुम् । उपस्थितत्वादादित एव द्वादश । अग्नि मिरित्यादीनां सापेक्षत्वात्प्रकाशनाशक्तेस्त इमं यज्ञमवन्त्वित्यनेन नैरपेक्ष्यदर्शनात् । सर्वेषु वाक्येषु तदन्वयो मा भूदित्येतदर्थमेषोऽनुवाक आम्नात इत्याम्नातग्रहणमापस्त- बेन कृतमिति द्रष्टव्यम् । संमारयजु)मार्थ पुनर्विहरणम् । होमान्ते परित्यागः। यत्र मन्त्रगणेन कर्म चोदयेत्प्रतिमन्त्रं तत्र जुहयादिति परिभाषया प्रतिमन्त्रं होमः । जुहो- तिचोदितत्वादेतेषु स्वाहाकारः । आहवनीये जुह्वा हूयन्त इति परिभाषयाऽऽहवनी. योऽधिकरणं जुहूः साधनं च । परिस्तरणं तु यत्र व चाग्नौ परिस्तीर्य होतव्यमिति भारद्वाजीयपरिभाषासूत्रात् । परिमृज्य परिषिञ्चति यथा पुरस्तादित्यग्निकार्यसूत्रोक्तज्ञा- पकात्परिमार्जनपरिषेकौ । दपिहोमान्व्याख्यास्यामो जुहोतीति चोद्यमाने दर्विहोमो यत्र ख. श्रद्रया। प्र०पटलः ] गोपीनाथमट्टकृतज्योत्स्नाव्याख्यासमेतम् । ५७१ च स्वाहाकारस्ता तूष्णीकेनाऽऽज्येन सकृट्टहीतेनाग्रेणाऽऽहवनीयं परीत्य दक्षिणतः स्तिष्ठ ह्वाऽऽहवनीयेऽध्वर्युः स्वाहाकारेण जुहाति द्विप्रभृत्याहुतिगणेषु प्रत्याहुति गृहीत्वा प्रत्याहुति समिधोऽभ्याधाय विग्राहं जुहोति यत्र मन्त्रगणेन कर्म चोदये. प्रतिमन्त्रं तत्र मुहुयादिति परिमाषासूत्राद्दविहोमधर्मः सर्वत्र ।

सप्तहोतारं मनसाऽनुदुत्य सग्रहꣳ हुत्वा दीक्षणीयामिष्टिं निर्वपति ।

सप्तहोतृहोमे यजमानेनाध्वर्योरन्वारम्भः कर्तव्य इति बौधायनेनोक्तम् --सप्तहोतारं मनसाऽनुदुत्याऽऽहवनीये जुहोत्यन्वारब्धे यजमाने खाहेतीति सूत्रेण । वाचस्पति- देवता मन्त्रलिङ्गात् । अत्र केचित्-ब्रह्म वै चतु)तार इत्यर्थवादाबह्मण इत्यप्युच्चार्यम्। तयाच वाचस्पतये ब्रह्मण इदमिति त्यागवाक्यमिति वदन्ति । पूर्वसूत्रादीक्षिष्यमाण- पदमत्राप्यनुवर्तते । अस्ति चोमयत्र श्रुतिः-दीक्षिष्यमाणः सप्तहोतारं मनसाऽनुहु- त्याऽऽहवनीये जुहुयादिति, आग्नविष्णवमेकादशकपालं निर्वपति दीक्षिष्यमाण इति । दीक्षिष्यमाण इति लुट्प्रत्ययेन कियार्थायां कियायामुपपदे विहितेन दीक्षाकर्तृसंस्कारा- धत्व बोध्यते । यमनियमपरिग्रहानुकूछयोग्यतारूपा दीक्षा तत्कर्तृसंस्कारार्था दीक्ष- णीया । वक्ष्यमाणानां कृष्णाजिनमेखलादण्डादीनां तु अक्रियारूपत्वाद्दोक्षाभिव्यञ्जक- त्वमात्रं नतु दीक्षणीयेष्टिवद्दीक्षार्थत्वम् । अत इष्ट्यनन्तरमेव दीक्षितो न जुहोति न दंदा- तीत्यादयो दीक्षितधर्माः। पञ्चमाध्याये तृतीयपाद उक्तमेतजैमिनिना-परेणाऽऽवेदनाद्दीक्षितः स्यात्सदीक्षा- मिसंबन्धात्। इष्टयन्ते वा तदर्थी विशेषार्थसंबन्धात् । समाख्यानं च तद्वदिति सूत्रात् । सरिष्टिदण्डादिभिदीक्षामिसंबन्धात् , आवेदनात्परेण दीक्षितमावेदयतीति विहितात्प- रेणाऽऽवेदनानन्तरमिति यावत् । दीक्षितः स्याद्रवोदिति । एनपा द्वितीयेत्यत्र -पञ्च- ग्यपि दृश्यत इति वचनं कल्पयित्वा परेणाऽऽवेदनादिति प्रयोगः समर्थनीय इति तत्ररत्ने । तथाच दीक्षितधर्माणामत्रैव प्रवृत्तिरिति पूर्वसूत्रार्थः । द्वितीयसूत्रार्थस्तु इष्ट्यन्ते वा वाशब्दः पूर्वपक्षव्यावर्तकः । इष्टयन्त एव दीक्षाधर्माणां प्रवृत्तिः । हि यस्मा- कारणादविशेषार्थसंबन्धात्तदर्था अत इष्टेरेव मुख्यत्वात्तदन्ते तत्समाप्त्यव्यवहितोत्तरमे - व दीक्षाधर्मप्रवृत्तिरिति । न विद्यते विशेषो विशेषवाक्यापेक्षा यत्र निरपेक्षेति यावत् । एतादृशोऽर्यों दीक्षणीयेष्टिः । दीक्षणीयेष्टिरितोष्टिसमाख्यानमपीष्टयुत्तर दीक्षितधर्माणां प्रवृत्तिरिति पूर्वमुत्रसाधकवत्तद्वदुपयुक्तं भवतीत्यस्यार्थः । इति तृतीयसूत्रार्थः । नन्वेवं वाग्य- मनोत्तरं दीक्षितधर्माणामुपादानं सूत्रकृदुक्तं निर्हेतुकं स्यादिति चेत्सत्यम् । कृष्णाजिनमेखलादण्डादिदानप्रभृतिकर्मणोऽपि दीक्षारूपत्वामावेऽपि दीक्षार्थत्वं परम- स्त्येवेति । तथाचैतस्यापि कर्मणोऽपराह् एव क्रियेतिज्ञापनरूपहेतुलाभेन निर्हेतुकत्वा- . ५७२ सत्याषाढविरचितं श्रौतसूत्र- [७ सप्तमप्रश्ने- पत्त्यमावात् । प्रागंशप्रपादनोत्तरं दीक्षणीयेष्टिक्रियायामपि तदनन्तरमेव । दीक्षणी. येष्टीक्षाकर्तृसंस्कारार्थत्वात्प्रतिप्रयोगमावृत्तिः सिद्धा भवति । दीक्षणीयाया देवतापरि- ग्रहार्थत्वमपि, देवता एवोभयतः परिगृह्य यजमानोऽवरुन्ध इति श्रुतेः । तेन सर्वतोमुखे प्रतिविहारं सा भवति । न दीक्षणीयानं सप्तहोता किंतु दीक्षाङ्गम् । तेन दीक्षणीयो- स्कर्षे सप्तहोतु!त्कर्ष आहवनीयभेदश्व सप्तहोतृदीक्षणीययोरित्येतद्वयं सिद्धं भवति । क्त्वा- प्रत्ययेन तु पूर्वकालतामात्रम् । ततश्च सप्तहोत्रर्थमाहवनीयं गार्हपत्यात्प्रणीय सप्तहो. तारं हुत्वा सोमार्थमाहवनीयं प्रणीय दीक्षणीया कार्या । प्रतिबन्धकृतदीक्षणीयोत्क. पवशेन सप्त होतृहोमदीक्षणीयेष्टयोर्मध्ये होमप्राप्ती होमः कर्तव्य एव । सप्तहोतारं मन. साऽनुवृत्य सग्रह५ हुत्वा दीक्षणीयामिष्टिं निर्वपतीति क्त्वाप्रत्ययबोधितसप्तहोत होमाव्यहितानन्तर्य तु शिष्टाकोपन्यायेन बाध्यते । स च न्याय इत्थम्-आचा- म्तेन कर्तव्यमित्यादिस्मृतिविहिताचमनादेर्वेदं कृत्वा वेदि करोतीत्यादिविहितश्रौत. क्रमेण बाध इति प्राप्ते क्रमस्य पदार्थधर्मत्वात्तदपेक्षयाऽऽचमनादेः , पदार्थत्वेन प्रावल्यम् । प्रमाणबलाबलापेक्षया प्रमेयबलाबलमेव पूर्वोपस्थितत्वाबलवत् । प्रमाण- विरोधस्य प्रमेयविरोधमूलत्वेन पूर्वोपस्थिततद्विरोधेन प्रमेयबलस्य पूर्वमेवाऽऽलोच- नादिति तेनैव निर्णय इति नाऽऽचमनादेधिः किंतु क्रमस्यैवेति । प्रकृतेऽपि कालप्राप्त नित्यं निरवकाशं कृत्वा सावकाशं ततः कर्तव्यमिति सामान्यस्मृतिविहितहोमकर्तव्य. तया सप्तहोतृहोमानन्तर्य बाधितं द्रष्टव्यम् । एवं चाग्निहोत्रहोमो मध्ये कर्तव्य एवेति । अमुमर्थमाह प्रथमाध्याये तृतीयपादे जैमिनिः--शिष्टाकोपेऽविरुद्धमिति चेत् । न शास्त्रपरिमाणत्वात् । अपि वा कारणाग्रहणे प्रयुक्तानि प्रतीयेरन्, इति त्रिभिः सूत्रः । तत्राऽऽयं सूत्रं सिद्धान्तोपक्रमाशङ्कार्थ, द्वितीयसूत्रं तन्निर तृतीयं सिद्धान्त- सूत्रम् । शिष्टस्य श्रौतक्रमादेरकोपेऽवाधे सति आचमनादिस्मरणमविरुद्धमिति प्रथम. सूत्रार्थः । चेदित्यनेन सिद्धान्तोपक्रम आशक्यते । द्वितीयसूत्रे नेत्यनेन तन्निरास: क्रियते । अविरुद्धं न किंतु विरुद्धमेव । तत्र हेतुमाह-शास्त्रपरिमाणत्वादिति । प्रत्यक्षशास्त्रेणाऽऽचमनादिप्राप्तेः पूर्वमेव पदार्थानां क्रमकालपरिमाणैः परिमितत्वादिति शास्त्रपरिमितत्वादित्यस्यार्थः । कारणस्य बाधकारणस्याग्रहणेऽनुपलम्भे सति प्रयु. तानि शिष्टैः प्रयुक्तानि आचमनादीनि प्रतीयेरन्प्रमाणत्वेन प्रतीयेरन्निति तृतीयसूत्रार्थः । अपि वेत्यनेन पूर्वपक्षव्यावृत्तिः क्रियते । औपासनहोमोऽप्येवं मध्ये कर्तव्य एव । कूश्माण्डहोमाद्यर्थमाहननीयस्य पृथक्पृथक्प्रणयनमुद्धरणपक्षे द्रष्टव्यम् । अर्थायार्था. याऽऽहवनीयं प्रणयतीति सूत्रात् । अजस्रपक्षे त्वाहवनीयात्य नित्यधार्यत्वान्न प्रणय- नम् । उद्धरणपक्षेऽपि दक्षिणा नित्यं धारणमेव । नित्यं गार्हपत्यदक्षिणानी धार्यते 1 . . रे १ १०पटलः ] गोपीनाथभट्टकृतज्योत्स्नाब्याख्यासमेतम् । ५७३ इति सूत्रात् । वाचस्पते हृद्विध इति ग्रह संज्ञको मन्त्रः । तेन सह यथा भवति तथा महाहवितेति सप्तहोतृसंज्ञक मन्त्रं मनसाऽन्द्रुत्योपयोर्मध्येऽनुच्छ्रसन्पठित्वा जुहोति- चोदितत्वात्स्वाहाकारमुक्त्वा दर्मिहोमधर्मेण जुहोति । सूत्रे साहमिति विशेषणं महस्यापि मनसा पाठार्थ नतु होमे ग्रहप्रापणार्थम् । तस्य तु तेषां ये होमार्थे श्रूयन्ते सग्रहाः सस्वाहाकारास्ते प्रयुज्येरन्नितिवक्ष्यमाणसूत्रेणैव सिद्धिः । मनसेति परिभाषा- प्राप्तोपांशुत्वव्यावृत्त्यर्थम् । दीक्षतेऽनयेति दीक्षणीया तामिष्टिं निर्वपति करोतीत्यर्थः । निर्वपतीत्यस्य निर्वापार्थकत्वं वक्तुम शक्यम् । इटिशब्दस्य क्रियाविशेषपरत्वेन निर्वा- पासंभवात् । इष्टिग्रहणमन्वाधानमन्त्रे देक्षणीयमेष्टर हविरिदमेषां मयीत्यैष्टशब्दप्रयोग- लाभार्थम् । अन्यथा देक्षणीय हविरिदमेषां मयीत्येतावदेव स्यात् । अत इष्टिग्रहणम् । दीक्षणीयामिष्टिं निर्वपतीति सामान्यप्रतिज्ञेयमेतस्पा इष्टेरिदं नामेति प्रदर्शयितुम् । तेनेदं सिद्धं भवति नामवतीनामिष्टोनामन्वाधानमन्त्रे नाम्नाऽपि निर्देशो नतु केवलमिष्टि । शब्देन निर्देश इति । तेन देक्षणीयमित्यप्युच्चार्यम् । प्रायणीयाप्रभृतिप्ववभूधान्तेष्वि- ष्टिपशुबन्धेषु व्रतोपायनं जागरणं पत्नीसनहनमारण्याश च न विद्यत इति सूत्रेण प्रायणीयाप्रभृतिषु व्रतोपायनादिनिषेधेन सतहोतृहोमानन्तरं दीक्षणीयेष्टिक्रियायां सोमा: रसिद्धत्वेन व्रतोपायनं परिस्तरणोत्तर जागरणाभाव संपादकनिद्रास्थानिकक्षणिकनेत्र- निमीलनाकरणं पत्नीसनहनं सत्यां क्षुधि आरण्याशनं च भवत्येव । दीक्षणीयायां द्रव्यदेवताकाक्षायामाह-

आग्नावैष्णवमेकादशकपालमाग्नावैष्णवं वा घृतेचरुम् ।

अत्र हविर्भानीयादिति शेषः । अथवा तृतीयार्थे द्वितीया । आग्नावैष्णवेनैकादश. कपालेनाऽऽग्नावैष्णवेन मृतावस्थानिक्षिप्तघृतेन चरुणा वा दक्षिणीयामिटि निर्वपती. त्यन्वयः । तथाचायमर्थ:-एकादशकपालकरणकं चरुकरणकं वा यागं कुर्यादिति । आग्नावैष्णवमिति देवतार्थकाण्प्रत्ययेन देवता प्राप्यते । एकादशकपालशब्देन द्रव्यं प्राप्यते । एकादशम कपालेषु संस्कृतः पुरोडाश एकादशकपालः । घृतेचरुमित्यनेनै- कादशकपालस्थाने द्रव्यान्तरं विधीयते । घृतेचरुमित्यस्य शृतावस्थायां घृते निक्षिप्ते सति यः सिद्धश्वरुः स घृतेचरुरित्यर्थः । नतु घृते शतश्वरुरिति । केवलघृतस्य चरुश्र- पणानुकूलपाकप्ताधनस्वाभावात् । शते . नदीयसि घृतमिति बौधायनोऽप्याह । चरोः पाके नेदीयसि निकटे सति घृतं प्रक्षिपतीत्यर्थः । एकैनवाऽऽनावैष्णवग्रहणेन सिद्धे पुनर्पण नियमार्थम्-आग्नावैष्णव एव घृतेचरुनर्नाऽऽदित्य आपस्तम्त्रोक्तो घृते चरुभव- तीति । एतेन ज्ञायते पुरोडाशो ब्रह्मवर्चसकामस्य धृतेचरुः प्रजाकामस्य पशुकामस्य वेत्यापस्तम्बोक्तं पुरोडाशचर्वोः काम्यत्वमप्युपसंहार्यमिति । चरुत्वरूपं सारसंग्रहे- अनिर्गतोष्मा सुस्विन्नो ह्यदग्धोऽकठिनश्चरुः । न चातिशिथिलः पाच्यो नव वीतरसो भवेत् ॥ इति । - ४३ ७ - ५७४ सत्याषाढविरचितं श्रौतसूत्र- [७ सप्तमप्रश्ने- अनवस्रावितान्तरूष्मपक्को वैशद्यानपेक्ष ओदनश्चरुरिति तृतीयाध्याये मीमांसका अपीत्थं चरुस्वरूपमाहुः । घरोरवदानं मेक्षणेन । मेक्षणेन चरूणामिति सूत्रात् । स्विष्टकृयागोत्तरं तस्य मेक्षणस्य प्रहरणम् । प्रायणीयायां विधानवचनेनान्यत्र तसि- द्धेर्दर्शितप्रायत्वात् । बौधायनेन स्पष्टतयोक्तेश्च । अत्र प्रयाजाज्यभागस्विष्टकृदनूया. असूक्तवाकशंयुवाकपत्नीसं यानानां प्राकृतः स्वरः । प्रधानस्वरे विशेषः शाखान्तरे या. वत्या वाचा कामयीत तावत्या दीक्षणीयायामनुब्यादिति । अनेन दीक्षणीयायां यावद- लमुच्चैस्त्वं भवति। एवं मन्द्रं प्रायणीयायां मन्द्रतरमातिथ्यायामिति प्रायणीयातिथ्यावि. षयकस्वरविशेषविषयेऽपि द्रष्टव्यम् । तत्राऽऽपस्तम्बेन प्रधानस्वरविषयेऽनेके पक्षा उक्ताः-यत्प्रागग्नीषोमीयात्तेनोपाशु चरन्त्यथैकेषां यावत्यस्य वाग्भवति तावत्या दीक्षणीयायामन्वाह ततो नीचेस्तरां प्रायणीयायां नीचेस्तरामातिथ्यायामुपाश्शूपसत्सूचैन रग्नीषोमीये मन्द्रेण वा दीक्षणीयायां मन्द्रतरेण प्रायणीयायां मन्द्रतरेणाऽऽतिथ्यायामुपां. शूपसत्सूञ्चैरग्नीषोमीय उपांशु वा दीक्षणीयायामुपांशुतरं प्रायणीयायामुपांशुतर. मातिथ्यायामुपांशूपसत्सूञ्चर ग्नीषोमीय इति । चरन्तीतिवचनात्तत्र यावत्प्रधानमुपाश्विति न्यायादिष्टिप्रधानानामेवोपांशुत्वम् । अङ्गानां प्रयाजादीनां तु यथाप्रकृतीति तयाख्या- तारः । जैमिनिस्तु नवमाध्याये प्रथमे पादे देशसंबद्धमुपांशुत्वं तेषां स्याच्छ्रुतिनिर्देशा- त्तस्य च तत्र भावादिति सूत्रेण प्रयाजादीनामङ्गानामेवोपांशुत्वमाह । प्राग्भागरूपदेश- संबद्धमुपांशुत्वं तद्भागवर्तिपदार्थानां धर्मः स्यात् । श्रुतिनिर्देशात्, यत्किंचिच्छब्दरू. पश्रुतिसंयोगात् । अयमर्थः-प्राचीनशब्दः साकाङ्क्षत्वादश्यं निराकाङ्क्षी कर्तव्यः । तत्र यज्ञशब्देन श्रुतेन निराकाझीकरणं न संभवति सराशब्दसंबन्धित्वात्तस्य ततश्चाश्रुतोऽन्यो यज्ञशब्दः कल्पनीयः । तस्माच्छ्रुतेनाग्नीषोमीयशब्देन निराकाङ्क्षी क्रियते । ततश्चाग्नीषोमीयस्यानवयवित्वेन प्राचीनशब्दस्यावयवलक्षणभागपरत्वासंभवा- द्भागवर्तिपदार्थपरत्वावश्यंभावात्तद्धर्म उपांशुत्वं तदपूर्वप्रयुक्तं तस्यापूर्वस्य तन्त्रे तेषु भागसंबन्धिपदार्थेषु भावादिति । अत्र बहुविस्तर आकरे द्रष्टव्यः । अस्मिन्सूत्र उपात्ता श्रुतिस्तु-सरा वा एषा यज्ञस्य तस्माद्यत्किंचित्प्राचीनमग्नीषोमीयात्तेनोपांशु चरन्तीति । योपांश्वनुष्ठितिः सैषा सरा । त्सरा छद्मगतिः । आश्वलायनस्तूपांशुत्व- विधायक प्रकरणे सौमिकीषु इष्टिषु प्रधानविषये सौमिक्य इतिवचनेनोपांशुत्वमेवो- तवान् । शाङ्खायनोऽपि दोक्षणीयादीष्टिपूपांशुहविरिति प्रत्येकमुपांशुत्वं स्पष्टमेवोक्त. वान् । तत्रोपसंहाराङ्गीकारपक्षे यो हौत्रशास्त्रानुगुणः पक्षः सोऽङ्गीकर्तव्य इति । उपसंहारानङ्गीकारपक्षे तु प्राकृतो मध्यमस्वर एव । उपसदि उपांशुत्वं तूपाश्शूपतदा चरामेति स्वशाखाविहितत्वान्नियतमेवेति द्रष्टव्यमिति । १स्व. यवत्वे । १५० पटलः ] गोपीनाथभट्टकृतज्योत्वाव्याख्यासमेतम् ।

सप्तदश सामिधेन्यः।

स्पष्टोऽर्थः । याजुषहौत्रसत्त्वे याजुषरीत्या सप्तदश सामिधेन्यः । आश्वलायनहोत्र- सत्त आश्वलायनोक्तरीत्या । तत्राग्निर्मुखं प्रथमो देवतानामग्निश्च विष्णो तप उत्तम मह इत्याश्वलायनोये याज्यानुवाक्ये । अग्निरमे प्रथमो देवतानामभिश्च विष्णो तप उत्तम भह इति यानुष्यो याज्यानुवाक्ये ।

न यजमान भागमवद्यति सर्वेषु सौमिकेष्विष्टिपशुबन्धेषु ।

प्रायणीयायाः कृत्स्नत्वपक्षेऽपि यजमानमागावदाननिषेधं वारयितुमेव न यजमान- मागमवद्यति । यदि शंयुक्न्तति प्रायणीयायां वचनमेतस्मादेव जायते सर्वेषु सौमिके. विष्टिपशुबन्धेष्विति पूर्वत्राप्यन्वेतीति । तेनाखण्डेषु प्रायणीयाव्यतिरिक्तेविष्टिपशुब- न्धेषु यनमानभागावदाननिषेधः सिद्धो मवति । प्रणीताप्रणयनं भवत्येव । संयवनरूप- दृष्टकार्थसद्भावात्, अवभृथवन्निषेधाभावात्, यजुरुत्प्ताभिः संयोतीतिवचनाभावाच ।

नान्वाहार्यं ददाति।

सर्वेषु सौमिकेविष्टिपशुबन्धवियत्राप्यन्वेति । दानकर्ता यनमान एवं | द्रव्यप्र. कल्पनं यनमानस्य दक्षिणादानं ब्रह्मचर्य जपाश्चेति यानमानसूत्रात् । ददातीति यज. मानमित्याश्वलायनसूत्रात् । दानवाचनान्वारम्भवरवरणवतप्रमाणेषु यजमानं प्रतीयादिति कात्यायनसूत्राच । इष्टयश्च पशुबन्धाश्चेष्टिपशुबन्धाः सौमिक्यश्च सौमिकाश्च सौमिकाः सर्वाश्च सर्वे च सर्वे । पुमान्त्रियेत्यनेन सूत्रणैकशेष इटिपशुधन्धेष्विति पुंलिङ्गान्तविशे. व्यानुरोधासिद्ध एव । सर्वाः सौमिक्य इष्टयः सर्वे सौमिकाः पशुबन्धास्तेष्वन्याहार्य न ददातीत्यर्थः । प्रधानदक्षिणयैव प्रसङ्गसिद्धेरिति भावः । द्वादशाध्याये प्रथम पादे भृतत्वाच्च परिक्रय इति जैमिनिनाऽप्ययं न्यायोऽनेन सूत्रेणोक्तः । अन्यविधानादारण्य- मोजनं न स्यादुमयं हि वृत्त्यर्थमिति सूत्रान्नेति मण्डूकप्लुत्याऽनुवर्तते । सौमिक्यैव दक्षिणया कर्तृणां भूतत्वादानतत्वान्न पृथकपरिक्रयोऽन्वाहार्यदक्षिणेति सूत्रार्थः । पशु- बन्धेष्वन्वाहायस्य सर्वथैवामावेनार्थात्तद्दानामावे सिद्ध निषेधो ज्ञापयति अत्यन्ताना- व्यस्य पशुबन्धेष्वपि केवलमन्वाहार्य एव दक्षिणा तेनैव पशुबन्धोक्तदाक्षिणादानफल- सिद्धिारति । अन्वाहायग्रहणं पशुबन्यदक्षिणोपलक्षणम् । तेन तस्था अपि निषेधः । बहुवचनेनैव सोमतन्त्रान्तर्गतकृत्स्नेष्टिपशुबन्धलाभे सर्वग्रहणं सोमतबहिर्भूतान्द्राना- श्विनौ प्रायश्चित्तपशू अप्यन्तरा भवतस्तयोरपि दक्षिणा न भवतीतितापनार्थम् । उक्त पानीषोमी यस्य सवनीयस्य वोपालम्भ्यत्वमनयो वायनेन । एवं पाथिकृत्यादीनामपि सोमतन्त्रान्तःपातित्वे सति दक्षिणा नैव । यस्याऽऽश्विने शस्यमाने सूर्यो नाऽऽविर्भवति सौर्य बहुरूपमालमतेत्यस्य पशोस्तत्तम्प्रमुपनीन्यैव कर्तव्यतायामपि दक्षिणा न । अस्मि- न [७ सप्तमप्रश्ने- - ५७६ सत्याषाढविरचितं भौतसूत्र- पक्ष आकाक्षितत्वादत्रैव प्रसङ्गात्प्रयोगः प्रदर्यते । तत्र स्वधितिस्वरुमैत्रावरुणदण्ड. हृदयशूलयूपास्त एव स्फ्यादीनि च । उपादानलाघवात्प्लाशाखाकुम्भीप्समवत्तधान्यस्ता एव प्रक्षाल्य प्रयोक्तव्याः । पशुरशनाया वपाश्रपण्योश्च मेदोऽर्थसिद्धः । षड्ढोतृपश्विष्टी म स्तस्तन्त्रान्तःपातित्वात् । न यूपच्छेदनं न वेदिकरणं नोत्तरवेदिचात्वालकरणम् । नाग्निप्रणयनान्वाधाने नेमावहिराहरणं न वेदकरणं न परिस्तरणं न पाणिप्रक्षालनम् । उलपराजीस्तरणे विकल्पः । न ब्रह्मयजमानयोः सदने । समवत्तधानी पशुरशना वपा. अपण्यौ कुम्भी प्लाशाखा इत्येतेषामेवाऽऽसादनम् । न ब्रह्मवरणं नोपवेशनम् । पवि. त्रकरणादिपात्रसंमर्शनकाले संविशन्तामिति समवत्तधानीपशुरशनादीनि पात्राण्यासा- दितान्येवाभिमृशति । दक्षाय वानस्पत्याऽसीत्यादिपशुबन्धोक्तप्रयोगक्रमेण पात्रप्रोक्ष- भान्तम् । उत्तर परिग्रहादि स्वर्ववगृहनान्तं लुप्यते । ततः प्रायश्चित्तहोमः पशूपाकरण- मुपाकरणाङ्ग(ङ्गा) पञ्चाऽऽहुतयश्च भवन्ति । बहुरूपोऽयं पशुः । न मन्थनम् । रशनादा- नादिअधस्तामोक्षणान्तं भवति । सामिधेन्यादि च्यावारान्तं निवर्तते । पृषदाज्यासत्त्वे पूर्ववदुत्पादनीयमत्र होत्रा प्रधानदेवतावाहनमात्रं तत्रैव तिष्ठता कर्तव्यम् । नान्येषामू- मावाहनादुत्पन्नानमित्याश्वलायनोक्तावाहननिषेधस्तु नियताइदेवतावाहननिषेधपरी नाऽऽगन्तुकान्त पातिदेवतावाहननिषेधपर इति ज्ञेयम् । वनस्पतस्त्वावाहितत्वान्नाऽऽवा. हनम् । न धुवासमञ्जनादि न प्रयाजाः । आज्यस्थाल्याः सुवेणाऽऽज्यं जुह्वां गृहीत्वा तेन स्वरुखधिती अक्त्वा ताभ्यां पशुसमञ्जनं कृत्वा शमितरेषा तेऽपिरित्यक्तां धारा- मादिशश्चमित्रे स्वधिति प्रदाय यथास्थानं स्वरुमवगृह्येत्यादि वैपाया आसन्नाभिमन्त्रणा. न्तम् । पृषदाज्यस्य मध्य उत्पादने तदवेक्षणमुभयोः । नोत्तमः प्रयाजः ! सारस्वतप्रा- जापत्यपशुवपानामनभिषारितानामेव सव्या वा एनहि वपा यानभिघृता इति श्रुतेः अनभिघारिताभिषाभिः प्रचरन्तीति वाजपेयसूत्राच्च यथा याग उपयोगस्तन्यायेनात्राप्या नभिघारिताया एव याग उपयोग इति द्रष्टव्यम् । नाऽऽज्यभागौ । यजमानेन व्याख्याते पञ्चहोतार वपायागो निरूढवत् । सूर्याय च्छागस्य वपाया मेदसोऽनुव्हीति पुरोनुवाक्याप्रेषे विशेषः । आग्नेयपशुप्रकृतिकावे याज्याप्रैषो न । अग्नीषोमीयप्रकृतिकत्वे सूर्याय च्छागस्य वपाया भेदसः प्रेष्येति याज्याप्रेषोऽस्त्येव । सूर्यस्याहं देवयज्ययेन्द्रियावी भूयासमित्यनुम- श्रणम् । जेमानमिति महेन्द्रयाजिनः । चात्वाले मार्नन वरदानं च, दक्षिणा नेत्युक्तमेव प्राक् । पशुपुरोडाशपात्रासादनादि आप्तादनान्तम् । आग्नेयविकारपक्षे यज्ञोऽसि अयं यज्ञः पञ्चहोता । अग्नीषोमीयविकारपक्षे प्रजापतिरसि अयं यज्ञः, विहव्यं चतुर्होता । ततो जुह्वामुपस्तीत्यादि कपालविमोचनान्तम् । सूर्याय पुराडोशस्येति पे विशेषः । भैषनिर्णयः प्राग्वत् । ततो जुही पञ्चगृहीतं गृहीत्वा पृषदाज्यनुवं चाऽऽदाय शृत । १ख.बसाया। [१५० पटलः ] : गोपीनाथभट्टकृतज्योत्नाव्याख्यासमेतम् । '५७७ हवीः३ शमितरित्यादि हविःशेषोद्वासनान्तम् । सूर्याय च्छागस्य हविषः इति प्रेषे विशेषः । प्रेषनिर्णयः प्राग्वत् । स्विष्टकृद्यागस्तत्त्वावनस्पतियागसत्त्वम् । वनस्पतेः खिष्टकृद्विकारत्वेन तत्सनातीयधर्मत्वेन संनियोगशिष्टत्वात् । एतत्सर्वं पाशुकं कर्माss. श्विनशनसंबन्धिचमसहोमभक्षणान्ते पिष्टलेपहोमादि आश्विनकपालविमोचनान्तं कृत्वा कर्तव्यम् । ततोऽनोदीपयजानङ्गारानाहरेत्यादि समानतन्त्रेण । अतोर्यामे तु ततश्चत्वारि संधिस्तोत्र शस्त्राणि । ततोऽग्नौदोपयजानित्यादीति विशेषः । सूर्यो देवीमुषसमित्याद्याः षडचो याज्यापुरोनुवाक्याः । अवशिष्ट विकल्पार्थे । वनस्पतिप्रेषेऽधितेत्यनन्तरं यत्रा- राज्यस्य हविषः प्रिया धामानि यत्र सोमस्याऽऽज्यस्य हविषः प्रिया धामानि यत्र सूर्यस्य च्छागस्य हविषः प्रिया धामानि यत्र वनस्पतेः प्रिया पायाश्सीत्यादि । स्विष्ट. कृत्ये होता यक्षदग्निश विष्टकृतमयाडग्निरने राज्यस्य हविषः प्रिया घामान्ययाट् सोमस्याऽऽज्यस्य हविषः प्रिया धामान्ययाट्सूर्यस्य च्छागस्य हविषः प्रिया धामान्य- याड्वनस्पतेः प्रिया पाथासीत्यादि । यदि सवनीयपशावाज्यभागौ न कृतौ तदैतत्प. शुसंवन्धिनोरपि वनस्पतिषविष्टकृत्प्रेषयोराज्यभागोत्कीर्तनं न कर्तव्यम् । इति प्रस- कादेतत्तत्रोपनीविसौर्यपशुप्रयोग उक्तः । अथ प्रकृतमुच्यते----प्रकरणादेव सोमसंब. धित्वे सिद्धे, सौमिकेवितिवचनं वायव्यपश्वादिच्यावृत्त्यर्थ यानि यानि सोमा सिद्धार्धानि तान्यपि न भवन्तीतिज्ञापनार्य च । तेन ब्रह्मवरणं संस्थाप्यास्वपीष्टिषु यज्ञविमोको ब्राह्मणतर्पण चेत्येतानि न भवन्ति । एते पदार्था अवभृयोत्तरमपि वया इत्यन्वाहार्यनिषेधप्ताहचर्यादवगम्यते । व्रतोपायनादीनामपि सोमाङ्गैः सिद्धार्थत्वेऽपि तेषामबभृयात्मागेव सिद्धार्थत्वं नोत्तरत्रेत्येवं भेदाद्विधिभेदो दष्टव्यः । केचिद्यजमाना- थैमासनकल्पनमपि न कर्तव्यं कृष्णाजिनस्याऽऽसनार्थत्वादिति वदन्ति । सत्तु न न्याय्यम् । अहे दैधिषव्येतिनिरसनदर्शनात् । इष्टिपशुबन्धेष्वितिवचनं सौमिकेविति- धुलिङ्गानुरोधेन पशुबन्धानामेव ग्रहण नेष्टीनामिति स्यात्तघ्यावृत्त्यर्थम् । अन्वाहाण सोमं विपासेत् , न त्वेवासोमयानी स्यादिति शाखान्तरश्रुतेराव्यस्यायमन्वाहार्यनिषेधो नानाढ्यस्य । तस्य सर्वासु सौमिकीविष्टिषु सर्वेषु सौमिकेषु पशुबन्धेष्वन्वाहायस्यैव दानम् । दक्षिणाकाल आग्नीधात्रेयाभ्यां हिरण्यदानम् । मन्थादीतरेभ्यः । एतावतव सोमसिद्धिः । तदिदं सर्वमवश्यकर्तव्यत्वप्रतिपादनपरम् । अत्यन्तानाट्यस्य दक्षिणालाघवे दोषाभावप्रतिपादनपरेयं शाखान्तरश्रुतिः । आत्यस्य तु अल्पदक्षिणादाने फलामावो दोषश्च । तथा च स्मृतिः- अभिष्टोमादिकपर्यो यजत्यल्पदक्षिणैः । स नाऽऽप्नोति सति द्रव्ये फलं दोषं च गच्छति ॥ इति । . Var ७ सत्याषाढविरचितं श्रौतसूत्र- [सप्तमश्वे- मनुरपि- प्रभुः प्रथमकल्सस्य योऽनु कल्पेन वर्तते । न सांपरायिक तस्य दुर्भते विद्यते फलम् ॥ इति । स्मृत्यन्तरेऽपि- प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते । स नाऽऽमोति फलं तस्य दोषं चैवाधिगच्छति ॥ इति । यो हि अस्पदक्षिणयज्ञ आत्विज्यनिषेधः स समर्थक काल्पदाक्षिणयज्ञविषयों द्रष्टव्यः । यद्यपीदं सूत्रं यानमानसूत्र एवं पठित युक्त तथाऽपि अभिधारणान्तवेद्यासा- दनसंप्रेषद्वाराऽध्वर्यसंबन्धादत्र पाठ इति द्रष्टव्यम् । ददातीत्यत्रान्तरिता णिज्वा द्रष्टव्यः।

ध्रुवायाः शेषं करोति ।

भुनाशब्देन तद्गतमाय लक्षणया गृह्यते मच्चाः क्रोशीत्यत्र मञ्चशब्दस्य तत्स्थ- पुरुषलक्षकत्वमिव । तात्पर्यानुपपत्तिरत्र लक्षणाबीनम् । धृवागतस्याऽऽज्यस्य शेष करोति स्थापयतीत्यर्थः । धुवाया इत्यनन्तरमाज्यस्येति शेषो वा । धुवासंबन्धिन आज्यस्य शेष करोतीति तदर्थः । सप्तम्यर्थे षष्ठी वा । शेष करोतीतिवचनास्विष्टकछ- भिधारणद्वये ध्रुवाया नाऽऽप्यायनं धुन ज्यस्य शेषत्वसंपादनाय । तत्र तत्राऽऽप्यायनं हि पूरणार्थम् । पूरितस्य शेषत्वं न संभवति । अत आप्यायननिषेध एवैतस्य विधेः पर्य- वसानम् । स्विष्टकृदभिधारणद्वयस्यैवान्तिमत्वात्तत्रैव ध्रुवाप्यायनाभावः। आज्यस्थाल्या- ज्यशेषमपि, स्थापयति प्रयोजनसद्भावात् । धुवाशेषादाकूत्यै प्रयुनेऽग्नये स्वाहेति सुवेण चतस्रो दीक्षाहुनीर्नुहोत्यापो देवरिति खुचा पञ्चमीमित्युत्तरत्र शेषविनियोग- बलादेव शेषकरणे सिद्ध इदं वचनं शेषनाशे शेषत्वसिद्धयर्थ धौराद्यैरन्तिम त्रिमि- मन्त्रैधुवायां गृहीत्वाऽनेनैव होमः कर्तव्य इत्यर्थविशेष द्योतयितुम् । भ्रान्त्या कदाचि- स्विष्टकृमिषारणद्वय आप्यायनं कृतं चेत्तदाऽपि तेनौती होमो जुहुयात् । उभय- त्रापि सर्वप्रायश्चित्तहोमोऽनाज्ञातजपादि च ।

पत्नीसंयाजान्ता दीक्षणीया संतिष्ठते भक्षयित्वाऽऽज्येडा विरमन्ति ।

पत्नीसंयाजैरन्तः समाप्तिर्यस्याः सा पत्नीसंयानान्ता । पत्नीसंयानान्ता वीक्षणीया भवतीत्येतायतैव कर्मसंस्थायां सिद्धायामपि संतिष्ठत इति पुनः संस्थाबोधकवचनं पत्नीसयानान्तरप्रतिपत्तिकर्मभिः संस्थायामपि प्रतिपत्तिकर्मभिरपि संस्थापनायेत्येतद- 1 ख. 'त्या तेनै । १५० पटनः] गोपीनाथभट्टकृतज्योत्पाव्याख्यासमेतम् । ५७९ पम् । तेन समन्त्रमेव प्रतिपत्तिकर्माणि । वेदप्रतिपत्तिरपि समन्त्रैव । योक्त्रमोचनव्रतवि। सविपि समन्त्रमेव मवतः । अवभृषोत्तरमाविनोदयनीयादीष्टिषु सर्वाण्युत्तरासु क्रियन्त इत्यनेन सनहनवतोपायनयोः कर्तव्यतायां बोधितायां दीक्षणीयायामेतयोरार्षिकी सिद्धिरवगता मवति । अन्यथा दीक्षणीयायां कृतयोर्योक्त्रसनहनवतोपायनयोरुदय- नीयायां विमोचनविसर्गयोः करणे सर्वाण्युत्तरासु कियन्त इति सूत्रत उदयनीयेष्टी प्रतोपाय विधानमसंगतं स्यात् । प्रकरणादेव दीक्षणीयालामे. पुनर्वचनमत्रैव प्रतिपत्ति- कर्माण्यावश्यकानि न खण्डायां प्रायणीयायामपत्येतदर्थम् । नन्वेवं तस्मादेता एत- दन्ता इष्टयः सतिष्ठन्त इति श्रुतिविरोध इति चेन्न । अप्रतिपत्तिकर्मभिरेतदन्तरेवेष्टयः संस्थिता भवन्तीत्येतादृशकल्पनया विरोधाभावान् । भक्षयित्वाऽऽज्येडां विरमन्तीत्ये: तावतैव सिद्धे पत्नीसंथानान्ता दीक्षणीया सतिष्ठत इतिवचनं पत्नीसयाजान्तत्वप्रतिपान, दकविधिवाक्यस्याऽऽज्येडाभक्षणान्तत्वमेवार्थ इति दर्शयितुम् । तेन यत्र यत्रं पत्नी. संयानान्तत्वं श्रूयते पत्नी संयाजान्तोऽग्नीषोमीयः संतिष्ठते पत्नीसंयानान्तमहः संतिष्ठत इत्यादौ तत्र तत्राऽऽज्येडामक्षणान्तत्वं सिद्धं भवति । भक्षयित्वा55- ज्येडामित्यत्राऽऽज्यग्रहणं यत्र निरुपपदेडामहणं तत्र प्रधानहविःसंबन्धीडाया एव. संप्रत्यय इतिप्रदर्शनार्थम् । यथाऽऽतिथ्यायामिडान्ताऽऽतिथ्येत्यत्र विरमन्ती त्यत्राप्रतिपत्तिकर्मभ्य इति शेषः । एतावता पत्नीसंयाजान्तस्वमस्त्येवेति । पत्नी.. संयाजाता दीक्षणीयेत्येतावत एव वाक्यस्य मक्षयित्वेत्यारम्य विरमन्तीत्यम्नेनार्थः प्रदश्यते । भक्षयित्वेत्यत्रान्तर्भावितो णिच् । तेनाऽऽज्येडाभक्षणस्योभयकर्तृकत्वेन बहुकर्तृकत्वामावेऽपि प्रयोजकत्वमादाय विरमन्तीतिबद्वचनबोधितबहुकर्तृकक्रियासा. मानाधिकरण्यं समानकर्तृकरवं घोपपन्नं भवति । तथाचायमर्थो माति-होतारमानी, थाऽऽज्येडामक्षणं कारयित्वा विस्मन्त्यप्रतिपत्तिकर्मभ्योऽध्वर्युब्रह्मयजमानाः । याजु. घहोत्रसत्व आज्येडाभक्षणोत्तर मेदिप्रतिपत्तिमात्रमवशिष्टं तद्भवत्येव । आग्नीघस्य स्वये. कर्मैव नास्ति । पूर्वत्र दीक्षणीयाकरणपक्षे योक्त्रविमोचनं कर्तव्यमेव । यजुःशाखिनि यज़माने यानुषहौत्रस्य सत्तेऽपि मार्जनं न भवति नेदमादिषु मानमर्वागुदयनीयाया इत्याश्वलायनोकस्य माननिषेधस्य वैशेषिकशास्त्रत्वेनात्रापि प्रवृत्तेः ।

धारयत्याहवनीयम् ।

यः प्रधानस्य कालः सोऽङ्गाना स देशः स कर्ता सोऽग्निरिति परिभाषया क्रतु. समाप्तिपर्यन्तं धारणं न पुनः पुनः प्रणयनम् । प्रधानदेवतामात्रपरिग्रहार्थया दीक्षणी- यया परिगृहीतस्य देवतारूपामेस्त्यागायोगादिति भावः । प्रधानदेवतामात्रपरिग्रहार्थत्वं दीक्षणीयाया इत्यत्र साधकम वक्ष्यते । दीक्षणीयायां विशेषमाह बौधायनो द्वैधे- १खन, नम। ५८० सत्यापाढविरचितं श्रौतसूत्रं- सप्तमधी- भत्रो ,ह स्माऽऽह शालीकिः कामं पूर्वाहे वाऽपराहे वा शालामध्यवस्येत्प्राक्त्वस्त। मयाद्दोक्षणीयां सतिष्ठापयिषेदिवि । यजमानोऽपराहे दीक्षत इति विधि संपादयितु- मध्वर्युम स्तमयात्प्रागेव दीक्षणीयष्टिं प्रतिष्ठापयिषेत् । संतिष्ठापयितुं समापयितुमी. च्छेदित्यर्थः । अस्तमयात्मागेव दक्षिणीयां समापयितुमध्वयु प्रयोजयेत् । अध्व युशघ्याधीनत्वात्समाप्तेरिति भावः । संतिष्ठापयेदिति पाठ ऋजुरेव । दीक्षितो न कांचनाऽऽहुति जुहोत्यन्यत्र ऋतुसंयुक्ताम्स इत्यनेन श्व:प्रभृति प्रातोममा. स्भ्यः सर्वेषां होमानां निषिद्धत्वाल्लोपे सायंप्रातहोमयोरेकफलकत्वेन प्रथमदिन. चम्धिसायहोमस्यापि लोपार्थम स्तमयात्प्राग्दीक्षणीयासमातिरावश्यकौति भावः । पदा कदाचिद्दोक्षणोयेष्टेरस्तम या प्रागसमाप्तिस्तदा मध्य एव सायमग्निहोत्रमपकृष्य प्रातर- मिहोत्रं च समासप्रकारेण हुत्वा कृतान्तादिष्टिं समाप्य विरम्य परेयुः सर्व प्रायश्चित्तं हुत्वाऽपराहे दीक्षत इति विधिबलात्परेयुरेव वपनादि । प्राकृतीष्टेस्तु तदानी कालाभावालोप एव । अस्मिन्विषय एकापूर्वजनकत्वनिर्वाहाय क्रतुलमाप्त्यन- न्तर लोपप्रायश्चित्तं कर्तव्यमेव । अथवा सर्वप्रायश्चित्तं हुत्वा तदैव दीक्षा सर्वप्रायः श्विनहोमो दीक्षानन्तरं वा । यदि तु दक्षिणीयेष्टयारम्भात्यागेव सूर्योऽस्तमेति तदा परेः युरेव दीक्षणायेष्टयादि । प्रातरग्निहोत्रहोमस्तु स्वकाले भवत्येव । कालसत्त्वे प्राकृतीष्टि- रपि नो चेल्लोपप्रायश्चित्तमेव तदैव वा दीक्षणीयेष्ट्यादि । अस्मिन्पक्षे प्रातहोमपा कैर्षः प्राकृतेष्टिप्रकारश्च पूर्ववत् । यदि त्वारवाया दीक्षायाः प्रतिबन्धवशेनासमा प्तिस्तदा सर्वप्रायश्चित्तं हुत्वा शिष्टं कर्म तदैव समापनीयम् । द्वादशसंमारयजुहीमा. प्राग्यदि सूर्योऽस्तमेति तदा तु परेयुरेव संभारयजुर्होमादि नतु तदैवेति द्रष्टव्यम् ।

प्राचीनवꣳशं विमितं विमिन्वन्ति ।

पुरस्तादुन्नतम् । विमितमिति भूतार्थे क्तप्रत्ययः । मिन्वन्तीत्यस्योपसर्गवलादु. परिष्टादाच्छादयन्तीत्यर्थः । तेन दीक्षणीयायाः प्रागेव विमानम् । अत्रोपरिष्टादाच्छा. दनादि । एतेन दीक्षणीयोत्तरं प्राग्वंशविमानं कथं भवति देशस्य व्यापृतत्वादिति शङ्का परिहता भवति । प्राचीनवश्शं करोति देवमनुष्या दिशो व्यभजन्त प्राची देवा दक्षिणा पितरः प्रती थी मनुष्या उदीची रुद्रा इति श्रुतौ दिग्विभागस्त्वर्षवाद एव । तथा च तृतीयाध्याये चतुर्थपादे नैमिनिः-दिग्विभागश्च तद्वत्संबन्धस्यार्थहेतुत्वादिति । दिविभागः प्रतीच्या दिशो मनुष्यकर्तृको विभागोऽपि निवीतवदर्थवादार्थः । प्रायेण पूर्वाह्ने व्याप्रियमाणानां मनुष्याणामादित्य पृष्ठतः कर्तुं प्रतीचोसंबन्धस्यार्थतः प्राप्तत्वेन तत्र विध्ययोगादिति सूत्रार्थः । निवीताधिकरणत्रदेव सर्वमत्र । तथा च तेनैव गतार्थ.. खेऽपि निवीतं मनुष्याणामित्यत्र प्रत्यक्षविध्यश्रवणादर्थवादत एव विधिः कल्स नीयः । क. यदि । २ ख, ग, 'कर्षप्रा । १५० पटलः] गोपीनाथभट्टकृतज्योत्स्नाव्यख्यासमेतम् । पदर तथा च तत्र निवीतस्तुनेरेवाऽऽञ्जस्येनाप्रतीतेरर्थवादेन निवीतविधिकल्पनं दूरापास्त- मिति स्वतन्त्रविधित्वासंभवादस्तु तत्रोपव्यानस्तावकत्वम् । प्रकृते तु पूर्व मनुष्याः प्रतीची व्यमजन्तेत्युक्त्या पूर्व पुरुषाचरितत्वेन प्रतीचो विभागस्य प्राशस्त्यावगतेस्तेन प्रतीचोदिविभागः कार्य इति विधिः सुकल्प्य इतिविशेषशङ्कावारणार्थमिदमधिकर- णम् । प्राचीनवश्शं करोतीति विधौ भूपमाणो देवमनुष्या दिशो व्यमजन्त प्राची देवा दक्षिणा पितरः प्रतीची मनुप्या उदीची रुद्रा इति योऽर्थवादः सोऽस्याधिकरणस्य विषयः । अत्र देवपदं पित्रुपलक्षकम् । रुद्राणां देवत्वेऽपि गोवलीवर्दन्यायेन पृथग्मह- गम् । तथा च प्राची देवा दक्षिणेत्यत्र देवशब्दो रुद्रातिरिक्तपरो ग्राह्य इति ज्ञेयम् । प्राचीनः प्रागो वंशो यस्य विमितप्रदेशस्यैतदेव दीक्षितविमितमित्याख्यायते । एतदेव प्राचीनत्वं पृष्ठवंशस्यैव । प्रागायतं पृष्ठवंशं कुर्यादिति वाजसनेविश्रुतेः । प्राचीनशब्दः पुरोवाची नचोर्ध्वाची देवमनुष्या दिशो व्यभजन्तेति लिङ्गात् । तस्मिन्नुदीचीन वशा शालेल्यान्यायिक्पां शालायामुद्दीचीनत्वस्य प्रत्याम्नानाच । स च पृष्ठवंश- स्तावान्याह्यो यावता पृष्ठवंशेनाऽऽम्यायिको विहारः सपत्न्यायननः ससंचरः संप. स्येत । विमितस्य प्राचीनवंशमिति विशेषगावशोऽपि प्रागनो विमानोत्तरमेव दातव्य इति गम्यते । तद्धारकत्वाद्यावदुपयुक्ताः सर्वे स्तम्मा अपि । पुरस्तादुन्नतं पुरोमागे किंचिढच्चम् । एतदप्यान्यायतननिर्मामात्पूर्वमेव कर्तव्यम् । प्राचीनवंशं पुरस्तादुन्नतम्, एतादृशविशेषणविशिष्टं विमितं प्रदेशमाच्छादयन्तीत्येताशार्थ करणाद्वंशस्तम्भदान- स्योन्नतत्वस्य च पूर्वकर्तव्यता, इष्टयुत्तरमाच्छादनपरिश्रयणद्वारकरगादि अने विधा- नात् । पुरोभाग औन्नत्यविधानात्पश्चादानी चना । स्पष्टमेतदुक्तमापस्तम्येन-प्राचीनवंश करोति पुरस्तादुन्नतं पश्वान्निनतमिति । बौधायनः-जुष्टे देवयनने शाला कारिता भवतीति । एतस्य प्रमाणविशेषानभिधानादर्थलक्षणावायामविस्तारौ । अर्थात्परिमाण- मिति कात्यायनोक्तेः । बौधायनस्तु शुश्वमूत्रे प्राग्नंशः षोडशप्रक्रमागामो द्वादशव्याप्त- स्तस्य मध्ये द्वादशिको विहार इत्याह । प्रयोगसूत्रे च प्राचीनवंशा विश्वतीकाशा दक्षिणतो वर्षीयसी तस्यै चतस्रो द्वारः कुर्वन्ति प्राची दक्षिणां प्रतीचीमुदौनी दक्षि- मतो व्रतश्रपणागारं कुर्वन्ति पश्चात्पनीशालामिति । आयतनानि पञ्चविधपिशिलान्या तमप्रमाणानि समक्षेत्राणि संभवानुसारेण । सम्पावतथ्यपक्षे तयोरप्याहवनीयायतनव- देवाऽऽयतने आह्वनीयात्पुरतः क्रमेण प्राक्संस्थे प्राग्वंश एव । औपासनानेरायतनं तु प्राग्वंशसमीप एवं संचाररहिते परिश्रित प्रदेशे । प्रक्रमप्रमाणं यजमानस्याध्वर्यो । यजमानस्याध्वर्योष हि चेष्टानां कर्ता भवतीति शुल्बसूत्ररत् । प्रक्रमो द्विपदस्निपदो वा शुल्बसूत्रात् । पद्यते गम्यत इति व्युत्पत्त्यैकपदोऽपि । पदस्थानेकविधत्वमुक्त - क. "पिशाला। UT - ५८२ सत्यापाढविरचितं श्रौतसूत्र- [७ सप्तमप्रने- शुल्बसूत्रे पदे युगेऽरत्नावियति शम्यायां च मानार्थेषु यायाकामी शब्दार्थस्य विशयित्वादिति । विशयित्वात्, अनेकविधवादित्यर्थः । पदं पञ्चदशाङ्गुलमिति बौधायना । दशाङ्गुलं क्षुद्रपदमित्यपि सः । दशाङ्गुलं पदमिति कात्यायनः । एतानि प्रमाणानि सार्वत्रिकाणि । प्राची सर्वत्र लोकत एव ग्राह्या । तत्र बौधायन:-कृत्तिकाः खल्विमां प्राची न जहन्ति(ति) तासां दर्शनेनानुमापयेदित्येकं, श्रोणादर्शनेनानुमापये- दित्येके, चित्रास्त्रात्योरन्तरालेनानुमापयेदित्यपरमिति । एतानि लक्षणानि देशविशेषेषु व्यवतिष्ठन्ते । सर्वदेशसाधारणं लक्षणं कात्यायन आह-समे शकुं निखाय शर्छ- संमितया रज्ज्वा मण्डलं परिलिख्य यत्र रेखयोः शवप्रच्छाया पतति सा प्राचीति । अग्रे स्रक्तिवतीरोककरणविधानाद्विमितस्य चतुरश्रता गम्यते । पिज्येष्टौ दिक्षु सक्तय इति विधानाइवे कर्मणि चतुरश्रेषु विदिक्षेव सक्तयः । आपस्तम्बः स्पष्टमेवामुमर्थमाह- अवान्तरदिक्षु सक्तय इति ।

परिश्रयन्तः स्रक्तिष्वतीरोकान्कुर्वन्ति ।

प्राग्वंशं विमितमुपरिष्टादाच्छादितं परिश्रयन्तः परितः कटादिभिराच्छादयन्तः परिकर्मिणः स्रक्तिषु कोणेषु अतीरोकान्कुर्वन्ति । आरोकशब्दोऽन्तरालवाची गवाक्षाणीति यावत् । आरोकेष्वारण्यान्धारयन्तीत्यश्वमेधे श्रुतेः । दीर्घो लकारस्य रेफश्च च्छान्दसः । कोणेषु गवाक्षाणि कुर्वन्तीत्यर्थः । परिश्रयन्त इति शतृनिर्देशात्परिश्रयण- समकालमेवातीरोककरणम् ।

उत्तरपूर्वमवान्तरदेशं प्रति पञ्चमम् ।

उत्तरपूर्वावान्तरप्रदेशाभिमुखं पञ्चममित्यर्थः । अयमर्थः प्रतिशब्दाल्लभ्यते । उत्तर- पूर्व प्रति पञ्चममित्येतावत्युच्यमान उत्तरपूर्वशब्देन गवाक्षस्यैव ग्रहणं स्यात् । तथा च तत्समीपेऽवान्तरदेश एवं पञ्चमं गवाक्षं स्यात्तन्मा भूत्किंत्ववान्तरदेशव्यतिरिक्तसमी- पवर्तिनि पूर्वभाग उत्तरभागे वा यथा स्यादित्येतदर्थमवान्तरदेशवचनम् । दिक्स्थाश्च- त्वारो भागा विदिक्स्थाश्चत्वारस्तत्र पूर्वभाग उत्तरभागे वा पञ्चमं गवाक्षमिति द्रष्टव्यम् । उत्तरपूर्वग्रहणमितरावान्तरदेशव्यावृत्त्यर्थम् ।

दिक्षु द्वाराणि ।

कुर्वन्तीति शेषः । श्रुतौ दिक्ष्वतीकाशान्करोतीत्यतीकाशशब्दो द्वारवाच्येव । तानि अरत्निमात्राणि । पृष्ठ्यासूत्रपाश्चात्योदक्सूत्रसंपाताद्दक्षिणतः प्रादेशमिते देशे द्वारस्तम्भः । एवमुत्तरतो द्वारस्तम्भः । एवं प्रत्यग्द्वारं संपन्नं भवति । पृष्ठयासूत्रपौरस्त्योद- क्सूत्रसंपाताद्दक्षिणत उत्तरतश्च पूर्ववदेकैकं स्तम्भं दद्यात् । एवं प्राग्द्वारं संपन्नं भवति । उदक्सूत्रदक्षिणप्रान्तसूत्रसंपातात्प्राच्या प्रतीच्यां च पूर्ववदेकैकं स्तम्भं दद्यात् । एवं दक्षिणद्वारं संपन्नं भवति । उदक्सूत्रोत्तरप्रान्तसूत्रसंपातात्प्राच्यां प्रतीच्यां च पूर्ववद्द्वार- 1 । १प्र०पटलः ] गोपीनाथभकृतज्योत्साव्याख्यासमेतम् । स्तम्भौ । एवमुत्तरद्वारं संपन्नं भवति । अरस्निप्रमाणं शुल्बसूत्रे-चतुर्विशत्वगुलयोऽ. रनिस्तदर्ध प्रादेश इति कृप्तिरिति । सार्वत्रिकी चैषा कृप्तिरिति ज्ञेयम् ।

एकद्वाराः काम्या कल्पाः।

एकमेव द्वारं थेषु कश्पेषु प्रकारेषु त एकद्वाराः कल्पाः काम्या भवन्तीति शेषः । न तु प्राकृतानामेव द्वाराणामर्थवादो यदष्टाकपालो भवति गायत्रियवैनं ब्रह्मवर्चसेन पुनातीत्यादिवत् । यः कामयेतेतिविशेषविधानात् । तेन तेन निष्क्रान्तः सर्व करोति यद्वारान्तरेण कर्तव्यं तच्च दक्षिणया द्वारोपनिइत्येत्यादौ यदि प्रतीच्यामेव द्वार तथा न प्रतीच्या द्वारा निष्क्रामतीति शास्त्रान्तरप्रोक्तः प्रतिषेधः । तथा पूर्वया द्वारा प्राग्वशं प्रविश्येत्यादिनियमो न मवति । तया गवादीनां बन्धनाथू शकूनां च न द्वार्यादिनियमः । होतुः समीक्षणेऽभिध्यानमात्र, शालामुखीयास्प्राक्सोकाशिनं सर्वदा कर्तव्यमेव । द्वारान्तरेण निष्क्रम्यापि उत्तरपूर्वदेश एवोच्छिष्ट खरकरणम् । नन्विद सूत्रं व्यर्थ प्राग्द्वारस्वर्गकामस्येत्यादिनैव सिद्धेरिति चेत्सत्यम् । स्वर्गकामनोद्देशेम प्राग्द्वारकरणेऽपीतरेषां नित्यत्वेनानिवृत्तिः स्यात्सा मा भूक्तितु एकस्य काम्यखे सर्वेषां नित्यत्वेऽपि निवृत्तिर्यथा स्यादित्येतादृशार्थज्ञापनार्थत्वेन वैयाभावात् । कामानाह-

प्राग्द्वारꣳ स्वर्गकामस्य दक्षिणाद्वारं पितृलोककामस्य प्रत्यग्द्वारं मनुष्यलोककामस्योदग्द्वारं प्रजाकामस्योत्तरतःपुरस्ताद्यः कामयेतोभयोर्लोकयोर्ऋध्नुयामिति ।

उत्तरत इति तस्प्रत्ययसंहितपाठेन यद्यपि द्वारद्वयं प्रतीयते तथाऽपि एकद्वारा: काम्याः कल्पा इत्युपक्रमादुत्तरपूर्वया द्वारोपनिहत्येति दर्शनाच्चैकमेव द्वारमवान्तर- देश उत्तरपूर्वरूपे तस्प्रत्ययसहितः पाठोऽपपाठ एव । अन्यत्स्पष्टम् । दिक्षु द्वाराणीति सर्वद्वारकल्पस्य काम्यत्वमप्याह-

सर्वतोद्वारं यः कामयेत सर्वासु दिक्ष्वृध्नुयामिति ।

स्पष्टम् । ननूत्तरपूर्वया द्वारोपनिहत्येति सिद्धवदनुवादात्तदपि नित्यमिति चेन। कामश्रुतिविरोधात्पाक्षिकेणाप्युपलक्षणसिद्धेश्च ।

प्रतिमायाश्च कुर्वन्ति दिक्षु प्रघाणरूपाणि ।

प्रतिमाशब्दः साहश्यवाची प्राग्वंशरूपा या शाला तत्प्रतिमा तत्साशी तस्समन्त- प्रदेशे सदोहविर्धानमण्डपार्थ स्थलमवशेष्य यावदीष्टप्रदेश बाह्यतोऽन्या शाला तस्या अपि प्रान्तेषु दिक्षु द्वाराणि कुन्तीत्यर्थः । सादृश्यमत्र निबिडच्छायत्वोच्चत्वाम्याम् । ख. ग. कामनामाह। ५८४ सत्याषाढविरचितं श्रौतसूत्र- [७ सप्तमप्रश्ने- अर्थात्परितःश्रयणम् । द्वारेषु विशेषमाह -प्रघाणरूपाणीति । बाह्यशालाया द्वाराणि प्रघाणरूपाणि कुर्वन्तीत्यर्थः । दिदिवतिवचनं विदिग्व्यावृर्त्यर्थम् । प्रहण्यते पादाभ्यां गमन आगमने च स प्रत्राणः । हननं ताउनम् । अत्र हननशब्देन हननयोग्यता लक्ष्यते । योगरूढं पदम् । अगारैकदेशे प्रघणः प्रघाणश्चेति निपातनात्साधुः । अलि. न्दरूपद्वारावयववाच्ययं शब्दः । प्राग्वंशस्य सदोहविर्धानयोश्च समान५ सांकाशिन मित्ययं विधिर्वाह्यशालायाः पूर्वापरद्वारयोर्न भवति । अविधानादावश्यकाशुचिपुरुषादि- दृष्ट्यांपादनानुकूलत्वाच्च । बाह्यशालाद्वाराणि सर्वाणि कपाटवन्त्यपि कार्याणि श्वादीना- मप्रवेशाय । द्वारवर्ग सर्वतः परिश्रयणम् ।

उत्तरेण प्राग्वꣳशं परिश्रिते यजमानस्य केशश्मश्रूणि वापयते ।

उत्तरेणेत्येनबन्तम् । प्राग्वंसाबहिरुत्तरतः समीप एवेत्यर्थः । उत्तरणेति षचनं प्रागादिदिग्व्यावृत्त्यर्थम् । दूरदेशव्यावृत्त्यर्थमेनपो वचनम् । प्राग्वंशवचनादग्न्यायत- नस्य बाह्यशालाया गाई पत्यार्थोदीचीनवंशायाः शालायाश्च व्यावृत्तिः । तेनाकैव शाला भवति नतु शालाद्वयनिति । प्राग्वंशशब्दः शालाविशेषवाची । तथाच कोशः- प्राग्वंशः प्राग्वविर्गहादिति । यो हविगैहाद्धविरर्थव्यस्थापनार्थातहात्प्राक्पुरतो मण्डपः स प्राग्वंश इत्यर्थः। एतेनैव ज्ञायते यज्ञोपयुक्तहविरादिसंमारजातं प्राग्वंशस्य पश्चात्स्था- पयितव्यमिति । अस्ति चायमर्थः स्पष्टः शास्त्रान्तरे-पश्चात्पत्नीशाला तस्या एव समीपे संमारान्निदभातीति । अत्र यजमानः प्राङ्मुख एव । उदङ्मुखत्वे विहारस्य पृष्ठतः कृतिः स्यात् । सा चात्यन्तमनुचिता । एतदभिप्रेत्यैव प्राङ्मुखतामत्राऽऽह बौधायनः- अथ प्राङ्मुखस्य दक्षिणं गोदानमद्भिरुनत्त्याप उन्दन्तु जीवसे दीर्घायुत्वाय वर्चस इतीति । उत्तरेण प्राग्वशं परिश्रिते यजमानस्य श्मश्रूण्यग्रे वापयतेऽथोपपक्षावथ केशानियेता- वतैव सिद्धे पृथक्सामान्यप्रतिज्ञानमन्यत्रापि यत्र केशश्मश्रूणि वापयत इति श्रूयते तत्राप्य यमेव क्रमो नतु केशश्मश्रु वपत इतिवाक्यानुसारेण क्रम इति । प्राग्वंशमित्य- नपा द्वितीयेति द्वितीया पष्ठ्यर्थे । परिश्रिसे कटादिभिर्वपनार्थ प्रवेशार्थ पूर्वतो द्वार । कुर्यात् । उत्तरेण प्राग्वंशमित्यरण्ये दीक्षापक्षे । अस्मिन्पक्ष एव प्राग्वंशस्य संभवात् । गृहे दीक्षापक्षे तु प्राग्वंशासंभवे दीक्षणीयार्थविहारादुत्तरत एतद्भवति । प्राग्वंशसंभवे तु तदुत्तरत एव । अथवा गृहे दीक्षापक्षेऽपि प्राग्वंश आवश्यकः । उत्तरण प्राग्वंश- मिति वचनात्तं प्राग्वंशं प्रपाद्येति वक्ष्यमाणसूत्राच्च । प्रायणीयाद्यर्थ प्राग्वंशो भिन्न एव । यजमानग्रहणं पत्नीव्यु दासार्थम् । स्पष्टमाहाऽऽपस्तम्बः-एवं पत्नीकेशवन. मिति । वसिष्ठस्मृतिरपि- केशानां नास्ति नारीणां वपनं व्रतयज्ञयोः । गोवधादिषु सर्वेषु च्छेदयदङ्गुलद्वयम् ॥ इति । १० पढळ: ] गोपीनाथभट्टकृतभ्योत्साव्याख्यासमेतम् । ऋदिव्युदासस्नु सुतराम् । ऋत्विजां प्राधान्याभावात् । जैमिनिरपि तृतीयाध्याये सप्तमे पादे फलसंयोगात्तु स्वामियुक्तं प्रधानस्येत्येतेन सूत्रेणाऽऽह । सूत्रार्थस्तु स्वामि- युक्तं वपनपयोवतादिकं प्रधानस्य धर्मः । कुतः, फलसंयोगात्फलभाक्त्वरूपभोक्तृत्वातं. योगात् , योग्यताजननद्वारा प्रधानफलोत्पत्त्यर्थत्वादिति येति । श्मश्रूणि च केशाश्च केशभश्रूणि । केशशब्दस्यादन्तत्वात् , यच्छ्मश्रुणस्तत्पुरुषाणा५ रूपमिति श्रुतेः श्मश्रुणः पुरुषशोभाधायकत्वेनाम्याहितत्वाद्वा पूर्वनिपातः । उत्तरत्र कर्म(कम)विधानास्क: मविधायकं नैतत् । केशश्मश्रुग्रहणं लोमोपलक्षणम् । न चेदुपपक्षयोः क्रमनियमायोगात् । वापयत इत्यत्र स्वार्थे णिच् । तेनाध्वयुरेव वपेत्, नतु तेन वापयेदिति । कृते नापित- कृत्य इति याजमानमूत्रमस्मिन्नये लिङ्गम् । लोकविद्विष्टत्वाच्छिक्षाया अभावाच मन्त्रेण किंचिद्वपनं कृत्वा नापितेनावशिष्टं कृत्स्नं वपनं कारयेत् । एतेन रथकारवन्मन. पाठकल्पनाऽपि निरस्ता।

श्मश्रूण्यग्रे वापयतेऽथोपपक्षावथ केशान् ।

अत्र पुनर्वापयत इति वचनं देवं वपनमाप पक्षेऽत्र भवतीतिज्ञापनार्थम् । उक्त चैतत्स्पष्टमापस्तम्बेन-उत्तरेण बहिः प्राग्वंश परिश्रिते यजमानः केशश्मश्रूणि वापयत उपपक्षावग्रेऽथ श्मश्रूण्यथ केशानपि वा इमश्रूण्युपपक्षावथ केशानिति । प्रयोजकत्या- र्थक एवात्र णिच् , नतु स्वार्थ इत्येतादृशनियमज्ञापनार्थ वा गोदानोन्दनं तु अध्वर्युक- लॅकमेव । युक्तं चैतदध्वर्युकर्तृकत्वं समन्त्रककर्मत्वात् , णिजमावाच्च । नखनिकृन्तनमप्य- ध्वर्युकर्तृकमेव । णिजभावात्कृते नापितकृत्य इति पूर्वोक्तलिकाच । वपनमन्त्राणां यपनकरणत्वादेव मध्ये मन्त्रपाठो न दोषायेत्येवमेव कल्प्यं शिष्टसमाचारानुरोधात् । लिङ्गमप्यत्रास्ति केशेषूप्यमानेषु जपतीति । मुखगताः केशाः श्मशूणि । उपपक्षो बागुमूलम् । नापितोप्तोपपक्षां मे निकृत्तनखा प्रबूतादिति बौधायनोक्तप्रैष उपपक्ष- शमस्यात्रैव रूढिदर्शनात् । कपोलभाग इति केचित् । शिरोगताः केंशाः केशा एव संज्ञान्तराभावात् । अग्रग्रहणं नियमार्थम् । अग्र आदावेव इमणि वापयत इत्यर्थः । तेन मध्यश्मश्रुवपनस्याऽऽसुरवपनस्थ व्यावृत्तिः। यद्यपि मध्यश्मश्रुवपनत्वादेवस्यापि . निवृत्तिः सिद्धा तथाऽपि अनन्तरोक्तज्ञापकबलात्तस्य न निवृत्तिः । अपोपपक्षावथ केशानित्युभयनाथशब्दो ब्राह्मणानुकरणार्थः । अथवाऽथोपपक्षावित्यवाथशब्द उभया- धिकारप्रदर्शनार्थः । तेन पत्न्या अप्युपपक्षवापनं सिद्धं मवति । उक्तं च बौधायनेन- नापितोप्तोपपक्षामित्यादिना प्रेषेण । अथ केशानित्यत्राथशब्द उभयाधिकारव्यावृ. त्यर्थः । तेन केशवापनं यजमानस्यैव न पत्न्याः। एवं पत्नी केशवर्नमित्यापस्तम्बोऽपि । क. 'न के। - MER सत्यापाढविरचितं श्रौतसूत्रं- [७ सप्तमप्र- अप वपन विधिमाह-

आप उन्दन्तु जीवस इति दक्षिणं गोदानमुनत्ति ।

गवि पृथिव्यां दीयते खापार्य यत्तदोदानं श्रोत्रसमीपवर्तिप्रदेशः । तच्च दक्षिणं सदुनत्ति क्लेदयति मादी करोतीति यावत् । उष्णोदकमिश्रणं कृताकृतम् । लक्षणया गोदानाख्यप्रदेशस्थाः केशा गृह्यन्ते । यद्यपि केशोन्दनविधेरपेक्षा तथाऽपि केश- मुलानां गोदानप्रदेशसंबद्धस्वात्तदुन्दनं विना मूलोन्दनासंमवादगोदानोन्दनविधिरिति द्रष्टव्यम् । गोशब्दस्य पृथिवीयाचित्वं निघण्टौ गौग्र्मेति पृथिवीनामा पाठात् ।

ओषधे त्रायस्वैनमित्यूर्ध्वाग्रामोषधिमन्तर्दधाति ।

जाग्रामोषधिमध्वनिं दर्म गोदानात्यप्रदेशस्योपरि स्थापयति । ओषधिशब्दस्य दर्भे प्रवृत्तिों जाता ओषधयो देवेम्यस्त्रियुगं पुरेति बहिरभिमन्प्रणमन्त्रे दृष्टाऽस्ति । दमन्त पेत्येवाऽऽपस्तम्बः । दर्भपुश्रीलं वौषधिशब्देन ग्राह्यम् । तथा प कर्मान्ते बौधायनः 'सदर्भपुनीलनुवृति कतरनु स्खखि दर्भपुञ्जीळ भवतीति पदेवैतद्रोदान- योनिदधाति' इति ।

स्वधिते मैनꣳ हिꣳसीरिति क्षुरेणाभिनिदधाति ।

खधितिशब्दस्य पशुविशसमशनपरस्प नात्राभिप्रेतं प्रकृतेऽनुपयोगादित्यभिने। खाऽऽह क्षुरेणेति । क्षुरेणेति तृतीया द्वितीयार्थे । तेन क्षुरमित्येवं प्रयोगो भवति । अभिनिधानं दर्भस्योपरि स्थापनम् ।

देवश्रूरेतानि प्रवप इति प्रवपति ।। १ ।।

दक्षिणं गोदानमिति शेषः । दक्षिणगोदानस्थान्केशानिति तदर्थः । मचाः कोश. न्तीतिवलक्षणा । सदर्भाणां केशानां वपनमतानीति लिङ्गात् । सामान्ये नपुंसकमिति नपुंसकलिकता । दक्षिणं गोदानमारभ्य प्रदक्षिणं सर्वान्केशान्वपतीत्यर्थसिद्धम् । एतदभिप्रापेणैवोत्तरगोदानावचनम् । उन्दनादिसंस्कारा दक्षिणगोदानप्रदेश एवं कार्या इति दर्शयितुं दक्षिणगोदानवचनं नवितरकेशवपननिवृत्तिरनेन कियते । अत एव पूर्वन सामान्यतः केशवपनप्रतिज्ञानं कृतं श्मश्रूण्यग्रे वापयतेऽथोपपक्षावय केशानिति । भतावपि श्रुतं मृता वा एषा स्वगमेध्या यत्केशश्मनु मृतामेव स्वचममेध्यामपहत्य यज्ञियो भूत्वा मेवमुक्तीति । तूष्ण वोत्तरं गोदानं पारिशेष्यात् । शिखायास्तु नैव वपनम् । सवेषु तु वचनाद्वपनं शिखाया इति धर्मसूत्रात् । सदोपवीतिना भाव्यं सदा वद्धशिखेन च । विशिसो व्युपवीतश्च यत्करोति न तत्कृतम् ॥ इतिस्मृतेश्च । कम् । य। - [१० पटलः ] गोपीनाथभट्टकृतज्योत्नाव्यास्यासमेतम् । भुवौ प्रकोष्ठे उपस्थं च वयित्वा लोना वपनम् । उपपक्षश्मश्रुकेशान्वापयोत क्रमात्सदा । शिखाप्रकोष्ठभूपस्यान्वनयित्वा द्विजोत्तमः ।। इति स्मृती निषेधात् । उपस्थग्रहणं गुदोपलक्षणम् । इदं वपन जीवत्पितृकस्यापि भवति । गङ्गायां भास्करक्षेत्रे मातापित्रोरी मृते । आधाने सोमपाने च वपन सप्तसु स्मृतम् ॥ इति निगमोक्तः । विना तीर्थ विना यज्ञ मातापित्रोद्मति विना । यो वापयति लोमानि स पुत्रः पितृघातकः ॥ इति प्रचेतावनाच । तत्रापि पितरि कृतदीक्ष एव पुत्रस्याधिकारः । भन्यया कृते परिवेत्तृत्वादिदोषा- पत्तेः । विस्तरस्तु मस्कृतस्मात संस्काररत्नमालायामवगन्तव्यः । पौर्णमास्यां दीक्षायां कृतपनश्चेद्वपनं न भवति अर्थ टोपात् । तथा सोमाधाने चेति केचित् । केशश्मश्रुव- समावेऽपि वपन राजक्रयवत्संस्कार इति तदानी मन्त्रनपः, छिन्ने लून इति भारद्वा- जवचनादित्यन्ये । अस्मिन्पक्षे दक्षिणोत्तरमागमेदेन वपनम् । अवचनादेवं ज्ञायत एषमुत्तरं गोदानमित्यापस्तम्बोक्तं नामिमतमिति । तयाच बौधायन:-एतयैवाऽऽयतो- तर गोदानमद्भिनत्ति यजुषा वा तूष्णीं वेति ।

अभ्यन्तरं नखानि निकृन्तते हस्त्यान्यग्रेऽथ पद्यानि सव्यस्याग्रे कनिष्ठिकातोऽथ दक्षिणस्य ।

यथाऽगुल्योम्योऽम्यन्तरं भवति तथा नखानि निकृन्तते छिनत्ति अवयुरेव । शिक्षाया अभावाद्हितत्वाच नापितः । निकृन्तत इत्यत्र नीत्युपसर्गों नितरां छेदनार्थः । अध्वर्योरपि वपनकर्तृत्वास्नानं तूष्णोमेव शुद्धयर्थम् । हस्त्यानि हस्तसंबन्धीनि अग्र आदी निकृन्तते छिनत्ति । अथानन्तरं पद्यानि पादसंबन्धीनि । पाचार्याम्यां चेति यत्प्रत्ययः । पद्यत्यतदर्थ इति पाइशब्दस्य पदादेशः । हस्त्यान्यम इत्येताववादिनन्तरं पद्य- निकृन्तने सिद्धेऽथ पद्यानीति वचनं कालाव्यवधानार्थम् । सव्यस्य वामस्य हस्तस्याने प्रथमं कनिष्ठिकात आरम्येति शेषः । अथानन्तरं दक्षिणस्य हस्तस्य । सव्यस्याने कनिष्ठिकात इत्यनेनैव दक्षिणस्य हस्तस्यानन्तरं नखनिकृन्तने सिद्ध इन वचनं दक्षि- णस्य हस्तस्याप्यभ्यन्तरमेव कनिष्ठिकात आरभ्यैव नखनिकृन्तन नवेतन्यतिरिक्तलोकप्र. सिद्धप्रकारेणे येतदर्थम् । एवं सव्यस्य पादस्याग्रेऽनन्तरं दक्षिणस्य कनिष्ठिकात आरम्यैव । पूर्वत्र हस्त्यान्यग्रेऽथ पद्यानीत्युमयोपक्रमात् । सव्यस्याने कनिष्ठिका- तोऽथ दक्षिणस्येत्यत्र सव्यदक्षिणशब्दाम्यां सव्यहस्तपादयोर्दक्षिणहस्तपादयोर्यषा- क्रमं ग्रहणम् । सव्यस्य दक्षिणस्येति सामान्यतो निर्देशाद्धस्तनखनिकृन्तनवत्पादनख. निकृन्तनेऽप्पयमेव प्रकारः । अभ्यन्तरं नखानि निकृन्तते सव्यानि हस्त्यान्यग्रे कनि. . HGG . सत्याषाढविरचितं श्रौतसूत्रं- [ ७सप्तम- शिकातोऽथ दक्षिणान्येवं पद्यानीत्येकान्वयेनैव सिद्धौ मेरेन सूत्रकरणं सत्यस्याने कनिष्ठिकातोऽथ दक्षिणस्यत्यस्य क्रमस्यानित्यता ज्ञापयति । नखनिकृन्तनं पत्न्या भषि यजमानपदाश्रवणात् । आपस्तम्नेनैवं पत्नीकेशवर्नमित्यनेन नखनिकृन्तनकर्तव्य- वाया बोधनात् , बौधायनेन स्पष्टतयाऽभिधानाच ।

स यदाऽक्ताक्षो भवत्यथैनमेकविꣳशत्या दर्भपुञ्जीलै स्त्रेधा विभक्तैस्त्रिः सप्तभिः सप्तभिः पावयति चित्पतिस्त्वा पुनात्वित्येतैर्मन्त्रैर्द्विरूर्ध्वं नाभेरुन्मार्ष्टि सकृदवाङवमार्ष्ट्यच्छिद्रेण पवित्रेणेति सर्वत्रानुषजति ।

स यदाऽवत्ताक्षो भवत्यथेत्यन्त सूत्रमानपावनयोः कालाव्यवधानार्थ नतु प्रयोग- कमज्ञानार्थ वृत्रस्य कनीनिकाऽप्तीत्यारम्य न पुनर्निषेचयतीत्यन्तेन याजमानप्रकरण. स्थेन सूत्रेण विधास्यमानादलनादनन्तरं तस्य ते पवित्रपत इत्यारम्य पवमानः सुव. नैन इति चैतमनुवाकमित्यन्तेन सूत्रेण पाव्यमानस्य अपं विधास्थमानेनाऽऽचार्येण याम. मानप्रकरणस्थेन सूत्रेणैव तस्य ज्ञापयिष्यमाणत्वात् । सोऽभ्यतः । इदं च तच्छन्दो. पादानं पावनविषय एनमित्येतच्छन्दोपादानं चाभ्यञ्जनाजनपावनानां संयुक्तत्व स्थापनार्थम् । तेन संयुक्तानि त्वेकापवर्गाणीति परिभाषयनत्रितयं यजमानस्य कृत्वाऽ. नन्तरं पल्या नतु एकैकमेकैकत्येति । तेनास्मत्सूत्रादपदमपि ज्ञातं भवति परन्या अप्येतत्रितयमस्तीति । यदा यस्मिन्कालेऽते असिणी यनताहशो भवति अथ तस्मि- कालेऽनन्तरमेवैनम तालमेकविंशत्यकर्षिशतिसंख्याकैदर्भपुञ्जोलैत्रेधा विभक्तस्त्रेधाति- भागवद्भिः सप्तमिः सप्तमिस्त्रिः पावयतीत्यर्थः । विशत्यायाः सदैकत्व इति कोशादेक- विंशत्येत्यत्रैकवचनम् । ननु त्रेधा विपरित्येतावदेवास्तु किमर्य सप्तभिरिति चेन्न । प्रेधा विभकैरित्यनेन विभागमात्रे प्रापित कृतविमागैः पृथग्भ्रमिलितः सर्वैरपि त्रिवार पावनमित्येतादृशानिवारणार्थत्वात्सम स्यादश्रुतत्वादिति न्यायज्ञापनार्थत्वाद्वा । दर्भ- पुजील दर्भकाण्डं सप्त दर्भा इति केचित् । बहूचब्राह्मणे तु पिञ्जुलैरित्युक्तम् । पिछ विशाखो दर्भ इति केचित् । पिञ्जूलपुञ्जीलशब्दौ पर्यायावित्यन्ये । स यदाs. कालो भवत्यौनमित्यत्र पुंस्त्वमुद्देश्यगतत्वादविवक्षित क्षेयं ब्राह्मणोऽग्नीनादधीतेतिवत् । नच सौमे वसानो जायापती अग्नीनादधीयातामिति श्रुतौ सहाधिकारश्रवणाड्राह्मण इत्यत्र पुंस्त्वत्याविवक्षितत्वं प्रकृते सहाधिकारबोध कश्रुतेर भावात्कथं पुंस्त्वस्याविवति. तत्वमिति शङ्कयम् । पूतौ जायापती दीक्षते इत्यत्रापि महाधिकारश्रुतिश्रवणात्पुंस्त्वा. विवक्षाया अनपायात् । चित्पतिस्त्वा पुनावियतमरित्यतैरिति वचनं नित्पतिस्त्वा .

  • अवागवमाति टोकानुसारी पाठः । +

[१प्र० पटलः ] गोपीनाथभट्टकृतज्योत्मान्याख्यासमेतम् । पुनातु वाक्पतिस्त्वा पुनातु देवस्त्वा सविता पुनावित्येतेषामन्यतमेन सन्मन्त्रेण द्विस्तू. णीमिति स्यादितरयोविकल्पार्थत्वं स्यात्तन्मा मूर्तिकतु सर्वेषां पावनकरणस्वं यथा स्यादित्येतदर्थम् । एकैकां क्रियां प्रति एकैकस्य मन्त्रस्य करणता समं स्यादश्चतत्वा- नितिन्यायसिद्धति ज्ञापयितुं मन्त्रैरिति वचनम् । तेन सराधं पावनं तूष्णीमितरे इति निरस्तं भवति । पूर्व पत्रिः पावयतीत्युक्तं तस्यायं विशेषविधिविस मित्यादिकः । नाभेरुल द्विरुन्मादि । उच्छब्दार्ध्वमेव माहिं । सकृदेकवारम् । अत एवाविच्छिद्यैव पावनम् । अन्यथा सकृत्त्वं मन्येत । अवाक्, अवाधोऽश्चति गच्छति समाता भवती- त्यवाक् । नामेरित्यनुवर्तते । नानिमारभ्य पादपर्यन्तं मार्टीत्यर्थः । अवास्त्यिापाठः । पस्त्रान्तार्हतानां पावने वचनामावेऽपि बनशिथिलीकरणस्यापि विगहितत्वाद्वस्त्रान्ताह- तानामेव पावनं कुर्वन्ति शिष्टाः । नमत्वापत्तेर्विगानापत्तेश्चेदानीम् । अच्छिद्रेण पवित्रण वसोः सूर्यस्य रश्मिभिरिति सर्वत्र मन्त्रेष्वनुषजति । अच्छिद्रेण परिणेत्यनुषनतीत्ये. सावतेवेतरयमित्रयोरीदनुषङ्गसिद्धौ सर्वश्रेति वचनं चिस्पतिर्मा पुनातु पाक्पतिर्मा पुनातु देवो मा सविता पुनास्त्विति त्रिषु याजमानमन्त्रेष्वप्यनुषङ्गलामार्थम् । आध्वर्यव- मन्त्रान्त्यमन्त्रे तु श्रुतौ पठित एवास्ति । अतो नात्रानुषङ्गः । एतदर्भपुलीलनिरसने विशेषमाह द्वैधे बौधायन:-अथैनान्यद्भिः प्रोक्ष्योदञ्च्यवरिखदेदिति । अथैनान्यद्भि. रभ्युक्ष्योदश्च्युरिखदेदिति शालीकिमतम् । उत्तानेन हस्तेन कर्तव्यं सेवनं प्रोक्षणम् । मुष्टीकृतेन हस्तेन कर्तव्यं सेचनमभ्युक्षणमित्यनयोर्मेदः । खेदन निरसनम् । अवेत्युप- सर्गादधः कर्तव्यम् । उदित्युपसर्गा_मिति निरसने भेदो द्रष्टव्यः ।

तं प्राग्वꣳशं प्रपाद्यात्र दीक्षणीयामेके समामनन्ति ।

बहिर्गतस्य यजमानस्य प्राग्वंशप्रवेश विना दीक्षणीयाया असिद्धेरर्थतः सिद्ध इर्द षचनमध्वयोंः प्रयोजककर्तृत्वार्थम् । तेनोपवेशनान्तं यजमानस्य हस्तं धृत्वा तेन कार. णीयम् । समन्त्रका क्रिया तु यजमानस्यैव । इदं च प्रयोजककर्तृत्वं बौधायनेनाप्युक्तं सविशेषम् --अथैन५ सव्ये पाणावभिपात्य शालामानयत्या वो देवास ईमहे सत्यध- माणो अध्वरे यद्वो देवास आगुरे यज्ञियासो हवामह इतीति । द्वैधे-अथैन सव्ये पाणावभिपात्येति दक्षिण इति पूर्वः कल्पो बौधायनस्योत्तरतः शालीकेरिति । अथैनर सव्ये पाणावभिपात्ये त्ययं विशेषोऽत्र तं प्रायश प्राय दीक्षणीयामेके समामनन्त्यत्रे- त्यन्वयः । अत्रास्मिन्काले पूर्वत्र दीक्षणीया योक्ता साऽत्र कर्तव्या न पूर्वप्रेत्यर्थः । भतिवचनाभावे प्राग्यशप्रपादनोत्तरं वैकल्पिको द्वितीया दीक्षणीयेत्यर्थः स्यात्तस्य निवृत्त्यर्थमतिवचनमावश्यकम् । अत्रेष्टिशब्दप्रयोगामानार्दष्ट हविरिदमेषां मयीत्य. १ क.संबम ३.२ इ. ज. स.अ. 'यामिष्टिम। ५५ सत्यापाठविरचितं श्रौतसूत्र- [सप्तमप्र- न्वाधानमधे न प्रयोज्यम् । प्रपायेति श्यप्प्रत्ययप्रयोगः प्रपादनदोक्षणीयेश्योरव्यवधा. मार्थः। तेनाऽऽहवनीयाभिमन्त्रणं दीक्षणीयेष्टयुत्तरमेव भवति नतु तत्पूर्वमिति सिद्धं भवति । भत्र प्रपादनमुपवेशनमेव । गृहे दीक्षापले प्रापर्वशासंभवे दीक्षणीयार्थविहारं प्रपाद- पति । अत्र दीक्षणीयापक्षे व्रतोपायनपत्नीसनहनादीन्यत्रापि न मवन्ति सिद्धार्थत्वात् । भन्न प्राग्वंशप्रपादनविधानास्पावनान्तं प्राग्वशाहिरेवेति अर्थत एव सिद्धम् ।

ध्रुवाशेषादाकूत्यै प्रयुजेऽग्नये स्वाहेति स्रुवेण चतस्रो दीक्षाहुतीर्जुहोति ।

प्रतिग्रहणं मन्त्रेण ध्रुवाप्यायनं प्राकृतम् । ऐष्टिकव्यतिरिक्त समन्त्रमाप्यायन नेति केचित् । यमनियमपरिग्रहानुकूलयोग्यतारूपा दीक्षा तदर्षा भइतयो दीक्षाहुतयस्ता दीक्षाहुती/चादीक्षाहुतीर्यनमानसंस्कारार्थाः । तेन सत्रे प्रतियजमानमेता भवन्ति । यज्ञस्योद्यत्या इति श्रुतेर्यज्ञस्योद्यमनार्थाश्च । अतः सर्वतोमुखे प्रतिविहारमेता मन्ति । एवमस्थियज्ञे यजमानामावेऽपि च । एकैकेन मन्त्रेणैकैकाऽऽहुतिः । अग्नये स्वाहे त्यन्ता मन्त्राः । एतेषु पठित एव स्वाहाकारः । तेनैव प्रदानं नान्यः स्वाहाकारः प्रयोज्यः । देवतापदाव्यवाहितोत्तरस्वाहाकारस्यैव वानार्थत्वस्य निर्णीतत्वेन प्रकृते तथाभूत स्वाहा- कारस्य सरसेन तेनैव दानसिद्धेः । एकस्वाहाकारसत्त्वे द्वितीयस्वाहाकारप्रयोगो मानि- काणामेव न वैदिकानाम् । वैदिकेषु कर्मसु वेदोक्तस्यैव प्रबलत्वात् ।

आपो देवीरिति स्रुचा पञ्चमीम् ।

जहोतीत्यनुवर्तते । खुम्ग्रहणं नुवानिवृत्त्यर्थम् । जुमिन्नलौकिकबुक्प्राप्त्यर्थं वा । पञ्चमीमिविवचनमतस्या अपि दीक्षाहुतित्वसाधनार्थम् । तेन धुवाशेषादेव होमः सर्वतो. मुख प्रतिविहारमनुष्ठानं च सिध्यति । वृधातु स्वाहेत्यन्तो मन्त्रः ।

विश्वे देवस्य नेतुरिति षष्ठीं द्वादशगृहीतेन स्रुचं पूरयित्वा बिलावकाशां वा कृत्वोत्तमस्रुवेऽभिपूरयत्युपोत्तमे वा ।

द्वादशगृहीतेन खुचं पूरयित्वा विश्वे देवस्य नेतुरिति षष्ठीमित्यन्वयः । जुहोतीत्यनु: वर्तते । अत्रापि पठित एवं स्वाहाकारस्तेनैव प्रदानं नान्यः स्वाहाकारः प्रयोज्यः । अत्र दशकृत्व आप्यायनम् । अन्तिमे धौवसमाप्तिः । षष्ठीवचन प्रयोजनं पञ्चमीवत् । पुष्पसे स्वाहेत्यन्तो मन्त्रः । बिलेऽवकाशो यस्याः सा, एतादृशी स्रुचं कृत्वा तया वा मुहुपात् । अनेन न्यूनया जुहोतीति पक्षः प्रदर्शितो भवति । द्वादशगृहोतेन ध्रौवाज्ये- नामिपूरणं यदि न जायते तदा बिलावकाशा वा कृत्वेति पक्षः । पूर्णत्वपक्षनिर्वाहार्थ. मुपायमाह-उत्तमनुव इत्यादि। उत्तमखुवेऽन्तिममुवे गृहीते सति अभिपूरयत्याज्य- ११न, इ, 'वणामि । १५०पटलः] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । स्थाल्याज्येन स्थास्याः खुवेण वा । उपोत्तमेऽन्तिमपूर्ववर्तिनि सुवे गृहीते सति एक: नुवग्रहणपर्याप्तमवकाशमवशेष्यामिपूवशिष्टनुवपरिमितमाज्यं गृह्णीयादित्यर्थः । इष्टि- शेषद्रव्यस्वात्समिदाधानपरिक्रमणे न स्त इति केचित् । एतस्या एवौद्ग्रहणसंज्ञा । तथाच श्रुतिः-प्रजापतिर्यज्ञमसूजत सोऽस्मात्सृष्टः पराछैत्स प्र यजुरब्लीनात्म साम तमृगुदयच्छ्यदृगुदयच्छत्तदौद्ग्रहणस्यौद्ग्रहणस्वमिति । अस्या अयपर्थ:--पलायमान यज्ञपुरुष ग्रहीतुं प्रजापतिना प्रेरितानां त्रिविधमत्रामिमानिपुरुषाणां मध्ये यजुरभिमानिनं पुरुष सामामिमानिनं पुरुषं च स यज्ञः प्रकर्षणाब्लोनादावृणोत् । अगभिमानी पुरुषम्त यज्ञमुदगृह्णात् । यद्यस्मादृगुदयच्छत्तत्तस्मादेतदौद्ग्रहणसंज्ञक मवति एतदेवौद्ग्रहणस्यौ- ग्रहणत्वमिति ।

कृष्णाजिनस्य दक्षिणं पूर्वपादमन्तर्माꣳसं परिषीव्यति ।

कृष्णो मृगस्तस्याजिनं चर्म कृष्णाजिनम् । कृष्णग्रहणं व्याघादिनिवृत्त्य सेन व्यामानिने परिषीवणं न भवति । व्याघ्राजिनस्य प्राप्तिरभिचारकर्मणीत्यत्र ज्ञापकमले वक्ष्यते । सूत्रान्तरे दृष्टं चास्ति । दक्षिण पूर्वपादमित्यनेनात्र साङ्गमंजिनं गम्यते । अन्तर्मासमन्तर्विशसनम् । परिपीव्यति सूच्या दर्मणेन वा सूत्रेण ।

द्वे वा विषूची माꣳससꣳहिते करोति ।

द्वे कृष्णानिने विषची विपर्यस्तशिरःपुच्छे मांससंहते मांसप्रदेशे संहते परस्परं सूच्या वर्भणेन वा सूत्रेण परिपूते करोत्यवियोगायेत्यर्थः ।

इन्द्रशाक्वर गायत्रीं प्रपद्ये तां ते युनज्मीन्द्रशाक्वर त्रिष्टुभं प्रपद्ये तां ते युनज्मीन्द्रशाक्वर जगतीं प्रपद्ये तां ते युनज्मीन्द्रशाक्वरानुष्टुभं प्रपद्ये तां ते युन- ज्मीन्द्रशाक्वर पङ्क्तिं प्रपद्ये तां ते युनज्मीत्यन्तर्वेदि कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमाऽऽस्तृणाति ।

अन्तर्वेदि कृष्णाजिनमास्तृणातीत्यत्र पुनः कृष्णाजिनग्रहणाद्यत्राभिचारादौ वैया- मादिमिक्षा यदा वा कृष्णाजिनप्रतिनिधिस्तस्य नान्तर्वेदिस्तरणं किंतु यजमानायतन एवेति द्रष्टव्यम् । अन्तर्वेदि वेदेमध्ये, उत्तरलोमोपरिष्टालोम । अनेन लोमसत्त्वस्याऽऽ. वश्यकत्वं गम्यते । पञ्चैते मत्रा विभागमप्रवद्रिकल्पार्था इत्येके । इन्द्रशावरशन्दा- भिधेयस्य कृष्णाजिनस्य गायत्र्यादिच्छन्दोविशेषयोगसंकीर्तनान्नानार्थत्वात्समुच्चय इस्स- परे । कृत्नपाठादिदमेव युक्तम् । क. ख. ग, 'सरहते। ७ ५९२ सत्याषाढविरचितं श्रौतसूत्र- [७ सप्तमप्रमे-

तदारूढे यजमाने पत्न्याः शिरसि जालं प्रतिमुञ्चति ।

तस्मिन्नारुढे सदारूढे तस्मिनकृष्णाजिन आरूढे कृतारोहणे यजमाने सतीत्यर्थः। प्रति- मुञ्चति प्रक्षिपति।.आऽहं दीक्षामिति जपस्याऽऽरोहणाङ्गताया वक्ष्यमाणत्वेनेतज्जपानन्त- रमेव मालप्रतिमोचनादि । यजमानग्रहणं पत्नीव्यावृत्त्यर्थम् । अनेन कृष्णाजिनं यज. मानस्यैव न पत्न्या इति सिद्धं भवति । आरोहणमपि तस्यैव । पत्नीग्रहणं यजमान- व्यावृत्त्यर्थम् । तेन जालप्रतिमोचनं पत्नीशिरस्येव न यजमानशिरसीति सिध्यति । जालं पट्टसूत्रैविरलैनिर्मितम् । माषया जाली, इत्युच्यते । जीवतो मेषस्योर्णामिरिति स्त्रान्तरे । अमावे दर्ममयमित्यपि शास्त्रान्तरे । तच्च वेदलेवलये बद्धम् । यथाऽऽह बौधायनः-विदलं कुम्मं भवति नालं कुरीरमिति ।

तामहतेन क्षौमेण वाससोर्ध्ववास्येन दीक्षयति ।

तां पस्नीम् । ईषद्धौतं नवं श्वेतं सदशं यन्न धारितम् । अहतं तद्विजानीयात्सर्वकर्मसु पावनम् ॥ इति लक्षणलक्षितेनाहतेन । बौधायनेन प्रक्षालितान्यक्लिष्टानि सदशान्यनुपयुक्ता- न्यहतानि वासांप्तीति. धर्मसूत्रे श्वेतत्वस्याहतलक्षणेऽनुपादानान्नाऽऽवश्यकता । तेन रक्तपीतादिकमपि वस्त्रमहतं भवति । नीलस्य स्मृतौ सर्वथा निषेधान्नैव तस्य कुत्रापि ग्रहणम् । क्लिष्टानि पुराणानि तद्भिन्नानि अक्लिष्टानि नूतनानीत्यर्थः । क्षोमेण शुमाऽ- तसी तत्त्वचा निर्मितेन वासप्सा । अर्थात्प्रावरणपर्याप्तेन । अनेन कार्पासादि व्यावयते । सर्वथैतदलामे तदपि । ऊर्ध्ववास्यं प्राचीनाभिर्दशामिर्वसनीयमूर्धाभिर्दशानिर्वसनीय- मिति यावत् । तथाचाऽऽपस्तम्बः-प्राचीनमात्रा वातसा पत्नी दीक्षयत्यूलवास्य झुवत इति । अत्र मात्राशब्दो दशारूपावयववाची । प्राचीनमात्रा प्राचीनमात्रेणेत्यर्थः । अथवावास्यमुत्तरीयम् । एतच्च पल्यायतन एव कृतत्वात् । वीक्षापदार्थविषये केचि- द्यावदुक्तं पल्या दीक्षितव्यञ्जनानीत्यापस्तम्बसूत्रानुरोधेन तामहतेन क्षौमेण वाससोर्ध्व- वास्येन दीक्षयतीति सूत्रादेतस्मादन्येषां दीक्षासंबन्धिपदार्थानां पल्या निवृत्ति कल्प- पन्ति तदन्याय्यम् । तस्यैष एव संचर आ सुत्याया इति. याजमानसूत्रे तच्छब्देन- दीक्षासंबन्धिपदार्थानां पत्न्यामपि प्रवृत्ते पयिष्यमाणत्वात् , न्यायविरोधात्, बौधाय. नेन स्पष्टोक्तेश्च । नालमुभयतःपाशं पत्न्याः शिरस्यामुच्येति मानवसूत्रे ।

शरमुञ्जानां मेखला त्रिवृद्वेणी कार्या ।

शरा मुञ्जा एवेति शरमुञ्जाः । या मु.मेखला कृता सा शरैरेव कृता भवति । शरमुञ्जानामित्यत्र शरग्रहणं शरभावना मुञ्जेषु कर्तव्येति । अथवा शरा इव मुलाः शरमुञ्जा इति समासः । ऊगर्दै मुञ्जा इतिश्रुत्यन्तरानुरोधेन शरमयी मेखला भवतीति १५०पटलः ] गोपीनाथभट्टकृतज्योत्याव्याख्यासमेतम् । ५९३ श्रुतापूर्णमेवावरुन्ध इत्यूर्वृद्धिफलबलाच्छरशब्देन मुञ्जा एव ग्राह्या इति भावः । शराश्च मुञ्जाश्चैतेषां समाहारः शरमुभाः । दधिपयआदित्वाच्छादसत्वाद्वैकवद्भावाभाव इति केचित् । शरमुञ्जयोविकरूपः । मौज्या मेखलाया अन्यत्र दर्शनाच्छरामाव एषा भवतीत्यर्थः । समुच्चयो वा । अत्रापि शरमयत्वस्थानाधादित्यन्ये । विकल्पपक्षे शस्मयी मेखला भवतीति विकारार्थे मयट् । समुच्चयपक्षे प्राचया मयट् । एतत्पक्ष: द्वयमप्ययुक्तं शरमयं बहिः शृणात्यैवैनमिति शरमयत्वस्य शत्रुविशरणफलकत्वेनाss- भिचारिककर्मण्येव प्रवृत्त्या तव्यतिरिक्त कर्मणि शत्रुविशरणफलकस्य शरमयत्वस्य प्रवृत्तेरनुचितत्वात् । तस्माच्छरशब्देन मुञ्जा एव ग्राह्या नतु शरारूयतृणानीति ज्ञेयम् । त्रिवृच्च वेणी च त्रिवृद्वेणी त्रिवृत्रिगुणा वेणी वेण्याकारा । एतादृशी मौजी मेखला कार्येत्यर्थः । त्रिवृत्, वेणी यस्याः सेति बहुव्रीहिवा । इयं विस्तीर्णा च कार्यो । पृथ्वी भवतीति श्रुतेः । अथवा त्रिवृद्वेणीका, आर्या, इति पदच्छेदः । विवृद्वेणीकेति स्वार्थे कप्रत्ययः । आर्यशब्दः श्रेष्ठयवाची । श्रेष्ठयमत्र विस्तीर्णत्वरूपम् । तथाच पृथ्वी भवतीति सूत्रादेव श्रुत्यर्थः सिद्धो भवति । आर्येत्यनन्तरं मवतीति शेषः । एवं च रज्जुसदृशी मेखलेति अवगतं भवति । योक्त्रं तु जटासहशम् ।

ऊर्गसीति तया यजमानं नाभिदेशे त्रिः प्रदक्षिणं परिव्ययति द्विरित्येके पूषा ते ग्रन्थिं ग्रथ्नात्वित्युतरतो नाभेर्निष्टर्क्यं ग्रन्थिं कृत्वा स ते मा स्यादिति दक्षिणतो नाभेः परिकर्षति यं द्विष्यात्तं ध्यायेत्।

नर्गसीति विवृद्वेण्या शरमुञ्जाना मेखलया यजमानं नामिदेशे त्रिः प्रदक्षिण परिव्ययतीत्येतावनैव सिद्धे शरभुञ्जानां मेखला त्रिवृद्वेणी कार्येति भिन्नं सूत्रं कृत्वो- तरत्र तच्छब्देन परामर्शो व्यर्थ इति चेन्न। तच्छब्दस्य मेखलायाः पूर्वमेवोपकरुपनं कर्त- न्यमित्येतादृशार्थज्ञापनार्थत्वेन वैयमिावात् । तया, उपकल्पितया । यजमानग्रहणं पत्नीव्यावृत्यर्थम् । नाभिदेशे नाभिमध्ये । नामावित्युच्यमाने सप्तम्याः सामीप्यार्थ- कत्लशङ्का स्यात्सा मा मूत्किंतु तस्या अधिकरणार्थकत्वमादाय नाभिमध्य एव यया स्पादित्येतदर्थ देशपदप्रयोगो वाससाऽन्तरितत्वेऽपि नाभिमनुलक्षीकृत्य यो देशस्तस्मि- परिव्ययणमित्यपि बोधयति । एतेनोवं वै पुरुषस्य नाम्यै मेध्यमवाचीनममेध्यं यन्मध्यतः संनपति मेध्यं चैवास्यामेध्यं च व्यावर्तयतीति श्रुतियाख्याता भवति । नाम्यै नाभ्याः । पुरुषस्येति स्युपलक्षणम् । तेन योक्षेणापि नाभ्या मध्य एव संनहनम् । परिभाषया सकृन्मन्त्रेण द्विस्तूष्णीम् । अत्र प्रदक्षिणशब्दः प्रादक्षिण्य- वाची न भवति तस्य प्रदक्षिणं यज्ञे कर्माणि करोतीति परिभाषयव सिद्धः किंवा- नुकूल्यवाची। सत्यापाढविरचितं श्रौतसूत्र- [७ सप्तमप्रभे- चन्दसेने महीपाले राज्ञि राज्य प्रशासति । ववौ प्रदक्षिणो वायुः प्रजा आसन्प्रदक्षिणाः ॥ आसन्सदाऽपि सामन्ता यस्य सर्वे प्रदक्षिणाः। इत्यत्र प्रदक्षिणशब्दस्याऽऽनुकूल्यार्थकत्वदर्शनात् । तेन दृढं शिथिलं वां यजमानानुकूल्येन परिव्ययणमिति सिद्ध भवति । मा मा हिसीरित्यन्तः प्रथमो मन्त्रः । निष्टक्य शिखाबन्धनवत् । दक्षिणतो नाभः परिकर्षति उत्तरप्रदेशादानीय नामर्दक्षिणतो ग्रन्थि निदधाति यथा नान्यदेशं गच्छतीत्यर्थः । मेखलया परिव्ययणे क्रियमाणे यजमानो यं पुरुषं द्विष्यातं ध्यायेत् । यजमानद्वेष्यं ध्यायेदिति स्पष्टोऽर्थः । ध्यानेन द्वेष्यस्यानिष्टं भवति । परिकर्षणसमये वा द्वेष्यस्य ध्यानम् । द्वेष्यः शत्रुः पाप्मा च । प्रधिकरणपरिकर्षणे दर्शपूर्णमासवदित्येतावतैव सिद्ध उभयोः क्रिययोः पुनर्विधानं व्यर्थ मज्ज्ञापयति शाखान्तरेऽत्रापि मन्त्रयोस्तयोः क्रिययोश्च पाठ एवा- स्तीति । फलं तु ज्ञानावश्यकतासिद्धिः । ज्ञानामावे यजुर्भेषप्रायश्चित्तं भुवः स्वाहेति दक्षिणाग्नौ ।

सं त्वा नह्यामीति पत्नीꣳ संनह्यति यथा दर्शपूर्णमासयोः ।

आशासानेति मनं बाधित्वा सं त्वा नह्यामीति तस्य स्थाने मन्त्रोऽयं विधीयते । वानमस्मे इत्यन्तो मन्त्रः । पत्नीग्रहणं यजमानव्यावृत्त्यर्थम् । अध्वर्युकर्तृकमेव संन. हनम् । स्वेति लिङ्गात् । संनयति बध्नाति । यथा दर्शपूर्णमासयोरित्यनेन सनहनकर- णत्वेन योक्त्रस्योयजुरासीना तिष्ठन्ती वेत्यस्य पूषा त इति प्रन्थिकरणस्य स ते मा स्थादिति परिकर्षणस्य प प्राप्तिः । सोमाय योक्त्रमावभूधाद्धार्यम् । तस्य प्रसकोडो पक्ष्यते ।

इन्द्रस्य योनिरसीति त्रिवलिं पञ्चवलिं वा कृष्णविषाणां यजमानाय प्रयच्छत्याबध्नाति वा ।

तिस्रो बलयो यस्याः सा त्रिवलिः । पञ्च वलयो यस्याः सा पञ्चवलिः | वलयः कृष्णवृषाणागता उच्चप्रदेशाः । कृष्णविषाणा कृष्णमृगशृङ्गम् । सकलैवैषा स्थादित्यौ. पमन्यव इति द्वैधसूत्रात्कृत्स्नैव मुख्या। तदभावे छिन्ना । पञ्चवलितोऽधिकवलिकाया लामे पञ्चवलितोऽधिकां वलि छित्त्वैव ग्राह्या । तस्या एव ग्राह्यत्वोक्तेः । तत्राप्यग्रभाग एव ग्राह्यः । तस्यैव कण्ड्यपनयनसाधनत्वात् । यजमानग्रहणं पत्नीव्यावृत्त्यर्थम् । प्रयच्छति बध्नाति वा । दानपक्षे हस्ते दानम् । आमहणं बन्धने विशेष द्योतयति । तं चाऽऽह कात्यायनः-वसनस्य दशायां बध्नीतेति । बौधायन:-वसनस्यान्सि. मायां दशायां बद्धा तयाऽन्तर्वेदि लोष्टमुद्धन्तीति । कृष्णविषाणायां विशेषमाहाss. पस्तम्बः-त्रिवलिः पञ्चवलि दक्षिणावृद्भवति सव्यावृदित्येक इति । मरद्वानोऽपि । १५० पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ५९५ अथास्मै त्रिवलि पञ्चवलिं वा कृष्णविषाणां प्रदक्षिणावर्ता प्रयच्छतीति । शाण्या रज्ज्वा परितृष्णेति बौधायनः । मा मा हि सीरित्यन्तो मन्त्रः । कृष्य त्वा सुप्तस्याया इति वानमानसूत्रे दीक्षामन्त्रसंदर्भपठितोत्तरमन्त्रादिदर्शनबलात् । इदं च कृष्णविषाणा- प्रदान यजमानस्य शिरसो वेष्टनोत्तरमेव । याजमानसूत्रे प्रत्तया कृष्णविषाणयेत्युक्त्या कृष्णविषाणाप्रदानकृष्णविषाणाकरणकलोष्टोद्धननादिरूपकर्मणोः कार्यकारणभावापन्न- योरव्यवधानस्य सूत्रकृता दर्शयिष्यमाणत्वात् । पल्यै कण्डूयनार्थ शकुयः । बौधायनेनोक्तत्वात् । तत्र शङ्कुस्वरूप कात्यायन आह-पृथुमुखो यज्ञियवृक्ष. शरिति ।

पत्न्याः शिरसि जालं यथा सुष्ठु कल्पयति ।। २ ।।

पत्न्याः शिरसि यज्जालं प्रतिमुक्तं तदत्र यथा मुटु यथा दृढ भवति तथा कल्प- यति । यथा पत्न्याः शिरसो न पतति तथा गुल्फपति दादन तस्याः शिरसि विद- लेन सह योजयतीत्यर्थः । एतेन पूर्वत्र प्रतिमोचनमात्रं कर्तव्यमिति सिद्धं भवति ।

औदुम्बरो दीक्षितदण्डो यो वा कश्चन वृक्षः फलग्रहिस्तस्य ।

औदुम्बर उदुम्बरवृक्षनो दीक्षितस्य दण्डः । यो वा कश्चन वृक्षः फलपहिः । यज्ञिय इत्यापस्तम्बोक्तयक्षियवृक्षलाभे स एव मुख्यः । तदलामे यज्ञियव्यतिरिक्तोऽपि । आचार्येण सामान्यतो यो वा कश्चनेत्युक्तेः । फलं गृह्णाति न रन्ध्यो बालो ।। अथवा य उदुम्बरादिवत्फलमेव गृह्णाति न पुष्पमपीत्यर्थः । तस्य फलाहक्षस्य । तत्प्रमाणमाह-

मुष्टिमात्रो मुखेन संमितश्चुबुकदघ्नो वा ।

दीक्षितदण्ड इत्यनुषज्यते । मुष्टिमात्रो मुष्टिप्रमाणः । प्रमाणे द्वयसन्दधमात्रच इत्यनेम मात्रच्पत्वयः । अनेन दीक्षितदण्डस्य परिणाह उच्यते । मुखेन समित ऊोष्ठपर्यन्तं मुखं तेन संमितस्तत्प्रमाणः । मुखदघ्न इति परित्यज्य मुखेन संमित इत्येतादृशं वचनं श्रुत्यनुकरणाय । चत्रुकं हनुस्तत्प्रमाणश्चचुकदमः । प्रमाणे यसज्द- ननिति दनच्यत्ययः । एकपदार्थविषयकतिर्यगूर्ध्वप्रमाणयोर्युगपदुपस्थितौ तिर्यकप्रमाणे मात्रच , अर्ध्वप्रमाणे दनजित्याचार्यस्य प्रायशः शैली ।

ऊर्ध्वसूरसि वानस्पत्यः सुद्युम्नो द्युम्नं यजमानाय धेहीति तं यजमानाय प्रदाय संभारयजूꣳषि वाचयति जुहोति चैतैर्मन्त्रैः ।

तं दण्डम् । तच्छब्दः पूर्वमेवोपकल्पनं दण्डात्य सूचयति । यजमानग्रहणं पत्नी- च्यावृत्त्यर्थम् । न च मन्त्रगतं यजमानपदं पत्नीव्यावर्तकं भवितुमर्हति । तत्र समन्त्रः कत्वपक्षेऽपि यजमानाय धेहीत्यूहेन यनमानपदलोपेन वा पत्न्या अपि दण्डदानप्रवृत्ति[७ सप्तमप्रो- सत्यापाढविरचितं श्रौतसूत्र- संभवात् । अतस्तव्यावर्तनाय यजमानग्रहणमावश्यकमेव । न च यानमानसूत्रे पठितस्य दण्डप्रतिग्रहस्य यजमानकर्तृकत्वावगतौ दण्डपदानस्यापि यजमानसंप्रदानकत्वावगतेः किमर्थ यम्मानग्रहणमिति वाच्यम् । तत्र विहितानां दीक्षासंस्काराणां यनमानसंब- धिनां स्नानादीनां सापकबलेन परन्या प्राप्तिर्यथा तथा दण्डप्रतिग्रहस्यापि ज्ञापकबला- स्प्राप्तौ तन्निवृत्त्यर्थ यजमानग्रहणस्याऽऽवश्यकत्वात्, ज्ञापकस्य सनातीयापेक्षत्वात् । अस्ति च दण्डप्रतिग्रहस्य संस्कारत्वेन सजातीयत्वम् । न च दण्डस्यकत्वश्रवणादेव यजमानस्यैव दण्डप्रतिग्रहणं मरिष्यति दानं चापि यजमानायैव न तु पन्या इति काच्यम् । एकवचनस्य भात्यभिप्रायपरत्वकल्पनेन दण्डद्वयस्य प्राप्ती पन्या अपि दण्डप्रदानसमावनायां यजमानग्रहणस्य तन्निवृत्त्यर्थमत्यन्तावश्यकत्वात् । प्रदायेति त्या, दण्डप्रदानसंभारयजुर्वाचनाव्यवधानार्थः । न च दण्डप्रदानसंभारयजुर्वाचनयो- मध्ये यनमानकर्तृकप्रतिग्रहेण व्यवधानास्कयमेतदिति वाच्यम् । दण्डप्रदानप्रतिग्रहयो। समकालत्वेन व्यवधानस्यैवासमवात् । समकालत्वोपपादनं तु सूपस्था देवो वनस्पति- रूयॊ मा पालो दृच इति दण्डं प्रतिगृह्णातीति याजमानसूत्रे करिष्यामः । एवं च दण्डप्रदानसंभारयजुर्वाचनयोरव्यवहितानन्तर्य सूपपादं भवति । तेन संमारयजु)मोत्तर- मेव केशिनीदीक्षादि वाग्यमनान्तं भवति । संमारयपि पूर्वमेव प्रदर्शितानि तानि वाचयति । उत्तरत्रानुवृत्त्यर्थं च । तेन संमारयजुर्वाचनस्य पत्न्यां निवृत्तिः सिध्यति । दानवाचनावारम्भवरवरणवतप्रमाणेषु यजमानं प्रतीयादिति कात्यायनोक्तपरिभाषासूत्र. मप्यत्र प्रमाणम् । ननु जुहोति चेत्येतावदेव वक्तव्यं प्रतिमन्त्रं होमस्तु यत्र मन्त्रगणेन कर्म चोदयेत्प्रतिमन्त्रं तत्र जुहुयादिति परिमापयैव सिध्यति किमर्थमेतैर्मन्त्रैरिति वचनमिति चेत्सत्यम् । तस्य पूर्व पूर्वमनुद्र त्योत्तरेणोत्तरेण संभारयजुषा जुहोति व्यातिभिश्चेतिवासिष्ठमनिरासार्थत्वात् । एतैरिति व्याहृतिनिरासार्थम् । मन्त्रैरिति वचनं नियमार्थ केवलमन्त्रैरेव होमो नतूवणविशिष्ट मन्त्रैरिति । जुहोति चेत्ययं चकारो वाचनसमुच्चयार्थः । जुहोति चोदितत्वादेतेषु स्वाहाकारः । अत्राऽऽज्यमाज्य- स्थालीगतमेव । तदभावे गृह्योक्त प्रकारेणाऽऽज्य संस्कृत्य तेन होमः । अत्र पूर्वववाद- शेतिवचनामावाद्वाचनहोमयोः सर्वेषां संभारयजुषां विनियोगः । अत्र पृथिवीदीक्षा तयाऽग्निदीक्षया दीक्षित इत्यारभ्य तास्त्वा दीक्षमाणमनु दीक्षन्तामित्यन्त आच्छि- द्विको मन्त्रो दीक्षालिङ्गकत्वायुष्मच्छब्द लिङ्गकत्वाचाध्वर्युणा प्रयोक्तव्यः केशिनीदी. क्षाजपात्पूर्वमेव । यथारूपमितर इत्यनेन सूत्रकृताऽपि विधियोग उक्तोऽस्ति परं तु स्पष्टतयाऽनुकत्वात्कृताकृतः । A. १ ख, ग. रस्य स। । . T एम०पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ५९७

तं वाग्यतमदीक्षिष्टायं ब्राह्मणोऽसावामुष्यायणोऽमुष्य पुत्रोऽमुष्य पौत्रोऽमुष्य नप्ताऽमुष्याः पुत्रोऽमुष्याः पौत्रोऽमुष्या नप्तेति त्रिरुपाꣳश्वावेदयति त्रिरुच्चैः ।

तं वाग्यतमित्यनेन केशिनीदीक्षाजपादि वाग्यमनान्तं संभारयजु)मानन्तरं कर्तव्य. मिति गम्यते । वाग्यतमित्येतावव क्रमे लब्वे तच्छब्देन परामर्शो नियमार्थः । तथाच वाग्यमनं तस्यैव नतु पन्या अपीति पाग्यमनाभावादेवाऽऽवेदनामावः । पत्न्यावेदनं सूत्रान्तरेष्वपि नैव दृश्यते । केशिनी दीक्षाजपमुष्टिकरणाङ्गुल्युत्सर्गा अपि पत्न्या न भवन्ति । वाग्यमनस्य केशिनीदीक्षानपादीनां च परस्परसंबन्धेनैकस्य निवृत्तावपरनि- वृत्तेरसिद्धत्वात् । परस्परसंबन्धित्वं तु तामिर्यथासुखं चरति वाचं च यच्छत्तीतिपक्ष्य- माणयाजमानसूत्रस्थचकारालिङ्गात् । वाग्यतमित्यस्याऽऽवेदयतीत्यत्रान्वयः । आवेदन कथनम् । त्रिरूपांश्चावेदयतीत्यत्र देवेभ्य इति शेषः । त्रिरुचैरित्यत्राऽऽवेदयतीत्यनुष. ज्यते । अत्र देवेभ्यो मनुष्येभ्यश्चेति शेषः । तथाच श्रुतिः--अदीक्षिष्टायं ब्राह्मण इति त्रिरुपाश्वाह देवेम्य एवैनं प्राह त्रिस्वरुभयेभ्य एवैनं देवमनुष्यभ्यः प्राहेति । देवमनुष्येभ्य इत्यत्र देवाश्च मनुष्याश्चेति द्वंद्व उभयेभ्य इत्युक्तेः । उपांशुलक्षणं प्रातिशाख्ये-करणवदशब्दममनःप्रयोग उपांश्चिति । द्विपितुरायन्यायेन वंशद्वयकी- तनम् । तथा मात्रादिसपत्नीनामित्येके ।

असाविति नाम गृह्णात्यामुष्यायण इति पितुर्नामधेयेन ।

असाविति प्रथमान्तं व्यावहारिक नाम यजमानस्य गृह्णाति यथाऽमुक इति तच शर्मान्तम् । शर्मान्तं ब्राह्मणस्येति बौधायनोक्तेः शर्मान्तं ब्राह्मणस्य येन व्यवहियत इतिवासिष्ठसूत्राच्च । येन व्यवहियत इति नाक्षत्रादिनाम्नां शर्मान्तताया व्यावृत्त्यर्थम् । तचात्र व्यावहारिक गुप्तं न भवति किंतु प्रसिद्धव्यवहारार्थ यत्कृतं तज्ज्ञेयम् । एवं पित्रादीनामपि नामानि शर्मान्तानि । स्त्रीणां तु दान्तानि । दान्तं नाम स्त्रीणामिति स्मृतेः । स्मृत्यन्तरे तु देवीशब्दान्तं नाम स्त्रीणामित्युक्तम् । अनयोर्विकल्पः । केचि समुच्चयमाहुः । एतच्च सार्वत्रिक ज्ञेयम् । यत्र यत्रासौशब्दस्तत्र प्रथमान्तस्य व्याव- हारिकनाम्नो ग्रहणमिति । आमुण्यायण इति पितुर्यद्वोत्रप्रयुक्तं नामधेयं तत्परम् । तेन नामधेयेनाऽऽवेदयति ते दीक्षितं वाग्यतं प्रथमान्तेन व्यावहारिकेण नाम्ना गोत्रप्रयुक्तेन तादृशेन नाम्ना चाऽऽवेदयतीत्यर्थः । यथाऽदीक्षिष्टायं ब्राह्मणो गोपीनाथशर्मा वासिष्ठो गणेशशर्मणः पुत्रः केशवशर्मणः पौत्रः कृष्णशर्मणो नप्ता यमुनादायाः पुत्रो लक्ष्मी- दायाः पौत्रो रुक्मिणीदाया नप्तेति । देवीशब्दान्तत्वपक्षे यमुनादेव्याः पुत्रो लक्ष्मी- १ ख. ग. 'कारलिया। - 1 सत्याषाढविरचितं श्रौतसूत्रं- [७ सप्तमप्रश्ने- देव्याः पौत्रो सक्मिणीदेव्या नप्तेत्येवं प्रयोगः । पितुर्यगोत्रप्रयुक्तं नामधेय तेन नामधे- येन नामेत्यर्थः । मागरूपनामम्यो धेय इति स्वार्थे धेयप्रत्ययः । अंसाविति नाम गृह्णाति आमुष्यायण इति गोत्रमिति मानवसूत्रे । यत्र यत्राऽऽमुण्यायणशब्दस्तत्र सद्गोत्रनाम ग्राह्यमित्येतत्सार्वत्रिक ज्ञेयम् । पित्रादीनां नामाज्ञाने देवतानामभिरन्यय: कैश्चियवहारः । एवं मात्रादीनां नामाज्ञानेऽपि नामाज्ञाने देवतानां नामभिः परि- कीर्तयेदिति श्राद्धादिषु स्मृतिवर्शनात् । अन्यैवतानामभिरित्यर्थः । गोत्राजाने काश्य- पगोत्रम् । गोत्रस्य त्वपरिक्षाने काश्यप गोत्रमुच्यते । इति स्मृतेः । सर्वाः काश्यप्यः प्रजा इति श्रुतेश्च ।

यः कश्चिद्दीक्षते ब्राह्मण इत्येवाऽऽवेदयेत् ।

यः कश्चिद्राजन्यो वैश्यो वा दोक्षते दीक्षां गृह्णाति तं ब्राह्मण इत्येवाऽऽवेदयति- भदीक्षिष्टाय ब्राह्मण इत्यत्र ब्राह्मणशब्द उहो न कार्य इत्यर्थः । यथावर्णमावेदयेदिति। पौधायनमतनिरसनार्थ एवकारः । अत्र हेतुमाहाऽऽपस्तम्बः-ब्रह्मणो वा एष जायते. यो दीक्षते तस्मादाजन्यवैश्यावपि ब्राह्मण इत्येवाऽऽवेदयतीति । यतो ब्रह्मणो वेदाद्वै, एवैष दीक्षितः पुन यते, एष क इत्याशङ्कायां यो दीक्षत इति, यथाऽऽह मनुः-मातुरग्रे विजननं द्वितीयं मौञ्जिवन्धने ।

तृतीयं यज्ञदीक्षायामिति ।

तस्माद्राजन्यवैश्यावपि ब्राह्मण इत्येवाऽऽवेदयति नतूह इति । कात्यायनोऽपि. बाह्मण इत्येव वैश्यराजन्ययोरपि श्रुतरिति । अत्र यद्यपि ब्राह्मणशब्देनैवाऽऽवेदनं. तथाऽपि शर्मान्तता नैव किंतु वर्मान्तत्वगुप्तान्तत्वे एव क्षत्रियवैश्ययोर्यथाक्रमम् । शर्मान्तताविषये जातिवाचित्राह्मणशब्दस्यैव ग्रहणात् । एतदन्तमपराह्न एव भवति । अपराहे दीक्षित इति वक्ष्यमाणसूत्रात् । कृष्णाजिनदीक्षामात्रमन्तर्वेदि मेखलाप्रदाना- दिकमन्तवेद्यन्यत्र वेति केचित् । कृष्णाजिनदीक्षाद्यावेदनान्तमन्तवेद्येवेत्यन्ये । आस्तर- णमात्रस्यान्तर्वेदिविधानात्तावदेवान्तर्वेदिनियतमिति पूर्वमताशयः । अपराहे दीक्षत इति कृष्णाजिनदीक्षाद्यावेदनान्तस्य समानकालत्वदर्शनादेशान्तराविधानाञ्च देशोऽपि समान एवेत्युत्तरमताशयः । ज्ञापकसिद्धा दीक्षार्थाः पत्नीसंस्काराः समन्त्राः । अस्मिन्पक्षे पुस्मीत्यूहः । तूष्णीं वा । तूष्णीकं सर्वमिति बौधायनः । प्रवग्यसभरणं पूर्वत्राकृत चेत्र कुर्यात् । यनमानस्य दीक्षितत्वान्न होमः किंतु नप एव । १ख, ग, णमिति । २ख, ग.."ष्णीकमि। [१० पटलः ] गोपीनाथमट्टकृतज्योत्स्नाव्याख्यासमेतम् । ५९९

देवाञ्जनमगन्यक्षस्ततो मा यज्ञस्याऽऽशीरागच्छतु गन्धर्वाञ्जनमगन्यज्ञस्ततो मा यज्ञस्याऽऽशीरागच्छतु पितॄञ्जनमगन्यज्ञस्ततो मा यज्ञस्याऽऽशीरागच्छत्वप ओषधीर्वनस्पतीञ्जनमगन्यज्ञस्ततो मा यज्ञस्याऽऽशीरागच्छतु पञ्चजनाञ्जनमगन्यज्ञस्ततो मा यज्ञस्याऽऽशीरागच्छतु वर्धतां भूतिर्दध्ना घृतेन मुञ्चतु यज्ञो यज्ञपतिमꣳहसो भूपतये स्वाहेत्यभिमन्त्रयते यद्यन्यत्र कृष्णाजिनादासीत नित्यवृत्तावत ऊर्ध्वम् ।

पश्चैते मन्त्रा एतेषामन्यतमेनाभिमन्त्रणम् । अवशिष्टा विकल्पार्थाः । समुच्चयो वा कृष्णानिनास्तरणमत्रवत् । विकल्पपक्षे वर्धतां भूतिरित्यादि सर्वेष्वनुषञ्जनीयम् । समुच्चयपक्षे न । अप ओषधर्विनस्पतीनित्येक एव मन्त्रः, नतु सानुषशास्त्रयो मन्त्राः । अन्यथा देवाअनमगन्यज्ञ इत्येकत्रैव पाठेन गन्धर्वानित्याविष्वनुषङ्गः सिध्यत्येव पुनर्गन्धर्वान्पितन्पश्चननानित्येतेषु पाठो व्यर्थः स्यात् । अतो देवानित्येतन्मन्नव्यतिरि- तेषु गन्धर्वाम्पितॄन्पञ्चजनानित्येतेषु पाठोऽवादिषु त्रिषु प्रत्येकमनुषङ्गच्यावृत्त्यर्थ एवेति द्रुष्टव्यम् । अध्वर्युकर्तृकमिदं यजमानाभिमन्त्रणम् । न च मन्त्रलिङ्गाविरोधाधनमानक- तृकमेव स्वसंस्कारार्थमात्माप्रेषयदिति वाच्यम् । मन्त्रलिङ्गविरोधस्यैवाभावात् । तथाहि देवान्देवान्प्रति अगन्यज्ञस्ततस्तेभ्य इति ततः । जनशब्देन यजमान एवं गृह्यते । देवसकाशायनमानं प्रति आगच्छतु । आगतस्य यज्ञस्याऽऽशोः, आ ईषदपि यजमानादन्यत्र मा गच्छत्वित्यर्थः । निष्फलो यज्ञो मा मवत्विति तात्पर्याः । अथवा देवान्प्रति अगन्यज्ञस्ततो मां स आगच्छतु मत्प्रवर्तितो यज्ञो मां प्रति देवेम्प आगच्छतु । यज्ञसंबन्धिन्याशौर्जनं यजमानं प्रत्यागच्छतु इत्यर्थः । एवमितरेषामपि । देवादिम्यः सकाशान्मां प्रत्यागतेन यज्ञेन मे भूतिरैश्वर्य वर्धतां स च यज्ञो दध्ना धृतेन च वर्धता दना घृतेन च प्रवर्धितो यज्ञो यज्ञपति यजमानमहसः पापान्मुञ्चतु । भूपतये भूपतिनामकाय देवाय स्वाहा सुष्टु एतत्सर्व कथयामीत्यर्थः । स्वाहेत्येतत्सु माहेति वा स्वा वागाहेति वा वं प्राहेति वा स्वाहृतं हविर्नुहोतीति वेति निरुक्तकृता स्वाहाशब्दस्य चत्वारोऽर्थाः कृताः । निपातानामनेकार्थत्वादित्येतदाशयः । तत्र प्रथ- मार्थानुसारेण सुष्टु एतत्सर्व कथयामीत्यर्थों वर्णितः । एतेन यजमानाभिमन्त्रणस्याध्वर्यु- कर्तृकता मन्त्रलिङ्गविरोधात्कथमिति शङ्का निरस्ता । अभिमन्त्रयते यनमानमित्येव शेषो मन्त्रलिङ्गान्नतु कृष्णाजिनमिति । यद्यन्यत्र कृष्णाजिनादासीत तदा देवाञ्जनम- गन्नित्यमिमन्त्रयत इत्यन्वयः । यदीत्यनेनाभिमन्त्रगस्य नैमित्तिकत्वं प्रदर्शितं भवति । कृष्णाजिनादन्यत्राऽऽसीत कृष्णाजिनं परित्यज्याऽऽसीत | आसनं शयनोपलक्षणम् । नान्यत्र कृष्णाजिनादास्ते शेते वेति सूत्रात् । अत्र मानवसूत्रे विशेषः-लोमतः [सप्तमप्रश्न- ६०० सत्याषाढविरचितं श्रौतसूत्रं- कृष्णाजिनस्य शय्याऽऽसनमाच्छादनं च प्रतिषिद्धमिति । लोमतो लोमवति प्रदेश इत्यर्थः । नित्यवृत्तिर्यानमानसूत्रे स्पष्टो भविष्यति दीक्षणीयाप्रभृतीयं वृत्तिरित्यादिना । अत उर्वमितिवचनमावेदनोत्तरमेव कृष्णाजिनव्यवच्छेदनिमित्तकमभिमन्त्रणं न पूर्व- मिति गमयति । पूर्वत्र व्यवच्छेदेऽनाज्ञातत्रयजप एवेति । नित्यवृत्तावितिवचनं समाप्ता- यामप्यवान्तरदीक्षायामेतदाऽवभृथादनुवर्तत एवेत्येतदर्थम् ।

अग्नीञ्ज्योतिष्मतः कुरुत दीक्षित वाचं यच्छ पत्नि वाचं यच्छेति पुरादयमधिवृक्षसूर्ये च व्रतप्रदः संप्रेष्यति ।

उत्तरेणाऽऽहवनीयं तिष्ठन्सप्रैषमाहानीज्योतिष्मतः कुरुत दीक्षित वाचं यच्छ पत्नि वाचं यच्छेति बौधायनः । अग्नोनिति बहुवचनात्सर्वाननीन् । सम्यावसथ्यसत्त्वे तावपि । औपासनस्य न श्रौतसंबन्धाभावात् । एतेन गार्हपत्यदक्षिणान्योरेव व्रतनपण- न रूपप्रयोजनसत्त्वात्प्रज्वलनमिति शङ्का परास्ता । ज्योतिष्मतः प्रज्वलितान्कुर्वित्यर्थः । दीक्षा संजाता यस्य स दीक्षितः । दीक्षाशब्दार्थः प्रागेवोक्तः । दीक्ष मौण्डयेज्योपन- यननियमवतादेशेष्विति धातुसूत्रादपि नियमविशेषपर एव दीक्षाशब्दः । उदयात्पु- रेति पुरोदयम् । पुराशब्दः पुरोर्थक उदयात्पूर्वमित्यर्थः । वृक्षानधिकृत्य वर्तते सूर्योs. धिवृक्षसूर्यः । सूर्यशब्देन लक्षणया तश्मय उच्यन्ते । औषे कुरुतेति बहुवचनं परि- कस्विजामन्यतमप्राप्त्यर्थम् । व्रतप्रद इति सामान्योक्त्याऽवhणां मध्ये यः कश्चन जतप्रदाता । यो व्रतप्रदः स एव संप्रेषकर्ता । पुरोदयमधिवृक्षसूर्ये घेतिक्रमश्रवणा- प्रथमदिने न श्रेषः । याजमानसूत्रेऽपि वक्ष्यति-तदहदीक्षितो रात्रि नागर्ति न त भवति नक्षत्रं दृष्ट्वा तूष्णीमेव वार्च विसृजते यौन व्रतप्रदः संप्रेष्यति तस्मिन्काले वाचं यच्छतीति । अस्मिन्सूत्रे व्रताभावस्योक्तत्वेन प्रैषाभावोऽपि सिद्ध एव । अग्नी- अभ्योतिष्मतः कुरुतेति आहवनीयविषये ज्योतिष्मत्करणस्यादृष्टार्थत्वेनेतरयोरप्यन्यो- ज्योतिष्मत्करणस्याप्यदृष्टार्थतव । व्रतपणरूपप्रयोजनसिद्धिः प्रसङ्गतः । तथाच ज्योतिष्मत्करणविषयकप्रैषो भवत्येवेति यद्यपि प्राप्तं तथाऽपि पुरोदयमधिवृक्षसूर्ये चेतिक्रमश्नवणादग्नीज्योतिष्मतः कुरुतेत्येतावन्मात्रौषोऽपि न भवतीति हृदयम् ।

उदितेऽस्तमिते च व्रतं दोहयति वत्सस्यैकꣳ स्तनमवशेष्य ।

अवशेष्य दोहयतीत्यन्वयः । ब्रतमित्येकवचन द्विवचनार्थकम् । नचैकस्या एवं गोदहिन निष्पन्नं पय उभयोर्बतमेकवचनादिति वाच्यम् । या यजमानस्य व्रतधुक्ता- माशिरे बुहत या पत्न्यास्तां दधिग्रहायेत्यत्र औषे पत्नीव्रतार्थ पृथगोविहितत्वादेत- कल्पनाया असंभवात् । यजमानस्य पत्न्याश्चेति शेषः । वत्सस्य तत्तगोवत्सस्य तस्वास्तस्या गोरेकमेकं स्तनमवशेष्येत्यर्थः । वत्सस्येति चतुर्थ्यर्थे पष्ठी वत्सार्थमित्यर्थः । उदित उदयं प्राप्तेऽस्तमितेऽस्तमदर्शनं प्राप्ते सूर्ये सति व्रतं दोहयतीत्यर्थः । दोग्नेति 15357 - १५० पटलः] गोपीनाथभट्टकृतज्योत्स्नाब्याख्यासमेतम् । ६०१ शेषः । दोहयतीति णिनन्तम् । अग्निहोत्रमेव न दुह्याच्छूद्र इत्यग्निहोत्र संबन्धिदोहने शूद्रनिषेधादन्यत्रानियमः । स च शूद्रो गोप एव । एतवृत्तित्वात्स्मृतौ सच्द्रौ गोपनापिताविति तस्य समीचीनत्वोक्तेश्च । विप्रो दोहनकर्ता चेदधिकम् ।

गार्हपत्ये दीक्षितस्य व्रतꣳ श्रपयति पत्न्या दक्षिणाग्नौ ।

व्रतयतीति व्रतम् । ब्रतार्थ पय इत्यर्थः । पयो ब्राह्मणस्य व्रतमित्यत्रापि व्रतशब्द- स्यायमेवार्थः । अत्र विशेषमाह बौधायन:-अग्निहोत्रविधि चेष्टित्वा तप्त्वोदगु. द्वास्य शीतीकृत्याऽऽतच्य वाऽनातच्य वोत्तरे शालाखण्डे शिक्य आसनतीति । दक्षिणे शालाखण्डे शिक्यआसजतीति पन्या व्रते विशेषः । अन्यत्समानम् । चेष्टि- स्वेतिपदस्वारस्याचेष्टामात्रं कर्तव्यं नतु समन्त्रकाचेष्टा इति सूचयति । अग्निहोत्रस्क- न्दनस्य यत्प्रायश्चित्तं तद्वदेवतस्य स्कन्दनेऽपि । तथा चाऽऽपरतम्बः-याऽग्निहोत्रस्य स्कन्नस्य प्रायाश्चित्तिः सा व्रतस्येति । अत्राग्निहोत्रप्रायश्चित्तातिदेशात्तदीयाः श्रपणधर्मा अपि आपस्तम्बेन सूचिता भवन्ति । प्रायश्चित्तं तु समन्त्रकमेव यथाविहितस्यैव विनष्ट- संधानकरणे सामर्थ्यात् । व्रतप्रदाने विशेषमाह-

अपरेणाऽऽहवनीयं व्रतमत्याहृत्य दीक्षिताय प्रयच्छति ।

व्रतप्रद शति शेषः । अपरणेत्येनबन्तम् । एनपा द्वितीयेति द्वितीया। अतिरत्या- क्रमणार्थः । तेनैव यथेतं प्रत्येति । पत्न्या दक्षिणाग्निसमीप एवोपविष्टत्वान्नापरणाऽऽह- बनीयमस्याहृत्य तस्यै प्रदान किं तु तत्रैव प्रदानम् । एतस्यार्थत एव सिद्धत्वान्न तत्प्रयुक्तविधानं कृतम् । इदं सूत्रं स्वायतन उपविष्टायैव दीक्षिताय व्रतं प्रदेयं न जत. समीप आगतायेत्येतदर्थ, कात्यायनेन स्वासने ये देवा इति तयतीति सष्टमेवोक्तम् । आहवनीयग्रहणं दक्षिणाग्निव्यावृत्त्यर्थम् । अपरशब्दोऽग्रमागव्यावृत्त्यर्थः । एनबद्- रत्वार्थः । अग्निहोत्रवत्तूष्णीमुनीयेत्यापस्तम्बः । चतुरवत्तिपञ्चायतिव्यवस्थया चतुः पञ्च योन्नयनानि । अन्तिमे याषन्मात्रम् ।

भद्रादभि श्रेयः प्रेहीति दीक्षितं प्रयातमनुमन्त्रयते ।

प्रयात देवयननं प्रति पल्याऽरणीभ्यां पात्रैश्च सह प्रयाणधर्मेण प्राप्तमनुमन्त्रयते । परिभाषयाऽध्वर्युमन्त्रप्रतिपाद्य पदार्थ ध्यायंस्तं पदार्थमनुलक्षीकुर्वस्त संस्तुवन्मन्त्रं पठे- दित्येतदनुमन्त्रणम् । अभिमन्त्रणेऽनुमन्त्रणत आभिमुख्येक्षणे अधिके अन्यत्समानम् । प्रयान्तमिति पाठे प्रयाणसमय एवानुमन्त्रणम् । उद्देश्यगतत्वात्पुंस्त्वमविवक्षित ब्राह्म. णोऽग्नानादधीतेतिवत् । तेन पन्या अप्यनुमन्त्रणम् । एकत्वमप्यविवक्षित ग्रहं संमा- ष्टींतिवत् । तेन सत्रे सर्वेषां दीक्षितानामप्यनुमन्त्रणमध्वर्युणा कर्तव्यम् । आत्मनश्चेति द्रष्टव्यम्। । ! - ६०२ सत्यापाढविरचितं श्रौतसूत्र-: [७ सप्तमप्रभे-

दीक्षितस्य यूपं छिनत्ति यथा निरूढपशुबन्धे ।

अर्थादेव दीक्षितस्य सिद्धौ दीक्षितस्येतिवचनं दीक्षाणां बहुत्वे यस्मिन्कस्मिंश्चिद्दी- क्षादिवसे यूपच्छेदन कर्तव्यं न प्रथमदिन एवेत्येतदर्थम् । एतदर्थमेव शाखान्तरे बहु- वचनं श्रूयते-दीक्षासु यूपं छिनत्तीति । सर्वपशूनामेष कल्प इत्यनेनैव सिद्धे यथा निरूढ पशुबन्ध इति वचनं व्यरनिर्वा चतुररनिर्वा पालाशो निरूढपशुन्धस्य यूपोऽ. वोऽन्ये सौम्यस्याध्वरस्येत्यनेन सौम्याध्वरसंबन्धिमान प्राप्तं तद्दीक्षासु यूपच्छेदने निवारयितुं सर्वेषु कल्पेषु विकल्प बोधयितुं वा । तथा चाऽऽपस्तम्बेन व्यरनिश्चतुर- रनिर्वा पालाशो निरूढपशुबन्धस्यातोऽन्ये सौम्यस्याध्वरस्येति वाजसनेयकमिति वान- सनेयकग्रहणं विकल्पार्थं कृतम् ।

न यूपाहुतिं जुहोति होमार्थामृचं जपित्वाऽभिप्रव्रजति ।

यूपप्रकरणादेव सिद्धे यूपनिमित्तकाहुतित्वे यूपवचन(नेन) यूपच्छेदनमात्राङ्गमेवेय- माहुतिर्भवति न केवळयूपनिमित्तकाहुतिस्तेन खवास्यादी छेदनामावादियं यूपाहुतिर्न भवतीति साधितं भवति । यपाहुतेः क्रतुसंयुक्तत्वेऽपि निषेधोऽनेन क्रियते । न यूपा. हुति जुहोतीत्येतस्यानुपपत्तौ होमजपयोः समुच्चयः स्यात्स मा भूदित्येतदर्थमिदं वचन- मावश्षकम् । नहि दीक्षितस्याग्नौ जुह्वति वैष्णवीमृचमनूच्याच्छैतीति शाखान्तरोयोऽयं होमाभावपक्षः । अच्छति यूपं प्राप्नुमभिमुखं गच्छतीति श्रुतिगतस्याच्छैतीत्यस्यार्थः । होमार्थामृचमित्यादेरनुक्तौ जपामावोऽपि स्यादविधानात्स मा भूदित्येतदर्थ जपित्वाऽमि- प्रव्रजतीतिवचनम् । होमार्था मितिवचनं स्थानापत्तिलाभार्थम् । तेनाऽऽहवनीयसमोप एव जपित्वाऽभिप्रव्रजतीति सिध्यति । अचमितिवचनमृक्त्वज्ञानावश्यकत्वार्थम् । तेन ज्ञानापावे भ्रषप्रायश्चित्तं कृत्वैवाग्रिभ कर्म कार्यम् । तच्चाध्वर्युसंबन्धित्वाद्यजुर्भेषनिमि- तकमेव ।

अपि वाऽऽज्यमरणी चाऽऽआदाय यूपस्यान्तिकेऽग्निं मथित्वा यूपाहुतिꣳ हुत्वा यूपं छिनत्ति ।

शाखान्तरीयमेतत्प्रकारान्तरं होमसत्त्वेनाऽऽज्यस्यार्थादादाने सिद्धेऽत्र वचनमरणी- सहभावार्थम् । तेनावयुगवारणी आज्यं च गृहीत्वा यूपातमीपे गन्तव्यमिति । आदान- वचनं परिकर्मिकर्तृकतां व्यावर्तयितुम् । तेनान्यत्राऽऽदानवचनामाचे परिकर्मिकर्तृकताऽ. प्यस्ति पक्ष इति ज्ञातं भवति । अरणीवचनं यत्किचिदरणीलक्षणरहितकाष्ठव्यावृत्त्य- यम् । यूपस्यान्तिके यूपस्य समीपे संस्पृष्टत्वरूपं परमं सामीप्यमत्रान्तिकपदार्थों न भवति दाहप्रसङ्गारिक तु यावता सामीप्येन यूपदेशमहं प्राप्तोऽस्मीति व्यवहारस्ता- वदेव सामीप्यमन्तिकपदेन विवक्षितम् । तस्य चैकत्वे यूपैकादशिन्यां तन्त्रमेव मेदे तु मन्थनस्या- १५० पटलः ] गोपीनाथभट्टकृतज्योतसाव्याख्यासमेतम् । ६०३ भेद इति द्रष्टव्यम् । यूपस्येतिशम्मप्रवृतिर्माविनी संज्ञामादाय यदाहवनीये जुडतीत्या- हवनीयशब्दप्रवृत्तिवत् । चकारोऽनुक्तस्रुवादिसमुच्चयार्थः । यूपस्येतिवचनमाहवनीय- प्राग्नशदेवयजनन्यावृत्यर्थम् । अन्तिक इतिवचनं दूरदेशव्यावृत्त्यर्थम् । अग्निं मधि- स्वेतिवचनं यूपस्यान्तिकेऽरण्योरेव कदाचिद्धोमः स्यात्स्थाण्याहुतिवत्स मा भूदित्ये- तदर्थम् । अरणी आदाय मथित्वेत्येतावत्युच्यमानेऽप्यदिग्निलाभेऽग्निग्रहणमिदं मन्धन निर्मकमपूर्वमिति द्योतयितुम् । तेनारण्योलौकिकत्वं तूष्णीमेव मन्थनमिति च सिध्यति । अन्यर्थमायतनं कृत्वोद्धत्यावोक्ष्याग्निं निधाय होमः । मथित्वेति क्त्वाप्रत्ययेन यूपाहुन तावव्यवहितोत्तरत्वमेवोच्यत इत्युक्तावपि प्रोक्षणीसंस्कारसुवसमार्गाज्यसंस्कारैमध्ये को रप्यव्यवहितोत्तरत्वं बाधित न भवति तदङ्गत्वेन तदनुगुणल्वात्, येन नाव्यवधान तेन व्यवहितेऽस्यव्यवहितत्वस्याबाधात् । यूपाहुति इस्वेतिवचनमेतद्वचनाभावे . न यूपाहुति होतीति पूर्वमूत्रानिषेधः प्राप्नुयात्तत्प्राप्तौ सत्या दृष्टार्थत्वं च स्यात्तन्मा भूदित्येतदर्थम् । यूपच्छेदनमात्राभूताऽऽहुतिपाहुतिः । यूपग्रहणं विस्पष्टार्थम् । जुहोतीति परित्यज्य हुत्वेत्येवं वचनं यूपं छिनत्ती- त्यस्य सप्रयोजनस्याऽऽकाक्षाया उत्थापनार्थम् । यूपं छिनत्ति स्वरुचषालक : रणान्तेन प्रकारेणेत्यर्थः । यूपं छिनत्तीतिवचनं प्रायश्चित्तपशुसहभावेऽप्येक एवं यूप इति प्रदर्शयितुम् । एकयूप आलभत इति श्रुतिरपि अत्र साधिका । पालिक एकादशयूपपक्षस्तु वाचनिक एकादशिन्याम् ।

क्रीते वा राजन्याहवनीये यूपाहुतिꣳ हुत्वा यूपं छिनत्ति ।

दण्डप्रदानानन्तरमिति केचित् । स्वजा असीत्यन्त इत्यन्ये । उदु सं जातवेदस- मिति कृत इति परे । अग्निर रानानमितिषानन्तरमित्यपरे । वस्तुतः श्री सोमे. मैत्रावरुणाय दण्डं प्रयच्छतीति क्रयाव्यवहितोत्तरं दण्डप्रदान विहित क्रीते वा राज- नीति क्रयाव्यवहितोत्तरं यूपाहुत्यादि विहितं तत्रोभयोः कर्तृभेदारसमकालत्वसंभवेन यजमानेन दण्डप्रदाने क्रियमाणे तत्समय एव यूपाहुतिरध्वर्युणा होतव्येत्येव युक्तम् । यथा दण्डप्रदानयूपाहुतिक्रिययोः समाप्तिः समकाले भविष्यति तथा यतितव्यं द्रव्यत्या- गानुरोधेन त्यागस्तु क्रयप्रदेशोपविष्टेनैव कर्तव्यः । आहवनीयग्रहणमपि वाऽऽज्यमरणी चाऽऽदाय यूपस्यान्तिकेऽग्निं मथित्वेयतत्प्रकारच्यावृत्त्यर्थम् । यूराहुति हुत्वेतिवचनं न यूपाहुति जुहोति होमार्थामृचं जपित्वाऽभिप्रवनतीत्येतस्य कल्पस्य व्यावृत्त्यर्थम् । नन्विदमाहवनीयस्याधिकरणत्वविधानबलादेव सेत्स्यति यूपाहुति हुत्वेत्याकाङ्क्षापूरण- मात्रार्थोऽनुवाद इति चेन्न । कोते वा रानन्याहवनीय इत्येतावत्युच्यमाने सप्तम्या: सामीप्यार्थकत्वमादायाऽऽहवनीयसमीपे अपं कृत्वाऽभिप्रवनतीति आहवनीय उपप्तमीप नीत्वा तत्समीप एव च्छिनतीत्येतादृशमर्थद्वयं संभाव्येत तन्मा भूदित्येतादृशार्यव्यावृ- ५ सत्याषाढविरचितं श्रौतसूत्र-. [ ७ सप्तमनश्ने- त्तिरूपेऽनुवादप्रयोनने संभवति आकाङ्क्षापूरणमात्रार्थकत्वकरूपनाया अगतिकाया अन्याय्यत्वात् ।

अग्नीषोमीयसवनीययोरनूबन्ध्यायाश्च ।। ३ ।।

समानो यूपः स्वरुराहवनीयो हृदयशूलश्च ।

अग्नीषोमो देवता यस्य पशोः सोऽग्नीषोमीयः। सवने सुत्यायां भवः पशुः सवनीयः । प्रातःसवने वायागः, माध्यंदिने सक्ने छिद्रापिधायिपुरोडाशयागः, सृतीयसवनेs- याग इति मवति सवनीयत्वम् । एतानि प्रधानहवींषि । वपा पुरोडाशोऽङ्गानि हवी. पात्याश्वलायनः । अग्नीषोमीयश्च सवनीयश्चेति द्वंद्वः । अनुबन्ध्याऽनबन्ध्याख्यः पशुः । अनु प्रधानानन्तरं बध्यत इत्यनूबन्ध्या तत्संज्ञकस्य पशोश्च दीनि समानानि अभिः नानि भवन्तीत्यर्थः । वशाऽन् बन्ध्या सो इति श्रुतावावन्तताया एव दर्शनासूत्रकृताऽपि तथैव निर्देशः कृतः । अग्नीषोमीयसवनीययोरेव समासेन निर्देशोऽनुबन्ध्यातोऽनयो- व्यकृतं लक्षण्यमस्तीति । तेनानूबन्ध्यायां गोपशुनियमवदनयो!नियमो न भवति किंतु च्छागोऽपि पक्षेऽनयोरिति । एतेषां पशूनां यूपादयश्चत्वारः साधारणा भवन्ति । सोमप्रकरणे विधानात्रयाणामयित्वादग्नीषोमायसवनीयानूबन्ध्याख्यकर्मकालेऽनु. स्पत्त्याऽमुष्येत्यवधारणाभावाच्च । एकादशाध्याये तृतीयपार उक्त जैमिनिना यूपश्चा- कर्मकालत्वादितिसूत्रेण । सूत्रार्थस्तु दीक्षादिवसानां दीक्षासु यूपं छिनत्तीत्यनेन यूपच्छे. दनाधिकरणत्वेन विहितानां ज्योतिष्टोमापूर्वप्रयुक्तानां साधारण्यात्सर्वपशुसाधारण्य यूपस्येति । यूपश्चेत्यनन्तरं तत्रमिति शेषः । कर्मणः पाशुककर्मणः काल एव कालो यस्य सस्य भावस्तत्त्वम् । न कर्मकालत्वमकर्मकालत्वं कर्मकालत्वाभावस्तस्मादित्यर्थः । दीक्षादिवसात्मके काले हि पाशुककर्मकालसंबद्धत्वाभाव एवास्ति तस्य ज्योतिष्टोमक- मकालसंबद्धत्वात्, दीक्षायाश्च साधारण्यात्तदिवसकर्तव्यस्य यूपस्य सर्वपशुप्ताधारण्यं युक्तम् । दीक्षाकालत्वं हि न देक्षापूर्वप्रयुक्तं तदुपस्थापकानुष्ठानसादेश्याभावात् । अपि तु प्रकरणान्ज्योतिष्टोमापूर्वप्रयुक्तं सत्तस्मिन्साक्षानिवेशायोगात्तदङ्गभूतपशुद्वारा तदीययूपे निविशते । तदङ्गभूतत्वं च सर्वेषामविशिष्टमिति सर्वार्थत्वसिद्धिः । वस्तुतो देस एवोपदेशेऽपि सबनीयादावपि पाक्षिकाग्नीषोमीयातिदेशेन तत्प्राप्तिसंभवात्कालतन्त्र- त्वादेव यूपतन्त्रत्वम् । एतेनैकस्मिन्नपि काले यूपत्रयापत्तिः परिहता भवति । यूपतन्त्र- स्वात्तत्संस्काराणां जोषणतक्षणादीनामपि तन्त्रत्वम् । नब दीक्षासु यूपं छिनत्तीत्यनेन च्छेदनमात्रस्यैवापकर्षविधानाजोषणतक्षणादीनामग्नीषोमीयकाल एव करणेनानुष्ठानता देश्यात्तन्मात्रार्थत्वप्रतीतेगुबमाणविशेषत्वेन तदपवर्गेऽपवर्गादावृत्तिरिति वाच्यम् । यूपच्छेदनोद्देशे विशिष्टाद्देशापत्तेः । छेदनमात्रोद्देशेऽतिप्रसङ्गाधूपोद्देशेनैव कालविधिः । छिनत्तिस्तु तदुत्पादकसंस्कारमात्रोपलक्षणम् । तदुत्पादकाश्च संस्कारा यूपाहुत्याअङ्गक-१५० पटलः] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ६०५ च्छेदनाद्यष्टाश्रिकरणान्ता एवाग्नेरिवाऽऽधानादयो नतु प्रोक्षणाअनादयोऽपि । ते तु संमार्गादिषदुत्पन्ने यूपे संस्काराधायकाः । तदेवं व्यवस्थायामपि ये तावदुत्पादकास्तेषां कर्मकालभिन्नकालत्वेनागृह्यमाणविशेषत्वादेव वन्त्रत्वं यूपवत् । ये तु प्रोक्षणादय उत्पनयपसंस्कारकास्तेषामपकर्षकवचनामावेन कर्मकाल एवानुष्ठेयत्वेन गृह्यमाणविशे- पत्वेऽपि आतिथ्यावहिःप्रोक्षणन्यायेनं यूपव्यक्तरेकत्वात्तत्र कृतानां प्रोक्षणादीनां प्रसके. नोपकारकत्वोपपत्तेस्तेषामपि नाऽऽवृत्तिः । केचित्तु तक्षणादिसंस्कारसंग्रहार्थं यूपं कर्तुं खदिरं छिनत्तीति पदद्वयाध्याहारं स्वी कुर्वन्ति । तन्न । तदपेक्षया लक्षणाया लघु. स्वात् । एकादशाध्याये तृतीयपादे तस्य न्यायस्य मूलभूतसूत्रेऽपि नैमिनेः संस्कारा- स्त्वावर्तेरन्नर्थकालत्वात् । संस्कारास्तक्षणादयो यूपसंस्काराः । तुशब्दो यूपश्चाकर्मकाल. स्वादितिपूर्वाधिकरणतोऽन परीत्यद्योतनाय । यूपस्यार्थः प्रयोजनं प्रधानीभूतं पशुबन्ध- ,नरूपं तत्कालत्वादावर्तेरनित्यर्थः । अयं पूर्वसूत्रार्थः। तत्कालः संस्कारकोलः पशुबन्ध नरूपप्रयोजनीभूतप्रधानकालस्तु यूपसंबद्ध कर्मत्वात्तस्य यूपसंबद्ध कर्मणः क्रतुधर्मविधा- नात् , दीक्षासु यूपं छिन्नत्तीतिदीक्षादिवसरूपाधिकरणककतुप्रयुक्तो धर्मः । अमेन पशुबन्धनकालिकसंस्कारकरणं व्यावर्तते । सर्वार्थानां साधारणानां तक्षणादिसंस्काराणा, वाशब्दोऽवधारणे वचनादन्यकालत्वमे(?)तस्कालस्तु यूपकर्मत्वात्तस्य ऋतुधर्मविधाना. सर्वार्थानां वा वचनादन्यकालत्वं सकृन्मानं च दर्शयतीति चेति द्वितीयसूत्रार्थः । दीक्षासू यूपं मिनोतीतिश्रुतिदक्षादिवसकाले सकृदेव मान संस्काराणामपि दीक्षादि- यसकालत्वं दर्शयतीति तृतीयसूत्रार्थः (१) । तत्कालस्तु यूयकर्मत्वात्तस्य ऋतुधर्मविधा- नात्सर्वार्थानां वा वचनादन्यकालत्वम् । सकृन्मानं च दर्शयति । अर्थः प्रयोजनं पशु- बन्धनरूपं यूपस्य पशुबन्धनरूपकालत्वे संस्काराणामावृत्ति पेत् , तदेव नास्ति तस्य दीक्षा- कालवादिति सूत्रार्थः(१)। यूपच्छेदनकाल एव व्यामोहनिवृत्त्यर्थं नाशापहारनिवृत्त्यर्थ च स्वरोरुपादानं कर्तव्यमित्यगृह्यमाणविशेषत्वातन्त्र स्वरुः । अत एव संस्थिते सोमे प्र प्रस्तर हरति जुहोति स्वरुमित्यन्ते प्रतिपत्तिविधानमपि संगच्छते । सोमे प्र प्रस्तरं हरतीति श्रुतौ प्रस्तरं प्रहरतीत्यन्वयः । श्रुतिवादुपसर्गक्रिययोमध्ये पदान्तरं न विरुध्यते । नचायमनूबन्ध्याङ्गभूतस्य कालविधिः । न्यायेन स्वतन्त्रत्वावगती संकोचे प्रमाणामा- 'चात् । अत एव यत्र न्यायमेव भेदावगतियथा प्रस्तरे तत्र संकोच इष्ट एन । इदं जैमिनिनाऽपि एकादशाध्याये तृतीयपाद स्वरूत्तत्रापवर्गः स्यादस्वकालत्वादित्यनेन सूत्रेणोक्तम् । अस्वकालत्वात् , न विद्यते स्वस्मै कालो यस्य सोऽस्वकालतस्य भाव- स्तत्वं तस्माद्यूपवदोक्षादिनात्मकः कालः स्वार्थ विहितो नास्ति । अतोऽस्वकालत्वं 7 १ख. म. वालाः सं। २ ख. ग. 'कालाः एस. ग, घ । ७३ सत्यापाढविरचितं श्रौतसूत्रं- [सप्तमप्र- स्वरोः । अस्माद्धेतोः पाशुककर्ममध्य एवार्यतः स्वरोरनुनिष्पादनमाथिकस्तन्त्रेणैवापवर्ग: स्तन्त्रहेतुक एवापर्वर्गस्तस्य स्वरोरपवर्गो लौकिकत्वं स्यात् । तेन सवनीयाद्यर्थे भिन्नो भिन्नस्वरुरिति पूर्वपक्षः । सिद्धान्तस्तु अस्वकालत्वहेतु सिद्धावेव तन्त्रापवर्गता वक्तव्या सैव न समवति । स्वरो!पानुनिष्पन्नत्वेन य्पोत्पत्तिसमनन्तरमेव तस्योत्पादने सिद्धे यूपवदोक्षादिनाताककालस्य स्वार्थत्वमपि भवति । अतस्तत्रापवर्गताऽपि न । एवं च यूपदकर्मकालत्वात्स्वरुरपि तत्रमिति जैमिनिसूत्रार्थः । आहवनीय औत्तरवेदिकः । तस्पै यागाधिकरणत्वात् । अत एव मध्ये वचनम् । श्रौत्तरवेदिकप्रणयन प्रतिपशु प्राप्तं तनिषेधार्थमाहवनीयग्रहणम् । औत्तरवैरिकानेरधिकरणीभूताया उत्तरवेदेज्योति- टोमापूर्वप्रयुक्तत्वेन सर्वार्थत्वसिद्धौ तदाधेयस्यौत्तरवेदिकस्यापि सर्वार्थत्वस्य निर्षिवा. वात् । हत्यशूलस्यैकत्वविधानावृदयशूलस्याप्यकर्मकालत्वं बोध्यते । तेन यूपवृक्षजन्य एवं हृदयशूलः । स च यूपाहरणसमय एव संपादनीय इति सिद्धं भवति । यूपैकाद- शिनीपक्षे प्रथमोपस्थितत्वादग्निष्टस्यैवानोपोमीयानूबन्ध्यात्वम् । यद्यपि यत्रिषु यूफे- प्वालमेत बहिर्धाऽस्मादिन्द्रियं वीर्य दध्यात् , भ्रातृव्यमस्नै जनयेदित्यनेन प्रतिपशु यूपो निषिद्धस्तथाऽपि वचनबलात्पश्चेकादशिन्यां भविष्यतीति ज्ञेयम् ।

अपवृत्ते दीक्षापरिमाणे ।

अवधारितकद्विव्यायन्यतमदीक्षापरिमाणेऽपवृत्ते समाप्ते सति । एतेनोत्तरवेदिदेश इस्यादेः प्रापणीयादिवसेऽनुष्ठानं बोध्यते ।

उत्तरवेदिदेश उपरवाणां वा लोहितमानडुहं चर्म प्राचीनग्रीवमुत्तरलोमाऽऽस्तीर्य तस्य दक्षिणे पक्षे राजानं न्युष्पोत्तरत उदकुम्भं निधाय सर्वतः परिश्रित्योदीचीं द्वारं कृत्वा सोमविक्रयिणं प्रपादयति कौत्सꣳ शूद्रं वा ।

उत्तरवेविशीपरषदेशी मानेन ज्ञातव्यौ । उपरवाणामित्यत्र समासैकदेशस्य देश- शब्दस्यान्वयः । अङ्गीकृतश्च पाणिनिनाऽप्येकदेशान्वयोऽनुस्वारस्य ययि परसवर्ण इतिपूप्रस्थसमासैकदेशसवर्णशब्दस्योदस्थास्तम्भोः पूर्वस्येत्येतत्सूत्रगतपूर्वशब्दे । लोहितं रक्तवर्ण लोहितापावे स्वलोहितमपि । एतदुक्तं द्वैधे रोहिते चर्मणीति सूत्र बौधायनस्याप्यरोहित स्यादिति शाली किरिति । अनः शकटं तद्वाही बलीवर्दस्तस्येदमा- नई धर्म त्वक् । प्राचीनग्रीवं प्राग्निकस्थनीवमुत्तरलोमोपरिष्टालोम । तैलेन चर्मणा शुद्धिरिति विहितां शुद्धिं कृत्वोपयोक्तव्यम् । विहित चर्मणो ह्यलामे कृष्णाजिनं सर्वेषां प्रतिनिधित्वेन ग्राह्यम् । '५ 1 [१० पटलः ] गोपीनाथमहकूतज्योत्स्नाव्याख्यासमेसम् । ६०७ कृष्णाजिन प्रतिनिधिरलामे चर्मणां मवेत् । तदलाभे तु मेध्यस्य चर्मान्यस्य पशोर्भवेत् ॥ इति प्रतिनिधिप्रकरणे संग्रहोक्तेः । गृहप्रवेशेऽनदुहधर्माऽऽस्तरणमिष्यते । तस्यामावे तु तार्णस्य तल्पस्याऽऽस्तरणं भवेत् ॥ इत्याश्वलायनस्मृतौ ताणतल्पस्याऽऽनडुह चर्मप्रतिनिधित्वेन ग्रहणासर्वथा चर्माला सार्णस्तल्पो ग्राह्यः । कृष्णाजिनाभावे तु कृष्णवर्णरहितमृगाजिन प्रतिनिधिः । तस्या- प्यभावे रौरवादीन्यनिनानि । अनन्तरोक्तरीत्या तार्णस्तस्पो वा । आश्वलायनस्मृतावना हुदहणस्य चर्गमात्रोपलक्षणार्थत्वादिति द्रष्टव्यम् । तस्याऽऽस्तृतस्य चर्मणो दक्षिणे पक्षे दक्षिणे भागे चर्मण उत्तरो मागो राज्ञो विवेचनायावशेषितो भवतीत्यापिकम् । उत्तरत इत्यत्र तस्येत्यनुवर्तते । धर्मण उत्तरे भाग उदकुम्भनिधानमिति शङ्कामपाकर्तु- मेवोत्तर इति पूर्वसजातीयशन परित्यज्योत्तरत इति शब्दान्तरमहणं कृतम् । उदकेन पूर्णः कुम्म उदकुम्भः । उदकस्योदः संज्ञायामित्युदकशब्दस्योदादेशः । सर्मतः सर्वासु दिक्षु परिश्रित्य कटादिभिः परित आच्छाथ । उदीचीमुत्तरदिगमिमुखाम् । द्वाः- शब्दो रेफान्तस्तस्य द्वितीयकवचनम् । अयं च शब्दः स्त्रियाम् । देवीद्वारावितिकि- जात् । द्वारविधानात्तद्वनै परिश्रयणम् । सोमविक्रयिण सोमविक्रेतारं प्रपादयति परि- श्रितं प्रवेशपति सोमविवेचनार्थम् । स च ब्राह्मणः कौत्सः कुत्सगोत्रः कुत्सितकर्मा या । अत्राऽऽपस्तम्बः कौत्सादामानं कोणीयादन्यस्माद्वा बामणादित्युक्त्वाऽऽहाप्य. माह्मणादिति । शूदः सच्छूदो गोपो नापितो वा । सच्छूदौ गोपनापिताविति स्मृतेः । शाखान्तरे शमितृसामविक्रयिणी कुलागवित्याम्नानास्कुलालोऽपि पक्षे । निषादरथकार- यद्यावदर्थमध्ययनमेतेषाम् । भयं च शूद्रो विप्राभावे द्रष्टव्यः । एतस्मादेव दिन्य एवेति गम्यते । यस्य कस्यचित्विज एव सोमविक्रयित्वे क्रयजन्यदोषविशिष्टस्य स्वकर्मण्यनधिकारादन्य एव युक्त इति मावः । तृतीयाध्याये सप्तमे पादे विक्रयी स्वन्यः कर्मणोऽचोदित्वादिति जैमिनिरप्येवमाह । मूत्रार्यस्तु विक्रयी सोमविक्रयो तु अन्य विग्योऽन्यः । कुतः कर्मणो विक्रयकर्मणोऽचोदितत्वादविहितत्वाद. क्रत्वर्थत्वानिन्दितत्वादिति यावत् । प्रवृत्तिस्तु द्रव्यलोभवशेन द्रष्टव्या । वरणामावा. यथा शमित्रुपगातार ऋविज एव तथा विक्रयो न भवतीतिवेलक्षण्यद्योतनाय सुशब्द इति । कात्यायनोऽप्येवम् । सोमविक्रयी, उपपातको । सोमः केतव्य इत्य: विधानात् आममांससुरालोमलाशालवणसापाम् । विक्रये सर्वपण्यानां द्विजश्चान्द्रायणं चरेत् ॥ Y -- ६०८ सत्याषाढविरचितं श्रौतसूत्रं- [७ सप्तमप्रश्ने- इत्युपपातकप्रकरणे शातातपेन चान्द्रायणस्योक्तत्वाञ्च सोमविक्रये दोषः । यत्तु चतुर्विशतिमते- मुराया विक्रयं कृत्वा घरेन्सौम्यचतुष्टयम् । लाक्षालवणमांसानां चरेच्चान्द्रायणत्रयम् ॥ मध्वाज्यतैलसोमानां चरेचान्द्रायणद्वयम् । इति, यच विष्णुवचनम् -रक्तवस्त्रमधुरसोर्णाविक्री त्रिरात्रमुपवसेत् । प्राणिसोम- विक्रयो तप्तकृच्छ्रे कुर्यात्तं च भूयश्चोपनयेदिति, यच्च शङ्खलिखितवचनम्- न विक्रीणीयादविक्रेयाणि तिलतैलदधिक्षौद्रलवणलाक्षामद्यमांसकृतान्नस्त्रीपुरुषहस्त्यश्व- गन्धरसक्षौमकृष्णानिनसोमोदकनीलीविक्रयात्सद्यः पतति ब्राह्मण इत्युपक्रम्य संवत्सरं सप्तकृच्छ्रमाचरेदिति, यच्च पैठीनसिवचनम् -आरामतडागोदपानपुष्करिणीस्कृत- सोमविक्रये त्रिवणस्नाय्यधाशायी चतुर्थकालाहारो दशसहस्रं गायत्री जपन्संवत्सरेण पूतो भवतीति तयोभ्यासशक्ताशक्तपरत्वेन व्यवस्थापनीयम् । सुकृतं पुण्य, कृतार. पक्वान्नम् । सोमविक्रयिणः स्पर्शे प्रायश्चित्तमुक्तं पराशरेण- चैत्यवृक्षश्चितिर्युपश्चण्डालः सोमविक्रयो । एतांस्तु ब्राह्मणः स्पृष्ट्वा सवासा जलमाविशेत् । इति । नलमाविशेस्नानं कुर्यादित्यर्थः। निषिद्धेऽपि कर्मणि प्रवृत्तिस्तु लोभवशात् । सोपविक्रयीत्यत्र कर्मणीनि विक्रिप इति सूत्रेण कर्मणि विपूर्वाकोणातेरिनिः । कुत्सित- ग्रणं कर्तव्यमिति वार्तिकात्म च कुत्सितेऽर्थे भवति ।

सोमविक्रयिन्सोमꣳ शोधयेति संप्रेष्यति शुन्ध सोममापन्नं निरस्येति वा शुन्ध सोममापन्नं निरस्त इति वा ।

निरस्त इति सप्तम्यन्तम् । हे सोमविक्रयकर्तः सोम समीचीनकाण्डात्मक राशी भूतात्सोमात्तुणादिभ्यश्च शोधय विवेचय चर्मण उत्तरभागे पृथक्कुवित्यर्थः । शुन्ध सोममापन्नं निरस्येति शुन्ध सोममापन्नं निरस्त इत्येतौ पूर्वेण सह विकल्पिती शाखा- स्तरीयौ । आपन्नं सौमे पतितं तृणादिकं निरस्य दूरीकृत्य सर्व सोमं शून्ध समीचीन- काण्डभूतं विवेचयेत्यर्थः । निरस्ते तृणादिके बहिनिरस्ते सति य आपन्नो लब्धः सोमस्तं शुन्ध पुनस्तमपि समीचीनकाण्डभूतं विवेचय पृथकुर्वित्यर्थः । वाशब्दद्वयमेकशाखा- गतावेतौ प्रेषौ नतु मिन्नशाखागताविति बोधयितुम् । शोधनप्रकारमाह--

यदन्यदꣳशुभ्यस्तदपोद्धरति ।

1 i . ६०९ 3 १५० पटलः ] गोपीनाथभट्टकृतज्योत्सान्याख्यासमेतम् । अंशुम्यो यत्किचिदन्यत्तणादिकं तदपोद्धरति बहिनिष्काशयतीत्यर्थः । उत्तरप्रै- षानुगुण्येनेदानी व्याख्यायते--अशुभ्यः समीचीनांशुम्योऽन्यदसमीचीनकाण्डञात तृणादिकं च तदपोद्धरति बहिनिष्काशयतीत्यर्थः । यथा घटमानयेत्युक्ते कार्यक्षम वघट आनीयते तथेति ।

नाध्वर्युः सोमं विचिनुयान्नास्य पुरुषो न यजमानो न यजमानस्यामात्या न विचीयमानस्योपद्रष्टारो भवन्ति ।

अध्वरं युनक्तीत्यध्वर्युः, अध्वरं नयतीति वाऽध्वर्युः, अध्वरं कामयत इति याऽध्वर्युः । तथाच निरुक्तम्- अध्वर्युरध्वरयुरध्वरं युनत्यध्वरस्य नेताऽध्वरं कामयत इति वेति । क्षोधुकोऽध्वर्युः स्यादितिदोषनवणानाध्वर्युः सोमविवेचनं कुर्यात् । अस्याध्वर्योः पुरुषोऽपि विवेचनं न कुर्यात् । तत्पुरुषाणामप्यध्वर्युत्वाक्षोधुकोऽध्वर्युः स्यादिति श्रुतो दोषस्तेषामप्यस्तीति भावः । नन्वेवं नाध्वर्यवः सोमं विचिनुयुरित्येवमेव वक्तव्यं तथाचतावत वाध्वर्यपुरुषाणामपि निषेधे सिद्धे पृथक्सूत्रकरण व्यर्थमिति चेत्स- त्यम् । नास्य पुरुष इत्ययं निषेधः शाखान्तरीयः स्वतन्त्र एव नतु स्वशाखागतस्या- ध्वर्युपदगतेकवचनस्य नात्यभिप्रायकत्वं कल्पयित्वा सर्वावर्युपरत्वं, सर्वत्रातिप्रसक्तत्वेन वक्तुमशक्यत्वादित्येतादृशार्थज्ञापनार्थत्वेन वैवाभावात् । तेन नासस्थिते सोमेऽध्वर्युः प्रत्यल्स दोऽतीयादित्यादाववर्योरेव निषेधो न तत्पुरुषाणामिति सिद्धं भवति । क्षोधको यजमान इति दोषश्रवणायजमानोऽपि विवेचनं न कुर्यात् । शाखान्तरीयमन्ये - षामपि विवेचननिषेधमाह-न यजमानस्यामात्या इति । अमात्याः पुत्रपौत्रादयः । विचीयमानस्य पुरुषस्योप समीप उक्ता अनुक्ताश्च द्रष्टारोऽपि न यवन्ति किम वक्तव्यं विवेचनं न कर्तव्यमिति । एतेनाध्वर्युतत्पुरुषव्यतिरिक्तानामृविजामपि विवेचननि- षेधो यजमानामात्यव्यतिरिक्तानामन्येषां च । नन्वेवं न विचीयमानस्योपद्रष्टारो भवन्ति कि वक्तव्यं विवेचनं न कर्तव्यमिति कैमुतिकन्यायेनैवाध्वर्वादीनामपि विवेचननिषेध. सिद्धौ नावयुः सोमं विचिनुयादित्यादिनाऽध्वर्यादीनां पृथतिषेधो व्यर्थ इति चेन्न । तस्य दोषाधिक्यप्रदर्शनार्थत्वेन वैयर्थ्याभावात् । अवॉर्यथा दोषस्तथैव तबीयपुरुषस्यापीति दर्शयितुं नास्य पुरुष इति । यथा यजमानस्य दोषस्तथा तदीयामात्यानामिति दर्श- यितुं न यजमानस्यामात्या इति । सोमविक्रयिकर्तृकविवेचनसमये निषेधादेव विवेचन- निषेधस्यापि सिद्धौ पृथग्विवेचन निषेधो दोषाधिक्यार्थः । दोषाधिक्याच्छ्रौतस्मात. प्रायश्चित्तयोः समुच्चयः । द्रपृत्वे श्रौतमेव दोषाधिक्याभावात् । तत्र श्रौतं प्रायश्चित्तं सर्वप्रायश्चित्तमेव विशेषानुक्तेः । अनाज्ञातत्र यजपो वैष्णव्यग्ब्याइतिजपश्च । स्मार्तमपि साधारणमेव । - । . . - + 1 ६१० सत्याषाढविरचितं भौतसूत्रं- [ संघमप्रने- सच्च-हिरण्यदानं गोदानं भूमिदानं तथैव च । नाशयत्याशु पापानि महापातकनान्यपि ॥ इति संवोकम् ॥ वामनःकायजान्दोषान्प्राणायामो विनाशयेत् । वेदमातृनपो वाऽपि प्रणवस्य जपोऽपि वा ॥ इत्याङ्गिरसोक्तम् ॥ लघुदोषे त्वनादिष्टे प्राजापत्यं समाचरेत् । इति चतुर्विशतिमतोक्तं वा दोषतारतम्येन प्रायश्चित्तं दृष्टव्यम् । विचीयमाने सोमे तस्य समीपे दृष्टारोऽपि न मवन्तीत्यर्थः । उपेति ग्रहणादूदूरतो दर्शने दोषो नैवेति । सोमविक्रयिणो यदि अलापत्तदोपायमाह कर्मान्त बौधायन:-अथ यदि न सोमविक्रमी स्याण यूपावटकालं पलाशशाखां निहत्य समुपना राजानं पलाशशा- खायां समासज्ज्योपासीताथ यदि कश्चित्प्रसवयुक्तं ब्याहरेक्षिमिति वा त्वरध्वमिति या कुरुतेति वेति तद्राजानमावदीत न संवादा आवर्तेरन्स सोमविक्रयी स्यादिति ।

प्रायणीयाप्रभृतिष्ववभृथान्तेष्विष्टिपशुबन्धेषु व्रतोपायनं जागरणं पत्नीसंनहनमारण्याशनं च न विद्यते ।

सोमा रेव सिद्धार्थत्वादिति भावः । अन्तशब्दोऽवध्यर्थे । अवभृथान्तावावमृषा- न्तावावभृषान्तास्तेवित्येकशेषः । अवमृषावधि कामु इष्टिषु अवभृषावधिकेषु पशुषु चेत्यर्थः । यद्यपि पशुबन्धद्वयमेव तथाऽपि प्रायश्चितपशुद्वयमादाय बहुवचनम् । प्रायणीयाप्रमृतिवित्यनेन दीक्षणीयाव्यावृत्तिः । अवभृथान्तेष्वित्यनेनोदयनीयादिव्या. वृत्तिः । सर्वेषु सौमिकेविष्टिपशुबन्धेविति सूत्रे यथादर्शितं प्रयोजनमिष्टिपशुबन्ध- ग्रहणस्य तद्ववापि द्रष्टव्यम् । अवभृथान्तेष्वित्यनेनैवार्य हेतु म्यते । व्रतोपायनादीनां सिद्धार्थत्वं नियमेन प्रायणी याप्रभृतिष्ववमथान्तेष्वेवास्तीति हेतोस्तत्प्रभृतित्व तदन्तत्वं चोकम् । प्रायणीयाप्रभृतिष्वित्यनेन दीक्षणीयाव्यावृत्तिः । ननु तदहीक्षितो रात्रि जागर्तीति यानमानसूत्रे दीक्षाकाले जागरणस्य विधास्यमानत्वादन्यस्य च सद्यस्का. छतया प्राप्तेरेवाभावास्किम निषिध्यत इति चेत्सत्यम् । आनर्थक्यप्रतिहतस्य निषे. धस्य विपरीत बलाबलमिति न्यायेन लक्षणया च जागरणशब्देन जागरणाभावसंपाद- कनिद्रास्थानिकक्षणिकनेत्रनिमोलनाकरणमभिधीयते तस्य निषेधोऽत्र क्रियते । एवं च परिस्तरणोत्तरकालं नेत्रनिमौलनरूपपदार्थोऽस्तीति गमयति । नेत्रनिमीलनाकरणरूप- जागरणेनैव सिद्धेरिति भावः । सवनीयोपवतीभूतायां रात्रौ यज्जागरणं तन्मुख्यम् । इष्टयायन्तःपातित्वेन तदमावस्तु क्षणिक एव स्वीकार्योऽन्यस्यासंभवात् । स च पदार्थः परिस्तरणोत्तरमेव परिस्तरणोत्तरकालस्यैव तदधिकरणत्वेन प्रकृतित उपस्थितत्वात् । अथवाऽयमर्थः-यज्ञसाधनरक्षणद्वारा जागरणस्याप्रमादार्थस्य नानेन निषेधः क्रियते. १प्र०पटलः ] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । अन्यकालिकेष्टिपश्वङ्गमतपदार्यरक्षणासमवात् । नहि काऽपि सोमाजमतेष्टिदीक्षा रात्रा- वस्ति । दक्षिणीयायाः सघस्कालाया दिन एव सत्त्वात् । प्रायणीयादौ त मिन्नकालता स्पष्टैव । किंतु अथ दीक्षित एतां रात्रि जागति तथा स्वप्न व्यावर्त्यत इत्यर्थवादानुसा- रात्स्वप्नच्यावृत्तिफळकजागरणस्यादृष्टार्थत्वप्रतीतेस्तस्य निषेधोऽत्र क्रियते । दतदृश्यस्य ज्योतिष्टोमपरमापूर्वोत्पस्यवधिस्थायित्वात्प्राप्तङ्गतस्तसिद्धेरिति भाव इति । व्रतोपायनस्य प्रसङ्गसिद्धिं द्वादशाध्याये प्रथमे पादे जैमिनिरपि तथा व्रतमुपेतत्वादित्यनेन सूत्रेणानी- कृतवान् । सूत्रार्थस्तु धारणार्थत्वात्सोमेऽग्न्यन्वाधानं न विद्यत इति पूर्वसूत्रे यथाऽन्यन्या. धान प्रसङ्गसिद्धत्वान्न विद्यते तथा व्रतं व्रतस्वीकारोऽपि न विद्यते । उपेतत्वात् । सोमार्थ- बतोपेतत्वात् । तस्य चासमाप्त्यविमुष्टत्वात्प्रसङ्गसिद्धिरिति । जागरणस्य प्रसङ्गति- द्विस्तु नैमिनिमते नास्ति । तथा च द्वादशाध्याये प्रथमे पादे तत्सूत्रं तयुक्तं च काल. भेदादिति । सूत्रार्थस्तु तद्युक्तं दीक्षायुक्तं दीक्षाकाळयुक्तं जागरणमपि कालमेदान प्रसज्येतेति । सौमिकेन जागरणनैष्टिकजागरणजन्यादृष्टसिद्धौ प्रमाणाभाव इति भावः । पत्नीसनहनमपि न दीक्षार्थेन संनहनेनैव सिद्धत्वात् । द्वादशाध्याये प्रथमे पादे जैमि- निरपि सनहनं च प्रवृत्तत्वादिति । सूत्रार्थस्तु सैनहनं च न कर्तव्यं सोमे तस्य प्रवृत्त- स्वादिति । संनद्धयैव कर्माणि कार्याणीत्येवमर्थ संनहनं नादृष्टांय तथा सोमार्थसनहने. नैव संनद्धत्व सिद्धेरदृष्टार्थत्वाभावाच न पृथक्सनहनमिति मावः । आरण्याशनस्यापि पयोतेन प्रसङ्गसिद्धि मिनिनाऽपि स्वीकृता-अन्यविधानादारण्यभोजनं न स्यादुपयं हि वृत्यर्षमिति । अन्यस्य पयोवतस्य विशेषस्य विधानात्प्राकृतस्याऽऽरण्यभोजनस्य निवृत्तिः । कुतः, हि यस्मादुपयं पयोव्रतमारण्याशनं घेत्येतदुभयं वृत्त्यर्थ तृप्त्यर्थ, तथाच वतजन्यतृप्त्यैवाऽऽरण्याशनजन्यतृप्तिसिद्धेनं तदर्थमारण्याशनमिति । न च पयोवतारण्याशनयोविनातीयतृप्तिरूपकार्यभेदात्कथं प्रसङ्गसिद्धिरिति वाच्यम् । आनु. पङ्गिकत्वेन तृप्तेर्गुणीभूतायाः प्राणधारणस्यैव ऋतूपयोगिताया मुख्यत्वेन प्रसङ्गसिद्धेः संमवादिति भावः । सद्यस्कालस्वेनैवाऽऽरण्याशनामावे सिद्धेऽयं निषेधो ज्ञापयति सद्यस्कालास्तपोष्टिषु खतन्त्रास्वपि स्वस्थान आरण्याशनमस्तीति । शुक्रादीक्षा तपसो विमोचनीरितिमन्त्रलिङ्गादवभूषस्य दीक्षाविमोचनार्थत्वात्तावत्पर्यन्तं प्रतोपायनादीनां निषेधः । अवभृथोत्तरं वेतानि भवन्त्येव । तत्र तेषां विमुक्तत्वात् । पत्नीसनहनमपि भवत्येव योक्त्रस्य त्यक्तस्वात् । याजमानसूत्रे त्यागं वदिष्यति योक्त्रस्य । एतेन दीक्षणीयाप्रभृति योक्त्रमावभृथाद्धार्यमिति सिद्धं भवति । आह च बौधायन:- संनद्धा पत्नी यज्ञयुच्छमन्यास्त इति ।

सर्वाण्युत्तरासु क्रियन्ते ।

सर्वाण्येतानि उत्तरासु क्रियन्ते कर्तव्यानीत्यर्थः । उत्तरा च, उत्तरश्च, उत्तरा चेत्येक- १ ख. ग. 'धार्थतया सो ६९२ सत्याषाढविरचितं श्रौतसूत्र-: [७ सप्तमप्रश्ले- शेषः । परवल्लिङ्गमित्यनेन स्त्रीलिङ्गान्ततव । तल्लक्षणविशेषत्वामानात् । प्रायणीयाप्रभृति- वित्यनेन यथा दक्षिणी याया निषेधविषये व्यावृत्तिस्तद्वत्करणविषयेऽपि व्यावृत्तिरित्यर्थ बोधयितुमिदं सूत्रम् । अत एवेतराम क्रियन्त इति परित्यज्योत्तर।सु क्रियन्त इत्युत्तरशब्द. मणं कृतम् । एवं चोभयत्रापि दीक्षणीयायाः परित्यागाद्विकल्पः सिध्यति । स च व्यवस्थितः पूर्वत्र दीक्षणीयायामसिद्धार्थत्वात्सर्वाणि एतानि भवन्ति उत्तरत्र दीक्षणी. यायां सिद्धार्थत्वान्नैतानीति द्रष्टव्यम् । ब्रह्मवरणमपि सोमार्थवरणेनैव सिद्धत्वान्न भव- तीत्युक्तमेव प्राक् । न चैवं प्राकृतहोतृवरणस्यापि समन्त्रकहोतृवरणेन सोमार्थेन सिद्धि- रस्त्विति वाच्यम् । अदृष्टार्थस्य प्राकृतवरणस्य दृष्टायन सौमिकेन वरणेन प्रसङ्गसिद्ध. रभावात् । प्रवृत्तेषु हि के चित्पदार्थेषु पश्चादग्निदेवो होता देवान्यक्षद्विद्वारश्चिकित्व- दित्यादिना प्रकृतौ होतृवरणमानातमतस्तस्य प्रवृत्तत्वेन दृष्टार्थत्वानुपपत्तेरदृष्टार्थत्वम् । सौमिकस्य तु अप्रवृत्ताभ्यर्थनरूपत्वादृष्टार्थत्वमेवेति । तथा च द्वादशाध्याये प्रथमपादे जैमिनिः-प्रवृत्तवरणत्वात्प्रतितन्त्रं वरणं होतुः क्रियतेति । सूत्रार्थस्नु प्रवृत्तस्य कर्मणि प्रवृत्तस्य होतुर्वरणत्वात्प्रवृत्तहोतृसंबन्धिवरणत्वात्प्रवृत्तं होतृसंबन्धि अग्निर्देवो होते. त्येतद्वरणम् । एतेनाऽऽनतिरूपदृष्टार्थत्वं व्यावय॑ते । तथाचेदं बरणमदृष्टार्थमित्युक्तं भवति । एवं च दृष्टार्थवरणेनादृष्टार्थवरणप्रसङ्गसिद्धरमावात् । दीक्षणीयादि कौष्टिक पाशुकं च तन्त्रशब्देनोच्यते । तत्र सर्वत्र होतुर्वरण क्रियेत कर्तव्य मेवेति ।

सवनीये पशौ सवनीयेषु च पुरोडाशेषु नाग्न्यन्वाधानं विद्यते ।। ४ ।।

दीक्षणीयया प्रधानार्थयाऽऽरादुपकारिण्या यजमानसंस्कारिण्या चार्थवादवलेन . याज्यालिङ्गेन च सोमदेवतापरिग्रहोऽपि कार्य इति सूचयितुमेव निषेधः । दक्षिणी- यया सोमदेवतापरिग्रहासिद्धौ तु तत्कालपातिप्तवनीयपशुसवनीयपशुपुरोडाश देवतानाम- परिग्रहासिद्धौ सूचीसूत्रन्यायेन तत्पृष्ठलग्नायां निषेधस्यासंगत्यापत्तेः । तस्मादेतन्निषेध बलाहीक्षणीयया सोमदेवतापरिग्रहः क्रियत इत्येवाङ्गोकर्तव्यम् । अन्वाधान द्विविधम् । प्रत्यक्षामिग्रहणं प्रथममङ्गम् । तच्च विहरू पाभिः साध्यम् । देवनारूपाग्निग्रहणं द्विती. 'यम् । एवं हीष्टं सूत्रकारस्य देवतारूपानेः परिग्रहणेन देवतापरिग्रहों भवति नतु प्रत्यक्षाग्निधारणेन विहव्यान्वाधान त्यत्रेदमेव लिङ्गम् | आग्नावैष्णवमेकादशकपाळ निपेरित्युपक्रम्याऽऽहाग्निरवमो देवतानां विष्णुः परमो यदानावैष्णवमेकादशकपालं निर्वपति देवता एवोभयतः परिगृह्य यजमानोऽबरुन्ध इति देवताया अग्नविष्याश्च परि- अहेण प्रधानदेवतापरिग्रह एवोक्तः । प्रधान सुत्या. तदर्था दीक्षा । उक्तं च तृतीया. । १५०पटलः ] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । ६१३ ध्याये सप्तमपादे औमिनिमा दीक्षादक्षिण तु वचनाप्रधानस्येति सूत्रेणेति । न च दीक्षा सोमस्येति श्रुतेदीक्षायाः प्रधानमात्रार्थत्वेऽपि तज्जनकीभूतदीक्षणीयाया भार्यवादिकदे. यतापदस्य प्रधानदेवतामात्रपरत्वे प्रमाणामावेनाप्रधानसाधारणदेवतापरिग्रहार्थस्वम- स्त्विति वाच्यम् । दीक्षा सोमस्येति श्रुत्या दीक्षायाः प्रधानमात्रार्थवे सिद्धे तज्जमको- मूताया दीक्षणीयाया अपि प्रधानमात्रपरत्वस्यार्थतः सिद्धिमिद्धिावि)व प्रधानदेवतामात्र. परत्वसिद्धावेतस्या एवं श्रुतेः प्रमाणत्वेनाङ्गदेवतापरिग्रहस्पासिद्धत्वेन तदर्थं तत्तदिष्टि- पशुष अन्यन्वाधानविधानस्यात्यन्तं युक्तत्वात् । नैमिनिसूत्रार्थस्तु दीक्षा च दक्षिणा चानयोः समाहारो दीक्षादक्षिणम् । गवाश्वप्रभृतीनि चेत्यनेन समाहारद्वंद्वः । दीक्षा च दक्षिणा च दीक्षा सोमस्व दक्षिणा सोमस्येतिवचनात्प्रधानस्य स्यातामिति । अमीषोमीय. विकारेऽतिदेशानतिदेशरूपमेतत्प्रयोजनम् । विस्तरस्त्वाकरे द्रष्टव्यः । याज्यानुवाक्ये मपि प्रधानदेवतापरिग्रहमेव वदतः । तत्राग्निश्च विष्णो तप इति याम्यायां विश्वर्य- ज्ञियः संविदानी दीक्षामस्मै यजमानाय धत्तमिति पठयते । तत्र विश्वदेवशब्दस्य आदित्यविश्ववसवस्तुषितामास्वरानिलाः । महारानिकसाध्याश्च रुद्राश्च गणदेवताः ॥ इतिकोशागणविशेषरूढत्वावगतौ तत्र वसूनां प्रातःसवनदेवताभूतानां रुद्राणां माध्यंदिनसवनदेवताभूतानामादित्यानां विश्वेषां देवानां च तृतीयसवनभूतानां चैत्र प्रकृते गणदेवतात्वेन तेषामेव प्रकृते प्रधानदेवतात्वमवगम्यते । एतादृशदेवतापरिग्रह- मेव याज्या वदति । दीक्षापालशब्देन सर्वाः सोमेज्यदेवता इन्दादयोऽपि गृह्यन्ते । स्वानुकूलस्य भृत्यस्य यथा स्वास्येव पालकस्तथा सुस्यादेवतानामेव मुख्यत्वेन स्वामि. त्वात्स्वानुकूलदीक्षापालकत्वम् । विश्वैर्देवैर्युक्तावस्मै यजमानाय दीक्षां धत्तमिति । दीक्षा च प्रधानार्थी । अतो देवताः प्रधानार्थी एव दीक्षासंपाद(दि)काः । तथाऽग्निर प्रथमो देवतानामितिपुरोनुवाक्यागतदेवताशब्दोऽपि प्रधानदेवतापर एव याज्यानुरो- धात् । एतेनावमपदं यया निकृष्टार्थक तथा प्राथम्यार्थकमपि । तथा परमपदापरपर्यो- यमुत्तमपदमुत्कृष्टाक सच्चरमार्थकमपि । तथाचाग्निरने प्रथमो देवतानां संयातानामुत्तमो विष्णुरासीदिति सर्वदेवताप्रथम चरमभूतयोरग्नाविष्ण्वोहणे प्रत्याहारन्यायेन मध्यम- स्थानां प्रधानदेवतानामिवाङ्गदेवतानामपि ग्रमितीयमपि शङ्का निरस्ता भवति । तथाच प्रधानार्थया दीक्षणीययाऽनिविष्णुयागद्वारेण प्रधानदेवतापरिग्रह एवं युक्तो नतु साङ्गप्रधानां परिग्रहः । यतो वदिष्यति प्रायणीयादिषु पुनर्देवतापरिग्रहार्थ- मन्वाधाने चोदकप्राप्तेऽपि अन्यन्वाधानं यत्परैः प्रतिषिद्धं तदेव पुनर्विहितम् । ननु अत्राप्यमिः सर्वा देवता इति देवतारूपाग्नेरारम्मेण साङ्गप्रधानार्थेन साङ्गप्रधानदेवता- परिग्रह सिद्धौ कयमग्न्यन्वाधानं विहितमिति चेत् , सत्यम् । देवतारूपामेरारम्मेण देवतारम्भमात्रस्यैव सिद्धेर्नत्ववाधानस्य तस्य शबान्तरत्वेन कर्मान्तरत्वात् । अस सत्वाषाढविरचितं श्रौतसूत्र- [७ सप्तमप्रश्न- एवाङ्गभूतेषु पशुष्वन्वारम्भणीयां प्रतिषेधति सवनीयमात्रे चान्वाधानप्रतिषेधात्प्रायणी यादिष्वग्नीषोमीयानूबन्ध्ययोश्चानुजानाति । अत एव निरूढेऽपि धारयत्याहवनीयमित्य- न्वारम्मणीयानन्तरमुक्त्वाऽनोनन्वादधातीत्याह । ततो ज्ञायत आरम्भे सिद्धेऽपि मान्वाधान सिध्यतीति । तस्माद्दीक्षणीयया प्रधानदेवतानामेव परिग्रह इति सिद्धम् । ननु सवनीये पशौ सवनीयेषु च पुरोडाशेषु नाग्न्यन्वाधान विद्यत इति प्रतिषेधादेवेतर. प्रान्वाधानसिद्धौ पुनर्षिधानं परमतप्रतिषिद्धान्वाधानस्य पुनः प्राप्त्यर्थ यथा कृतं तथा दीक्षणीयायामपि परमतप्रतिषिद्धान्वाधानस्य पुनःप्राप्त्यर्थ कुतो न कृतमिति चेन्न । दीक्षणीयायां तद्विरहेऽपि तसिद्धेः । कथमिति चेत् । उच्यते-दीक्षणीयायां जातायां सत्यामेव तस्या देवतापरिग्राहकत्वम् । तस्याश्च ग्रहणार्थ च पूर्वमिष्टेस्तदर्थत्वादिति जैमिनिमते दर्शपूर्णमासप्रकृतीनां सोमेऽग्न्यन्वाधानं व्रतोपायनमारण्यानं जागरण: मन्याहार्यस्य च दानं पत्न्याश्च सनहनं विमोचनमिति न विद्यन्त इति आपस्तम्बमते प्रायायायास्तन्त्रं प्रक्रमयति तत्रैवानि न क्रियन्तेऽन्यन्वाधानं ब्रतोपायनं पत्नीस- नहनमन्वाहार्य इति ये के च सोम इष्टिपशुबन्धाः सर्वेष्वेवैतानि न कियन्त इति भारद्वाजमते च साङ्गप्रधानदेवतापरिग्रहार्थत्वं तत्पष्टतया खण्डयितुं तत्र तत्रान्वाधान- विधानम् । अन्यथा सवनीये पशौ सवनीयेषु च पुरोडाशेषु नान्यन्वाधान विद्यत इत्यनेनैव सिद्धेस्तत्र तत्र विधानमपार्थक स्यात् । अनिष्पन्नाया दीक्षणीयायाः स्वीय- देवतापरिग्रहे सामर्थ्याभावात् । अङ्गदेवतानामपि परिग्रहार्था दीक्षणीयेति वदताऽऽप. स्तम्बनाप्यन्यन्वाधानं दीक्षणीयादेवतापरिग्रहार्थमवश्यमशीकरणीयमेव । एवं च परमत- स्यापि स्वतुल्यत्वसाधनेन भगवताऽऽचार्येण दूषितप्रायत्वात्तन्मतखण्डनार्थान्वाधान- विधानक्लेशो न कृतः। प्रायणीयाया अपूर्वत्वपक्षेऽन्नाधानस्याप्यपूर्व विधानं तत्रेति द्रष्टव्य. मिति सुस्थम् । ग्रहणार्थ च पूर्वमिष्टेस्तदर्थत्वादित्युदाहृतजैमिनिसूत्रार्थस्तु पूर्वमन्वा- धानं ग्रहणार्थमपि निवर्तेत, इष्टदक्षिणीयाया अपि तदर्थत्वादन्वाधानार्थत्वादिति । इत्योकोपाहश्रीमदमिष्टोमसाहस्राग्निचयनसहितवाजपेयसर्वतोमुखद्विषाह- खाग्निचयनसहितपौण्डरीकयाजिगणेशदीक्षिततनूजगोपीनाथदीक्षित. विरचितावां श्रीमद्भगवत्सत्याषाढहिरण्यकेशिसूत्राम्बुधिगतनि- गूढार्थरत्नालाभकृतविद्वज्जनसंतापशामिकायां ज्योत्स्ना- ख्यायां वृत्तौ सप्तमप्रश्नस्य प्रथमः पटलः ॥ १ ॥ ख,ग,पिनि कि'। ख. ग. रवि०पटलः ] . गोपीनाथभट्टकृतज्योत्स्नाण्याख्यासमेतम् ।

7.2 अथ सप्तमप्रश्ने द्वितीयः पटलः ।

प्रायणीयायास्तन्त्रं प्रक्रमयति ।

प्रपद्यतेऽनया यज्ञं दीक्षित इति प्रायणीया तत्संबन्धितन्त्रं कर्मकलापस्तं प्रक्रमयति आरमत इत्यर्थः । स्वार्थे णिजयम् । अथवा परार्थ एव णिच् । तत्र प्रयोजको यज- मानः प्रयोज्योऽध्वर्युरिति । अनेनेदं ज्ञाप्यते प्रायणीयायास्तन्त्रस्य प्रक्रम कुर्विति प्रेरणावाक्यं प्रयोक्तव्यमिति । एतच्च प्रायणीयायामेवादृष्टामिति ज्ञेयम् ।

तत्र यावक्रियते तद्व्याख्यास्यामः।

तत्र प्रायणीयासंबन्धिनि तन्त्रे यावत्कर्तव्यं तन्त्रं तयाख्यास्यामो नानानुतिभ्य उप- संहत्य कथयिष्याम इत्यर्थः । अपूर्वत्वमेतस्या इष्टर्योतयितुमेवैतत्सूत्रम् । अथ प्रायणीया तत्र यावस्क्रियते तयाख्यास्याम इत्येतावत्येव लाघवाद्वक्तव्ये प्रायणीयायास्तन्त्रं प्रक्रम- यतीति गुरुसूत्रकरणमध्वर्युतन्त्रविषय एवापूर्वत्वं न हौत्रादितन्त्रविषय इति । तेन देवा यो इत्यादि वाचस्पत इत्यादि च प्रकृतिवत्सर्वमत्र भवत्येव । अत्र यत्प्रापणे तत्संबद्धत्वेनान्या- न्यपि कर्माणि प्राप्नुवन्ति तत्परो.यावच्छब्दः । तेनेमाबहिराहरतीत्युक्तौ न केवलमाहरण- मात्र कित्वसिदादानादिकः सर्वोऽपि विधिर्भवति बर्हिषः प्रोक्षणादिकं च । एवमन्ये- वपि द्रष्टव्यम् । एतादृशकर्मभिन्न चोदकपरिलोपकत्वाइपूर्वत्वम् । तच्च चोदकयाज्य- भागप्राशिवहरणादि । अपूर्वत्वमूलीभूता श्रुतिः साक्षाद्यद्यपि नास्ति तथाऽपि भगव- दाचार्यवचनबलादनुमीयत इति ज्ञेयम् ।

अग्नीनन्वाधायेध्माबर्हिराहरति ।

अपूर्ववादप्राप्तमन्वाधानं विधीयते । इष्टेः कृत्स्नत्वपक्षे त्वपूर्वत्वामावेऽपि परैः प्रतिषिद्धत्वाद्विधानम् । ननु अग्नीनन्वाधाय बहिराहरतीत्येतावदेव वक्तव्यमिध्माह- रणं तु सप्तदश सामिधेन्य इत्यादिविधानादेव सिध्यतीति चेन्न । तस्याऽऽघारसमि- परिधिसहितेमाहरणप्रापणार्थत्वात् । तेनाऽऽघारपरिधिपरिचानं च सिद्धं भवति । क्रमप्राप्तानुवाद इष्टेः कृत्स्नत्वपक्षे पौर्णमासतन्त्रत्वख्यापनार्थः ।

सप्तदश सामिधेन्यो नानूयाजसमिधमुपसंनह्यति यद्यनूयाजा न भवन्ति ।

नानूयानसमिधमुपसनह्यतीत्येतावदुच्यमानेऽन्यानसत्वेऽपि अपूर्वस्वादन्याजसमिद- भावः स्यात्तद्वारणार्थ यद्यनूयाना न भवन्तीति । अनूयाजा न वा भवन्तीत्यनूयाना- भावविधानादेवानूयानसमिधस्तत्संबन्धित्वादभावसिद्धौ नानूयाजसभिधमुपसंनह्यति यद्य- नूयाना न भवन्तीति विशिष्टं वचनं कृत्स्नत्वपक्षेऽन्याजानां विकल्पो. न. भवति किं तु नियता एवेतिज्ञापनार्थम् । आतिथ्यायामन्याजाभावेऽपि अनूपाजप्तमिदस्ति । साच है सत्त्यापाडविरचितं श्रौतसूत्रं- [सप्तमप्रश्ने- समिधो अन्न आहुतेल्यस्या प्रक्षेपणीयदारुभिः सहैव प्रक्षेपणीयतिक्षापनार्थम् । सूत्रा- यस्तु स्पष्ट एव ।

वेदं कृत्वाऽग्नीन्परिस्तीर्य पाणी प्रक्षाल्योलपराजीꣳ स्तीर्त्वा यथार्थं पात्राणि प्रयुनक्ति स्थालीं कपालानाꣳ स्थाने प्रयुनक्ति ।

वेदं कृत्वेत्यनेन वेदसंबद्धकर्मणां सत्तं सूच्यते । अन्यथा बेदकरणस्य निरर्थ- कत्वापत्तेः । वेदसंबद्धकर्माणि वेदिसंमार्जन वेदेनोपयम्योपविलं स्थाल्या जुई धार- यमाण इति वेदेनोपवाज्येति । वेषाच्छादनस्य बहिष्प्रयोजनत्वेन वेदिकरणं विना पेद्यसंभवेन बहिराहरणविधिवगद्वेदिकरणमपि सूचितं मवति । वेदं कृत्वेति क्त्वाप्रत्य- थान्तोऽनुवादो वेदकर्ताऽध्वर्युः स एवात्राग्निपरिस्तरणकर्तेति समानकर्तृकत्वार्थः । अनेनाऽऽसीधादीनां निवृत्तिरत्र । भग्नीपरिस्तीति त्यप्प्रत्ययान्तोऽनुवादः समान. कर्तृकत्वार्थः । तेन पाणिप्रक्षालनकर्ता यः स एवाग्मिपरिस्तरणकर्तेति । तेन पाक्षिकान्य- कर्तृकत्वव्यावृत्तिः । श्रेषस्य त्वारमार्थताया अपि सत्त्वान्न निवृत्तिः । प्रकृती ल्यप्प्रत्यया- न्तप्रयोगादेव पाणी प्रक्षास्येत्यपेक्षितम् । अन्ययाऽग्नीपरिस्तीर्योलपराजी स्तोर्वेस्येव. मुच्यमाने पाणिप्रक्षालनस्य निवृत्तिरेव स्यात् । अतः पाणिप्रक्षालनानिवृत्यर्थमिदं वचनम् । पाणी प्रक्षास्यत्ययं स्यप्प्रत्ययान्तोऽनुवादः । प्रकृतावेवैवमस्तीति हेतोः । सम्यावस- ध्यपक्षे तयोरपि परिस्तरणम् । उळपाः शुष्कदर्भाः । बल्लनतृणानीति केचित् । उशीरतृमानीत्यन्ये । उर्धतृणानीति परे । तेषां रानी पलिस्तां स्तीत्वा विस्तारयित्वा यथार्थ यथाप्रयोजन पात्राणि प्रयुनक्तीत्यर्थः । यथार्थमितिषचन प्रयोजनामाववतां शम्यादृषदुपलाकुटरुपिष्टभर्जनामेक्षणाबाहार्यस्थालीमदन्तीपात्रयोक्त्राणां निवृत्ति प्रद- शयितुम् । अपूर्वत्वपक्षे प्राशिवहरणस्यापि । स्थाली कपालाना स्थाने प्रयुनक्तीति वक्ष्यमाणसूत्रादेव कपालानां निवृतिः। नच हषदुपलयोः कुटरोश्व शम्यया समाहननपक्षे शम्याया वा समाहननार्यमासादनमस्तु इति वाच्यम् । चरौ समाहननस्य दृषदुपलसं- स्कारार्थत्वेन प्रकृते दृषदुपलयोः प्रयोजनाभावेन तदभावे तत्संस्कारस्य समाहननस्या- प्यभावात् । समाहननाभावादेव तत्करणस्य कुटरोः शम्याया वाऽपि निवृत्तिः । स्पष्ट सर्वमेतदाह भरद्वाजः-असति द्रव्ये कर्मलोपो यथा चरौ समाहननमायेभ्यो निनय- नमिति । तत्र द्वंद्वत्वसंपत्तिरेवम् - स्फ्यः समेक्षणस्थाली चेति द्वंद्वम् । कृष्णाजिनं तृणं चेति द्वंद्वम् । सूत्रान्तरे द्वंद्वतार्थ तृणप्रयोगस्य विहितत्वात् । आज्यस्पाली तृणं चेति द्वंद्वम् । पात्री तृणं चेति द्वंद्वम् । प्राशित्रहरणामावे वेदं तृणं चेति द्वंद्वम् । स्तीति क्याप्रत्ययेन तूष्णीं दक्षिणां तूष्णीमुत्तरामिति ब्रह्मयजमानसदनकरणं च व्यावय॑ते । अथवा राजीमिति भातावेकवचनम् । तेन तूष्णी दक्षिणां तूष्णोमुत्तरामिति भवत्येव । ब्रह्मयजमानसदनकरणं त्वत्र व्यावृत्तत्वात् सयोरुपवेशनकाल एवाध्वर्युणा कर्तव्यम् । [२द्वि पटलः ] गोपीनाथमट्टकृतज्योत्स्नाव्याख्यासमेतम् । दर्मास्तरणपात्रप्रक्षालने तु भवत एव । तयोरङ्गत्वेनाव्यवधायकत्वात् । स्थाली लोकप्र. सिद्धा त कपालानां स्याने कपालानामतिदेशप्राप्तानां चरुषाकासमर्थानां स्थान तत्प्रयो- जन उद्देश्य पात्रप्रयोगकाले प्रयुनक्ति । उत्तरसंस्कारानपि तुल्यान्कपालवदित्यर्थोऽन्य- स्मिंश्च द्रव्य इति सूत्र उदाहत एव । चरुकस्पान्व्याख्यास्यामः स्थाली कपालानार स्थाने प्रयुनतीत्यादिनैवात्र सिद्धरत्र पुनर्वचनमपूर्वत्वेन कपालधर्माणामप्राप्तिः स्याचा पारयितुम् । स्पाली कपालानार स्थाने प्रयुनक्तीतीतरचरुधर्मप्रदर्शनार्थम् ।

निर्वपणकालेऽदित्यै प्रायणीयं चरुं निर्वपति पयसि श्रपयति ।

प्रकृष्टमयनै गमनं यज्ञं प्रति यज्ञेन सह संबन्ध इति यावत् । तत्प्रायणं तदहतीति प्रायणीयः । प्रधानस्य दूरत्वेऽपीत आरम्प प्रधानकालपर्यन्तं वर्तमानत्वमेवात्र प्रकर्षः। तत्र प्रधानकालवर्तमानत्वं निष्कासद्वारा । अयधातोगत्यर्षकत्वेऽपि प्रकृते संबन्धार्थ- कत्वं सौ क्रियते । दृष्ट ह्यन्यत्र घातूनामनेकार्थत्वम् । निर्वपणकाल इति वचनं पवित्र- करणादिसूचनार्थम् । अन्यथाऽपूर्वत्वेनाप्राप्तिः स्यात् । प्रायणीयमिति ब्राह्मणन्याषि- ख्यासयेति द्रष्टव्यम् । पयति प्रणीतावत्प्रणीते पयसि नतु वत्सापाकरणादिभिधर्मरुत्पा. दिते पयसि । तथाच नवमाध्याये चतुर्थपादे जैमिना-प्रदानदर्शनं श्रपणे तद्धर्म मोजनार्थत्वात्संसर्गाच मधूदकवत् । अधर्म विप्रदानात्प्रणीता विधानादतुल्यत्वादसंसर्ग इति । आदित्यः प्रायणीयः पयति चरित्यत्र परोदेवतासंवन्धस्य पयसश्चरुसंबन्धस्य च विधौ वाक्यभेदापत्तेर्द्रव्यद्वयविशिष्टदेवतासंबन्धविधिः। आधारस्वं तु पयसः सह- श्रपणादसिद्धमिति प्राप्ते पयस्यादित्यश्वरुरित्यधिकरणद्रव्योमयविशिष्टदेवतासंवन्ध- विधौ वाक्यभेदाभावात्पयसो न प्रदेयत्वम् । अतो न वत्सापाकरणादिमिः पयः संबध्यते किंतु प्रणीताधमरेवेति सिद्धान्तः । सूत्रार्थस्तु-श्रपणे सहश्रपणे प्रदानमपि सह दृश्यते चरोः पयसा सह त्यज्यमानत्वानुमवात् । अतस्तद्धर्म तस्य प्रदेयस्य धर्मा- यस्मिंस्तथाभूतं भोजनार्थत्वाद्यागार्थस्वान्मधूदकवत्संसर्गाचित्रष्टिवरिति पूर्वसूत्रार्थः । उत्तरसूत्रार्थस्तु-अधर्म न विद्यन्ते धर्माः प्रदेयधर्मा यस्य तदधर्म । मधू. दकदृष्टान्तवैलक्षण्यद्योतनाय तुशब्दः । अप्रदानात्प्रदानाभावात् । दधि मधु घृतमापो धानास्तसंसृष्टमितिवदत्र सह श्रपणं नास्ति उभयोरत्र समप्रधानत्वामावात् । तर्हि पयसो विधानं किमर्थमिति चेदित्यत आह-प्रणीताईं. विधानादिति । अतश्वरुवरप्र. पमानिर्देशो नास्ति किंतु सप्तमीनिर्देशः । सप्तम्या घाऽऽधारमतत्वम् । अत एवातुश्य- स्वादित्युक्तम् । अतो न प्रदेयधर्मा इति । असंसर्गः, मध्दकवत्संसर्गो न मवति । तुल्यव्यसंसर्गों न ति कित्वापिकः संसर्ग इति । यजुरुत्पूते वा अपयति । - क. स. ग. वमप्र । सत्याषाढ़विरचितं श्रौतसूत्रं-- [.७: सप्तमप्रश्वे:-

चतुर्ग्रहीतान्याज्यानि गृह्णाति यद्यनूयाजा न भवन्ति ।

प्रथमगणस्य प्रयाजार्थत्वात्तमेव गृह्णाति । द्वितीयगणस्य त्वन्यानार्थत्वान्न त गृह्णाति भन्याजाभावपक्षे । भनूयाजसत्त्वे तु तमपि गृह्णातीत्यर्थः । चतुर्गृहीतमेवो- पभूति यद्यनूयाजा न भवन्तीत्येवं वक्तव्यं तावतवाष्टगृहीतव्यावृत्तौ चतुर्ग्रहीतान्या. ग्यानि गृह्णातीत्येवं वचनं प्राकृतं पाक्षिक पञ्चगृहीतं व्यावर्तयितुम् । यद्यन्याना न मवन्तीति वचनमेतद्वचनाभावेऽन्याजसत्त्वेऽपि उपभूति चतुगृहीतमेव स्यान्नाष्टगृहीत. मिति तव्यावर्तयितुम् । आज्यपदग्रहणेनेदं ज्ञाप्यते पदार्थामावाधीन एव विशेषो निर्वप- णोत्तरं नत्वपूर्वकृतो विशेष इति । तेनैतदुत्तरं प्राकृतं सर्व तन्त्रं भवति ।

षड्ढोत्रा प्रायणीयमासादयति ।

चसमिति शेषः । तस्याः प्रायणीयया कल्पो व्याख्यात इति वक्ष्यमाणसूत्रानुदय- नीयायां चरोरासादने षड्ढोतुः प्राप्तिः स्यात्तां वारयितुं प्रायणीयमिति वचनम् । अहो- मार्थत्वादग्रहोऽस्वाहाकारः षड्ढोता । अत्र सूर्य ते चक्षुरित्येव षड्ढोता नतु वाग्यो. तेति प्रायश्चित्ती बाघोतेति श्रुतौ सूत्रे च प्रायश्चित्तीति श्रवणात्तस्य प्रायश्चित्त एकोपयोगात् ।

सर्वमिध्ममादधाति सर्वमौपभृतꣳ समानयते यद्यनूयाजा न भवन्ति ।

सर्वमौपभृतं समानयतेऽन्यानाभावपक्षे । अनूयाजसत्त्वे तु तदर्थं द्वितीयगणस्य गृहीतत्वान्न सर्वस्यौपभृतस्य समानयनम् । अनूयाजसमिधं नावशेषयति औपभृतमाज्यं च | अनूयानाभावादिति भावः । सर्वमिध्ममादधातीतिवचनं प्रतिसामिधेनि वेतिप्राकृत. पक्षान्तरनिवृत्त्यर्थम् । सर्वमौपभूत समानयत इतिवचनं प्रयाजार्थीज्यस्यैकप्रयत्ने. नैवाऽऽनयनं विधातुम् । एतेन ज्ञायते पशुबन्धे चातुर्मास्येषु च सोमे च विगृह्य विगृ. दैवाऽऽनयनमिति ।

आज्यभागाꣳश्चतुरो यजति पथ्याꣳ स्वस्तिं पुरस्तादग्निं दक्षिणतः सोमं पश्चात्सवितारमुत्तरतोऽदितिं मध्ये हविषा स्थालीं निष्कासं मेक्षणं च निदधाति ।

आज्य भागो येषां त आज्यमागा आज्यहविष इत्यर्थः । तांश्चतुरो यनति । कथ- मित्याकाङ्क्षायां पश्या स्वस्तिमित्यादि । हविषा चरुणेत्यर्थः । आज्यभागाश्चतुरो यजतीति सामान्यप्रतिज्ञा । उत्तरत्र चतुर्णा संकीर्तनादेव चतुष्वे सिद्ध चतुरो यजती- त्यत्र चतुर्महणं चतुर्णामेको गणो गणत्वाइब्धयः स्थादब्धो भूयासं पाप्मानं दभेयमि- त्यहेन चतुर्णामन्त एवानुमन्त्रणं भवतीतिज्ञापनार्थम् । पथ्या स्वस्तिमित्यादि सवितार. २द्वि० पटलः ] गोपीनाथभट्टकृतज्योस्लाव्याख्यासमैतम् । मुत्तरः इत्यन्तं देवतादिग्विधानार्थम् । ननु पथ्या स्वस्तिमानि सोम सवितारमित्ये. कैको प्रतिदिशं यनतीत्येतावतैव प्रतिदिशं यागस्य सिद्धौ पुरस्तादित्यादिदिग्वचनं पथ्या स्वस्तिमयनन्प्रांची मेव तया दिशं प्राजानन्नित्याद्यर्थवादज्ञानावश्यकत्वद्योतना- र्थम् । पथ्यास्वस्त्यादीनां धौवमाज्यं तस्य सर्वार्थत्वात् । नन्वदिति मध्य इत्येतावदे- वास्तु चरुलामस्तु पूर्वानुवृत्त्यैव सिध्यति, एवं च हविषेति पचनं व्यर्थमिति चेन्न ।' तस्य पंञ्चानामपि तुल्यत्वख्यापनार्थत्वेन सार्थक्यात् । पञ्चाना प्राधान्यं श्रुतावप्युक्तं पञ्च देवता यजतीति । तेनाऽऽज्यहविष्काणां पथ्यास्त्रस्त्यादीनां प्रधानहविष्ट्वादुपांशु- याजविकारत्वं सिद्धं भवति । नन्वेवं पञ्चानां तुल्यत्वख्यापनार्थ घरुणेत्येव वक्तव्यं किमर्थ हविषेतिवचनमुपात्तमिति चेन्न । तस्य श्रपणोत्तरभाविनामुद्वासनान्तामं हविः- संबन्धिधर्माणामपूर्वत्वेनाप्राप्तानां प्राप्ति द्योतयितुमुपात्तत्वात् । आज्यमागशब्दः प्रकृते कर्मनामधेयम् । आज्यमागाम्यामाझ्यहविया प्रचरतीति निर्देशात् । आज्यं च निदि- ष्टमस्ति सर्वार्थत्वातच धौवं हविर्भवति । एवं च नैषां प्राकृताज्यमागकार्यभाव तेन प्रधानहवींप्येवैतानि । सूत्र भाज्यभागशब्दश्च यौगिकत्वादाज्यहविष्कत्वमेषामनवदति सरस्वत्याज्यभागा वायव्य आज्यमाग इतिवत् । उदयनीये पथ्यार स्वस्तिमुत्तमामाज्येन देवतां यजतीतिवचनादप्येषां प्रधानस्वमवगम्यते । यत्र द्विवचन निर्देशो यथाऽनुप- दावाज्यभागी जीवन्तावाज्यभागावित्यादिस्तत्रैव प्राकृताज्यभागयोः संप्रत्ययो नान्यत्र । अतः पृथगाज्यभागावपि चोदकप्राप्ती कर्तव्यो । आश्वलायनीयहौत्रे पोर्णमासेनष्टि- पशुसोमा उपदिष्टा इति सूत्राबार्बनौ । याजुषहौत्रेऽपि पौर्णमासतन्त्रत्वाद्वानावेव । प्रधानदेवतायाज्यानुवाक्यास्त्वाश्वलायनोक्ता एव । नचाग्निसोमसवित्रदितिदेवतालिङ्ग- कानां महीनां याज्यानुवाक्यानां स्वशाखायां सत्तात्स्वशाखास्थानामेव यासां कासांचि. ग्रहणम् । पथ्यास्वस्तिदेवतालिङ्गकयाज्यानुवाक्ययोरमावात्तावतो(त्यो राश्वलायनो- क्तयोरेव ग्रहणमिति वाच्यम् । स्वसूत्रे प्रायणीयाप्रयुक्तयाज्यानुवाक्यानामविहितत्वे- नाऽऽश्वलायनेन विहितत्वेनाविहितविहितानां मध्ये विहितानामेव ग्रहणस्य युक्तत्वात् । हौत्रशास्त्रविषये स्वसूत्रे वचनामाव आश्वलायनोक्तस्यैव प्रबलत्वाच्च । नचैवमाश्वला- यनोक्तानाम ग्रहणमस्तु माऽस्तु यासां कामांचित्तथाऽपि पाठस्तु स्वशाखारीत्यैव भवत्विति वाच्यम् । एतस्य मन्त्रपाठस्यात्र सावकाशत्वेनाविधानानुरोधेन तत्पाठस्यैव ग्रहीतुमुचितत्वात् । सवितृदेवताविषयकयाज्यायाः स्वशाखायाममावेन तदुक्तयाज्यान- हणं तदनुरोधेन तदुक्तानामेव चाऽऽश्वलायनपाठस्यैव ग्रहीतुमुचितत्वात् । विना निर्वा- हाम्रभवेनैतस्या ग्रहण इतरासामपि तच्छाखागतानामेव प्रहर्ण प्रकरणनियमितत्वात् । शाखापठितमन्त्रनिर्वाहासमवेनाऽऽनदीनामेवात्र ग्रहणात् । एताभ्यामिष्ट्रोपांशुयाजधर्मे- 1 क. "दिविधा । - - ६२० सत्यापाढविरचितं श्रौतसूत्र- [सप्तमप्र- जैताश्चतस्रो देवता यष्टव्याः । आज्यमागाविष्टाऽऽज्येन देवताश्चतस्रो यजतीति कात्यार यनः । कल्पकारश्च सन्नावेण पञ्चकृत्यो ध्रुवाममिधारयतीति ब्रुवन्नाज्यमागयोः सत्तं प्रदर्शयति । तत्र प्राकृताज्यभागार्थमेकमभिधारणे दृष्टम् । उपांशुयानचतुष्टयार्य चत्वारि । प्राकृताज्यभागयोः सत्त्व एवैतद्वचनमुपपद्यते नान्पथा । तस्माद्विद्यते एवाऽऽज्यभागाविति । अन्यत्तु मतम्-अस्त्वेतेषां प्रधानहविष्टमिहाऽऽज्यमागयोरनुप- देशात् । आतिथ्यायामुपदेशाच्चक्षुषी वा एते यज्ञस्येत्याग्यमामकार्यस्य चक्षुषः ।चक्षुषी वा एते यक्षस्य यदनीषोमावित्यत्राग्नीषोमयोदर्शनात्। सूत्रस्थस्याऽऽज्यमागशब्दस्याss. ज्यभागनिवृत्त्यर्थत्वाच्च प्राकृतावाज्यभागौ न भवत इति । आज्यमागाविष्ट्वा पोते. त्याश्मरथ्यस्तावेतौ न मवत इत्यालेखन इति भरद्वाजः । शंम्वन्ते यमनाज्यभागेत्याश्चला. पनः । मेक्षणेन चरूणामिति परिभाषया मेक्षणेनावदानम् । भदितियागानन्तरं मारुती- मृचमनूयात् । अदितिमिष्ट्या मारुतीमृचमन्वाहेति श्रुतेः । तत्र प्रक्षेपानन्तरमेवेति केचित् । अनुमन्त्रणान्त इत्यन्ये । प्रत्याक्रमणानन्तरमिति परे । इष्देति क्त्वाप्रत्ययात्प्रक्षे. पानन्तरमेवेति युक्तम् । मन्त्रसमानाये सूत्रे चानुक्तत्वात्कृताकृतं मारुत्यनुबवणम् । सा प मरुतो यद्धव इत्युक्ता बौधायनेन । समारूपावशादध्वर्युकर्तृकं मारुत्यनुबवणम् । नात्राऽऽधानीयादित्यवरुधर्माः। प्रापकामावात् । स्थाली चरुस्थाली । निष्कासः स्थालीमेक्षणसंलग्नो लेपः । चलोडनार्थी दर्वी मेक्षणम् । निष्कासस्य स्वतन्त्रतयोपा- दानास्पालीतः पृथस्कृत्यैव प्रज्ञातं निदधाति शिक्यादौ । एवं स्थालीमेक्षणे अपि प्रज्ञाते स्थापयितव्ये । निधानवचनादेव मेक्षणानुप्रहरणं न निष्कासनिधानबलादितरस्य हविःशेषस्य कृत्स्नस्य विष्टकृदादिचतुर्धाकरणान्ता कृत्स्नाऽपि प्रतिपत्तिरस्तीति गम्यते । अन्यथा स्थाली चरुशेष मेक्षणं च निदधातीत्येव ब्रूयात् । तस्मालेपमात्रं निधातव्यं तव्यतिरिक्तस्य सर्वाः स्विष्टकृदादयो यथायथं प्रतिपत्तयः कर्तव्या एवेति । अपूर्वस्वा- स्पाशित्रनिवृत्तिः प्राशिवमपि प्रतिपत्तिरिति केषांचिन्मतम् । अस्मिन्पक्षे प्राशिवमपि भवत्येव । चातुर्धाकरणिकब्रममागं ब्रह्माऽपि सः सहैव भक्षयति । शंयुवाकान्तत्वा- दिष्टेः शंयुवाकान्ते वा । एतचावशिष्टप्रतिपत्तिकर्मणामननुष्ठानपक्षे । अनुष्ठानपक्षे तु क्रमप्राप्ते स्थाने शेषकरणात्याङ्निधानमुत्सर्गकाले वा । अनेन त्यागो व्यावय॑ते । चकारः साहित्यार्थः । तेन त्रयाणामेकत्रव निधानं भवति ।

ध्रुवायाः शेषं करोति ।

पूर्ववयाख्येयं, प्रयोजनं च पूर्ववत् ।

शंय्वन्ता कृत्स्ना वा ।

भवतीत्येव शेषः । कृस्त्रा मवति न यजमानमागमवयति । यदि शंयन्तस्येतावतैव पाक्षिकर्शवतत्वलामे शवन्तेतिवचनं शंयवन्तत्वपक्ष एवायमपूर्ववप्रकारो न करनत्व. २ द्वि०पटल: ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । पक्ष इतियोतनार्थम् । तेनान्वाधानप्रभृति कृत्स्नमपि कर्म भवति नतु शंषन्तत्वमात्र. निवृत्तिः । शंखिडान्तत्वे विकल्पः स्यात्परेषु पत्न्यनूया नस्य प्रतिषेधोऽनर्थकः स्यात् , नित्यानुवादो वा कर्मणः स्यादश(शा)ब्दत्वादितिनैमिनिन्यायानुगुणत्वात्स्वशाखानुगु- णत्वाच पूर्वः पक्षो मुख्य उत्तरो दुर्वलः । स च न्यायो दशमाध्याये सप्तमे पादे वर्तिते । सूत्रार्थस्तु शॉविडान्तस्वविधानादेव तदुत्तरकर्मनिषेधः सिद्धस्तेनैव पत्नीसंथाना- नूयाननिषेधसिद्धौ पुनरूमयोनिषेधोऽनर्थको व्यर्थः स्यात् । अत उभयोनिषेधोऽङ्गान्त- राणामकर्तव्यताप्रतिषेधेन कर्तव्यताविधानार्थ इत्यवश्यं वक्तव्यम् । पत्नीसयानानेव न कुर्यात्, अन्यानि तु कुर्यादेव । अनूगाजानेव न कुर्यात्, अन्यानि तु कुर्यादेवेति । तेन पत्नीसंयाजान्यानप्रतिषेधेन कृत्स्न संस्थाविधानाच्छंविडान्तवचनेन तत्संस्थाविधाना- हुयोः संस्थयोर्विरोधाद्विकल्पो भवेदिति पूर्वसूत्रार्थः । उत्तरसूत्रार्थस्तु नित्यानुवादो नित्यत्वाय शंखिडान्तविधेनित्यत्वाय । अयमेव विधिनित्यो न कृत्स्नसंस्था । तस्मा- प्रशस्तोऽयमेव विधिरिति प्राशस्त्यायानुवादो नित्यानुवादः । वाशब्दः पूर्वपक्षव्या- वर्तकः । नित्यानुवादो निषेधो नतु पत्नीसंथानानूयाजेतरकृत्स्नकर्मविधायक इति । कुतः, कर्मणः पत्नीसंपानानूचानातिरिक्त कर्मणोऽश(शा)ब्दत्वाच्छन्देन विधिना गम्यः शाब्दो न शाब्दोऽशाब्दस्तस्य मावस्तत्वं तस्मात् । कृत्स्नसंस्थापरतायां स्पष्टो विधिर्नास्ति येन विकल्पो वक्तव्यः । नित्यानुवादत्वेनोपपत्तेषिधिपर्यवसानकल्पनमयु. क्तम् । तथाच नैव कृत्स्नसंस्थेति संस्थाप्यपक्षे पत्नीसंयानानां विकल्पः । तथाचाss. पस्तम्बः-शंवन्ता सस्थाप्या वा पत्नीस्तु न संयाजयेत्ता उदयनीये संयाजयेत्समे वा कार्ये इति । समे उभे अपि पत्नीसयाजवत्यावित्यर्थः । ननु प्रकृतौ द्वौ शंयू पत्नी- संयानानां पुरस्तादेकः पश्चादन्यः । तत्रोत्तरेणैव शंयुना तदन्तताविधिः । एवं च शाखान्तरीयः , पत्नीसयाजनिषेधोऽप्यर्थवान् । अन्यथाऽनुवादमात्रत्वापत्तेः । अतः पत्नीसंयानबर्नमुत्तरशंम्वन्तं सर्व कार्यमिति पेन्न । प्रयोगोपरमस्यैव शंस्वन्तत्वे निमित्ते विधानात्पूर्वस्मिन्नपि शंयौ कृते निमित्तस्य संजातत्वेन तत्रैवोपरमस्य युक्त- स्वात् । पत्नीसंयाजप्रतिषेधस्तु नित्यानुवादत्वेनार्थवादमात्रमौचित्येन शय्वन्तरवस्तुत्यर्थ न विरुध्यते । तथाच दशमेऽध्याये षष्ठे पादे जैमिनिः- 'प्रतिषेधार्यवत्वाचोत्तरस्य परस्तात्प्रतिषेधः स्यात् , प्राप्तेर्वा पूर्वस्य वचनादतिक्रमः स्यात्' इति । सूत्रार्थस्तु पत्नीसंयाजानूयानप्रतिषेधार्थवत्वादुत्तरस्य शंम्विडस्य परस्तावत्कर्तव्यं तस्य प्रतिषेधः स्यादिति । तथाचानुवादों न भवति निषेधे किंतु इतरकर्तव्यताबोधक एवेति । तथाच पूर्वाधिकरणसिद्धान्तोपरि आक्षेपकमिदमधिकरणमिति : पूर्वसूत्रार्थः । उत्तरसूत्रार्थस्तु पूर्वस्य शंखिडस्य प्राप्रतिक्रमो वचनात्स्पष्ट वचनात्स्यात् । उपस्थितपरित्यागे सर. वचनाभावात्पूर्वत्रैवोपरम इति । - ६२२ सत्याषाढविरचितं श्रौतसूत्र- [सप्तमप्र-

न यजमानभागमवद्यति यदि शंय्वन्ता ।

शंयुनाऽन्तो यस्याः सा शंय्वन्ता । शंयुवन्तेति पाठोऽपपाठ एव । न यजमानभा. गमषधति सर्वेषु सौमिकेविष्टिपशुबन्धेष्वित्यनेनेष निषेधसिद्धाविदं वचनं कृत्स्नायां यजमानभागनिषेधो नात्र प्रवर्तत इति बोधयितुम् । कृत्स्नायां यनमानभागसत्त्वमनेन गम्यते । ध्रुवाशेषस्याग्रे कार्यान्तरविधानारसंस्थाप्यपक्षेऽपि न समिष्टयजः । नच यज्ञ- विमोकः । संस्थाप्यपक्षेऽन्तिमप्रायश्चित्तामृत्यर्थग्रहणयोर्नाऽऽप्यायनम् । स्विष्टकृदभिधार- णद्वये त्याप्यायनं भवत्येव । दक्षिणादानवर्ने ब्राह्मणभोजनान्तमितरत्सर्वे भवति ।

अत्र राज्ञो निवपनमेके समामनन्ति ।

राज्ञो निवपनमुत्तरवेविदेश इत्यारभ्य प्रैषान्तं कर्म प्रागुक्तं तत्तत्र न कर्तव्यं कित्य- त्रास्मिन्काले कर्तव्यमित्येक आचार्या वदन्तीत्यर्थः ।

ध्रुवाशेषाच्चतुर्गृहीतं पञ्चगृहीतं वा गृहीत्वेयं ते शुक्रतनूरिति दर्भेण हिरण्यं निष्टर्क्यं बद्ध्वाऽऽज्येऽवदधाति ।

चतुरवत्तिनश्चतुर्ग्रहोतं पञ्चावत्तिनः पञ्चगृहीतमिति व्यवस्थितविकल्प इति केचित् । प्राकृत ध्रुवाप्यायनम् । निष्टक्यं शिखाबन्धनवद्दर्भेण हिरण्यं वलयाकृति बद्ध्वा जुला गृहीत आज्येऽवरधाति येन हिरण्यं बद्धं तं दर्म धृत्वा दर्मबद्धं तद्धिरण्य जुह्वां गृहीत आज्येऽवनतः सन्तिपतीत्यर्थः । निष्टक्र्यशब्दश्छन्दसि निष्टक्र्यदेवयेति सूत्रेण निपातनात्साधुः । गच्छेत्यन्तो मन्त्रः । प्रसूनरहिता दीर्घा दीः । कुशास्तु हृस्याः सप्रसूनाः । यत्परुषि दिनं तद्देवानामिति श्रुतेर्देवकार्येष्वेते दर्माः पर्वच्छिन्ना एव । यत्समूलं तत्पितॄणांमिति श्रुत्या पितृकार्येषु समूलत्वोत्केरीदेवकार्येषु अमूलस्वं दर्भेषूक्तं भवति । तृणं तु च्छिन्नामो दर्भ इति सार्वत्रिकम् । रजतसुवर्णयोहिरण्यस्वा. विशेषेऽपि तस्मात्सुवर्ण हिरण्यं भार्यमित्यादिना सुवर्णरूपहिरण्यस्पैव सर्वदा धार्य- त्योक्त्या पवित्रत्वोक्ते रजतस्य दुर्वर्णत्वेनामङ्गलवात् ।

अमङ्गलं तद्यत्नेन देवकार्ये विवर्जयेत् ।

इति स्मृतौ देवकार्य तनिषेधादश्रुजत्वेन निन्दितत्याच सर्वत्र देवकार्ये सुवर्णात्मक- हिरण्यस्यैव ग्रहणं नतु दुर्वर्णरजतात्मकस्य । तत्र हिरण्यस्य मानमैच्छिकम् । सस्मि- नवदधातीत्येतायतैव सिद्ध आज्यग्रहणं श्रुतौ घृतशब्द आज्यमात्रमाचष्टे नतु यदधि- यत तवृतमभवदितिश्रुतिसिद्धघनीभूतमेवाऽऽज्यमाचष्ट इति दर्शयितुम् । अतो पनी- भूतत्वस्यावधानसमये न नियमः ।

उपक्लृप्ता सोमक्रयणी समङ्गा बन्धुमती यथाऽग्नीषोमीयो बभ्रुररुणा रोहिणी वोपध्वस्ता प्रपीनाऽथ वा । । २ द्वि पटलः ] गोपीनाथभट्टकृतज्योत्नाम्याख्यासमेतम् । ६२३.

रोहिणी पिङ्गाक्षी बभ्रुलोम्नी श्वित्रोपकाशा पृश्निवाला पृश्निशफैकहायनी द्विहायनी त्रिहायणी वा जूरसीति तामीक्षमाण एतच्चतुर्गृहीतं जुहोति ।

अन्वारब्धे यजमान इति बौधायनः । सोमः कोयते यया गवा सा सोमक्रयणी सोपकप्ता भवति । उपकृति भूतनिर्देशादेतदिवसानुष्ठानारमात्पूर्वमेवोपकरुपनं कर्त. न्यमित्यवगतं भवति । समझा संपूर्णाङ्गा । बन्धुमती, अत्र बन्धुशब्देन स्वहिता मातृ- पितृभ्रातृसखायो गृह्यन्ते । तेन मातृपितृभ्रातृसखिमतीत्यर्थो भवति । अनु वा माता मन्यतामनु पिताऽनु भ्राता सगर्योऽनु सखा सयूथ्य इति मन्प्रवीदयमर्थो लभ्यते । यथाऽनीषोमीय इत्यनेन वक्ष्यमाणे स्थूलत्वपीवत्वे अतिदिश्यते । यथा निरूतपशुनन्ध इत्यमीषोमीये वचनादुपकृतः पशुरकूट इत्यादौनि पशुसूत्रोक्तानि लक्षणान्यप्यतिदि. श्यन्ते । उपक्लृप्ता सोमक्रयणी यथाऽनीषोमीय इत्येतावतैव समङ्गत्वमन्धुमत्त्वसिद्धौ पुनर्वचनं समङ्गत्वबन्धुमत्त्वे एवाऽऽवश्यके न यमान्यतरत्वं स्थूलत्वं पीवत्वं चापीति कृष्णश्वेतत्वं तु बभ्रुत्वादिविशेषविधानादेव निवृत्तं भवति । बभ्रुः पिङ्गला । अरुणा कपिशवर्णा । रोहिणी सत्युपध्वस्ता, उपध्वस्ताऽन्येन वर्णेनाभिभूतो यो वर्गः स उपध्वस्तस्तद्वती क्वचित्प्रदेशे केवलरोहिणी क्वचित्प्रदेशे मिश्रितवर्णी, एतादृशवर्णद्वय- विशिष्टेत्यर्थः । बभ्रुवर्णा, अरुणवर्णा, लोहितमिश्रितवर्णात्मकवर्णद्वयवतीति त्रितयान्य- तमा सोमक्रयणीत्यर्थः । रोहिणी, उपध्वस्तेति द्वयोः पृथकपदार्थत्वेऽने रोहिणीपदवैय. यांपत्तिरतो विशिष्ट एव पदार्थः । न चैवमपि तद्दोषतादवस्थ्य शङ्क्यम् । तस्य केवलरोहितवर्णपरत्वेन तदभावात् । प्रपीना मांसला । केचित्तु अप्रपीनेतिपदच्छे कृत्वा प्रपीनोष्ट्रोमसदृशवर्णा तदन्येति व्याचक्षते । मध्येऽथशब्दो भिन्नकमार्थः । सेनेत उत्तरं सर्व समुच्चितमेव विकल्पते । अत्राऽऽपस्तम्बो विशेषमाह-द्विरूपया राजन्यस्येति । द्विरूपा श्वेतकृष्णा । यच्छेतया क्रीणीयादुश्चर्मा यजमानः स्यायत्कृष्ण- याऽनुस्तरणी स्यात्प्रमायुको यजमानः स्यादिति पूर्वत्र तयोरेव वर्णयोरुपक्रान्तत्वात् । षोडश्यादौ विशेषो वक्ष्यते । रोहिणी केवलरक्तवर्णा । पिङ्गाक्षी पिङ्कनेत्रा । बभ्रुलोम्नी प्ररूढकपिलवर्णलोनी नानाजातीयवर्गोमभिः क्वचिवचिदुपेता वा । श्वित्रोपकाशा श्वित्रं चित्रं कुछ तत्समानवर्णा । बाला अक्ष्णोर्यस्याः सा पृश्निवाला श्वेतपृषत्कवाला । पृश्निशफा श्वेतपृषत्कखरा । एक हायनं यस्याः सहायनी। एवं द्विहायनी त्रिहायणी- त्यत्रापि, हायनशब्दो वर्षवाची, एकवर्षा द्विवर्षा त्रिवर्षा वेत्यर्थः । दामहायनान्ता- त्यनेन सूत्रेण कीप् । त्रिचतुभ्यां हायनस्य णत्वं वाच्यमिति त्रिहायणीत्या णत्वं, वयोवाचकत्वान्कोच्णत्वे युक्त एवात्र । एतच्चैकहायनीत्वादिकं साधारण ज्ञेयम् । नचारुणयैकहायन्या सोमं क्रोणातीत्यत्रारुणगुणस्यामूर्तीवेन क्रयसाधनत्वासंभवासदी - 1 सत्यापाढविरचितं श्रौतसूत्रं- [७सप्तमप्र- यद्रव्येषु वासःप्रभृतिषु सर्वेषु निवेश इति वाच्यम् । अमूर्तस्यापि द्रव्यपरिच्छेदद्वारा साधनत्वसंभवेन द्वारापेक्षायां च स्ववाक्योपात्तैकहायनीसंबन्धस्य कल्पनेनैकहायन्या- मेव निवेशस्य मीमांसकैरङ्गीकारात् । तथा च तृतीयाध्याये प्रथमे पादे जैमिनि:- अ.क्यत्वे द्रव्यगुणयोरेककानियमः स्यादिति । सूत्रार्थस्तु-अर्थक्यत्वे तत्प्रयुक्त. कवाक्यत्वे व्यगुणयोरैककादेकक्रयरूपकर्मार्थत्वान्नियमः परस्परान्वयरूपः स्या- दिति । तां सोमक्रयणी गामीक्षमाणः पश्यञ्र सीति मन्त्रेणतत्पूर्वगृहीतं चतुर्गृहीतं जुहोति । ईक्षमाण इति वर्तमानशानचेक्षणहोमयोः समकालत्वम् । प्राग्वंशाभ्यन्तर एव पुरस्तादाहवनीयस्य प्राङ्मुखी सोमक्रयणी गौः स्थाया । कामादेकद्वारे सर्वतः परिश्रिते बहिःस्थिताया ईक्षणानुपपत्तेः प्राग्वंशाभ्यन्तरे स्थापनम् । एतच्चतुर्ग्रहीत. मिति विशिष्टेनैकवचनेनोभयोपिनियोगादिदं ज्ञायते यत्र यत्रैतच्छब्दपूर्वकचतुर्गृहीत. विनियोगविधिस्तत्र पञ्चगृहीतविधिर्विकल्पते । शते पञ्चाशदिति न्यायेन पञ्चसंख्याया- मपि चतुःसंख्याया अनुप्रवेशाच्चतुर्गृहीतहोम एव सः । अधिकं प्रविष्टं नतु तद्धानिरिति न्यायादधिकसंख्यापवेशेऽपि चतुःसंख्याया हानिनास्ति । न षड्गृहीताद्यतिप्रसङ्ग- स्तत्रापि चतुःसंख्यानुप्रवेशसत्वादिति वाच्यम् । चतुर्मुहीतहोमसंबन्ध्यर्थवादस्य चतु- पादः पशवः पशूनेवावरुन्धे चतस्त्रो दिशो दिक्षेत्र प्रतितिष्ठतीत्यस्य पञ्चगृहीत भवति पाङ्गा हि पशवः पञ्च देवता यजति पञ्च दिशो दिक्ष्वेव प्रतितिष्ठतीत्युभयवाक्य- गतपञ्चसंबन्ध्यर्थवादस्य च समत्वेन षट्संख्यादिषु तदमावेनातिप्रप्तङ्गवारणात् । न्यून- संख्यावारणं तु चतुःसंख्याया अनुप्रवेशामावादेव सिध्यति । अत इदं सिद्धमेतच्छब्द- पूर्वकचतुर्गृहीतविनियोगविधौ पञ्चगृहीतमपि विकल्पत एव तेनापि चतुर्गृहीतहोम- विधिसिद्धिरिति । नच चतुर्गृहीतवचनस्य हिरण्यव्यावृत्त्यर्थत्वमेवास्तु इति वाच्यम् । हिरण्यव्यावृत्तेस्तु घृतादुद्धरतीत्यग्रे विधानादेव तसिद्धत्वेनैतस्य तम्यावृत्त्यर्थत्वानुप- पत्तेः, चतुर्गृहीतवचनवरपञ्चगृहीतवचनस्यापि कर्तव्यतापत्तेश्च ।

अपरं चतुर्गृहीतं गृहीत्वा शुक्रमस्यमृतमसीति हिरण्यं घृतादुद्धरति ।

अपमिति वचनं पूर्वेण संबन्धार्थम् । तेनेयमपि ध्रुवाशेषादेव होतव्या । अपर- मित्येतावत्येवोच्यमाने पञ्चगृहीतस्यापि पक्षे प्राप्तिः स्यात्सा मा भूदित्येतदर्थं चतुर्ग्रही- तक्चनम् । प्रथमयोधुवाप्यायनं धौवसमाप्तिः। घृतवचनमान्यस्य द्रवीभूतत्वं सूचयितुम् । घु क्षरणदीप्त्योरित्यस्माद्धातोरनिवृसिम्यः क्त इत्युणादिसूत्रेण क्तः । एतेन घृतस्यापा- दानत्वमपि निर्वोढुं शक्यं भवति ।

वैश्वदेवꣳ हविरित्यभिमन्त्रयते ।

आज्यमित्येव शेषो नतु हिरण्यं मन्त्रे हविरिति श्रवणात् , आपस्तम्बेन स्पष्ट; तयामिधानाच- - + २ द्वि पटलः .] गोपीनाथभट्टकृतज्योत्स्नाब्याख्यासमेतम् । ६२५

हविरसि वैश्वदेवमित्यवेक्षते ।

अवनतो भूत्वेक्षत इत्यर्थः । अत्राप्याज्यमित्येव शेषः । मन्त्रे हविरिति श्रवणात् । एतदन्तमासीनतैव ।

सूर्यस्य चक्षुरारुहमिति सहिरण्येन पाणिनाऽऽदित्यमुपतिष्ठते ।। ५ ।।

सहिरण्येनेति पाणिविशेषणम् । पाणिनेतितृतीयेत्थंभूतलक्षणे । तेन पूर्वमेवावश्य हिरण्यं पाणी भवति ।

अशून्यं तु करं कुर्यात्सुवर्णरजतैः कुशैः ।

इति स्मृत्या पवित्रत्वेन सर्वदाऽङ्गुलिषु हिरण्यधारणं विहितं ततो भिन्नं पाणितले हिरण्यधारणमपूर्वमनेन विधीयते । स्मृतिसिद्धं यबङ्गुलिषु हिरण्यधारणं तस्यैव कर्मा- त्वमनेन विधीयत इति वा । तेन श्रीतमपि प्रायश्चित्तं कर्तव्यं भवति । अङ्गुलिपु हिरण्यधारणेनापि पाणी हिरण्यधारणं भवत्येव । अङ्गुलोनामपि पाणित्वात् । अन्य- थाऽशून्यं तु करं कुर्यात्सुवर्णरजतैः कुशैरिति करस्य सुवर्णरजतकुशसंबन्धविधानेना- मुलीनां तद्भिन्नत्वेन तत्र धारणस्य स्मृतिविरुद्धत्वापत्तेः । करपाणिशब्दौ हि पर्याय- भूतौ । उपस्थाने तिष्ठत्ताऽऽसीनता वा । नचोपतिष्ठत इत्यत एव तिष्ठत्ता सिद्धति वाच्यम् । उपान्मन्त्रकरण इत्यात्मनेपदविधानान्नात्र तिष्ठत्ता धातुप्रत्यययोरर्थः किंतु मन्त्रकरणमञ्जलिकरणपूर्वकं विनयेनाऽऽशीर्याच्ना । तदुक्तमाहिताग्नेराशीयदग्निमुप- तिष्ठत इति । तस्मादुपस्थानादन्यैव तिष्ठत्ता । यदि उपस्थानान्तर्गतैव तिष्ठत्ताः स्यात्तदा तिष्ठन्ती गार्हपत्यमुपतिष्ठते, उत्तरामाहुतिमुपोत्थाय कवातिपङ्विाऽऽहवनी- यमुपतिष्ठत इत्यत्र यथायथं तिष्ठत्तोपोत्थानविधान न कृतं स्यात् । अतो यत्र यत्र: विधान तत्रैव, अन्यत्र त्वनियम इति सिद्धम् । तथाच मन्त्रप्रतिपाद्य पदार्थ ध्याय- नतिमुद्रायुत आशी:(शिर्ष) प्रार्थयन्मन्त्रं पठेदित्येष उपस्थानशब्दार्थों भवति । अत्र पाणिनेति वचनादञ्जलिना नोपस्थानं किंतु पाणिनैवेति । यत्र यत्र दक्षिणग्रहण क्रियते तत्रैव दक्षिणाङ्गस्य ग्रहणमन्यत्रानियम इति तत्र तत्र दक्षिणप्रणेन ज्ञाप्यते । प्रकृते दक्षिणग्रहणाभावादनियम एव । एवमन्यत्रापि । एतच्च निर्दिष्टाङ्गविषयम् । अनिर्दिष्टाङ्गविषये नु दक्षिणस्यैव ग्रहणं नियतम् । अत्र ज्ञापकं याजुषदर्शपूर्णमास- हौत्रसूत्रे सव्येन तूष्णीमानोधमित्युत्तरसूत्रात्पूर्वत्र दक्षिणस्य प्राप्ती दक्षिणग्रहणमनि. दिष्टस्थले दक्षिणस्यैव ग्रहणमिति । विपश्चितत्यन्तो मन्त्रः ।

चिदसीति सोमक्रयणीꣳ सꣳशास्ति ।

आसीन एव । संशब्दो मन्त्रस्य स्पष्टोच्चारणं गमयति । तेनोपांशुता . निवृत्ताः मवति । अवेक्षणविशिष्टं मन्त्रोचारणं संशासनम् । संशासनवाच्यस्य शिक्षणस्य ६२६, सत्यापाढविरचितं श्रौतसूत्र- [७सप्तमप्रभे- पल्यामेव संभवात्तस्या एव ग्रहणं स्यात्तव्यावृश्यर्थ सोमक्रयणीमितिवचनम् । नन्वेवं तां संशास्तीति तच्छब्देनापि तहणं संभवति किमर्थ सोमक्रयणीमिति वचन मिति चेत्सत्यम् । तच्छब्दस्य प्रसिद्धिवाचकत्वस्यैव संशिक्षणानुरोधेनावश्यं स्वीकर्तव्यतया तदोषतादवस्थ्यापत्तेः ।

मित्रस्त्वा पदि बध्नात्विति दक्षिणे पूर्वपादे बध्नाति ।

आसीन एव । सोमक्रयणीमिति पूर्वस्त्रादनुवर्तते । प्रोवाव्यावृत्यर्थ पादग्रहणम् । एतावानेव मन्त्रः ।

पूषाऽध्वनः पात्विति नयति यत्र सोमोऽबद्धामकर्णगृहीतां बद्धां वा कर्णगृहीताम् ।

पूषाऽध्मनः पाविति मन्त्रेणाबद्धामकर्णगृहीतां बद्धां कर्णगृहीतां वा नयति यत्र मोम इत्यन्वयः । भत्रापि सोमक्रयणीमित्यनुवर्तते । अबद्धामित्यादीनि सोमक्रयणी- विशेषणानि । यत्र सोम इत्यत्र न्युप्तो मवतीति शेषः । अबद्धामकर्णगृहीतामिति पक्षः स्वशाखास्थः । बद्धां कर्णगृहीतामिति पक्षः शाखान्तरीयः । अबद्धां पदि अबद्धां बद्धां पदि बद्धाम् । यदवद्धा स्यादयता स्याउत्पदि बद्धाऽनुस्तरणी स्यात्प्र- मायुको यजमानः स्यायत्कर्णगृहीता वानी स्यात्स वाऽन्यं जिनीयात्तं वाऽन्यो जिनीयानिमत्रस्त्वा परि बध्नावित्याह मित्रो वे शिवो देवानां तेनैवैनां पदि बना- नीति श्रुतौ यदबद्धा स्यादयता स्यादित्यनेन बन्धनं प्राप्यते तच्चाने पदबन्धननिषे- घाडीवाबन्धनविषये पर्यवस्यति । अयताऽनियमिता गमने । अनुस्तरणी मृतसंब- धिनी गौरिव । प्रमायुकः शीघ्रमरणः । वार्चनो शत्रुघ्नो, अथवाऽवद्धां प्रीवायामपि अवदाम् । अनियमितत्वं तु हस्ताभ्यां दाढर्थेन धारणेन संपादनीयम् । बद्धां. ग्रीवायां बद्धाम् । पदि बन्धन तु उभयपक्षेऽपि निषिद्धमिति । मन्त्रपाठमात्रेण मित्रकर्तृकपद्वन्धनं भवति । मित्रस्य कल्याणरूपस्वादनुस्तरणीत्वं तत्प्रयुक्तं यजमाने प्रमायुकत्वं च न । स्वकर्तृकपट्टन्धने हि स दोष इति । एतदर्थंक लिङ्गं स्पष्टं प्रदर्शयितुमेव मित्रस्त्वा पदि बनाविति कृत्स्नः पाठः । उत्तरस्य मन्त्रस्येन्द्राय सोममित्यन्तः।

तस्या वस्व्यसीत्येतैर्मन्त्रैर्दक्षिणेन पूर्वपादेन षट्पदान्यनुनिक्रामति ।

अत्रापि सोमक्रयणीशब्दानुवृत्त्यैव सोमक्रयण्या लाभे तच्छन्दः संशासनवन्धन नयनान्यतरस्य लोपे विस्मृत्याऽनुनिक्रामणे कृते प्रायश्चित्तेन न चारितार्थं किंतु लुप्तं कृत्वा पुनः षट्पदानुनिकामणस्यापि करणमितिज्ञापनार्थः । ननाध्वर्युव्यावृत्त्य- पत्वं तस्य स्त्रीलिङ्गेनासीति शब्देन च सिद्धेः। नच पत्नीच्यावृत्त्यर्थत्वं तस्या अनु । २ द्वि०पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ६२७ पस्थितत्वादेव प्राप्त्यभावसिद्धः । तस्या उदयाग्वा नीयमानाया वस्यसीत्यारभ्या- स्थन्ताः षण्मन्त्राः । एतैरितिवचनं प्रतीकोपात्त एक एव मन इत्येतादृशमर्थ व्यावर्त. यितुम् । मौरितिवचनमकैकेन मोणकै क्रमणमिति ज्ञापयितुम् । अनु आनुपूर्येण निकामति निगृह्य कामति कामयतीत्यर्थः । अन्तर्भावितोऽत्र णिच् । अथवा तस्या दक्षिणेन पूर्वपादेन यानि षट्पदानि क्रम्यन्ते तान्यध्वर्युरनु पश्चानितरां क्रामति आक्रामति उपर्युपरि निदधातीति तात्पर्यार्थः । दक्षिण एव पादोऽत्राधिकारात् । अस्मिन्पक्षे णिनाऽऽश्रवणीयो मवति । अत्र यनमानः पत्नी चापि गच्छतः । अध्वर्युमनु यजमानस्तमनु पत्नी । तथाच बौधायन:-अन्वग्यजमानोऽनूची पत्नी स्थाली पद्धरणीमादायेति । गच्छतीति शेष उभयत्र । पदं हियतेऽनयति पद्ध- रणी तां स्थालीमादाय गच्छत्तीत्यर्थः । अन्यच्चाप्याह- -अथैना सोमक्रयणीमण शालामुदीचीमतिविन्स(वासा)यन्तीति ।

बृहस्पतिस्त्वा सुम्ने रण्वत्विति सप्तमं पदमभिगृह्णाति ।

सप्तमपदानुनिक्रमणं तूष्णीमेव मन्त्रानुपदेशात् । अभिगृह्णाति च्छादयति । अञ्जलिनेति शेषः । उत्करममिगृह्णात्यञ्जलिनेति प्रकृती दर्शनात्, आपस्तम्बेन स्पष्टो. क्तत्वाच । एतेन. वस्त्राच्छादनं व्यावर्त्य ते । चिकेविति मन्त्रान्तः ।

तस्मिन्हिरण्यं निधाय पृथिव्यास्त्वा मूर्धन्नाजिघर्मीत्येतच्चतुर्गृहीतं जुहोति ।

अत्रापि पूर्ववत्पश्चगृहीतेन विकल्पः । तस्मिन्पदे हिरण्यं निधाय पृथिव्यास्त्वेति मन्त्रेण चतुर्गृहीतं हिरण्यमनुपदे जुहोति । इष्टिशेषद्रव्यत्वात्परिक्रमणं नेति केचित् । घृतवति स्वाहेत्यन्तो मन्त्रः । अत्र बौधायनः कर्मान्ते-किदेवत्या उ खलु पदाहुति- भवतीति प्रकृत्याऽऽमेयीत्येके वैष्णवीत्येके प्राजापत्येत्येके वाग्देवत्येत्येव ब्यादिति । तेनान वाग्देवता वाग्वा एषा यत्समक्रयणीत्यर्थवादाद्वाचे सोमक्रयण्या इदमिति त्याग इति केचित् । हिरण्यस्योपर्येव होमः । यदध्वर्युरनग्नाविति श्रुतेः । धुवाशेषनाशे पूर्व- वद्घौवैर्मन्त्रैगृहीत्वा तेन नूरसीति होमश्च । भ्रान्त्या कदाचिस्विष्ट कृदभिधारणद्वयेऽन्ति- मप्रायश्चित्ताहुत्यर्थग्रहणद्वये वाऽऽप्यायनं कृतं चेत्तदा तेनैवैती जुहुयात् । उभयत्रापि सर्वप्रायश्चित्तहोमोऽनाज्ञातजपादि च । यदि एकहायनत्वादिगुणावशिष्टायां गवि क्रयार्थ नीयमानायां दैवादावणि सप्तमपदपातस्तदा होमस्याऽऽरादुपकारकत्वाद्मावण्येव । अक्षाभ्यञ्जनं तु यः कैश्चिदपि पांशुभिः कार्यम् । गुणछोपे मुख्यलोपानुपपत्तेः । नच वानिनयागवल्लोप एवास्त्विति वाच्यम् । एतस्य परप्रयुक्तद्रव्योपजीवित्वाभावेन लोपस्य १ख. घ. "तिवरस। ६२८ सत्यापादविरचितं श्रौतसूत्र- [७सप्तमप्रक्षे- वक्तुमशक्यत्वात् । वानिनयागः परप्रयुक्तद्रव्योपजीवी । इह तु न द्रव्यं परप्रयुक्त किंतु पांसुरूपस्य द्रव्यस्य यः संस्कार एकहायन्याः सप्तमपदनिधानात्मकः स एवं परप्रयुक्त इति वैषम्यालोप एवात्र युक्तः । तथा च चतुर्थाध्याये प्रथमपादे जैमिनिः- पदकर्माप्रयोजक नयनस्य परार्थत्वादिति । सूत्रार्थस्तु पदकर्म सप्तमं पदमभिगृहातीत्यादि नयनस्य सोमकयण्या नयनस्य प्रयोनकं न भवति परार्थत्वादन्यार्थत्वात्, अन्योऽर्थः यस्तदर्थत्वात् । नच शाखान्तरे तस्याः सप्तमं पदमितिश्रवणात्तत्र च तस्या इत्यने. नैकहायन्याः परामर्शदेकहायन्याः सप्तमपदग्रहणार्थत्वे सति विनिगमनाविरहान्नयन. स्योमयमपि प्रयोजकमेवेति वाच्यम् । तत्रापि ह्ये कहायनी न स्वरूपेण प्रकृता कित्वे- कहायन्या कोणातीति कयार्थत्वेनैवेवि परप्रयुक्तत्वेन निीताया एव विनियोगादिति विनिगमनाविरहासिद्धः । तदयं निर्गलितोऽर्थः-याऽसौ क्रयाकहायनी क्रयसिध्द्यर्थ नीयते तस्याः सप्तमं पदं गृह्णातीति क्रया या एवैकहायन्या बुद्धौ विपरिवर्तमानायाः प्रसङ्गात्पांसुग्रहणोपकारतामात्रेण संबन्धेऽपि सप्तमपदवाक्यस्य निराकाङ्क्षतया तदर्थ- खावेदकप्रमाणाभावात् क्रयाकहायनी नतु पदपांसुग्रह्णाति ।

अपादाय हिरण्यं परिलिखितमिति स्फ्येन पदं परिलिखति यावद्घृतमनु विसृतं भवति तूष्णीं विषाणया चानुपरिलिख्यास्मे राय इति स्थाल्यां पदं निवपति ।

अपादाय गृहीत्वा । स्फ्योऽत्रैष्टिको लौकिको वा । पदं पदसंबन्धिप्रदेशं परितो लिखति । कदाचित्पदप्रदेशावहिरन्तरेव वा घृतं विसृतं प्रसृतं भवति तावत्परिमितमेव पदमनुलक्षीकृत्य परितो लिखतीत्यर्थः । अनेन केवलपदपरिमितप्रदेशस्यैव परितो लेखन व्यावयते । प्रादक्षिण्यं परिभाषासिद्धम् । पुरस्तादुपक्रमस्तथाऽपवर्गः । त्रि: परिलिखतीत्यापस्तम्बः । अस्मिन्पक्षे सकृन्मन्त्रेण द्विस्तूष्णीमिति ज्ञेयम् । परिलेखनाथ स्फ्यादानं तूष्णीमेव मन्त्रानुपदेशात् । आपस्तम्बस्तु सावित्रेण पादानमाह । अस्य श्रीवा आप कृन्तामात्यन्तो मन्त्रः । विषाणया यजमानसंबन्धिन्या कृष्णविषाणया तस्या एवोपस्थितत्वात् । चकारो यावद्धृतमनु विसृतं भवतीत्येतस्यानकर्षणार्थः । एवं चात्रापि न ततो न्यून नाप्यधिक परिलेखनमिति सिद्धं भवति । अथवा स्फ्येन सह कृष्णविषाणायाः साहित्यार्थः । तेनोभाम्यां मिलितानाम्यां परिलेखनमिति सिद्धं मवति । पूर्वसूत्रान्मन्त्रस्यापि प्राप्तिर्भविष्यति तां वारयितुं तूष्णीमितिवचनम् । स्थाली- शब्द आकारविशिष्टधातुमृन्मयान्यतरपात्रमाचष्टे । तेनैतदितरपात्रं भूमौ निवपनं चापि व्यावृत्तं भवति । पदं पादपासून् । स्थाल्यां निवपतत्यित्रोपक्रान्तत्वादर्थात्पदलामे पदग्रहणं कृष्णविषाणानिवृत्त्यर्थम् । ननु एततच्छब्देनैव सिद्यति किमर्थ पदग्रहण- १स. म. 'तच्छ। । २ द्वि० ६०पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ६२९ मिति चेत् । तर्हि कृष्णविषाणासाहित्यव्यावृत्त्यर्थं तद्ग्रहणमिति द्रष्टव्यम् । याव- स्मूतमिति श्रुतेर्यावघृतमित्यर्थो द्रष्टव्यः ।

पदायतने सहिरण्यौ पाणी प्रक्षाल्य त्वे राय इति पदं यजमानाय प्रयच्छति ।

पदायतने पदस्थाने । आयतनग्रहणं स्थाल्यां निक्षिप्त पदे पाणिपक्षालन व्यावर्त- यितुम् । सहिरण्यौ हिरण्यसहितौ । अनेन हिरण्यस्यापि प्रक्षालनम् । अनेन पाणिप्र- क्षालने नेई ज्ञायते पदपासवः स्थाल्या हस्ते नैव न्युप्या नतु स्फ्पेन पात्रान्तर आनीय तेन न्युप्या इति । एवं च दृष्टार्थत्वमेवैतस्य हिरणस्य घृतलिप्तत्वात्प्रक्षालनं हिरण्यस्य पाणिसाहित्येनैव प्रक्षालनम् । सहिरण्याविति वचनात् ।

तोते राय इति यजमानः पत्नियै ।

प्रयच्छतीति शेषः । पत्न्यनेकत्वे तु महिण्या एव प्रयच्छति निधानार्थत्वात् , असंस्कारकर्मत्वाच्च । आध्वर्यवपूत्रे वचनमवसरख्यापनार्थम् ।

माऽहꣳ रायस्पोषेण वियोषमिति पत्नी प्रदीयमानं प्रतीक्षते ।

प्रदीयमानं पदं प्रतीक्षते, अभिमुखो भूत्वेक्षत इत्यर्थः । सर्वामिरपीक्षणं कार्य संस्कारकर्मत्वात् ।

सं देवि देव्योर्वश्या पश्यस्वेति सोमक्रयण्या पत्नीꣳ संख्यापयति ।

संख्यापनानुकूलव्यापारां करोतीत्यर्थः । एतत्करणीभूतोऽयं मन्त्रः । तस्मादध्वर्यो- रेव मन्त्रः । संख्यापनं प्रदर्शनम् । अत्रानेकासामपि तन्त्रेणैव संख्यापन विभवात् । मन्त्रगतमेकवचनं तु नात्यभिप्रायेण समर्थनीयं न प्रकृतावह इत्यूहनिषेधात्पत्नी सन- तिवत् । संघशीत्यन्तो मन्त्रः ।

उन्नम्भय पृथिवीमिति पद उदपात्रं निनीय त्रैधं पदं प्रतिविभज्य गार्हपत्यस्य शीते भस्मनि तृतीयमुपवपत्याहवनीये तृतीयम् ।

भस्मनि तृतीयमुपवपत्याहवनीये तृतीयम् । पदे स्थाल्यां निक्षिप्तेषु पदपांसुषु पात्रस्योदकमुदपात्रं पात्रसंबन्धि उदकं पात्र- स्थितमुदकमिति यावत् । पात्र उदकमुदपात्रमिति वा । तात्पर्यार्थः पूर्ववदेव । राज- दन्तादिशब्दवदयं समासः । उदकस्योदः संज्ञायामित्युदादेशः । निनोयेतिपदयोगाद. यमेव समासोऽत्र नसूदकेन पूर्ण पात्रमुदपात्रमिति पात्रस्य निनयनासंभवात् । साम• यात्पदपांसुमिश्रणपर्याप्तं जलं यावति पात्रे समाति तावत्परिमितम् । विसृजाह- तिमित्युदकनिनयनरूपार्थानुगुणलिङ्गादुन्नम्भय पृथिवीं भिन्धीत्यादिन्यत्र दृष्ट एव ८. । सत्याषाढविरचितं श्रौतसूत्रं- [सप्तमप्रश्ने- मन्त्रोऽत्र ग्राह्यः । त्रैध संख्याया विधार्थे धा इति सूत्रेण क्रियाप्रकारे वर्तमाने संख्या शब्दाद्धाप्रत्ययः । द्वियोश्च धमुञ् इति धाप्रत्ययस्य धमुनादेश कारस्योपदेशेऽननु. नासिक इदितीत्संज्ञायां हलन्त्यमिति नकारस्येत्संज्ञायां तस्य लोप इतीतोलीपे तद्धिते- ज्वचामादेरित्यादिवृद्धौ त्रैधमिति रूपं भवति । पदं पदपासून् । प्रतिविमज्य प्रतीत्युप- सो विभजनमाभिमुख्येनैव कर्तव्यमित्येतादृशार्थद्योतनाय । विशब्दो विभागरूपार्थ- लाभाय । शीतग्रहणमुष्णव्यावृत्त्यर्थम् । उष्णभस्मन्यग्निसत्तासंभवात्तत्र सोदकपदोपव- पनेऽग्न्युपघातप्रायश्चित्तं प्रसज्येतेति भावः । परस्परापेक्षया सर्वेषु तृतीयत्वम् ।

प्रतिषिद्धमेकेषामाहवनीये ।

शाखान्तरी योऽयं प्रतिषेधः । अस्मिन्पक्षे द्विधैव विभागः ।

तृतीयं पत्नियै प्रयच्छति तत्सा गृहेषु निधत्ते ।

तत्ततीय पदं सा पत्नी गृहेषु शालासु । बहुवचनं प्राग्वंशशाला पत्नीशाला बाह्य- शालेत्येतत्रितयान्यतमशालामध्ये निधानं कर्तव्यं नतु पत्नीशालायामेव निधानमिति नियम इति प्रदर्शयितुम् । शब्दस्वाभाव्यादेव वा बहुवचनम् । दृष्टं चैतत्-अनक्या अतृष्या गृहा माऽस्मद्विभीतनेतिमन्त्रे । अस्मिन्पक्षे पत्नीशालायामेव निधानं तस्या एव पत्नीसंबन्धित्वेन मुख्यत्वात् । तृतीयं पत्नियै प्रयच्छतीत्येतदनन्तरं तस्याः सका- शात्पुमरादाय तोते राय इति यजमानः पुनः पत्नियै प्रयच्छति तव ते राय इति वा। अस्मिन्प्रदाने वैकल्पिकः सौत्रोऽयं मन्त्रः । वक्ष्यति च याजमानसूत्रे प्रत्तं पदं तोते राय इति पत्नियै प्रयच्छति तव ते राय इति वेति । नचैतत्पूर्वप्रदानस्यैव शेष इति वाच्यम् । उमयत्रोपादानस्य व्यर्थत्वापत्तेः । प्रत्तं पदमध्वर्युणा पत्निया इत्येव । प्रत्त- मित्यत्रापिशब्दोऽध्याहार्यः । पस्निया इत्यनन्तरं पुनःशब्दश्च । अनयैव रीत्या सूत्र- संगतिर्भवति नान्यथेति द्रष्टव्यम् । अत्र प्रदर्शनं प्रयोगसंगत्या । प्राब्णि सप्तमपाते पदपरिलेखनादि पत्नीकर्तृकप्रतीक्षणान्तं पद उदपात्रनिनयनादि गृहे पदनिधानान्तं च पदसंबन्धित्वाल्लुप्यते । पदायतने सहिरण्यपाणिप्रक्षालनं तु दृष्टार्थत्वाद्भवत्येव । सं देषि देव्योवेश्या पश्यस्वेति सोमक्रयण्या पत्नी संख्यापयतीत्येतस्यापि पदसंबन्धि- त्वामावाद्भवत्येवानुष्ठानम् । लोपनिमित्तं सर्वप्रायश्चित्तहोमोऽनाज्ञातन विष्णुस्मरणं १ । बहुपत्नीकत्वे मुख्याया एव प्रदानं पदसंस्कारत्वात् । इत उत्तरं न पत्न्याः साहित्यम् । प्रयोजनाभावात् । अत एवं बौधायनो नयन्ति पत्नीमित्याह ।

सूर्यस्य चक्षुरारुहमित्यत्राऽऽदित्योपस्थानमेके समामनन्ति ।

पूर्वत्रोक्तमादित्योपस्थानं यत्तत्तत्र न कर्तव्यं किंवत्रास्मिन्काले कर्तव्यमित्येक आचार्या वदन्तीत्यर्थः । सूर्यस्य चक्षुरारुहमितिवचनमुत्तरोपस्थानस्यात्र क्रियाया व्यावृत्त्यर्वम् । २ द्वि०पटलः ] गोपीनाथभट्टकृतज्योत्स्नाब्याख्यासमेतम् ।

अपि पन्थामगस्महीति परिश्रितेन शकटेन च्छदिष्मतोद्धृतपूर्वफलकेन राजानमच्छ याति ।

परिचितेन सुगन्धितृणकटादिना । छदिष्मता तथाभूततृणनिर्मितच्छदिषोपर्याच्छा- दनात् । उद्धृतानि पूर्वाणि पुराणानि पूर्वमागस्थानि वा फलकानि यस्य । अनेन नूतनफलकानां योजनं सूच्यते । शकटं प्रसिद्धम् । एतादृशेन शकटेन सह राजानं सोममच्छ याति अभिमुखो यातीत्यर्थः । सोमशब्दं परित्यज्य राजशब्दप्रयोगो राजमा- वनयाऽभिमुखगमनार्थः । गिरी क्रीते विशेषः श्रुतौ-तस्माच्छीर्षहार्य गिरी जीवन- मिति । आपस्तम्बोऽपि-शीर्णा गिरी क्रोत हरन्तीति । अस्मिन्पक्ष आनबुहचर्मा- स्तरणादिकं सर्व गिरावेव शकटामावः । अपि पन्धामगस्महीति मनस्तु भवत्येव गमनाभिधानादिति केचित् । येन विश्वाः परिद्विषो कृणक्तीति शकटाभिधामाल्लोपो मन्त्रस्येत्यन्ये । पायसौदनेन पूजनं तत्र गत्वैव ।

उत्तरेण राजानꣳ शकटं मुखेन प्रतिष्ठाप्या मात्योऽसीत्यभिमन्त्रयत आस्माकोऽसीति वा ।

उत्तरेणेत्येनपा राज्ञः समीपे । तेन सर्वतः परिश्रित्य तस्योदीची द्वारं कृत्षेत्यत्र तथा कटादिभिः परिश्रयणं द्वार च कर्तव्यं यथा शकट परिश्रिते द्वारेण गच्छतीति द्रष्टव्यम् । शकटमपरेणैव राज्ञः समीपं गच्छति प्राङ्मुखत्वानुगुण्यात् । मुखेनाम- भागेन(ग) । अनेनोपस्तम्मन व्यावयते । उत्तरेण तं तन्मुखेन प्रतिष्ठाप्येति तत्तद्वि. भक्त्यन्ततत्तलिङ्गकतच्छब्देनैवोभयोः परामर्शसिद्धौ राजानमितिपुनर्वचनं सर्वत्राभिम- त्रणं राजभावनापूर्वकमेव कर्तव्यमितिसूचनार्थम् । शकटस्य पुनर्वचनं शकटस्यैव मुखेन प्रतिष्ठापनं न स्थस्येतिनियमसूचनार्थम् । तेन रथपक्षोऽप्यस्तौति गम्यते । रथश्चतु- श्चक्रः । अमिमन्त्रणं राज्ञ एव नतु शकटस्य मन्त्रे पुंलिङ्गश्रवणात् , आपस्तम्नेन स्पष्ट- मभिहितत्वाच्च । उत्तरस्याऽऽदिनेति परिभाषया ग्रह इति मन्त्रान्तः । आस्माकोऽसी. त्ययं शाखान्तरीयो मन्त्रांशोऽमात्योऽसीत्यस्य स्थाने विकल्पते नतु कृत्स्त्रस्यामात्योऽसि शुक्रस्ते ग्रह इत्यस्य स्थान आस्माकोऽसीत्येतावानेव विकल्पेन भवति । तथाच शुक्रस्ते ग्रह इत्यत्रापि अनुषञ्जनीयमेव । अथवाऽमात्योऽसीत्येतावानेव मन्त्रो निराकाङ्क्षत्वात् । अस्मिन्पक्ष आस्माकोऽसीति सुतरां तावानेव । एतादृशव्याख्यायामशुना ते अश्शु. रित्यय मन्त्रो ग्रह इत्यन्तो द्रष्टव्यः । शकटप्रतिष्ठापने विशेषमाहाऽऽपस्तम्बः-प्रागी- पमुदगीषं वा नद्धयुग शकटं चुबुकप्रतिष्ठितमिति ।

अꣳशुना ते अꣳशुः पृच्यतामित्यꣳशून्समुद्वपति ।

एकत्र राशीभूतान्करोति । अंशवः काण्डानि । शुद्धभूमाविति शेषः । चर्मण उत्तरत्रोपादानात् । यदि चर्मणि समुद्रूपनमिष्टं भवेत्तदाऽत्रापि ब्रूयादेव । अच्युत इति मन्त्रान्तः । ग्रह इति मन्त्रान्तो वा। 4 1 ६३२ सत्याषाढविरचितं श्रौतसूत्र- [सप्तमप्रश्ने-

उत्तरेण राजानं चर्मणि क्षौमं वासोऽहतं महद्विगुणं चतुर्गुणं वा प्राचीनदशमुपरिष्टाद्दशमास्तीर्याभित्यं देवमिति तस्मिन्सहिरण्येन पाणिनाऽतिच्छन्दस र्चा राजानं मिमीत एकैकयाऽङ्गुल्या प्रसारितया ।

अत्र ब्राह्मणे विशेष:-यं कामयेतापशुः स्यादित्यक्षतस्तस्य मिमीतर्स वा अपशव्य. मपशुरेव भवति य कामयेत पशुमान्स्यादिति लोमतस्तस्य मिमीतेतद्वै पशूनार रूप५ रूपेणैवास्मै पशूनवरुन्धे पशुमानेव मवतीति । असं चर्मणो विशस्तदेशस्तस्मिन्राजानं मिमीत इत्यर्थः । लोमतो लोमवति प्रदेशे। लोमशब्दादर्शआदित्वादज्मत्वर्थे । उभयत्र सप्तम्पास्तासिः । नहि निन्दा निन्दितुं प्रवर्ततेऽपि तु स्तुत्यं स्तोतुमितिन्यायेनोत्तरपक्षस्य प्राशस्त्यं कथयितुं पूर्वस्य निन्दा। एनपादु(पो)प्तराज्ञः समीपे चर्मणि आस्तृते चर्मणि । अत्र सामान्यतश्चर्मणीत्युक्त्या यस्य कस्यचिन्मेध्यस्य पोश्चर्मात्र ग्राह्यम् । क्षुमाऽ- तसीवृक्षत्वक् । तन्निर्मितं क्षौमम् । एतदभावे प्रतिनिधिभूतं कौशेयादि । पूर्वोदाते- पद्धौतत्वादिलक्षणलक्षितमहतम् । महत्सोमबन्धनपतिं, श्रौतप्रायश्चित्तप्राप्त्यर्थमेतत् । द्विगुणत्वचतुर्गुणत्वयोरैच्छिको विकल्पः । अतिरात्राप्तोर्यामयोरहगणेषु च सोमबाहुल्या- द्विगुणम् । अग्निष्टोमायेकाहेषु सोमाल्पत्वाच्चतुर्गुणमिति व्यवस्थितविकल्पो वा। प्राचीनोपरिष्टादशमित्येकपककरणे प्राचीनत्वमुरिष्टादशानां विशेषणम् । तथाचोपरि ष्टादशा एवं प्राचीना नाधस्तनाः । वास्तु प्रतीचीना इत्ययर्थः संभाव्येत स मा भूदि. त्येतदर्थ पदद्वयकरणम् । तस्मिन्नास्तृने वाससि सहिरण्येनेति पूर्ववद्याख्येयम् । अतिच्छन्दसेति ज्ञानार्थ, ज्ञानाभावे दक्षिणानौ भुव इति यजुर्भेषप्रायश्चित्तम् । अत्रर्चा मानमुक्तम् । तस्याङ्गत्वेन वक्ष्यमाणं पञ्चेतिसंख्याविधानम्। ऋतिवचनं यहचोऽधीत इत्यदृष्टप्रतिपत्त्यर्थम् । अन्यत्रापि यत्र यति वदति तत्रापीदमेव प्रयोजनं ज्ञेयम् । एकैकया, एकथैकयाऽङ्गुल्या प्रसारितया याबद्रहीतुं शक्यते तावमिमीत इत्यर्थः । उत्सर्गमिति शेषः । एकयैकयोस: मिमीत इति श्रुतेः । उत्सर्गमुत्सृज्योत्सृज्य पूर्वा पूर्वामङ्गुलि क्रमादुत्तरयोत्तरया चै कयैकथा, एवं मिमीत इत्यर्थः । सुवरिति मन्त्रान्तः

सर्वास्वङ्गुष्ठमुपनिगृह्णाति ।

सर्वास्वङ्गलीषु मानकालेऽङ्गुष्ठं योजयेदित्यर्थः ।

यया प्रथमं न तया पञ्चमं तयैव दशमम् ।

न तया पश्चममित्यस्यायं भावः-कनिष्ठिकादिभिश्चतसृभिः क्रमेण माने कृते पुनः कनिष्ठिकादिक्रमस्वीकारे मध्यमानामिकयोद्धयोः परित्यागः स्यात् । तथाकयैकयोत्सर्ग मिमीत इत्यनया श्रुत्या विरोध आपोतेति । कनिष्ठिकादिभिश्चतसृभिः क्रमेण मानच- तुष्टयं कृत्वा मध्यमानामिकाकनिष्ठिकाभिः क्रमेण मानत्रयं कृत्वा पुनर्मध्यमानामिका• 1883 . २ वि०पटलः ] गोपीनाथंभट्टकृतज्योत्साव्याख्यासमेतम् । ६१३ कनिष्ठिकाभिः क्रमेण मानत्रयमित्ययमेव मानकमो युक्तः पुनस्तनन्यादिक्रमस्वीकार एकयैकयोत्सर्ग मिमीत इत्येतच्छ्रुतिविरोधापत्तेः । एवं चायातयान्नियाऽयातयाम्नियैवैनं मिमीत इत्यनया श्रुत्यैकयैकयोत्सृष्टया माने कृतेऽयातयानियाऽयातयान्नियैव मानं कृतं भवति । सकृत्प्रवृत्ताया अनन्तरमेव प्रवृत्त्यभावात् । यातयाम गतरसत्वं न भविष्यतीति तात्पर्यार्थः । अथवा कनिष्ठिका मध्यमोपकनिष्ठिका तर्नन्युपकनिष्ठिका तर्जनी कनिष्ठिका तर्नन्युपकनिष्ठिका कनिष्ठिकेत्येवं क्रमेण वा । एतेन 'कनिष्ठिकादि- भिश्चतमृभिः क्रमेण तनन्यादिमियुक्रमेणोपकनिष्ठिकया कनिष्ठिकया चेति । अथवा कनिष्ठिकादिमिश्चतसृभिः क्रमेण ( *तर्जन्यादिभिर्युत्क्रमेण तर्जन्या कनिष्ठिकया चेति । अथवा कनिष्ठिकादिभिधतसृभिः क्रमेण ) तर्जन्या पुनः कनिष्ठिकादिभिश्चतसृमिः क्रमेण कनिष्ठिकया चेति, एते कमा निरस्ता भवन्ति । तयैव यया प्रथम मानं कृतं तयैवागुया दशमं मानं कर्तव्यम् । आद्यान्त्ययोमानयोरैकरूप्यसंपत्ते रिति भावः ।

पञ्चकृत्वो यजुषा मिमीते पञ्चकृत्वस्तूष्णीम् ।

ननु यजुषेति वचनमनुपपन्नं पादबद्धत्वेनाभित्यमित्यस्यवादिति चेत्सत्यम् । नैष दोषः । कुतः, ब्राह्मणानुसारिवानिदेशस्य । यजुर्वेदसमाम्नातानामावर्यवोपयुक्तानामृ. चामपि मौर्ण यजुष्वमिति । तासां भ्रषप्रायश्चित्तमेव कर्तव्यम् । ऋचेति वचनस्य प्रयोजनं तु यदृचोऽधीत इत्यदृष्टप्रतिपत्त्यर्थमित्युक्तमेव प्राक् । एतेनैव दर्शनेनार्वेदस्थ- यजुपां हौत्रोपयुक्तानामृग्भ्रेषप्रायश्चित्तमेव । अदृष्टं तु लक्षणानुगत्या वेदाधिकारा- स्ववेदोक्तमप्यस्यैवेति । यदि त्वतिरात्रादिकं महत्कर्म तत्र दीर्घत्रिपर्वविशिष्टांशुसमुदा. यात्मकजूटिका मातव्याः।

प्रजाभ्यस्त्वेति परिशिष्टानꣳशूनुपसमूहति ।

मानतः परिशिष्टानंशन्दशकृत्वो मिमानी राज्ञोऽध मातव्यम् । तथाच बौधायन:- दशकृत्वो-मिमानोऽर्धवेलं राज्ञौ मिमीत इति । वेला मर्यादा । परीत्युपतर्गः समन्तभागस्था- नामेवावशेषस्तेषामेवात्र ग्रहणमिति द्योतयति । एतेन दशकृत्वो माने मध्यगतानामेव ग्रहणं सिद्धं भवति । उपोपर्येव समूहति मिते राज्ञि यावदर्थ प्रक्षिपति नैतेषां परि- माणम् । श्रूयते च-यद्वै तावानेव सोमः स्याद्यावन्तं मिमीते यजमानस्यैव स्यान्नापि सदस्यानां प्रजाम्यस्त्वेत्युपसमूहति सदस्यानेवान्वाभनतीति । तस्मात्प्रदेयविवृद्धिर- संस्थासु | कात्यायनेनोक्तं - अर्थात्परिमाणमिति सूत्रेणाऽऽधिकं परिमाणम् । यदि दशमुष्टिपरिमित एव सोमः स्यात्तदा स यजमानस्यैव स्यान्नतु सदसि विद्यमाना- ,

  • धनुचिहान्तर्गत ख. ग. पुस्तकयोन विद्यते । सत्यापाढविरचितं श्रौतसूत्र- [सप्तमप्र-

नामृस्विजां स्यात् । अतः प्रजाम्यस्त्वेति मन्त्रेणावशिष्टानपि सोमांशूनुपसमूहति दश- मुष्टिपरिमितसोमेन संयोनयेदिति यावत् । तथा सति सदस्याननुगृहीतवान्भवत्यध्वर्युरिति श्रुतेरों द्रष्टव्यः ।

समुद्गृह्य वाससोऽन्तान्प्राणाय त्वेति क्षौमेणोष्णीषेणोपनह्यति ।

समुदृह्य वासतोऽन्तान्सम्यगुह्मोवं गृहीत्वा सोमांशूनामेकीकरणार्थं तूष्णीमेव वाससोऽन्तावाससः प्रान्तान्झौमेणोष्णीपेण दीर्घशाटकेन वाससोपनाति दृढं बध्नाति । एतच्च पासः परिधानयोग्य, सोमोपहतं वासो. यजमानः परिधत्त इत्यग्रेऽवभृये वक्ष्यमाणत्वात् । प्रादक्षिण्यं परिभाषासिद्धम् ।

व्यानाय त्वेत्यनुशृन्थति ।

अनुशृन्थति शिथिली करोति । किंचिदवेक्षणार्थ कचित्प्रदेशे तूष्णीमेव विस्रस्ये- त्यर्थः । मन्त्रानुपदेशात् । एतच्चावेक्षणाङ्गम् । नच विस्रेसनं विनेक्षणानुपपत्तेरर्थत एवं सिद्धौ वचनं व्यर्थमिति वाच्यम् । बद्धस्यैव राज्ञ ईक्षणं वारयितुं तद्वचनस्याss. पश्यकत्वेन वैयाभावात् । सोमविक्रयिणे राजानं प्रदाय तं पृच्छतीत्येतत्प्रभृतिक- मर्थितां बोधयितुं वा । अत्र नियममाह बौधायन:-अथोपरिष्टादङ्गुल्याऽवकाशं कृत्वेति ।

प्रजास्त्वमनुप्राणिहि प्रजास्त्वामनुप्राणन्त्वित्यवेक्ष्यैष ते गायत्रो भाग इत्येतैर्मन्त्रैरभिमन्त्रयते ।। ६ ।।

पूर्वत्र प्रजाकर्मकमनुप्राणनमुत्तरत्र प्रनाकर्तृकमनुप्राणनमित्येतादृशार्थभेदान्मन्त्राद्वि- त्वमिति शङ्कां द्वितीयाध्यायप्रथमपादगतेनार्थकत्वादेकं वाक्यं साकाङ्क्ष चेद्विभागे स्थादित्यनेन सूत्रेण भगो वामित्यस्मिन्मन्त्रेऽथैक्येऽपि आकाङ्क्षाया अभावादनेके मन्त्रा इति यथा प्रतिपादितं जैमिनिना तथाऽनुप्राणनरूपाक्येऽपि आकाङ्क्षाया अमावान्मन्त्रद्वित्वमिति शङ्कां च दूरीकर्तुं कृत्स्नः पाठः । अर्थेकत्वादेक वाक्यं साकाङ्क्ष चेद्विभागे स्यादित्येतत्सूत्रार्थस्तु-अर्थशब्दोऽत्र नाभिधेयवाची किंतु प्रयोज नवचनः । तथाच प्रयोजनकत्वादित्यर्थों भवति । नटेके यजुरित्येव वक्तव्ये यजुष्परिमा- णविचार एकवाक्यलक्षणमसंगतमित्याशङ्कय नात्र लौकिकवाक्यसाधारण्येनैकवाक्यल- क्षणमुच्यते किंतु तावदेकं यजुरित्येक यजुष एवेत्याशयेन सूत्रे वाक्यशब्दस्य यजुष्परत्वम् । ननु वाक्यशब्दयजुःशब्दयोः कथमेकार्थत्वमिति चेत् । उच्यते- यागसाधनत्वायजुः, यागप्रयोगे वक्तव्यत्वाच्च वाक्यम् । तथाचैकार्थत्व वाक्ययनुः शब्दयोः सिद्धं भवति । ततश्चेदमपि यागसाधनत्वे पर्यवसितमिति भावः । वक्तव्यत्वादित्यनेनैव यावदेकं यजुस्तावत्प्रयोगसमये प्रयोक्तव्यं नतु तदेकदेश इति प्रयोजनमपि सूचितम् । एवं च तत्प्रयोजनसूचनायव सूत्रे यजुःशब्दे .२ द्वि०पटलः ] गोपीनाथभट्टकृतज्योत्सान्याख्यासमेतम् । प्रयोक्तव्येऽपि वाक्यशब्दप्रयोग इाते नाकौशलं सूत्रकारस्येति द्रष्टव्यम् । एकप्रयोजनत्वमाः कृते मगो वां विभजस्वित्यादीनां पुरोडाशविभागप्रकाशनरूपैक- प्रयोजनवादेकयजष्ट्वं स्यात्तव्यावृत्त्यर्थं विमागे सति साकाङ्क्षत्वमिति । तावत्युक्त स्योनं ते सदनं करोमीत्यस्य कृत्स्नस्यैकयनुष्ट्वं स्यात्तस्मिन्सीदेति तच्छन्दबलेन विभागे साकाङ्क्षत्वादत एकप्रयोजनत्वमिति । सत्र पूर्वभागस्य सदनकरणप्रकाशन- मुत्तरमागस्य प्रतिष्ठापनप्रज्ञानं प्रयोननमिति नातिप्रसङ्गः । अवेश्येत्यत्र सोममिति शेषः । अवनतो भूत्वोपरीक्षित्वेत्यवेक्ष्येत्यस्यार्थः । एतैरिति वचनमेष ते त्रैष्टुभ इत्यादीनामवशिष्टानां वैकल्पिकत्वव्यावृत्त्यर्थम् । मन्त्रैरिति वचनं त्रैष्टुम इत्य- त्रोत्तरानुषङ्गालाभार्थ जागत इत्यत्र पूर्वानुषङ्गलाभार्थं च । पूर्वोऽनुष एष इति पदद्वयात्मकः । उत्तरोऽनुषङ्गः पदपञ्चकास्मकः । तथाच-एष.ते गायत्रो भाग इति मे सोमाय बतात, एष ते त्रैष्टुभो भाग इति मे सोमाय ब्रूतात् । एष ते जागतो माग इति मे सोमाय बतात, छन्दोमाना५ साम्राज्यं गच्छेति मे सोमाय ब्रूतादित्येवं मन्त्राणां पाठो मवति । बौधायनोऽप्येवमाह कल्प- सूत्रे, एष ते त्रैष्टुभो जागतो भाग इति मे सोमाय ब्रूतादित्येक एव वा मन्त्रः । अनुषङ्गवचनाभावात् । नत्र गायत्रं छन्दोऽनुप्रजायस्वेत्येतन्निः प्रदक्षिणं यथासुखमत ऊर्ध्व मन्थतीत्यत्रानुषङ्गवचनामावेऽपि यथाऽनुषगस्तवदत्राप्यस्त्विति वाच्यम् । एतस्य दृष्टान्तस्य विषमत्वेनासंगतत्वात् । तथाहि मन्थने त्रैष्टुभमित्यत्रानुषझं विना मन्त्रबहुत्वासंभवेन बहुवचनस्यासंगतत्वापत्त्या तसिद्धेः । प्रकृते त्रेष्टुम इत्यत्रानुषकं विनाऽपि बहुवचनं संगतमेव । अस्मिन्कस्पे प्रतिमन्त्रं विच्छेदार्थ मन्त्रगहणं द्रष्टव्यम् । अभिमन्त्रणस्य बाह्यक्रियत्वाभावात्। अविच्छेदेन मन्त्राणां पाठेऽप्यमिमन्त्रणे विरोधो न कोऽपीत्यविच्छेदेनापि मन्त्राणां पाठः स्यात्तं निवारयितुं मन्त्रग्रहणं युक्तमेवात्र । एतन्मन्त्रत्रित्वं द्वैधसूत्रे बोधायनोऽप्याह ।

देव सूर्य सोमं क्रेष्यामस्तं ते प्रब्रूमस्तं त्वं विश्वेभ्यो देवेभ्य ऋतून्कल्पय दक्षिणाः कल्पय यथर्तु यथादेवतमिति सहिरण्येन पाणिनाऽऽदित्यमुपतिष्ठते । पूर्ववव्याख्येयम् ।

सोमविक्रयिणे राजानं प्रदाय तं पृच्छति सोमविक्रयिन्क्रय्यस्ते सोमा ३ इति ।

उपनद्धमेन राजानं सोमविक्रयिणे दत्त्वा तं सोमविक्रविण पृच्छति सोमविक्रयिन् कय्यस्ते सोमा ३ इति । उपोत्थाय पृच्छतीति बौधायनः । हे सोपविकयिस्ते तवार्य 7 सत्याषाढविरचितं श्रौतसूत्रं- [ सप्तमप्रश्वे- सोमः कस्यो विक्रेतव्य एवायमिति निश्चयेन प्रसारितोऽस्त्यस्मिन्देशे किमिति प्रभा वाक्यस्यार्थः । प्रश्ने प्लुतिः । अद्भिरभ्युक्ष्य चर्मोदूहतीति बौधायनः ।

क्रय्य इति स प्रत्याह ।

स सोमविक्रयी क्रय्य इति प्रतियात् ।

दशभिः क्रीणाति ।

दशभिरित्यत्र व्यक्तिमिरित्येव शेषो नतु द्रव्यरिति । गोधेनुतद्वत्सर्षभानडुन्मिथुन. गवां सप्तत्वेऽपि गोत्वावच्छिन्नपदार्थस्यैकत्वेन दशभिः क्रीणातीतिदशसंख्यानुपपत्तेः । नत्र गोत्ववढेनुत्वतद्वत्सतर्षभत्लानात्वमिथुनगोत्वजातिरूपधर्ममेदमादाय द्रव्यमेव इति वाच्यम् । गोत्वादिना सांकर्येण धेनुत्वादीनां जातिस्वासमवात् । सप्त गाव इति गोजातीयस्वेनैवैतेषां सूत्रकृत्कृतनिर्देशानुपपत्तेश्च । एतानीतिवक्ष्यमाणसूत्रस्थपदानन्तरं क्रयणानीति पदं देयम् । तावतैव दशसंख्यालामो भविष्यतीति चेत् । न भविष्यति । कुतः । विकल्पस्यापि संभवात् । अतः समुच्चयसिद्धयर्थमिदं सूत्रमावश्यकमेव । अय- मर्थ उक्तो द्वादशाध्याय चतुर्थे पादे-क्रयणेषु तु विकल्पः स्यादेकार्थत्वात् । समुच्च- यो वा प्रयोगे द्रव्यसमवायादिति सूत्राभ्यां जैमिनिना । सूत्रार्थस्तु क्रीयते सोमो यस्तानि क्रयणानि द्रव्याणि तेषु क्रयणेषु । तुशब्दो याजमानमन्त्रनपसमुच्चयवदत्र समुच्चयो न भवति. किंतु विकल इति वैलक्षण्यद्योतनाय । एकार्थत्वादानति- रूपकार्यक्याद्विकल्पः स्यादिति । यद्यपि तत्तव्यसाधनक्रयादानतिविलक्षणैव जायत इति द्वारकार्यभेदान्न विकल्पसंभवस्तथाऽप्यानतिसामान्यैक्याद्वारकार्यमप्येकमिति मावः । इति पूर्वसूत्रार्थः । द्रव्यसमवायादशभिः कोणातीतिवचनप्रतिपादितादिति शेषः । अन्यत्स्पष्टम् । [ इति ] उत्तरसूत्रार्थः । ता व्यक्तीराह-

सप्त गावो हिरण्यं वासोऽजा च त्रीण्येतानि ।

सप्तसु गोषु एक आद्यो गोपदार्थ उपक्लुप्ता सोमक्रयणी समझा बधुमतीत्यादिल. क्षणलक्षितः । द्वितीयो धेनुरूपः । धेनुर्नवप्रसूता । तृतीयो धेनुवत्सरूपः । चतुर्थ सुषमरूपः । पञ्चमः शकटवाहिबलोवर्दरूपः । षष्ठसप्तमौ मिथुनगोरूपौ । एताः सप्त गावः । एतानि हिरण्यवासोनात्मकानि त्रीणि द्रव्याणि चै दश व्यक्तय इत्यर्थः । चकारः परस्परसमुच्चयार्थः । वीणीतिवचन सप्तगवां कयप्रदेशे सहैव संनिधापनमिपै. तेषां त्रयाणामपि सहव संनिधापनं कर्तव्यमितिज्ञापनार्थम् । त्रीणीत्येतावतैव सिद्ध एता- नीतिवचनं हिरण्यवासोजाना जातयोऽपि कदाचित्संख्पासंपादिका नतु व्यक्तय एवेति नियम इतिज्ञापनार्थम् । तेन षोडशमाषात्मकस्तर्णरूपहिरण्यद्वयं त्रयमितोऽप्यधिक वाऽपि शक्त्यनुसारेण देयम् । एवं वासोद्वयं त्रयमधिकं वाऽपि तथाऽजाद्वयं त्रयम २-द्विः पटलः ] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । ६३७ धिकं वाऽपि । मन्त्रास्तु न प्रकृतावूह इतिनिषेधादेकवचनान्ता एव वक्तव्याः पनीर संनो तिवत् । तथोत्तरस्यां तताविति ऊहनिषेधकात्सूत्राद्विकृतावपि । एकवचनं जात्य- भिप्रायपरतया समर्थनीयम् । द्रव्यत्रयस्य प्रदानं हिरण्यमजा वास इत्येवं क्रमेण विधास्यति । तत्क्रमेणैवात्र निर्देशे कर्तव्ये वासोनिर्देशानन्तरमजानिर्देशो व्युत्क्रमेण यः कृतः स ज्ञापयति द्रव्यत्रयप्रदानक्रमविषयेऽयमपि पक्षे क्रमोऽस्तीति ।

दश गावो भवन्त्यथैतानि त्रीणीत्येकेषाम् ।

दश गावः, त्रीण्येतानि एवं मिलित्वा त्रयोदश व्यक्तय इत्यर्थः । अस्मिन्पक्षे चतस्रो गाः(गावो) धेनुस्तद्वत्स ऋषभोऽनड्डान्मियुनौ गावौ । एता दश गावो हिरण्यं वाम्रोऽना चेत्येतानि त्रीणि द्रव्याणि चेत्येवं त्रयोदशेत्येकेषामाचार्याणां मतम् । अयं च पक्षः शाखान्तरीयः । अथशब्दो दशगोव्यक्तिप्रदानानन्तरमेव वा हिरण्यवाप्तोजानां प्रदा: नमिति पाक्षिक क्रमान्तरं प्रदर्शयितुम् । एतेने दमपि ज्ञायते केषांचिन्मते दशानां गवां प्रदानारपूर्वमपि एतेषां त्रयाणां दानमस्तीति ।

अपि वा चतुर्भिरेव ।

अमाढ्यस्य दशव्यक्त्यभावे चतुभिरेव द्रव्यैः क्रयः । तान्याह-

गवा चैतैश्च त्रिभिः ।

एतैरनन्तरोक्तैहिरण्यवासोजात्मकैव्यैः । गवा चेत्यत्र चकारो मतान्तरसमुचयार्थः । एवं च चतस्रो गावो हिरण्यं वाप्लोऽना चेति सप्तमिरपि पक्षे क्रयः सिध्यति । एतेषां पक्षाणां शक्ताशक्तपरत्वेन व्यवस्था ।

गवैकविꣳशातिदक्षिणस्य ।

नियमार्थमिदं सूत्रम् । एकविंशतिदक्षिणस्यैकया गवैव क्रय इत्यर्थः । एतैश्च त्रिभिरि- त्येतस्य नानुवृत्तिः । यद्येतैश्च त्रिभिरित्येतस्यानुवृत्तिरिष्टा स्यात्तदैकविंशतिदक्षिणस्य चेत्येवं ब्रूयात् । यतो नैवमुक्तवानतो नानुवृत्तिः । अस्मिन्पले हिरण्यप्रत्यादानं लुप्यते । एकविंशतिदक्षिणस्य गवेत्युक्त्या षष्टिदक्षिणस्याधिकसंख्या दिवगम्यते । तां स्पष्ट- माहाऽऽपस्तम्बः-तिसृभिः षष्टिदक्षिणस्येति । अपरिमितदक्षिणापक्षे विशेषमाह स एव–अपरिमिताभिरपरिमितदक्षिणस्येति ।

त्रिꣳशता सहस्रदक्षिणस्य ।

स्पष्टम् । सर्वस्वदक्षिणे कतौ चतुर्विशत्या क्रम । तथाचाऽऽपस्तम्बः-- --चतुर्विर. शत्या सहस्त्रे सर्ववेदसे वेति । - ८१ सत्याषाढविरचितं श्रौतसूत्र- [सप्तमप्रश्ने- - ता व्यक्तीराह-

सप्तविꣳशतिर्गावो हिरण्यं वासोऽजा च त्रीण्येतानि ।

एकविंशतिर्गावः । धेनुस्तद्वत्स ऋषमोऽनड्वान्मिथुनौ गावौ । एवं सप्तविंशतिर्गावः । हिरण्यं वासोऽजा चेत्येतानि त्रीणि द्रव्याणि । एतत्सर्व मिलित्वा त्रिंशयकयो भवन्ती- त्यर्थः । त्रीण्यतानीति प्रयोजनं पूर्ववत्रापि ज्ञेयम् ।

त्रिꣳशद्गावो भवन्त्यथैतानि त्रीणीत्येकेषाम् ।

सहस्रदक्षिणस्येत्यत्रानुवर्तते । अथशब्दप्रयोजनं पूर्ववत् । अन्यत्पूर्ववद्याख्येयम् ।

शतेन वाजपेये द्वाभ्याꣳ राजसूये सहस्रेणाश्वमेधे ।

शतेनेति पूर्वोपक्रमाच्छतशब्दस्य वचनविपरिणामेन द्वाभ्यामित्यत्रानुषङ्गः । तेन द्वाभ्यां शताम्यामित्यर्थो भवति । शतेनेत्येतत्पूर्व व्यक्तीनामिति योग्यतया शेषों द्रष्टव्यः । एवमुत्तरत्रापि । सप्तनवतिर्गावो हिरण्यादित्रयं च शतं गाव एतानि त्रीणि चेत्येवं पक्षद्वयं त्रिष्वपि ज्ञेयम् ।

सोमं ते क्रीणामीति क्रीणाति ।

सोम ते कोणामोतिमन्त्रमभिमातिषाहमित्यन्तमुक्त्वा वक्ष्यमाणैस्तत्तन्मत्रैस्तत्तत्कय- द्रव्यं निर्दिश्य प्रयच्छतीत्यर्थः ।

सोमं महान्तं बह्वर्धꣳ शोभमानमिति वोक्त्वैकैकमनुदिशति ।

सोम ते क्रीणामीत्यस्य मन्त्रस्य स्थान इमं मन्त्रमुक्ता वैकैकं द्रव्यमनुदिशति निर्दिश्य प्रयच्छतीत्यर्थः । अथवा सोमं महान्तं बर्ष शोभमानमिति वोक्त्वेति यथाश्रुत एवान्वयः । पूर्वकल्पे सोम ते कोणामि सोमं महान्तं बहुई शोभमान- मित्यनयोर्विकल्पः । उत्तरकल्पे सोमं ते कोणामीत्येतदनन्तरमेतस्यापि पाठो वैक- ल्पिक इति द्रष्टव्यम् । यथा सोमं ते कोणाम्यूर्जस्वन्तं पयस्वन्तं वीर्यावन्तमभिमाति- पाह५ सोमं महान्तं वह्वय शोममानमित्येवमुभौ मन्त्रावुक्त्वा वक्ष्यमाणैस्तत्तन्मन्त्रस्त- त्तत्क्रयद्रव्य निर्दिश्य प्रयच्छतीत्यर्थः ।

कलया ते क्रीणानि कुष्ठया ते क्रीणानि शफेन ते क्रीणानि पदा ते क्रीणानीति गोस्त्रीन्पादान्प्रसंख्याय गवा ते क्रीणानीति गाम् ।

कला जवाया अधोमागः । कुष्ठा कलाया अधोभागः । शफः खुरः । पत्पादः । एतैर्मन्त्रैः प्रतिपादमावृत्तर्गोत्रोन्पादस्तित्तद्देशे स्पृशन्प्रसंख्याय निर्दिश्येत्यर्थः । पश्चिम- पादद्वयं दक्षिणः पूर्वपादचेति क्रमः । चतुर्थपादं यत्र कुत्रचित्स्टशन्गवा ते कोणानीति गां निर्दिशतीत्यर्थः । तस्यास्त्रीपादान्प्रसंख्खायेति तच्छब्देन गवा ते कोणानीतिमन्त्र ५ २ द्वि पटलः ] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । सममिव्याहारानोपरामर्शसिद्धौ गोरितिग्रहणमनित्योऽयमवयवशः क्रय इतिज्ञापना- थम् । यत्कलया ते शफेन ते कोणानीति पणेतेति कलाशफाभ्यामवयवक्रयं निन्दित्वा गवा ते कोणानीत्येव ब्रूयादितिसमुदायक्रय एव ब्राह्मणे प्रस्तुतः । अवयवक्रयस्तु शाखान्तरीय उक्तः । ब्राह्मणे कलाशफयोर्ग्रहणं कुष्ठ(छा)पादयोरुपलक्षणम् ।

भूयो वाऽतः सोमो राजाऽर्हतीति सोमविक्रय्या संपदः प्रत्याह ।

मन्त्रे वाशब्दोऽवधारणे। भूयो वाऽत इति यात्रारूपं वाक्यम् । आ क्रयसंपदः सोमविक्री प्रति अध्वर्वभिमुखो भूत्वाऽऽह । संपद इति पञ्चम्येकवचनम् । आ संपद इति वचनाद्दशभिः क्रोणातीति पक्षे वशम्यां व्यक्तौ नैतत् । त्रयोदशपक्षे त्रयोदश्याम् । एवमन्यसंख्यास्वपि द्रष्टव्यम् ।

भूय एवार्हतीत्यध्वर्युः ।

प्रतिब्यादिति शेषः ।

शुक्रं ते शुक्रेण क्रीणामीति हिरण्यम् ।

सोम ते क्रीणामीति मन्त्रमभिमातिषाहमित्यन्तमुक्त्वा शुक्र ते शुक्रेण क्रीणामि चन्द्रं चन्द्रेणामृतममृतेनेति हिरण्यं प्रयच्छतीत्यर्थः । केचित्तु अमृतेनेत्यन्ते हिरण्येन ते क्रीणामीत्यनुषजन्ति ।

तपसस्तनूरसीत्यजाम् ।

अभिमातिषाहमित्यन्ते तपसस्तनूरति प्रजापतेर्वर्णस्तस्यास्ते सहस्रपोष पुष्यन्त्याश्च- रमेण पशुना क्रीणामीत्यनां प्रयच्छति । पशुना क्रीणाम्यजया ते क्रीणामीति केचिद. त्रानुष नन्ति । प्रतीचीनग्रीवयाऽनया पणत इति बौधायनो द्वैधे । अजाया उपनिग्रहण इति सूत्रं बौधायनस्यानुपनिगृह्णलेवानां मन्नं जपेदिति शालीकिरिति । उपनिग्रहण सोमविक्रयिणः समीपे स्वकक्षाप्रदेशेन गतिरोधनार्थ तस्या दाढर्येन संश्लेषणविशिष्टं धारणम् । उपनिग्रहणाभावेऽपि केवलं नियमन तु भवत्येव ।

धेन्वा ते क्रीणामीति धेनुम् ।

अभिमातिषाहमित्यन्ते वनसेन ते कोणामीत्येतावता मन्त्रेण धेनुं प्रयच्छति । अमि- मातिषाहमित्यन्ते वत्सेन ते कोणामीति वत्सम् । यद्यपि वत्सः सूत्रकृता नोक्तस्त- थाऽपि गुणभूतस्यापि तस्याऽऽक्षेपाल्लाभः । अन्यथा धेनोवत्सस्य स्तनंधयस्य जीव- नानुपपत्तेः, दश संपद्यन्त इति श्रुतिविरोधापत्तेः, दशमिः क्रीणातीति सत गाव इति संख्यापरिगणनाभ्यां विरोधापत्तेश्चेति । ननु विहितधेनुप्रदानानन्तरमन्या धेनुरेव दश. संख्यासंपत्त्यर्थं क्रयसाधनत्वेन देया तस्या अभ्यार्षिकमेव सवत्सत्वम् । एवं च धेनो- वत्सस्य धेनुसहभावेऽपि संख्यासंपत्तिस्तद्वरसेन न भवति गुणभूतवत्सस्य क्रयसाधनत्व- कल्पनापेक्षयाऽन्यधेन्वा एव ऋयसाधनत्वकल्पनाया युक्तस्यादिति चेन्न । तथा सत्यपि .६४० सत्वाषाढविरचितं श्रौतसूत्रं- [सप्तमप्र- धेन्वा ते क्रीयामीति धेनुं वरसेन ते क्रीणामीति तस्या एव धेनोवत्समिति सूत्रान्तरे धेनुप्रदानानन्तरं तद्वत्सस्यैव क्रयसाधनत्वेनोपात्तत्वेन सूत्रान्तरानुरोधेन दशसंख्यासंप- त्यर्थ कयसाधनत्वेन वत्सोपादानस्यैव युक्ततरत्वात् । तस्मात्सूत्रान्तरानुरोधाद्धेनोवत्स एव गोषु परिगणनीयः । दश संपद्यन्त इतिश्रुतितोऽप्ययमों लभ्यते । कथमिति । चेदुच्यते-यत्कलया त इत्यनुवाके नव द्रव्याण्युक्त्वा दश संपद्यन्त इति वचनान्नव- द्रव्येष्वेवाऽऽधिकं दशम द्रव्यमप्यस्तीति ज्ञायते । तच्च धेनोर्नवप्रसूतत्वेन तद्वत्सस्य जीवनान्यथानुपपत्त्या तस्यैव ग्रहणादुपस्थितत्वाच्च धेनुवत्सात्मकमेव । मिथुनगोद्वया- तर्गतगोवत्सस्य तु स्तनधयत्व मातृसहभावेनैव दानं न स्वतन्त्रतयेति । अतो धेनुवत्सेनैव दशत्वसंपत्तिर्द्रष्टव्या।

ऋषभेण ते क्रीणामीत्यृषभं वत्सतरेण साण्डेनेत्येकेषाम् ।

अभिमातिषाहमित्यन्त ऋषमेण ते क्रीणामीत्वृषभम् । एकेपामाचार्याणां मत ऋष- मस्थाने साण्डेन वत्सतरेण क्रयः । स्तनपानोपरतो वत्सो वत्सतरः । साण्ड इत्यनेन घलिष्ठत्वं द्योत्यते । वत्साक्षावर्षमेभ्यश्च तनुत्व इति ष्टरच्प्रत्ययः । अमिमातिषाहन 1 मित्यन्ते साण्डेन वत्सतरेण ते कोणामीति मन्त्रः ।

अनडुहा ते क्रीणामीत्यनड्वाहम् ।

अनड्वाशकटवाही बलीवर्दः । अभिमातिषाहमित्यन्तेऽनङहा ते कोणामीत्यन- ड्वाहम् ।

मिथुनाभ्यां गोभ्यां क्रीणामीति मिथुनौ गावौ ।

पुंगौः स्त्रीगौश्च मिथुनौ नतु पुंगोद्वयं स्त्रीगोद्वयमिति । अन्यथा सप्त गाव इत्यनेन विरोधापत्तेः । मिथुनौ गावौ ददातीत्यत्राप्येवमेव । ब्राह्मणे मिथुनाभ्यां क्रीणातीत्यत्रा. प्येवमेव मिथुनशब्दार्थोऽभिप्रेतस्ताभ्यां युगपत्कोणातीत्यर्थः । अभिमातिषाहमित्यन्ते मिथुनाभ्यां गाभ्यां ते क्रीणामीति केचित्पठन्ति । सर्वत्र तच्छब्ददर्शनादित्याशयः । एतेषु द्रव्येषु भूयो वाऽतो भूय एवेत्यावर्तते ।

वाससा ते क्रीणामीति वासः।

अभिमातिषाहमित्यन्ते वासला ते कोणामोति वासः । अत्र न भूयो वाऽतो भूय 'एवेति । वासोऽत्र परिधानपर्याप्तम् । सोऽयं दशव्यक्तिविधिरविशेषचोदनादसति वैशे. पिकविधौ सर्वत्रोपतिष्ठते ।

दशभिः संपादयति भूयस एके सोमक्रयणानामनन्ति ॥ ७ ॥

वशत्वसंख्यासंपादनमात्रमेताभिर्दशमियक्तिमिः कर्तव्यं सोमविविपरितोषार्थ भूयो बहून्सोमवणानन्यानीवीहष्यश्वप्रभृतीनपि दद्यादित्येक आचार्या वदन्तीत्यर्थः । १२.भ्यां ते क्री। २ द्वि०पटलः ] गोपीनाथभट्टकृतज्योल्माव्याख्यासमेतम् । ६४१ अथवा दशभिव्यक्तिभिरेव भूयसो विहितसंख्यातोऽधिकान्सोमक्रयणान्सोमविधिपरि- तोषार्थ संपादयतीत्येके समामनन्तीत्यर्थः । शतेन वाजपेये द्वाम्यार राजसूये सहले- णाश्वमेध इत्यत्र परितोषार्थ नाधिकसोमक्रयणदानं विहितसंख्याया एव बहुत्वेन तयैव परितोषसिद्धेः । सर्वथा तस्यापरितोष एव चेत्तदोपहरेतैवेति वक्ष्यमाण उपाय एव । तत्र भूयस्त्वनियममाह-

पञ्चदशभिः क्रीणाति सप्तदशभिः क्रीणाति चतुर्विꣳशत्या क्रीणात्यपरिमिताभिः क्रीणाति क्रीणामीत्यन्ततो वदति ।

षोडशाष्टादशाद्याश्चतुर्विंशतिसंख्याया अग्भूिता मध्यतनाः संख्याः परिसंख्या- यन्ते पञ्चदशसप्तदशचतुर्विंशतिसंख्यावाचकैः शब्दैः । मध्यतनसंख्यामिः परितोषेऽपि संख्याद्वयान्यतमसंख्यथैव देया इति अदृष्टार्थोऽयं नियमः । पञ्चदशभिरपरितोषे सप्तदशभिः परितोषणम् । सप्तदशभिरपरितोषे चतुर्विशत्या परितोषणम् । चतुर्पिश- त्याऽप्यपरितोषे प्रमाणतोऽप्यधिकाभिस्त्रिचतुरादिभिः परितोषणम् । सर्वथा परितोषा- भावे वक्ष्यमाण उपाय एव सोमविक्रयिपरितोषार्थ भूयोदाने क्रियमाणेऽन्ततोऽन्ते पञ्चदशसप्तदशचतुर्विशत्यपरिमितान्यतमभूयःपदवाच्यसंख्याशब्दोचारणानन्तरं क्रयता. धनव्यक्तीनां तूष्णीप्रदानेऽपि क्रीणामीति वदतीत्यर्थः । यथा वाससा कये सति पञ्चदशभिः क्रोणामि सप्तदशभिः क्रोणामि चतुर्विशत्या क्रोणामि अपरिमितामिः क्रीणामीति । अपरिमितशब्द उक्तप्रमाणाधिकप्रमाणवाची । अपरिमितं प्रमाणाय इति कात्यायनोक्तः । अथवा यानि परितोषार्थ देयानि द्रव्याणि मवन्ति तान्युच्चार्यान्त एव क्रीणानीति सकृच्छन्दमुच्चारयति नतु प्रतिद्रव्यमिति । यथा गोहिरण्याजावासोभिः कोणामीति, यथा वा गोभिर्हिरण्येनाजया वासाला च कोणानीति । नच द्वादशरात्रं दीक्षितो भूति वन्वीतेतिश्रुतिविहितं द्रव्ययाचनमरुणया क्रीणाति हिरण्येन क्रोणाती- त्यादिश्रुतिविहितोऽयं सोमक्रयश्चाविद्यमानद्रव्यसोमकस्यैव तद्वतस्तदानर्थक्यादिति वाच्यम् । अपूर्वस्य तदभावेऽनुत्पत्त्यापत्त्यैतयोनित्यत्वस्वीकारस्यात्यन्तावश्यकत्वात् । तयाच षष्ठेऽध्यायेऽष्टमे पादे जैमिनिः-याच्ना क्रयणमविद्यमाने लोकवत् , नियत वाऽर्थवत्तात्स्यादिति । द्रव्ये सोमे चाविद्यमान एव याच्ना याचनं क्रयणं क्रयश्च, अन्यथा न । एतच्च सुप्रसिद्धमिति लोकवदित्यनेनोच्यत इति पूर्वसूत्रार्थः । अर्थवत्त्वात्, अपूर्वात्तस्य प्रयोजनवत्त्वानियतमेवेदं द्वयं विद्यमानत्वेऽप्युमयस्येति ।

संपाद्य सम्यत्ते गोरस्मे चन्द्राणीति हिरण्यं प्रत्यादत्ते ।

संपाद्येत्यनुवादः । परितोषार्थ बहूनां सोमायणानां दानेऽपि संपादनाव्यवहितोत्तरं हिरण्यप्रत्यादानमेव कर्तव्यम् । अनन्तरं परितोषार्थसोमक्रयणदानमित्यर्थ बोधयितुं प्रत्तं हिरण्यं सोमविक्र येणो हस्तादादत्ते । येन हिरण्येन सोमं कोणीयात्तदमीषहा - ६४२ सत्याषाढविरचितं श्रौतसूत्र- [सप्तमप्रश्न- पुनराददीत तेज एवाऽऽत्मन्धत्त इति ब्राह्मणात्प्रतिशब्दाच । एकया गवैव कये हिरण्यप्रत्यादानं लुप्यते ।

अस्मे ते बन्धुरिति शुक्लामूर्णास्तुकां यजमानाय प्रयच्छति ।

ऊर्णास्तुका छिन्नारूढा स्तुका । एतादृश्यू) । सा च शुक्ला तां शुक्लामूर्णास्तुका यजमानाय प्रयच्छति सुरक्षितां स्थापयितुम् । यजमानाय प्रदानमदृष्टार्थम् । ज्योतिरि- त्यन्तो मन्त्रस्य ।

तां वितननकाले दशापवित्रस्य नाभिं करोति ।

तो यजमानाय दत्ता तस्मिन्नुदीचीनदशमुद्गातारो वितत्य धारयन्तीत्येतस्य कालो दशापवित्रवितननकालः । तस्मिन्काले ततो गृहीत्वा दशापवित्रस्य वितनिष्यमाणस्य मध्ये नाभि धारास्त्रवणानुकूलामधोलम्बमानां नालरूपां करोति अध्वर्युरेव । अध्वर्युसूत्रे पाठात् । अत्र पाठस्तु प्रसङ्गसंगत्या । अथवा नामि करोतीत्यत्रान्तर्भावितो णिच् । तेन नाभिं कारयतात्यों भवति । तथाच दशापवित्रस्य नामि कुरु इति श्रेषः सिद्धो भवति । तस्य यजमानो नाभि करोतीति याजमानसूत्रे नाभिकरणे यजमानकर्तृकताया वक्ष्यमाणत्वाचनमानं प्रत्ययं प्रेषः । अथवा तस्य यजमानो नाभिं करोतीत्यत्रैवान्तर्मा- वितो णिच् । तथाच पूर्ववत्प्रैषः सिद्धो मवति । स चाध्वर्यु प्रति यजमानेन देय इति ज्ञेयम् । पवित्र प्रमाण दशाप्रमाणं च मानवसूत्रे--अरनिमात्रं पवित्र प्रादेशमात्री दशेति ।

शुक्लानामाविकोर्णानाममोते द्वे दशापवित्रे भवतोऽदशाकमन्यतरत् ।

शुक्लानां शुक्लवर्णानां जीवोर्णानामिति कात्यायनः । आविकोर्णानामविसंबन्धिनीना. मूर्णानाममोते अमा सहोते सूत्रेण प्रोते द्वे । दशाऽश्चलस्ता के पवित्रे दशापवित्रे वतः सोमरसपवनसाधनत्वात्पवित्रसंज्ञेतयोः सहाथैकेनामाशब्देनेदं गम्यतेऽध्वर्युप्रति- प्रस्थात्रोः सहत्वमत्रेति । तेनैकमध्वर्युणा प्रोतमेकं प्रतिप्रस्थात्रेति । अथवाऽमाशब्दो दशापवित्रयोः समत्वार्थः । द्विग्रहणमुभे प्रोते एक दशापवित्रमेवमेव द्वितीयमेवं द्वे भवत । इति बोधयितुम् । तयोः प्रोतयोयोयोर्मध्येऽदशाकं दशारहितमन्यतरदेकं मवतीत्यर्थः । एतेन प्रोतयोयोयोमध्ये द्वितीयं सदशमित्यर्थीदवगतं भवति । एवं चोभयदिशायुक्तपवित्रत्वमपि संगतं भवति ।

उदकेन क्लेदयित्वा कृष्णामूर्णास्तुकामिदमहꣳ सर्पाणां दन्दशूकानां ग्रीवा उपग्रथ्नामीत्युपग्रथ्य सोमविक्रयिणि तम

ख. ग. यो। ख. ग. 'योम। २ द्वि०पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ६४३

इति तया सोमविक्रयिणꣳ रराटे विध्यति ।

कृष्णामूर्णास्तु कामु दकेन क्लेदयित्वेत्यन्वयः । उपप्रथनं गोलिकाकरणम् । तया गोलिकारूपया राटे रलयोः सावाल्ललाट इत्यर्थः । विध्यति प्रहरति । तयेतिवच- नाभाव ऊर्णास्तुकाया उपप्रधनमात्रं वेधस्तु अन्येन येन केनचिदनुपथितयोर्णास्तुकया वा स्यात्स मा भूदित्येतदर्थम् ।

स्वजा असि स्वभूरस्यस्मै कर्मणे जात ऋतेन त्वा गृह्णाम्यृतेन नः पाहीति सोमविक्रयिणो राजानमपादत्ते ।

सोमविक्रयिणः सकाशादाजानमपादत्ते गृह्णातीत्यर्थः । अपेत्युपसर्गो यथा हस्ताभ्यां न पतति तथा दानं कर्तव्यमित्यर्थ द्योतयति । अथवाऽत्र वाससा बन्धनं द्योतयितुम् ।

यदि कृच्छ्रायेतापैव हरेत ।

यदि तु सोमविक्रयी पुनर्लिप्तया दाने कृच्छ्रायेत दुःखायेत तदा वलादपहरेनैवे. तु त्यर्थः । उपैव होतेति पाठे झटितीत्यर्थ उपेत्युपसर्गः।

इन्द्रस्योरुमाविश दक्षिणमिति यजमानस्योरौ राजानमासादयति ।

करौ दक्षिणे मन्त्रलिङ्गात् ।

नीव गृह्णीते।

अन्तर्भावितोऽत्र णिच् । व्यत्ययो बहुलमिति सूत्रस्थेन मुप्तिकुपनहेत्यनेन च्छान्दस- मात्मनेपदम् । उपग्रहशब्देनाऽऽत्मनेपदं गृह्यते । निग्राहयतीवेति तदर्थः । निग्रहण माश्लेषणम् | आसादयतीत्येतस्मात्पूर्वमन्वयः । तेनाध्वर्योरेवेदम् ।

अध्वर्यवा शक्तवा इति यजमानः पृच्छत्याशकामेत्यध्वर्युः कथमाशकतेति विष्णुꣳ स्तोममरुत्स्महि बृहस्पतिं छन्दाꣳस्युत्थाय यजूꣳषि वि पर्वता अजिहत सुतरणा अपो अतारिषमित्यध्वर्युः ।

शक्तवै शत शक्तावित्यस्माद्धातोः कृत्यार्थे तवैप्रत्ययः । अध्वर्यो आ अत्यन्तं शक्तवै पर्वतात्सोमं गृहीत्वाऽवततुं शक्यं त्वया किमिति यजमानः पृच्छति । आश• कामेति लुडो रूपम् । आ अशकामेति पदच्छेदः । शक्कृ धातोरिच्छ लुङोति च्छिः । पुषादिद्युतालदितः परस्मैपदेष्विति च्लेरङ । लुछङ्लङ्वडुदात्त इत्यडागमः। अतो दोघो यजीति दीर्घः । आ अशकामेत्याकाराकारयोरेकादेशः सवर्णदीर्घः । आ अत्य- न्तमशकाम शक्ताः स्मेति तदर्थः । आशकामेत्यध्वर्युः प्रत्याह । कथमाशकवेति लुङो मध्यमपुरुषबहुवचनम् । तस्थस्थमिपामिति थविमक्तेस्तकारः पूनाथ बहुवचनम् । अत्र यद्यपि कर्तृनिर्देशो नास्ति तथाऽपि संदंशपतितत्वाद्यमानस्यैव प्रश्नकर्तृत्वं कथं केन प्रकारेण शक्ताः स्थेति । एतदुत्तरार्थक मन्त्रमाह-विष्णुमिति । स्तोम जनसमुदाय- १ इ.ज.स.स. . येतोपें । सत्यापाढविरचितं श्रौतसूत्रं- [सप्तमप्रमे- रूपं विष्णुमरुत्स्महि वयं संपादितवन्तः कल्पितवन्त इति यावत् । बृहस्पति छन्दा सीत्युभयत्रापि स्तोममरुत्स्महीत्यन्वेति । व्यापनशीलो विष्णुः सामर्थ्यप्रदत्वेनास्माकम- नुकूलः । बृहस्पतिर्बुद्धिपदातृत्वेनास्माकमनुकूलः । छन्दांसि च्छादकत्वेनास्माकमनुकू- लानि । एतेष्वनुकूलेषु सत्सु शक्तत्वे किमाश्चर्य भो. यजमाना अस्मात्पदेशाज्झटिति उत्थाय यजूषि पर्वता यजुर्यो यजूरूपेम्पः पर्वतेभ्यो यूयं व्यनिहत गच्छत । लका- रव्यत्ययः कर्तव्यः । तेन प्रार्थनरूपो लिङर्थोऽत्र भवति गच्छतेति । पर्वतेषु यजूरूपत्वं विप्रकीर्णत्वसाम्यात् । यथा यजुःषु पादासंबद्धत्वाद्विप्रकीर्णत्वं तथा पर्वतेषु दुर्विगाव- भूमिकत्वाद्विप्रकीर्णत्वम् । एवं च यरूपत्वं पर्वतेषु केनापि सादृश्येनोपपन्नं भवति । पर्वता इति पञ्चम्यर्थे प्रथमा । दुस्तरणाः सतीरप्यपः सुतरणाः सुष्छु ततुं योग्या अता- रिषमुत्तोऽस्मीत्यर्थः । अथवाऽतारिषमित्यस्य लकारव्यत्ययं कृत्वा तरिष्यामीत्येव- मर्थः कार्योऽर्थानुरोधात् । विष्णु स्तोममित्यध्वर्युः प्रत्याह । एतान्यदृष्टार्थानि प्रश्न- प्रतिवचनानि । पर्वता अनिहतेति लिङ्गात्पर्वते क्रय एतानि । एतेन गिरौ कयोऽनु. ज्ञातो भवति।

स्वानभ्राजेति सोमक्रयणाननुदिशति ।

खानभ्राजादयः सप्त गन्धर्वास्तानुद्दिश्य सोमक्रयणान्सोमक्रयताधनीभूतान्पदा- ननुदिशति संकल्पयतीत्यर्थः । अत्र ब्राह्मणम्-खानभ्राजेत्याहैते वा अगिल्लोके सोममरक्षन्तेभ्योऽघिसममाहरन्यदेतेम्यः सोमक्रयणान्नानुदिशेदको तोऽस्य सोमः स्या- नास्यतेऽमुस्मिल्लोके सोमय रक्षेयुर्यदेतेभ्यः सोमक्रयणाननुदिशति कोतोऽस्य सोमो भवत्येतेऽस्यामुगिलोके सोम रक्षन्तीति । दमन्नित्यन्तो मन्त्रः । तदेकया क्रयेऽप्येषा वः सोमक्रयणी तार रक्षध्वमित्यूहेनेति कश्चित् । वस्तुतः प्रकृताबूहनिषेधात्पूजार्थं बहुवचनं भविष्यति ।

रुद्रस्त्वाऽऽवर्तयत्विति सोमक्रयणीमावृत्यान्यया गवा निष्क्रीय यजमानस्य गोष्वपिसृजति ।

आवर्तने प्रादक्षिण्यं परिभाषासिद्धम् । सोमक्रयणी गामावृत्य पराङ्मुखी कृस्वाऽ- न्यया सोमक्रयणीव्यतिरिक्तया गवा निष्क्रीय तां गां सोमविक्रयिणे दत्वा यजमा- नस्य या गावस्तासु गोषु तां सोमक्रयणीमपिस्नति मेलयतीत्यर्थः ।

पृषता वरत्राकाण्डेन सोमविकयिणमपक्षामं नाशयति ।

पृषता बिन्दुमता वरत्राकाण्डेन चर्ममयरज्जुकाण्डेनापक्षामं परोक्षं नाशयति गमयति ।

लोष्टैर्घ्नन्ति लकुडैर्घ्नन्तीत्येकेषाम् ।।। ८ ।।

इति हिरण्यकेशिसूत्रे सप्तमप्रश्ने द्वितीयः पटलः । २ तृ०पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । लोष्टैपिण्डैः । लकडैः काष्ठखण्डै । लोप्टैनन्ति लोष्टैरादौ तस्माद्देशानन्ति गम- यन्ति तस्मादपि देशालकुडैन्ति गमयन्तीत्येकेषामाचार्याणां मतमित्यर्थः । अनयैव रीत्या क्रियापदद्वयं सार्थकं भवति । अत्राऽऽपस्तम्बः-यदि सोमविक्री प्रतिविवदेत पृषतैनं वरत्राकाण्डेनापक्षामं नाशयेयुर्लकुडैनन्तीत्येकेषां नित्यवदेके वध समामन- न्तीति । नित्यवत् , अविवदमानस्यापीत्यर्थः । वधः प्रहारः । स च शरीरापीडनानुगु- ज्येन । सर्वत्र लोष्टमित्येव पाठो युक्तः । लोष्टपलितावित्युणादिसूत्रे कान्तताया एवं निपातनासिद्धत्वात् । तस्यै दिशो लोष्टमारेदितिश्रुतौ स्पष्ट एव क्तान्तः पाठः । तेन लोष्ठमित्यपपाठ एवेति ज्ञेयम् । इति श्रीमदोकोपाहाग्निष्टोमयाजिसाहस्राग्नियुक्तवाजपेययाजिप्सर्वतोमुख- याजिद्विषाइस्त्राग्नियुक्तपौण्डरीकपाजिगणेशदीक्षिततनूजगोपीना. धदीक्षितविरचितायां श्रीमद्भगवत्सत्याषाढहिरण्यकशि. सूत्राम्बुधिगतनिगूढार्थरत्नालाभकृतविद्वज्जनसंता- पशामिकायां ज्योत्स्नाख्यायां वृत्तौ सप्तम- प्रश्नस्य द्वितीयः पटलः ॥२॥

7.3 अथ सप्तमप्रश्ने तृतीयः पटलः ।

अदित्याः सदोऽसीति शकटस्य नीडे कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमाऽऽस्तृणाति प्रत्तꣳ राजानमदित्याः सद आसीदेति तस्मिन्नासादयति ।

नोई राज्ञ उपवेशनदेशः । प्रत्तवचनं स्तरणोत्तरकालं प्रदानमुत्थानगमने तु पूर्व- मेवेतिख्यापनार्थम् । यजमानेन दत्तमेव गृहीत्वाऽऽसादयति नतु यजमानात्स्वयमेव गृहीत्वाऽऽसादयतीत्येतदर्थं वा । तस्मिन्नास्तृते कृष्णानिने ।

अस्तभ्नाद्द्यामित्यासन्नमभिमन्त्रयते ।

आसन्नं राजानम् । व्रतानीत्यन्तो मन्त्रः ।

आसादयतीत्येकेषाम् ।

वारुण्यर्चाऽऽसादयतीतिश्रुतेः । अस्तनाद्यामित्यनेन मन्त्रेणाऽऽसादनमेव कर्तव्य- मित्येक आचार्या वदन्तीत्यर्थः । एतन्मतेऽदित्याः सद आसोदेत्ययं मन्त्रः कृष्णाजि- नास्तरणकरणीभूतस्यादित्याः सदोऽतीत्येतस्यैव शेपभूत इति द्रष्टव्यम् ।

वनेषु व्यन्तरिक्षं ततानेति वाससा पर्यानह्यति ।

वासप्ताऽन्येन महता पनिवति परि परित आ, अत्यन्तं वेष्टयतीत्यर्थः । नार- संधिषु सोमस्योत्पत्तेविवेष्टितत्वमस्ति । प्रकोऽप्यनेन वातसा वेष्टनेन नावभिवेष्टित । ६४६ सत्यापाढविरचितं श्रौतसूत्रं- [सप्तमप्रने- इव भवति । ग्रावाणो वा अद्रयस्तेषु वा एष सोमं दधातीत्यर्थवादादयमर्थो लभ्यते । शकटमिति शेषः । उपस्थितत्वात् । अद्रावित्यन्तो मन्त्रः ।

उदु त्यं जातवेदसमिति कृष्णाजिनेनोर्ध्वग्रीवेण बहिर्लोम्नाऽपिदधाति तरणिर्विश्वदर्शत इति वा ।

अपिदधातीत्यत्र द्वारमिति शेषः । सूर्यमित्यन्तो मन्त्रः । तरणिर्विश्वदर्शत इति वा । तरणिर्विश्वदर्शत इति वैकल्पिको मन्त्री रोचनमित्यन्तः ।

उस्रावेतं धूर्षाहावित्यनड्वाहावुपासजति ।

उलावेतमिति मन्त्रेणानाही शकटसमीपं प्रेरयति । ब्रह्मचोदनावित्यन्तो मन्त्रः । सकृदेव मन्त्री द्विवचनलिङ्गाद्विभवाच्च ।

धूरसीति धुरावभिमृशति ।

द्वयोधुरोरावृत्तिर्मन्त्रस्य ।

वारुणमसीति शकटमुत्खिदति ।

उत्खेदनमुद्यमनम् ।

प्रागीषमवस्थाप्य वरुणस्योत्तभ्नात्वित्युपस्तभ्नोति ।

अवस्थाप्य धृत्वा । उपस्तम्भनं काष्ठेऽवस्थापनम् । वरुणस्य स्कम्भनमसीति स्वशाखो- क्न विकल्पते ।

दक्षिणमनङ्वाहं युनक्ति ।

सामान्यप्रातिज्ञेयम् ।

वारुणमसीति योक्त्रं परिकर्षति ।

शम्याछिद्रयोयोक्त्रं बलीवर्दबन्धनरज्जु परिकर्षति ।

वरुणस्य स्कम्भनिरसीति शम्यामवगूहति ।

अवगृहनमभिहितयोक्त्रपाशे युगच्छिद्रेऽवधानं तहितीयस्याप्यापर्तते । वरुणस्य स्कम्भसर्जनमतीति स्वशाखोक्तेनाय विकल्पते ।

प्रत्यस्तो वरुणस्य पाश इति योक्त्रपाशं प्रत्यस्यति ।

शम्यायां प्रत्यस्यति श्लेषयति ।

बलीवर्दं चाभिनिदधाति ।

बलीवईमप्यनेनैव मन्त्रेण शृङ्गयोरभिधान्या बध्नाति ।

एवमुत्तरमनड्वाहं युनक्ति।

योपरिकर्षणशम्यावगृहनयोकपाशमत्यसनशृङ्गबन्धनैः ।

हरिणी शाखे बिभ्रदन्तरेषाꣳ सुब्रह्मण्य उपसर्पति पलाशशाखे शमीशाखे वा ।

शकटस्य दक्षिणोत्तर ईषाद्वयं तत्र यां कांचिदोषामन्तरा यस्याः कस्याश्चिदीपाया 1 ३ तृः पटलः ] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । ६४७ अन्तःप्रदेशे पादौ संस्थाप्य शाखे धारयन्नुप शकटगमनानुगुण्येन सर्पति गच्छती- त्यर्थः । अथवेषामन्तरा यस्याः कस्याश्चिदीपाया अन्तराऽन्तर्वर्ती यः प्रदेशस्तं प्रति शाखे विभ्रद्वच्छत्तीति । शकटवाहनं तु लोकप्रसिद्धमेवेति । हरिणी हरिते हरिद्वर्णे । हरिणी स्यान्मृगी हेमप्रतिमा हरिता च येसिकोशात् । एतावता कोमलत्वं सिद्धं भवति । प्रथमयोः पूर्वसवर्णप्राप्तौ तं बाधित्वा नादिचीतिसूत्रस्थनकारस्य दीर्घाजति चेतिसूत्रस्थचकारेणानुवृत्तौ सत्यां पूर्वसवर्णनिषेधे प्राप्ते वा छन्दसौत्यनेन विकल्पेन पूर्वसवर्णदीर्घ एव पुनः स्थाप्यते । तथा च हरिणी इति रूप सूत्रे युक्ततरं भवति । हरिणी इति द्विवचनम् । इदं च शाखाविशेषणम् । हरिणीपदोत्तरं यच्छाखापदं तद्वोबलीवर्दन्यायेन पलाशशाखाशमीशाखातिरिक्तयज्ञियवृक्षशाखापरम् । अन्यथैतस्य शाखापदस्यानन्वयापत्तेः । नन्वेवं पलाशशाखाशमीशाखयोर्ग्रहणं व्यर्थम् । एकैनैव सामान्यशाखाशब्देन तयोलीमादिति चेन्न । तयोर्मुख्यत्वद्योतनार्थत्वेन सार्थक्यात् । ईषामित्यत्रान्तरान्तरेण युक्त इति द्वितीया ।

शकटमन्वारभ्य सोमाय राज्ञे क्रीताय प्रोह्यमाणायानुब्रूहि ब्रह्मन्वाचं यच्छ सुब्रह्मण्य सुब्रह्मण्यामाह्वयेति संप्रेष्यति ।

दक्षिणामीषामन्वारभ्येति बौधायनः । अनुब्रूहीत्ययं प्रैषो होतारं प्रति । अनुब्रूही- स्येतादृशस्य प्रैषस्य बाधकं विना मुख्यहोतारं प्रत्येव दर्शनात् । आश्वलायनेन कर्म- चोदनायां होतारमित्यनेन सामान्यतो होतुरेव कर्तृत्वप्रतिपादनाच्च । एवमन्यत्रापि ज्ञेयम् । अत्र प्रैषत्रयेण होतृब्रह्मसुब्रह्मण्यान्संप्रेष्यतीत्यर्थः । तेन श्रेषत्रयं पृथक्पृथगेव वक्त- व्यम् । एवमन्यत्रापि ज्ञेयम् । ब्रूहोत्यत्र बू इत्यस्य लुतो हिप्रेष्यश्रौषड्यौपडावहा- नामादेरितिपाणिनिमूत्रात् । अविच्छेदेनैव पाठो वा । एकेतिकरणात् । यजुर्वेदेनाध्वर्यु- रिति परिभाषयाऽध्वर्युन होतृब्रह्मसुब्रह्मण्याः । स्वस्मै नाम्ना प्रैषायोगात् , होतृब्रह्म सुब्रह्मण्यानां परस्परनिरूपितप्रेष्यत्वायोगाच्च । सुब्रह्मण्यकर्म लाट्यायनासायणावा- हतु:-क्रीते राजनि सुब्रह्मण्य उत्तरेण सोमवहन गत्वाऽन्तरेणेषे शमीशाखां पलाशशाखां वा सपलाशा पाणौ कृत्वाऽवतिष्ठेताध्वर्युष५ सर्वत्राऽऽकाङ्क्षत्सुब्रह्मण्याया रश्मीन्धार- यञ्छाखया प्रेष्यद्गावौ दक्षिण पूर्व सुब्रह्मण्योमिति त्रिरावयेत्पानि वर्तमाने षट्कृत्वः प्रतीचि पूर्वेण पत्नीशालां विमुक्ते छदिषि शाखामवगृह्य तामेवेषामनूकम्य यथार्थ स्यादिति । अत्र स्वसूत्राविरुद्ध यत्तत्सर्वमप्यनुष्ठेयम् । सर्वैज्योतिष्टोम इति सूत्रात्सर्व- शाखाप्रत्ययमेकं कर्मेति न्यायाच । स्वसूत्रपरसूत्रयोविरोधे स्वसूत्रमेवाऽऽश्रयेत् । स्वशाखापरित्यागे दोषश्रवणात् । सूत्रस्यापि शाखात्वं चरणव्यूहशास्त्रे प्रदर्शितम् । चरणाः शाखाः सूत्राणि च तेषां व्यूहो विविच्य कथनं यस्मिन्मन्थे स ग्रन्थश्चरण- न्यूहाख्यः । तत्र शाखाभेदाः प्रदर्शितास्ते ततो द्रष्टव्याः । . सत्यापाढविरचितं श्रौतसूत्रं- [सप्तमप्रश्ने-

त्रिरनूक्तायां प्रच्यवस्य भुवस्पत इति प्राञ्चोऽभिप्रयाय प्रदक्षिणमावर्तन्ते ।

त्रिस्नूक्तायामित्यत्रोपस्थितत्वात्प्रथमायात्रिरनुवचनम् । अत एवावचनं प्रथमाया - मिति स्पष्टमेवापठदापस्तम्बः । अत्र हौत्रमाश्वलायनीयमेव याजुषस्याभावात् ! प्रथमोत्त- मयोनिरनुवचनं सर्वत्र याजुषहौत्ररीत्यैव शस्त्राणि विना शस्त्रविषयकविधेविशेषशास्त्र- त्वेन प्रबलत्वात् । प्राञ्च इति आवर्तन्त इति बहुवचनादध्वर्युब्रमयजमानाः । एतेषामेव प्रकृतकर्मसंबन्धात् । सुब्रह्मण्यस्य तु च्छन्दोगसूत्रेऽनुक्तत्वान्न मन्त्रः । प्राञ्चः प्राङ्मुखाः । शकटेन सह पार्श्वद्वयमभितो गत्वेत्यर्थः । अमिशब्दः पार्श्वद्वयमभित इत्यर्थ बोधयति । आवर्तनेऽपि उत्तरपार्थेऽध्वर्युदक्षिणपार्श्वे ब्रह्मयजमानाविति । प्रया- येत्यत्र प्रशब्दः शकटागमनलक्षकतावैशिष्ट्वं सूचयति । प्रदक्षिणशब्दोऽत्राऽऽनुगुण्य- वाची । अर्थाच्छकटावर्तनानुगुणम् । अन्यथा प्रदक्षिणं यज्ञे कर्माणि करोतीति परिभा- पयैव सिद्धे प्रदक्षिणग्रहणवैयपिचेः । स्वस्त्यापन्य सीत्यन्तो मन्त्रः । अभिप्रयाण. स्थैव मन्त्रः प्रच्यवस्वेति लिङ्गात् । च्यवनं स्वस्थानाचलनम् । एतस्मादेव लिङ्गाच्छ- कटस्थितराज्ञा सहैवाभिप्रयाणमपि ज्ञायते । ब्रह्मयजमानावयूणां मन्त्रः । प्राञ्च इति बहुवचनेन ब्रह्मावर्युकर्तृत्ववद्यजमानकर्तत्वस्याप्यभिप्रयाणकियायां तत्करणीभूतमन्त्रो- चारणे चापि सिद्धिः । स्वस्मिन्यजमानप्रयोगस्तूच्छुष्मो अग्ने यजमानायैधीत्यत्र यथा -- तथाऽनेति द्रष्टव्यम् ।

अपि पन्थामगस्महीत्युत्तरेण राजानं पूर्वावतिक्रामतो यजमानोऽध्वर्युश्च ।

उत्तरेण राजानं राज्ञ उत्तरतोऽदूरे । ब्रह्मव्यावृत्त्यर्थमुभयोर्ग्रहणम् । पूर्वी शक- टस्य प्रतीच्या चालनापूर्वी पूर्वभूती, अति राजानमतीत्य गच्छतः । चकार उभयोः सहभावार्थः । उभयोर्मनः । वस्वित्यन्तस्तस्य ।

प्रज्वलयन्त्यग्नीनाहवनीये वर्षिष्ठमादधाति ।

प्रज्वलयन्तीति बहुवचन परिकर्म्युविजामन्यतमप्राप्त्यर्थम् । वर्षिष्ठं स्थविष्ठम् । इध्ममिति शेषः । आदधातिसाहचर्यात् । प्रज्वलयन्ति ज्वालायुक्तान् सूक्ष्मैरिन्धनैः करोति (कुर्वन्ति) । सभ्यावसथ्यपक्षे तावपि प्रज्वलयन्ति । आहवनीये स्थविष्ठं लौकि- कमिध्ममादधाति प्रतिपतीत्यर्थः । आहवनीयेऽयं विशेष इतराग्न्यपेक्षया द्रष्टव्यः । यात्पर्यन्तं राजाऽऽसन्धामासन्नो भवति तावत्पर्यन्तमिदं प्रज्वलितत्वमग्नीनाम् । एतद- तिक्रमे सर्वप्रायश्चितं होतन्यम् । तदूर्व तु कर्मानुगुण्येन । इदं चाध्वर्युकर्तृकमानीध- कर्तृकं वा । ३ तृ पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ६४९

उपक्लृप्तोऽग्नीषोमीयः समङ्गो वन्धुमान्यथा निरूढपशुबन्धे लोहस्तूपरः श्मश्रुलः स्थूलः पीवा ।। ९ ।। कृष्णश्वेतो लोहितश्वेतो वा तेन कर्णगृहीतेन यजमानो राजानं प्रतीक्षते ।

अग्नीषोमदेवत्यः पशुरुषक्लसो भवति । उपक्लप्त इति भूतनिर्देशादेतद्दिवसा- नुष्ठानारम्भारपूर्वमेवोपकल्पनं कर्तव्यमिति सिद्धं भवति । तत्स्वरूपमाह-समझ इत्यादिना । समङ्गः संपूर्णाङ्गः । बन्धुमा-मातृपितृभ्रातृसखिमानित्यर्थः । अन्वेनं मातेत्यादिमन्त्रवर्णात् । यथा निरूढपशुबन्ध उपक्लुतः पशुरकूटोऽकर्णोऽकाण इत्यादि- सूत्रेण लक्षणान्युक्तानि तथाऽग्नीषोमीयः पशु भवतीत्यर्थः । एतस्मादेव सूत्राच्छाग एवात्र नियतः । जैमिनिनाऽपि षष्ठेऽध्यायेऽष्टमे पादे पशुचोदनायामनियमोऽविशेषादिति सूत्रेणानियम पूर्वपक्षीकृत्य च्छागो वा मन्त्रलिङ्गादिति सूत्रेण च्छाग एव नियत इति सिद्धान्तितम् । छागो वा मन्त्रलिङ्गादित्यत्र पाशब्दः पूर्वपक्षव्यावर्तकः । सूत्रद्वयार्थः स्पष्ट एव । सामान्यस्य विशेष उपसंहारः कार्य इति भावः । उक्तश्च स्मृतावयमु. पसंहारः-

सामान्यविधिरस्पष्टः संह्रियेत विशेषतः । स्पष्टस्य तु विधेर्नैवमुपसंहार इष्यते ।। इति ।

उपसंहारस्तत्रैव यत्र सामान्यवचनानुष्ठानाय विशेषापेक्षा । भवति चानोषोमीर्य पशुमालभेतेतिसामान्यवचनानुष्ठानाय च्छागस्य वपाया मेदस इतिमन्त्रवर्गोपस्थितविशे- षापेक्षा । नतु विशेषवचनत्वमात्रेण सामान्यवचनप्राप्तोपसंहारकत्वम् । तथात्वे न ब्राह्मणं हन्यादितिसामान्यवचनस्यापि नाऽत्रेय हन्यादिति विशेषवचनेनोपसंहारप्रस- गात् । अतः पूर्वोक्तरीत्यैवोपसंहारः । सामान्यविधिरस्पष्ट इत्यत्रास्पष्टत्वमनुष्ठानाय विशेषापेक्षत्वमेवेति ज्ञेयम् । अत्रान्यमपि विशेषमाह-लोह इत्यादिना । लोहो लोहितः । तूपरः शृङ्गरहितः । श्मश्रुलः श्मश्रुणा युक्तः । श्मश्रुण इति पाठेऽप्ययमे वार्यः । अयं पाठो ब्राह्मणानुगुणः । स्थूलो मांसलः । पीवा चिक्कणाङ्गः । कृष्णश्वेतः कृष्णश्वेतवर्णः । लोहितश्वेतो लोहितश्वेतवर्णः । अतूपरोऽप्यापस्तम्बेनानुज्ञातः-लोहस्तू. परो भवत्यतूपरः कृष्णसारङ्गो लोहितसारङ्गो वेति । तेनेत्थंभूतेन कर्णगृहोतेन कणे धृतेन पशुना सह राज्ञोऽभिमुखं गत्वा तमीक्षते । अनि तु मन्थनमारभ्य प्रहरणपर्य- न्तमधृतेनैव पशुना कर्णव्यतिरिक्तप्रदेशे धृतेन वा प्रतीक्षते । यदनावग्निं मथित्वा प्रहरति तेनैवाग्मय आतिथ्यं क्रियत इति श्रुत्या मन्थनप्रभृतिप्रहरणान्तस्य कर्मण आतिथ्यरूपत्वस्योक्तत्वेन तदवसर एव प्रतीक्षणस्य युक्तत्वात् । अग्नीषोमदेवत्यस्य पशोरत्रोपकल्पनाद्वाजातिथ्यार्थत्वमिवारन्यातिथ्यार्थत्वमप्यवश्यं कल्पयितव्यमेवा आध्व- यवे यानमानविधानमध्वर्युसांनिध्यार्थम् । ६५० सत्वाषाढविरचितं श्रौतसूत्रं- [सप्तमप्रने-

औदुम्बर्यासन्द्यरत्निमात्रशीर्षण्यानूच्या नाभि. दघ्नपादा मौञ्जविवाना तामध्वर्यव उद्गृह्णन्ति ।

औदुम्बरी, उदुम्बरवृक्षानिर्मिता । आसन्दी मञ्चविशेषः । तल्लक्षणमाह- -अरनिमा- प्रशीर्षण्यानूच्या शीर्षण्ये तिरश्थे(श्चीने फळके अनूच्ये प्राच्ये । एतानि फलकानि अरानिमात्राणि यस्याः साऽरनिमात्रशीर्षण्यानूच्या, नाभिवघ्ना नाभिमात्राः पादा यस्याः सा, मौञ्जस्तृणैर्विवानं यस्याः सा मौञ्जविवाना । मौजीभी रज्जुभिः स्यूतेत्यर्थः । तामेवभूतामासन्दीम् । अवयवोऽध्वर्युप्रतिप्रस्थातृनेष्टुन्नेतार एत उगृह्णन्ति । तच्छब्द उपकल्पनार्थः । एतचैतद्दिवसानुष्ठानारम्भात्पूर्वमेव कर्तव्यम् । अध्वर्युः प्रतिप्रस्थाता नेष्टीनेतेत्यध्वर्यव इति याजमानसूत्रात्प्रतिप्रस्थात्रादीनामप्यध्यर्युवम् । अध्वर्युव्यति- रिक्तात्रय उद्गृहन्तीति केचित् ।

अग्रेण प्राग्वꣳशं वारुणमसीति शकटमाक्खिदत्युदगीषमवस्थाप्य ।

अग्रेण प्राग्वेशं प्राग्वंशस्यादूरे । आक्खेदनं किंचिदुद्यमनम् ।

वरुणस्त्वोत्तभ्नात्वित्युपस्तभ्नोति ।

गतार्थम् । वरुणस्य स्कम्भनमसीत्यनेन विकल्पतेऽयं मन्त्रः ।

दक्षिणमनड्वाहं विमुञ्चति ।

सामान्यप्रतिज्ञेयम् ।

वारुणमसीति योक्त्रं परिकर्षति ।

योक्त्रं परिकर्षीत विसर्जनार्थम् ।

वरुणस्य स्कम्भसर्जनिरसीति शम्यां प्रवृहति ।

प्रवृहणमुत्पाटनम् । वरुणस्य स्कम्मसर्मनमसीत्यनेन विकलः ।

विचृतो वरुणस्य पाश इति योक्त्रपाशं विचृन्तति ।

विचर्तन शिथिलीकरणम् ।

उन्मुक्तो वरुणस्य पाश इत्यभिधानीमुन्मुञ्चति ।

अमिधानी विषाणबन्धनरज्जुः ।

एवमुत्तरमनड्वाहं विमुञ्चति ।

एवं दक्षिणानडुन्मोचनकल्पनेत्यर्थः । अत्र लाट्यायनद्राह्मायणौ विशेषमाहतुः- दक्षिणमनड्वाहं सुब्रह्मण्याय दद्यादुभाविति शाट्यायन विज्ञायते कर्मसंयोगादिति । सामर्थ्याद्यजमानो दानकर्ता । उभावप्यनड्वाही देयाविति शाट्यायनकं ब्राह्मणं विज्ञा- यते कर्मसंयोगात् । उभाम्यां हि कर्म कृतम् । हेतूपादानं क्रियते कर्मसंयोगाविति । यस्य येन कर्मसंयोगः स तद्न्यं लभत इत्यर्थः । स्तृ०पटल: ] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । ६५१ उत्तरानजुन्मोचनावसरमाह-

अविमुच्योत्तरमातिथ्यायास्तन्त्रं प्रक्रमयति ।

विमुक्तोऽन्योऽनड्वान्मवत्यविमुक्तोऽन्योऽथाऽऽतिथ्य गृह्णातीति स्वशाखीयः कल्पः । प्रदश्यतेऽनेन । आतिथ्येति कर्मनाम । किमत्र प्रवृत्तिनिमित्तमिति चेत् । अनेरातिथ्य- मसि सोमस्याऽऽतिथ्यमसि अतिथेरातिथ्यमसीति निर्वापमन्त्रेषु अग्न्यादिभ्यो देव- ताम्य आतिथ्यत्वेन कीर्तनमेवेति द्रष्टव्यम् । आतिथ्यप्रयोजना वेष्टिरातिथ्या तस्या- स्तन्त्रमङ्गसमुदायस्तं प्रक्रमयति आरभत इत्यर्थः । प्रक्रमयतीत्यत्र स्वार्थे णिच् । तत्र यावस्क्रियते तव्याख्यास्याम इत्यस्यात्रानुक्तत्वात्सर्वं प्रकृतिवद्भवत्येव ।

उभौ वा विमुच्य ।

उभौ विमुच्य वाऽऽतिथ्यायास्तन्त्रं प्रक्रमयतीत्यन्वयः। अयं शाखान्तरीयः कल्पः । उत्तरमविमुच्य तमपि विमुच्य वाऽऽतिथ्यायास्तन्त्रं प्रक्रमयतीतिसूत्रद्वयपिण्डितोऽर्थः ।

अग्नीनन्वाधायेध्माबर्हिराहरति ।

पौर्णमासतन्त्रनयत्यख्यापनार्थोऽनुवादः । तेन नात्र कालतस्तन्त्रं मयति ।

सप्तदश सामिधेन्यः।

स्पष्टम् ।

इक्षुशलाके विधृती ।

इक्षुशलाके इक्षुत्वगामिके । इक्षुवत्रात्मिके इति केचित् । काशमूलके इति मीमां- सकाः । वाक्यशेषस्यात्रामावात्काशमूलपरत्वे प्रमाणाभावेन लौकिक एवार्यों ग्राह्य इति पूर्वमताशयः । आश्ववालस्य काशपरत्वे वाक्यशेषो यथा स्पष्टोऽस्ति तथैवी- शब्दस्य काशमूलपरत्वे नास्ति तथाऽपि अन्वेषणीय इति द्वितीयमताशयः । अत्र पाठेनेदं ज्ञायते-एतयोराहरणादयो बहिर्धर्मा बहिर्धारणवदुपसदायर्थ धारणं बर्हिषः स्तर्णित्वपक्षे विधृत्योरपि सादितत्वं च भवतीति ।

कार्ष्मर्यमयान्परिधीनिध्म उपसंनह्यत्याश्ववालं प्रस्तरं बर्हिषि।

इध्मावहिराहरतीत्युक्तं तत्रेमे कामयमया श्रीपर्णीवृक्षनिर्मितान्परिधीनुपसंनह्यति । भूतभान्युपयोगं हि द्रव्यं संस्कारमर्हतातिन्यायेन भाव्युपयोगिनां परिधीनामपि संस्का- रार्थमिध्ये संभरणं मन्त्रेण कृत्वोपसनहनं कार्यम् | अनियतवृक्षत्वं परिधीनां वारयितुं कार्मर्यमयानिति । उपशब्द इध्मसमिधामुपथैव संनहनमत्रेति नियमं द्योत- यितुम् । बहिष आश्ववालं काशमयं प्रस्तरम् । आश्ववालशब्दोऽश्वस्य वालाः केशा. स्तन्मयः प्रस्तर इति लोकप्रसिद्धितः । यज्ञो वै देवेभ्योऽश्वो भूत्वाऽपाक्रामत्सोऽपः प्राविशत् । सत्याषाढविरचितं श्रौतसूत्र- [सप्तमप्रश्ने- स वालधौ गृहीतस्तान्वालामुक्त्वा विवेश ह । ते वालाः काशतां प्राप्ताः कार्योऽतः प्रस्तरस्तु तैः ॥ . इति वाक्यशेषात्तु काशास्तन्मयस्तत्र लोकप्रसिद्धयपेक्षया वाक्यशेषबोधितोऽर्थ एव गृह्यते । तथा च काशानामेव ग्रहणं नत्वश्वकेशानाम् । तथाच प्रथमाध्याये. चतुर्थपादे संदिग्धेषु वाक्यशेषादिति सूत्रेणामुममाह जैमिनिः । सूत्रार्थस्तु संदिग्ध : विधार्थिवादरूपाद्वाक्यशेषात्तद्विषयकल्पनेति । उत्तरसूत्रगतकल्पनापदानुषङ्गेणान्वयो बोध्यः । यद्यपि विधावपि सामान्यरूपेण निश्चयान्न मुल्यः संदेहस्तथाऽपि घृततैलवसा- नामन्यतममञ्जनसाधनमित्यव्यवस्थितार्थप्रतीतिमादाय गौणसंदेहपरोऽयं शब्द इति व्याख्यातं व्याख्यातृभिः । ऐशवीशब्दो याज्ञिकमत इक्षुपत्रत्वगन्यतरपरः । मीमांसकमते काशमूलपरः । तेष्वदर्शनाद्विरोधस्य समा विप्रतिपत्तिः स्यात् , शास्त्रस्था वा तन्निमित्त. स्वादिति न्यायोऽप्यत्र योजयितुं शक्यः। आश्चत्रालं प्रस्तरमित्येतदनन्तरमुपसंनतीत्य- नुषज्यते । विधृत्योराहरणमाश्ववालप्रस्तरेण सहैव । प्रजापतेर्वा एतानि पक्ष्माणि यदश्व- वाला ऐक्षरी तिरश्ची यहाश्ववालः प्रस्तरो भवत्यैक्षवी तिरश्ची प्रजापतेरेव तच्चक्षुः संभरतीति श्रुत्योपयोरेकरूपत्वप्रतिपादनात् । पूर्वद्युरिधमावहिः करोतीतिवाक्योक्तक- माभिप्रायेण विपरीतोक्तिः । अनुष्ठानक्रमस्तु प्रकृतिवदेव न तु चोदकप्राप्तकमवाधः । अत्र कार्यभयत्वरूपपरिधिमात्रविषयकगुणमात्रस्य प्रत्याम्नानात् । तेन खादिरः पालाश एव वेधमः । द्वाविंशतिदारुरेव च सः । अनुयानसमिदभावात् । बर्हिस्तु दर्भमयमेव । आश्ववालल्वस्य प्रस्तरमात्र एवं विधानात् । यदि समानदेशे दर्माः काशाश्च सन्ति तदैकमेवाभिमर्शनान्तं कर्म । यदि नानादेशे तदोविन्तरि. क्षमित्यादीदं देवानामित्यन्तमावर्तते । आलवाभिमर्शनस्याऽऽवृत्तिर्देशभेदात् । प्रस्त- रस्यापि बहि:शब्दाभिधेयत्वान्न काशेष्वस्य निवृत्तिः । आत्माभिमर्शनं तु सकृदे. वान्ते । शुल्ल तु दर्भाणामेव क्रियते ।

निर्वपणकाले वैष्णवं नवकपालं पत्न्या हस्तेन निर्वपति ।

यतोऽस्मिन्निवीपे बहवो विशेषा वक्ष्यमाणा अतः सावधानतार्थ निर्वपणकाल इति वचनम् । निर्वपणकाले निर्वपणस्थाने । कालशब्दस्य स्थानपरत्वं तु बोधानीय दृष्टं स उपरवाणां काल इति । निर्वपणकाल इत्यतः प्राक्परिगृहीत इति योज्यम् । पूर्ण- मासप्रथमप्रयोगे निपणस्थानं यत्परिगृहीतं तत्रेत्यर्थः । सिद्धे सत्यारम्भो नियमार्थः । तेन निर्वप्रणकाल एवेति सावधारण वाक्यं भवति । तथाचायमर्थों भवति–पूर्णमास- प्रथमप्रयोगपरिगृहीतनिपणत्थान एवार्य निर्वाप इति । एतेनान्यासु सर्वासु विकृ- तिम्वनियम इति विशिष्टार्थज्ञापनार्थ वा । न च वेदकरणादिकर्मसूचनार्थ तदिति वाच्यम् । तस्य प्रकृतित एव सिद्धेः । प्रायणीयायां त्वत्वाद्वचनम् । अग्निहोत्रह - चणीप्रत्याम्नायो हस्तः । अस्मिन्पोऽग्निहोत्रह्वगीधर्मा हस्ते कार्याः । पात्रप्रयोगका- । . पतृ०पटलः ] गोपीनाथभट्टकृतज्योत्स्नाब्याख्यासमेतम् । ६५३ लेऽग्निहोत्रहवण्या सह हस्तस्य प्रयोगः । स च दक्षिणः । एकाङ्गवचने दक्षिणं प्रती- यादनादेश इत्याश्वलायनवचनात् । हस्तविषये त्वनिर्दिष्टस्थलेऽपि दक्षिणस्यैव ग्रह- णमित्येतादृशार्थस्य दर्शपूर्णमासयाजुषहौत्रसूत्रे होतरसान्वारम्भविधायके दक्षिणग्रह- णेन ज्ञापितत्वाच्च । संविशन्तामिति हस्तस्य समर्शनम् । दक्षाय मानुष्यप्ति । नास्ति प्रत्युष्टम् । दक्षिणहस्ते वाममुष्टोद्वपनम् । यावत्यग्निहोत्रह्वीकार्याणि तानि हस्ते. नैव कर्तव्यानि । इदं चाग्निहोत्रहवणीप्रत्याम्नायपक्षे ।

पल्या वा हस्तात् ।

शकरपायोः प्रत्याम्नायोऽयम् । अस्मिन्पक्षे हस्त एव सर्वमन्त्राणां जपो भवति ।

अन्वारब्धायां वा स्रुचा ।

अन्वारब्धायां पत्न्यां सत्यां सुचैव वा निर्वापः । अस्मिन्पक्षेऽग्निहोत्रबण्यामेव प्रोक्षणीसंस्कारादि । आयौ पक्षौ शाखान्तरीयौ । अन्त्यः खशाखागतः ।

अग्नेरातिथ्यमसीत्येतैः पञ्चभिस्त्रिषु सावित्रं जुष्टं चानुषजति ।

विष्णवे त्वेत्यन्ताः पञ्च मन्त्रास्तैः पञ्चभिः । निर्वपतीति शेषः । पञ्चकृत्वो गृह्णा. तीति श्रुतावप्ययमर्थः प्रतिपादितोऽस्ति । तत्र विशेषः । त्रिपस्थितत्वान्नोत्तमयोरि- त्येक इत्यापस्तम्बसूत्राचाऽऽयेषु । सावित्री देवस्य त्वेत्यादिहस्ताभ्यामित्यन्तो भागस्तं निर्वापमन्त्रेभ्यः पूर्व जुष्टशब्दं चैतेभ्य उत्तरमनुषजतीत्यर्थः । त्रिण्वितिवचना- दन्त्ययोर्मन्त्रयोः सावित्रजष्टयोरनुषङ्गो नास्तीति गम्यते । यथा देवस्य त्वा सवितुः प्रसवेऽश्विनो हुभ्यां पूष्णो हस्ताभ्यामग्नेरातिथ्यमसि विष्णवे त्वा जुष्टं निर्वामि । देवस्य त्वा सवितुः प्रसवेऽश्विनो हृभ्यां पूष्णो हस्ताभ्या५ सोमस्याऽऽतिथ्यमसि विष्णवे त्वा जुष्टं निर्वपामि । देवस्य त्वा सवितुः प्रसवेऽश्विनो हुभ्यां पूष्णो हस्ताम्यामतिथेरातिथ्यमति विष्णवे त्वा जुष्टं निर्वपामि । अग्नये त्वा रायपोषदान्ने विष्णवे त्वा निर्वामि । श्येनाय त्वा सोमभूने विष्णवे त्वा निर्वपामीत्येवं प्रयोगः । एतैरिति वचनं प्रतिमन्नं निर्वापसिद्ध्यर्थम् । पञ्चभिरितिवचनं पञ्चैते मन्त्रा भवन्ति तैः पञ्चभिः पञ्च निर्वापा भवन्तीत्येतादृशार्थबोधनार्थम् । चकारः सावित्राख्यः कश्च. न मागो जुष्टशब्दश्चेत्येतद्वयानुषङ्गलाभाय । न चैवं जुष्टमित्यस्य जुष्टं निर्वपामीत्ये. तावान्य उत्तरभागस्तत्परत्वमेव नतु जुष्टशब्दमात्रपरत्वम् । तथाच निर्वपामीत्ये. तस्यापि त्रिष्वेव प्रयोगो नावशिष्टयोयोरिति वाच्यम् । जुष्टशब्दस्योत्तरभागपरत्वेऽ. मेरातिथ्यमसीत्यतैः पञ्चभित्रिषु प्राकृतावनुषजतीति लाघवेनैव वक्तव्ये गुरुभूतसावि. त्रजुष्टशब्दोपादानस्य निरर्थकत्वापत्तेः । अतो जुष्टशब्दस्य भागपरत्वं न किंतु शब्दपरत्वमेव वक्तव्यम् । एतेनानुक्तस्य निर्वपामीत्येतस्य समुच्चयार्थश्चकार इति ८३ - सत्याषाढविरचितं श्रौतसूत्रं- [सप्तमप्रश्नै- शङ्का निरस्ता । नच त्रिषु मन्त्रेषु जुष्टशब्दानुषङ्गवत्सावित्रशब्दस्यैवानुषङ्गोऽस्त्विति वाच्यम् । तथा सति सावित्रं जुष्टमित्येतादृश्या आनुपूर्त्या अनुषक्तव्यतयैकपदार्थ- त्वेन पदार्थान्तरस्य चाभावेन चकारवैयापत्तेः । न चैव मन्त्रादौ सावित्रशब्दानुषङ्गो मन्त्रान्ते जुष्टशब्दानुषङ्गस्तथा च समुच्चेतव्यपदार्थान्तरं लब्धं तथा च न वैयमिति वाच्यम् । सावित्रशब्दस्य शब्दमात्रपरताया याज्ञिकप्रसिद्धकर्मणि अत्यन्तानुपयोगात् । एवं च परस्परसमञ्चयार्थ एव चकारः । तथाच निर्वपामीति सर्वमन्त्रेष्वस्त्येव । अथवा जुष्टशब्दस्य भागपरत्वमेवाङ्गीकर्तव्यम् । अग्नेरातिथ्यमसीत्येतैः प्रतिमन्त्रं देवतादेशनस्य प्रत्याम्नायो भवति । पञ्चसु सावित्रं जुष्टं चानुषनति । नोत्तमयोरित्येक इत्यापस्तम्बसूत्रेऽपि स्वरसतो जुष्टशब्दस्य भागपरत्वमेव प्रतीयते । यच्छन्तामित्य- प्यस्त्येव सर्वत्र | सजातीयमेव सजातीयस्थाने निविशत इति न्यायेन प्राकृतानां त्रयाणां समन्त्रकाणां निर्वापाणां स्थान एते समन्त्रकाः पञ्च निर्वापा मवन्ति । प्राकृतं तूष्णी तु भिन्नमेव भवति तच्च षष्ठं भवति । अन्यावापः सप्तम इदं देवाना- मित्यादि।

विष्णुमेवोत्तरेषु निगमेषूपलक्षयेत् ।

इत उत्तरेषु निगम्यते देवतापदं येषु ते निगमा मन्त्रा मन्त्रविशेषास्तेषु विष्णुमेवो. पलक्षयेद्देवतात्वेन केवलं विष्णुमेव प्रयोजयेत् । एवकारोऽग्नये रायस्पोपदाने श्येनाय सोमभृत इतिचतुर्थ्यन्तानां शब्दाना मन्त्रेषु प्रयोगो मा भूदित्येतदर्थम् । वैष्णवं नवक- पालं निर्वपतीत्येतेन सूत्रेण त्वग्न्यादिदेवतात्वमात्रं निरस्यते ।

यत्प्रागुद्वपनात्तत्कृत्वोत्तरमनड्वाहं विमुञ्चति तेनैव कल्पेन यदि पुरस्तादविमुक्तो भवति ।

वर्षवृद्धाः स्थेत्यन्तं कृत्वोत्तरमनड्वाहं विमुञ्चति तेनैव कल्पेन पूर्वातिदिष्टेनैव कल्पेन तूष्णीमुत्तरमनड्वाहं विमुञ्चति । यदि पुरस्तादविमुक्तो भवतीति सूत्रान्तरोक्त कल्पव्यावृत्त्यर्थम् । अन्यत्स्पष्टम् ।

वारुणमसीति राज्ञो वासोऽपादत्ते ।

पर्यानहनीयमिति शेषः । छित्स्मोति मन्त्रान्तः ।

वरुणोऽसि धृतव्रत इति राजानम् ।। १० ।।

अपादत्त इत्यनुवर्तते । एतावानेव मन्त्रः ।

अच्छिन्नपत्रः प्रजा उपावरोहोशन्नु शतीः स्योनः स्योना इत्युपावहरति ।

राजानं शकठद्वारेण बहिरानयतीत्यर्थः । ३ तृः पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ६५५

अत्राऽऽसन्द्या उद्ग्रहणमेके समामनन्ति ।

तामध्वर्यव उद्गृह्णन्तीति यदासन्या उद्ग्रहणं पूर्वोकं तत्तत्र न कर्तव्यं किंवत्रा- स्मिन्काले कर्तव्यमित्येक आचार्या वदन्तीत्यर्थः ।

उर्वन्तरिक्षमिति गच्छति ।

प्राग्वंशमिति शेषः । स्वशाखायां दृष्टत्वादन्विहीत्येव मन्त्रान्तः ।

या ते धामानीति सौम्यर्चा राजानं पूर्वेण द्वारेण प्राग्वꣳशं प्रपादयति ।

सोमो देवता यस्याः सा सौमी तया सौम्या । सोमायष्टित्वान्डो । सौमीत्यन्ति- शेषणम् । तृतीयान्तमिदं सौम्येति । * असमासे सौम्युचेति स्यादिति ज्ञेयम् । सौम्येति ज्ञानार्थम् । ज्ञानाभावे दक्षिणानौ भुव इति यजुर्भेषप्रायश्चित्तम् । अचेतिव. चनप्रयोजनमतिच्छन्दसर्चेत्यत्र यथोक्तं तद्वदत्रापि ज्ञेयम् । प्रपादयति प्रवेशयति । प्रवेशनस्य द्वारं विना कदाचिदप्यसंभवेनार्थादेव विशेष्यस्य द्वारस्य लाभे द्वारग्रहणं यत्कृतं तज्ज्ञापयति अन्योऽपि पदार्थः प्रवेशने संभावितोऽस्ति सभासदां कर्मेक्षणार्थ- मावश्यकत्वात् । वातायनरूपः सः । अथच द्वियादिसभासदीक्षणानुगुण्येन महान् । तत्र प्रतिदिशं वातायनद्वयम् । तत्र वातायनस्य महत्त्वेन तेनापि कदाचित्प्रवेशसंभवा- तद्वारणार्थ द्वारग्रहणम् । एतेनाष्टौ वातायनान्यपि तथा कर्तव्यानि । यथैकैकस्मिन्वा- तायने द्वौ त्रयो वा चतु(स्वा)रो वोपविष्टाः सन्तः कर्मेक्षितुं शक्नुवरिति । तथाचाध- स्तनानि द्वारसाम्येनाष्टौ वातायनानि चत्वारि द्वाराणि अतीरोकशब्दवाच्यानि लघुभू- तानि गवाक्षाणि पञ्चोप्रतनान्येतद्धर्ज परिश्रयणं कर्तव्यमिति । एवमग्रेऽपि यत्र यत्र द्वारशब्दस्तत्रेति ज्ञेयम् । दुर्यानिति मन्त्रान्तः ।

उर्वन्तरिक्षं वीहीत्यपरेणाऽऽहवनीयं दक्षिणाऽतिहरति ।

दक्षिणा दक्षिणतः, अति अतिक्रम्यैव हरति नतु अग्रेणाऽऽहवनीयं स्वयं गच्छन्न- परेणाऽऽहवनीयं राजानं हरतीति ।

वरुणस्यर्तसदनिरसीति दक्षिणेनाऽऽहवनीयमासन्दीं प्रतिष्ठापयति ।

यथेतं प्रत्येत्याग्रेणाऽऽहवनीयमासन्दी नीत्वा वरुणस्यतसदनिरसौति मन्त्रेणाss- हवनीयतमीपे दक्षिणत आसन्दी स्थापयति । अन्येनाऽऽसन्धानयनेऽपि यथेतं प्रत्येत्यै. वाऽऽसन्दी प्रतिष्ठापनीया । प्रतीत्युपसर्गाद्यथा न चलति तथा स्थापयति । .

  • अत्र समासे सौम्यूचयेत्यपेक्षितम् ।

१ख, ग, त्येवं मा 1 ६५६ सत्यापाढविरचितं श्रौतसूत्रं- [सप्तमप्रक्षे-

अदित्याः सदोऽसीति तस्यां कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमाऽऽस्तृणाति ।

तस्यां प्रतिछापितायामासन्याम् ।

प्रत्तꣳ राजानमदित्याः सद आसीदेति तस्मिन्नासादयति ।

प्रत्तवचनादन्यस्मै प्रदानं सिद्धं तच्चाऽऽसन्दीस्थापनात्पूर्व तेन विना तस्य कर्तुमश- क्यत्वात् । तस्मिन्नास्तृते कृष्णानिने ।

वरुणस्यर्तसदनमासीदेति वा ।

अनेन मन्त्रण वा कृष्णाजिन आसादनम् ।

वनेषु व्यन्तरिक्षं ततानेति वाससा परिश्रयति ।

वाससा महता प्रागारम्य परिश्रयति । प्रादक्षिण्यं परिभाषासिद्धम् ।

वरुणोऽसीति राजानमभिमन्त्रयते वरुणाय त्वेति वा । ।।

सष्टम् ।

एवा वन्दस्व वरुणं बृहन्तं नमस्या धीरममृतस्य गोपाम्। स नः शर्म त्रिवरुथं वि यꣳसत्पातं नो द्यावापृथिवी उपस्थ इति वारुण्यर्चा राजानं परिचरति ।

वारुण्यतिवचनमत्र क्रीत उपनद्धः सोम एव वरुणशब्दवाच्यो नतु वरुणदेवतापर इतिश्रुतिसिद्धोऽर्थ इति प्रदर्शयितुम् । सा च श्रुतिर्वारुणो वै क्रोतः सोम उपनद्ध इति । अस्यां श्रुतौ वारुण इत्ययं तद्धितः स्वार्थे द्रष्टव्यः । वरुणो वा एष यजमानम. म्येति यत्कोतः सोम उपनद्ध इतिश्रुत्यन्तरानुरोधात् । वारुणीत्यत्र तस्येदमिति मूत्रादण् तदन्तत्वान्डोप् । अचेतिवचन प्रयोजनमतिच्छन्दसर्चेत्यत्र यथोक्तं तद्वदत्रापि क्षेयम् । परिचरति गन्धपुष्पादिभिरुपचारैः पूजयति नमस्करोति च |

यत्र क्व चाऽऽसीदेदैतयैवाऽऽसीदेत् ।

यत्र क च वैधे यादृच्छिके वा राजानं प्रति गमन एतया वारुण्य चैव गच्छेत् । उपविशति चेद्राजसमीपे तदैतयैव तत्समीपमूपविशेञ्च । तथा सूत्रान्तरे-वारुण्यर्चा राजानं पूजयेदेतयैव राजानमभिसपैदुपविशेच्चेति । अत्र यजमानो राजानं मधुपर्केण पूजयति । गोमधुपर्का) वेदाध्याय्याचार्य ऋत्विक् श्वशुरो राजा वा धर्मयुक्त इति धर्मसूत्रे राज्ञो मधुपर्कपूनाया विहितत्वात्सोमस्यापि राजत्वात् । अथास्मै मधुपर्क च प्रागुरिति बौधायनसूत्राच मधुपर्कपूना । तत्र प्रतिवचनानां लोपः । अध्वर्युर्वा तानि वदेत् । तामध्वर्युषिशास्तीति बौधायनसूत्रेऽध्वर्युकर्तृकताया विशसने दर्शनात् । एतस्य कलौ निषिद्धत्वादुत्सर्ग एवेदानीम् । ३ तृ०पटलः ] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । ६५७

अग्निꣳ राजानं चान्तरेण मा संचारिष्टेति संप्रेष्यति ।

संप्रेषवत्सर्वे कुर्वन्ति । अग्निमित्येकवचनादेक एवाग्निः । स चाऽऽहवनीय एवं संनिहितत्वान्मुख्यत्वान्मा राजानं चाऽऽहवनीयं चान्तरेण कश्चन संचारीदिति बौधाय- नोक्तेश्च । एतेन सोमदक्षिणान्योरन्त। गमने दोषो नास्तीति अर्थात्सूचितं भवति । अयं प्रैष आत्मार्थोऽन्यार्थश्च । तेनाध्वर्युः सर्व ऋत्विजश्चमसाध्वर्यवः परिकर्मिणोऽन्ये च ते सर्वे प्रैलोक्तनिषेधपालकाः । परप्रत्यायनार्थत्वादुच्चैस्त्वमैकश्रुत्यं च । राजाऽन्यो वा क्षत्रियादिः सोमसमोपमागच्छति तेनाप्ययं मन्त्रो वक्तव्य एव । तत्राऽऽयुधादि धृत्वा नैव सोमसमीपे गन्तव्यम् । अमुमर्थ बौधायनः प्रैषरूपेणैवाऽऽह-मा राजानं चाऽऽहवनीयं चान्तरेण कश्चन संचारीन्मन५ सायुधो मा सदण्डो मा सच्छत्रो मा सोष्णीषो मा साधस्पायोऽनुप्रपादौदिति । अत्र निषेधार्थका माङ एते कश्चन यःकश्चन पुरुषो राजादिः । एनं राजानम् । आयुधं शस्त्रास्त्रं च । अनयो दो धनुर्वेदे- धृत्वा प्रहरणं शस्त्रं मुक्त्वा शस्त्रमितीरितम् । इति । अधस्पाद्यावुपानही ।

उद्वपनप्रभृतीनि कर्माणि प्रतिपद्यते ।

यथेतं प्रत्येत्य प्रति वा वर्षवृद्धं वेत्तित्यादीनि कर्माणि प्रतिपद्यते वर्षवृद्धमसीत्या: दीनि वा । पुरस्ताच्र्योपोहनपुरोडाश्याभिमर्शनयोरुद्वपनाङ्गत्वात् ।

गार्हपत्ये नव कपालान्युपदधाति ।

पक्षे प्राप्तस्याऽऽहवनीयस्य बाधनार्थमिदम् । तेनाऽऽहवनीयाधिश्रयणपक्षाङ्गीकर्तु- रपि गाईपत्य एवाधिश्रयणमति द्रष्टव्यम् । आतिथ्येष्टिहविरधिश्रयणकाल आति- ध्यामदन्तीरप्यधिश्रयेत् । भग्नीन्मदन्त्यापा३ इति वक्ष्यमाणप्रभात् । श्रपयेत्येतमातिथ्य वैष्णवं नवकपालं तेन सह मदन्तीरविश्रयतीतिबौधायनोक्तेश्च । मदन्तीशब्दोऽपा तप्ततामाचष्टे । तेन तापार्थमिदमधिश्रयणम् । आतिथ्येन सहाधिश्रयणविधानाद्गार्हपत्य एवाधिश्रयणम् । लौकिक इति केचित् । केवडानामपामधिश्रयणासंभवात्पात्रेण सहा- धिश्रयणम् । तच्च तानमयं रीतिनं वा । मृन्मयं वा । एवमन्यत्रापि । गत्यक्षीरस्य दोहपाकयोस्तानं नैव भवति । स्मृतौ तान्ने गव्यस्थापनस्य निषेधात् । यत्-होमकार्थे तथा दोहे पाके च परिवेषणे । पश्चगव्याशने चैव तान्ने गव्यं न दुष्यति । इति स्मृतिवचनं तल्लौकिकदोहविषय एव संकटमात्राम्यनुज्ञाविषयम् । एवं पाक परिवेषणयोरपि । होमोऽत्र पञ्चगव्यस्यैव । अथ वाऽत्रापि संकटविषयत्वमेव । पञ्चग- व्याशन इत्यनेन पञ्चगव्यग्रहणसाधनीभूतपात्रविषये प्रतिप्रसवः क्रियते । १ क. "यन्त्येत । २ क. श्रपय ।

सत्यापाढविरचितं श्रौतसूत्रं- [सप्तमप्रश्ने-

चतुर्गृहीतान्याज्यानि गृह्णाति ।

पञ्चावत्तिनोऽपि चतुर्ग्रहीतनियमार्थ वचनम् । अनूया नार्थग्रहणनिवृत्तेस्त्वर्थादेव सिद्धेन तदर्थता ।

चतुर्होत्राऽऽतिथ्यमासादयति ।

आतिथ्यं हविः । अहोमार्थत्वादग्रहोऽस्वाहाकारोऽयम् । संभारयजूषि व्याख्याय निर्मन्थ्यस्याऽऽता निर्मन्थ्येन प्रचरति । अग्नियंजुभिरित्यादीनि अहं श्रद्धयेत्यन्तानि संभारयजूंपि तानि व्याख्याय वाक्य. शः पठित्वाऽग्नेनित्रमसीत्यादिना निर्मन्थ्यस्याऽऽवृता प्रकारेण पशुबन्ध उक्तेनाना- वग्निरिति प्रहरणान्तेन निर्मन्थ्येन प्रचरति ।

वेदं निधाय सामिधेनीभ्यः संप्रेष्यति ।

वेद्यन्तपरिस्तरणनिवृत्त्यर्थोऽनुवादः । होतृषदनकल्पनं तु होत्रैव स्वार्थ कल्पनीयम् । अध्वर्युणा वेदमहर सप्तदशेन वजेणेत्येतस्माद्धोतर्नपात्पूर्व कश्पयितव्यं, परं स्वनुवाद- स्वरसादत्र नैव कल्पनीयम् । आश्वलायनीयहोत्रे विदमहर सप्तदशेनं वज्रणेत्येतस्य जपस्याभावाद्वैद्युत्तरश्रोणिसमीपदेशे होतागते कल्पनीयम् । एतच्च होवरेहीतिशास्त्रा- न्तरोक्तप्रैषाङ्गीकारपक्षे सार्थकमन्यथा नेति द्रष्टव्यम् ।

सर्वमिध्ममादधाति सर्वमौपभृतꣳ समानयते ।

अनूयाजाभावात्तदर्थसमित्तदर्थचतुर्ग्रहीताज्ययोरप्यभाव इति भावः । इडान्तत्वादे- वानूयाजाभावे सिद्धेऽन्यानाभावबोधकलिङ्गप्रदर्शकवचनं शाखान्तरोक्तोऽन्याननिषेधः स्तुत्यर्थोऽनुवाद एव नतु विधिपर इतिनैमिनीयन्यायप्रदर्शनार्थम् । स च न्यायोऽनन्त- रमेव प्रदर्शयिष्यते ।

आज्यभागाभ्यां प्रचर्य विष्णुꣳ हविषा यजति ।

आज्यमागवचनमाज्यभागविशेषसंप्रत्ययार्थम् । स च विशेष आश्वलायनेनोक्तः- अतिथिमन्तौ समिधाऽग्निं दुवस्यताऽऽप्यायस्व समेतु त इति । यानुषहौत्रपक्षेऽप्येता- वेव । तत्राऽऽप्यायस्वेत्युचः पाठस्तु याजुषधर्मेणधर्मेण वा । विष्णु यनतीत्येतावत्येव वक्तव्ये हविग्रहणमाज्यभागाभ्यां प्रतिपूर्वभागाद्वचनविपरिणामेन विभक्तिविपरिणामेन वाऽऽज्यभागशब्दस्यानुवृत्तिः स्यात् , तस्यां च सत्यां विष्णुमाज्यमागं यनतीत्यर्थः स्यात्, तथा चाऽऽज्यभागं विष्णुमिष्ट्वा वैष्णवं नवकपालं निर्वपतीतिविधिप्राप्तो निरु- तेन हविषाऽनन्तरं याग इति शङ्काकुलं स्यात्तन्मा भूदित्येतदर्थम् । आज्यमागविशेष विधातुं विष्णुं यजतीत्युत्तरानुवाद ।

ध्रुवायाः शेषं करोति ।

दीक्षणीयावयाख्येयम् । प्रयोननं च तद्वत् । , ३ तृ०पटलः ] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । ६५९

इडान्ताऽऽतिथ्या संतिष्ठते ।

इडयाऽन्तः समातिर्यस्याः सेडान्ता । इडान्ताऽऽतिथ्या भवतीत्येतावतैव सिद्धे सतिष्ठत इति पुनः संस्थाबोधकवचनमिडान्तत्वेऽपि पूर्वोपयुक्तपदार्थप्रतिपत्तिकर्मभिरपि संस्थापनीयेत्येतदर्थम् । तेन समन्त्रमेवात्र प्रतिपत्तिकर्माणि । वेदप्रतिपत्तिरपि समन्व। प्रकरणादेवाऽऽतिथ्यालाभे पुनर्वचनमुपसदि प्रतिपत्तिकर्मणामनावश्यकत्वार्थम् । मार्जन- मपीडाङ्गत्वाद्भवति । न च शाखान्तरे नानूयाजान्यजन्तीतिनिषेधानुपपत्त्या कृत्स्नत्व. मपि करप्यते, तथा च विकल्प इडान्तत्वस्येति वाच्यम् । शखिडान्तत्वे विकल्पः स्यात्परेषु पत्न्यन्यानप्रतिषेधोऽनर्थकः स्यात् , नित्यानुवादो वा कर्मणः स्यादशब्द त्वादिति दशमाध्यायषष्ठपान्तर्गतजैमिन्युक्तन्यायविरोधापत्तेः । तस्मानिषेधोऽनुवाद- मात्रम् । पूर्वप्रतिज्ञातोऽयं न्यायः । प्रायणीयायां व्याख्याते एते सूत्रे । ननु प्रकृते द्वे इडे अनुयाजानां पुरस्तादेका पश्चादन्या तत्रोत्तरयैवेडया तदन्तताविधिः । एवं च शाखान्तरीयोऽनूयाजनिषेधोऽप्यर्थवान् । अन्यथाऽनुवादमात्रत्वापत्तेः । अतोऽन्यान. वर्नमुत्तरेडान्तं सर्व कार्यमिति चेन्न । प्रयोगोपरमस्यैवेद्धान्तत्वे निमित्ते विधाना- त्पूर्वस्यामपीडायां कृतायां निमित्तस्य संजातत्वेन तत्रैवोपरमस्य युक्तत्वात् । अनूयाजप्रतिषेधस्तु नित्यानुवादत्वेनार्थवादमात्रमौचित्येनेडान्तत्वस्तु त्यर्थ न विरुध्यते । तथा च दशमाध्याये षष्ठे पादे जैमिनिः-प्रतिषेधादर्थवत्वाचोत्तरस्य परस्तात्प्रतिषेधः स्यात्, प्राप्तेर्वा पूर्वस्य वचनादतिक्रमः स्यादिति । प्रायणीयायां व्याख्याते एते सूत्रे ।

ध्रुवाशेषादापतये त्वा गृह्णामीति कꣳसे चमसे वा तानूनप्त्रꣳ समवद्यति चतुरवत्तं पञ्चावत्तं वा ।

अत्र लौकिक एव चमसो न प्रणीतार्थचमसः । तस्येष्ट्यर्थत्वात् । तानूनप्त्रग्रहणस्य चाप्राकृतकार्यत्वात् । अहोमार्थत्वादयं चमो वारणवृक्षनः । तत्स्वरूप वक्ष्यमाणसो. मचमसवत् । नुहोमीतिलिङ्गादेतस्यापि होमार्थत्वमिति ययुच्यते तदा वैककत एवा. यम् । अवघाणस्यापि अदनरूपत्वेन तत्साधनत्वाच्चमसशब्दार्थो बाधितो न भवति । अवघाणस्यादनरूपत्वमवयमेव तन्नेव प्राशित- नेवाप्राशितमिति श्रुतितो ज्ञेयम् । चमुधारवर्षादनपर्याय एव ह्यशधातुः। तनूनप्तृदेवतासंबन्धात्तानूनप्त्रमित्याज्यसमाख्या । येनस्विनः सख्यमुपगच्छन्ति । व्यवस्थितविकल्पोऽयमिति केचित् । गृह्णाम्यन्ताः पञ्च मन्त्राः । एतेषां मन्त्राणां मध्य एकैकेन मन्त्रेणैकैकं समवद्यति । पञ्चाक्त्तपक्षे पञ्चवार समवद्यति चतुरवत्तपो चतुर्वारम् । समवदानं ग्रहणम् । यद्यप्यत्रैतरितिवचनं नास्ति तथाऽप्युत्तरसूत्रादयमर्थो लभ्यते ।

अवशिष्टो विकल्पार्थो यदि चतुरवत्तम् ।

अवशिष्टः शक्मन्नोजिष्ठाय त्वा गृह्णामीति मन्त्रो विकल्पार्थों भवति यदि चतुरवत्तं । सत्याषाढविरचितं श्रौतसूत्र- [सप्तमप्रभे- तानूनप्पं मवति तदा । पञ्चावत्तपक्ष एव विनियोग इति न किं तु चतुरवत्तपोऽपि चतुर्णा मन्त्राणामन्तिमेन विकल्पितो भवतीति निकृष्टोऽर्थः ।

तदनाधृष्टमसीति सर्वर्त्विजः समवमृशन्ति ।

तत् तानूननं सर्वे च त ऋत्विजश्च सर्वविजः । सर्व ऋत्विज इत्यसमस्तपाठो वा। समवमृशन्ति सहैवावमृशन्ति अवनताः सन्तो मृशन्ति स्पृशन्ति । सदस्यश्चेत्सोऽपि तानूनप्त्रमवमृशति सहैव । सर्वग्रहणं सर्वे स्वयमेवाभिमशेरनान्योऽन्यस्य प्रातिनिध्ये. नेत्येवमर्थम् । विग्रहणं चमसाध्वर्युव्यावृत्त्यर्थम् । याजुषहौत्रसत्त्वे तद्रीत्यैव होत्रा- दयः कूर्यः । आश्वलायनहोत्रसत्त्वे तदोत्या थाजुषरीत्या वा । अनभिशस्तेन्यमि- न्यन्तो मन्त्रः । तस्माद्यः सवानूनप्त्रिणां प्रथमो द्रुह्यति स आतिमाईतीति ब्राह्मणम् ।

समवमृष्टं प्रजापतौ त्वा मनसि जुहोमीति त्रिरवघ्रायान्तर्वेदि निनयति ।

समवमृष्टमिति पचनं सर्वैः समवमुत्रस्यैव तानूनप्त्रस्यावघाणं यदि कस्यचित्प्रति. बन्धेन समवमर्शो न जायते तदा तदीयसमवमर्शार्थ प्रज्ञातं तत्स्थापयित्वा तत्समवमत्तरमवघाणं कार्यम् । अनि कर्म तु कर्तव्यमेव । सर्वथा कस्यचिन्मह्ता प्रतिबन्धेन समवमर्शी नैव जायते तदा तस्याऽऽविज्यकरण एवायोग्यत्वादन्यं वृत्वा तेन समय- मर्शे कृतेऽवनाणं कर्तव्यम् । अतानूनप्त्रिणा यजमानेनस्विजा वा कर्मणि क्रियमाणे पावद्धिदिनैः क्रतुः समापनीयो भाति तावत्संख्येषु दिवसेषूपवासः कर्मसमाप्ती मनो ज्योतिरित्याहुतिश्चेति कौशिकसूत्र उक्तम् । सकृन्मन्त्रेण द्विस्तूष्णीमित्येवं त्रिः प्राश. नमिति केचित् । अन्ये तु न प्राश्नन्ति न जुह्वत्यय व तानूननं प्रतितिष्ठतीति होम- प्राशने प्रस्तुत्यावघाणविधानाज्नुहोमीति लिहाच त्रिमन्त्रेणैवावप्राणमित्याहुः । सर्व- स्यैवाऽऽज्यस्यावघाणम् ।

प्रतिषिद्धमेकेषाम्

अन्तदि निनयन प्रतिषिद्धमे केषामाचार्याणां मते । अन्तर्वेदिनिनयनप्रतिषेधादहि- निनयनं तु भवत्येव नतु निनयनमेवानेन प्रतिषिध्यते । नचावघ्राणस्यापि प्रतिषेधोऽ. स्त्विति वाच्यम् । श्रुतौ तानूनप्त्रावघाणस्य तानूनप्त्रप्रतिष्ठारूपत्वेनोक्ततया तस्य प्रतिषेध्दुमयोग्यत्वात्, विगीतत्वमूलकत्वेनान्तर्वेदिनिनयनस्यैव प्रतिषेध्यत्वकल्पनाया उचितत्वाच्च।

असंचर उत्सिञ्चतीत्येकेषाम् ।

जनानां यत्र संचरो मार्गो नास्ति तत्रोसिञ्चतीत्येकेषामाचार्याणां मतम् । तेन पूर्व- मतेऽप्यसंचर एव निनयनं परं तु अस्मिन्मत उत्सेचनं नास्तीत्येतावान्भेद इति द्रष्टव्यम् । १ख, ग, मनसा। ६६१ ३ तृपटलः ] गोपीनाथमट्टकृतज्योत्मान्याख्यासमेतम् ।

अग्नीन्मदन्त्याऽऽपा ३ इति पृच्छति ।

किमापो मदन्त्य उष्णीभूता आपः किमित्याग्नीधे प्रति प्रश्नः । मदन्तीशब्दोऽप्सु तप्ततामाचष्टे । मदन्त्य आपा इत्यपेक्षिते मदन्त्याऽऽपा ३ इति संधिरार्षः । प्रश्ने तुतिः । अत एवावगम्यते पूर्वमग्नीघाऽऽपोऽधिश्रिता इति । तत्कालस्तु प्रागेव दर्शितः । परप्रत्यायनार्थत्त्वादुच्चैस्त्वम् ।

मदन्ति देवीरमृता ऋतावृध इत्याग्नीध्रः प्रत्याह ।

देवीदेव्यः स्वच्छा अमृता अमृततुल्या ऋतावृधः । अतं मानसिक सत्यं तदमिवर्ष- यन्तीत्यूतावृधः । यत्स्पर्शोऽपि मनःशुद्धिकर एतादृश्य आपो मदन्त्यः । तप्ता इति प्रत्युत्तरवाक्यार्थः । अत्रापि पूर्ववदुच्चेस्त्वम् । अग्निमिन्ध इत्यग्नीत् । तस्य गृहमानी- ध्रम् । अग्नीधः शरणे रमं चेति । शरणं गृहं तात्स्थ्यात्सोऽप्याग्नीधः । ऐष्टि- कपाशुकयोः सोमकर्मवट्टहासंभवात्स्थानमात्रं लक्षणीयं तत्स्थस्वादाग्नीधो भवति । ऐष्टि. कपाशुकयोरानीघ्रस्थानं यत्र तिष्ठन्नाश्रावयति तत् । सौमिके तु आग्नीधमण्डप एवं विहितोऽस्ति तदेव स्थानं तस्य । ऋत्विविशेषवाच्ययं शब्दः सूत्रकारैर्भत्विग्विशे- घेऽप्यानीधशब्दप्रयोगात्तदनुरोधेनानीधः शरणे रणमं चेति सूत्र(वार्तिक)स्थचकारोऽ. नुक्तसमुच्चयार्थो वक्तव्यः । तेनानुक्तस्यत्तिविशेषरूपार्थस्य संग्रहः सिद्धो भवति ।

ताभिराद्रवेति संप्रेष्यति ।

ताभिरद्भिः सह, आ समीपे द्रव, एहीत्यर्थः संप्रेषस्य । अत्रापि पूर्ववदुच्चैस्त्वं, प्रश्नवलात्सानिध्यसिद्धेर्दूरानाहानामावान्न प्लुतिः । प्रश्नस्तु सांनिध्य एव संभवति नासां- निध्य इति ज्ञेयम् ।

मदन्तीभिः पाणीन्प्रक्षालयन्ते ब्रह्मा राजानं विस्रꣳसयति ।

मदन्तीमिस्तप्तामिरद्भिः । बहुवचनात्सर्वे तान्नत्रिणः । ऋत्विगपेक्षया पाणी- निति बहुवचनम् । सः पाणिप्रक्षालने कृतेऽनन्तरं ब्रह्मा राजानं विलंसयति । वहन णाकर्मसु सदसद्विवेचनाद्ब्रह्मा । ब्रह्मा सर्वविद्यः सर्व वेदितुमर्हतीति निरुक्तात् । सर्ववित्त्वं सदसद्विवेचकत्वं, यः सर्ववित्स ब्रह्मा मवतीति निरुक्तार्थः । सर्वविदित्यस्य विवरणं सर्व वेदितुमर्हतीत्यनेन क्रियते । विस्त्रप्सनं बन्धनाद्विमोचनम् । ब्रह्मत्वविधे. रवसरख्यापनार्थमत्र वचनम् ।

अꣳशुरꣳशुरिति तꣳ सर्वे सहिरण्यैः पाणिभिराप्याययन्ति ।

सर्वे तानूनप्त्रिणः । आप्यायनलिङ्गेन मन्त्रेणाऽऽमर्शनमेवाऽऽप्यायनम् । अद्भिः सेचनमित्यन्ये । वरणक्रमेण सहैव वाऽऽप्याययन्ति । सहिरण्यैः पाणिभिरित्याप्याय. नाङ्गं पाणिषु हिरण्यधारणं विहितं भवति । ८४ ६६२ सत्याषाढविरचितं श्रौतसूत्र- [७सप्तमप्रश्ने-

प्रत्युपनद्धेऽप उपस्पृश्येष्टा राय इति प्रस्तरे निह्नुवते सव्यान्नीचः पाणीन्कृत्वा दक्षिणानुत्तानान् ।। ११ ।।

इति हिरण्यकेशिसूत्रे सप्तमप्रश्ने तृतीयः पटलः ।

कृत्वा निहनुवत इत्यन्वयः । सर्वैराप्यायने कृते प्रत्युपनद्धे पुनर्बद्धे राज्ञि ब्रह्मणैव परिकर्मिणेति केचित् । येन विलंसनं कृतं तेनैव बन्धनं कर्तव्यमिति ब्रह्मणेत्येव युक्तम् । सोमस्याऽऽप्यायितस्यान्तरिक्षदेवत्यत्वाच्छादनेन . द्यावापृथिवीभ्यां सव्या- नीचः पाणीन्कृत्वा दक्षिणानुत्तानानित्येवंरूपनमस्काराञ्जलिकरणं निवः । प्र वा एतेऽस्माल्लोकाच्च्यवन्त इत्युपक्रम्य द्यावापृथिवीभ्यामेव नमस्कृत्यास्मिल्लोके प्रतिति- ष्ठन्तीति श्रुतेः । द्यावापृथिवीभ्यामेव तन्नमस्कुर्वन्त्यथो एने वर्धयन्त्येवेति वढचश्रुतेः । नमो दिवे नमः पृथिव्या इति मन्त्रलिनाच्च वचनात्प्रस्तरे निवः । न्यक्शब्दस्य द्वितीयाबहुवचनं नीच इति । अत्र केचिदुद्भातारः सुब्रह्मण्याह्वानं कुर्वन्ति केचिन्न । स्वोद्गातृवशेन कर्तव्यम् । इति श्रीमदोकोपाहाग्निष्टोमयाजिसाहस्राधियुक्तवाजपेययाजिसर्वतोमुखः याजिद्विपाइसाग्नियुक्तपौण्डरीकयाजिगणेशदीक्षिततनूजगोपीना- थदीक्षितविरचितायां श्रीमद्भगवत्सत्यापाढहिरण्यकेशि- सूत्राम्बुधिगतनिगूढार्थरत्नालाभकृतविदजनसंता- पशामिकायां ज्योत्स्नाख्यायो वृत्तौ सप्तम- प्रश्नस्य तृतीयः पटलः ॥ ३ ॥

7.4 अथ सप्तमप्रश्ने चतुर्थः पटलः ।

प्रवर्ग्येण प्रचर्योपसदा प्रचरत्युपसदा वा प्रचर्य प्रवर्ग्येण प्रचरति ।

तत्र प्रवग्र्यो मन्त्रब्राह्मणयोरनारभ्याधीत इति सूत्रकृताऽपि स्वतन्त्र एवं व्याख्या यते । तत्र प्रभार्येण प्रचर्योपसदा प्रचरतीत्येकः पक्षोऽनुष्ठानक्रमे । उपसदा प्रचर्य प्रवर्येण प्रचरतीत्यपरः । तत्रैतद्वा विपरीतमिति लाघवेन वक्तव्ये गुरुनिर्देशप्रयोजन ग्रोवा उपसदः पुरस्तादुपसदा प्रवाई प्रवृणक्ति यत्पुरस्तादपसदं प्रवृज्यते तस्मादितः पराङमूल्लोकास्तपन्नेति यदुपरिष्टादुपसदां प्रवृज्यते तस्मादमृतोऽङिमाल्लोकास्तप- नेतीति निन्दाप्रशंसाम्यां प्रत्यक्षश्रुतिविरुद्धमिति नाऽऽशङ्कनीयं सोऽपि प्रत्यक्षभूत एवेतिज्ञापनम् । अधीयते हि माध्यंदिनः(नाः)-शिरो वा एतयज्ञस्य यत्प्रवर्यो ग्रीवा उपसद उपरिष्टादुपसदा प्रवृज्यात्तस्मादपरिष्टाग्रीवायाः शिरो भवतीति। .. ४ चपटलः ] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । ६६३

यदातिथ्याया बर्हिस्तदुपसदां तदग्नीषोमीयस्य तत्प्रस्तरपरिधि ।

। यदातिथ्याया बहिस्तदुपसदामपि बहिर्भवति तदेवाग्नीषोमीयस्य पशोरपि । अनेनाऽऽतिथ्योषसदोषोमीयाणां साधारण्येनैकं बर्हिः प्रस्तरः परिधयश्चेति प्रतिपा- यते । नच यादृशमाश्ववालादिकमातिथ्यायां ताहगेवोपसदग्नीषोमीययोरित्यनेन प्रति- पाचते नतु साधारण्यमिति वाच्यम् । तथा सति विधेः कर्मापवर्णित्वादर्थान्तरे विधि- प्रदेशः स्यात् । अपि वोत्पत्तिसंबन्धोऽविशिष्टानां प्रयोमैकत्वे हेतुः स्यादितिनैमिनिन्या. यविरोधापत्तेः । अयं च न्यायश्चतुर्थाध्याये द्वितीयपादे वर्तते । एवं चैकमेव बहि: प्रस्तरः परिधयश्चेति । सूत्रार्थस्तु विधेविधिगम्यातिथ्यासंबन्धस्य बर्हिषः कमीऽऽति. थ्यारूपं तस्यापवर्गे समाप्ती, अपवर्णित्वादहिषोऽपवृक्तत्वात् , अर्थान्तरे मिन्न उपस- हिषि विधिप्रदेशो धर्मातिदेशः स्यादिति पूर्वसूत्रार्थः । अपि वेति पूर्वपक्षव्यावर्त- नाय । अविशिष्टानामातिथ्योपसदग्नीषोमीयाणां त्रयाणामपि उत्पत्तिर्हिष उत्पत्ति- स्तत्संबन्धादातिथ्याया बहिस्तदुपसदां तदग्नीषोमीयस्येत्यनेन प्रदर्शितः स बहिष उपादानसंस्काररूपप्रयोगस्यैकत्वे हेतुर्भवतीत्युत्तरसूत्रार्थः । तथाच त्रयाणामप्यर्थे सक- देकमेव बहिरुपादेयं संस्कार्य चेति सिद्धान्तार्थो ज्ञेयः । यदातिथ्याया बहिरित्यस्मि- न्सूत्रे बहिरित्युपलक्षणं विधृत्योः । अत्र ज्ञापकमातिथ्येष्टाविक्षुशलाके विधृती इत्यस्मि- न्मूत्र उक्तमेव । अत्र प्रस्तरग्रहणमन्यत्र बर्हिग्रहणेन प्रस्तरस्य ग्रहणं.न भवतीतिज्ञा- पनार्थम् । तेन चातुर्मास्यादिषु प्रसून बहिस्त्रीकपालान्संनदै कभ्यं पुन संनह्यतीत्यादौ न प्रस्तरस्य ग्रहणम् । शरमयं बहिरित्यादावपि आतिथ्यावहिरादीनामातिथ्यादित्र- यार्थमुत्पत्तिरतस्तान्यादाय तूष्णीसेव संनह्य पुनः पुनः प्रयुञ्जीत । तत्प्रस्तरपरिधीति बहिर्विशेषणम् । प्रस्तरश्च परिधयश्च प्रस्तरपरिधयः, त एवं प्रस्तरपरिधयो यस्मिन्ब- हिषि तर्हिस्तत्प्रस्तरपरिधि । अनेन प्रस्तरवत्परिधीनामपि बहिण्येव सननं भवति न विध्मे । तेन षोडशदारुत्वमेवेमस्य । अथवा तत्प्रस्तरपरिधीति क्रियाविशेषणम् । सा च क्रिया संनहनरूपा । प्रस्तरश्च परिधयश्च प्रस्तरपरिधयः स एव प्रस्तरस्त एवं परिधयो ययोबहिःसनहनेमसंनहनरूपक्रिययोर्यथाक्रमं यथा भवति तथोभयनिहनत्व- सानात्येन मिलित्वा तत्प्रस्तरपरिधि संनहनं भवति । बर्हिः संनहनं तत्प्रस्तरम् , इध्म- संनहनं तत्परिधि, तेनैव प्रस्तरेण सह वाह:सनहनं, तैरेव परिधिमिः सहेमसंनहनं भवतीति तात्पर्थिः । अथवोपसदनीषोमीयात्मकक्रियाविशेषणम् । पुंलिङ्गप्रथमाबद्दु. वचनविशिष्टयच्छन्दसहित षष्ठयन्तमातिथ्यापदमत्रानुवर्तनीयम् । तथा चायमर्थो भवति य आतिथ्यायाः प्रस्तरो ये च परिधयस्त एवोपसत्सहिताग्नीषोमीयात्मककर्मणि भवन्तीति । समासस्तु पूर्वव देव । संभरण तु परिधीनां पृथगेवामन्त्रम् । सहैव संभरणे मन्त्रविरोधः स्यात् । नचैकविशतिधेत्यूहोऽस्तु तथा च सहैव संभरणे विरोधो न । पोडशदारुमिधर्म संनह्यतीति सूत्रं तु परिधीनां परिहितत्वपक्षामिप्रायेण योननीयमिति ६६४ सत्याषाढविरचितं श्रौतसूत्रं- [सप्तमप्र- याच्यम् । आतिथ्यायां मन्त्रेण संभृतानां पुनर्मन्त्रेण संभरणायोगात् । अन्यथाऽऽति. ध्यावहिषोऽपि पुनमन्त्रेण संभरणापत्तेः । इष्टापत्तौ मैमिनीयन्यायविरोध: आपद्येत । अतः संभरणममन्त्रमेवेत्येव युक्त, संनहनमप्यनेनैव प्रकारेण तूष्णीमेव ।

स्तीर्णं प्रस्तरबर्हिरुपसत्सु शयाः परिधयः ।

पक्षान्तररामिप्रायेणेदं सूत्रं योजनीयम् । पूर्व सूत्र पुनः पुनस्तान्येवोपादाय प्रयो- ज्यानीत्येतादृशार्थपरम् । आतिथ्यार्थ स्तीर्ण बहिस्तथैव स्थापनीयं तच्च प्रस्तरेण संयुक्तमेव स्थापनीयम् । अत्र प्रस्तरग्रहणाभावे प्रस्तरस्य स्थानादादाय पुनः पुनः स्थापनं स्यात्तन्मा मूदित्येतदर्थ शया आतिथ्यायां ये परिहिताः परिधयस्ते तथैव स्थापनीया इति न तु पुनः पुनरावायतत्सर्वे प्रयोज्यमिति स्तीर्ण प्रस्तरबहिरित्यतस्य सूत्रस्यार्थः । यदातिथ्यायाः प्रस्तरबार्हः स्तीर्ण शयाः परिधयस्तथैवोपसदां तदग्नीषोमी- यस्य चेति लाधवादेव बहिषः स्तीर्णत्वसिद्धौ परिधीनां परिहितत्वसिद्धौ च यदातिथ्याया बहिरित्यारम्य शयाः परिधय इत्यन्तं गुरुसूत्रकरणं व्यर्थं स्यादतोऽर्थद्वयबोधकत्वमेव वक्तव्यम् । उक्तं चार्थद्वयमापस्तम्बेन-आतिथ्यावहिरूपसदामग्नीषोमीयस्य च तदेव प्रस्त- परिधि तत्स्तीर्ण बहिस्तत्परिधिताः परिचय इत्येक इति । तदेव प्रस्तरपरिधी- त्यन्तं पुनःप्रयोगाभिपायेणैव तद्याख्यातृभिर्व्याख्यातम् । तत्स्तीर्णमित्यादिकं तु पुनःप्र. योगामावामिप्रायेणेति । परिचिताः परिहिता इत्यर्थः । छान्दसोऽयं प्रयोगः । स्तीर्ण प्रस्तरेण युक्तं च बर्हिरुपसत्सु भवति परिधयः शयाः परिहिता भवन्ति । अग्नीषोमाये तु देशभेदात्पुनः प्रयोगः सूत्रोक्तः । प्रयोगक्रमस्तु स्तीर्णपक्षाभिप्रायेण द्रष्टव्यो गृहमे- धीयप्रयोगवत् । यदातिथ्याया बहिस्तदुपसदामग्नीषोमीयस्य चेत्येतावतैव सिद्धे पुनस्त. च्छब्दोपादानमर्थविशेषमपि द्योतयति । अग्नीषोमीयस्याऽऽतिथ्यावहिरेव बर्हिस्तस्य स्तरणं यत्र कर्तव्यं भवति तद्देश एव वेदिकार्यकरो न कृत्स्ना महावेदिशिते । तेनोत्त- रवेदिहविनियोर्मध्य एव यावत्पर्यन्तमास्तृतं पश्वर्थमातिथ्यानाहर्भवति तावति प्रदेश एव वेदिप्रयुक्तकार्याणीति । एतदभिप्रेत्यैव वक्ष्यति सूत्रकारः-अपरेणोत्तरवेदि मन्त्रेण बर्हिः स्तुणातीति । कृत्स्नस्योत्तरवेदितः पश्चिमभूतस्य महावेदिप्रदेशस्यैनपा व्यावृत्तिः क्रियते । तदग्नीषोमीयस्य चेत्यग्नोषोमीयवचनं सवनीयादिव्यावृत्यर्थम् । तेन सवनी- यादौ वेदिप्रयुक्त कार्याणि महावेद्यामेवेति ज्ञेयम् । स्पष्टं चैतत्सूत्रान्तरे- अग्नीषोमीय उत्तरवेदिहविर्धानयोर्मध्यप्रदेशोऽसंचरो वेदिस्तत्र प्रोक्षणबहिःस्तरणादीति । अग्नीषो- मीय इति सप्तमी । असंचर इत्यनेनोत्तरभागो द्वारं च व्यायते। संचरोऽत्र लौकिकः । न विद्यते संचरो यस्मिन्प्रदेश इत्यसंचरः। इदं चोत्तरवेदिहविर्धानमध्यप्रदेशविशेषणम्। उपप्तस्वितिवचनमुपसत्स्वेव प्रस्तरयुक्तं बर्हिः स्तीर्ण नाग्नीषोमीयेऽपि । तेनाग्नीषोमाये बहिरास्तरणाव्यवहितोत्तरमेव प्रस्तरयुक्तमिति बहिर्विशेषणसिद्धं प्रस्तरासादनं न किंतु स्वस्थान एव। ४ ५०पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ६६५

उपसदस्तन्त्रं व्याख्यास्यामः ।

उपोपगतानि संगतानि एतादृशानि पुराणि विशीर्णानि भवन्ति यया सोपसत् । उपोपगताः स्वेन सह संगता अपि भ्रातृव्या विशीर्णा भवन्ति यजमानस्य यया सा वा । एतादृश्युपमन्नामकेष्टिस्तस्यास्तन्त्रं कर्मकलापस्तं व्याख्यास्यामः । खण्डतन्त्रत्वा. नानाश्रुतिभ्यः कर्तव्यत्वेनाभिमतं तन्त्रमुपसंहृत्य कथयिष्याम इत्यर्थः । तेषामसुराणां तिस्रः पुर आसन्नित्यत्रोपसद्विषयिण्याख्यायिका प्रसिद्धा । पुराणां संगतत्वं स्कान्द- पामादिपुराणेषु प्रसिद्धम् ।

तस्यामाज्यꣳ हविः ।

उत्तरत्र विनियोगादेवाऽऽज्यस्य हविष्ट्वे सिद्ध इदं वचनमेतस्या इष्टेरपूर्वस्वमेवेति. ज्ञापनार्थम् । तेनात्रापि यावदुच्यते तावदेव कर्तव्यमिति सिद्धं भवति । ननु तत्र याव- क्रियते तव्याख्यास्याम इति प्रायणीयावदेवात्र कुतो वचनं न कृतमिति चेन्न । हौत्र- तन्त्रविषयेऽप्यपूर्वत्वस्यात्राऽऽवश्यकत्वेन हौत्रतन्त्रविषयकापूर्वस्वनिवर्तकस्य तत्र याव- स्क्रियते तद्याख्यास्याम इत्यस्य वचनस्य प्रकृतेऽनिष्टत्वेन तदनुक्तेरेव युक्तिमहत्वात् । तेन देवा यो इत्यादिकं प्राकृतं हौत्रतन्नमपि निवर्तते । तथाचाऽऽश्वलायनः- -अथो पसत्तस्यां पिव्यया जपा इति । जैमिनिरप्येतस्या इष्टरपूर्वत्वं दशमाध्याये षठे(सप्तमे) पाद आह-उपसत्सु यावदुक्तं कर्म स्यात् , नौवेण वा गुणताच्छेषप्रतिषेधः स्यात्, अप्रतिषेधो वा प्रतिषिध्य प्रतिप्रसवात् , अनिज्या वा शेषस्य मुख्यदेवतानमीष्टत्वादिति चतुर्भिः सूत्रैः । सूत्रार्थस्तु-उपसत्सु अप्रयानास्ता अननूयाजास्ता इति प्रयानान्यान- निषेधादेतद्वनितं यावदुक्तं सर्व कर्तव्यं स्यादिति प्रथमसूत्रार्थः । द्वितीयसूत्रार्थस्तु- नुवेणाऽऽधारमाघारयति यज्ञस्य प्रज्ञात्या इति विहितः सुवाधारः स्रोवः । ततः नौव- शब्दान्मस्वर्थीयोऽच्प्रत्ययः । तथा च स्त्रौववानित्यर्थों भवति । स्त्रीववदितिपदं योग्य- तया वाक्यविशेषणं प्रतिपाद्यतासंबन्धेन । तथा च सुवेगाऽऽघारमाघारयति यज्ञस्य प्रज्ञात्या इति युवाधारप्रतिपादकवाक्येनेत्यर्थों भवति । अप्रतिषिद्धादापारातिरिक्ता- विहिताच्च कर्मणोऽन्यत्कर्म शेषशब्देनोच्यते । तस्य सर्वस्य प्रतिषेधो भवतीति गुण- स्वाद्गुणवत्वात् , स्वाधारस्याऽऽख्यातसद्भावरूपप्रज्ञातिरूपगुणवत्वाच्चैतेन सुवाधार- प्रतिपादकवाक्येन शेषकर्मणां प्रतिषेध इति । आधारवचनं नान्यामाहुति पुरस्तादिति प्रतिषिद्धस्य प्रतिप्रसवार्थमस्त्वित्याशङ्कते तृतीयेन सूत्रेण प्रतिषिद्धस्य प्रतिप्रसवार्थ- स्वान्न शेषप्रतिषेध इति । तत्राऽऽग्नयी सौमी वैष्णवी चेति तिस्रः प्रधानाहुतयो या ते अग्न इत्यौपसदाहुतयश्चाऽऽनाता नत्वापारादय इत्यनाम्नानादभावशङ्कायां सत्यां प्रति. , 7 १ स. ग.ते।। सत्यापाढविरचिंतं श्रौतसूत्र- [७सप्तमप्रश्ने षेधः प्रसक्तस्तत्प्रतिप्रसवार्थ वचनम् । एवं चाऽऽघारयतीति सर्वप्राकृतोपलक्षणार्थमि- त्यर्थः । चतुर्थमूत्रार्थस्तु-शेषस्य प्रधानाधाराहुतिव्यतिरिक्तास्वा (क्तस्याऽऽ)हुतिसमुदा- यरूपस्यानिज्या न होमो यागश्च । मुख्यास्तिस्रो देवतास्तासां फलप्रदाने नान्यामाहुति- मितिनिषेधेनेतराहुतीनां मुख्यदेवतानभीष्टत्वात्फलपदानाननुगुणत्वात् । निषिद्धानु छाने प्रकृतफलं नैवोत्पद्यते मुख्यदेवतानां फलप्रदानविषयेऽभीष्टफलप्रदातृत्वानुगुण्यं न भवतीति ।

अग्निः सोमो विष्णुर्देवता।

उत्तरत्र विधिदर्शनादेवैतासां देवतात्वसिद्धाविदं वचनं तिमृणामपि देवतानां प्रधा. नत्वब्यापनार्थम् । तेनाग्नेः सोमस्य चाऽऽज्यभागदेवतात्वशङ्का परिहता भवति । फलं दधिरसीत्येव सर्वानुमन्त्रणम् ।

उपाꣳशुयाजेन कल्पो व्याख्यातः ।

कल्पः प्रकारः। सादृश्याद्विकारः, विप्रतिषेधे हविःसामान्य बलीय इति सूत्राम्या- मेवोपांशुयाजविकारत्वसिद्धौ परप्रत्यायनार्थत्वेनाऽऽश्रावणप्रत्याश्रावणसंप्रैषवषट्काराग्ः- प्रणवानामुच्चैस्त्वे प्राप्त उपप्तदि सर्वस्याप्युपांशुताया उपाशूपसदा चरामेति श्रुत्या विहितत्वेन तदुच्चैस्त्वं बाधित्वोपांशुत्वं प्राप्तमाज्यहविषोपांशयाजेन प्रचरति तस्योच्चैरा- श्रुतप्रत्याश्रुते याज्यापुरोनुवाक्यासपो वषट्कारश्चोपांशु देवतादेशनमित्युपांशुयाजधः पुनस्तदपि बाधितुमिदं वचनम् । वषट्कारश्चेत्यत्रत्यचकारेणाऽऽगूःप्रणवयोः संग्रहः । तथाचाऽऽश्वलायनः-आगूःप्रणववषट्कारा उच्चैः सर्वत्रेति । उच्चैस्त्वेऽन्य च विशेष- माह स एव-तन्त्रस्वराण्युपांशोरुचानि मन्द्राण्युपांशुतन्त्राणामिति । एतेनोपसदामुपांशु- तन्त्रत्वादेतेषामुच्चैस्त्वं मन्द्रस्वरात्मकं भवति । नचोपांशूपसदा चरामेत्येतस्याः श्रुतेः प्रधानमात्रपरत्वमिति वाच्यम् । तस्य चोपांशुयानविकारत्वेनैव सिद्धी श्रोनिष्प्रयो। जनत्वापत्तेः । एवं च साङ्गप्रधानपरतायां सिद्धायामाश्रावणादिविषयक श्रुतिसिद्धमुपां- शुत्वं बाधितुमपेक्षितमेवेदं सूत्रमिति ज्ञेयम् । प्रणवः पुरोनुवाक्यायाः । सामिधेनीषा- दिषु तु संज्ञयैव परप्रत्यायनं राजसूयान्तर्गतमारुत्याश्रावणप्रत्याश्रावणवत् । सा च संज्ञा हस्तमध्यमाङ्गुल्यङ्गुष्ठसंस्फोटनेनैव । अथवाऽत्र प्रेषविषये परप्रत्यायनार्थत्वानो- पांशत्वमित्येव स्वीकर्तव्यम् । मारुत्याश्रावणप्रत्याश्रावणयोस्तु वचनात्परप्रत्यायनार्थ- स्वेऽप्युपांशुत्वमेव । परप्रत्यायनं तु संजयैव सामिधेनीविषय उपाशूपसदा चरामेति -श्रुत्याऽङ्गानामप्युपांशुत्वस्योक्तत्वात् । पित्र्योपासनः सतन्त्रा इत्याश्वलायनसूत्राचोपा- शुत्वमेव । प्रणवपरिज्ञानार्थ मध्यमाङ्गुल्यसंस्फोटनमत्रापि । आश्वलायमोक्तममन्द्र- स्वपक्षस्तु श्रुतिविरुद्धत्वान्नात्र मवति । " च०पटलः ] गोपीनाथमट्टकृतज्योत्स्नाव्याल्यासमेतम् ।

अग्नीनन्वाधाय षोडशदारुमिध्मꣳ संनह्यति ।

अग्न्यन्वाधानवचन प्रयोजनं प्रायणीयावज्ज्ञेयम् । सनहनं संमरणोपलक्षणम् । इदं

च षोडशदारुत्वमातिथ्यायां परिहिताः परिधयस्ते तथैवोपसत्सु भवन्तीति पक्षे । अग्नीनन्वाधायेति त्यविध्माहरणाव्यवधानार्थः । तेन परिस्तरणाद्यर्थदर्भच्छेदनमिध्माह- रणानन्तरमेव भवति नात्रेति । नतु पौर्णमासतन्त्रत्वख्यापनार्थः । तस्य सादृश्याद्वि- कारः स लिङ्गेन गम्यतेति सूत्रादुपांशुयानसत्त्वरूपलिङ्गेनैव सिद्धेः । इध्मसंभरणमन्त्र एवमूहः-यत्कृषणो रूपं कृत्वा प्राविशस्त्वं वनस्पतीन् । ततस्त्वा षोडशधा संभ. रामि सुसंभृता । एका समिधं यज्ञायुरनुसंचराम् । उपवेष संमरामि सुसंभृतेति । उपवेषशब्दविवक्षयाऽनुसंचरमित्येव वा । अपरिहितत्वपक्षे तु इध्मे संभरणं परिधीनां पृथगेवामन्त्रमित्युक्तमेव प्राक् । संभृतत्वान्न मन्त्रेण संभरणम् ।

वेदं कृत्वाऽग्नीन्परिस्तीर्य पाणी प्रक्षाल्योलपराजीꣳस्तीर्त्वा यथार्थमाज्यपात्राणि प्रयुनक्ति स्फ्यꣳ स्रुवꣳ स्रुच आज्यस्थालीं येन चार्थः ।

वेदं कृत्वेति क्त्वाप्रत्ययान्तानुवादप्रयोजनं प्रायणीयावद्रष्टव्यम् । उपवेषस्य करणं पात्रप्रयोगकालेऽपि न तस्य प्रयोजनाभावात् । अग्नीन्मरिस्तीर्येत्यादि उलपराजीर स्तीवेत्यन्तं कृतव्याख्यानम् । यथार्थं यथाप्रयोजनम् । अर्थ प्रयोजनमनतिक्रम्य यथार्थम् । आज्यार्थानि पात्राणि आज्यपात्राणि । आज्यवचनमाज्यार्थपात्राणामुक्ताना. मनुक्तस्य च प्रथम प्रयोगस्तदनन्तरं तदितरपात्रप्रयोग इत्येवं क्रमविशेष सूचयितुम् । आज्यपात्रेषु यथार्थशब्दोपादानं निषेचनपात्रस्यानुक्तस्यापि प्रयोगार्थम् । कपालशूर्प निवृत्तावत्स्मयेन सहत्त्वमग्निहोत्रहवण्याः प्राप्तं तद्वारयितुं स्फ्यस्यानाज्यपात्रवेनाss. ज्यपात्रप्रयोगानन्तरं प्रयोग वारयितुं च स्फ्यादीनां वचनम् । नन्वेवं स्फ्यमाज्यपा- त्राणि येन चार्थ इत्येव लाघवेन वक्तव्यम् । तथा च पृथक्पृथगुद्देशो व्यर्थः, सवस्या- प्याज्यसंबन्धित्वादाज्यपात्रेषु ग्रहणं भविष्यति, निषेचनपात्र प्रयोगार्थ यथार्थग्रहण- मपि न कर्तव्यं भवतीति चेत् । सत्यम् । आज्यपात्रत्वसाजात्येनाऽऽज्यपात्रसमूहात्मक. मेकं पात्रं स्फ्यश्चेत्येवं द्वंद्वत्वापत्तेः(तिः) । अतः पृथक्पृथग्रहणम् । येन चार्थ इति वचनोपात्तपात्रत्रयस्य तु अग्निहोत्रह्वणी दर्भ इत्येवं द्वंद्वम् । सूत्रान्तरे द्वंद्वतार्थ दर्भप्रयोगस्य विहितत्वात् । वेदं वेदानमिति द्वंद्वम् । अथवाऽग्निहोत्रवण्या सह वेदो वैदामेण सह दर्भ इत्येवं द्वंद्वसंपत्तिः । अथवा वेदवेदाने एकमेव द्रव्यं वेदानस्य तज- न्यत्वात् । तेनाग्निहोत्रह्वणी वेदवेदाने इत्येकमेव द्वंद्वमिति द्रष्टव्यम् । निषेचन- पात्रेण सह दर्भ एव द्वंद्वतार्थ भवति । नन्वेवं स्फ्य५ स्नुवमाज्यपात्राणीत्येवमेवास्तु किमर्थं त्रुगादिग्रहणमिति चेत्सत्यं, खुचां समुदायत्वेनैकपात्रत्वं वक्तुमुपादानात् । सत्याषाढविरचितं श्रौतसूत्रं- . [ सप्तमप्रो- रोन जुहूपभूत् ध्रुवा आज्यस्थाली चेत्येवमेवात्र द्वंद्वं भवति । आज्यस्थालीवचनं निषे. चनपात्रस्य प्रथममुपयोगात्तस्यैव स्तुग्भिः प्रयोगोऽपि कदाचित्स्यात्तं वारयितुम् । अवशिष्टं निषेचनपात्रमेव तत्प्रयोगार्थ यथार्थमिति । येन चार्थ इत्याज्यपात्रव्यतिरि- क्तपात्रप्रयोगार्थम् । येनेत्येकवचनं पात्रसमुदायपरम् । तेन पात्रत्रयस्य लामः सिध्यति । एकपात्रपरत्व एकस्यैव पात्रस्य प्रयोगः स्यात् । अन्ययोः प्रयोजनवतो- रपि न स्यात् ।

पवित्रे कृत्वा यजमान वाचं यच्छेति संप्रेष्यति वाग्यतः पात्राणि संमृशति प्रोक्षितेषु वाचं विसृजते ।

पवित्र कृत्वा यजमान वाचं यच्छेति संप्रेष्यतीति वचनाददृष्टार्थत्वेऽपि प्रणीता नेष्यन्ते। कात्यायनेन स्वत्र तासामुक्तत्वात्तन्निरासार्थों वा प्रयत्नः । हविष्कृता वाचं विसनत इति कालाभावात्प्रोसितेषु पात्रेष्वपि वाग्यतेन कर्तव्येषु पदार्थेषु प्राकृतेषु चोदकपातेषु मध्ये न सन्तीति प्रोसितेवित्युक्तम् । वाग्यतो वाचा यतः कृतवाग्यमनः । पाणि. तलेन संस्पर्शः समर्शः । प्रोक्षितेष्वित्यनेन संगृहीताः पदार्थी उच्यन्ते-दक्षाय वानस्प- त्याऽसि प्रत्युष्टर रक्षः, देवो वः सवितोत्पु. अच्छिद्रे. वप्तोः . आपो देवी- रमे शुन्धध्वं दै० । ब्रह्मन्प्रोक्षिष्यामीत्यामन्त्रणं न भवति । हविष इध्माबहिनश्च प्रोक्ष इति ब्रह्मत्वसूत्रे पात्रोक्षणस्थानुपादानात् । प्रसवाभावेनाऽऽमन्त्रणमपि तदनुरो- धित्वान कर्तव्यम् । अथवा चकारेण पात्रप्रोक्षणस्य संग्रहः । अस्मिन्पक्षेऽत्रापि ब्रह्मन्प्रोक्षिष्यामीत्यामन्त्रणं भवति । अत्र प्राक्प्रोक्षणाकस्स्वेति यज्ञं युक्ति यजमानः।

स्फ्यमादाय स्तीर्णाया वेदेर्लोमभ्योऽधिस्तम्बयजुर्हरत्युपरं परिग्राहं परिगृह्य संप्रैषेण प्रतिपद्यते ।

स्पयादानं मन्त्रेणैव स्तम्बयजुरर्थत्वात् । वेद्यभिमर्शन वेदिसंमाननं च न वेदेश्छन्न- त्वात् । लोमानि आस्तृतदर्माः । तदुपरि दर्भ निधाय स्तम्बयजुर्हरति प्रकृतिवत् । तत्र वर्षतु ते द्यौरिति न मवति वेदेश्छन्नत्वादक्षतत्वाच । इमां नरा इति प्रेषोऽपि न वेदेः करणाभावात् । उद्धननखनने न, असंभवात् । उत्तरं परिग्राहं परिगृह्येत्यनु. वादो धा असीति समार्गस्य पुरा करस्येत्यभिमन्त्रणस्य च निवृत्त्यर्थो नतु पूर्वपरिग्राह- निवृत्त्यर्थः । त्यपा मध्यगतोत्तरनिवर्तकत्वस्यैव बोधनात् । * (अभिमन्त्रणमात्रनिवर्त. कत्वेनैवानुवाद सार्थक्यसंभवे पूर्वपरियांहोण्यं सोनयनरूपकद्वयनिवर्तकत्वस्थानौचि- त्यात्।) संप्रेषः प्रोक्षणीरासादयेदि तेन प्रतिपद्यत उत्तरपरिग्राहपरिग्रहणानन्तरं संप्रेष- मेव वदतीत्यर्थः । 0

  • धनुश्चिद्वान्तर्गतं क. पुस्तके नास्ति । ४च पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् ।

यदन्यद्बर्हिषः पत्नीसंनहनाच्च तत्संप्रेष्यति ।

बर्हिषः पत्नीसनहनाच्चान्यद्यत्कर्म तत्संप्रेष्यतीत्यर्थः । यथा प्रोक्षणी रासादयेममुप- सादय नुवं च बुचश्व संमृड्ड्याऽऽज्येनोदेहीति । अस्तीर्णत्वपक्षे वेद्यभिमर्शनं वेदिसंमा- नेनं च भवत्येव वेदेरच्छन्नत्वात् । लोमभ्यः स्तम्बयजुर्हरणं न । वर्षतु ते बोरिति मवत्येव वेदरच्छन्नत्वात्सलतत्वाच्च । इमां नरा इति प्रेषोऽपि भवत्येव वेदेः करणस्य सत्त्वात् । उद्धननखनने धा असीति च भवत्येव संभवात् । पुरा क्रूरस्येत्यनिमन्त्रणं निवर्तत एव वचनबलात् । अस्तीर्णत्वपक्षेऽपि प्रैष एवमेव । नच बहिरुपसादनस्यापे- क्षितत्वात्कथमेतादृशः प्रैषोऽत्रोपयुक्तो भवतीति वाच्यम् । उपपादनस्य प्रोक्षणार्थत्वेन बहिष्प्रोक्षणस्यैवाभावनतस्याप्यभावस्यैव सिद्धत्वेन यथापठितस्यैव प्रेषस्यानोपयोगसं- भवात्। तथा चानुपसादितमेव बाहः स्थापितप्रदेशादादायाऽऽस्तरणीयम् | नच प्रोक्षणम- प्यस्तीर्णत्वपक्षेऽस्तु तदर्थत्वादुपसादनमप्यस्तु तथा च प्रैषस्योक्तस्यात्रानुपयोगात्प्रोक्षणी- रासादयेमाबहिरुपसादय अर्व च चश्च संमृड्ढ्याऽऽज्येनोदेहीति बहिष्पदवानेवा- स्तीर्णत्वपले प्रैषो भवस्विति वाच्यम् । आतिथ्यायां प्रोक्षितस्य पुनःप्रोक्षणायोगाद्याव- जीवं पात्राणि धार्यन्ते तेषां प्रतितन्त्र संस्कारोऽभ्यावर्तत इति पात्राणामेव संरकारा- वृत्तिविधानेनान्यत्र तन्निवृत्तेरुक्तप्रायत्वात् । यज्ञोत्पत्त्युपदेशे निष्ठितकर्म प्रयोगभेदा- प्रतितन्त्र क्रियेत न वा कृतत्वात्तदुपदेशो होति द्वादशाध्यायप्रथमपादान्तर्गतनैमिनि- न्यायसिद्धत्वाच्च । सूत्रार्थस्तु यज्ञानामातिथ्योपसदग्नीषोमीयाणामुत्पत्ती य उपदेशो यदातिल्याया बहिरित्यादिस्तत्रानुष्ठितं बर्हिषि प्रोक्षणादिकं प्रयोगभेदात्प्रतितन्त्रं कियेतेति । निष्ठितकर्मेति पाठे साधारण्येन निश्चितं यद्दहिस्तकर्मेत्यर्थ इति पूर्व सूत्रार्थः । उत्तरसूत्रार्थस्तु कृतत्वात्संस्काराणां प्रोक्षणादीनां कृतवान्न पुनरनुष्ठेया हि यस्मात्त- दुपदेशस्तस्योपदेशस्तदपदेशः। तच्छब्देन बर्हिःसाधारण्यं गृह्यते । तस्य बार्हःसाधा- रण्यस्योपदेशो यस्मादतस्तत्संबन्धिसंस्काराणामपि साधारण्येनैवानुष्ठान नतु प्रतिप्र. योग पृथक्पृथगिति । द्वारसाधारण्ये सत्यातिथ्याकाल एव नियतं प्रोक्षणाद्यनुष्ठानं तु नान्तरीयकमुपसदादेस्तदानीमप्राप्तत्वादिति । अत एव प्राथमिकत्वादातिथ्यायास्तन्निमित्त- त्वमितरयोः प्रसङ्गित्वमिति ज्ञेयम् । बहिप्प्रोक्षणस्य निवृत्तौ सिद्धायां तदर्थस्योपप्ता- दनस्यापि निवृत्तत्वेन यधापठितस्य प्रैषस्य सुतरामुपयोगसंभवात् । ननु पत्नीसनहन- स्यात्रासंभवादेवामावे सिद्ध पर्युदासो व्यर्थ इति चेत्सत्यं, पक्षे पत्नीसैनहनमप्यत्र भवतीतिज्ञापनार्थत्वेन वैयर्थाभावात् ।

यत्प्रागाज्यग्रहणात्तत्कृत्वा ध्रुवायामेव गृह्णाति ।

आज्यग्रहणात्प्राग्वहिरुपतादनपत्नीसनहनव्यातरिक्तं यत्कर्म प्रोक्षण्यासादनप्रभृति ८५ - - 7 सत्याषाढविरचितं श्रौतसूत्र- [ सप्तमप्रने- वेदेनोपयम्य भूमौ प्रतिष्ठितायां धुवायामित्यन्तं तस्कृत्वा ध्रुवायामैव गृह्णाति । एव. कारण जुहूपभृतोराज्यग्रहणं व्यवच्छिद्यते । अनेन सुच्यापाराद्याज्यभागान्तकर्मणो निवृत्तिरुक्ता भवति । तथा चाऽऽपस्तम्बः-- नान्यामाहुति पुरस्ताज्जुहुयात्स्त्रीवमेवाऽऽ- घारयेदिति । अग्ने गृहपत उप मेत्यादिकमुभयपक्षेऽपि पति ।

प्रोक्षणीरभिमन्त्र्य ब्रह्माणमामन्त्र्येध्मं वेदिं च प्रोक्ष्य प्रोक्षण्यवशेषं निनीय पवित्रे अपिसृज्याग्निमभिमन्त्र्य पूर्वामाघारसमिधमाधाय धुवाꣳ स्रुवं च सादयत्येषाऽसददिति मन्त्रꣳ संनमति विष्ण्वसि वैष्णवं धाम प्राजापत्यमित्याज्यमभिमन्त्रयते ।

उक्तेतरपरिसंख्यार्थमनुक्रमणम् । आज्यस्थाल्यपोद्धरणं तु भवत्येव । प्रोक्षणार्थ वेदे रिक्तत्वापेक्षणात् , आज्ये प्रोक्षणविन्दुपातापत्तेश्च । आमन्त्रणेन प्रसवोऽप्युपलक्ष्यते । अन्यथाऽऽमन्त्रणस्यैव निरर्थकरवापत्तेः । इध्मं वेदि चेत्यत्र चकारः परस्परसमुच्चयार्थः । वेदेश्छन्नत्वाद्वेदिप्रोक्षणलोपः शङ्कयेत तन्निवृत्त्यर्थं वेदिमितिवचनम् । नचास्तोर्णत्वपक्ष एवैतवस्तु इति वाच्यम् । अग्नीषोमीय आस्तृताया अपि वेदेः प्रोक्षणविधिदर्शनेना- त्रापि तथैव कल्पनस्य युक्तत्वेन संकोचस्यानुचितत्वात् । प्रोक्षण्यवशेष निनीय पवित्रे अपिसृज्येत्यनेन क्रमेण प्रस्तरदानं निवर्त्यते । अस्तीर्णत्वपक्ष एतदपि भवत्येव । पवित्र अपिसृज्याग्निमभिमन्येत्यनेन क्रमेण ब्रह्मणे प्रस्तरप्रदानमाह्वनीयकल्पनं च व्यावयते । आहवनीयकरूपनकार्यमिध्माधानेनैव सिध्यति होमस्यात्र स्वल्पत्वात् । आहवनी- यस्यातीव स्वरूपत्वे तु आवश्यकत्वादाज्याभिमन्त्रणोत्तरमेतकर्तव्यमेव । तावत्पर्यन्तं स्थातुमशक्यत्वे त्वत्रैव कर्तव्यम् । अथवाऽनूयानार्थोल्मु कोदूहनसह चारित्वादेव निवृत्तिः । अन्तर्वेदि पुरोग्रन्धीत्यादि अन्थिप्रत्युक्षणान्तमस्तीर्णत्वपक्षेऽपि न भवति । अन्धेर्नूतन- त्वेऽपि समन्त्रकनन्धिकरणामावान प्रत्युक्षणम् । यत्र लूनस्य बहिषो विहारदेशपाप- णार्थ यत्सनहर्न तत्रैव संनहने मन्त्रः । एवं हरणेऽपि । प्रकृते तथात्वाभावान्न सनहने हरणे च मन्त्रः । तथा च द्वादशाध्याये प्रथमे पादे जैमिनिः संनहनहरणे तथेति चेत्, नान्यार्थत्वादिति । अग्नीनन्वाधायाऽऽतिथ्यापरियोनिधम उपसंनह्यतीत्ये. तत्सूत्रव्याख्यानावसर एतत्सूत्रद्वयं व्याख्यास्यते । स्तीर्णत्वाक्षे तृणैदिमन्तीयेत्या- दिकं प्रत्यादाय प्रस्तरं परिधीपरिदधातीत्यादिविहित परिविपरिधानं चार्थीन्निवर्तते । अस्तीर्णत्वपक्षेऽपि बर्हिषः प्रोक्षितत्त्वान्न प्रोक्षणम् । अन्तदि पुरोग्रन्थीत्यादिकमपि नेत्युक्तमेव प्राकू । बहियां तूष्णीमेव विस्त्रस्य समत्रमेव प्रस्तरं गृहीत्वा प्रस्तरे पवित्रे समन्त्रमेवापिसृज्य समन्त्रमेव ब्रह्मणे प्रदाय तृणैदिमन्तर्धायाक्ष्णया शुल्वं स्तीत्वा समन्त्रमेव क्रमेण दर्शपूर्णमासवरस्तृणाति । आहानीय कल्पनमप्यस्ति । अनू४ च० पटलः ] गोपीनाथभट्टकृतज्योत्सान्याख्यासमेतम् । याजाभावान्नोल्मुकोदहनम् । प्रत्यादाय प्रस्तरं परिधी-परिवधातीत्यादि पूर्वाधारसमि- दाधानान्तमस्ति । उत्तराघारसमिदाधानमुभयपक्षेऽपि न । परिधीनां पारहितत्वादेत- स्याभिमश्रणस्य न पुरस्तात्परिदधात्यादित्यो ह्येवोद्यन्पुरस्ताद्रशाश्स्यपहन्तीति श्रुत्या रक्षोपहननरूपकार्यकारित्वसाम्येन परिधिरूपत्वादातिथ्यार्थपरिहिता यथाऽन्यत्रोपयु. ज्यन्ते तयाऽऽतिथ्यायां कृतमभिमन्त्रणमपि अनोपयोगाय मविष्यति । तथा चाभिम- प्रणनिवृत्तिरत्रेति शङ्कां दूरीकर्तुमयभिमन्त्रणवचनम् । अभिमन्व्येति ल्यप्रयोगः कालाव्यवधानार्थः । सूर्यस्त्वेत्यन्यभिमन्त्रणं कृत्वा कालाव्यवायेनैव वीतिहोत्रं स्वेति पूर्वामाघारसमिधमादधाति । आधारसमिवाधानव चनाभावेऽग्न्यभिमन्त्रगोत्तर ध्रुवानुवयोः सादनमेव स्यात, आधारसमिधोऽपीमाधान एव विनियोगः स्याचैतद्वारयितुं पूर्वीमा- धारसमिधमाधायेति । पूर्वामाधारसमिधमाधाय धुवार नुवं च सादयतीत्यनेन क्रमे- गाऽऽपस्तम्बोक्तमन्तर्वेदि विधृतीनिधानं निवार्यते । विधुत्योस्तदवस्थतायामिदमपि लिङ्गम् । यदा बहिरस्तीर्ण तदा विधृती अपि तूष्णी सादनीय एवं परिधयोऽप्यपरि- हिता एव । यदा तु स्तीर्णं तदा विधुनी अपि तदवस्ये एव परिधयः परिहिता एवेति द्रष्टव्यम् । पारधीनां पुनः पुनरादाय प्रयोगे पुनः परिधीनां परिधानं समन्त्रकमेव । पूर्वामाधारसमिधमाधायेत्यत्रत्यस्य पूर्वामिति समिधो विशेषणीभूतस्य शब्दस्य पूर्वी पूर्वदिग्गतामित्यर्थः । तेन स्रौवाधारस्यात्र प्राक्त्वमेव नियतमिति ज्ञापितं भवति । इद चाऽऽघारसमिच्छब्दबलालभ्यते । आधारसमाप्स्यवधिभूता समिताघारसमिदिति ह्याधा- रसपिच्छब्दार्थः । तस्याः पूर्वत्वविशेषणेन पूर्वदिग्गतत्वलाभे यदर्था समित्तस्य कर्म- णोऽपि प्राक्त्वं सिध्यत्येव । पूर्वामित्यस्य प्रथमामित्यर्थस्तु न भवति स्रुवाधारसंबन्धादेव तल्लामे प्रथमत्वविधानस्य व्यर्थत्वापत्तेः । अत एव पूर्वाधारसमिधमाधायेत्येवमपि नोक्तम् । उत्तराधारसमिनिवृत्तिस्तु बुच्यापाराभावादेव । आधारवचनमूर्ध्वतयाऽभ्याधा. नार्थम् । समिद्वचनं पञ्चदशेधमकाष्ठसनातीयत्वव्यावृत्त्यर्थम् । तेन द्विपादेशपरिमित- स्वायत्र न भवति । धुवां खुवं च सादयति तत्तन्मन्त्रेण ·। चकारावाज्यस्थालीमपि सादयति । एता असदन्नितिबहुवचनान्ततेच्छन्दवन्तं मन्त्रमेषाऽसददित्येकवचनान्नैत- च्छन्दवन्तं करोतीत्यर्थः । ता विष्णो इत्यत्रापि तां विष्णो इत्येकवचनान्तः प्रयोगः कर्तव्यः । या एताः सुचः सुकृतस्य लोकेऽसदस्ता विष्णो पाहोत्येकार्थकत्वेनैकत्रोहे प्रदर्शितेऽपरत्र तस्य दर्शितपायत्वात् । विष्णनि स्थेत्यस्य स्थाने विष्वप्ति वैष्ण धाम प्राजापत्यमित्येकवचनान्तप्रयोगविशिष्टनाऽऽज्यं गतमभिमत्रत इत्यर्थः । बहुवचनस्य पूनार्थत्वं स्वीकृत्य बहुवचनान्तप्रयोगविशिष्टस्यैव मन्त्रस्य विनियोग वार- यितुमुभयत्रोहप्रदर्शनम् । सस्रुवामाज्यस्थालीमित्यादिक त्वनिवर्तते । अत एव . 1 ६७२ सत्याषाढविरचितं श्रौतसूत्र- [सप्तमप्रश्ने- ल्यप्प्रत्ययो नोपात्तः । अत्रायं यज्ञः ममाग्ने वर्चामापरादाः पृथिवी होता. एतैरा- सन्नमाज्यं यजमानोऽभिमृशति ।

वेदं निधाय सामिधेनीभ्यः संप्रेष्यति नवधेष्मं प्रतिविभज्य सर्वमिध्ममादधाति ।

वेदं निधाय सामिधेनीम्यः संप्रेष्यतौतिक्रमानुवादो वेद्यन्तपरिस्तरणनिवृत्त्यर्थः । होतृषदनकरुपनं तु होत्रैव स्वार्थ कल्पनीयम् । अथवाऽनुवादस्वरसाइन नैव कल्प. नीयं किं तु होतुरुपवेशनकाल एव कल्पनीयमध्वर्युणैव । वेदं निधाय नवधेमं प्रति- विभज्य सामिधेनीम्यः संप्रेष्यतीत्यन्वयः । तत्रापि सामिधेनीभ्य इत्यस्योभयत्रान्वयः सामिधेनीभ्यो न्वधेमं प्रतिविभज्य सामिधेनीभ्यः संप्रेष्यतीति । सामिधेनीभ्य इत्युम. यत्रापि तादर्थ्य एव चतुर्थी । तेन सामिधेन्यथं प्रतिविभज्य सामिधेन्यथं संप्रेष्यती- त्यर्थो भवति । होतारमिति शेषः । सामिधेनीप्रैषात्पूर्व विभागस्त्वदृष्टार्थः । सामिधे. न्यर्थं संप्रेषोऽग्नये समिध्यमानायानुबूहोति । नवधेमं प्रतिविमज्येत्यनेन सामिधेन्योऽत्र नवैवेति गम्यते । ताश्चाग्रे प्रदर्शयिष्यन्ते । सामिधेनीभ्यः प्रतिविभज्येत्यत्र प्रतीतिव. चनात्समो विभागः । तत्र समत्वं विभाग एकैककाष्ठात्मकत्वमेव । अन्यस्यासंभवात् । एवं च नवसु सामिधेनीप्रणवेषु नव काष्ठानि प्रक्षिपति । अवशिष्टानि' षट्काष्ठानि नवमकाष्ठप्रक्षेपेण सहन्धनार्थत्वनैव प्रक्षिपति न तु सामिधनीसंबन्धित्वेन प्रक्षिपति । तत्र द्वे समिधाविन्धनभावनयैव प्रक्षिपति न तु सामिधेनी संबन्धि- भावनयेति तात्पर्यार्थः । अयमर्थः पुनरिध्मशब्दोपादानालभ्यते । अन्यथा तस्य वैयपित्तेः । एतेन षट्स प्रणवेषु द्वे द्वे काष्ठे प्रक्षेपणीये परिधानीयायां त्रीणि सह प्रक्षिपति, अथवा तृतीयषष्ठनवमेषु प्रणवेष्वकैकं प्रक्षिपति, इतरेषु षट्सु द्वे द्वे इति केषांचित्कल्पतं निरस्तम् । प्रकृतिवद्याजमानम् । नास्ति देवाः पितरः । अत्र हौत्रे विशेषमाहाऽऽपस्तम्बः-तिस्त्र अननिरनूक्ता भवन्ति नव वा पराचोरिति । तिस्त्र आद्या ऋचः प्राकृतीः, आश्वलायनोक्ता वा । पराचीरनावृत्ताः प्राकृतारेवेति । याजुष. हौत्रसत्त्व आपस्तम्बोक्तमाश्वलायनोक्तं वा ग्राह्यमिति ज्ञेयम् ।

ओढासु देवतास्वग्निमुपवाज्य स्रुवाघारमाघार्याग्नीत्परिधीꣳश्चाग्निं च त्रिस्त्रिः समृड्ढीति संप्रेष्यति संमृष्टे प्रवरं प्रवृणीते यथा महापितृयज्ञे सीद होतरित्युक्त्वा ।।१२।। ध्रुवाया अष्टौ जुह्वां गृह्णाति चतुरुपभृति ।

ओढासु आवाहितासु होत्रा देवतासु अग्निमुपवाज्य वेदेनाऽऽहवनीयमग्निं त्रिरु- १क.निन। ४ च०पटलः ] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । ६७३ पवाज्य । इदमुपवाजनमदृष्टार्थम् । ओढासु देवतासूदकमुपवाज्येत्यवभृध उदकोप- वाजनदर्शनात् । स्रवेण धुवाया आज्यमादाय वेदेनोपयम्य प्रजापतये मनवे स्वाहेति प्राञ्चं स्रौवमाघारमाघारयति स्रौवमाघारमाघार्य संमार्गाय संप्रेष्यति । संमृष्टे प्रवरं प्रवृणीत इत्येतावतैव संमार्गवत्तदर्थस्य प्रैपस्यापि प्राप्तौ प्रैषपाठ उत्तरत्र संमृष्ट इत्येकवचनेनाग्नेरेव संमार्गेऽवगतेऽग्निमग्नोत्रिः समृड्डीत्येवं प्रैषः स्यात्स मा भूदित्येतदर्थम् । नन्वेवं संमृष्ट इत्येकवचन विरुध्येतेति चेन । तस्याग्नेरेव संमार्गो न परिधानामितिपक्षान्तरज्ञापनार्थत्वेन विरोधाभावात् । एक वचनस्य जात्यभिप्रायकत्वकल्पना प्रैषपाठस्य व्यर्थत्वापत्तेरेव निरस्ता । एवं च प्रेषपाठः परिधीनामपि संमार्ग बोधयितुं, संमृष्ट इत्येकवचनमग्नरेव संमार्गो न परिधीनामिति बोधयितुमित्येवं पक्षद्वयं सिद्धं भवति । परिधीनां संमार्गाभावपक्षेऽग्निमग्नीत्रिः संमृड्ढोति श्रेषः श्रुतौ सुवेणाऽऽघारमाघार्थ तिनः पराचीराहुतीर्तुत्वेत्यनुक्रमणासंमार्गप्रवरणाविधान एतयोनिवृत्तिः स्यात्सा मा भूदित्येतदर्थमुभयोंविधानम् । सुवाघारो ध्रुवाप्यायनान्तः । प्रवरं प्रवृणीते यथा महापितृयज्ञ इत्येकं सूत्रम् । यथा महापितृयज्ञे सीद होतरित्येता. वान्प्रवर इत्यत्रत्येनैतावच्छब्देन यथाऽऽयहोतृवरणनिवृत्तिः क्रियते तद्वदनापीत्यर्थः । सौद होतरित्युक्त्वेति पुनरनुवादो ध्रुवाया अष्टौ जुह्वां गृह्णातीत्यनेन कालाव्यवधानार्थः। ध्रुवाया इत्यनन्तरमायमिति शेषः । ध्रुवासंबन्ध्याज्यमष्टी, अष्टवारं जुह्वां गृह्णाति उपभृति चतुः, चतुर्वारं गृह्णाति । जुबां ग्रहणेष्वेवाऽऽध्यायनं नोपभृति ग्रहणेषु । ध्रुवायां नावशेषयेत् । पञ्चावत्तिनस्तु दशकृत्वः पञ्चकृत्वश्च यथाक्रम सुचोगुहाति ।

सादयति स्रुचौ होताऽऽदापयति ।

याजुषहौत्रसत्त्वे याजुषरीत्यैव । आदापयतीति पदच्छेदः । णिजन्तमिदम् । अध्न. युमिति शेषः । सौद होतरित्यनेन प्रवरनाक्येने(गे)वमति ज्ञायते होतुरेतावत्पर्यन्तं तिष्ठत्तैव तत्र तिष्ठत एवोपवेशनमिति । नुचाविति देहलोदीपन्यायेनोभयत्रान्वेति । अत्र जुहूपभृतोः नुचोः सादनं तूष्णीमेव धुवासादनोत्तरं तयोः समन्त्रकासादनस्यानु- चितत्वात् ।

घृतवतीमध्वर्यो स्रुचमास्यस्वेत्युच्यमाने जुहूपभृतावादाय सकृदतिक्रान्तस्तिस्रो देवता यजति ।

दक्षिणेति शेषः । तथैवाऽऽपस्तम्बोऽपि पठितवान् । उच्यमान इति वर्तमाननिर्दे- शादेतद्वाक्योच्चारणसमकालं खुचौरादानम् । खुचौ होताऽऽदापयतीत्येतावनैव प्रकृतिप्राप्ते घृतवतीमध्वर्यो स्नु चमास्यस्वेत्युच्यमाने जुहूपभूतोरादाने सिद्धेऽत्र वचनं केवले घृतवती- शब्द एवाऽऽदानमवाप्यापस्तम्बेनोक्तं तद्वारयितुम् । एतेन प्रयानार्थमेव झुगादापन1 सत्याषाढविरचितं श्रौतसूत्र- [सप्तमप्रभ- मित्याश्वलायनादीनां मतमपि निरस्तं भवति । प्रतियागमतिक्रमणं वारयितुं सकृतिति-' वचनम् । स्पष्टोऽर्थः । अत्र पञ्चहोतारं वदेद्यनमानः ।

उत्तरतः प्रथमायाः पुरोनुवाक्याꣳ संप्रेष्यति दक्षिणत इतरयोः ।

सकृदतिक्रमणं यागत्रयार्थ विहितं तत्र प्रथमयागकियासंबन्धिपुरानुवाक्यासं!ष- स्याप्यतिक्रमणोत्तरमेव कर्तव्यताप्रसक्ताविदं वचनमुत्तरतः प्रथमायाः पुरोनुवाक्या५ संप्रे- प्यतीति । सकृतिकान्त इति वचनात्सर्वयागोत्तरं प्रत्याक्रमणविधानाच्च सर्वयागार्थ. मतिक्रान्तस्य मध्ये प्रत्याक्रमणासंभवेनार्थादुत्तरयागद्वयार्थ पुरोनुवाक्यासप्रेषयोदक्षिणतः सिद्धाविदं वचनं सर्वयागार्थमतिकान्तस्य मध्ये प्रत्याक्रमणासंभवेऽपि अग्रेणाऽऽहवनीय पुरोनुवाक्यासंप्रेषार्थमुत्तरत आगत्य प्रैष दत्त्वाऽयेणाऽऽहवनीयं दक्षिणतो गत्वाऽऽश्राव- णादि अग्रेणाऽऽहवनीयं पुरोनुवाक्यासप्रैषार्थमृत्तरत आगतस्यापि प्रत्याक्रमण तन्न भवति । येन मार्गेण गतस्य तेनैव मार्गेणाऽऽगमने प्रत्याक्रमणव्यवहारात् । कमु पादविक्षेप इति धातोर्वेदिमुल्लय पादविक्षेप एव शक्तेश्च । नयनेणाऽऽह- वनीयमुत्तरतो गमनमाहवनीयाग्रिमप्रदेशोल्लङ्घनविशिष्टपादविक्षेपरूपं किंतु शुद्धं गमनमेव । अतः सकृतिक्रमणविरोधाभावादुत्तरतो दक्षिणतो वेत्यनियमः स्यात् वारयितुं दक्षिणत इतरयोरिति । उत्तरतो वेदेरुतरतः । प्रथमाया यागक्रि- याया देवताया इति वा । पुरोऽनुवक्ति देवताहानार्थ होतेति पुरोनुवाक्या । ह्वयति वै पुरोनुवाक्ययेति श्रुतेः । पुरो देवतायै यागं प्रवक्तीति वा पुरोनुवाक्या । प्रैवैनं पुरोनुवाक्ययाऽऽहेति श्रुतेः। प्रथमायाः पुरोनुवाक्यां प्रथमायाः पुरोनुवाक्याव- तारमित्यर्थः । अथवा प्रथमायाः पुरोनुवाक्यामित्यनन्तरं वक्तुं होतारमित्यध्याहारः । चतुर्थ्यर्थे वा द्वितीयाऽत्र दृष्टव्या ।

यज्जुह्वामाज्यं तस्यार्थेनाग्निं यजत्यर्धेन सोमम् ।

स्पष्टम् ।

यदुपभृति तज्जुह्वामानीय तेन विष्णुम् ।

तज्जुह्वामानीति वचनं सर्वानयनार्थ बिन्दुमात्रमपि नावशेषयेदित्येतदर्थम् । यज्जुह्वामानीतं तेनेत्यर्थः । तेनेतिवचनं पूर्वसूत्रादर्धेनेत्यस्यानुवृत्याऽर्थेन विष्णोर्या- गोऽनोपप्तदाहुतिरिति शङ्का स्यात्सा मा भूस्किंतु औपभृतेन जुबामानीतेन सर्वेणैव विष्णोर्यागः स्थादित्येतदर्थम् । उपांशयानविकारत्वात्सर्वेषां दब्धिरसीत्यनुमन्त्रणम् । प्रत्यक्तस्थमेतद्यागत्रयम् । तिनः पराचौराहुनी त्वेति श्रुतेः । आहुतीनां होम इति सूत्र बौधायनस्य प्रतीचीरेवता आहुतीः संस्थापयेदिति शालीकिरिति द्वैधात् । पूर्वार्धे मध्ये पश्चादिति कल्पसूत्रे स्पष्टोक्तेश्च । संस्थापनं समापनम् । श्रुतौ द्वैधे . चाऽऽहुति४ चपटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ६७५ शब्देन वषट्कारकरणकक्रिया ज्ञेया । यात्रुषहौत्रसत्त्वेऽपि आश्वलायनीय एवं पाठो याज्यानुवाक्यानाम् ।

प्रत्याक्रम्य या ते अग्नेऽयाशया तनूरिति स्रुवेणोपसदं जुहोति ।

उपसदमित्याहुतिप्तमाख्यातामाज्यस्थाल्याज्येन जुहोति या ते अग्नेऽयाशया तनू- रित्यत्र तनूशब्दप्रदर्शितानुषङ्गबोधितसानुषङ्गरजाशयाहराशयात्मकं मन्त्रद्वयं मिलित्वा मन्त्रत्रयं भवति । तथा च या ते अग्नेयाशयेतिप्रतीकसूनितमन्त्रैरेकैकेनैकैकामुपसदं जुहोतीत्यर्थः । नुवग्रहणं जुयावृत्त्यर्थम् । अपावधीर स्वाहेत्यन्तो मन्त्रः । अत्र पठित एव खाहाकारः । तनूरित्यनुषङ्गप्रदर्शनार्थ जैमिनिनाऽपि द्वितीयाध्याये प्रथमे पादेऽनुषङ्गो वाक्यपरिसमाप्तिः सर्वेषु तुल्ययोगित्वादित्यनेन सूत्रेणानुषङ्ग उक्तः सूत्रार्थस्तु वाक्यस्य परिसमाप्तिः पर्यवसानं येन सोऽनुपङ्गो भवति । सर्वेषु शेषिषु तुल्ययोगित्वादन्वयकारणसाम्यादिति । इष्टिसंबन्धित्वादैष्टिकमेवाऽऽज्यम् । अपूर्वाज्य- मिति तु माष्यकारः । तत्र मूछ चिन्त्यम् । प्रतिपत्तिकर्माणि कृताकृतानीत्युक्तमेव । अन्यत्तन्त्रं सर्व निवर्तत एव । अननुक्रमणात् । ब्राह्मगे च तिस्त्र एव सामिधेनोरनूच्ये- त्यादिना यावदुक्तेन परिसंख्यानाच । अत एवाङ्गलोपनिमित्तकप्रायश्चित्तान्यप्यन्तरा पतितानि निवर्तन्ते । तथाच बौधायनः-कर्मान्ते सत्वरमाणा इवोपसद्भिः प्रचरेयुनी- कृतमाद्रियेरनिति । अनेन द्रुतैवात्र वृत्तिर्मवति नतु मध्यमेति प्रदर्शितं भवति । प्रधानसंवन्धिप्रायश्चित्तं तु भवत्येव । तत्संबन्ध्याहुतिस्तु आज्यस्थाल्याज्येनैव ।

मदन्तीभिः पाणीन्प्रक्षालयन्ते ब्रह्मा राजानं विस्रꣳसयत्याप्याययन्ति निह्नुवते च यथा पुरस्ताद्दक्षिणोत्तानैः पूर्वाह्णे सव्योत्तानैरपराह्णे ।

पाणिप्रक्षालनं विप्रेसनमाप्यायनं निहवनं च यथा पुरस्तादित्येवं लाघवेन वक्तव्ये पाणिप्रक्षालनविस्टेसनयोः पुनर्विधानं तानूनप्त्रोत्तरकालिक पाणिप्रक्षालनं विलं. सने ब्रह्मकर्तृकत्वं चानित्यमितिज्ञापनार्थम् । अथवा मदन्तीभिः पाणीप्रक्षालयन्त इति पुनर्विधानमत्र मदन्त्यो भिन्ना एव नाऽऽतिथ्यायां याः कृतास्ता एवेति ज्ञापना- र्थम् । ब्रह्मा राजानं विनरसयतीत्येतद्वचनप्रयोननं त्वनन्तरोक्तमेवेति । मदन्त्यस्तप्ता आपः । ब्रह्मत्वविधैरवसरख्यापनार्थमत्र वचनम् । यथा पुरस्तादितिवचनं तत्तन्मत्रपा पत्यर्थम् । दक्षिणा उत्ताना येषां सव्यानां तैः सव्या उत्ताना येषां दक्षिणानां तैः । भनीन्मयन्त्याऽऽपा३ इत्याद्यत्रापि । तथाचाऽऽपस्तम्बः-अग्नीन्मदन्त्याऽऽपा३ इत्ये- तदाद्यानिववात्कृत्येति ।

अग्नीद्देवपत्नीर्व्याचक्ष्व सुब्रह्मण्य सुब्रह्मण्यामाह्वयेति संप्रेष्यति ।

स्पष्टम् । ६७६ सत्याषाढविरचितं श्रौतसूत्रं- [सप्तमप्रभे- अग्नीद्देवपत्नीया॑चक्षेतिप्रेषोत्तरं देवपत्नीव्याख्यानं कर्तव्यं तत्कथमित्याकाङ्क्षा- यामाह-

वाग्वायोः पत्नीत्यपरेण गार्हपत्यमुपविश्याऽऽग्नीध्रो देवपत्नीर्व्याचष्टे सेनेन्द्रस्य धेनेति वा ।

अपरेण गार्हपत्यं गार्हपत्यस्य समीपेऽदूर एवोपविश्याऽऽसित्वा देवपत्नीदेवपत्नी- प्रतिपादकान्मन्त्रान्व्याचष्टे । ते च सेनेन्द्रस्येत्यनुवाकोपात्ताः । व्याख्यानं वाक्यशः पाठः । धेनेति वेत्येतदनन्तरं ब्रूयादित्येव शेषः । तथा च संततं याद्वेत्यर्थो भवति । व्याचष्ट इत्यस्यानुवृत्तौ तु तस्य संततपाठपरतया पक्षद्वयविरोधापत्तेः । अथ का व्याचष्ट इत्यस्यैव संततपाठपरता लक्षणयाऽङ्गीकर्तव्या । अध्याहारापेक्षया लक्षणाया लघुत्वात् । यत्र व्याचष्ट इति उक्तिस्तत्र वाक्यशः पाठ एव । यत्र च सूत्रकृता वाक्यशः पठितस्य मन्त्रस्य सातत्येन पाठः कृतस्तत्र सातत्यमेव । अन्यत्र तु अनि- यम इत्युपोद्धातोक्तप्रकारेणात्रापि विकल्पसिद्धाविदं वचनमिदं ज्ञापयति यत्र कृत्स्नानामनुवाकोपात्तानां मन्त्राणामेकत्र विनियोगस्तत्रानियमचे दत्रैव नान्यत्र, पव. मानानुवाकादिमन्त्रोपात्तविनियोगे तु वास्यश एव पाठो नियत इति । सेनेन्द्रस्य धेना तु बृहस्पतेः पथ्या पूष्णो वाग्यायोदीक्षा सोमस्य पृथिव्यग्नेर्वसूनां गायत्री रुद्राणां त्रिष्टु. गादित्यानां जगती विष्णोरनुष्टुग्वरुणस्य विराड्यज्ञस्य पङ्क्तिः प्रजापतेरनुमतिमि- त्रस्य श्रद्धा सवितुः प्रमूतिः सूर्यस्य मरीचिश्चन्द्रमसो रोहिण्यृषीणापरुन्धती पर्नन्यस्य विद्युच्चतस्रो दिशश्चतस्रोऽवान्तरदिशा अहश्च रात्रिश्च कृषिश्च वृष्टिश्च विपिश्चापचिति- श्चाऽऽपश्चौषधयश्चोकच सूनना च देवानां पत्नय इत्येवं सातत्येन वा पाठः । सुब्रह्मण्यस्य कर्माऽऽह-

सुब्रह्मण्यः सुब्रह्मण्यामाह्वयति ।

सुब्रह्मण्योमितिनिगदाध्यूढसामप्रवक्ता सुब्रह्मण्यः स सुब्रह्मण्यामाह्वयति सुब्रह्मण्या. ख्यनिगदाध्यूढसाम्नेन्द्रमा यतीत्यर्थः । सुब्रह्मण्यादिशब्दैरिन्द्रमामन्त्रयते सुत्यार्थमिति यावत् । इन्द्राबानार्थ मुब्रह्मण्याख्यनिंगदाध्यूढं साम ब्रूयादित्यर्थों वा । सुब्रह्मण्येति सुब्रह्मण्योमित्येतन्निगदोत्पन्नसामसंज्ञेयम् । स्त्रीलिङ्गनिर्देशस्तु सुब्रह्मण्याख्यसामरूप- वाग्विशेषणत्वेन । वाग्वै सुब्रह्मण्येति बचश्रुतेः । सुब्रह्मण्याह्वानदेशमाहाऽऽपस्तम्बः- उत्करे सुब्रह्मण्यामाह्वयति पूर्ववदेनां यजमानोऽनुमन्त्रयत इति । पूर्वद्वारस्य दक्षिणद्वा- होः पुरस्तात्तिष्ठन्निति लाट्यायनद्राह्यायणौ । तत्कर्म तदीयसूत्रतो ज्ञेयम् ।

अनूपसदमेतानि क्रियन्ते ।

उपसदमुपसदमनु इत्य नूपसदं प्रत्युपसदमेतानि कर्माणि कर्तव्यानीत्यर्थः । ६७७ । १ च० पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् ।

एवं त्रिरात्रꣳ सायंप्रातः प्रवर्ग्योपसद्भ्यां प्रचरति ।

एतावता सामान्यत उपसत्प्रयोगः कथितः । अधुना प्रवर्योपसत्संख्या तहिवाससंख्या चोच्यते-तिसृणां रात्रीणां समाहारस्त्रिरात्रम् । अहःसर्वेकदेशसंख्यातपुण्याच्च रात्रे- रिति सूत्रे चकारेण तत्पुरुषस्याङ्गुलेः संख्याव्ययादेरिति पूर्वसूत्रस्थसंख्यानुवृत्तिलाभेन संख्योत्तरभूतरात्रिशब्दादच्प्रत्ययः । द्विगुरेकवचनमित्येकवद्भावः । द्विग्वर्थे समाहारे स नपुंसकमिति नपुंसकत्वम् । द्विगुस्तु संख्यापूर्वः समासः संख्यापूर्वो द्विगुरिति सूत्रात् । अत्र रात्रिशब्दो दिवसपरः सायंप्रातःशब्दसममिव्याहारेण । नन्वेवं व्यहमित्येव वक्तव्यं लाघवात् । ऋजुमार्गेण सिध्यतो वकणायोगाच, तथा च त्रिरात्रमित्येवं वचनं किमर्थमिति चेत्सत्यम् । उपसदिष्टे रात्रौ क्रियायामपि दोषाभावं ज्ञापयितुं तथोक्त. रावश्यकत्वेन वैयर्थ्याभावात् । दोषस्तु दिवाकीयों वषट्कार इत्याश्वलायनसूत्रसिद्धः । प्रवर्यस्य तु अनारब्धत्वेऽपि रात्री प्रचार इत्ययमर्थस्तु प्रवर्ग्यसूत्रे वक्ष्यमाणेन ज्ञाप- केनैव सेत्स्यति । योऽयमुक्तः प्रयोगः स उपस्थितत्वात्प्रातःकालसंवन्धी भवति । स एवेतरेष्वपि प्रयोगेषु भवति । तत्र सायंशब्दस्योक्तप्रातःकालसंबन्धिप्रयोगोत्तरं तस्यै- वोपस्थितेः प्रथममुपादानम् । प्रथमेऽहनि सायं द्वितीयेऽहनि प्रातः सायं च तृतीयेऽ- हनि प्रातः सायं च । एवमुक्तेन प्रकारेण प्रवर्ग्यश्चोपसच्च प्रवर्योपसदौ ताभ्यां प्रचर- तीत्यर्थः । अध्वयोर्मुख्यत्वात्तमभिप्रेत्यैकवचनम् ।

सुपूर्वाह्णे पौर्वाह्णिकीभ्याꣳ स्वपराह्ण आपराह्णिकीभ्याम् ।

प्रवग्र्योपसच्या प्रचरतीत्यनुषज्यते । मुष्ठु पूर्वाह्नः सुपूर्वाह्नः । सुष्ठ अपराह्नः स्वप. । राः । सुपूर्वाशब्देन पूर्वाह्नपूर्वार्धात्मकः कालो गृह्यते । स्वपराशब्देनापराबो- त्तरार्धात्मकः कालो गृह्यते । तत्राप्युयोत्तरं घटिकाद्वयमस्तात्पूर्व घटिकाद्वयं त्याज्यम् । अत्र द्वेधा त्रेधा वा विमागः। पूर्वाह्न भवे पौवाहिक्यौ । आपराहे भवे आपराह्निक्यौ । उपसदाहतिव्यवस्थामाह-

या ते अग्नेऽयाशया तनूरिति प्रथमेऽहनि सायंप्रातः स्रुवप्रदानां जुहोति ।

प्रातश्च सायं चेति सायंप्रातरित्येवमेव विग्रहः । धर्मादिष्वनियम इति वातिकादयं साधुः । धर्मादिराकृतिगणः । उभयकालवाचिशब्दयोः सह संप्रयोगे सायंशब्दस्यैव बाहुल्येन प्रथम प्रयोगः । तत्राग्निहोत्रहोमादौ यथास्थितमेव । तत्र सायमारम्यैवोप- क्रमो दृश्यते । वैश्वदेवे तु अथ सायंप्रातः सिद्धस्य हविष्यस्य जुहुयादित्याचलायनेन सायंप्रातरित्युक्तेऽपि प्रमाणान्तरानुरोधेन प्रातरारम्यैवोपक्रमो दृश्यते । प्रकृतेऽपि . १ ख, वक्रेण । ८६ 7 ६५८ सत्याषादविरचितं श्रौतसूत्र- [ सप्तमप्रक्षे- प्रातरारम्यैवोपक्रमात्तदनुरोधेनैव प्रातःसायं प्रवर्योपप्तम्यां प्रचरतीत्येवं वक्तव्ये सामान्यतो निर्देशो व्याख्यानतो विशेषप्रतिपत्तिर्नहि संदेहादलक्षणमिति परिभाषां ज्ञापयति । तेनाग्निकार्य उपस्थितिरूपव्याख्यानात्सायमुपक्रमस्यैव विशेषप्रतिपत्तिः । वैश्वदेवे दिवाचारिभ्य इति दिवा नक्तंचारिभ्य इति नक्तमिति । दिवानक्तं बलिमि- च्छन्त इति प्रातःसायंपरयोर्दिवानक्तंपदयोः क्रमदर्शनरूपव्याख्यानात्प्रातरुपक्रमस्यैव विशेषघ्नतिपत्तिः । अग्निहोत्रेऽग्निज्योतिज्योतिरमिः स्वाहा सूर्यो ज्योतिज्योतिः सूर्यः स्वाहेतिमन्त्रक्रमदर्शनरूपव्याख्यानात्सायमुपक्रमस्यैव विशेषप्रतिपत्तिः । प्रकृते *यद्य. प्युभयथाऽपि क्रमो दृश्यते तत्राग्निोतियॊतिरग्निः स्वाहा सूर्यो ज्योतिज्योतिः सूर्यः स्वाहेत्येवं मन्त्रक्रमः, स्वाहा त्वा सूर्यस्य रश्मिभ्य इति प्रातः ससादयति खाहा त्वा नक्षत्रेभ्य इति सायमित्येव मन्त्रविशेषविनियोगक्रमः । सुपूर्वाह्ने पौर्वाहिकीभ्या५ स्वप- राह आपराह्निकीभ्यामित्येवं कालविधिक्रमः । तत्र सायमुपक्रमसाधकलिङ्गापेक्षया प्रातरुपक्रमसाधकलिङ्गाधिक्यरूपव्याख्यानाद्विशेषप्रतिपत्तिः प्रातरुपक्रमस्यैवेति परि- भाषाप्रयोजनम् । तेन प्रकृते बहुदर्शनानुरोधेन सायंप्रातरिति पठितेऽपि प्रातःसायमि- त्येव क्रमः सिध्यति । तनूरित्यनुषङ्गप्रदर्शनार्थम् । उपसदाहुतिविधायकेन पूर्वसूत्रेण व्यवस्थाया असिद्धतात्तदर्थमिदं सूत्रम् । सुवेणैव प्रदान यस्याः सा नुवप्रदाना तां सुवप्रदानां स्त्रीलिङ्गद्वितीयैकवचनान्तमिदं पदम् । उपसदाहृतरियं संज्ञा, योगरूढ़ पदम् । नुवाति जुहोतीत्येव प्रसिद्धत्वाद्वक्तव्ये सुवप्रदानामित्येवं वचनं(ने) काच- दत्र विशेषोऽस्ति । स चेषुप्रक्षेपणक्रियानुकरणरूपः । तथा च सूत्रान्तरम्-इघुप्रक्षे. पणमिव या ते अग्नेऽयाशया तरिति सुवेणोपतदाहुतिं जुहोतीति । प्रथमेऽहनि प्रथमो. पसद्दिवसे या ते अग्नेऽयाशया तरिति मन्त्रेण प्रातःसायंकालिकप्रथमोपसत्प्रयोगयोः सुवप्रदानां जुहोतीत्यर्थः ।

या ते अग्ने रजाशयेति द्वितीये ।

अहनि सायंप्रातः स्रुवप्रदानां जुहोतीत्यनुवर्तते । द्वितीयेऽहनि द्वितीयोपसदिवसे या ते अग्ने रजाशया तनूरितिमन्त्रेण प्रातःसायंकालिकद्वितीयोपसत्प्रयोगयोः त्रुवप्र- दानां जुहोतीत्यर्थः । पूर्वमन्त्रे तरित्यनुषङ्गप्रदर्शनादत्राप्यनुषङ्गोऽर्थादर्शित एव भवति ।

या ते अग्ने हराशयेति तृतीये ।

अत्राप्यनीत्यादिकमनुवर्तते । तृतीयेऽहनि तृतीयोपसदिवसे या ते अग्ने हराशया तरिति मन्त्रेण प्रातःसायंकालिकतृतीयोपसत्प्रयोगयोः नुवप्रदानां जुहोतीत्यर्थः । अस्मिन्मन्त्रेऽनुषङ्गः पठित एव श्रुतौ ।

  • यद्यपीत्यसंबद्धम् । ४च पटलः ] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । ६७९

यदि पुरो युध्येयुरयः प्रथमायामवधाय जुहुयात् ।

यदि क्षत्रियस्य यजमानस्यामित्राणां पुरः पुराणि स्वेन सह युध्येयुः पुराणि शत्रवः कामयेयुर्वा तदाऽयः कालायतं प्रथमोपसदाहुत्यर्थाज्येऽवधाय प्रक्षिप्य या ते अग्नेऽयाशया तनूरित्याहुति जुहुयात् ।

रजतꣳ हिरण्यं मध्यमायाम् ।

  • मध्यमायां मध्यमायां मध्यमोपसदाइत्यर्थाज्ये रजतात्मकं हिरण्यमवधाय या ते

अग्ने रजाशया तनूरित्याहुति जुहुयात् । हिरण्यपदवाच्यत्वं रजतेऽप्यस्तीति प्रदर्शयितुं हिरण्यवचनम् । सर्व हिरण्य५ रजतं तदुर्वर्ण हिरण्यमभवदित्यादीनि लिङ्गान्यपि सन्ति । दुर्वर्णशब्दो रजतवाची । हिरण्यशब्दस्य हेमरनतोभयवाचित्वास्किजातीयमत्र हिरण्यं ग्राह्यमिति शङ्का स्यात्तां दूरीकर्तुं रजतवचनम् ।

हरितमुत्तमायाम् ।

उत्तमायामुत्तमोपसदाहुत्याज्ये हरितमवधाय या ते अग्ने हराशया तनूरित्याहुति जुहुयात् । हरितशब्दः सुवर्णताच्येव । सर्वर सुवर्ण हरितमिति मन्त्रलिङ्गात् , तेभ्यो हरिते पात्रे सोममदुहदिति लिङ्गाच्च ।

यदि सङ्ग्रामं युध्येयुरित्येकेषाम् ।

यदि क्षत्रियस्य यजमानस्य शत्रवः सङ्ग्रामे युध्येयुः सझामं कुर्युस्तदाऽयं विधि- रित्येकेषामाचार्याणां मतमित्यर्थः ।

अयज्ञसंयुक्तः कल्पः ॥ १३ ॥

यद्युपायान्तरं नैव विद्यते तदा यज्ञसंयुक्तत्वम् । उपायान्तरसत्त्वे त्वेतस्य यज्ञसं- युक्तत्वं नैव भवतीत्यर्थः । अयमर्थः समुपतर्गबलालभ्यते ।

मध्यमाभ्यां पौर्वाह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचर्याग्रेण प्राग्वꣳशं त्रीन्प्राचः प्रक्रमान्प्रक्रम्य शङ्कुं निहन्ति स पश्चार्धे वेदेः ।

प्रचर्येति ल्यपा वेदिविमानाव्यवहितोत्तरत्वं बोध्यते । तेन व्रतप्रदानमुदुम्बरशाखा- भिश्छन्नां परिवासयतीत्येतदनन्तरमेव । प्राग्वेशस्य पूर्वप्रान्तभवोदक्सूत्रपृष्ठ्यासूत्रयोर्यः संपातस्तत्रस्थाच्छ कोस्त्रिषु प्रक्रमेष्वतीतेषु पृष्ठ्यासूत्रानुगुण्येन शङ्क निहन्ति, स शकुदेः पश्चार्धे पश्चिमप्रान्तभवोदक्सूत्रपृष्ठ्यासूत्रयोर्यः संपातस्तत्र देयः, स मध्यमो पवति । अत्रैव वेदकरणम् । वेदिविमानात्पूर्वमेव पशौ दृष्टत्वात् ।

विमिमे त्वा पयस्वतीं देवानां धेनुꣳ सुदुघामनपस्फुरन्तीमिन्द्रः सोमं पिबतु

  • इदं पदमधिकम् । ६८०

सत्याषाढविरचितं श्रौतसूत्रं- [ ७सप्तमप्रश्ने-

क्षेमो अस्तु न इति षट्त्रिꣳशत्प्राचः प्रक्रमान्प्रक्रम्य शङ्कुं निहन्ति स पूर्वार्धे ।

वेदेरित्यनुवर्तते । प्रथमनिखाताच्छोरारम्य पत्रिंशत्प्राचः प्रासंस्थान्प्रक्रमान्प्र- क्रम्य वेदेः पूर्वार्धे पूर्वप्रान्तमवोदक्सूत्रप्राक्सूत्रयोर्यः संपातस्तत्र शकुं निहन्ति स वेदेः पूर्वार्धे मध्यमो भवति । सकृदेव मन्त्रः ।

पश्चार्ध्याच्छङ्कोः पञ्चदश दक्षिणतः पञ्चदशोत्तरतः प्रक्रम्य शङ्कू निहन्ति ते श्रोणी पूर्वार्ध्याच्छङ्कोर्द्वादश दक्षिणतो द्वादशोत्तरतः प्रक्रम्य शङ्कू निहन्ति तावंसौ ।

प्रक्रम्येत्यतः पूर्व प्रक्रमानिति पूर्वसूत्रादनुवर्तते । शुल्बसूत्रेणैव माने सिद्धेऽत्र वचनं श्रोण्यंतमानेष्वपि मन्त्रप्राप्त्यर्थम् । एतस्य सूत्रस्य स्वतन्त्रमानविधानार्थत्वे शुल्व- सूत्रोक्तप्रकारं विनाऽऽनवासंभवनासंगत्यापत्तेः । तेन पञ्चदश दक्षिणत इत्यत्राऽऽदौ मन्त्रेणैकं प्रक्रमं प्रक्रम्य तूष्णीमितरान्प्रकामति मन्त्रजन्यादृष्टलाभाय । एवं पञ्चदशो- त्तरत इत्यत्रापि द्वादश दक्षिणतो द्वादशोत्तरत इत्यत्रापि च । एवं च पृष्ठयां श्रोणि. द्वयमंसद्वयं मिलित्वा पञ्चवार मन्त्रावृत्तिः सिद्धा भवति । पश्चाधै भवः पश्चार्य- स्तस्मात् । पूर्वार्वे भवः पूर्वाध्यस्तस्मात् । दिगादित्वाद्यत्प्रत्ययः । पश्चार्धात्पूर्वार्धादि- त्यपपाठ एव । शुल्बसूत्रे त्रिशत्पदानि प्रक्रमा वा पश्चात्तिरश्ची भवति षट्त्रिंश- पाची चतुर्विशतिः पुरस्तात्तिरश्चीति सौमिक्या वेदेर्विज्ञायत इति । एतस्मात्सूत्राद्वे. दिमाने पदान्यपि प्रक्रमविकल्पन्ते । तत्र पदस्यानेकविधत्वमुक्तं शुल्बसूत्रे-पदे युगेऽ- रत्नावियति शम्यायां च मानार्थेषु याथाकामी शब्दार्थस्य विंशयित्वादिति । विश- यित्वात् , अनेकविधत्वादित्यर्थः । पदं दशाङ्गुलमिति बौधायनः । दशाङ्गुल क्षुद्रपद. मित्यपि सः । द्वादशाङ्गुल पदमिति कात्यायनः । एतानि त्रिविधानि पदानि लौकिकपदेन विकल्पते । एतान्येव द्विगुणानि त्रिगुणानि वा प्रक्रमा एतेन प्रक्रममानेनैव सप्तविधा- ग्निचित्ये सोमे मानम् । पदैर्मानं तु नात्र भवति । तत्राग्निक्षेत्रासंभवात् । एवं सप्तवि- धेऽनौ विंशत्यङ्गुलवृद्धिव्याख्याता । साग्निचित्ये तु सर्वेषामेव पदप्रकमाणामिच्छया विकल्प इति केचित् । अन्ये पुनरेवं व्यवस्थामिच्छन्ति पदैश्चविधैर्विशत्यङ्गुलेन वा प्रक्रमेण मानमग्निचित्ये । एकविवेऽग्नौ विंशत्यङ्गुलेन द्विविधादिषु पञ्चविधपर्यन्तेषु चतुर्विशत्यङ्गुलेन षड्विधादिषु द्वादशविधपर्यन्तेषु त्रिंशदङ्गुलेन लौकिकेन वा द्विपदेन त्रयोदशादिषु षट्त्रिंशदङ्गुलेनेत्यादिषु सर्वेषामपि पक्षे येऽग्नयः पञ्चचत्वारिं- शदङ्गुलेन प्रक्रमेण संभवन्ति तत्राग्न्यनुगुणा वेदेवृद्धिः कार्या यूपैकादशिन्यां तस्य प्रदर्शितत्वात् । यथा पञ्चाशद्विधेऽग्नौ षट्पञ्चाशदगुलो दण्डः प्रक्रमस्थानीयः, १ख.ग. एतेन । ४ च०पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ६८१ एकशतविधेऽशीत्यङ्गुल इत्यादि । तां शौल्वेन विधिना मीत्वा तत्र तत्र शनि- हन्ति स्पन्द्यावेष्टनार्थम् ।

अक्ष्णया मानेन संपाद्य प्रदक्षिणꣳ स्पन्द्यया पर्यातनोति ।

अक्ष्णया कोणसाधिन्या रज्ज्वा युक्तं मानं तच्छुल्बोक्तप्रकारेणैकरज्जुसाध्य. मनेकराजुसाध्यं वा तेन मानेन वेदिं संपाद्य स्पन्द्या रज्जुस्तया चतुर्यु कोणेषु निहितेषु शकुषु प्रदक्षिणं सर्वतः पर्यातनोति परिवेष्टयतीत्यर्थः । वैदिक्षेत्रमिति शेषः । अक्ष्णयेत्यव्ययम् । अत्रापि प्रादक्षिण्यवाची न भवति तस्य परिभाषयैव सिद्धेः कित्वानुकूल्यवाची । अस्मिन्नर्थे प्रमाणं प्रादर्शितमेव । तेन वेदिप्रान्तप्रदेश- प्रज्ञातत्वानुकूलं यथा भवति तथा दृढं पर्यातनोतीति सिद्धं भवति ।

अन्वातनोति पृष्ठ्याम् ।

यद्यपि वेदिसाधनार्थ पूर्वमेव पृष्ठयासूत्रं दत्तमेव तथाऽपि तस्याः प्रयोजनसत्त्वं सूच्यते । तस्या वेदिविमानोत्तरं विनाशे पुनरपि पृष्ठ्यासूत्रं देयमेव तत्प्रयोननं संतत. मनुपृष्ठ्यं बर्हिः स्तीत्वैति । पृष्ठशब्दो मध्यवाची । पृष्ठे भवा पृष्ठ्या रज्जुः । दिगा. दित्वायत्प्रत्ययः । अक्ष्णया मानेन संपायेत्यनेन विहरणं प्रदर्शितं तत्प्रकाराः शुरुबसूत्रे त्रिकचतुष्कयोः पश्चिका ऽक्ष्णया रज्जुस्ताभिस्त्रिरभ्यस्ताभिरंसौ चतुरभ्यस्ताभिः श्रोणी इति । त्रिकचतुष्कयोस्तिक्वार्श्वमान्योस्ताभिस्त्रिकचतुष्कपश्चिकामिस्त्रिबार. मभ्यस्ताभिरुपरि क्षिप्ताभिरसी भवतः । चतुरिमभ्यस्तामिः श्रोणी भवतः । यथा त्रिका निरभ्यस्ता द्वादशिका चतुष्का त्रिरम्यस्ता षोडाशिका पञ्चिका त्रिरभ्यस्ता विशिका । एताभिस्त्रिभिरम्यस्ताभिादशिकया घोडशिकया विशिकया चांसौ मातंत्र्यौ । एताभिरेव चतुर्भिरभ्यस्ताभिः पञ्चदशिकया विशिकया पञ्चविशिकया च श्रोणी मातव्ये । एवं षड्मी रज्जुभिर्विहरणम् । प्रकारान्तरमुक्कं तत्रैव-द्वादशिकपश्चिकयोस्त्र- योदशिकाऽश्णया रज्जुस्ताभिरंसौ द्विरभ्यस्ताभिः श्रोणी इति । अन्यदपि प्रकारान्तर - मुक्तं तत्रैव-पञ्चदशिकाष्टिकयोः सप्तदशिकाऽक्ष्णया रज्जुस्तामिः श्रोणी द्वादशिक. पञ्चत्रिशिकयोः सप्तत्रिंशिकाऽक्ष्णया रज्जुस्ताभिरं साविति । अन्यदपि प्रकारान्तरमुक्त तत्रैव-ट्विंशिकायामष्टादशेोपसमस्यापरस्मादन्तावादशसु लक्षणं पश्चदशसु लक्षणं पृष्ठयान्तयोरन्तौ नियम्य पश्चदशिकेन दक्षिणाऽपायम्य शकुं निहन्त्येवमुत्तरतस्ते श्रोणी विपर्यस्तयांऽसौ पञ्चदर्शिकेनैवापायम्य द्वादशिक शकुं निहन्त्येवमुत्तरतस्तावसौ तदेकरज्ज्वोक्त विहरणमिति । इदमे करज्ज्दा विहरणम् । यावदायाममित्युक्तस्य मान- स्यैवायं प्रपञ्चः । अन्यच्च तत्रैव-एतावन्ति क्षेयानि वेदिविहरणानि भवन्तीति । छेद- रहितानि एतावन्ति भवन्तीत्यर्थः । अन्यच तत्रैव-अष्टाविंशत्योनपदसहस्र महावे. दिरिति । पदग्रह्ण प्रक्रमस्याप्युपलक्षणम् । संख्यानोपायोऽपि तत्रैव-दक्षिणस्माद- 4 - r त ६८२ सत्याषाढविरचितं श्रौतसूत्र- [७सप्तमप्रभ- साद्वादशसु दक्षिणस्यां श्रीण्यां निपातयेच्छेदं विपर्यस्येतरत उपदध्यात्सा दीर्घचतुरस्रा तथा युक्तां संचक्षीतेति । दक्षिणस्माईसादारभ्यापरान्त्यपृष्ठयाया दक्षिणतो द्वादशसु रज्जु निपातयेत् । दक्षिणतरछेई दीर्घत्रिकोणमञ्जप्सा विपर्यस्योत्तरपार्श्व उपदध्यात् । सा षट्त्रिंशत्प्राचिका सप्तविंशतिव्याता दीर्घचतुरना भवति तथा भूतां गणयेत् । सप्त- विशतिषट्त्रिंशतोस्तयोः संसर्गे नव शतानि द्वासप्ततिश्च भवन्ति । अथ याज्ञिकानां सुखबोधार्थ कारिकाः क्रियन्ते- पदैस्तु त्रिविधैर्वेदिः प्रक्रमैर्वाऽपि मीयते । आदौ वही सार्धवेदे सार्धवहौ निशाकरे ॥१॥ सार्धचन्द्रे सार्धचन्द्रेऽनलेऽर्धे चन्द्रकेऽर्धके । कृष्णवर्मनि चार्थे च तथाऽधैं सार्धचन्द्र ॥२॥ सार्धवेदे तथाऽर्धे च चन्द्रेऽर्धे सार्धवाहिके । अध चेति तु पृष्ठयायामकविंशतिशङ्कवः ॥ ३॥ स्युस्तीक्ष्णाग्रा अथ भवेद्रज्ञः सूक्ष्मा दृढा तथा । पदिशमिः प्रोक्ता पार्श्वमानी तु मानतः ॥ ४ ॥ तिर्यमानी षोडशभिर्विशत्याऽक्ष्णा प्रकोर्तिता । आदौ च पञ्चमे श्रोणिदेस्तिथिषु दक्षिणा ॥५॥ एवमेवोत्तरा श्रोणिबुधदेः प्रकीर्तिता । अथ रज्जु पार्श्वमानी पुरस्तात्पश्चिमेऽक्षिणकाम् ॥ ६॥ कृत्वा विहरणं कुर्यान्महावेद्यसयोर्बुधः । अन्त्ये चतुर्दशे चैव महावेदेस्तु दक्षिणः ॥ ७ ॥ असो द्वादशसु प्रोक्त एवमेवोत्तरः स्मृतः । अथ पाशौ विपर्यस्य रज्ज्वा विहृतिरुत्तरा ॥ ८॥ द्वितीये सप्तमे श्रोणिः सदसो दक्षिणा मता । दशस्खथाष्टसु श्रोणिरुत्तरा तस्य कीर्तिता ॥ ९॥ तृतीये दशमे दक्षे त्वौदुम्बर्यवरः पदे। तुर्ये द्वादशके दक्षे प्रशास्तुधिष्ण्यमीरितम् ॥ १० ॥ तदुदग्धोतृधिष्ण्याथै दक्षिणं परिकीर्तितम् । उत्तरे होतृधिष्ण्यार्धसंलग्नं स्यात्तथाऽर्धकम् ॥ ११ ॥ तदुत्तरे वेदसंख्याः शंसिपौत्रादिधिष्ण्यकाः । प्रादेशमात्राः प्रादेशान्तरालाः सर्वधिष्ण्यकाः ॥ १२ ॥ स्थादच्छावाकधिष्ण्यस्य मानं किंचित्ततोऽधिकम् । पञ्चमे च मनी चैव दक्षिणः सदसोऽसकः ॥ १३ ॥ ६८३ ४ च०पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । दशस्वथाष्टम् प्रोक्तः सदसस्तूत्तरोंऽसकः । षष्ठे पञ्चदशे धानश्रोणिः पञ्चमु दक्षिणा ॥ १४ ॥ एवमेवोत्तरा श्रोणिहविर्धानस्य कीर्तिता। अष्टमे षोडशे चैव मान लीयं तु दक्षिणे ॥ १५ ॥ तथैवोत्तर आग्नीध्रधिष्ण्यं प्रोक्तं विचक्षणः । प्रदश्यते विहरणप्रकार उमयोरथ ॥ १६ ॥ पार्श्वमानीसूत्रमहावेदिदक्षान्तसूत्रयोः । संपातादुत्तरे मध्योऽङ्गुलेषु रविषु स्मृतः ॥ १७ ॥ मार्जालीयस्य धिष्ण्यस्य तत्र शफू नियोजयेत् । महावेयुत्तरप्रान्तपार्श्वमान्याख्यसूत्रयोः ॥ १८ ॥ संपाताइक्षिणे मध्योऽङ्गुलेषु रविषु स्मृतः । आग्नीघ्रीयस्य धिष्ण्यस्य तत्र शकुं नियोजयेत् ॥ १९ ॥ नवमे च सप्तदशे पदे साधं च दक्षिणे । प्रभञ्जनदिशास्थोपरवमध्यः प्रकीर्तितः ॥२०॥ प्रादेशद्वितये तस्मान्मध्यादुपरवस्य तु | रक्षोधिपतिदिवस्थोपरवमध्यः प्रकीर्तितः ॥ २१॥ दशमे चाष्टादशे च पदे साधं च दक्षिणे । अपराजितदिस्थोपरवमध्यः प्रकीर्तितः ॥ २३ ॥ प्रादेशद्वितये तस्मान्मध्यादुपरवस्य तु । वीतिहोत्रदिशास्थोपरवमध्यः प्रकीर्तितः ॥ २२ ॥ प्रादेशमात्राः प्रादेशान्तराला एत ईरिताः । द्वादशे विशके चैव पञ्चस्वंसस्तु दक्षिणः ॥२४॥ धानस्याथोत्तरांप्तश्चाप्येवमेव प्रकीर्तितः । अथ रज्जु पार्श्वमानी पुरस्तात्पश्चिमेऽक्षिणकाम् ॥ २५ ॥ कृत्वाऽग्रिम विहरणं प्रकर्तव्यं विचक्षणैः । विशके द्वादशे चैव लघुवेद्यास्तु दक्षिणः ॥ २६ ॥ अंसः पञ्चसु संप्रोक्त एवमेवोत्तरः स्मृतः । षष्ठे पश्चदशे चैव लघुवेद्यास्तु दक्षिणा ॥ २७ ॥ श्रोणिः पञ्चस्वथैवं स्याल्लघुवेद्यास्तथोतरा । रज्ज्वा विपर्यस्तया वाऽपि स्याद्विहरणं त्विदम् ॥ २८ ॥ अणीयप्ती पुर इति पक्षोऽथात्र प्रदर्यते । वेदेषु दक्षिणोऽसः स्यात्तथैवोत्तर ईरितः ॥ २९ ॥ सत्यापादविरचितं श्रौतसूत्रं- [सप्तमप्र- घट्ट श्रोणिर्दक्षिणा स्यादेवमेवोत्तरा मता । युगं दशपदायाम नेति केचित्समूचिरे ॥ ३० ॥ त्रिवेदेष्वशलेप्पस्मिन्मते श्रोणिस्तु दक्षिणा । एवमेवोत्तराऽपि स्यादसावप्येवमीरिती ॥ ३१ ॥ सर्वतो युगमात्री वा स्यान्नाणीयस्त्वमत्र तु । पूर्वाग्रंशस्थाने तु यूपावट उदाहतः ।। ३२ ॥ आमीनीयस्य धिष्ण्यस्य मण्डपोऽथ प्रदर्यते । वेदेः पदेषु पाश्चात्यशङ्कोरर्केप तूत्तरे ॥ ३३ ॥ लक्ष्म स्याद्यन्महावया उत्तरांसस्य लक्ष्म च । एतयोश्चिह्नयोः सूत्रं तन्मध्येऽपि च लाञ्छनम् ॥ ३४ ॥ महावेद्युत्तरप्रान्तसूत्रमध्येऽपि लाञ्छनम् । एतयोरपि सूत्र स्यादथ पश्चार्यशङ्कृतः ॥ ३५ ॥ कृतं रविषु यलक्ष्म तावन्मानं च सूत्रकम् । तदुत्तरे प्रदेयं तु तत्र स्पष्टं च लाञ्छनम् ॥ ३६ ।। महावेयुत्तरांसात्तु देयं सूत्रमुदतथा । एतयोरपि सूत्र स्यात्ततो वेद्यन्तसूत्रके ॥ ३७॥ मध्ये कृतादनात्तु पुरः सार्धद्वये पदे। पश्चाच्च लाञ्छनं कार्य विहत्य चतुरश्रवत् ॥ ३८ ॥ मण्डपं तत्र संसाध्य कटायैस्तं परिश्रयेत् । द्वारं दक्षिणतः कुर्यात्षोडशाङ्गुलविस्तृतम् ॥ ३९ ॥ अथवाऽरनिविस्तारमथवा द्वारमेव न । किंतु दक्षिणतो नैव परिश्रयणमेव तु ॥ ४० ॥ मण्डपस्यर्जुतापक्षे प्रकारोऽयं प्रदर्शितः । मण्डपस्य प्रकारोऽथ वक्रतापक्ष ईयते ॥ ४१ ॥ महावेद्युत्तरप्रान्तसूत्रमध्ये तु लाञ्छनम् । कृत्वा सूत्रानुरोधेन तत्प्राक्सार्धपदद्वये ॥ ४२ ॥ प्रत्यक्चैवापि तद्वत्स्याच्छंस्यायतनवत्ततः । वक्रता यादृशी वेद्या मह्त्यास्ताहशी भवेत् ॥ ४३ ॥ वक्रता मण्डपस्यापीत्येवं पक्षद्वयं स्मृतम् । परमानं यदा वेद्यास्तदा तु सदआदिकम् ॥ ४ ॥ पदमानेनैव भवेदिति प्रोक्तं विचक्षणः । दशाझुलात्मकपदद्वयात्मा प्रक्रमो यदि ।। ४५ ।। ४१० पटलः ] गोपीनाथभट्टकृतज्योत्नाब्याख्यासमेतम् । पदमानेनैव तदा कर्तव्यं सदआदिकम् । रवितिथ्यङ्गुलात्मान्यतरास्मा प्रक्रमो यदि ।। ४६ ॥ सदसोऽरस्निमानं स्याद्धविर्धानस्य चैव हि । एतदात्मप्रक्रमेण माने द्वाराणि चैव हि ॥ ४ ॥ भरनिमात्राण्येव स्युरित्यं वितिरीरिता । कारिकाः सुखबोधाय याज्ञिकानां समीरिताः ॥ ४८ ॥

तां करोति यथा दर्शपूर्णमासयोर्यदन्यत्संनामात् ।

तां कृतस्पन्द्यावधिका वेदि करोति संनमनवर्नम् । यथा दर्शपूर्णमासयोरिति पचनादुद्धननात्प्राग्यः औषः स प्राकृत एव नात्राच्छिद्रप्रपाठकोक्तः प्रैष इति दार्शिक- पेदिवदेव पुरस्तावितीयदेश उदग्वेदेः स्तम्वयजूनिवपतीत्युक्तं भवति । स्तम्बयजुर- पादानदेशोऽप्यनेनैव व्याख्यातो मध्यमस्य वेदितृतीयस्य पूर्वार्धादिति । तत्रोपरवाणां कालास्तम्बयजुहरतीति बौधायनः । अत्र कालशब्दो देशवाची । उपरवदेशा- स्तम्बयजुहरतीति स्पष्टमाह कात्यायनः । इदं तस्मा इत्यादि संनमनवज खननान्त करोति ।

स्फ्येन विघनेन पर्श्वा परशुना च ।

पेदि कुर्वन्तीति वचनविपरिणामेन संबन्धः । आपस्तम्बस्त्वेतत्स्पष्टमेवाऽऽह । एतस्य कर्मणो वैशेषिकत्वादत्रैव वैशेषिक आच्छिद्रिकप्रपाठकोक्तः श्रेषो भवति । स यथा- इमां नराः कृणुत वेदिमेत्य वसुमतीर रुद्रवतीमादित्यवर्ती वमन्दिवो नामा पृथिव्या ययाऽयं यजमानो न रिष्येदेवस्य सवितुः सव इति । अत्र मन्त्रे यद्विश्वदे- क्यावतीमित्याधिक्यं चौधायनेनोक्तं तन्नोपसंहर्तव्यम् । अनवस्थापत्तेः । किंतु भाका- क्षिताङ्गकर्मसंबन्ध्येवाऽऽधिक्यमुपसंहर्तव्यम् । एवं सर्वत्र द्रष्टव्यम् । यथारूपमितर इत्यनेन सूत्रकृता विनियोग उक्तः परं तु स्पष्टतयाऽनुक्तत्वात्कृताकृतः । कृणुतेति लिङ्गात्प्रेषत्वम् । परिकर्मिणोऽत्र प्रेष्याः । अतस्त एव कर्तारः । यथा प्रकृती कृणुतेति बहुवचनात्परिकर्मिकर्तृत्व तथाऽत्र विधनादिकरणकलोष्टादिहननाद्यर्थकोऽयं प्रेषः । स्फ्योऽत्र लौकिक एव त्याज्यत्वात् । विधनो मुद्गरः। परिश्वस्यानडुहो वा पास्थि । परशुः कुठारः । स्पयन मृत्तिकायाः प्रथनं, विघनेन लोष्टादिहननम् । पर्धा तृणच्छेदनम् । परशुना मूलच्छेदनम् । स्फ्यकार्य विधनादित्रितयकार्यान्ते । पशुशब्दः स्त्रियाम् । प्रेयमगाद्धिषणा बर्हिरच्छेति मन्त्रलिङ्गात् । स्मयादीनि प्रज्ञाता- न्येव निदधाति । उत्तरत्रोपयोगसत्त्वात् । स्फ्यः खड्गावतिः, अहोमार्थानि तु धारणस्येति वक्ष्यमाणपरिभाषासूत्राद्वारणवृतनस्तदमावे यज्ञियवृक्षनः । विधनोऽप्ये- वम् । पर्यभावे तदाकारा योग्यत्वादायप्सी पशुाह्या । इदानी पर्धानयनस्यातिनिन्दि. अस्वाय लोकविद्विष्टं धर्ममप्याचरेन्नविति याज्ञवल्क्येनास्वर्यस्यातिनिन्दित- 1 तत्वात्, CU 2 सत्याषाढविरचितं श्रौतसूत्र- [७सप्तमप्रश्न- स्याननुछेयत्वोक्तेस्तत्स्थान आयसीमेव पशु शिष्टा गृह्णन्ति । आयस्यां पर्धामपि मन्त्रे पशुशब्दप्रयोगो न विरुध्यते । परशुरायसमय इति लोके प्रसिद्धमेव । चतुःशिखण्डा युवतिः सुपेशा घृतप्रतीका भुवनस्य मध्ये तस्याः सुपर्णावधि यौ निविष्टौ तयोर्देवा- नामधिमागधेयमित्यभिमन्त्रणमध्वर्युणा कार्यम् । तथा चाऽऽपस्तम्बः-दर्शपूर्णमासव. संनमनवर्ज प्रागुत्तरात्परिग्राहात्कृत्वा चतुःशिखण्डा युवतिः सुपेशा घृतप्रतीका भुवनस्य मध्ये तस्या सुपर्णावधि यौ निविष्टौ तयोर्देवानामधिमागधेयमित्यभिमन्व्येति । वेदि करोतीति विपरिणामेन संबन्ध इत्यापस्तम्बसूत्रसंगतिः । अनुवृत्तेन वेदिशब्दे- नोत्तरदिरेव ग्राह्या नतु महावेदिः । अन्यथाऽभिमन्यवेदि करोतीतिल्यप्प्रत्ययबोधि. तसमानकर्तृकत्वानुपपत्तेः । नच स्फ्येन विघनेन पर्धा परशुना च वेदि कुर्वन्तीति पूर्व- सूत्रेणान्वयः, तथा च वेदिशब्देन महावेदेव ग्रहणमस्त्विति वाच्यम् । अभिमन्त्रणस्य समानकर्तृकत्वानुरोधेनाध्वर्युव्यतिरिक्तकर्तृकत्वापत्तेः । नचेष्टापत्तिः । मुख्यकर्तृकत्वनि- वाहोपपत्तौ गौणवहिर्भूतकर्तृकत्वकल्पनाया अनुचितत्वात् । अत एवोत्तरसूत्र उदुम्बर- शाखाभिः प्लाशाखाभिर्वा छन्नां परिवासयतीत्युत्तरवेदिप्रयुक्तोऽयं विधिः संगच्छत इत्यस्त्वापस्तम्बसूत्रविचारः । स्पयन विघनेनेति सूत्रं प्राकृतवेदिकरणशेषमूतमेव । यन्मूलमतिशेते स्फ्येन तच्छिनत्ति स्फ्येनोत्तमा त्वचमुद्धत्योत्करे निवपतीत्यादिविधितः स्फ्यस्यैव करणत्वं प्राप्तं तस्यात्र वेदेमहत्त्वेनायोग्यत्वाद्विधनादीन्यपि तत्तत्कार्यसाध- नत्वेन विधीयन्ते । स्फ्यग्रहणं लौकिकस्फ्यग्रहणार्थम् । परिकर्मिकर्तृकवेदिकरणेऽयं स्फ्यः प्राकृतकर्मम त्वैष्टिक एव । चकारः प्राकृतवेदिकरणसमुच्चयार्थः । तेन प्राकृतं खननान्तं कृत्वेदं वैशेषिकं करोति । नचानुक्तसमुच्चयार्थत्वं चकारस्यास्त्विति वाच्यम् । स्फ्यः स्वस्तिरिति वक्ष्यमाण उपस्थानमन्त्रे चतुर्णामेवोपस्थानविधानेन चतुरतिरिक्तस्यासं- मवात्।

यत्प्रागुत्तरस्मात्परिग्राहात्तत्कृत्वोत्तरवेद्याः कल्पेन दशपदामुत्तरवेदिं करोति ।

यदित्यनुवादश्चोदकप्राप्तस्योत्तरवेदिकरणकालविधानार्थः । देवस्य सवितुः सव इति खनति शकुलां व्यङ्गुला चतुरङ्गुला सीतामात्रीमित्यादि उत्करं तद्गमयतीत्यन्त. दर्शपूर्णमासवत् । आहार्यपुरीषां पशुकामस्येति काम्यपक्षः प्रकृतावेव । काम्यानां प्रकृतावेव निवेश इत्यभियुक्तोक्तेः । उत्तरपरिमाहात्पूर्वतनं यत्कर्म तत्कृत्वोत्तरवेद्याः कल्पः प्रकारः पशसूत्र उक्तस्तेन प्रकारेणोत्तरवेदि करोति । अत्र ततोऽयं विशेषो दशपदामिति । एतद्विहरणप्रकारः शुल्बसूत्रे-दशपदोत्तरदिर्भवतीति सोमे विज्ञा- यते तदेकरज्ज्वोक्तं पञ्चदशिकेनवापायम्यार्धेन ततः श्रोण्यसान्निहरेत्तां युगेन यनमा- नस्य वा पदैविमाय शम्यया परिमिमीत इति । तत इति षष्ठयन्तात्तसिः । तस्या उत्तरवेदेरित्यर्थः । दशपदा सर्वतः क्षेत्रतो दशपदा । युगमपि दशपदायाममेव, मानं ४ च०पटलः ] गोपीनाथभट्टकृतज्योत्स्नाब्याख्यासमेतम् । वेणुवत् । केचित्स्वतन्त्र प्रमाणमाहुः । तन्मते युगं पडशीत्यगुलात्मकम् । षडशीति- युगमाहुरिति शुल्बसूत्रात् । अत्र यजमानग्रहणमध्वर्युव्यावृत्त्यर्थम् । शम्पया परिमाण- मदृष्टार्थ पूर्वार्धे वेदेपावटापावकाशमवशिष्य शम्ययोचरवेदि विमिमीते पुरस्तादुदी. चीनकुम्बा शम्यां निधाय वित्तायनी मेऽसोत्यादि । उत्तवेदिकरणे पक्षान्तरमाह-

अꣳहीयसीं पुरस्तादित्येकेषाम् ।

अंहोयसी, अणायसी । शुल्बसूत्रे-विमितायां पुरस्तात्पार्धमान्यावुपसंहरेच्छ्रुतिसामर्थ्या- दिति । उपसंहारो हासः । अर्थात्पूर्वत्र यावतः प्रमाणस्य हासस्तावता प्रमाणेन पश्चा- स्पार्श्वमान्यौ वर्धयेदिति सिध्यति । यथा महावेद्याः श्रोणिमान त्रिंशत्पदात्मक त्रिंश- उपक्रमात्मक वा तत्पञ्चमांशः षट्पदात्मकः षट्पकमात्यको वा तस्य हामः पुरस्तात् । प्रश्चानु त्रिंशत्पदात्मकं त्रिंशत्प्रक्रमात्मकं वा तन्यायेनात्र । तेन पूर्वत्राष्टापदा द्वादश- पदा पश्चात्पूर्वत्राहीयतीत्यस्मिन्पक्षे भवति ।

उत्तरेणोत्तरं वेद्यꣳसं प्रक्रमे चात्वालः पश्चाद्द्वादशसूत्करो विद्यतेऽपरिमिते वा ।

चात्वाल इति भाविनी संज्ञा संस्कारनिमित्ता । उत्तरेणत्येनपोत्तरवेद्यतस्योत्तरतः संलग्नमेकं प्रकममानपक्ष एक प्रक्रम पदमानपक्ष एकं पदं मीत्वा तत्र चात्वालस्य दक्षिणांस दक्षिणरेखामध्यं वा परिकल्प्य तदनुरोधेनोत्तरतः शम्यामात्रं चात्वालं चतुरनं परिकल्पयेत् । शम्यामात्रश्चात्वाल इति बौधायनः । शम्याशब्देन पत्रिंशद- १लात्मक मानमेव गृह्यते नतु शम्याकारोऽपि । तदाकारस्यर्जुत्वामावेन रेखालेखना- ननुकूलत्वात्, उत्तरवेद्याः कल्पेनोत्तरवाद करोतीति विधानेनैव तदन्तर्गतत्वात्तत्साधन- स्वाच्च । उत्तरेणोत्तरं वेद्यसं प्रक्रमे चात्वाल इत्यस्यापि परिलेखनादिक्रियाया इव सिद्धावत्र पुनर्वचनं शम्यया मानार्थम् । उत्तरं वेद्यसमित्यत्र वेदिमहावेदिरेव नतूत्तर- वेदिः । अन्यथा चात्वालस्य महावेदिमध्ये समावेशापत्तेः । ननूत्करस्थानप्रदर्शनायाय- मनुवाद इति चेन्न । चात्वालाद्वादशसूत्कर इत्येतावतैव तदर्थसिद्धावनुवादवैयपित्तेः । चात्वालपश्चिमान्तान्मध्याद्वा द्वादश प्रकमान्प्रक्रम्य तत्रोत्करप्रान्तं तन्मध्यं वा कुर्यात् । उत्करः पदद्वयात्मकः । द्विपद उत्कर इति सूत्रान्तरात् । विद्यत इत्यस्य भवतीत्यर्थः । अपरिमिरी वेत्यनेनाधिकमप्यनियतं प्रमाणं ग्राह्यमिति बोध्यते । अपरिमितशब्दार्थः कात्यायनेनोक्तः अपरिमितं प्रमाणादूय इति । भूयः, अधिकम् । पदमानपक्षे चास्वालमध्यादेव द्वादश पदानि मीत्वा तत्रोत्करमध्य एवं कार्यः । पदमानपक्षे चावालपश्चिमान्ताद्वादश पदानि न संभवन्ति । आग्नीधीयमण्डपनिवेशानुपपत्तेः । ॥ ६८८ सत्यापाढविरचितं श्रौतसूत्र- [सप्तमप्रभे- आमाधीयमण्डपोऽपि पदानपक्षे पदमानेनैव । उत्करे वेदिधर्माः सर्वे कार्या वानि. नासादनार्थ, ते च काण्डानुसमयेनैव । अन्यस्मिंश्च द्रव्ये तेनार्थेन संयुज्यमाने धर्मावेश इति सूत्राद्धेविधर्माणामुत्को प्राप्तिः । अन्यस्मिन्द्रव्य उत्कररूपे द्रव्ये पदार्थं तेनार्थेन संयुज्यमाने वेदिसंबद्धासादनपदार्थेन वचनासंबध्यमाने धर्मावेश आसादनाधिकरण. धर्माणामावेशः प्राप्तिर्भवतीत्यर्थः । अस्ति चोत्करे वाजिनस्याऽऽसादनं वाचनिक चातुर्मास्येषु । मैत्रावरुण्यामिक्षाया वैश्वदेव्यामिक्षाविकृतित्वाद्वाजिनासादनस्योत्करे कर्तव्यताया अत्रापि प्राप्तिः । उत्करे वाजिनासादनमप्येतत्सूत्रोदाहरणत्वेन सूत्रकृता संगृहीतम्-उत्करे वाजिनमासादयति परिधौ पशुं नियुञ्जन्तीति । परिधौ पशुं नियुञ्जन्तीत्युदाहरणं सौमिकचातुर्मास्येषूपयुज्यते ।

तावन्तरेण वेदेः संचरः ।

अन्तरेणेत्यव्ययम् । ताविति अन्तरान्तरेणयुक्त इति द्वितीया । चात्वालोत्करयो- मध्यन वेदिसंबन्धी प्रवेशनिर्गमार्थः संचरो मागों भवतीत्यर्थः । अत्राऽऽपस्तम्बः-- भन्त। चावालोत्करावानीधचात्वाली वाऽध्वर्युर्दशीकवश्च संचरेयुः सर्वतः प्रसुते दृशीकवः संचरेयुरित्येक इति । अत्राध्वर्युग्रहणं कैमृतिकन्यायेनस्विनामुपलक्षणं दृष्ट्रणां संचरनियमे किमु वक्तव्यमृतिनामिति । दृशीकको द्रष्टारः । ते ये वाह्या दृशीकव इत्यविवाक्यदर्शनाते द्विविधा बाह्या आम्बन्तराश्च । तत्र य आभ्यन्तरा द्रष्टारस्ते नित्यमनेन यथा संचरेयुनिष्क्रमणपवेशने कुर्यः । अथवा प्रसुते सोमे सुत्येऽहनि दृशी- कवो यथाकामं संचरेयरित्यर्थः । सर्वत इति वचनादन्तराऽनो गमनेऽपि न दोष इति केचित् ।

प्राचीनमाग्नीध्रात्प्रतीचीनं चात्वालादित्येकेषाम् ।

अनेनोत्करपश्चिमतोऽपि संचरो भवति ।

उदुम्बरशाखाभिश्छन्नां परिवासयति ।

उदुम्बरस्य याः शाखाः पल्लवास्ताभिः शाखाभिर्वहुवचनात्रिप्रभृतिभिः । आपस्त- म्बनोदुम्बरशाखामिः प्लक्षशाखाभिर्वा छन्नां परिवातयतीति पक्षे प्लसशाखाभिश्छादनं विहितं, सूत्रान्तरे दर्भेश्छादनं विहितमेतदुभयं व्यावयितुमिदं वचनम् । एतदन्तं मध्य- मोपसदिवसे । एतदर्थमेव मध्यमाभ्यां पावाहिकीम्या प्रवर्गोपसयां प्रचर्याण प्राग्वशं त्रीन्प्राचः प्रक्रमान्प्रकम्य शकुं निहन्ति स पश्चार्धे वेदेरित्यस्मिन्सूत्रे मध्यमाभ्यामित्युक्तम् । अन्यथा प्रथमोपसहिवसे वेदिकरणं स्यात् । उदुम्बर शाखामि- श्छन्नां परिवासयतीत्यत्रैव श्वोभूतपदस्यान्वयेन मध्यमोपसदिवस उदुम्बरशाखामि- क. 'माने। पचपटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ६८९ श्छन्नां परिवासयतीत्येतावदेव स्यात् । उत्तमाभ्यां पौर्वाह्निकोभ्यां प्रवोपसयां प्रचर्येत्युत्तरोत्तमत्वप्रयुक्तविधिबलात् । एतत्सर्व वारयितुं मध्यमाभ्यामिति । एवं च श्वोभूत इत्युत्तरान्वय्येव । नन्वेवं श्वोभूत इति वचनं व्यर्थमुत्तमाभ्यामित्यनेनैव सिद्धेरिति चेन्न । उदुम्बरशाखाभिश्छन्नां परिवासयतीत्येतदपि मध्यमोपलदिवस एवेतिबोधनार्थत्वेनैव सार्थक्यात् । अन्यथोत्तरदिनेऽपि कदाचिदनुष्ठानं प्रसक्तं स्यात् । नच मध्यमोपसहिवसे वेदिकरणेऽपि उदुम्बरशाखामिश्छन्नां परिवासयति श्वोभूत इत्येवमेवान्वयं स्वीकृत्य तदुत्तरदिवस उदुम्बरशाखामिश्छन्नां परिवासयतीत्येतावन्मात्र- मनुष्ठेयं तदुत्तरदीवस उत्तमपौर्वाह्निक्यादीति वाच्यम् । उपसहितदिवसस्य मध्ये कल्पनायाः सकलमूत्रविरुद्धत्वेनात्यन्तानुचितत्वात् । नच श्वोभूत इत्यत्र खण्ड- समाप्तस्तस्य पूर्वत्रैवान्बय इति वाच्यम् । एतस्य नियमस्य यथार्थ हविर्धानयोः प्राग्व- शस्य सदोहविर्धानयोश्चेत्यादौ व्यभिचारेणाप्रयोजकत्वात् । खण्डव्यवहारस्य भगवदा- चार्योच्छासनिबन्धनत्वात् । उच्छ्वासस्य नियतप्रमाणत्वाभावात् । छन्नामाच्छादिता परिवासयति निर्व्यापारेण रात्रि गमयति रक्षयतीति वा । परिकर्मिभिरिति शेषः । छन्ना रक्षयतीत्येनेन शाखानामपि रक्षणं गम्यते । नहि शाखानां रक्षणाभावे विशि- टाया रक्षणं भवति । श्वोभूतपदसाहचर्यादयमर्थो लभ्यते । एतदनन्तरमापराहिकप्रव- ग्र्योपसदौ । एवं त्रिरात्र५ सायंप्रातः प्रबर्योपसच्या प्रचरतीत्यनेनैव तयोः सिद्धेरत्रा- नुक्तिः । अन्तरा मध्यमे प्रवर्योपप्तदौ वेदि कुर्वन्तीत्यापस्तम्ब एतत्स्पष्टमाह ।

श्वोभूते ।। १४ ।। उत्तमाभ्यां पौर्वाह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचर्यार्धव्रतं प्रदाय तदानीमेवाऽऽपराह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचरति ।

श्वोभूते मध्यमोपसदिवसोत्तरदिवसे श्वोभूते श्वस्तनरूपे दिवस इत्यर्थः । श्वोभूते पौर्वाह्निकीभ्यां प्रवर्योपसच्या प्रचर्येत्येतावत्येवोच्यमाने द्वादशाहायहीनानां तिल एवं साहस्योपसदो द्वादशाहीनस्येति श्रुत्या द्वादशोपतत्कत्वस्योक्तत्वेन मध्यमोपसदिवस. चतुष्टये प्रथमद्वितीयतृतीयदिवसान्यतमदिवसेऽपि वेदिमानादिच्छादनातकर्मणः प्राप्त- त्वेन वेदिच्छादनोत्तरप्रभृतिषु दिवसेष्वपि तदानीमेवाऽऽपराहिकीम्यां प्रवर्योपसभ्यां प्रचर्येत्यस्य प्राप्तिः स्यात्तां वारयितुमुत्तमाभ्यामिति वचनम् । तथा च मध्यमोपसद्दिवास- चतुष्टये वेदिकरणेऽपि द्वादशोपदिवसान्तिमोपसदिवस एव तदानीमेवाऽऽपरालि कीम्यां प्रवर्योपसच्या प्रचर्येति विधिनतु वेदिकरणदिवसोत्तरप्रभृतिषु दिवसेष्विति सिध्यति । अर्धवतप्रदानतात्कालिकावार्योपसदनुष्ठानविधानार्थ उत्तमाभ्यामित्याद्यनुवादः । श्वोभू- तवचनमन्तिमपौर्वाह्निकापराहिकप्रवग्र्योपसत्प्रभृति हविर्धाने यजमानो राजानं गोपा- यतीत्यन्त कमैकदिनसाध्यमिति प्रदर्शयितुमिति द्रष्टव्यम् । अन्यथा प्रवर्योपसद्यमानं ल्यब्बोधितसंबन्धाद्वत्सापाकरणान्तं चान्तिमोपसद्दिवसेऽवशिष्टमुत्तरदिवप्त इत्यनियमः - सत्याषाढविरचितं श्रौतसूत्र- [ सप्तमप्र- स्यात् । अत आवश्यकमेव श्वोभूतवचनम् । अर्धं च तद्वतं चावतम् । एकस्तनमुत्त. मेऽहनीति यानमानसूत्रेऽन्तिमोपसदिवस एकस्तनवतस्य विधास्यमानस्यार्धमर्धशब्दे- नोच्यते ।

प्रवर्ग्यमुद्वास्योपसदमुपैति यदि पूर्वो भवति ।

यदि उपसदपेक्षया पूर्व प्रथमः प्रवग्यों भवति तदा प्रबर्योद्धासनोत्तरमुपसस्क- तव्येत्यर्थः

अर्धव्रतं प्रदायाऽऽग्नेरावृताऽग्निं प्रणीयाग्न्यायतन ऊर्णास्तुकां निधायाग्निं प्रतिष्ठाप्याऽऽमिक्षायै मैत्रावरुण्यै सायंदोहाय वत्सानपाकरोति ।

अर्धवतमवशिष्टम् । आमेरिति पदच्छेदः । अमेरिति पदच्छे देऽग्नेरावृताऽयः प्रकारेणेत्यर्थः स्यात् । स चासंगतः स्यात् । नाग्नेः कश्चन प्रकारोऽत्रापेक्षितोऽस्ति । नन्वाग्गेरिति पदच्छेदेऽपि कथमर्थस्य संगतत्वमिति चेत् । उच्यते-आनेः, अग्नेरिद- मानि तस्याऽऽग्नेः, अग्निसंबन्धिप्रणयनस्येत्यर्थः । तथा चामिप्रणयनस्य प्रकारेणार्मि प्रणीयेत्यर्थो भवति । स चानुष्ठानानुगुणः सन्नविरुद्धश्च भवति । नच तद्वितप्रत्यया. स्तत्वामावलिङ्गाविरोधः । अनुष्ठानानुगुण्येनाविरुद्धत्वेन चाऽऽग्नेरितिपदच्छेदकल्प- नाया एव प्रबलत्वेनैकदेशितद्धितप्रत्ययान्तस्वाभावपुंलिङ्गयोर्दुबलत्वादेवाऽऽपत्वकल्प नाया उचितत्वेन विरोधाभावात् । आवृच्छब्दः प्रकारवाची । आग्नेरावृताऽग्निप्रणय. नादीपनादिना पौतुद्रवपरिधिपरिधानान्तेन गुग्गुलुसुगन्धितेजतान्तेन वाऽग्निप्रणयनप्रका- रेगानिं प्रणीयाग्निकर्मकप्रणयनविधि कृत्वेत्यर्थः । अ(आ)नेरावृता प्रणायेत्येतावतै- वार्थावनेः प्राप्तावत्राग्निग्रहणमिधमे कृत्स्ने प्रज्वलित एवात्र प्रैषादि भवतीत्येतदर्थम् । अग्न्यायतन ऊर्गास्तुकां निधायेति वचनं गुग्गुलुसुगन्धितेननव्यावृत्त्यर्थम् । शुक्लत्वं पेत्वान्तरागृङ्गभवत्वं चास्त्येव । अथवा तान्सकृदेवोत्तरनाम्यां निवपतीति पशुसूत्रात्स- कृदेव गुग्गुलुसुगन्धितेजनोर्णास्तुकानां निवपने प्राप्त ऊर्णास्तुकायाः पार्थक्येनाग्न्यायतने निवपनार्थम् । अस्मिन्पक्षे मन्त्र आवर्तनीयः । एतद्विधातुमेव पूर्वोत्तरानुवादः । एकत- रानुवादे प्रयोगक्रमः संशयितः स्यात् । पेत्वो गलितपुरको मेषस्तच्छृङ्गाद्वयान्तराल- वर्तिन्यूर्णास्तुका पशुसूत्रे दृष्टा तथैवात्र ग्राह्या । अथवोर्णास्तुकाया एव निधानमितरयो- निवपनमिति विशेष प्रदर्शयितुमेव विधानम् । अस्मिन्पक्षेऽपि कियाभेदादावृत्तिरपि सिद्धा भवति । ऊर्गास्तुकायां मानवसूत्रे विशेषः-वृष्णेरलूनपूर्वकस्यान्तराशृङ्गादूर्णा स्तुकामिति । अस्यार्थः-पूर्व लून इति लूनपूर्वो न लूनपूर्वोऽलूनपूर्वस्तस्य कदाऽपि १ख, ग. निधानम् । १ च०पटलः ].गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । ६९१ यस्य लोमकर्तनं न कृतं तस्य वृष्णेर्मेषस्य शृङ्गादन्तराऽन्तराले वर्तमानोणीस्तुका ग्राह्येति । निवपनं यथा बीज न्युप्यते क्षेत्रे तद्वक्रिया । निधानं तु स्थापनमेव । आयतनवचनपूर्णास्तु कानिधान उत्तरनाभिनियमो नास्ति किं तु यत्रकुत्रचित्प्रदेश आयतन इत्येतादृशार्थ बोधयितुम् । अग्निपदमग्निर्यत्र स्थाप्यते तादृश आयतनप्रदेशो ग्राह्यो न तु तदितरप्रदेशः । स चोत्तरनाभिरूपस्तदितरो मध्यप्रदेशश्च । शास्त्रान्तरे गाॉकर्मणि च मध्यप्रदेशस्यैवाग्निस्थानत्वोक्तेः । अग्निप्रतिष्ठापनमग्नेः कुलायमसी. त्यादि पूर्णाहुत्यन्तम् । प्रतिष्ठापनस्यैवाङ्गान्येतानि । येन नाव्यवधानं तेन व्यवहि. तेऽपि नाव्यवहितत्ववाधः । पशुबन्धवदान प्रणयतीत्यापस्तम्बः । याजुषहौत्रसत्त्वे याजुषमेवात्र सर्व होत्रम् । मित्रावरुणो देवता यस्याः सा मैत्रावरुणी तस्यै, आमि- क्षाय तादर्थं चतुर्थीयम् । सायदोहायेत्यत्रापि तादर्थे चतुर्थी । आमिक्षार्थों यः सायदोहस्तदमिति वाक्यार्थः । वत्सानपाकरोति मातृभ्यः पृथक्करोति तूष्णीमेव । 1 वत्सापाकरणस्य शाखानिष्पाद्यत्वादादौ शाखाहरणं कर्तव्यम् । क्षेत्रावरुण्या इत्या- मिक्षाविशेषणं देवताविधानार्थम् । शाखाहरणमन्त्रेषु यथार्थमूहः । तप्ते पयसि दध्या- नीय श्रपयित्वा घनीभूतं यदव्यं निष्पद्यते साऽऽमिक्षा | आण्डस्य वा एतद्रूपं यदा. मिक्षेति श्रुतेः । यद्वीभूतं तद्वानिन, रेतो वै वाजिनमिति श्रुतेः ।

इन्द्राय च दधिघर्माय घर्मदुघो वत्सम् ।

इन्द्रायेन्द्रार्थ दधिधर्मो दन्ना साध्यो धर्मो दधिधर्मो दध्ना धर्म इव धर्म इति वा धर्मशब्देन रक्षणविशिष्टा क्रियोच्यते । दन्नो धर्मः क्षरणं यत्रेति वा। योगरूढं पदम्। इदं च विशे- पणं वक्ष्यमाणे दधिधर्षहोमसाधनीभूते यमिन्द्रमा वरुण यमाहुरिति मत्रे देवतानिश्च- यासंभवात्का देवता ग्राह्येत्याकाक्षां निवर्तयितुम् । धर्मो धर्मार्थं पयो यस्या दुखते सा धर्मधुक्तस्या वत्समपाकरोतीत्यर्थः । इदमपि तूष्णीम् । एतदर्थ शाखाहरणं तु समन्त्रमेव वषट्कारप्रदेयत्वाद्दधिधर्मद्रव्यस्य । चकारो दधिग्रहाचर्थकसायदोहार्थ तत्तद्गोम्यस्तत्तद्वत्सापाकरणं कर्तव्यमित्यनुक्तसमुच्चयं प्रदर्शयितुम् । एतदर्थ शाला- हरणं तूष्णीमेव वषट्कारप्रदेयस्वामावात् । यद्यपि शृतातङ्क्यस्य वषट्कारप्रदेयत्व- मस्ति तथाऽपि तस्य मिश्रणोद्देश्यत्वमेव न यागोद्देश्यत्वमतो न दोषः।

सर्वाण्यैन्द्राणि भवन्तीत्येकेषाम् ।

मैत्रावरुण्यामिक्षासानिध्यात्सर्वशब्दो धानादिरूपसवनीयहविःपरम् । श्रामिक्षायाः सवनीयाया या मित्रावरुणदेवता तामपोह्य तत्स्थान इन्द्रस्य देवतात्वं प्रसङ्गादत्रै- वाऽऽमिक्षा सहप्रदेयद्रव्याणां धानादीनां सवनीयायां या देवता इन्द्राय हरिवते घाना निर्वपतीन्द्राय पूषण्वते करम्भर सरस्वत्यै भारत्यै परिवापलानानिन्द्राय पुरोडाशमष्टा- कपालमिति सूत्रेण विधास्यमानास्ता अपोह्य तासां स्थाने चेन्द्रस्य देवतात्वं पक्षे विधीयते । आमिक्षाया मित्रावरुणयोः स्थान इन्द्रः । धानानां हरिवद्गुणरहित ६९२ ... सत्यापाठविरचितं श्रौतसूत्र- [सप्तमप्रभे- इन्द्रः । करम्भस्य घूषण्वद्गुणरहित इन्द्रः । परिवापलाजानां सरस्वतीभारतीस्थान इन्द्रः । पुरोडाशस्य विन्द्र एवास्ति । इन्द्राय च दधिधर्माय धर्मदुवो वत्समिति पूर्वसूत्रादिन्द्रायेत्यस्यानुवृत्त्यैवेन्द्रसंबन्धलाभ ऐन्द्रपदं किमर्थमिति चेत्सत्यम् । सर्वाणि भवन्तीत्यैन्द्रपदराहित्येन सूत्रे क्रियमाण इन्द्रपदाकाङ्क्षाया नियतत्वाभावेन सर्वस्य संशयग्रस्तत्वानन्वितत्वापत्तेः । नचेन्द्राय च दधिधर्माय धर्मदुषो वत्समित्येतस्मात्पूर्व- मेवैतत्सूत्रं कर्तव्यं तथा सत्येन्द्रपदस्य सार्थक्यमिति वाच्यम् । सर्वाण्यैन्द्राणि भव. न्तीत्येतस्य पूर्व करण इन्द्राय च दधिधर्माय धर्मबो वत्समित्यत्रापि अपाकरोतीत्ये- सदुपादानस्याऽऽवश्यकत्वेन गौरवापत्तेः ।

अग्निवत्युत्तरं परिग्राहं परिगृह्णाति ।

अग्निवतीति सप्तमी द्वितीयार्थे । उत्तरपरिमाविशेषणमनिवदिति । अग्निवत्त यसवस्त्वेत्यस्य तेऽग्निना प्राञ्चोऽनयन्, वसुभिर्दक्षिणा रुदैः प्रत्यञ्चः, मादित्यैरुदञ्च इत्यस्य प्रागग्निना परिसहस्तवनात् । एतेन वेदिकरण तमसोत्यस्यार्थात्पूर्वपरिमाहत्वं प्रदर्शितं भवति ।

न परिगृहीतामप्रोक्षितामधिचरत्यास्तरणात् ।

परिगृहीतामुत्तरपरिग्राहेण परिगृहीतां वेदिमपोक्षितां सती नाधिचरति नाधिति. ष्ठति । आ, आस्तरणात् । परिगृहीतामिति वचनमुत्तरपरिमाहात्पूर्वमधिचरणे निषेधो नेति प्रदर्शयितुम् । आस्तरणादिति वचनात्स्फ्पेन प्रतीची समाष्र्टीत्यारम्प स्तरणान्तमप्रोसिताया अधिचरणनिषेध इति । तेन संमार्थ प्रोक्ष्य वेदि समृज्य स्तरणार्थ प्रोक्ष्य स्तृणातीति सिद्धं भवति । आ, आस्तरणादित्यत्राऽऽभिव्याप्तावे। तेनाप्रोक्षितापा अधिचरणनिषेधः कृत्नस्तरणान्तं भवति । इयं शाखान्तरीया श्रुति- रेवानूद्यते ।

सुत्यार्थानि काष्ठानि माहावेदिकं च बर्हिरुपक्लृप्तं भवति तूष्णीकाभिरद्भिः काष्ठानि वेदिं बर्हिश्च त्रिस्त्रिः प्रोक्षति ।

सुत्यैवार्थः प्रयोजनं येषां तानि सुत्यार्थानि । माहावेद्या इई माहावेदिकं महावैद्या- स्तरणपर्याप्तं बहिश्चोपक्लुप्तं भवति । सुयार्थानि काष्ठानीत्यत्रोपक्लुप्तशब्दस्य वचन- विपरिणामेनान्वय उपक्लृप्तानीति । परिकर्मिभिरिति शेषः । सूयते कण्डयते सोम इति सुत्या, सूयते कण्यते सोमो यस्मिन्कर्मणीति वा सुत्या । संज्ञायां समजनिषद- निपतमनविदषुशीभृमिण इति सूत्रास्त्रीलिङ्गे वाच्ये भावादिरूपेऽर्षे क्यम् । लशकतद्धित इति ककारस्येत्संज्ञायां पकारस्य हलन्त्यमित्यनेनेसंज्ञायां हस्वस्य पिति १ ख. खेबेन्द्र'। २ ख. पा. 'ज्य स्व। . ४ च०पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ६९३ कृति तुगिति तुगागमे सुत्येति रूपम् । एवं च मुत्याशब्देन सुत्याख्यदिवससंबन्धित- कलकर्मग्रहणम् । तेनावभृथोत्तरोत्पन्नानामुदयनीयामिक्षादीनामपि तान्येव काष्ठानीति । मुत्यार्थीनीति विशेषणात्काष्ठानां सुत्यार्थत्वेनैवोपकल्पन, तेषामेवैतत्प्रकारेण प्रोक्षणम् । माहावेदिकमिति बहिर्विशेषणात्तत्र सुत्यार्थत्वस्य नान्वयो विरोधात् । एतेन ज्ञायतेऽ. ग्नीषोमीयार्थं भिन्नान्येव काष्ठानि तेषां नैवैतत्प्रकारेण प्रोक्षणं किंतु नाप्रोक्षितमिन्ध- नमग्नावादध्यादितिधर्मसूत्रेणाप्रोक्षितेन्धनाभ्याधानस्य निषेधाच्छु द्धाभिरद्भिौकिकमेव प्रोक्षणं तूष्णीमेव । उभयत्रापि चकार उपकल्पने प्रोक्षणे चानुक्ततद्दिवाससंबन्धिग्रहला. त्रसमुच्चयार्थः । अपूर्वत्वेऽपि प्राकृत एव क्रम इति दर्शयित पदार्थकीर्तनम् । त्रिस्त्रि- रिति वीप्सा प्रत्येक त्रित्वप्राप्त्यर्था । तूष्णीकाभिरिति गृह्योक्तप्रोक्षणीसंस्कारप्राप्त्य. र्थम् । प्रोक्षणसाधनत्वेनार्थीदेवापां ग्रणे सिद्धेऽद्धिरिति वचनं गृह्योक्तसंस्कारस्य पाक्षिकत्वज्ञापनार्थम् । तेन गृह्योक्तरीत्या संस्कृतामिलौकिकीभिरेव वा प्रोक्षणमिति पक्षद्वयं सिद्धं भवति । तूष्णीकामित्युच्यमाने तूष्णीकामिरहिरन्येन द्रवद्रव्येण वेत्ये- वरूपः प्रोक्षणं वैकल्पिकमित्येवं वाऽपि कदाचिदर्थः संमाव्येत स मा भूदित्येतदर्थं स्पष्टार्थकवाश परित्यज्य ज्ञापनसिद्धविकल्पार्थमद्भिरिति ग्रहणं कृतम् । परस्परवि- रोधाद्धि विकल्पोऽत्रेति ज्ञेयम् । उपक्लृप्तमिति भूतनिर्देशादग्नीषोमोयदिवससंबन्ध्यनु- ष्ठानारम्भात्यागेवोपकल्पनं परिकर्मिभिः कर्तव्यमिति गम्यते । अप्रोक्षितवेद्यधिचरणनि- षेधान्महावेदिदक्षिणश्रोणिसमीपदेशं प्रोक्ष्य तं देशमधिष्ठाय तत्रस्थ एव मन्त्रेण तस्मि. न्देशे वहिरास्तरणं कृत्वाऽग्रिम देशं प्रोक्ष्य तं देशमधिष्ठाय मन्त्रेण तस्मिन्देशे बहि- रास्तरणं कृत्वेत्येवं क्रमेणाऽऽन्तं कर्तव्यमिति द्रष्टव्यम् । अनेन प्रोक्षणस्याप्यत्र प्रत्यगपवर्गता भवति । तूष्णीकामिरनिः काष्ठानि वेदि बहिश्च विनिः प्रोक्षतीत्यत्र पूर्वसूत्रात्सत्यार्थीनि माहावेदिकमित्येतत्पदद्वयमनुवर्तते ।

तूष्णीं बर्हिषा वेदिꣳ स्तृणाति यया दर्शपूर्णमासयोः ।

! तूष्णीमिति वचनं यथा दर्शपूर्णमासयोरित्यनेन देवबहिलांम्रदसमित्यस्य मत्रस्य प्राप्तिः स्यात्सा मा भूदित्येतदर्थम् । यथा दर्शपूर्णमासयोरित्यनेन तृणैरन्तर्धानं प्रत्यगप- वर्गताऽप्रैर्मूलामिच्छादनमनतिद्वनं स्तरणमित्यादयो धर्माः प्राप्यन्ते । बौधायनेनाऽs. स्तावस्य सदोहविर्धानयोश्च बङ्गुलं स्तरणमुक्तं तदप्यविरुद्धत्वादृष्टार्थत्वाच स्वीकर्तव्यमेव ।

आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् । येषामिन्द्रो युवा सखेति स्तरणीमेके समामनन्ति ।। १५ ।।

इति हिरण्यकेशिसूत्रे सप्तमप्रश्ने चतुर्थः पटलः । सत्याषाढविरचितं श्रौतसूत्र- [सप्तमप्रने- वेदिवहिषा स्तीयतेऽनयेति स्तरणी करणे ल्युट्, युवोरनाकावित्यनादेशः । टित्वा- बडीम् । स्तरणीति स्त्रीलिङ्गनिर्देश एतस्य मन्त्रस्यकत्वात् । स्तरणार्थयमृग्भवतीत्यर्थः । इति ओकोपाहश्रीमदमिष्टोमयाजिसाहस्राग्नियुक्तवाजपेययाजिसर्व- तोमुखयाजिद्विषाहस्राग्नियुक्तपौण्डरीकयाजिगणेशदीक्षिततनून गोपीनाथदीक्षितविरचितायां श्रीमद्भगवत्सत्यापाढहिरण्य- केशिमूत्राम्बुधिगतनिगूढार्थरत्नालाभकृतविद्वज्जनसं- तापशामिकायां ज्योत्स्नाख्यायां वृत्तौ सप्तम- प्रश्नस्य चतुर्थः पटलः ॥ ४॥

7.5 अथ सप्तमप्रश्ने पञ्चमः पटलः ।

उपक्लृप्ते शकटे मण्डलचक्रे प्रयुक्तपूर्वे तयोः पुराणान्ग्रन्थीन्विस्रस्य प्रक्षाल्य नवान्कुर्वन्ति च्छदिष्मती युग्यकृते कृत्वाऽग्रेण प्राग्वꣳशमवस्थाप्य युञ्जते मन इत्यौत्तरवेदिके जुहोति ।

उपक्लो इति भूतनिर्देशावग्नीषोमीयदिवससंबन्धिकर्मानुष्ठानारम्भात्यागेवोपकल्प- नीये । द्विवचनात शकटे अनसी मण्डलाकारे चक्रे ययोस्ते पूर्वमेवान्यकार्येषु प्रयुक्त प्रयुक्तपूर्वे तयोः शकटयोः पुराणान्पुरातनापूर्वकृतान्प्रधीन्विस्त्रस्य प्रक्षाल्य हविर्धाने प्रक्षाल्य नवान्नूतनान्दााय ग्रन्थीन्कुर्वन्ति । पारेकर्मिण इति शेषः । छरिष्मती कट. वती युग्यकृते युग्ये च ते कृते च युग्यकृते । इदं च शकटविशेषणम् । युग्ये युगाहे खलयवमापतिलवृषब्रह्मणश्चेतिसूत्रस्थानुक्तसमुच्चयार्थकचकारेण संगृहीतायुगशब्दात्तदई- तात्यस्मिन्नर्थे यत्प्रत्ययः । कृते नुतनाक्षादियोजनेन कृते कार्यसमर्थे । एतादृशे शकटे कृत्वाऽग्रेण प्राग्वनं प्राग्वंशस्य समीप एवं प्रागोषे एव दक्षिणे दक्षिणमुत्तर उत्तरमि - त्येवमव्यवायेनावस्थाप्य युञ्जते मन इत्योत्तरवेदिके जुहोति । परिष्यतिरित्यन्तो मन्त्रः । जुहोतिचोदितत्वात्स्वाहाकारः । उपक्लुते शकटे इत्येतावतैव चक्रयोः शकटाङ्गत्वात्प्र. सिद्धत्वाच्च मण्डलचक्रत्वे सिद्ध इदं वचनं चक्रयोः केवलमण्डलाकारत्वं न विधीयते किंतु रविमण्डलं यथा छिद्ररहितं तद्वन्मण्डलाकारचक्रे इत्यर्थविशेष प्रदर्शयितुम् । तेन च्छिद्रपदार्थोपलक्षितान्तरालवत्सारचक्रव्यावृत्तिर्भवति । प्रयुक्तपूर्वे इत्यनेन पुरातने प्रयाणगृहकार्यार्थनिर्मित एव ग्राह्ये इति सूचितं भवति । असंभवे नूतने एव ग्रा । प्रयुक्तपूर्वत्वे विशेषमाह-तयोः पुराणान्ग्रन्थीन्विस्त्रस्येति । प्रक्षाल्य नवान्कुर्वन्तीति पुरातननूतनसाधारण: नवत्वं प्रकृतकार्यक्षमत्व लक्षयति । कृत्वेति वचनमध्वर्युकर्तृकत्वा. थैम् । अत एव क्त्वाप्रत्ययस्य समानकर्तृकत्वमप्युपपद्यते । अव्यवायेनावस्थापनमाप. ५५०पटलः ] गोपीनाथभट्टकृतज्योत्स्नाब्याख्यासमेतम् । स्तम्घनोक्तम्-अग्रेण प्राग्वंशमभितः पृष्टयामव्यवयन्निति । कात्यायनः- -हविर्धाने स्थापयति पृष्ठयामुभयतो धरत्न्यन्तरे प्रक्षालिते प्राची उभयतः शालामावृत्य वर्षीयो दक्षिणमिति । मानवसूत्रेऽन्यो विशेषः-बहिर्वेदि चक्राण्यन्तर्वेधुपस्तम्भयतीति । औत्तरवेदिग्रहणं बौधायनकात्यायनोक्तशालामुखीयनिरासार्थम् ।

देवश्रुताविति पदतृतीयस्यैकदेशेन पत्नी दक्षिणस्य हविर्धानस्य दक्षिणामक्षधुरं दक्षिणेनोत्तानेन त्रिः पराचीनमुपानक्त्येवमुत्तरस्य ।

गृहे स्थापितस्य पदपांसुतृतीयभागस्यैकदेशेन द्विधाविभक्तस्यैकांशेन हविःसोमा- ख्यं धीयते स्थाप्यते यस्मिस्तद्धविर्धानं, तच्च दक्षिणं दक्षिणदिसंबन्धीदमितिसंज्ञा चिद्वितम् । एतादृशस्य हविर्धानस्य चक्र निष्काश्य दक्षिणामक्षधुरं दक्षिणेन हस्तेनो- त्तानेन त्रिः पराचीनमधःप्रदेशमारभ्योपरिष्टात्प्रदेशान्तं त्रिवारमुप समीप उपविश्या- नक्ति । अञ्जनानन्तरं तस्य तच्च योजयति । एवमेवोत्तरस्य हविर्धानस्य कृत्वा चक्र योजयति । द्रव्यपृथक्त्वान्मन्त्रावृत्तिः । वशीत्यन्तो मन्त्रः । पत्नीग्रहणमध्वर्युव्याय- त्यर्थम् । दक्षिणग्रहणमुपकल्पनसमय एवेदं दक्षिणमिदमुत्तरमितिचिह्नकरणार्थ, पृष्ठ्याया दक्षिणत एकमुत्तरत एकमित्येवं विशिष्टं स्थापनं ज्ञापयितुं च नतु पृष्ठयाया दक्षिणत एवोत्तरत एव वा । दक्षिणतः स्थापित दक्षिणमुत्तरतः स्थापितमुत्तरमित्येवमु- च्यमान उदक्संस्थत्वेनैव सिद्धेदक्षिणोत्तरशब्दोपादानवैयर्थ्यापत्तेः । हविर्भानग्रहणं शकटस्य प्रयोजनं प्रदर्शयितुम् । दक्षिणामित्यक्षधुरो विशेषणमुत्तराक्षावृत्त्यर्थम् । पाक्पूरब्धूःपयामानक्ष इति भकारः समासान्तो न भवति अनस इति पर्युदासात्, एतस्या अक्षसंबन्धित्वात् । अक्षश्चक्रयोमध्यतन तिर्यकाष्ठं तस्मिन्यत्र चक्रं प्रोत भवति स प्रदेशोऽक्षरित्युच्यते । दक्षिणेनेति हस्तविशेषणं वामन्यावृत्त्यर्थम् । अथवा दक्षिणेनेति नियमार्थ दक्षिणेनोपानक्ति नतु वामेनापीति । दक्षिणेनेत्यस्यानुक्तावा. लिनाऽपि उपाञ्जनं कदाचित्संभाव्येत तद्वारयितुं दक्षिणवचनम् । उत्तानग्रहणं न्यक्त्व- व्यावृत्त्यर्थम् । अञ्जनसाधनत्वस्य हस्त एवं प्रसिद्धत्वाद्योग्यत्वाच्च विशेष्यभूतहस्तश- ब्दस्यानुक्तिः । प्राचेति बौधायनो हस्ते विशेषमाह । यत्रैकस्मिन्द्रव्य इति सूत्रात्स- कृदेव मन्त्रः । हविर्धाने प्रतिगमने क्रमनियम उक्तो बौधायनेन-अन्वरपनमानोऽनूची पत्नी पदतृतीयमादायेति ।

सर्वा उपानक्तीत्येकेषाम् ।

सर्वा अक्षधुरो नतु पत्नीपरः सर्वशब्दो बहुत्वस्यानियतत्वात् । परार्थान्येकेन क्रिये- रनितिपुत्रविरोधाच । तेन मुख्यैवानक्ति । अक्षसंस्कारकं हीदमुपाञ्जनम् । मुख्यत्वं १ क. 'शेष्यीभू। 1 - सत्याषाढविरचितं श्रौतसूत्र- [७सप्तमप्रश्ने- ज्येष्ठाया एव ज्येष्ठया न विनेतरा इति शास्त्रात् । परार्थ कर्म कर्तव्यं ज्येष्ठयैव नचा- न्ययेति शास्त्राच्च । तस्यामविद्यमानायां विद्यमानासु या ज्येष्ठा सा ज्ञेया । अत्र ज्येष्ठत्वं विवाहकृतं नतु वयःकृतमिति । एतन्मूलमन्यतो द्रष्टव्यम् । सर्वा अक्षधुरः समन्त्रमेवानक्तीत्यर्थः । तेन पूर्वकल्प उत्तरयोधुरोस्तूष्णीमुपाञ्जनं सिद्धं भवति । दृष्टा- र्थत्वाच्चाऽऽवश्यकं चैतत् ।

आज्येन चेत्येकेषाम् ।

चकारः पदसमुच्चयार्थः । अन्यदाज्यं तस्मिन्पद आनीय तेन मिश्रितेन धूरञ्जनं कर्तव्यमित्यर्थः । अथवाऽऽदौ पदेनैवाञ्जनं कृत्वा पुनः केवलेनाऽऽज्येनैवानक्तीत्येवं वा समुच्चयः । अस्मिन्पले मन्त्रावृत्तिः । एकेषां मते समुच्चयस्य नित्यत्वमिति सूत्रतात्पर्यार्थः । तेनान्येषां मते नैमित्तिकत्वं सिद्धं भवति । पदस्य शुष्कत्व आज्येन मिश्रयित्वाऽञ्जनमवश्यं कर्तव्यं, पदनाशेऽन्यान्पांसूञ्छुद्धदेशस्थान्गृहीत्वाऽऽ. ज्येन मिश्रयित्वाऽञ्जनमावश्यकमिति । अथवा लौकिकेनाऽऽज्येनान्यान्पांसून्मिश्र- यित्वा तेनाञ्जनं कृत्वाऽन्येन संस्कृतनाप्यञ्जनमवश्यं कर्तव्यमेवेति । अत्र पत्नी कृत- कार्यत्वात्स्वस्थानं प्रति गच्छति । उक्तं च बौधायनेन-नयन्ति पत्नीमिति । बहुवचनं परिकर्म्युविजामन्यतमप्राप्त्यर्थम् ।

हविर्धानाभ्यां प्रवर्त्यमानाभ्यामनुब्रूहीति संप्रेष्यति प्रवर्त्यमानाभ्यामनुब्रूहीति वा ।

होतारमिति शेषः । अत्रैवाऽऽह्वानमुक्तं बौधायनेन-द्वयन्ति होतारमिति । बहुवचनं ब्रह्मयजमानाध्ववन्यतमप्राप्त्यर्थम् । अत्र वैशेषिकं हौत्रमाश्वलायनीयमेव ।

त्रिरनूक्तायां प्राची प्रेतमिति समुद्गृह्णन्तः प्राची प्रवर्तयन्ति ।

त्रिरनूक्तायां होत्रा। उपस्थितत्वात्प्रथमैव त्रिरनूक्ता भवति। स्पष्टमेवापठदापस्तम्ब :- प्रथमायां त्रिरनूक्तायामिति । प्राची प्रेतमिति मन्त्रेण धुर्यवधुगधुरौ दक्षिणेन हस्ते- नोवं गृह्णन्तः प्राची अनसी नयन्ति । प्रशब्दो यथा शकटनयने शकटचक्राद्यङ्ग- स्याऽऽघातो न भवेत्तथा नयनं द्योतायतम् । बहुवचनोपात्ता अवयव एव नतु परिक- मिणः । मन्त्रवत्कर्मत्वात् । समुद्रुन्त इति शत्राऽनःप्रवर्तनसमकालत्वं समुद्ग्रहणस्य । तेन यावत्पर्यन्तमनःप्रवर्तनं तावत्पर्यन्तं समुद्गृहणम् । समुद्गृह्णन्त इत्यत्र संशब्दो दायेनोगृहणार्थः । उच्छब्द उर्ध्वग्रहणार्थः । जीह्वरतमित्यन्तो मन्त्रः ।

सुवाग्देव दुर्याꣳ आवदेत्यभिमन्त्रयते यद्यक्ष उत्सर्जेत् ।

यदि अक्षश्चक्रसंघर्षणेनोत्सर्नेच्छब्दं कुर्यात्तदा सुवागित्यभिमन्त्रयते । अक्षशब्द- मिति शेषः । अक्रन्ददग्निरित्यक्षशब्दमभिमन्त्रयत इत्यग्नौ दर्शनात् । एतच्च रक्षोपह- १.झ. अ. उत्सृजेत् । १ प०पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ६९७ ननार्थम् । यदन उत्सर्जत्यकन्ददित्यन्वाह रक्षसामपहत्या इत्यग्नौ श्रुतेः । एकवच- नादध्वरेवान कर्ता नतु प्रतिप्रस्थाताऽपि ।

यत्र वेदिमवक्रामतस्तद्दक्षिणस्य इविर्धानस्योत्तरस्यां वर्तन्यां वेद्यन्ते हिरण्यं निधायेदं विष्णुरिति जुहोति ।

स्फ्येनोद्धत्यावोक्ष्य हिरण्यं निघाय संपरिस्तीर्याभिजुहोतीति बौधायनः । यत्र यस्मिन्देशे वेदिमनसी अवक्रामतो वेदिमवक्रम्य गच्छतस्तत्तस्मिन्देशे दक्षिणस्य हविर्धा- नस्योत्तरस्यां वर्तन्यामुत्तरचक्रमार्गे वेद्यन्ते महावेवितमीप इत्यर्थः । पासुर इत्यन्तो मन्त्रः । तदित्यत्र सुपां सुलगित्यनेन सप्तम्या लुक् । अवक्रामत इति द्विवचनाद्वेद्यवक- पणं सहैव द्वयोः । अत्र दक्षिणग्रहणमुत्तरसूत्र उत्तरग्रहणं च कमार्थ दक्षिणहविर्धा- नोत्तरवर्तन्यधिकरणको होमोऽध्वर्युणा पूर्व कर्तव्य उत्तरहविर्धानोत्तरवर्तन्यधिकरणको होमः प्रतिप्रस्थानाऽनन्तरं कर्तव्य इति । अन्यथाऽत्रानियतिः स्यात् । अन्तवचनं वेदिप्रान्तसंलग्नदेशग्रहणार्थम् । उत्तरत्र प्रतिपस्थातृप्रहणात्पूर्वत्र यजुर्वेदेनाध्वर्युरिति- 'परिभाषाप्राप्तोऽध्वर्युः कर्ता।

इरावती धेनुमती इत्येवं प्रतिप्रस्थातोत्तरस्य ।

प्रतिशब्दोऽन्वर्थे । अध्वर्युमनु यागार्थ तिष्ठतीति प्रतिप्रस्थाता । प्रतिः सादृश्या- धको वा । अध्वर्युरिव यागार्य तिष्ठतीति प्रतिप्रस्थातेति । उत्तरस्येत्येव पाठो युक्तः सापेक्षत्वात् । उत्तरस्यामिति पाठस्त्वयुक्त एव । एवमित्यतिदेशादेवोत्तरवर्तन्याः प्राप्तौ तद्ग्रहणस्य व्यर्थत्वापत्तेः । प्रतिप्रस्थातृग्रहणमध्वर्युव्यावृत्त्यर्थम् । मयूखैरित्यन्तो मन्त्रः । उभयत्रापि दपिहोमधर्मः । नारन्योरन्तरागमने दोषः । तेनैव प्रत्यागमनम् । जुहोतिचोदितत्वात्स्वाहाकारः।

अध्वर्युर्दक्षिणस्य हविर्धानस्य कर्माणि करोति प्रतिप्रस्थातोत्तरस्य ।

यत्र द्विवचनं श्रूयते मन्त्रभेदश्च नास्ति तत्र साहित्यमेवेति बोधयितुमियं परिभाषा । एतयतिरिक्तस्थले तु एतदभावादेव साहित्यव्यावृत्तिर्भवति । एतादृशं स्थलं मेथीनिह - ननमेव । धर्मभेदादेतस्य पृथगुपादानम् । प्रकरणादेव विशेष्यस्य हविर्धानस्य लाभे पुनर्हविर्धानग्रहणं दक्षिणस्य हविर्धानस्य पश्चादक्षं द्रोणकलश सदशापवित्रं प्रयु- नक्ति उत्तरस्य नीड आहवनीयं तस्यैव प्रधुरे पूतभृतं पश्चादशं तित्र एकधनाः स्थालीरित्येतस्य पात्रप्रयोगस्य तत्तद्धविर्धानसंबन्धित्वादेतस्याः परिभाषाया अत्रापि प्राप्तिः स्यात्मा मा भूकिंतु हविर्धान संस्कारककर्मविषय एवैतस्याः परिभाषायाः प्रवृत्तिः स्यात्पात्रप्रयोगस्य तु हविर्धान संस्कारककर्मत्वाभावानात्र परिभाषायाः प्रवृ- तु त्तिरित्येतदर्थम् । । ११. ज. स. अ. 'पणाचक्रम इति । ६९८ सत्याषाढविरचितं श्रौतसूत्र- [७सप्तमप्रश्ने-

अपजन्यं भयं नुदाप चक्राणि वर्तय गृहꣳ सोमस्य गच्छतमिन्द्रस्य सꣳसदमिति पश्चार्धे वेदेर्वितृतीयदेशे मनसा होता पदा जन्यं भयं प्रतिनुदत्यध्वर्युर्यजमानो ब्रह्मा वा ।

भयं प्रतिदित्यध्वर्युर्यजमानो ब्रह्मा वा । यात्रुषहौत्रसस्त्रेऽत्र होतृकर्म याजुपरीत्यैव वेदेमहावेदेः पश्चार्थे, कथंभूते वितृतीय- देशे विगतस्तृतीयो देशः पश्चार्यः पूर्वार्यो वा तस्मिन्होता मनसा मन्त्रमुक्त्वा पदा पादेन जन्यं जनसंबन्धि मयं प्रतिनुदति निरसनमुद्रया पांसुप्रत्यसनेन वा दूरी करो- तीत्यर्थः । मन्त्रपाठेनैवात्र दूरीकरणम् । आच्छिद्रिकपनान्तर्गतेन गच्छतमित्यन्तेन ..मन्त्रेणायं विकल्पः । तच्च भयं कर्मण एव नतु होनवयुयजमानबह्मणाम् । विकल्प स्वरसादयमों लभ्यते । अत्र पादस्यानिर्दिष्टाङ्गत्वेऽपि दक्षिणवचनाभावादनियमः होतृशब्दार्थों बचबामणे यदेवामुमावहामु मावहेत्यावाहयति तदेव होतुझेतृत्वमिति । जुहोतीति होतेति व्युत्पत्तिर्नानोपयुज्यते । अतिप्रसक्तत्वात् । तत्र वैकल्पिकान्कर्तृ- नाह-अध्वर्युरित्यादिना । अध्वर्युशब्दव्युत्पत्ति ध्वर्युः सोम विचिनुयादित्येतत्सूत्र- व्याख्यानावसर उक्ता। यजमानशब्दव्युत्पत्तिस्तु अग्निष्टोमयाजमानसूत्रे वक्ष्यते । ब्रह्मशब्दव्युत्पत्तिर्मदन्तीभिः पाणीप्रक्षालयन्ते ब्रह्मा राजानं वित्रसयतीतिसूत्रन्या- ख्यानावसर उक्ता।

अपरेणोत्तरवेदिं त्रीन्प्रतीचः प्रक्रमान्प्रतिविक्रम्यात्र रमेथामित्यभितः पृष्ठ्यां नभ्यस्थे स्थापयतः ।

उत्तरा चासी वेदिश्चोत्तरवेदिः । उत्तरत्वमुत्कृष्टत्वम् । स चोकर्ष ऐष्टिकपाशुक. सौमिकादिबहुतन्त्रार्थकाम्यधिकरणत्वरूपगुणाधिक्यात् । सपत्नीवाधनार्थकसूक्तान्तर्गत उत्तराऽहमुत्तर इत्यस्मिन्मन्त्र उत्तरशब्दस्योत्कर्षार्थत्वदर्शनात् । योगरूढं पदम् । प्रतीचः प्रत्यक्संस्थान् । त्रीनिति वचनं चतुरादिव्यावृत्त्यर्थम् । प्रतिशब्द जतया प्रक्रमाः क्रमितव्या इत्यर्थं द्योतयितुम् । विशब्दो येन पदेन प्रक्रमेण वा मानं कृतं ततोऽप्यभीष्टानुरोधेन माने वृद्धि गमयति । उत्तरवेदिपश्चार्यशङ्कुमभितो दक्षिण उत्तरे चापरभागोऽत्र विवक्षितः । अमितःपरितःसमयानिकषाहाप्रतियोगेऽपोत्यनेन पृष्ठ्यामिति द्वितीया । यथोत्तरवेदेः पश्चादभीष्टवृद्धिमत्सु त्रिषु प्रक्रमेषु हविर्धानयो- नभ्यस्थे भवतस्तथा पृष्ठ्यामभितोऽनसी स्थापयतः । दक्षिणस्योत्तरं नभ्यस्थमुत्तरस्य दक्षिणं नभ्यस्थमभितः पृष्ठयां भवति । नभ्यं चक्र तस्य यन्मध्यम फलकं यत्र नामिः कियते मध्येनभ्यमिति लिङ्गात् , तत्फलकाधारफलकस्थिते चके स्थापयतः । तेन चक्राधारत्वेन स्थिते भवतो न भूमिस्थिते भवत इत्यर्थः । हविर्धानयोः परिशिष्टचक्र. १ज.स नह.प्रक। - ५५०पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । द्वयस्यार्थादेतदनुरोधेनैव । उगवादिभ्यो यदिति यत्प्रत्यये नाभि नभं चेति नाभि. शब्दस्य नभादेशः । नाभेनाकारस्य हस्वः । पृथिव्या इत्यन्तो मन्त्रः । अन्तरालप्रमाणानियममाह-

यथार्थꣳ हविर्धानयोः ।। १६ ।। अन्तरालं कुरुतः ।

यथार्थं यथाप्रयोजनम् , अर्थमनतिक्रम्य यथार्थम् । पदार्थानतिवृत्तिरूपयथार्थ- समासोऽयम् । प्रयोजनादधिकमुभयोमध्येऽन्तरालं न कर्तव्यमित्यर्थः ।

वैष्णवमसि विष्णुस्त्वोत्तभ्नात्वित्युपस्तभ्नुतः ।

उपस्तम्भनाम्यां काष्ठाभ्यामिति शेषः ।

पुरस्तादुन्नते भवतः।

उपस्तम्भनं तथा कर्तव्यं यथा पुरस्तादुन्नते शकटे भवत इत्यर्थः ।

दिवो वा विष्णवुत वा पृथिव्या इत्याशीर्पदयर्चा दक्षि- णस्य हविर्धानस्य दक्षिणं कर्णातर्दमपरेण गेयो निहन्ति विष्णोर्नुकमित्युत्तरस्योत्तरं कर्णातर्दमपरेण प्रतिप्रस्थाता ।

आशीः प्रार्थनार्थकानि पदानि यस्यां साऽऽशोदा तयाऽऽशीर्पदया, एतादृश्यर्चे- त्यर्थः । हस्तौ पृणस्व बहुभिर्वव्यस राप्रयच्छ दक्षिणादोत सव्यादिति आशीः प्रार्थना- र्थकानि पदानि । आशीर्पदयेति ज्ञानार्थम् । ज्ञानाभावे यजुर्भेषप्रायश्चित्तं भुवः स्वाहेति दक्षिणाना होतव्यम् । दक्षिणस्य हविर्धानस्येति वचनं ब्राह्मणानुकरणार्थम् । दक्षिणस्य हविर्धानस्येत्येतस्योत्तरत्रानुवृत्तिं वारयितुमुत्तरस्येति वचनमावश्यकमेव । दक्षिणं कर्णातर्दमित्यत्र दक्षिणग्रणमुत्तरकर्णातव्यावृत्त्यर्थम् । कर्णातर्दशब्देनेषयोः संधानकील उच्यते । कर्णातईमित्यत्र द्वितीया, एनपा द्वितीयेति सूत्रेण । मेथी बन्ध- नार्थो दृढः स्तम्भः । उत्तरं कर्णातर्दमित्यत्रोत्तरग्रहणं दक्षिणव्यावृत्त्यर्थम् । मेर्थी निहन्तीत्यनुषज्यते । सव्यादित्यन्तः पूर्वो मन्त्रः । घोरुगाय इत्यन्त उत्तरः । विष्णोर्याणि प्रवोचमित्यनेन लिङ्गेनाऽऽशीर्पदसंज्ञा विष्णोर्नुकमित्येतस्या अपि । अथवा दिवो वा विष्णवित्येतस्या एवाऽऽशीर्पदसंज्ञा श्रुताचुक्ता तदनुरोधेन सूत्रेऽपि दिवो वेत्येतस्या एवेयं संज्ञा नोत्तरस्या इति । अस्मिन्पक्षे योगरूढत्वं पदस्थ द्रष्टव्यम् ।

विष्णोर्ध्रुवमसीति तत्रैते निबध्नीतः ।

तत्र तयोर्मेथ्योरेते शकटे कर्णातर्दयोनीतः । निशब्दो दार्थमाचष्टे । बन्धन रज्ज्वा वेष्टनम् ।

विष्णोर्ध्रुवोऽसीति ग्रन्थी कुरुतस्तौ प्रज्ञातौ भवतः ।

वेष्टितरज्ज्वोर्ग्रन्थी कुरुतः । तौ ग्रन्थी प्रज्ञातौ दृढौ, सदोहविर्धानानां पूर्वकृता. न्ग्रन्थीनिवस्त्रस्येत्यने सूत्रकृता ग्रन्थिविनंसनस्य विधास्यमानत्वात्तावत्पर्यन्तं प्रज्ञातत्वम् । 1 1 ७०० सत्यापाढविरचितं श्रौतसूत्रं- [ सप्तमप्रश्ने-

ऊर्ध्वाः शम्याः समुत्कृष्योपरिष्टात्परिवेष्टयतो यथा सुष्ठु।

ऊर्ध्वा उत्पाट्याधःकुम्बाः प्रतिमुच्य रज्ज्वोपरिष्टात्परिवेष्टयतो यथा न पततस्तथा दृढं परिवेष्टयत इत्यर्थः । ऊर्ध्वत्वे हेतुभूतां श्रुतिमाहाऽऽपस्तम्धः-उत्ताना हि देवगवा वहन्तीति विज्ञायत इति । हिहती।

पर्यन्त्याः स्थूणा मिनुतः ।

पर्यन्तमर्हन्ति पर्यन्त्याः । दण्डादित्वायत्प्रत्ययो नतु पर्यन्ते भवा इति । तत्र मवनाभावात् । अथवा भवनमत्र सत्तारूपं द्रष्टव्यम् । सत्ता चात्र भाविनी ज्ञेया । स्थूणा द्विशाखास्तम्मा मिनुतः खनतः । साध्यानार पडहेन स्वर्गकामः पृष्ठयः षडहो बृहद्रथंतराभ्यां यन्त्याश्वत्थी हविर्धानं चाऽऽनीधं च भवतश्चक्रीवतो मत्रत इत्यत्राश्व- स्थवृक्षनियमादत्र स्थूणानां वृक्षा अनियता यज्ञिया ज्ञेयाः । अत्रापि यथा सृष्टविति पदमन्वेति ।

यथाऽग्रेण खरꣳ संचरो भवति ।

यथाऽप्रेण खरं संचरो मार्गों भवति तथा मिनुत इति पूर्वेणान्वयः ।

अग्रेण हविर्धाने स्थूणे निहत्य तयोरुदगग्रं वꣳश निधाय प्राचो वꣳशानादधाति ।

अग्रेण हविर्घाने स्थूणे निहत्येत्यनेनेदं ज्ञायते हविर्धानाने हविर्धानमण्डपार्धे यथा भवतस्तथा स्थापनीये तदग्रसमीपे एते स्थूणे । एते च स्थूणे मण्डपमध्यस्थे मण्डपा- धारभूते भवत इति । तयोः स्थूणयोः, उदर, अमं यस्य स उद्गग्रस्त मुद्गग्रम् ! एतादृशं वंशं वेणुस्तम्भ निधाय स्थापयित्वा प्राचः प्राचीनाग्रान्वंशान्सर्वतः पर्याप्तानि- दधाति स्थापयति ।

विष्णोः पृष्ठमसीति मध्यमं छदिरधि निदधाति ।

अधि उपरि वेशेषु परिशेषादितरे तूष्णीम् । तूष्णीमितरे छदिषी अध्यूझे त्ये- वाऽऽपस्तम्बः।

विष्णो रराटमसीति पुरस्ताद्रराटीं परिश्रयति ।

पुरस्तात्पुरोमागे करिष्यमाणद्वारप्रदेशे रादी वक्ष्यमाणलक्षणां परिश्रयति उपरि- टाच्छ्लेपयतीत्यर्थः। तस्याः स्वरूपमाह:-

तेजनी रराट्यैषीकी प्राच्यणूकाण्डा मध्ये विततां तां वꣳशे निबध्नाति ।

तेजनी यष्टिः । यथोक्तं बाढच्ये-तेजन्या उभयतोऽन्तयोरिति । चतुर्थः संधि- हीपुरनो शल्यस्ते ननं पर्णानीति च । सोमः शल्यो विष्णुस्तेननमिति च । ब्राह्म- + सूबपुस्तकेषु अणुकाण्डति इस्वपाठो लभ्यते । " १५०पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ७०१ णेऽपि अभिमनीक लोमर शल्यं विष्णुं तेमनमिति । सा चैषीकी, इषीकतृणजन्यय- टिकारूपा । प्राची प्रागायता मतूदीची । अणूकाण्डाऽस्थूलपर्वा । दीर्घश्चान्दतः । मध्ये वितता विष्यता । क्वचित्पुस्तके तथैव पाठः । मध्ये सुषिरं कृत्वा सूत्रे प्रोता । एवंस्ता तेजनीरूपा रराटी तां तोरणस्थानीययोः पूर्वद्वारस्थूणयोरुपरितनपेशे निबनातीत्यर्थः।

विष्णोः श्न्यप्त्रे स्थ इति रराट्या अन्तौ व्यवास्यति ।

स्थूणयोनिहिते उदगने पूर्वप्रान्तस्थवंशे रराट्या रज्ज्वा अन्ती व्यवास्यति । विशब्दो दायमाचष्टे । अवावनता सन्बनाति ।

कटाꣳस्तेजनीश्च प्रवर्तं छदिषामन्तरालेष्वन्ववस्यन्ति ।

कटान , अघूनि च्छदींषि तेजनीष्टिकाश्च प्रवर्त प्रवृत्य प्रवृत्य च्छविषामन्तरालेषु अन्ववस्यन्ति तं तमन्तरालप्रदेशमनुलक्षीकृत्यावस्यन्ति अधोऽधो योजयन्तीत्यर्थः । चकारस्तृणसंग्रहार्थः । अत्र बहुवचनश्रवणात्परिकर्मिणः कर्तारः । तेजन्यो यष्टयः । पूर्ववत्काभिश्चिद्यष्टिभिः सह कटान्वद्ध्वा बद्ध्वा तत्र च्छिद्रेषु दधतीत्यर्थः ।

तानन्तर्वर्ता इत्याचक्षते ।

य इमे तेजनीकटा बद्धा योजितास्तानन्तर्वतर्ता इत्याचक्षते । अन्तर्वान्करोति व्यावृत्त्या इति ब्राह्मणेऽन्तर्वशब्देनाभिधीयन्त इत्यर्थः ।

परि त्वा गिर्वणो गिर इत्यभितः परिश्रयतः ।

हविर्धानमिति शेषः । द्विवचनादध्वर्युप्रतिप्रस्थातारौ | अमितः स्वं स्व भागमधि- लक्ष्य परितः श्रयत आच्छादयतः । जुष्टय इत्यन्तो मन्त्रः ।

पूर्वमपरं च द्वारे कुरुतः।

चकारो द्वारे इत्येतदनन्तरमन्वेति । तथा चैवमों भवति पूर्वमपरं द्वारे च कुरुत इति । चकारो महतां गवाक्षाणामपि करणं समुच्चेतुम् । एक पूर्वमेकपरमिति द्वारद्वय कुरुतः । पूर्व पूर्वदिक्स्थमपरमपरदिक्स्थं कुरुतोऽध्वर्युपतिप्रस्थातारौ । तत्र विशेषमाह-

अध्वर्युर्दक्षिणां द्वारेयीं परिषीव्यति प्रतिप्रस्थातोत्तराम् ।

पूर्वी परिभाषा हविर्धामविषाधण्यत्र कथं प्रवर्ततेती सूत्रं कृतम् । द्वारशब्दावार्थे मद्यादित्वाड्ढक्, एवदिशा न तेन द्वारेमा दुवयीत्यर्थी भवति । अत्र भवनमुत्पत्तिर्न भवति असंभवात् , किंतु सत्ता । सा च. भाविन्यत्र ग्राहा। इदं च द्वारस्थूणाविशेषणम् । दक्षिणा द्वारस्थूणामध्वर्युः परिषीव्यति प्रतिप्रस्थातोत्तरां द्वारेयीमुत्तरां द्वारस्थूणाम् ।

विष्णोः स्यूरसीति सीव्यतः । - ७०२ सत्यापाठविरचितं श्रौतसूत्र- [ "सप्तमप्र- सीवनं तु बौधायनो व्याचष्टे- -अथ दक्षिणद्वा ही कुशहस्तमुपनिगृह्य . दर्भणेन प्रवयतीति । विष्णोः स्यूरसीत्यध्वर्युदक्षिणां द्वारेयी परिषीव्यति प्रतिप्रस्थातोत्तरामित्ये. तावतैष सिद्धौ सीव्यति सीन्यत इति क्रियाद्वयं पक्षद्वयज्ञापनार्थम् । पूर्वसूत्रेण क्रमेण परिषोवणं विधीयत उत्तरसूत्रेण सह परिषीवणं विधीयत इति विरोधाद्विकरपः । मन्त्रस्तु देहलोदीपन्यायेनोमयत्रान्वेति । दर्भगच्छिद्रप्रोतया रज्ज्वा कूर्नवस्कुशानुपचा- स्यन्नाऽप्राष्टियतीत्यर्थः।

विष्णोर्ध्रुवोऽसीति ग्रन्थी कुरुतस्तौ प्रज्ञातौ भवतः ।

स्पष्टोऽर्थः । यं प्रथम प्रन्धि प्रश्नीयाद्यत्तं न विस्मयेदमेहेनाध्वर्युः प्रमीयेत तस्मात्स विस्त्रस्य इति ब्राह्मणे प्रथमकृतग्रन्धेरविलंसने दोषश्रवणात्मज्ञातं ग्रन्धिकर. णम् । सदोहविर्धानानां पूर्वकृतान्अन्यौन्वित्रस्येत्यन्ते विस्टेसनं विहितमेव सूत्रकृता । अमेहेन मूत्रनिरोधेन । तस्माद्यत्र यत्र प्रथमग्रन्थयस्तत्र तत्र अथितास्ते सर्वे प्रज्ञाताः कार्याः पश्चाद्विलंतनीयाश्चेति भावः । विष्णोर्बुवमतीत्यनेन विकल्पतेऽयं मन्त्रः । अथवा पूर्वत्र विनियोगो य उक्तः स एव वैतद्विनियोगः ।

वैष्णवमसि विष्णवे त्वेति संमितमभिमृशतः ।

संमित विमितं हविर्धानमिति शेषः ।

प्र तद्विष्णुः स्तवते वीर्याय मृगो न भीमः कुचरो गिरिष्ठाः । यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वेति संमिताद्धविर्धानात्प्रागुपनिष्क्रामतः ।

संमितात् , विमितात् । हविः सोमाख्यं धीयते स्थाप्यते यस्मिस्तस्माद्धविर्धाना- द्धविर्धानमण्डपात्प्राक्पुर उपनिष्कामतो गच्छतः । अध्वर्युप्रतिप्रस्थाताराविति शेषः । तयोरेवोपस्थितत्वात् । प्रागित्येव पाठः । प्राक्रिति पाठे कर्तृविशेषणं स्यात् , तथा सति प्राश्चावितिद्विवचनापत्तिः स्यात् । अन्यत्स्पष्टम् ।

उपनिष्क्रम्य वा जपतः ।

उपविष्टाभ्यां तिष्ठयां वा जपः कार्यः ।

त्रीन्प्राचः प्रक्रमान्प्रक्रम्य जपत इत्येकेषाम् ।। १७ ।।

इति हिरण्यकेशिसूत्रे सप्तमप्रश्ने पञ्चमः पटलः ।

प्रक्रममानपक्षेपि प्रक्रम्यत इति प्रक्रम इति व्युत्पत्त्या पदमेवात्र माझम् । यस्यो- रुषु त्रिषु विक्रमणेविति मन्त्रवर्णात् । त्रिः प्रक्रामतीति विज्ञायत इति मरद्वाजेन ७०३ - ११.०पटलः ] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । व्यकवचनाच्च । हविर्धानकरणे विशेषमाहाऽऽपस्तम्बः-पुरस्तादुन्नतं पश्चानिनतर हविर्धानमिति । उपरवकर्मण उपस्थितत्वादध्वयोनिष्कमणप्रयोजनाभावेऽप्यदृष्टार्थमस्मि- लेव काले कृत्वा पुनः प्रविश्योपरवकर्म कर्तव्यमिति केचित् । अन्ये तु दृष्टार्थ मस्वाड- मीभोयविमानकाल एक निष्क्रामत्यध्वर्युः । इतरोऽत्रैव निष्कामति । यजमानस्याफि पानमानसूत्रे निष्क्रमणं वक्ष्यति । तस्याप्यध्वर्युवदेवेत्याहुः । वस्तुतोऽत्रैव वाऽऽनीधीय. विमानकाल एव वोभयोनिष्क्रमण सहैवेत्येव युक्तम् । यजमानस्य तु विष्णियनिवपनो- त्तरमेव निष्क्रमणमित्यत्र साधकं याजमानसूत्रे वक्ष्यते । इति ओकोपाहश्रीमदमिष्टोमयाजिसहस्राग्नियुक्तवाजपेययाजिसर्व- लोमुखयाजिद्विषाहस्राग्नियुक्तपौण्डरीकयाजिगणेशदीक्षिततनूज- गोपीनाथदीक्षितविरचितायां श्रीमद्भगवत्सत्यापाढहिरण्य- केशिमूत्राम्बुधिगतनिगूढार्थरत्नालाभकृतविद्वज्जनसं: लापशामिकायां ज्योत्स्नाख्यायां वृत्ती सलम- प्रश्नस्य पश्चमः पटलः॥५॥

7.6 अथ सप्तमप्रश्ने षष्ठः पटलः

दक्षिणस्य हविर्धानस्य पुरोक्षं चत्वार उपरवा भवन्त्यवान्तरदेशेषु प्रादेशमुखाः प्रादेशान्तराला बाहुमात्राः संतृण्णा अधस्ताद्विधृता उपरिष्टात् ।

दक्षिणग्रहणमुत्तरन्यावृत्यर्थम् । दक्षिणस्येत्येतावत्युच्यमाने चक्रस्यापि विशेष्यस्व- संभवात्। षष्ठ्याश्च सामीप्यार्थत्वस्यापि कदाचित्सत्त्वाइक्षिणतत्वसमीपवर्तिसंलग्यो योऽ- सप्रदेशस्तस्य पुर इत्यप्यर्थः स्यान्स मा भूस्कितु मध्ये यथा स्यादित्येतादृशाविशेष. योसनाय हविर्धानग्रहणम् । अक्षस्य पुरः पुरोक्ष पुरस्तादक्षस्येत्यर्थः । षठ्याः सामी- प्यार्थत्वकल्पनयाऽक्षस्य समीप एव । एवं चाधस्तादक्षिणस्य हविर्धानस्पति फलितं मवति । सष्टमेवामुमर्थमाहाऽऽपस्तम्मः-दक्षिणस्य हविर्भानस्याधस्तात्पुरोक्षं चतुर उपरवान- कान्तरदेशेषु प्रादेशमुखाम्पादेशान्तरालाकरोति । चत्वार उपस्वा भवन्तीत्येतत्सामा- न्यप्रतिज्ञानम् । उपोपरिष्टाग्राणां रवः शब्दो येषु ते । अवान्तरदेशेषु आग्नेयेशान. नेत्यवायव्यकोणेषु । प्रादेशमितानि मुखानि येषां ते प्रादेशमुखाः । प्रादेशमितान्य- न्तरालानि दिक्षु येषां ते प्रादेशान्तरालाः । अन्तरालमानमपि प्रादेश इत्यर्थः । बार- व मात्रा प्रमाणं येषां ते बाहुमात्राः । संतृण्णाः सम्यगेकीभूताः । एतद्यमधस्तास- बैषां भवति । विधृताः पृथग्भूता उपरिष्टात्सर्वे भवन्ति । ७०४ 1 संत्याषाढविरचितं श्रौतसूत्र- [सप्तमप्र-

अभ्रेरादानं परिलेखनं च यूपे व्याख्यातम् ।

देवस्य वेत्यभेरादानं परिलिखितमिति परिलेखनं च यूपे यूपनिमित्तके कर्मणि व्याख्यातमुक्तं यथा तथाऽत्र कर्तव्यमित्यर्थः । चकारोऽनुक्काया अवटखननविषयकान्यम कर्तृकतायाः समुच्चयार्थः । परिलेखनक्रममाह-

पूर्वयोर्दक्षिणं परिलिख्यापरयोरुत्तरं परिलिखत्यपरयोर्दक्षिणं पूर्वयोरुत्तरम् ।

पूर्वयोर्दक्षिण आग्नेयीस्थ उपरवः । अपरयोरुत्तरो वायवीस्थः । अपरयोदक्षिणो नैतीस्थः । पूर्वयोरुत्तर ऐशानीस्थः । अनेनैवमितरान्प्रदक्षिणमुत्तरापवर्गमितिसूत्रान्त- रोकः क्रमो बाध्यते ।

एवमनुपूर्वाण्येषां कर्माणि क्रियन्ते ।

एवं परिलेखनोक्तोऽनुपूर्वः क्रमो येषां तानि एषामपरवाणां कर्माणि भवन्ति । बाडु- मात्रा इति पूर्वत्र स्वतन्त्रतयोक्तेः परिलेखनोत्तरं तूष्णीमेव बागुमात्रं खननम् । इदं चान्यकर्तृकमिति सूचितमेव प्राक् । संतृण्णता विधृतता च बाहुमात्रखननाव्यवहितोत्तर. मेव संपादनीया । अमुमर्थ स्पष्टमाहाऽऽपस्तम्बः-अधस्तासंतृण्णा भवन्त्युपरिष्टादसं. मिन्नास्तूष्णी बाहृमात्रान्सात्वेति । तूष्णी बाहुमात्रान्खात्वाऽधस्तात्संतृण्णा भवन्तीत्य- न्वयः । बौधायनेन तु बाहुमात्रखननार्थकप्रैषपूर्वकमुन्नेतृकर्तृकं बाहुमात्रखननादिक- मुक्तम् । एवमनुपूर्वाण्येषां कर्माणि क्रियन्त इत्युक्तं तानि कर्माण्याह-

रक्षोहणो वलगहनो वैष्णवान्निष्खिदामीति निष्खिदति ।

उपरवान्बाहुमात्रतोऽधिकं किंचित्खनति । खनन उदकस्पर्शः स्मार्तः । रक्षोहणो वलगइनो वैष्णवानिष्खिदामीति निखिदति । खानिताया मृदः शिथिलीकरणं निवेदनम् । अत्रोदकस्पर्श केचिदिच्छन्ति ।

बृहन्नसीत्यभ्रिं प्रहरति ।

शिथिलीकृतायां मृदि अनि प्रहरति उपगृहति । एतावानेव मन्त्रः । नतु बृहन्नति बृहनावा बृहतीमिन्द्राय वाचं वदेत्येतस्य मन्त्रस्य प्रतीकग्रहणं लिङ्गविरोधात् ।

विराडसीति बाहुमुपावहरति बाहू वा ।

सपनहेत्यन्तो मन्त्रः । उत्तरेणोत्तरेण मन्त्रेण बाहुमुपावहरतीति वक्ष्यमाणसूत्रालि. ङ्गात् । उपावहरति प्रहृताधिकाया मृदः समीपे बाहुं बाहू वाऽवनतः सन्नयतीत्यर्थः ।

इदमहं तं वलगमुद्वपामीति पाꣳसूनुद्वपति ।

अभ्या पासून्पात्रान्तर उद्वपति प्रतिपति । बाहोरेवोपावहरणमिति पक्ष एकैनैव हस्तेन पांसूद्वंपनम् । बाहोरुपावहरणमिति पक्षे द्वाभ्यां हस्ताम्याम् । निचरवानेत्यन्तो मन्त्रः।. 1७०५ १५०पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् ।

इदमेनमधरं करोमीत्युपरवबिलेऽववाधते ।

उपरवबिलसमीपवर्तिसमन्तप्रदेशेऽवबाधतेऽवनतो भूत्वा हस्तेन निपाडयतीत्यर्थः । भरातीयतीत्यन्तो मन्त्रः।

निरस्तो वलग इति हरति ।

उगुप्तदेशाद्धरति पात्रेण ।

अवबाढो दुरस्युरिति यत्र खरं करिष्यन्भवति तस्मिन्देशे निवपति ।

स्वरः सोमसंबन्धिपात्रासादनार्थश्चतुरश्रोऽर्थसिद्धपरिमाणश्चत्वरः । निवपनं प्रक्षेपणम् ।

गायत्रेण छन्दसाऽवबाढो वलग इत्युपरवबिलेऽभ्र्या निगृह्णाति ।

दायायमभ्या नितरां गृह्णाति संहन्तीत्यर्थः ।

एवमितरेषु ।

उपरवेष्विति शेषः । एवं खननादिरभ्या निग्रहणान्तो विधिरितरेषपरवेष्वपि भवतीत्यर्थः । तत्र विशेषमाह-.

उत्तरेणोत्तरेण मन्त्रेण बाहुमुपावहरत्युत्तरेणोत्तरेण च छन्दसा निगृह्णाति ।

सम्राडसीत्ययं मन्त्रः पूर्वस्मादत्तरस्तेन द्वितीये बाहुमुपावहरति । स्वराउसीत्ययं मन्त्रः सम्रासीत्येतस्मादुत्तरस्तेन तृतीये बाहुमुपावहरति । विश्वाराडसीत्ययं मन्त्रः स्वराडसी. 1 स्येतस्मादुत्तरस्तेन चतुर्थे बाहुमुपावहरति । इदमुपलक्षणं वाहू वेत्यस्य पक्षस्य । भ्रातृ. व्यहा, अभिमातिहा, विश्वासां नाष्ट्राणार हन्तेति मन्त्रत्रयान्ताः कमेण ज्ञेयाः । उत्तरेणोत्तरेण च छन्दसा निगृह्णातीत्युक्तं तत्र स्वशाखायां गायत्रच्छन्दस एवाऽऽन्नानादुत्तरं छन्दः किं कि ग्राह्यमित्याकाङ्क्षायामाह --

गायत्रं त्रैष्टुभं जागतमानुष्टुभमित्याम्नातानि छन्दांसि ।

मवन्तीति शेषः । आम्नातानि शाखान्तरे । शाखान्तरे चत्वार्यान्नातानि नत केवलं गायत्रमेव च्छन्दः स्वशाखायामिवाऽऽनातम् । अत्र गायत्रग्रहणं शाखान्तरामिप्रायेण । अथवा गायत्रेणैव केवलेन सर्वेषां निग्रहणमित्ययमपि पक्षोऽस्तीति ज्ञापनार्थम् । तथा- चाऽऽपस्तम्बः-प्रथमं वा सर्वेष्विति । प्रथम गायत्रं छन्दः ।

विराङसीति पूर्वयोर्दक्षिणं यजमानोऽवमृशति सम्राडसीत्यपरयोरुत्तरमध्वर्युः ।

परस्परव्यावृत्त्यर्थमुपयोहणम् । पूर्वयोर्दक्षिण आग्नेयीस्थोपरवः । अव, उपरवायो । ७०६ सत्याषाढविरचितं श्रौतसूत्र- [ सप्तमप्र- मृशति । अपरयोरुत्तरो वायवीस्थोपरवः । अध्वर्युरित्यनन्तस्मवमशतीति शेषः । पूर्व- वदन्त उपयोर्मत्रयोः।

संमृश इमानायुषे वर्चसे च देवानां निधिरसि द्वेषो यवनो युयोध्यस्यमद्द्वेषाꣳसि यानि कानि चकृम देवानामिदं निहितं यदस्त्यथाभाहि प्रदिशश्चतस्रः कृण्वानो अन्याꣳ अधरान्सपत्नानित्यधस्तात्संमृशतः ।

अधस्तात्सम्यक्परस्परं मृशतः । संमृशतीमानायुष इति अपपाठ एव । एतादृशे पाठ एकत्रावमृशति एकत्र संमृशतीत्युपसर्गकृतं क्रिययोरूप्यं स्यात् । अतः संमृश इमानायुष इत्येव पाठो युक्तः । आपस्तम्बेनापि तथैव पाठ उक्तः । समृश इति मन्त्रावयव एव । इमानिति द्वितीयान्तस्य पदस्य क्रियापदं विनाऽऽकाङ्क्षाशान्ते- रमावात् ।

किमत्रेत्यध्वर्युः पृच्छति भद्रमिति यजमानः प्रत्याह तन्नौ सहेत्यध्वर्युः ।

किमत्रेत्यत्र यजमानः संबोध्यः । यजमानाध्वर्योरधस्तास्थितहस्तयोरेव प्रश्नप्रति- वचने । मद्रमित्यत्राध्वर्युः संबोध्यः । तन्नौ सहेत्यत्र यजमानः संबोध्यः । तत्रौ सहे. तिद्विवचनलिङ्गादध्वर्युनिष्ठमपि फलं तृतीयाध्यायेऽष्टमे पादे व्यपदेशाचेति सूत्रेण: जैमिनिरपि अध्वर्युनिष्ठत्वमपि फलस्याऽऽह । सूत्रार्थस्तु. यत्र, व्यपदेशो भवतिः तनी सहेति तत्रापि द्विवचनस्यानुपपत्तेविग्गामित्वमेव फलस्येति । पकारः कर्मार्थ तु फलं तेषां स्वामिनं प्रत्यर्थवत्त्वात्स्यादिति ऋस्विगामित्वमेव फलस्योक्तं तदनु- कर्षणार्थः।

स्वराडसीत्यपरयोर्दक्षिणं यजमानोऽवमृशति विश्वाराडसीति पूर्वयोरुत्तरमध्वर्युः ।

अपरयोदक्षिणो नैतीस्थ उपरवः । पूर्वयोरुत्तर ऐशानीस्थ उपरवः । अन्यत्पूर्व- वयाख्येयम् । पूर्ववदन्तोऽनयोर्मन्त्रयोः ।

संमृशतो यथा पुरस्तात् ।

यथा पुरस्तादित्यनेन संमृश इमानायुष इति मन्त्रोऽधस्तात्प्रदेशश्च प्राप्यते । समृ. शति यथा पुरस्तादित्यपपाठ एव ।

किमत्रेति यजमानः पृच्छति भद्रमित्यध्वर्युः प्रत्याह तन्म इति यजमानः ।

किमत्रेत्यत्राध्वर्युः संबोध्यः । मदमित्यत्र यजमानः संबोध्यः । तन्म इत्यत्रा- ध्वर्यः संबोध्यः । अत्राप्यवस्तास्थितहस्तयोरेव प्रश्नप्रतिवचने । . ७०७ । । न १५०पटलः ] गोपीनाथमट्टकृतज्योत्साव्याख्यासमेतम् ।


रक्षोहणो वलगहनः प्रोक्षामि वैष्णवानिति ।। १८ ।। यवमतीभिरद्भिरुपरवाꣳस्त्रिः प्रोक्षति ।

यवमतीमियवमिश्राभिः । यवो ययौ यवा वाऽऽसु सन्तीति विग्रहत्रयस्यापि प्रकृते स्वीकारे बाधकामावादेकेन यवेन द्वाम्यां यवाभ्यां त्रिभिश्चतुरादिभिर्वाऽपि यवैमिश्र- णम् । न यवसंख्यानियमः । अद्भिरिति वचनाहृयोक्तसंस्काराभावोऽत्र । त्रिनिरित्यपि पाठः कचित्पुस्तके दृश्यते । अयमेव पाठो युक्तः। सर्वेषां युगपत्प्रोक्षणस्य नियमेनासं- मवात् । एवंमनुपूर्वाण्येषां कर्माणि क्रियन्त इत्यनेनात्रापि क्रमस्य प्रापणात् । सूत्रा- स्तरे स्पष्टतया कपस्यैवोक्तत्वात् । उपरवमन्त्रस्तन्त्र स्यालोकवहुवचनात्, न संनिपा- तित्वादसंनिपातिकर्मणां विशेषाग्रहणे कालैकत्वात्सकृद्धचनमिति जैमिनिना सूत्रद्वये. नास्यार्थस्योक्तेश्च । उपरवमन्त्रातन्त्रं स्यात्, बहुवचनात् । लोके यथैकस्मिबहुवचनम. समर्थ तद्वदिहापीति पूर्वसूत्रार्थः । संनिपातित्वान्मन्त्रस्य कर्मादौ सनिपतनशीलत्वात, मत्रान्वकर्माद्योः संनिपतनशीलत्वात्करणमत्रत्वादिति यावत्करणमन्ने मन्त्रान्तेन कर्मा- दिसनिपातनियमात् । खननस्योपक्रमो मन्त्रान्तेन संनिपतितस्तदर्थ एव मन्त्रो नान्येषा. सुपरवाणामलमुपकर्तुम् । करणमन एतादृशविशेषग्रहणासकृद्धवचनं मन्त्रस्य भवति । अतः प्रातिपदिकमात्रं कारकमात्रं च विवक्षितं, बहुवचनं स्वेकस्मिन्नेव पूनार्थ प्रयुक्तमिति द्रष्टव्यम् । न च पाशानित्यत्रापि बहुवचनस्याविवक्षा स्यादिति वाच्यम् । बहुवचनविवक्षितत्वस्य सर्वथैवात्रासंभवेन दृष्टान्तवैषम्पेण पाशाधिकरण आपत्तेरभावात् । अतनिपातीनि कर्माणि यत्र मन्त्रान्तक्रियाद्योः संनिपातो नास्ति तान्यसंपातिकर्माणि तेषा मन्त्रक्रिययोरेकस्यान्तोऽपरस्याऽऽदिरित्ययं विशेषः । सोऽकरणमन्त्रे नास्ति । अतो विशेष(पा)प्रहणादुभयोः कालकत्वात्सकदेव वचनमक- रणमन्त्रस्य । तेनास्किरणमन्प्रत्याऽऽवृत्तिरिति उत्तरसूत्रार्थः । एकादशाध्याये चतुर्थे पादेऽस्ति । सूत्रे त्रिस्त्रिरिति पाठे सकृन्मन्त्रेण द्विस्तूष्णीमिति प्रत्युपरवम् । मन्त्रगर्त बडुवचनमनिममन्त्रगतबहुत्ववत्पूनार्थ ज्ञेयम् । त्रिरिति पाठेऽपि सकृदेव मन्त्रः संभ- चात् । असंभवे मन्त्रावृत्तिः क्रियासमाप्त्यनुरोधेन ।

रक्षोहणो वलगहनोऽवनयामि वैष्णवानिति यवमतीरपोऽवनयति ।

उपरवेषु यवमिश्ना अपः प्रक्षिपति । सर्वत्र मन्त्रावृत्तिः ।

यवोऽसीति यवं प्रास्यति ।

यवोऽसीति मन्त्रः एकवचनश्रवणाधवं प्रास्यतीत्यत्राप्येकवचनम् । अविवक्षितमेतदेक- वचनम् । तेन यहव एव यवाः प्रक्षेपणीयाः । तथा च बौधायनः-अथेषु यवान् प्रस्कन्दयति यवोऽसि खवयास्मद्वेषो यवयारातीरितीति । प्रासनं प्रक्षेपणम् । अत्र १ स. ग. शेषन। ७०८ । सत्याषाढविरचितं श्रौतसूत्रं- [ सप्तमप्र- प्रशब्दस्ताडनमिव क्षेपणं द्योतयति । यवयास्मद्वेषो यवयारातीरिति लिङ्गात् । अराती. रित्यन्तो मन्त्रः।

रक्षोहणो वलगहनोऽवस्तृणामि वैष्णवानिति प्राचा बर्हिषाऽवस्तृणाति ।

अत्र बर्हिःशब्दस्तृणजातिवाची नतु संस्कारवाचीति ज्ञेयम् । एवं च च्छेदनादयो बर्हिधर्मा न भवन्ति । तथा च प्रथमाध्याये चतुर्थपादे जैमिनिः-बहिराज्ययोरसंस्कारे शब्दलाभादतच्छब्द इति । मूत्रार्थस्तु - बर्हिराज्ययोरसंस्कारे ज़ातिमात्रे शब्दला- भाद्याज्ञिकप्रयोगेऽपि जात्यनुगमावहिलनातीत्यत्र च यहिस्तल्लुनातीतिवाक्यार्थानुगु- ण्यादन्यथाऽतिक्लिष्ट कल्पनापत्तेस्तच्छब्दः संस्कारनिमित्तकः शब्दो, नेति । प्रांचा प्राचीनाग्रेण बहिषा तृणेंनावाधः प्रदेशास्तृणाति अन्तहितान्करोति ।

रक्षोहणो वलगहनोऽभिजुहोमि वैष्णवानिति हिरण्यमन्तर्धाय स्रुवेणाभिजुहोति ।

क्रमेणोपरवभूमिषु हिरण्यमन्तर्धाय तथैव मध्ये निधाय स्रवेणाभिनुहोति हिरण्यम. मिलक्षीकृत्य जुहोति । जुहोतिचोदितत्वात्स्वाहाकारः । दविहोमधर्मः । अग्न्योरन्तरा । गमने नात्र दोषः । तेनैव प्रत्यागमनम् । सुवग्रहणं जुहूव्यावृत्त्यर्थम् ।

रक्षोहणौ वलगहनौ प्रोक्षामि वैष्णवे इत्यधिषवणफलके प्रोक्षत्यौदुम्बरे कार्ष्मर्यमये पालाशे वा तष्टे प्रधिमुखे सꣳहिते पुरस्तात्समापिकर्ते पश्चाद्द्वयङ्गुलेन त्र्यङ्गुलेन चतुरङ्गुलेन वा पश्चादसꣳहिते संतृण्णे असंतृण्णे वा ।

फलकशब्दस्य नपुंसकलिङ्गत्वाद्वैष्णवे इत्येव पाठः । उत्तरमन्त्रेषु स्त्रीलिङ्गपाठस्तु छान्दसत्वेन समर्थनीयः । रक्षोहणौ वलगहनौ प्रोक्षामि वैष्णवी इति केचित्पठन्ति । ययोरधि उपरि सोमः सूयते कण्ड्यते ते अधिषवणे, अधिषवणे च ते फलके चाधि. पवणफलके ते अनेन मन्त्रेग संस्कृताभिरद्भिः प्रोक्षति युगपदेव, द्विवचनलिङ्गात्संभ- वाच । तयोः स्वरूपमाह-औदुम्बरे इत्यादिना । औदुम्बरे उदुम्बरविकारभूते । बिल्वादित्वाद्विकारार्थेऽण्प्रत्ययः । कार्मयः श्रीपर्णीवृक्षस्तद्विकारभूते कामयमये । नित्यं वृद्धशरादिभ्य इत्यनेन शरादित्वान्नित्यं मयट्प्रत्ययः । पालाशे पलाशविकार. भूते । पलाशादिभ्यो वेत्यनेन वैकल्पिकोऽप्रत्ययः । तष्टे सर्वतः कपाटे इव । प्रधि- धनुराकारं चक्रस्य फलकं तस्यैव मुखं ययोस्ते प्रधिमुखे । संहिते संश्लिष्टे । एतादृशे पुरस्ताद्भवतः । सममूज । अपिरत्र च्छेदने किंचिद्विशेषं द्योतयितुम् । स च श्लैक्ष्ण्य- रूपः । अपिकतं लैक्ष्ण्यविशिष्टं छेदनं ययोस्ते समापिकर्ते । एतादृशे पश्चाद्भवतः । समीचीनत्वार्थको वा। तेन समीचीनच्छेदनं कर्तव्यमिति सिद्धं भवति । तच्च श्लैण्य- रूपमेव । अनेन पश्चात्प्रधिमुख ।। पावर्यते । पश्चात्कलकयोः पश्चिमप्रान्ते मध्ये i . १५०पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ७०९ ह्याङ्गुलाधन्यतममात्रमन्तरालं भवति । व्यङ्गुलेनेत्यत्र प्रमाणेनेति शेषः। एवं व्यङ्गुलेन चतु- रङ्गलेनेत्यत्रापि । इदं च प्राक्तिर्यक्व तिर्यगेव वा । तथा चायमर्थो भवति-दक्षिण- फलकस्यैकाङ्गुलात्मकं सार्धाङ्गुलाम्मकं यशलात्मकं वा पश्चिमप्रान्तोत्तरप्रान्तयोः समचतुरश्र(म)संमेदार्थ तक्ष्णा छिट्टै कारयेत् । उत्तरफलके तु पश्चिमपान्तदक्षिण- प्रान्तयोस्तथैव । तिर्यगवेति पक्षे दीर्घचतुरनं भवति । अनेन संश्लिष्टता पश्चाद्व्याव- त्यते । समापिकर्ते द्वयङ्गुलेन त्र्यङ्गुलेन चतुरङ्कुलेन वाऽसहिते च पश्चादिति कात्रा- द्वक्तव्ये भेदेन मूत्रकरणमसंहितत्वस्यानित्यताज्ञानार्थमिति द्रष्टव्यम् । संतर्दनं संश्लेषण तद्विशिष्टे संतृण्णे द्वयोः समीभूतयोर्दृढसंश्लेषार्थ संश्लेषणप्रदेशौ तक्षणेन तनूकृत्यैकस्यो- पर्यपरं संश्लेषयेदित्येतत्सतर्दनम् । दक्षिणफलकस्योत्तरप्रान्त उतरफलकस्य दक्षिणप्रान्ते साम्येन च्छिद्रे कृत्वा दक्षिणफलकोत्तरप्रान्तस्थच्छिद्रे दारुमयं कोलकं दत्त्वा ते कोलकमु . तरफलकदक्षिणप्रान्तस्थच्छिद्रे प्रवेशयेदित्येवं संतईनं तद्विशिष्टे इति केचिदाहः । असं- तृण्णे संतर्दनरहिते । दीर्घसोमे संतृये धृत्या इति श्रुतौ संतृष्णे अधिषवणफलके इत्य- हीनसूत्रे चाहीने संतर्दननियमादत्र विकल्प ऐच्छिक इति केचिदाहुः । वस्तुतः प्रक- तावसंतृष्णे दीर्घसोमशब्दवाच्येऽहोने संतृण्णे इति व्यवस्थितविकल्प एव । यद्यपी- याद्यपेक्षया दीर्घत्वं प्रकृतावपि तथाऽपि सोमगतदीर्घत्वस्य सोमान्तरापेक्षत्वाद्विकृतावु. स्कर्षः संतर्दनस्य । तथा च तृतीयाध्याये तृतीयपादे औमिनिः-संतदनं प्रकृती क्रयणवदनलोपात्स्यादिति । क्रयणवदनलोपादर्थलोपाभावात्सतर्दनं प्रकृतौ स्यात् । वासोहिरण्यप्रभृतिषु क्रयद्व्येष्वेकेनैव क्रयसिद्धावितराणि वचनसामद्दिीयमानान्यपि सुतरामानतिं कुर्वन्तीति वासःप्रभृतिषु यथा नार्थलोप एवं प्रकृतेररुपकालत्वादसंतृण्ण. योरपि फलकयोरभिषवसंभवेऽपि पचनसामर्थ्यात्संतनाश्रयणे सति अभिषवे सौकर्यमेव लभ्यते नत्वर्थलोप इत्यलुप्तार्थत्वासंतदनं प्रकृतौ स्यादिति पूर्वपक्षसूत्रमाचारित्थं व्याख्यातम् । भाष्यकारेण तु संतनमलुतार्थत्वात्प्रकृतौ स्यात्सतर्दनासंतईनयोः क्रय- णवद्विकल्पसंभवेनासंतर्दने सत्यपि संतर्दननिवेशोपपत्तेरित्येवं विकल्पे क्रयणवदित्येतद्द- ष्टान्तीकृत्य व्याख्यातम् । अविशेषेण संस्थासु द्विरात्रादिषु चोत्कर्ष इति सिद्धान्तः । अत्र सूत्र तत्रैव-उत्कर्षों वा ग्रहणाद्विशेषस्येति । दीर्चलोमत्वरूपविशेषस्य संस्था दिष्वेव सत्तेन तत्रैव सतर्दनं न प्रकृती तदभावादिति तदर्थः । दीर्घतं यजमानगतं गृहीत्वा पुनः प्रकृतावेव समावेशनकर्तृतो वा विशेषस्य तन्निमितत्वादिति सूत्रेण कर्ता यजमानस्तस्मात् , दीर्घत्वरूपविशेषस्य तन्निमित्तत्वाद्यजमाननिमित्तत्वादिति कर्तृतो वेति सूत्रोक्तपक्षं खण्डयति ऋतुनो वाऽर्थवादानुपपत्तेः स्यादिति सूत्रेण धूया इत्यर्थ- बादानुपपत्तेः क्रनुतः ऋतुनिमित्तक एव विशेपो नतु य नमाननिमित्तक इति ५० ७१० सत्याषाढविरचितं श्रौतसूत्रं- [ सप्तमप्रश्न- बौधायनोऽपि -अथास्यैते फलके दीर्घसोमे संनृण्वे भवतोऽसंतृण्णे एकाहे ते संसृष्टे उपदधातीति ।

रक्षोहणौ वलगहनावुपदधामि वैष्णवी इत्यधिषवण फलकाभ्यामुपरवानपिदधाति द्वौ दक्षिणेन द्वावुत्तरेण ।

द्वाम्यां हस्ताम्यां युगपदधिषवणफलकाम्यामुपरवानपिदधाति आच्छादयति । तत्र विशेषः-दावुपरयौ दक्षिणेनाधिषवणफलकेनापिदधाति द्व वुपरवावुत्तरेणाधिषवणफलके- नापिदधाति द्वौ दक्षिणेन द्वावुत्तरेणेति । अनेन द्वयोः प्रमाणं प्रयोजनं च तुल्यमिति गम्यते । तेन काष्ठलामानुरोधेनैकेन फलकेन त्रयाणामपिधानमेकेनैकस्यापिधानमित्यपि कदाचित्स्यात्तन्निवारितं भवति । सकृदेव मन्त्रः । द्विवचनलिकासंभवाच्च । ताभ्या- मुपरवानपिदधातीति तच्छब्दपरामर्शेनैव तयोलीभे पुनरधिषवणफलकाम्यामितिवचनम- नन्तरोक्तौदम्बरत्वादिस्वरूपापेक्षायाः पाक्षिकत्वद्योतनार्थम् । अपिधाने द्वौ दक्षिणेन द्वावुत्तरेणेतिवचनेनोदक्संस्थतयाऽपिधानं नतु प्रासंस्थतयेति गम्यते । एकेन द्वावेकेन द्वावित्येवमुच्यमाने प्रासंस्थताऽपि पक्षे स्यात्सा मा भूदित्येतदर्थमेवं वचनम् । एकेन दक्षिणावपिदधात्येकेनोत्तरावित्येतावतै वोदक्संस्थतासिद्धावे वचनमिदं फलकं दक्षिणमि- दमुत्तरमितिज्ञानार्थं पूर्वमेव चिह्न कर्तव्यमितिज्ञापनार्थम् । दक्षिणनोत्तरेणेति करणार्थक- तृतीयान्ते पदे । अथैने शकुभिः परिणि(ण)हन्तीति बौधायनेन षभिः शङ्कुभिरनवस- पणार्थ स्तम्भनमुक्तं तदपि दृष्टार्थत्वात्कर्तव्यमेव । द्वाम्यां पुरस्तादाम्या पश्चाद्वाभ्यामभि- तोऽनवसर्पणायेति शङ्कुसमावेशनप्रकारोऽप्युक्तस्तेनैव । द्वयोः पुरो द्वौ शङ्क द्वयोः पश्चाव। दक्षिणस्य दक्षिणत एक उत्तरस्योत्तरत एक इत्यर्थः ।

रक्षोहणौ वलगहनौ पर्यूहामि वैष्णवी इत्यौपरवेण पुरीषेण पर्यूहति ।

अधिषवणफलके इति शेषः । उपरवाणामिदमौपरवं तेनौपरवेण पुरोषेण मृदा पार परितः समन्तादूहति वेष्टयतीत्यर्थः । संतृण्णत्वपक्षे पहणक्रियकैव । असंतृण्णत्वपक्षे भिन्नैव । यद्यपि द्रव्यपृथक्त्वेऽम्यावर्तत इति परिभाषासूत्रान्मन्त्रावृत्तिरस्मिन्पक्षे प्राप्ता तथाऽपि मन्त्रस्य द्विवचनलिङ्ग त्वात्सकदेव भवति ।

रक्षोहणौ वलगहनौ परिस्तृणामि वैष्णवी इति दर्भैः परिस्तृणाति ।

अधिषवणफल के इति शेषः । परिस्तरणविषये दर्भताध्यत्वस्यातिप्रतिद्धत्वेनार्थी- देव तसिद्धी दर्भवचनं प्रसूनरहिततृणविशेषसंग्रहार्थमच्छिन्नाग्रत्ववैशिट्यसंग्रहार्थं च । परि परितः समन्तप्रदेश दभैराच्छादयतीत्यर्थः । परितो वेष्टयतीति वाऽर्थः । अत्रापि संतृण्णासंतृण्णत्वभेदेन पूविद्यास्था द्रष्टव्या । प्रादक्षिण्यं परिभाषासिद्धम् । १ ख. संवण्णे। १५०पटलः ] गोपीनाथभट्टकृतज्योत्याव्याख्यासमेतम् ।

रक्षोहणौ वलगहनौ वैष्णवी इत्यभिमन्त्रयते ।

अधिषवणकलके इति शेषः । स्पष्टोऽर्थः ।

रक्षोहत्त्वा बलगहत्प्रोक्षामि वैष्णवमित्यधिषवणचर्म प्रोक्षति ।

अधि उपरि सोमः सूयते कण्ज्यते यस्मिस्तच्च तचर्म च । अभिरितिवचनाभा- वात्प्रोक्षणार्थानामपां संस्कारः । चर्मस्वरूपमाह-

लोहितमानडुहमुपरिष्टाल्लोमाऽऽसेचनवद्यथाऽभिषवायोपाप्तं भवति ।

लोहितं रकम् । अनडुह इदमनडहो विकारो वाऽऽनडुहम् । उपरिष्टा- ल्लोमानि यस्य । आतिच्यते. बहिरानीयते सोमरसो येन तदासेचनं तदस्यास्तीत्या- सेचनवत् । आसेचनवदित्यनेन पुटाकारता गम्यते । यधाऽभिषवायेत्यनेनार्थसिद्धपरि- माणं प्रदर्शितम् । उपाप्तं पर्याप्तम् । उपात्तमिति पाठ उपयुक्तमित्यर्थः । यथाशब्दस्य यावदित्यर्थ उभयत्रापि चर्मविशेषणान्येतानि ।

रक्षोहत्त्वा वलगहत्स्तृणामि वैष्णवमित्यधिषवणफलकयोरास्तृणाति ।

चर्मेति शेषः । चर्मणि विशेषमाहाऽऽपस्तम्बः-यस्मिन्मिभीते तस्याधिषवणचर्म खरं परिकृतं चतुष्पुटमुपरिष्टादासेचनवदिति । अस्यार्थः- यस्मिश्चणि सोमो मित- स्तस्यैकदेशेनाधिषवणचर्म कर्तव्यं तच्च खरं भवति न मृद्कृतम् । परि परितः सम- तभागे कृत्तं छेदितं चतुष्पुटं येषु पुटेषु ग्राणः(वाणः) सायन्ते । अनेन चतसृषु दिक्ष विदिक्षु वा चत्वारः पुटाः कर्तव्या इति गम्यते ।

तस्मिꣳश्चतुरो ग्राव्णः सꣳसादयत्यूर्ध्वसानूनाहननप्रकारानुपरं प्रथिष्ठं मध्ये पञ्चमम् ।

तस्मिन्नास्तृते चर्मणि । यद्यपि प्रावशब्दः केवलपाषाणपरस्तथाऽपि अग्रे स्वरूप- विशेषाभिधानात्कण्डनसाधनीभूत आकारविशिष्टो लोकप्रसिद्धः पाषाणोऽत्र अावश- ब्देन ग्राह्यः । तत्संख्यामाह-चतुर इति । संसादयतीत्यत्रत्यसंशब्दो यथोर्ध्वमानव आसादिता न पतेयुम्तथेत्येतादृशमर्थ सूचयति । तत्र विशेषमाह-उर्ध्व सानूनाहनन- प्रकारानिति । सानु शब्दोऽग्रवाची । अर्वानि सूक्ष्मरूपप्रदेशात्मकानि सानूनि येषां त ऊर्ध्व सानवस्तानू यानिति यावत् । स्थूलप्रदेशो मुखं तदेव कण्डनसाधनम् । आहन्यतेऽनेनेत्याहनन आननाय प्रकारो येषु त आहननप्रकारास्तान् । आहननं कण्डनं तदर्थ विशेषः स्थौल्यरूपः संज्ञार्थ कल्पनीय इत्यर्थः । कण्डनाधिकरणीभूतः - १ह, ज. स. म, ढ, 'पातंभ'। ७१२ सत्यापाढविरचितं श्रौतसूत्रं- [७सप्तमप्रश्ने- पाषाण उपरः । मध्ये चर्मणो मध्य उपरं प्रथिष्ठम् । मध्य इति स्वतन्त्रवचनात्पृथगे. तस्य सादनम् । उपरस्य महत्त्वेन चतुर्भिावभिः सहाऽऽसादनासंभवात्पृथगारम्भः | अतिशायने तमविष्ठनाविति सूत्रेणातिशयितेऽर्थे पृथुशब्दादिष्ठन्प्रत्ययो र ऋतो हला- देलघोरित्यनेनेष्ठे परत कारस्य रकारः, टेरिति सूत्रेणेष्ठे परत उकारस्य लोपस्तेन प्रथिष्ठमिति रूपं भवति । पञ्चममिति वचनं कण्डनाधिकरणीभूतस्याऽऽकारविशिष्ट- स्थापि पापाणस्य यावत्वमस्तीति प्रदर्शयितुम् । प्रयोजनं यदि ग्रावा भिद्यतेत्यादिना विहितं प्रायश्चित्तमुपरभेदेऽपि भवतीति ।

बृहन्नसीत्येकैकम् ।

एकैकभित्यनेन पूर्व चतुर्णा ग्राणां तूष्णीमेव संसादनं कृत्वा मध्य उपरस्य तत. स्तूप्णीमेव संप्सादनं कृत्वा पुनमन्त्रेण प्रागादिदिक्षु क्रमेणैकैकं ग्रावाणं मध्य उपरं च मन्त्रेण संसादयतीत्यर्थो गम्यते । अन्यथा मन्त्र एकवचनश्रवणात्सुसंभृता त्वा संभ- रामोति मुष्टिष्विव प्रत्येक मन्नप्राप्तावेककमित्यस्य वैयपित्तेः । एवं चेदं ज्ञायते युगपदासादनस्य फलं विजातीयमदृष्टम् , एकैकासादनस्य ततो विलक्षणमदृष्टं फल- मिति । तत्र युगपदासादनस्य प्रागादिषु दिक्षु कर्तुमशक्यत्वादुपरस्य चर्मणो मध्ये संसादनविधानान्ग्राणां चर्मणो दक्षिणोत्तरप्रान्तयोः पश्चिमपूर्वप्रान्तयो संसादनम् । तत्र दक्षिणेन हस्तेन द्वयोणिोरेकस्मिन्प्रान्ते सव्येन हस्तेन द्वयोरेकस्मिन्नित्येवं युग- पदासादनम् । एकैकस्य संसादनमपि चर्मण्येव । उपरे ग्राव्णः संमुखान्कृत्वेत्युपराधि. करणत्वस्य विधास्यमानत्वात् ।

रक्षोघ्नो वो वलगघ्नः प्रोक्षामि वैष्णवानित्युपरे ग्राव्णः संमुखान्कृत्वा प्रोक्षति ।

स्थूलप्रदेशो मुखं येन सोमः कण्ड्यते । सार्धप्रादेशमात्रः स्यादृढपाषाणनिर्मितः । वर्तुलः सूक्ष्म एकत्र स्थूल एकत्र वै भवेत् ॥ पाडगुलपरीणाहो मुख(ख) तु स्थौल्यमीरितम् । अगं सूक्ष्मप्रदेशः स्याद्ग्रान्ण एतद्धि लक्षणम् || इत्यभियुक्ताः । प्रादेशमात्रत्वं मुखपदवाच्यपदार्थ चाऽऽपस्तम्बोऽप्याह-तस्मिश्चतुरो ग्राव्णः प्रादे- शमात्रानूसानूनाननप्रकारानश्मनः सश्सादयन्तीति, स्थवीयासि मुखानीति च । स्थवीयांसि स्थलतराणि । स्थवीयाश्स्यभ्यन्तराणि कृत्वा तानि मुखानीति लाट्यायनद्रा- रायणौ । उपरे प्राणः संमुखान्कृत्वा प्रोक्षतीत्यत्रोपर इत्यधिकरणसप्तमी । अनेनाऽऽप- स्तम्बोक्तमुपरसंमुखत्वं व्यावय॑ते । उपरस्य तु लक्षणामावादर्थलक्षणावायामविस्तारौ । आकारश्चतुरश्रो वर्तुलो वा । संमुखानभिमुखान् । बहुवचनलिकासंभवाच युगपदेव 1 । १५०पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । .७१३ प्रोक्षणम् । अत्राद्भिरितिवचनाभावात्प्रोक्षणार्थीनामपां संस्कारो भवत्येव । दक्षिणस्य हविर्धानस्याग्रेणोपस्तम्भनं स्तोत्रार्थ बर्हिष्टिमुपनिबध्नाति । तथा च बौधायन:--अथ दक्षिणस्य हविर्धानस्याग्रेणोपस्तम्भनं बहिर्मुष्टिमुपनिबध्नाति स्तोत्रेभ्य इति ।

औपरवस्य पुरीषस्याग्रेणोपस्तम्भनं चतुरश्रं खरं करोति यावन्तमाप्तं पात्रेभ्यो मन्यते ।। १९ ।।

इति हिरण्यकेशिसूत्रे सप्तमप्रश्ने षष्ठः पटलः ।

. 1 उपरवाणामिदमापरवं तस्यौपरवस्य पुरीषस्य मृतः । इदं चतरपुरीषव्यावृत्त्यर्थम् । औपरवस्य पुरोषस्येत्यवयवषष्ठी । औपरवपुरीपैकदेशेनेत्यर्थः । तृतीयाथै षष्ठी वा । प्रथमपक्ष औपरवपुरीषैकदेशोऽवश्य स्थापनीयो भवति खरलेपनार्थम् । द्वितीयपक्षे सर्वस्यैवीपरवस्य पुरीषस्य खरकरण एवोपयोगः । लेपनस्य प्रयोजने लौकिकेन पुरी- पेण लेपनम् । येन काष्ठेन शकटमुपष्टम्धं तदअभागे समीप एव चतुरश्रं चतुष्कोण खरसंज्ञक चत्वरं करोति । खरस्य चतुरश्नताऽग्रेऽसश्रोणिव्यवहारात् । तत्प्रमाणमाह- यावन्तमित्यादिना । पात्रेभ्यः सोमसंबन्धिम्य पात्रेभ्यश्चमसेभ्यः परिप्लनाथै चाऽऽप्तमेतावत्परिमिते खरे सर्वसोमपात्रासादनं मतीति निश्चित्य तदनुरोधन करो. तीत्यर्थः । अनेन प्रमाणनियमाभावः सूच्यते । उच्चताया अनुपदेशादनियमः । पुरी- घेण अलमिश्रितेनैव खरः कार्यो दादयीय पुरीषस्य पात्रबुध्नासंलग्नतायै च । इदं जल- मिश्रणमर्थीपत्तिसिद्धम् | हविर्धानप्रास्थूगातः पश्चात्संचरार्थं स्थलमवशिष्य कार्यः । यथाऽग्रेण खर५ संचरो भवतीति सूत्रात्, अग्रेण खरं परीत्य दक्षिणत उपविशतीति ब्रह्मत्वसूत्राच्च । स्पष्टमाहात्रैवाऽऽपस्तम्बः- पुरस्तात्संचर शिनष्टीति । अग्रेणोप- स्तम्भनमित्यत्र दक्षिणस्यैवोपस्थितत्वादुदाइतब्रह्मत्वसूत्रालिङ्गाच ग्रहणम् । सष्टमाहा- त्राऽऽपस्तम्ब:- -एतस्यैव हविर्धानस्याग्रेणोपस्तम्भनमुपरवपाश्मभिश्चतुरभं खरं करोति सोमपात्रेभ्य आप्तं मन्यत इति । इति ओकोपाहश्रीमदमिष्टोमयाजिसाहस्राप्रियुक्तबाजपेययाजिसर्व- तोमुखयाजिद्विषाइसाग्नियुक्तपौण्डरीकयाजिगणेशदीक्षिततनूज- गोपीनाथदीक्षितविरचितायां श्रीमद्भगवत्सत्यापाढहिरण्य- केशिमूत्राम्बुधिगतनिगूढार्थरत्नालाभकृतविद्वजनसं- तापक्षामिकायां ज्योत्स्नाख्यायां वृत्तौ सप्तम- प्रश्नस्य षष्ठः पटलः ॥६॥ ७१४ सत्याषाढविरचितं श्रौतसूत्र- [सप्तमप्रभे-

7.7 अथ सप्तमप्रश्ने सप्तमः पटलः ।

उत्तरत आग्नीध्रीयं मिनोति मध्ये वेदेरर्धमन्तर्वेद्यर्धं बहिर्वेदि प्राचीनवꣳशं विमितं विमिन्वन्ति दक्षिणतउपचारम् ।

उत्तरत इत्यत्र सप्तम्यर्थे तसिः । उत्तरस्मिन्प्रदेश इत्यर्थः । आनीवशब्दात्तस्ये- दमित्यर्थे वृद्धाच्छ इति च्छप्रत्यय इयादेशः । वेदेमहावदेरुत्तरप्रान्तस्थप्राकसूत्रमध्ये शकुं निखाय यावदायामं प्रमाणमिति शुश्वोक्तप्रकारेण चतुरश्रे विहरति । तत्र विशेष:-अर्धमन्तवेद्यर्ध बहिदीति । अर्धमाग्नीप्रीयमण्डपार्धमन्तर्वेदि वेदिमध्ये भवति, अध देवहिर्भवतीत्यर्थः । अर्ध बहिर्वेदीत्ययमेव विधिः । अर्धमन्तदीति स्वनुवादश्रु- त्यनुकरणार्थः । एतादृशी भुतिः शाखान्तर उन्नेया । यथा स्वशाखायां कृतौ हकि. निर्वापे तूष्णीं चतुर्थमित्ययमेव विधिस्त्रियजुषेत्यनुवादस्तथाऽत्रेति द्रष्टव्यम् । न च विनिगमनाविरहः । वेदेः सर्वार्थत्वेन सर्वस्य मण्डपस्यापि वेद्यन्तर्भावे प्राप्से बहिर्मा- वांश एवं विधेरपेक्षितत्वेनार्धे बहिर्वेदीत्यस्यैव विधित्वकल्पनात् । अर्थादर्धमन्तवेदी- त्यस्यानुवादरवर्मबलक्षणावेतस्याऽऽयामविस्तारौ । बौधायनस्तु अथ महावेद्या उत्तरा. दंतीयाच्छङ्कोवेद्यन्तेनाष्टादश प्रतीचः प्रक्रमान्प्रक्रामन्ति तदाऽऽमीधागारं विमिमोते यथाऽन्तद्यधैं स्याहिद्यर्धमथैनत्समुच्चित्य परिश्रयन्ति तस्य दक्षिणं द्वारं कुर्वन्त्याग्नो- धागारस्य पार्श्वमानीयं पश्चारनिरिति प्रमाणविशेषमाह । उत्तरत आग्र.धोयं मिनो- तीति सामान्यप्रतिज्ञा | विमितमिति वचनं महावेदिविहरणोत्तरमेवाऽऽग्नीधीयमान- मिदं कर्तव्यमितिसूचनार्थम् । उत्तरत आग्नीधीय मिनोतीत्यत्र वचनादत्रैव मानं कर्त- व्यम् । विमितमिति वचनं महावेदिविहरणाव्यवहितोत्तरं वा मानं कर्तव्यमितिफ. क्षान्तरसूचनार्थ वा परिश्रयणस्य विमानसमकालतान्यावृत्त्यर्थं वा । विमिन्वन्ति परिन। यन्ति । आद्यपक्षद्वयेऽपि परिश्रयणमत्रैव । दक्षिणतो दक्षिणप्रदेश उपचर्यते निष्क्रमणप्र- वेशात्मकं कर्म क्रियते येन स उपचारो मार्गः । मार्थि द्वारं द्वारप्रमाणं च वाधूल आह-उत्तरत आनीधी मिनोति मध्ये वेदेरर्धमन्तवेद्यधं बहिदि प्राचीनवशं विमित विमिन्वन्त्यरस्निमात्रं षोडशामुलकात्रं वा दक्षिणतो द्वारं कुर्वन्तीति । सूत्रान्तरे दक्षिण दिग्वर्जमेव परिश्रयणमुक्तम् । तेन द्वार मार्गार्थ कर्तव्यं दक्षिणदिशः परिश्रयणमेव वा न कर्तव्यं मामिति पक्षद्वयं सिद्धं भवति । उपचारमित्यत्राकीर व कारके संज्ञा- यामिति सूत्रेण घन् । नित्वाद्धातोरादिवृद्धिः । दक्षिणतउपचारमिति समस्तं पदं तस्मादत्तरतउपचारोऽग्निरित्यत्रेव । उत्तरतउपचार इत्यत्र समस्तपदत्य तु उत्तरतउप- चार इत्युत्तरतः-उपचार इत्यवग्रहाज्ज्ञेयम् । चतुःस्थूणमित्यप्यापस्तम्बः । साध्या- ना पडह आश्वत्थत्वनियमादत्र वृक्षानियमः।आग्नीधीयमण्डपवन्मानालीयमण्डपोऽपि ७ स० पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ७१५ बौधायनेनोक्तः-उत्तरतउपचारत्वमत्र विशेषः, एतेन मान लीयो व्याख्यातस्तस्यो- दीची द्वारं कुर्वन्तीति ।

अग्रेणापरं वेद्यन्तं त्रिषु प्रक्रमेष्वपरिमिते वोदीचीनवꣳशꣳ सदो दक्षिणतः प्रतिकृष्टतरं यावदृत्विग्भ्यो धिष्णियेभ्यः प्रसर्पकेभ्यश्चाऽऽप्तं मन्यते ।

सद इत्यनन्तरं मिनोतीति शेषः । अपरस्य वेद्यन्तस्य मध्यशकुमारभ्य त्रीन्प्राच: प्राक्संस्थान्यक्रमान्प्रकम्य तत्र शकुं दद्यात् । स सदसः पश्चिमान्तस्तत आरम्यादी. चीनवंशं सदः साधयेत् । उदीचीनवंशमित्यनेन दक्षिणोत्तरदीर्घत्वं सदसः प्रदर्यते । सीदन्ति ऋत्विनः सोमभक्षणार्थ यत्रेति सदस्तत् । योगरूढं पदम्। दक्षिणतो दक्षिणे भागे- ऽतिशयेन प्रतिकृष्टमिति प्रतिकृष्टतरम् । द्विवचनविभज्योपपदे तरबीयमुनावित्यनेनाति- शयेऽर्थे तरप्प्रत्ययः । प्रतिकर्ष आधिक्यम् । तत्रातिशयः पदमानपक्ष एकपदात्मक: प्रक्रममानपक्ष एकप्रक्रमात्मकः । चतुर्विशाङ्गुलाद्यात्मकप्रकममानपक्ष एकारल्यात्मकः सांकाशनानुरोधेन खो कर्तव्यः । प्रतिकर्षे हेतुमाहाऽऽपस्तम्बः-दक्षिणतः प्रक्रमे पृष्ठयाया औदुम्बरी मध्ये सदसो मिनोति दक्षिणा सदः प्रतिकर्षेद्यथा सांकाशनस्यावि. रोधं स्यादिति । अस्याः-आयामतो विस्तारतश्च मध्ये सदस औदुम्बरी मिनोति दक्षिणतः प्रक्रमे पृष्ठयाया औदुम्बरी मिनोति यथा मध्ये सदो भवति तथा दक्षिणांशो विवृद्धः स्यात् । किमर्पमिति चेत्, शालामुखीयादीनां सांकाश्याविरोधो यथा स्यादिति । इतरथा ह्यौदुम्वर्या तिरोधीयत इति । भविरोधमित्यर्थाभावेऽव्ययीभाव इति । यावदृ- विभ्य इत्यादिनाऽर्थसिद्धपरिमाणत्वं प्रदर्शितम् । सदसोऽष्टादशपरेव मानमिति . नियमः परं नास्ति किं तु विष्ण्यादिसमावेशानुरोधेनाष्टादशपदेभ्यो न्यूनमधिकं वाऽपि भवतीति द्रष्टव्यम् । एतच्च नवारनि तिर्यक्सप्तविंशतिरुदगायतमिति सदसो विज्ञायतेऽ. ष्टादशेत्येकेषामितिशुल्बसूत्रोक्तमानद्वयेन विकल्पितं द्रष्टव्यम् । आपस्तम्बस्तु नवारनि. विस्तारं सप्तर्विशतिरुङगायतमपरिमित वेति । अपरिमितशब्द उक्तप्रमाणाधिकप्रमा- णवाची । यावदृत्विाम्य इत्यनेनाष्टादशारनितोऽपि न्यून मानं प्राप्यते । वेदिमध्ये कृत्स्नस्य सदसो निवेशो यथा भवति तथा मानं पदात्मक प्रक्रमात्मकं वा कल्पनीयम् । शुल्बसूत्रे सप्तविशतिरुदगायतमिति दक्षिणोत्तरदीर्घत्वविधानात्तिर्यशब्देनात्र प्राच्येव ग्राह्या । तन्नवारनिप्रमाणं भवति । अपरिमितत्वपक्षेऽपि प्राविस्तीर्ण नवारत्त्येव भवति विंशतिचतुर्विशत्यन्यतरसंख्यामलप्रक्रमेणाष्टादशारत्नि उदक्सप्तविंशत्यरस्नि । देशस्तु प्रयोगसूत्र एवोक्तः । तद्विहरणप्रकारः शुल्बसूत्रे-तदेकरज्ज्वोक्तं पञ्चदशि- कैनवापायम्पार्धपञ्चमैः श्रोग्यसानिहरेदिति । उदीच्पत्र पृष्ठया । सत्याषाढविरचितं श्रौतसूत्र- [सप्तमप्रभे-

दक्षिणेन पृष्ठ्यां प्रक्रमे मध्ये सदस औदुम्बर्यवटः ।

अत्र प्राची पृष्ट्या ग्राह्या । दक्षिणपदसाहचर्यात् । पृष्ट्याया दक्षिणप्रदेशे समीप एवैकं पृष्ठ्यासंलग्नमार्जवेन प्रक्रममानपक्षे प्रक्रमं पदमानपक्षे पदं मीत्वीदुम्बर्यवः आयामतो विस्तारतश्च सबसो मध्ये मवतीत्यर्थः । मध्ये सदस इति वचनात्तदनुरोधे. नैव पृष्ठमाया दक्षिणप्रदेश भार्गवेन प्रक्रमो मातव्योऽथवा पदं मातव्यम् । भनेन सांकाश्यं रक्षितं भवति । औदुम्र्युदुम्बरविकारभूता तस्या अवटो गर्तः ।

अभ्रेरादानं परिलेखनं च यूपे व्याख्यातम् ।

देवस्य त्वेत्यभ्रेरादानं परिलिखितमित्यवटपरिलेखनं च युपे यूपनिमित्तके कर्मणि व्याख्यातमुक्तं यथा तथाऽत्र कर्तव्यमित्यर्थः । अत्रैवावटं खानयति । अध्यादानपरि- लेखनयोरवटमर्यादाकरणार्थत्वेन तस्य चावटखननार्थत्वेनावटखननस्यार्थतोऽत्रैव सिद्धेर्द- शितप्रायत्वात्खात्वा प्रोक्षतीति भरद्वाजेन स्पष्टोक्तश्च । चकारोऽत्र खननार्थकप्रैषस्या- नुक्तस्य समुच्चयार्थः । स चानीदोदुम्बर्यवर्ट खनेत्येतावानेव । उपराभावादुपरसंमित- मित्यादिः प्रैषांशो लुप्यते । अत आग्नीध्रकर्तृकताऽवटखननस्य सिद्धा भवति । बौधायनेन तु श्रेषपूर्वकमुद्गातृकर्तृकमौदुम्बर्यवटखननमुक्तम् । प्राक्पुरीषस्योद्वपनमि- त्ययं विशेषश्चात्र तेनैवोक्तः । दायानुरोधेन गतः खननीयः ।

दिवे त्वेति परस्तादर्वाची प्रोक्षति ।

परस्तादग्रभागप्रदेशमारभ्यार्वाची मूलपर्यन्तं प्रोक्षति, यदीयोऽवटस्तमग्रेण स्थापन. मार्थिकम् । इयं प्रागनैव स्थापनीया । अवटोत्तराग्रस्थापने प्रोक्षणस्य दक्षिणापर्ग- तापत्तेः प्रत्यगपवर्गत्वापेक्षया दक्षिणापवर्गत्वस्य देवकर्मस्वतीव विरुद्धत्वात् । स्पष्टमेत- दाहाऽऽपस्तम्बः ---अग्रेणावटं प्राची निधायेति । प्रत्यगात्वं दक्षिणाग्रत्वं वाऽत एवं निरस्तं भवति । तूष्णी प्रक्षास्येत्यप्याह सः। अगं मध्यं मूलमित्येतादृशोऽत्र क्रमस्तक- मेण प्रोक्षतीति परस्तादर्वाची प्रोक्षतीत्यस्यार्थः । दिवे स्वेतिग्रहणं मन्त्रक्रमदर्शनार्थ न स्वेतावत एव मन्त्रस्य प्रोक्षणकरणत्वं न नेतरयोर्विकल्पार्थकत्वं चेति प्रदर्शयितुम् । तेन दिवे त्वाऽन्तरिक्षाय त्वा पृथिव्यै त्वेत्येतावता मन्त्रेणकप्रयत्नेन परस्तादर्वाची प्रोसतीत्यर्थः सिद्धो भवति । अमुमर्थमाह बौधायन:-तां परस्तादर्वाची प्रोक्षति दिवे त्वाऽन्तरिक्षाय त्वा पृथिव्य त्वेतीति। पूर्वत्रौदुम्बर्या उपक्रान्तत्वात्तच्छब्देन तस्याः परामर्शः । अथवा दिवे स्वेत्यग्रस्य प्रोक्षणमन्तरिक्षाय त्वेति मध्यस्य पृषिव्य त्वेति मूलस्येत्येवं मन्नत्रयेणोदुम्ब- रीप्रदेशत्रयं *मन्त्रत्रयेण प्रोसतीत्यर्थः । भरद्वाजादिभिः स्पष्ट मेवमेवोक्तम् । परस्ताद- वांची प्रक्षितीतिवचनं यूपे दृष्टस्य क्रमान्तरस्य बाधनार्थम् । प्रोक्षणात्प्राग्यौधायनेन

  • मनत्रयेणेति अधिकम् । .

७ स०पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ७१७ कश्चन विशेष उक्त:- -औदुम्वर्येषा स्थूणा प्रक्षालिता प्रपन्ना प्रागवटादुपशेत इति । अपना तीर्थेन प्रपादिता।

अपामवनयनं यवप्रासनं बर्हिषाऽवस्तरणं च यूपे व्याख्यातम् ।

शुन्यता लोक इत्यपामवनयनं यवोऽसि यवयेति यवप्रासनं पितृणार सदनमतीति पहिषाऽवस्तरणं यूपे यूपनिमित्तके कर्मणि व्याख्यातमुक्तं यथा तथाऽत्र कर्तव्यमि. त्यर्थः । चकारः प्रोक्षणेऽनुक्तस्य यवमिश्रितत्वस्य समुच्चयार्थः । उक्तं च यवम. तीभिः प्रोक्षणीभिरोदुम्बरी प्रोक्षतीति भरद्वाजेनापि यवमिश्रणम् ।

उच्छ्रयस्व वनस्पते सजूर्देवेन बर्हिषेति प्राचीनकर्णामुद्गात्रा सहोच्छ्रयत्युद्दिवꣳ स्तभानेति वा ।

प्राचीनः प्रागनः कर्णो यस्या उच्छ्षणकाले सा प्राचीनकणी । कर्णः क्षुद्रशाखा. मूलं स यथा प्राग्भागगतो भवति तथोच्छ्यति । व्यवस्थितविकल्पोऽयमेकस्मिन्प्रयोग एको मन्त्रोऽन्येप्वपर इति । तत्रापि आये प्रयोग आयो मन्त्र इतरेवन्त्यः । इदमेव ज्ञापयितुं शाखान्तरीयमन्त्रस्य प्रथममुपादानमेतत्प्रकरणपठितस्य स्वशाखा स्थस्यानन्तर- मुपादानम् । अनेन स्वशाखास्थस्यापि कर्मसंबद्धत्वं सिद्धं भाति । यत्र शाखा-तरीय- स्यैवोपादानं नतु स्वशाखास्थस्यापि तत्राऽऽर्थिको विकल्पः । वरुणस्त्वोत्तम्नास्वित्युप- स्तम्भनमन्त्रः शाखान्तरीयो वरुणस्य स्कम्भनमसीति स्वशाखागतः । तेन यज्ञकर्मार्थी मन्त्रा यथारूपमितर इति सूत्राभ्यां स्वशाखागतस्य वरुणस्य स्कम्भनमतीत्यस्य प्राप्तावे- कस्मिन्प्रयोगे द्वयोविनियोमासंभवाद्विकल्पः पर्यवस्यति । अयं विकल्प आपिकः । अत्राऽऽये प्रयोगेऽयमेव मन्त्रोऽन्येष्वयमेवेति नियमो न, किंतु ऐच्छिको विनियोग इति । एतादृशं भेदं प्रदर्शयितुमेवोपस्तम्भनादिषु स्वशाखास्थमनविनियोगावचनमौदुम्ब- युच्छूयणे तद्वचनमिति । आर्थिकविकल्पवाचनिकविकल्पयोरेतादृशो भेदः । नच प्रक्र: मात्तु नियम्यत इति परिगृहोतपक्षस्त्री कारनियमविधायकसूत्रविरोधः शङ्कयः । तस्य वैमृधोपकममात्र विषयत्वात् ।

रूपं कालोऽनिर्वापो देवताश्रपणं तथा । आदौ ये विधृताः पक्षास्त एत्र स्युः सदैव हि ।। इतिच्छन्दोगपरिशिष्टवचने पञ्चानामेव वणे तदतिरिक्तस्थले परिगृहीतपक्षवी. कारनियमस्याप्रवृत्तरेव प्रदर्शितत्वाच । नच पञ्चानां ग्रहणमितरवैकल्पिकपदार्थोप- लक्षणमिति वाच्यम् । उपलक्षणपरतायां प्रमाणाभावात् । अवशिष्टस्य मन्त्रस्य फलो. पधायककारणताया अभावेऽपि स्वरूपसत्येव कारणताऽरण्यस्थदण्डादीनामिव द्रष्टव्या । स्वेनोच्छूषणं कर्तुमशक्यं चेदुच्छ्रापयति । अयमों णिनर्थविवक्षया लभ्यते । उद्गीथां- शमुद्गायतीत्युद्गाता तेन सहित औदुभ्वरोमुस्थापयतरेत्यर्थः । द्वितीयो मन्त्रो दृश्हेत्यन्तः । ९१ ७१८ सत्याषाढविरचितं श्रौतसूत्रं- [सप्तमप्रश्ने-

द्युतानस्त्वा मारुतो मिनोत्वित्यवटेऽवदधाति ।

अत्र वाऽवट खानयति परिकर्मिभिः । धर्मणेन्त्यन्तो मन्त्रः । अवेटेऽवधानं स्थाप- नम् । अत्रापि प्राचीनकर्णीमुद्रात्रा सहेत्यनुवर्तते । स्पष्ट माहाऽऽपस्तम्बः-युतानस्त्वा मारुतो मिनोस्विति प्राचीनका सहोदात्रा मिनोतीति ।

पर्यूहणं परिरक्षणं परिषेचनं च यूपे व्याख्यातम् ।

ब्रह्मवनि त्वेति पुरीषेण पyहणं ब्रह्म दृहेति मैत्रावरुण दण्डेन परिहणमुन्नम्भयेति प्रदक्षिणमपां परिषेचनमित्येतत्रितयं यूपे यूपनिमित्त के कर्मणि व्याख्यातमुक्तं यथा तथाऽत्र कर्तव्यमित्यर्थः ।

तस्याः कर्णे विशाखे वा हिरण्यं निधाय घृतेन द्यावापृथिवी आपृणेथाꣳ स्वाहेति स्रुवेणाभिजुहोति ।

कर्णः क्षुद्रशाखामूलम् । विशाख इत्यौदुम्बर्यवयव विशेषविशेषणम् । विगता शाखा यस्मादषयवात् । एतादृशोऽयात्मकोऽवयवः । तत्र वा हिरण्यं निधायाभिजुहोतीत्यर्थः । अथवा विशिष्टा शाखा यस्मादवयवात्तस्मिन्वेत्यर्थः । अस्मिन्व्याख्याने यस्मिन्प्रदेशे महती शाखा तादृशेऽवयवे हिरण्यनिधानं भवति । नुवग्रहणं जुहूव्यावृत्यर्थम् । स्थापितं हिरण्पमभिलक्षीकृत्यौदुम्बर्युपर्येव होमः कर्तव्य इत्येतदर्थ द्योतयितुमथनौदुम्ब यौभिमुख्यार्थको वाऽभिः । जुहोति चोदितत्वादेव स्वाहाकारे सिद्धे स्वाहेतिवचनं मूळ आज्ये प्राप्ते सत्येव स्वाहाकारः कर्तव्योऽवसावणं तु मन्त्रारम्भतम कालं पूर्वमेवेत्यर्थ- विशेष द्योतयितुम् । तथाच कात्यायन: --भूमि प्राप्ते स्वाहाकार इति । भूमि प्राप्ते सत्याज्ये स्वाहाकारः कर्तव्य इत्यर्थः । मन्त्रस्याल्पत्यास्क्रिपाया दीर्घत्वान्मन्त्रारम्भ काले- त्वमवस्त्रावणक्रियारम्भस्यासंभवान्मन्त्रान्तेऽत्र क्रिया न । एतेनावस्त्रावणस्य धारारूपत्या- दाघारे धारायां चाऽऽदिसंयोग इत्यापस्तम्बोक्तपरिभाषाहीकारो ज्ञापितो भवति । एने- नार्थीदिदमपि सिध्यति अत्र मन्त्रपाठो विलम्बितवृत्त्येति ।

आमूलादन्ववस्रावयति ।

आत्रामिव्याप्तौ । औदुम्बर्या मूलममिव्याप्येत्यर्थः । तथा चाग्रमारभ्य मूल. पर्यन्तमौन्दुम्बरीमनुलक्षीकृत्यावाधः स्रावयति । मूलपर्यन्तं स्त्रावित आज्ये भूमिप्राप्त भवत्येव तयोः संवद्धत्वात् । तथा च मूलं प्राप्तमाज्यं भूमिप्राप्तमेव तत्रैव स्वाहाकार इत्यर्थः ।

यजमानमात्रीसंमिता वर्षिष्ठाः स्थूणा मिनुतो यथा सुष्ठु ।

यजमानमात्री यजमानप्रमाणा यावधनपानस्योर्ष प्रमाणं तावत्प्रमाणौदुम्बरी- त्यर्थः । यूपे दर्शनाद्भूमौ निखातव्येन भागेन सह यजमानमात्रीति केचित् । उर्व १ ख ग "लम ७स०पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । निखाताद्यजमानमात्री भवतीत्यन्ये । संकोचे प्रमाणाभावात् । निखातव्येन प्रदेशेन सहैव यजमानमात्रत्वमित्येव युक्तम् । यजमानमात्रीत्यनेनौदुम्बर्या ऊर्ध्वप्रमाणं दर्शि- तम् । स्थौल्यं तु दायानुरोधेनैव सिद्धम् । यजमानमा यौदुम्बरी पर्षिष्ठा स्थूणाना भवतीति. भरद्वाजेन स्पष्टमेवोक्तमेतत् । परायीन्येकेन क्रियेरन्यथाकपालेनोपवपति यजमानेन समितीदम्बरी भवतीत्युदाहरणादपि औन्दुम्बर्या उर्ध्वप्रमाणं ज्ञेयम् । इदं चोदाहरणं द्वादशाहविषये । तत्राने कयजमानोपस्थितावेकेन येन केनचिद्यनमानेन गृह- पतिसंज्ञकेन मुख्येन यनमानेन वा समितौदुम्बरी भवतीति । यजमानमाञ्यौदुम्बरी तत्संमितास्तया संमितास्तावत्प्रमाणा वर्षिष्ठा अतिशयेन वृद्धा इति वर्षिष्ठाः । अति- शायने तमविष्ठनाविति वृद्धशब्दादिष्ठन्प्रत्यये प्रियस्थिरास्फिरोबहुलगुरुवृद्धेत्यनेन बृद्धशब्दस्य वर्ष इत्यादेशे रूपम्। वृद्धशब्दः पुरातनपर्यायः । स च दाढ्य लक्षयति । सेनातिशयेन दृढा इत्यों भवति । स्थूणा द्विशाखास्तम्भाः। उत्तरत्र पर्यन्त्यानां प्रमा- णविशेषविधानात् । औदुम्बरीसादृश्याच यजमानमात्रीसमिता इत्यनेन मध्यमा एव स्थूणा अत्र प्रायाः । मिनुत इति द्विवचनात्स्वस्वभागस्थाः स्थूणा उभाभ्यां सहैव मातव्याः । दक्षिणभागस्थास्तिस्रोऽध्वर्युणा । उत्तरभागस्थास्तिस्रः प्रतिप्रस्थात्रा । बहु- त्वस्य प्रत्येकमन्वयात्तस्य च त्रित्वे पर्यवसानात्तिस्वस्तिस्त्रः । अधिकपयोजनेऽधिका अपि । यथा सुष्टु यथा दृढं सदो भवति तथा स्थूणा कार्या इत्यर्थः ।

पर्यन्त्या नाभिदघ्ना ओदुम्बरीमभ्यग्ना मिनोति ।

पर्यन्ते प्रान्ते भवाः पर्यन्त्याः । दिगादित्वाद्भवा यत्प्रत्ययः । अत्र भवनं नोत्पत्ति- रसंभवात्, किंतु सत्ता सा च भाविनी ग्राह्या । अथवा पर्यन्तमहन्तीति पर्यन्त्याः खलयवभाषतिलवृषब्रह्मणश्चेत्यत्रत्येनानुक्तसमुच्चयार्थेन चकारेण पर्यन्तशब्दादपि यत्प्र. त्ययो भवति। नामिदना नाभिप्रमाणाः पादावारम्प नाम्यवधिकं यावत्प्रमाणं तावत्प्रमाणा इत्यर्थः । एकप्रमाणोपस्थितौ मात्रज्दघ्ननोस्तिर्यगूर्वव्यवस्थया प्रयोग इति नियमो नास्ति । औदुम्बरीमभ्यया औदुम्बर्यभिमुखामाः सर्वाः स्थूणा मिनोतीत्यर्थः । औदुम्बरी- मभिनम्रा इति यावत् । नम्रत्वमेवाभिमुखत्वमत्र प्रकारान्तरस्यासमवात् । मिनोतीत्ये. कवचनादध्वर्युणैव पर्यन्त्याः सर्वा मातव्याः । यथा सुष्टवित्यत्राप्यन्वेति ।

नीचैः सदो वृष्टिकामस्य मिनुयादुच्चैरवृष्टिकामस्य विपरीतमेके समामनन्ति ।

नामिदन्नं नित्यं प्रमाणं ततोऽपि किंचिन्नी चैींचं सदो वृष्टिकामस्य यजमानस्प मिनुयात् । किंचिदुरुचं सदोऽवृष्टि कामस्य यजमानस्य । अवर्षणे सति वृष्टिकामना । अतिवर्षणे त्ववृष्टिकामना । इदं च यदैवैनं यज्ञ उपनमेत, अथाऽऽधीत सैवास्यधिार- तिश्रुत्यनुरोधेन यदा वर्षासु सोमपूर्वाधानं क्रियते तदैतत्संभवा द्रष्टव्यः । नीचैरित्यज्ययं ७२० सत्याषाढविरचितं श्रौतसूत्र- [सप्तमप्रभे- नीचत्वार्थकम् । उच्चैरित्यव्ययमुच्चत्वार्थकम् । समस्ते ऋतावर्थ श्रूयमाणं यजमानः कामयते तथा नित्येषु यज्ञाङ्गेषु यानि तु कामयतिः श्रावयतीतिसूत्रात् । अत्र कमि. धातुश्रवणात्संकल्पोऽत्र यनमानेन कार्यों वृष्टि कामो नोचैः सः करिष्ये, अवृष्टि- काम उच्चैः सदः करिष्य इति । कामयतिः कमिधातुः । इश्तिपो धातुनिर्देश इति सूत्रात् (वातिकात् )श्तिप् । विपरीतमेके समामनन्ति यत्पूर्वस्य फलं तदुत्तरस्य यदु. तरस्य फलं तत्पूर्वस्येति विपरीतशब्दार्थः । सदसो नीचस्त्वोचस्त्वे औदुम्बर्याः स्थूणानां च नीचोच्चत्वाम्यामिति द्रष्टव्यम् ।

नव च्छदीꣳष्युपक्लृप्तानि भवन्ति।

एतद्दिवाससंबध्यनुष्ठानारम्भात्यागेवोपकल्पनम् । अर्थः स्पष्टः ।

उदीचो वꣳशानाधाय प्राचो वꣳशानादधाति ।

वंशान्वेणून्वंशानिति बहुत्वमविवक्षितम् । तेन संभव एकस्य वंशस्य वेणोयो वंशयोर्वेण्वोरप्याधानम् । उदीच उदगग्रान्प्राचः प्रागग्रान् । आधानं स्थापनम् ।

ऐन्द्रमसीति त्रीणि मध्यमानि छदीꣳष्युदञ्चि निदधाति ।

मन्त्रावृत्तिरेकवचनात् । ऐन्द्रमसीत्येकै मध्यमं छविरुदगग्रं निदधाति । एतावा- नेव मन्त्रः। ऐन्द्रमसीत्येकैक मध्यमानि छहीष्यधिनिदधातीति भरद्वाजः ।

इन्द्रस्य सदोऽसीति त्रीणि दक्षिणानि विश्वजनस्य छायेति त्रीण्युत्तराणि ।

एतेन नवच्छदि सदो भवतीत्युक्तं भवति । उभयत्रापि मन्त्रावृत्तिः । एकवचनात् ।

दक्षिणान्युत्तराणि करोत्यौदुम्बरीमभिसंमुखानि ।

दक्षिणानि च्छदौषि उत्तराणि सर्वेषामुपरिशयानि करोतीत्यर्थः । दक्षिणान्युदग- ग्राणि उत्तराणि दक्षिणाग्राणीति औदुम्बरीमभिमुखानीमस्यार्थः । संशब्दः सम्य. वश्लेषणार्थः।

नवछदि तेजस्कामस्य मिनुयादितिब्राह्मणव्याख्यातानि काम्यानि छदीꣳयपि तेषां याथाकामी ।

नवदि तेजस्कामस्य मिनुयादित्यादि यद्राह्मणं तेन व्याख्यातानि उक्तानि काम्यानि कामायाणि नवादिसंख्याविशिष्टानि छदींषि तेषां कामानां तेजआदीनां मध्ये यः कामस्तत्संबन्धिपक्षोऽङ्गीकर्तव्य इत्यर्थः । याथाकामीत्यत्र ताच्छील्ये णिनिः । अत्रापि कमिधातुश्रवणात्संकल्पो यजमानेन कार्योऽमुककामोऽमुकच्छदि सदः करिष्य इति कामनानुरोधेन । नवच्छदिपक्षो नित्योऽपि । त्रीणि मध्यमानि श्रोणि दक्षिणानि त्रीण्युत्तराणीति नित्यविधिवलान्नवउद्यग्निष्टोमस्य मिनुयादिति भरद्वानोक्तश्च । नवच्छ. " ७ स०पटलः ] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । ७२१ दिसदापक्षे समं स्यादश्रुतत्वादिति न्यायान्मध्ये दक्षिण उत्तरे च त्रीणि त्रीण्येव । एकादशच्छदिसदाःपक्षे मध्यदेशस्य प्रधानत्वान्मध्ये पञ्चेतरयोस्त्रीणि त्रीणि । पञ्चदश- च्छदिसदःपक्षे पञ्च पञ्चैव सर्वत्र समं स्यादश्रुतत्वादिति न्यायात् । सप्तदशच्छदिसदः- पक्षे मध्ये सप्त मध्यदेशस्य प्रधानत्वात्, इतरयोः पश्च पञ्च । एकविंशतिच्छदि- सदःपक्षे सप्त सप्तैव सर्वत्र, समं स्यादश्रुतत्वात्, अपि पा कर्मवैषम्यात्, भतुल्याः स्युः परिक्रये समाख्यांविधिश्रुतौ परिक्रयान(न) कर्मण्युपपद्यन्ते (ते) दर्शनाद्विशेषस्य तथाऽभ्युदय इति न्यायत इति द्रष्टव्यम् । अयं न्यायो जैमिनिना दशमाध्याये तृती- यपादे दर्शितः। सूत्रार्थस्तु अश्रुतत्वाद्विशेषाश्रवणात्समो विभागः स्यादिति प्रथमसूत्रार्थः । अपि वेत्यनेन साम्यं व्यावय॑ते समो विभागो न भवति किं तु कर्मणो वैषम्याकस्य- चित्कर्म बहुप्रयास कस्यचित्कर्माल्पायातमित्येवं कर्मणो वैषम्यात्प्रयासानुरूपेण विभाग इति द्वितीयसूत्रार्थः । परिक्रयेऽतुल्याः स्युः समा न स्युः समविभागा न स्युरिति यावत् । कस्मिविषय एषामतुल्यत्वमित्याकाङ्क्षायां परिकय इति । परिक्रयविषय इति तदर्थः । तेन परिक्रयातिरिक्तविषये विशेषाश्रवणे साम्यमेवेति प्रदर्शितं मवति । अतुल्यत्वे हेतुमाह-समाख्याविधीति । द्वादशाहेऽध्वर्युर्गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयतीत्यादिवाक्येऽर्धिनो दीक्षयति तृतीयिनो दीक्षयति पादिनो दीक्षयतीत्यत्राधि- समाख्यया ब्राह्मणाच्छंस्यादीनां तृतीयसमाख्ययाऽऽग्नीधादीनां पादिसमाख्यया पोत्रा- दीनां व्यवहारदर्शनाद/दिसंबन्धं विनाऽदिव्यवहारायोगात्प्रधानेभ्यो ब्रह्मादिभ्यो यद्दीयते तस्यार्धे ब्राह्मणाच्छंस्यादिभ्यस्तृतीयांश आग्नीधादिभ्यश्चतुर्थांशः पोत्रादिभ्यो देय इति नियमः करप्यते । अर्धित्वादिसमाख्याकल्प्यो विधिः समाख्याविधिः, एत- प्रतिपादकश्रुतौ परिक्रयाद्वैषम्यमुपपद्यते न परिकयव्यतिरिक्त कर्मण्युपपद्यते वैषम्यं विशेषस्य तस्या(थाs)भ्युदयेऽभ्युदयेष्टौ ये मध्यमाः स्युस्तानग्नये दात्र इत्यादि- श्रुत्या विशेषस्य साम्यविषयस्य प्रदर्शनादिति । तत्र येषु ऋतुषु च्छदिःसंख्यानियमो नास्ति तेषु तत्तत्संस्थानुरोधेन काम्यानां प्रकृतावेत्र निवेश इति न्यायाङ्गीकारे नव च्छीष्येतेषु नेतरे पक्षाः । काम्यं नवच्छदित्वमपि न ।

कटाꣳस्तेजनीश्च प्रवर्तं छदिषामन्तरालेष्वन्ववस्यन्ति तानन्तर्वर्ता इत्याचक्षते परि त्वा गिर्वणो गिर इत्यभितः परिश्रयतः पूर्वमपरं च द्वारे कुरुतोऽध्वर्युर्दक्षिणां द्वारेयीं परिषीव्यति प्रतिप्रस्थातोत्तरामिन्द्रस्य स्यूरसीति सीव्यत इन्द्रस्य ध्रुवोऽसीति ग्रन्थी कुरुतस्तौ प्रज्ञातौ भवतः ।

इन्द्रस्य ध्रुवोऽसीत्यनेनेन्द्रस्य ध्रुवमप्तीति विकल्पते । अन्यद्धविर्धानविमानसूत्रवघ्या. ख्येयम् । १ ख. ग. पवाभ्युदयष्टौ । ७२२ सत्याषाढविरचितं श्रौतसूत्रं- [ ७सप्तमप्रभे-

ऐन्द्रमसीन्द्राय त्वेति संमितमभिमृशतः ।

संमितं विमितं सदः।

प्राग्वꣳशस्य सदोहविर्धानयोश्च ।। २० ।। समानꣳ सांकाशिनम् ।

संकाशयतीति संकाशनम् । नन्द्यादित्वाल्ल्युः । युवोरनाकावित्यनादेशः । सांकाश- नमिति पाठे संकाशनमेव सांकाशनमिति स्वार्थे ऽण्प्रत्ययं कृत्वा समर्थनीयः । सांका. शिनमितीकारविशिष्ट पाठस्त्वार्ष एव । सांकाशनं संदर्शनं सर्वतो दर्शनं तदेषां समान भवति । यथैकत्र स्थितः सर्वानपि पश्येत्तथाऽऽजवेनैषां द्वाराणि कार्याणीत्यर्थः । प्राग्वंशस्यासमासेन निर्देशस्तत्तत्कामनानिमित्तदक्षिणाप्रत्यगुत्तरदिगन्यतमे केवलैकद्वा- रनिमित्तकप्राग्वंशप्रारदाराभावहेतुकतुल्यतांकाशनत्यानित्यत्वनिबन्धनः ।

नासꣳस्थिते सोमेऽध्वर्युः पूर्वेण द्वारेण हविर्धाने प्रविश्यापरेण निष्क्रामेद्यदि निष्क्रामेदिदं विष्णुर्विचक्रम इति जपेत् ।

सोमे सोमसंबद्धे तन्त्रेऽसंस्थितेऽसमाप्ते सतीत्यर्थः । सोमसंबद्धतन्त्रसमाप्तिस्तु भवभृथ एव भवति तावत्पर्यन्तोऽयं निषेधः । अवभृथे यद्यपि साक्षात्सोमसंबन्धो नास्ति तथाऽप्यूजीषसोमलिप्तपात्रद्वारा संबन्धोऽस्ति अतोऽवभृथपर्यन्तमस्त्येव निषेधः । अमुमर्थमाह बाधूलः-नाऽवभृथादध्वर्युः पूर्वेण द्वारेण हविर्धाने प्रविश्यापरेण निष्का- मेद्यदि निष्कामेदिदं विष्णुरिति जपेदिति । आऽवभृधादिति पदच्छेदः । अवभृथपर्य- न्तमिति तदर्थः । इदमुलक्षणमपरेण प्रविश्य पूर्वेण निष्क्रमणं नेत्यापस्तम्बोक्तस्य निषेधस्य । एवं च येन द्वारेण प्रवेशस्तेनैव निष्कमणमिति नियमः पर्यवस्यति । यदि. शब्दानमित्तिकत्वमेतस्य । अध्वर्युग्रहणमितरेषामखिजां व्यावृत्त्यर्थम् । तेनाध्योरेवायं निषेधः । नच प्रतिप्रस्थातृनेघुन्नेतृणामप्यध्वर्युत्वात्तत्परोऽप्ययं निषेध इति वाच्यम् । एकवचनविरोधापत्तेः । यदि प्रतिप्रस्थातृनेष्टुनेतृग्रहणमिष्टं स्यात्तदा तामध्वर्यव उद्गु- न्तीत्यत्रेवात्रापि ब्रूयादेव । नमन तथोक्तमतोऽध्वयोरेव निषेधः । एतेनैकवचनस्य जात्यभिप्रायकत्वकल्पना निरस्ता भवति । एवमुत्तरसूत्रेऽपि द्रष्टव्यम् ।

नापरेण सदः प्रविश्य पूर्वेण निष्क्रामेद्यदि निष्क्रामेदुत्तिष्ठन्नोजसा सहेति जपेत् ।

असंस्थिते सोमेऽध्वर्युरित्यनुवर्तते । इदमुपलक्षाणं पूर्वेण द्वारेण सदः प्रविश्यापरेण निष्क्रमणं नेत्यापस्तम्बोक्तस्य । अयमप्यवभृथपर्यन्त एव निषेधः । तथा च वाधूल:- नाऽवभूषाध्वर्युर परेण सदः प्रविश्य पूर्वेण निष्कामेद्यदि निष्कामेदुत्तिष्ठन्नोजसा सहेति जपेदिति । आऽवभृथादित्यत्रापि पदच्छेदः । अत्रापि येन द्वारेण प्रवेशस्तेनैव निष्क- १ ख, ग, तमके । अत्रा55पस्तम्बः- ७ स०पटल: ] गोपीनाथभट्टकृतज्योत्स्नान्याख्यासमेतम् । ७२३ मणमिति नियमः पर्यवस्यति । यदिशब्दान्नैमित्तिकत्वमेतस्यापि जपस्य । सदोविमाना- नन्तरमसंस्थिते सोमे नाध्वर्युः प्रत्यङ्मदोऽतिक्रामेत् । तया च श्रुतिः-नासस्थित सोमेऽध्वर्युः प्रत्यङ्सदोऽतीयादिति । अत्रापि सोमसंस्थाऽवभृथपर्यन्तैव ग्राह्या । -नाध्वर्युः प्रत्यङ्स दोऽतीयाद्धिणियान्होतारं वेति । सदस्यपि धिष्णियानतीत्य न गच्छेत् । तत्र तु होतारं वेत्यस्मिन्कल्पे धिष्णियातिगमनेऽपि न दोषः । अत्र श्रुतिरपि-प्राणा वा एने यद्धिष्णिया यदध्वर्युः प्रत्यधिष्णियानतिसपें. प्राणान्संकर्षे प्रमायुकः स्यान्नाभिर्वा एषा यज्ञस्य यद्धोतोयः खलु वै नाम्य प्राणोs- 4 याङपानो यदध्वर्युः प्रत्यङ्हातारमतिसर्पदपाने प्राण दध्यात्ममायुकः स्यादिति । अत्र परिगृहीतपक्ष एवाऽऽन्तं स्वीकर्तव्यः । अन्यथा दोषाभावमेवैकतरपक्षं गृहीत्वा संपा- घेत । विष्णियसंबन्धिकर्मसु घिष्णियानतिक्रम्य गमनं निषिद्धम् । इतरकर्मसु होतारम- तिक्रम्य गमर्न निषिद्धमिति व्यवस्थितविकल्पो वाऽयम् ।

अत्रोपरवकर्मैके समामनन्ति ।

पूर्वोपरवकर्म यदुक्तं तत्तत्र न कर्तव्यं किंतु अत्रास्मिन्काले कर्तव्यमित्येक आचार्या वदन्तीत्यर्थः ।

चात्वालात् पुरीषमाहृत्य धिष्णियान्निवपति चतुरश्रान्परिमण्डलान्वा ।

पुरीषार्थ चात्वालं पुनरधस्ताखात्वा तस्मात्पुरीषमाहृत्याऽऽहार्य वा विणियाना- यतनानि निवपति करोतीत्यर्थः । चतुर्थे द्वितीया वा। सा च तादये, तेन विष्णियार्थ तत्तत्स्थाने निवपतीत्ययों भवति । सप्तम्यर्थे वा द्वितीया, तेन धिष्णिय- स्थानेषु निवपतीत्यर्थों मवति । निवपनं तत्तत्यदेशे पुरीषप्रक्षेपणम् । चात्वालाद्धिष्णि. यानुपवपतीति श्रुतौ यदपवपनमुक्तं तन्निवपनमेव । न्यन्ये विग्णिया उप्यन्त इत्यनुवा. दात् । अथ याचति स्फ्यमुदपात्रं चात्वालात्पुरोष सिकता इत्येतत्समादायेति, आनीथं इत्या स्पयनोद्धत्यावोक्ष्य चात्वालात्पुरीषं सिकता इति निवपतीति, अथैनं सिकताभि- रानाशिनं करोतीति च बौधायनः । आनाशिनं प्रकाशवन्तम् । ते च धिष्णियाश्च- तुरश्राः परिमण्डला वा भवन्ति । तथा च शुल्बसूत्रे-पिशीलमात्रा मवन्तीति विष्णि. यानां विज्ञायते चतुरश्रा इत्येकेषां परिमण्डला इत्येकेषामिति । यदि सौमिकेषु विष्णि- येषु शुल्बसूत्रोक पिशीलप्रमाणं सिंहावलोकनन्यायेनाऽऽकातितत्वादुपयुज्यत इति कल्प्यते तदा समावेशानुरोधेन पञ्चविधपिशीलान्यतमपिशीलमानेनैव विष्णियाः कल्प- नीयाः । अस्मिन्पक्षे प्रादेशान्तरालता न भवति असंभवात् । इदं च पदमानपक्षे । वस्तुत इदं पिशीलमानमाग्निकेषु विष्णियेप्येव न सौमिकेषु । चतुरश्रान्परिमण्डलान्वेत्य- स्योभयत्रोपादानयपित्तौ सौमिकेषु पिशीलप्रमाणानियमरूपापनार्थत्वेनैव सार्थक्यस्य ७२४ सत्याषाढविरचितं श्रौतसूत्र- [ सप्तमप्रभे- निर्वोद, शक्यत्वात् । अस्मिन्पक्षेऽतीव न्यून मानं प्रादेशात्मकं तदप्यत्र भवति । शास्त्रान्तरे प्रादेशमानं दृष्टं चास्ति । प्रादेशमात्रान्तरालत्वमप्यस्मिन्नेव पक्षे सूत्रान्तरे दृष्टम् । इदं च पश्चदशाङ्गुलपदपक्षे । दशाङ्गुलद्वादशाङ्गुलान्यतम(र)पदपक्षे न्यून- मप्यन्तरालं समावेशानुरोधेन ! पिशीलमात्रत्वपक्षे समावेशानुरोधेनान्तरालकल्पना द्रष्टव्या । तत्र पिशीलं पञ्चधा वदन्ति बाढोरन्तरालमेकं बद्धमुष्टीरनिद्वितीयमरनि- स्तृतीयं द्वात्रिंशदङ्गुले चतुर्थ पट्त्रिंशदङ्गुलं पञ्चममिति । पिंशत्यमुलं षष्ठमिति केचित् । परिमण्डलत्वपक्षे क्षेत्रतः पिशीलमात्रत्वम् । प्रादेशमात्रत्वेऽप्येवम् । होतार- मतिक्रम्य न गच्छेदित्यस्मिन्कल्पे प्रत्यङ्मुखतोदङ्मुखता वा निवपने । धिणियानति- क्रम्य न गच्छेदित्यस्मिन्कल्प उदङ्मुखतैवेति ।

विभूरसीत्याग्नीध्रीयमाग्नीध्रागारे यथोत्तरेणान्तर्वेदि संचरो भवति ।

आग्नीप्रत्येदमानीधीयं धिष्णियम् । आग्नीधं च तदगारं चाऽऽग्नीधागारम् । भाग्नी- अस्यागारमाग्नीधागारमिति वा, तस्मिन्नानीधीयं धिष्णियं कर्तव्यं, तच्च यथोत्तरेणान्त- पेदि वेदिमध्यतो धिष्णियमुत्तरेणाऽऽयतनस्य गमनवेलायां पादस्पर्शो यावत्परिमिते मार्गे न भवति तावत्परिमितप्रदेशं संचरार्थमवशिष्य कर्तव्यमित्यर्थः । अग्नी: शरणे रमं चेत्यनेनानीच्छन्दाद्गृहे वाच्ये रण्प्रत्ययस्तस्माद्बुद्धाच्छ इति उछप्रत्यय- स्तस्येयादेशः । अगारशब्दो गृहवचनः । प्रवाण इत्यन्तो मन्त्रः ।

अन्तःसदसमितरान् ।

इतरान्मत्रावरुणादीनां विष्णियान् । सदसो मध्य इत्यन्तःसदसम् । अव्ययी- भावसमासोऽयम् । शरदादित्वात्समासान्तष्टच्प्रत्ययः ।

वह्निरसीत्यपरेण सदोबिलं पृष्ठ्यायां प्रक्रमे होत्रीयम् ।

अपरेण सदोबिलं सबसः पूर्वबिलस्यापरतः प्रक्रमेऽतीत होतुरिदं होत्रीय धिष्णिय भवतीत्यर्थः । होत्रीयमिति धिष्णियविशेषस्य नामधेयम् । एक्षाचां देश इति वृद्ध- संज्ञा विधायके सूत्रे वा नामधेयस्य वृद्धसंज्ञा वाच्येति होत्रीयशब्दस्य धिष्णियविशेष- नामधेयत्वाद्धसंज्ञायां वृद्धाच्छ इति च्छप्रत्ययस्तस्येयादेशः । अत्रैनपा प्रक्रमात्मक- मेव सामीप्यं विवक्षितं वचनात् । अन्तःसदसमित्यनेनापरबिलस्य व्यावृत्तिः । बिल. शब्दोऽत्र द्वारवाची, सदापसानिध्यादन्यस्य बिलस्यासंभवात् । हव्यवाहन इत्यन्तो मन्त्रस्य।.

श्वात्रोऽसीति दक्षिणेन होत्रीयं मैत्रावरुणस्य ।

पञ्चदशाङ्गुलपदप्रभृतिमानपक्षे प्रादेशान्तरालसंभवाद्वादशाङ्गुलपदप्रादेशयोस्तुल्य. स्वात्तावत्परिमितमेवान्तरालम् । तथा च दक्षिणेनेत्येनपाऽत्रापि तावदेव सामीप्यं विवक्षितं भवति । दशाङ्गुलद्वादशाङ्गुलाम्पतम(१)पदमानपक्षे प्रादेशान्तरालासंभवा७स पटलः ] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । ७२५ द्यावदर्थमन्तरालम् । घिणियानां पिशीलमात्रत्वपक्षे तु प्रादेशान्यूनमेवान्तरालम् । एवमग्निमेष्वपि विष्णियेषु द्रष्टव्यम् । देव्यौ प्रशास्तारौ मित्रावरुणौ । एतस्यापि मानुषप्रशास्तृत्वेन मित्रावरुणतुल्यत्वात्तदीयकर्मकर्तृत्वाद्वा मित्रावरुणलिनकाज्याप्र. वक्तृत्वाद्वा मैत्रावरुणत्वम् । मित्रावरुणयोः प्रशास्तृत्वं मित्रावरुणी प्रशास्तारौ प्रशा. स्तादित्यस्मिन्प्रवरणवाक्य भाम्नातम् ! मैत्रावरुणस्यैव प्रशास्तेति संज्ञान्तरम् । प्रशा. स्वर्य नेति प्रस्थितयाज्याप्रैषात् । प्रकर्षेण सर्वान्प्रेष्पाञ्छास्तीति प्रशास्तेति तदर्थः । प्रचेता इत्यन्तः ।

उत्तरेण होत्रीयमुदगायतानितरान् ।

अत्राप्यन्तरालव्यवस्था पूर्ववद्रष्टव्या । होतृधिष्ण्यस्य सामीप्यं ब्राह्मणाच्छसिविष्ण्यं. यावदन्तरालं भवति तावद्विवक्षितम् । एवमुत्तरोत्तरेष्वपि क्षेयम् । नचैनप्रत्यय- बलात्सर्वधिष्ण्याना होतृधिष्ण्यसंलग्मनैव कुतो न करप्यतेऽपरेणाऽऽहवनीयं बनमान मात्री वेदि करोतीतिवदिति वाच्यम् । सर्वेषां होतृधिष्यसंलग्नताबा एवासंभवेनैतादृश- कल्पनाया दूरापास्तत्वादुमायतानितिवचनविरोधाच । नचैनप्प्रत्ययविरोधः । होतृ. धिष्ण्यस्येतरेषां धिष्ण्यानां च मध्ये यावदन्तराल तावत एव सामीप्यस्यात्रानायत्या विवक्षणात् । नच होतृधिष्ण्यस्य मैत्रावरुणब्राह्मणाच्छंप्तिधिष्ण्ययोरेव संलग्नत्वमेवास्तु संभवात् , इतरेषामपि परस्परमेवमेव सजातीयत्वसंपादनायेति वाच्यम् । अन्तरालाभावे वस्वधिष्ण्योत्तरेण गमनासंभवापत्तेः । नचाङ्गुलात्मकमेवान्तरालमस्त्विति वाच्यम् । एतावत्परिमितान्तरालप्रदेशस्य गमनक्रियायामयोग्यत्वात् । एवं च यावताऽन्तराले. नाऽऽयतनस्य गमनवेलाया पादाघातो न भवेत्तावदन्तरालं मध्ये कर्तव्यमिति सिद्ध मवति । धिष्णियानां पश्चदशाङ्गुलपदप्रभृतिमानपक्षे प्रादेशान्तरालान्यूनमेव । अन्य- थाऽधारणधर्मेणोपवेशनानुपपत्तेः । नचेष्टापत्तिः । अङ्गप्रधानार्थोपवेशनाङ्गभूताङ्क- धारणधर्मकोपवेशनबाधापेक्षया केवलधिष्ण्यसंलग्नत्वादिरूपनवर्षबाधस्यैवोचितत्वात् । अथवा दक्षिणेन होत्रीयमुत्तरेण होत्रीयमित्यत्र द्वितीया षष्ठ्यर्थे । दक्षिणेनोत्तरेणेति- पदद्वयं दक्षिणत उत्तरत इत्यर्थक विभक्तिप्रतिरूपकमव्ययं, तेन सामीप्यस्यानपेक्षणे सिद्ध मध्येऽन्तरालसिद्धिः । दशाङ्गुलद्वादशाङ्गुलान्यतम(र)पदमानपक्षेऽधारण- संकोचः स्थलालाभनिमित्तकसंकुचितपदमानानुरोधेनानायत्या स्वीकर्तव्यः । स्त्री कुर्वन्ति चेदानी शिष्टाः । तत्प्रयुक्त शालामुखीय तत्तदुपवेशनकाले कालव्यवधाने पति मेदेन तदन्यवधाने सकृत्सर्वादानौपवतध्ये सौत्येऽहनि च सर्वप्रायश्चित्तं होतव्यं न वा । उदगायतानुदास्थान् । उद्गायतानितिवचनं होतृधिष्ण्यस्योत्तरतो ब्राह्मणाच्छति धिष्ण्यं सान्तरालं तत उत्तरतः पोतृधिष्ण्यं सान्तरालं तत उत्तरतो नेपृधिष्पं सान्त. १ ख, ग, 'शान्न्यून। ७२६ सत्याषाढविरचितं श्रौतसूत्रं- [ ७सप्तमप्रश्ने- रालं तत उत्तरतोऽच्छावाकधिष्ण्यं सान्तरालमित्येवं क्रम इत्यर्थ बोधयितुम् । एतेन प्रागायतत्वं साक्षाद्धोतृधिष्ण्यस्यैव सर्वेषां सामीप्पार्थ समन्तभावश्चेति निरस्तं भवति । इतरशब्दवाच्यानाह-

तुथोऽसीति ब्राह्मणाच्छꣳसिन उशिगसीति पोतुरन्धारिरसीति नेष्टुरवस्युरसीत्यच्छावाकस्य प्रतिकृष्टतरम् ।

ब्राह्मणाच्छंसिन उपसंख्यानमिति पञ्चम्या अलुक् । ब्राह्मणे विहितानि शस्त्राण्युप- चाराद्राह्मणानि तानि शंसतीति ब्राह्मणाच्छंसी, ऋत्विविशेषः । द्वितीयार्थे पञ्चम्युपसं- ख्यानादेव । ब्रह्मशब्दोऽपि स्थलविशेषे ब्राह्मणाच्छंसिनि ।ब्रह्मन्यजोतेप्रस्थितयाज्याप्रैष- दर्शनात् । पाति यजमानमाशासनद्वारेति पोता, ऋत्विग्विशेषः । अस्ति चास्मिन्नर्थे लिङ्गं मरुतो यस्य हि क्षये पाथा दिवो विमहसः । स सुगोपातमो जन इति पोतृप्रस्थि. तयाज्यायाम् । नप्तृनेष्टहोतृपोतृभ्रातृजामातृपितृहित इत्युणादिसूत्रेण निपातनात्साधुः । पन्नेननीग्रहणप्रदेशं प्रति पत्नी नयतीति नेष्टा । अयमप्यनन्तरोदाहृतेनोणादिसूत्रेण निपातनात्साधुः । अच्छशब्देनाच्छशब्दादिसूक्तं लक्ष्यतेऽच्छा वो अग्निमवत इति । तत् , आ, अत्यन्तं समीचीनं वक्तीत्यच्छावाक ऋत्विविशेषस्तस्य धिष्णियं प्रतिकृष्ट. तरमधिकतरमितरधिष्णियतो भवतीत्यर्थः । तत्राऽऽधिक्यप्रमाणस्यानुपदेशाददृष्टार्थ किंचिदधिकं कर्तव्यम् । दृष्टासंभवाददृष्टार्थताऽत्र । वासिष्ठवाधूलौ तु आधिक्य प्रमा. तु णनियममाहतुः-सर्वेभ्यो धिष्णियेभ्योऽधिकं चतुरङ्गुलैरच्छावाकस्य धिष्णियं भव. तीति । विश्ववेदाः कविर्वम्मारिर्दुवस्यानिति क्रमेणान्ताः ।

शुन्ध्यूरसीति मार्जालीयं बहिःसदसं दक्षिणार्धे वेदेः सममाग्नीध्रीयेण यथा दक्षिणेनान्तर्वेदि संचरो भवति ।

मृज्यन्ते शुद्धानि क्रियन्ते पात्राणि यत्र तन्मा लीयम् । मृजेरालीयच् , इत्युणा- दिसूत्रेण मृष शुद्धावित्यस्माद्धातोरालीयच्प्रत्ययः । बहिःस दस सदसो बहिहि:- सदसम् । अव्ययीभावप्तमासोऽयम् । शरदादित्वात्समासान्तष्टच्प्रत्ययः । अन्तः- सदसमितरानित्यस्यानुवृत्त्या मार्जालीयस्यापि सदस्येव समावेशः स्यात्तं वारयितुं बहिःसदसमिति वचनम् । दक्षिणार्धे वेदेरिति वचनं बहिःसदसत्वेऽपि वेदेरुत्तरार्ध च्यावर्तयितुम् । सममाग्नीध्रीयेणेत्यनेन पूर्वसूत्रोपात्तायाः प्रतिकृष्टतरताया व्यावृत्त्य- थम् । नन्वेवं लाघवाद्धोतृधिष्णियस्य मुख्यत्वाच्च तस्यैवात्र प्रतिकृष्टतरत्वव्यावृत्त्यर्थं ग्रहणं कर्तव्यं समं होत्रीयेणेति किमर्थममुख्यगुरुभूताग्नीधीयग्रहणमिति चेन्न । आग्नी. धीयमानीलीययोरुदक्सूत्रानवेन साम्यवसिध्द्यर्थ तदुपादानाद्धोतृधिष्ण्ये तदसंभवात् । आग्नीधीयस्य महावेधु तरप्रान्तपासूत्रमध्यमारंभ्याऽऽनवेन महावेदिदक्षिणप्रान्तप्राक्मू- त्रमध्यपर्यन्तमुदक्सूत्रं दत्त्वा तत्र मान लीयं कार्यमित्यर्थः फलितो भवति । सममानी- . ७२७ ७१० पटलः ] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । भीयेणेत्यत्र तृतीया तुल्यायरतुलोपमाभ्यां तृतीयाऽन्यतरस्यामिति सूत्रेण । यथा दक्षिणेनान्तर्वेदि संचरो भवतीत्येतत्पूर्व यथोत्तरेणान्तदि संचरो भवतीतिसूत्रवध्या- रूयेयम् । बौधायनेनाऽऽग्नीधमण्डपस्य पञ्चारनित्वमुक्तं मार्गलीयमण्डपोऽपि तद्व- दुक्तः सोऽपि संभवे कार्यः । अरत्निमानं चतुर्षिशाङ्गुलप्रभृतिप्रक्रमपक्ष एव संभ- पति नान्यदा । विशाङ्गुलपर्यन्तप्रक्रमपक्षे पदमानमेवेति ज्ञेयम् ।

रौद्रमनीकꣳ सर्वत्रानुषजति ।

रौद्रं रौद्रपदवन्तमनीकमनीकपरवन्तं मन्त्रभागं सर्वेषु मन्त्रेषु अन्तिममध्यतिरि- केषु अनुषजति योनयतीत्यर्थः । स च भागो रौद्रेणानीकेन पाहि माऽग्ने पिहि मा मा हिश्मीरिति । इमं मागं तत्तन्मन्त्रान्तेषु योजयतीति निष्कृष्टोऽर्थः । रौद्रमनीक- मित्यत्र मतुवर्थकोऽर्शगादित्वादच्प्रत्ययः । एतेन केवलरौद्रानीकपदयोरनुपयुक्तयो- व्यावृत्तिर्भवति । केवलरौद्रपदोपादान उत्तरस्याऽऽदिना पूर्वस्यान्तं विद्यादित्यनया परिभाषया तत्तन्मात्रान्तेष्ववगतेषु तदनन्तरं यस्य कस्यचिद्रौदपदवतो मन्त्रस्यानुषतः स्यात् । रौद्रपदवान् मन्त्रस्तु स्वशाखायां ब्रह्मणा त्वा शपामीत्य नुवाकात्मक एक । केवलानीकपदोपादाने यस्य कस्यचिदनीकपदवतः सैनानीकेनेत्यस्यानुपङ्गः स्यात्स च मा मूर्तिकंतु पदद्वयविशिष्टमन्त्रस्यैवानुषङ्गः स्यादित्येतदर्थम् । पदद्वयविशिष्टस्तु रौदेणा- नीकेन पाहि माऽग्ने पिपृहि मा मा हिंसीरित्ययमेवैतत्प्रकरणगतश्च । भहिरसि बुनिय इत्यन्तिममन्त्रान्त एवं पठिनत्वात्तत्रैवानुषङ्ग इत्येतादृशार्थ वारयितुमनुषतविधिः । सर्वत्रान्तिममन्त्रव्यतिरिक्तेषु मन्त्रेषु । अन्तिगे तु पठित एवास्ति । अत्र नोपस्पर्श नमनीकविशेषत्वाद्रौद्र शब्दस्य । रौद्रेणानी केनेति सर्वत्रानुषजतीत्येतावतर्जुमार्गेणैवा. नुष सिद्धौ रौदमनीकमिति वक्रवचनं रौद्रानोकवद्विशिष्टोऽयमनुषङ्ग इतिज्ञानाव: श्यकत्व सिध्द्यर्थम् । ज्ञानाभावे यमुर्भेषप्रायश्चित्तं दक्षिणानी होतव्यमिति ।

अत्र वेदिस्तरणमेके समामनन्ति ।

पूर्वत्र यद्वेदिस्तरणमुक्तं तत्तत्र न कर्तव्यं किं तु अत्रास्मिन्काले कर्तव्यमित्येक आचार्या वदन्तीत्यर्थः । नचोत्तरं बर्हिष उत्तरबर्हिः स्तृणातीतिश्रुतेपैयर्थाभिया पूर्वत्र स्तरणं नित्यमत्र द्वितीय स्तरणं वैकल्पिकमिति वाच्यम् । एतस्याः श्रुतेरग्नीषोमी- यार्थबहिःस्तरणपरत्वेन सार्थक्यसंभवे द्वितीयापूर्वस्तरणकल्पनाया अनुचितत्वात् । अत्र स्तरणे विशेषगाह-

उत्तरवेदिं खरमुपरवान्धिष्णियाꣳश्च न स्तृणाति ।। २१ ।।

इति हिरण्यकेशिसूत्रे सप्तमप्रश्ने सप्तमः पटलः । . ७२८ सत्यापाढविरचितं श्रौतसूत्र- [७ सप्तमप्रने- उत्तरवेविमित्यनन्तरमिवशब्द उपमार्थकोऽध्याहार्यः । यथोत्तरवेदि न स्तुणाति पूर्वत्र तद्वदत्र स्तरणे खरमुपरवान् विष्णियानपि न स्तुणातीत्यर्थः । अन्यथा पूर्वत्र स्तरण उत्तरवेदिस्त रणापत्तेः । नचेष्टापत्तिः । उत्तरवेदरम्यायतनत्वेन तत्स्तर. णात्य कुत्राप्यदर्शनात् , अग्नेस्तत्र विद्यमानत्वेनासंभवाच । इत्योकोपाहश्रीमदग्निष्टोमयाजिसाहस्राग्नियुक्तवाजपेयेयाजिसर्वतोमुख या- जिद्विषाहस्राप्रियुक्तपौण्डरीकयाजिगणेशदीक्षिततनूनगोपीनाथ- दीक्षितविरचितायां श्रीमद्भगवत्सत्यापाढहिरण्यकेशिसू- त्राम्बुधिगतनिगूढार्थरत्नालाभकृतविद्वज्जनसंताप- शामिकायर्या ज्योत्स्नाख्या वृत्तौ सप्तमप- श्वस्य सप्तमः पदला ॥७॥

7.8 अथ सप्तमप्रश्नेऽष्टमः पटलः ।

अग्नीषोमीयस्य पशोस्तन्त्रं प्रक्रमयति ।

अग्निश्च सोमश्चाग्नीषोमौ । अग्नीषोमो देवता यस्य सोऽग्नीषोमीयः | तस्य पशोस्त. त्रमन्यन्वाधानादिकर्मकलापं प्रक्रमयति आरभत इत्यर्थः । स्वार्थे गिजयम् ।

तस्य निरूढपशुबन्धेन कल्पो व्याख्यातः ।

स्वान्त्रः पशुनिरूढः स बध्यते यस्मिन्कर्मणि तत्पशुबन्धाख्यं कर्म तेन कर्मणा तस्या- ग्नीषोमी यस्य पशोः कल्पः प्रकारो व्याख्यात उक्त इत्यर्थः । तत्र सर्वपशूनामेष कल्पः पशुः प्रातदोहविकारः कालसामान्यात्तथाऽऽमिक्षाऽऽग्नेयेन्द्राग्नयोस्तद्विकारेषु चैतदविकृतमग्नी- षोमीये ततिकारेषु चाऽऽश्ववालः प्रस्तर ऐक्षवी तिरश्ची कार्यमयाः परिधयोऽधिकाः पौतदार वेभ्योऽमुष्मा अमुण्य वपाया मेदसः प्रेष्यामृष्य पुरोडाशस्य प्रेष्यामुष्मा अमुष्य हविपः प्रेष्यति पशोदेवते संप्रेष्यत्यैन्द्रे सारखत्यां तद्विकारेषु च दार्श पूर्णमासिकः प्रचरणकल्पः प्रचरणकल्प इति पशुप्रकृतिविकृतिभावबोध के सूत्रम् । आग्नेयेन्द्राग्नयो- रित्यादिना पञ्चपशूनां प्रकृतित्वं प्रदश्यते । आग्नेयेन्द्राग्नावमिष्टोमोक्थ्यसंस्थयोरेती सवनीयो पशु तयोरविकृतमन्यूनानतिरिक्तमेतत्तन्नं यनिरूढ उक्तं तयोर्ये विकृतिभूताः पशवस्तेष्वपि तथा । अनीषोमीय उपवासयीयः पशुस्तद्विकारेष्वौपवसथेषु निरूदादधि- कमाश्चवालादिकं तत्तु पूर्वमातिथ्यायाभिष्टौ कृतं यदातिथ्याया बहिस्तदुपसदां तदाग्नी. घोमीपस्येत्यादिनाऽग्नीषोमीयार्थमेवोक्तमिति सद्विकारेष्वपि तथैव । निरूढे सवनीये तद्विकारेषु च प्रणयने पौतुद्वा एवं परिधयो न कार्मर्यमयाः । तेषामग्नीषोमीय एव वनेन प्राप्तत्वात् । गैषविशेषास्तु शाखान्तरेण व्यवस्थापितास्ते निरूढे न सन्तीत्युक्त. ८ पटलः ] गोपीनाथभकृतज्योत्स्नाव्याख्यासमेतम् । ७६९. मत्रैव ते तथैव शास्त्रान्तरारसवनीयेष्वपि न सन्तीत्येतदविकृतमित्यनेनोक्तम् । ऐन्द्रे सारस्वत्यां तद्विकारेषु च दार्शपूर्णमासिकः प्रचरणकल्प इत्यमेन मैत्रावरुणल्यापारो पापुरोडाशाझ्यागेषु व्यावयते । तत्राग्नीषोमीयादयो निरूढस्यांशेन विकृतयः । अन्यावर्यवे चैते प्रकृतयो निरूः विकृतिरिति । निरूढपशु प्रकृत्यैव स्वशाखायाम- जन्ति स्वेति प्रभे हौत्राद्याम्नानात्तत्सर्वेषु नैमिसिककाम्येषु स्वतन्त्रेषु नित्येषु च सर्वेण्ये- तेषु पशुषु ही प्रयच्छत्तेषां प्रकृतिर्भवत्येव । तथाऽऽध्वर्यवे वैशेपिके वेदिमानादिक चौपदेशिकमेव प्राप्यान्येषु प्रयच्छत्तथाऽग्नीषोमीयादाध्वर्यवमतिदिष्टं प्राप्य तद्विकृतोऽ- पि भवति । सर्वपशूनामेष कल्प इत्यनेन सर्वेषी पशुबन्धानां साझो विधिरेष एवेत्ये- सावमा प्रदश्यते नातिदेशोऽनेन क्रियते किंतु सोमाः संकीर्णोऽग्नीषोमायसवनी- यानां विधिरिति ततो निकृष्टो निरूलेऽतिदेशप्राप्तो निरूढ एवं व्याख्यातः स सर्वेषा समानः । औपदेशिकोऽनीषोमीयादीनामितरेवामातिदेशिकः । ये वैशेषिका मन्त्राः शाखान्तरीया इन्द्रामिभ्या त्या जुष्टमुपाकरोमीत्यादयो निसले श्रूयमाणास्तेऽभीषोमी. यादौ सौर्यप्राजापत्ययोरपि पातिदेशादूह्याः । अत्रेत्थं व्यवस्था तन्त्रान्तर्गतेषु पशुष सादृश्यादोषोमीयादय एवं प्रकृतिभूताः । तत्राप्यौपवप्तध्ये क्रियमाणानामग्नीषोमीय एव मुत्यायो क्रियमाणानामानेयादयस्तषाप्पाग्नेयन्द्राग्नयोस्तुल्यस्वेऽपि पशुपुरोशिध. मंबलाद्यवस्था । येषां यानेयपुरोडाशविकाराः पशुपुरोडाशास्तेषामाग्नेयः सवनीयः प्रकृतिः । येषां तु द्विदेवत्यानां बहुदेवत्याना वा पशुपुरोडाशाखयक्षरनामवत्वेनैन्द्राग्नपु- रोडाशविकारास्तेषामैन्दाम एवं प्रकृतिः । येषामनेकदेवतानां चतुरक्षरनामवतामनीषोमीय एव पुरोडाशः पशुपुरोडाशप्रकृतिस्तेऽप्याग्नेयस्यैव सबनीयस्य विकाराः | आग्नेयाष्टाक. पालधर्माणामग्नीषोमीयैकादशकपालेषु विहितं साक्षादतिदेशमादाय सादृश्याद्विकार पति- सूत्रबोधित सादृश्यहेतु कविकारनिर्वाहोऽत्र कार्यः । एत चैतस्मिन्व्यवस्थितविको दृष्ट- ध्यम् । इन्द्रदेवत्यानां पशूनां ये पशुपुरोडाशास्तेषां तु ऐन्दाग्नपुरोडाशधर्मकरवादैन्द्राग्नः सवनीयः प्रकृति नेः । अन्यत्र प्रकृतिदेवताभ्यो यथा सौम्यश्चरुरैन्द्रः पुरोडाश इतीति सूत्रेण सोमेन्द्रदेवत्ययोः पुरोडाशयोरेकवचनप्रतिपाद्यदेवत्यत्वेऽपि आग्नेयविकारत्वाभाव- प्रतिपादने नायतरेऽग्नीषोमीयस्यैन्द्राग्नस्य वेति सूत्रेणैन्द्रस्य सौम्यस्य चाऽऽग्नेयविकाराति- रिक्तकोट्यन्तर्गतत्वेन यद्यप्युभयविकारत्वात्येच्छया प्राप्तिर्वाशब्दस्य व्यवस्थितविक- पार्थत्व स्वीकृत्यैन्द्रस्यैन्द्रामविकारत्वमेव सोमस्याग्नीषोमायविकारत्वमेवेति तथाऽपि सौत्यसौम्यादिवानेयविकारत्वमेव । कपालधर्म सादृश्यात् । प्रकृतिगता. देवताः प्रकृतिदेवतास्ताभ्यः प्रकृतिदेवताभ्यः । प्रकृतिगतत्वं हि देवतात्रयस्य, अमेरिन्द्रस्य सोमस्य च । तत्राग्नेः स्वातन्त्र्येण सहभूतत्वेन च देवतात्वं प्रकृतो, इन्द्रस्य सोमस्य चाग्निसहभावेनैवेत्ययं विशेषः । अन्यत्र प्रकृतिदेवताभ्यो यथा सौम्यश्वरैन्द्रः पुरोडाश इतीत्यत्रेतिशब्दो वैमृधगुणविशिष्टेन्द्रदेवतापरिग्रहार्थः । अत एव प्रकृतिदेव. ७३० सत्यापाढविरचितं श्रौतसूत्र- [ सप्तमप्र- ताम्य इति बहुवचनं संगच्छते । ननु इन्द्रस्य वैमृधाख्यगुणविशिष्टस्यापोन्द्रामिन्नत्वेने- न्द्रशब्देनैव तहहणं तथा च बहुत्वस्य प्रकृतावसंभवेनासंगत्यापत्तिरिति चेन्न । इन्द्रम- हेन्द्रवदत्रापि भेदस्य सत्वेन बहुत्वस्य संभवेनासंगतेरभावात् । इन्द्रस्य सोमस्य च प्रकृतिगतत्वमांशिकं तदेव प्रकृतिदेवताभ्य इत्यत्र गृह्यते । यद्यप्योरपि प्रकृतिगत. स्वमस्ति तथाऽपि नाऽऽग्नेयस्यान्यत्र प्रकृतिदेवताभ्य इत्यत्र ग्रहणम् । यथा सौम्यश्व- रैन्द्रः पुरोडाश इत्युभयोरेव ग्रहणात्सोमदेवत्यपशुविषय आग्नेयधर्माणांमप्राप्तेः साधि- तत्वेन सामान्यत्वात्तदपेक्षयांऽशभूतस्येन्द्रस्य विशेषत्वेनैन्द्राग्नधर्माणां प्रापणे प्रबलत्वेन यक्षरनामक वेन चाऽऽश्वमेधिकसोमेन्द्रपशूनामैन्द्रामधर्मा एव, ये कत्वन्तरे विहिता ऐन्द्राः पशवस्ते घोडशिसंस्थासंबन्धिसवनीयस्यैन्द्रस्य पशोविकाराः, ये सरस्वदेवताका- स्त आग्नेयपशोरव विकाराः । प्रातिपादिकप्ताम्यात्सरस्वती विकारत्वं केचिदिच्छन्ति । ये त्वन्ये सरस्वती देवत्या ये च स्त्रोदेवतास्ते स्त्रीदेवतासाम्ये नातिरात्रसंस्थासंबन्धिसवनी. यायाः सरस्वत्या मेण्या एव विकारा मैत्रावरुणीसौर्याद्यनूवन्ध्या विना । षश्च भव- तीतिवक्ष्यमाणानुबन्ध्याप्रकरणस्थात्सूत्रालिलेन साजात्यमत्र न भवतीति ज्ञापितत्वात् । अन्यत्र तु मवत्येवेति व्यवस्था । तस्मादोषोमीयादयः पश्चापि सोमतन्त्रान्तर्गतानां व्यवस्थिताः प्रकृतयः सोमत अवहिर्भूतानां तु निरूढ ऐन्द्राग्न इति पश्चापि पशवः प्रत्यक्षधर्माणो हौत्रेण निरूढस्य विकृतयः । इतर आध्वर्यवेण वैशेषिकेण च हौत्रम- तिदेशासमानमेव प्राप्तमपि शास्त्रान्तरादैन्द्रे सारस्वत्यां च वपापुरोडाशाजयागविषय- कमैत्रावरुणब्यापारप्रतिबन्धेनैव व्यवस्थापितम् । औपवतध्ये क्रियमाणानां सुत्यायां क्रियमाणानां चापि पशवः प्रकृतिभूता यथायथमिति मतमैच्छिकविकल्लाभिप्राय द्रष्ट- व्यमित्यस्तु प्रासङ्गिको विचारः । इशानी प्रकृतमुच्यते तस्य निरूढपशुवन्धेन कल्पो व्याख्यात इति सूत्रं हौत्रेण सर्वपशुप्रकृतित्व निरूढस्यैवेत्यभिप्रायेणैव भगवताऽऽचा- र्येण प्रणीतमिति द्रष्टव्यम् ।

षड्ढोता पश्विष्टिश्चाङ्गभूते न विद्येते ।

येऽन्तस्तन्त्रवर्तिनोऽङ्गपशवः समानदेशकालाग्मयश्चाग्नीपोमीयाद्यनुबन्ध्यान्ता अङ्गि नश्च तेषु षड्ढोता न भवति आरम्भार्थत्वात् । प्रधानारम्भेणैव तदारम्भसिद्धेश्च । तथा पश्विष्टिरपि देवतारूपाम्यारम्भस्य दीक्षणीययैव सिद्धेनं भवति । ये तु बहिस्तन्त्रवा तिनो भिन्नदेशकालाग्यश्च वायव्यपशुपञ्चपशुसौत्रामणीपश्चादयश्च तेषां सत्यपि कथं. चिदङ्गभावे मवत एव पड्ढोतृपश्चिष्टी । ननु षड्ढोता पश्चिष्टिश्च न विद्यते इत्येतारदेव वक्तव्य प्रकरणादेवतस्याभूतस्य पशाला भात् । अतोऽभूत इत्येतस्य शब्दस्योपा- दानं नैव कर्तव्यमिति चेत्सत्यम् । अङ्गभूत इत्येतस्य हेतुपरत्व प्रदर्शनार्थमुपादानस्या55. १० तेषु न। (म०पटनः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ७३१ वश्यकत्वात् । यतोऽङ्गभूतः पशुरतः षड्ढोतृपश्चिष्टयोनिषेधो नतु केवलाग्नीषोमीयप्र. युक्तोऽयं निषेध इति । तेन सवनीयादिषु पशुष्वपि षड्ढोतृपश्विष्टयभावः सिध्यति । एकवचनं चोपपन्नं भवति । जात्यभिप्राय वैकवचनम् । तथा चाऽऽपस्तम्बः-षड्ढोता पश्चिष्टिश्चाङ्गभूतेषु न विद्यते इति ।

अग्नीनन्वाधायाऽऽतिथ्यापरिधीनिध्म उपसंनह्यति ।

अग्न्यन्वाधानवचनं सूत्रान्तरोताग्न्यन्वाधानप्रतिषेधनिराकरणाम् । अग्नीनन्वाधा- येति पप्प्रत्ययोऽग्नीषोमीयस्य पशोस्तन्त्रं प्रक्रमयति प्लसशाखामातिथ्यावाद प्युपसनद्य. तीति भरद्वानेन सानास्यविकारत्वाच्छाखाहरणमुक्तं तन्मा भूदित्येतदर्थम् । द्रवद्रव्यं हि शाखया शोधनीयं न मां कर्मण्यविद्यमाने सहधर्मद्रव्यं निवर्तत इत्युक्तस्वादिति भावः। आतिथ्यावहिष एवाग्नीषोमायकार्यकारित्वस्योक्तवादीद्वहिराहरणं निवर्तते । उत्क- रार्थं बर्हिन्तु सत्यादिवस एवाऽऽहरणीयम् । प्रस्तरमेवाऽऽहरति वर्हिषः कोनेति- वक्ष्यमाणसूत्रगतैवकारव्यवच्छेद्यं वेद्यर्थबहिरेव । अत्रान्वाधेया अग्नय औतरवेदिकशा- लामुखीयदक्षिणाग्नयः सभ्यावसथ्याक्षे तावप्यन्वाधेयौ । प्राजहितस्य नैवान्वाधानं किंतु शालामुखीयस्यैव । एषोऽत्राऽऽहवनीयो यतः प्रणीयते स गार्हपत्य इति पशुसूत्रेण प्रकृतावनीयस्यैव गार्हपत्यत्वोक्त्या पुराणगार्हपत्यस्य निवृत्तेरुक्तत्वात् । अत्रेति शब्देन तस्मिन्नेव कर्मणि स गार्हपत्यो न तदन्तःपतिताग्निहोत्रहोमे । शालामुखीयं गाईपत्यकर्मभ्योऽववस्यन्ति तस्मिन्गार्हपत्यकर्माणि क्रियन्त इति वक्ष्यमाणसूत्रेऽप्य. प्रेति शब्दो योज्यः । अन्यथा कुण्डपायिनामयने मासमग्निहोत्रं जुहोतीति विहितेऽमि. होत्रहोमेऽपि ज्योतिष्टोमावादशाहं द्वादशाहाद्वामयनं गवामयनात्कुण्डपायिनामय- नमित्येवंरूपचोदकपरम्परया प्राप्ते शालामुखीय एव श्रपणं स्यात् । यद्यपि दर्षि होमेऽस्मिन्स्वतश्चोदकाच्छालामुखीयस्य प्राप्त्यभावस्तथाऽपि कुण्डपायिनामयने शाला- मुखीयस्य चोदकात्प्राप्त्या तरङ्गभूतदपिहोमहविःश्रपणेऽप्यस्ति तत्पातिरिति द्रष्टव्यम्। अतोऽत्रेत्येवमवश्यं वक्तव्यम् । तथा चात्रेति शब्देन कुण्डपायिनामयनान्तर्गते नामा. तिदेशप्राप्तभुरुषगार्हपत्यश्रपणवत्कर्मण्यग्निहोत्रेति । तथा च द्वादशाध्याये प्रथमे पादेऽमुमर्थमाह श्रपणं चाग्निहोत्रस्य शालामुखीये न स्यात्माजहितस्य विद्यमानत्वादि- त्यनेन सूत्रेण । नामप्राप्तेन प्रानहितेनान्यार्थस्य शालामुखीयस्य बाधो युक्त इति भावः । सूत्रार्थस्तु स्पष्ट एव । यद्यपि नाम्नः प्रावस्यं साप्तमिकन्यायेनैव सिद्धं तथाऽपि प्रसङ्गनिराकरणार्थ सूत्रमिदमिति द्रष्टव्यम् । नषोऽत्राऽऽहवनीयो यतः प्रणीयते स गार्हपत्य इति सामान्यसूत्र शालामुखीय गाईपत्यकर्मभ्योऽन्ववस्यन्ति तस्मिन्गार्हपत्य- कर्माणि क्रियन्त इति विशेषसूत्रेण बाध्यते, एवं च शालामुखीयमाजहितदक्षिणाग्नौनामे- वावाधानमत्रेति वाच्यम् । एषोऽत्राऽऽहवनीयो यतः प्रणीयते स गार्हपत्य इति सूत्रस्थे- नात्रेति शब्देन पाशुकर्मण्येव प्रवृत्तक्त्या सौमिककर्मण्येतस्याप्राप्तौ तत्रापि प्राप्त्यर्थ1 ७३२ सत्यापाढविरचितं श्रौतसूत्र- [७ सप्तमप्र-- मेतत्सूत्रप्रणयनस्याऽऽवश्यकत्वेन समानविषयत्वाभावेन बाध्यबाधकभावस्यैवासंभवात् । एषोऽत्राऽऽहवनीयो यतः प्रणीयते स गाई पत्य इत्येतस्य सूत्रस्य विषयः पाशुकं कर्म शालामुखीय गाई पत्यकर्मभ्योऽन्ववस्यन्ति तस्मिन्गार्हपत्यकर्माणि क्रियन्त इत्येतस्य सूत्रस्य विषयः सौमिकं कर्म । एवं प विषयभेदाहाध्यबाधकभावो नात्रास्ति । अथवा पशुसूत्रविषयस्य हेतुपरताप्रदर्शनार्थ शालामुखीयं गार्हपत्यकर्म- भ्योऽन्ववस्यन्ति तस्मिन्गार्हपत्यकर्माणि क्रियन्त इति सूत्रं यतः शालामुखीयं गार्हपत्य- कर्मार्थमन्ववस्यन्ति विनियोजयन्ति श्रुतयः पाशुके कर्मणि अतस्तदग्निसाध्यत्वात्तस्मि- मेव सौमिकान्यपि गार्हपत्यकर्माणि क्रियन्त इति । इध्म इति सिद्धवनिर्देशादिध्मा- हरणस्यात्र कर्तव्यता गम्यते । भातिथ्यावहिःसनहनं तु इध्माहरणोत्तरं कर्तव्यं नतु प्रकृतिप्राप्तस्थाने स्यपा तद्वाधात् । अथवाऽऽदानसमय एवं बर्हिःसनहनम् । अथवा परिधीनित्यनन्तरमपिशब्दोऽध्याहार्यः । तेन बहिःसनहनमपि प्राकृतस्थान एव सिध्यति । सथा चाऽऽपस्तम्बः-भातिथ्यावहिस्तूष्णीमुपसंनयति तांश्च परिधीपाशुक इध्म इति । मत्रापि तूष्णीमुपसनह्यतीत्यनुवर्तते । द्वादशाध्याये प्रथमपादे नैमिनिरपि नहनहरणे तथेति चेत्, नान्यार्थत्वादिति सूत्राम्यामाह । संनहने च हरणं चानयोः समाहारः सनहनहरणं सस्मिन्सनहनहरणे । देशपृथक्वान्मन्त्रोऽम्यावर्तत इति पूर्वसूत्रोक्ता मन्त्रावृत्तिस्तथाशब्देनानुकृष्यते । नेत्यनेनाऽऽवृत्तिः खण्यते । विहारदेशपापणं मुख्य सनहनहरणयोः कार्य तदतिरिक्त कार्थमन्यशब्देनोच्यते । तच वेदिप्रापणात्मकं तद. वादित्यर्थः । यदि वेदिप्रापणार्थताऽपि स्यात्तदा प्रकृताव गाई पत्यावनीयं प्रति नीयमानेऽपि मन्त्रः प्रयुक्तः स्यात् । एवं संनहनेऽपि देवाग्रन्थिशथिस्ये प्रसक्ते पुनस्तूष्णी क्रियमाणे । नच विहारदेशप्रापणातवैतयोरित्यत्र किं विनिगमकमिति वाच्यम् । प्रथमोपस्थितेरेव विनिगमकत्वालाघवात् । तदयं निर्गलितोऽर्थो नैमिनि- सूत्रस्य देशपृथक्वान्मन्त्रोऽप्यावर्तत इतिसूत्रोक्तरीत्याऽत्रापि मन्त्रावृत्ती प्राप्तायां लूनस्य बर्हिषो विहारदेशमापणार्थ यत्सनहर्न हरणं च तदर्थों हि संनहनहरणौ मन्त्री प्रकृते तपावामावान मन्त्राविति । अत एव संमरणमन्त्रोऽपि न तेन परिधीनां सामिः धेयर्थकाष्ठसंभरणोत्तरं तूष्णीं पृथगेव संभरणम् । अतः संभरगमन्त्रे त्रीनरीवी निति लुप्यते । विशतिधेत्यूहः संचरा इति संनामश्च । उपवेषधृष्टिशब्दविवक्षया संचरा- नित्येव वा । उपनियतीत्यत्रोपशब्दादिध्मसमिधाभुपर्येत्र परिधीनां संननम् । अत्र तूष्णी लक्षशाखां छित्ताऽऽनयन्ति । केचित्तु बहि धर्मेणैव तूष्णीमानयान्त ।

अग्नीन्परिस्तीर्य पाणी प्रक्षाल्योलपराजीꣳस्तीर्त्वा यथार्थं पाशुकानि पात्राणि प्रयुनक्ति ।

अत्रानयो ये साक्षादन्वाहितास्त एव । ते चौत्तरवेदिकशालामुखी प्रदक्षिणाग्नयः । सम्यावप्तथ्यपक्षे तावपि । आनीवस्य सासाइन्वाधानाभावान्न परिस्तरणम् । अग्नीप(भ०पटशः ] गोपीनाथभट्टकृतज्योत्नाव्याख्यासमेतम् । ७३३ रिस्तीत्यादि स्तीत्वैत्यन्तं कृतव्याख्यानम् । अत्र वेदकरणावचनादेवेदं ज्ञातं भवति महावेदिकरणार्य कृतो यो वेदः स एवाऽऽवभृथाद्भवतीति । अवभृथे तु वेदकरणवि- धानात्पृथगेव वेदः । यथार्थ यथाप्रयोजनम् । इदं वचनमतिदेशमाप्तौषधपात्राणां प्रयो. जनाभाव इति वक्तम् । पाशुकानीति वचनं पशुसंबन्धिना स्वधितिवसाहोमहवनीया- यूपशकलारणीमुवर्णशकलानां प्रयोगार्थम् । ननु पाशुकानीति नेव वक्तव्यं प्रकरणा- देव तसिद्धेरिति चेन्न । तस्याऽऽपस्तम्मोक्तप्रचरणीप्रयोगनिवृत्त्यर्थत्वात् । नच मृत्याया- मेव तत्प्रयोगविधानादत्रार्थानिवृत्तौ पाशुकानोति वचनं व्यर्थमेवेति वाच्यम् । सुत्यार्या प्रथमं तत्प्रयोगविधानेन पूर्वत्र प्रकरणी स्वचर सप्तमी प्रयुनक्तीत्यापस्तंम्बोक्तरीत्या धुवाप्रयोगापत्तौ तन्निवृत्त्यर्थत्वेन सार्थक्यसंभवात् । सोमपार्न प्रसससिद्धिरित्यपि पाशुकानीत्यनेन प्रदर्शितं भवति । तथा च द्वादशाध्याये प्रथमपादे नैमिनिः-पात्रेषु च प्रसनः स्याद्धोमार्थत्वात् , न्याय्यानि वाऽप्रयुक्तत्वादप्रयुक्तः प्रसङ्गः स्यात् , अस्ति शब्दसंपर्श इति । पूर्वाधिकरणे यथा. महावेद्या प्राकृतवेदिप्रसस्तथा पात्रेष्वपि जुलदिपात्रेवपि प्रसङ्गः स्यात् , होमार्थत्वात्तेषामपि होमार्यत्वात् । होमाः सौमिकै- रेवैष्टिकजुह्वादिसाधकहोमादिकार्यसिद्धेरिति भावः । अयं पूर्वसूत्रार्थः । उत्तरसूत्रार्थस्तु न्यायो होमादिरूपं कार्य तस्मादनपेतानि न्याय्यानि जुलादीनि । धर्मपध्यर्थन्यायादन- येत इति सूत्रायत्प्रत्ययः । वाशब्दः पूर्वपक्षव्यावर्तकः । जुलादीन्येव सोमव्यतिरिक्त द्रव्यहोमकारीणि नतु चमसेः प्रसङ्गसिद्धिरिति । कुतः । अप्रयुक्तस्वात् । विहि प्रयुक्ता पात्राणि स्वप्रयुक्तानि । अङ्गे प्रयुक्ते तहणार्धं न प्राकृतस्य पुनः प्रयोगः । येन रूपेणैव प्राकृतपदार्थस्यानत्वं तेनैव तल्लक्षणाङ्गप्रयुक्ती सत्यां तत्र गुणहानावपि प्रप्तको युक्तः। भवति च वेद्यां हवींप्यासादयतीति वेदिवेनैव प्राकृतवेरिङ्गत्वेन वेदिलक्षणान. प्रयुक्तौ सत्यां तत्र गुणहानावप्यासादने प्रसङ्गो युक्तः । इह तु नाङ्गप्रयुक्तिर्नुबादीनां चमससाधारणपात्रत्वेन नाङ्गत्व येनाप्रयुक्तिः स्यात् । किं तु जुहूत्वादिनां जुह्वा जुहोतीति वचनात् । ततश्च जुहुरूपस्याङ्गस्यैवाप्रयुक्तत्वात्पुनरनुष्ठेयानां जुहादिभिः रखैरनुष्ठानाय प्राकृतपात्रप्रयुक्तिरिति । तथा च निर्गलितोऽयमर्थः-न्यायशब्देन प्रकृतकार्यमुच्यते । प्रकृतकार्य होमादिकार्य तेम्पोऽनपेतानि वाधकशास्त्रं विना तेभ्यो न वियुक्तानि एतादृशानि जुलादीनि तेष्वेव सोमालेष्टिककर्मसु न तु साधारणधर्मेण पात्रत्वरूपेणैव प्रयुक्तौ जुह्वादीनां कथं तत्प्रयुत ग्रहचमसादिभिः प्रससिद्धिर्भवति । जुहादीनि तु जहूत्वादिविशेषधर्मेणैव प्रयुक्तानि नतु पात्रत्वधर्मेण प्रयुक्तानि । अतो न प्रसङ्गसिद्धिरिति । इति द्वितीयसूत्रार्थः। तृतीयसूत्रार्थस्तु-शब्दस्य जुशब्दस्य सम्य-

  • पात्राणीतिवचनं स्फ्यादिसाधारणपात्रसंग्रहार्थम् । अन्यथा प्रचरणीव्यावृत्यर्थ
  • अब हतीयस्त्रार्थ प्रतिपाद को अन्यनुदितः ।

५३ - ७३४ सत्याषाढविरचितं श्रौतसूत्रं- सप्तमप्रश्ने- पाशुकवचनस्याऽऽवश्यकत्व स्वधित्यादीनामेवाताधारणत्वेन पाशुकस्वात्तेषामेव प्रयोग इति शङ्का स्यात्तां वारयितुं पात्राणीतिवचनम् ।

यत्प्रागाज्यग्रहणात्तत्कृत्वा प्रतिहृत्य गार्हपत्ये पाशुकान्याज्यानि गृह्णाति ।

जुहूपभृतोश्चतुर्ग्रहीते गृहीत्वा तृतीयमाज्यस्य दधन्यानीयेत्यादिना पशुबन्धो केन प्रकारेणेत्यर्थः । गाईपत्य इति सप्तम्यन्तेनैव प्रतिइत्येत्यस्यान्वयः । प्रतिहरणं प्रती- चीनं हरणम् । गार्हपत्य इति समीपसप्तमी । गार्हपत्यसमापदेशे प्रतीचीन हत्या तत्रैव पाशुकान्यायानि गृह्णातीत्यर्थः । प्रतिद्वत्येत्यत्रान्तर्भावितो णिज्द्रष्टव्यः । भन्यथा गार्हपत्ये पाशुकान्याउगानि गृह्णातीत्यनेनैवार्थारप्रतीचीनहरणे सिद्ध प्रति- हत्य त्यस्य वैयऱ्यांपत्तेः । प्रोक्षण्यासादनमातिध्यावहिषा यावाप्रदेश आस्ती- यते तावतः प्रदेशस्य पश्चार्धे वितृतीयदेशे मवति । अत्र प्रचरण्या: पात्रप्रयोग काले प्रयोगो नैव भवति । सुत्यायामेव तद्विधानात् । प्रचरण्यामाज्यग्रहणकाले प्रथमं न ग्रहगं तस्यापि सुत्यायामेव विहितत्वात् । अन्तेऽपि च न वैतर्ननहोमकाल एव तस्य विहितत्वात् ।

एवा वन्दस्वेत्युपस्थे ब्रह्मा राजानं कुरुते ।

अपोइत्याऽऽज्यस्थालीमित्यन्तेऽध्वर्युणा कृते । उपस्थः पादकियासविशेषरूपास- नविशेषः । तस्मित्राजानं सोमं कुरुते स्थापयतीत्यर्थः । ब्रह्मस्वसूत्रेणैव सेत्स्यति सत्यत्र पुनर्वचनं प्रयोगक्रमज्ञानार्थमुपस्थे राज्ञः स्थापनादनन्तरमेवाऽऽदानं ग्रावादीनां न तत्पूर्वमिति । अत्र मन्त्रवचनं मन्त्रावचनापक्षे तूष्णीत्वमपि स्यात्तयावर्तयितुम् । अब ति पदच्छेदो वाऽत्र । ब्रह्मव्यतिरिक्तो यः कश्चनविक्तद्गणस्थोऽन्यो वोपस्थे राजानं कुरुत इत्यर्थः । इदं च ब्रह्मत्वमूत्रे वक्ष्यमाणेन विधिना विकल्पते । ब्रह्मोपस्थे राजानं कुरुते ब्रह्मव्यतिरिक्तो यः कश्चनत्विग्वेति । अस्मिन्ब्याख्यानेऽपि मन्त्रवचन ब्रह्मव्यतिरिक्तर्विगर्थमपोक्षितमेव । अन्यथा तूष्णीत्वतादवस्थ्यापत्तेः ।

आददते ग्राव्णो वायव्यानि द्रोणकलशं चमसानातिथ्याबर्हिरिध्ममाज्यान्यग्नीषोमीयं चानुनयन्ति ।

आददत इत्यनन्तरं परिकर्मिण इति शेषः । कर्तृसमुदायापेक्षमत्र बहुवचनम् । पावादीमान्तानां रज्ज्वा बद्ध्वा तया वहनेनाप्यनुनयनं संमत्रति । अत भादानवि. चिरिति चेत् । तस्य मावादिचमतान्तानां भङ्गेनैव निवृत्तत्वात् । अर्थादेवाऽऽदानविधी सिद्धे वचनं व्यर्थमिति चेत्सत्यम् । तस्य ब्रह्मकर्तृकाद्राज्ञ उपस्थे स्थापनादनन्तरमेवाss- दानं यथा स्यानतु पूर्वमपाच्छया कदाचिदपोत्येतादृशार्थज्ञापनार्थत्वेन वैया भावात् । ग्रावाणः प्रसिद्धाः । वायव्यानि ऊर्ध्वपात्राणि । द्रोणाकारः कलशो द्रोणकलशः । . अपटलः ] गोपीनाथमट्टकृतज्योत्साव्याख्यासमेतम् । ७३५ च चतुरङ्गुलदण्डः परिमण्डलश्चतुरश्रो वाऽसिद्धपरिमाणोऽर्थसिद्धविकोऽत्र । अत एक सूत्रकृता चतुरश्रपरिमण्डलान्यतराकारता दोणचितेरप्युक्ता । तेषां यान्यनादिष्टवृक्षाणि विकङ्कतस्य तानीति वक्ष्यमाणवचनाद्वै कङ्कतः । अभावे वारणव्यतिरिक्तयज्ञियवृक्षनः । अहोमार्यानि तु वारणस्येति सूत्रेणाहोंमार्थपात्र एवं वारणवृक्षजत्वोक्त्या द्रोणकलशे होमार्थत्वस्यापि सत्येनार्थाद्वारणवृक्षनिषेधस्यैव प्रवृत्तेः । मार्तिकस्तु कलशो न भवति । नहि मृन्मयमाहुतिमानश इति श्रुत्या निषेधात् । धर्मे तु वाचनिक मृन्मयस्य धर्मस्थ होमसाधनत्वम् । चमसा वक्ष्यमाणलक्षणाः । पावादीनि पूर्वोपयुक्तानि प्रोक्षितान्येव । मातिथ्यावहिस्तूष्णीमेव सप्रस्तरं संनद्धम् । इध्मः सातिथ्यापरिधिकः संनद्धः । आज्यानि खुम्गतानि स्थालीगतं च । गतस्थालीगते पृषदाज्ये च । अग्नीषोमीयमनी- षोमदेवत्यमुपक्लप्स पशु येन कर्णगृहीतेन राज्ञ आतिथ्यं कृतं यजमानेन तम् । पकारोऽनुक्तसमुच्चयार्थः । तेन खुवासोमस्पालीप्तभृदाधवनीयपरिप्लवैकधनाकलशपझे. जनीकलशवसतीवरीकलशदशापवित्रोदचनादीन्याददते पस्किर्मिणः । प्रायश्चित्तपशु- सत्वे तौ च । अनुनयन्तीत्यत्र पूर्वोक्तानि नावादीन्येव संबध्यन्ते । अग्निं सोमं पान पश्चाद्भागमेतानि नयन्ति प्रापयन्ति परिकमिण इत्यर्थः । भातिथ्यामहिष : इध्मस्य पोपसाक्तित्वेऽपि अत्रानुनयनवचनात्पुनर्गहमं प्राववत् ।

उत्पत्नीमानयन्त्यन्वनाꣳसि प्रवर्तयन्ति ।

पत्नीमुदानयन्तीत्यन्वयः। श्रुतिरेवेयमन्धत उत्पत्नीमानयन्तीति । अत एव व्यवहि- ताश्चेति सूत्रेण विहितमुपसर्गधास्वोर्मध्ये पदान्तरव्यवधान न विरुध्यते । बहुवचन परिकम्यभिप्रायम् । ते च बहुवचनात्रिप्रभृतयः । एतच्चाऽऽनयनं पत्नीशालातः शालामुखीय प्रति । बहुभिरानयनमदृष्टार्थम् । अनात्यनुप्रवर्तयन्तीत्यन्वयः । प्रवर्तन नयनम् । इयमपि श्रुतिरेवान्द्यते । पदान्तरव्यवधानाविरोधोऽत्रापि पूर्ववद्रष्टव्यः । लौकिकान्यत्रानाति । बहुवचनाधिप्रभृतीनि । अनःप्रवर्तका बहुचनात्प्रत्यनस्निप्रभृतयः। अनुशब्दातश्चाइनस प्रवर्तनम् । एतानि शालामुखीय उत्तरदेदिसमीपे वा. स्थाप्यन्ते यथोपयोगम् । अनसाममा परिकर्मिणो हविरादि वहेयुः । तच्च महावेदिमुत्तरेगाss. प्रीधमण्डपपूर्वावधिपर्यन्तमेव । बहुवचनापरिकमिंग ऋस्विजो वैक न्यन्ति । एतेन नयनार्थ बळीवर्दयोजनं नेति सूचितं भवति । वक्ष्यमाणकर्मोपयोगिसामग्रीसहितानि शकटानि प्रवर्तयन्ति । यावदेवास्यास्ति तेन सह सुवर्ग लोकमेतीति लिङ्गात् । अन्व- नासि प्रवर्तयन्ति यदस्या शस्त्रं भवति पूर्व तेनाग्निमन्ववस्यन्तीतिनौधायनसूत्राच्च । शस्त्रं यज्ञायुधं यज्ञपात्राणीति यावत् । अनता प्रवर्तन यायावरविषयमित्यापस्तम्बः । तेनैतन्मते शालीनस्य निर्मन्थ्य एवेति गम्यते । ७६६ सत्यापाढविरचितं श्रौतसूत्र- [सप्तमप्रमे- पन्युदानयनप्रकारमाह-

प्रैतु ब्रह्मणस्पत्नीति नेष्टा पत्नीमुदानयति ।

परिकर्मिभिः साकं नेष्टाऽपि पत्नीमुत्याच्याऽऽनयति वैसर्जनहोमा शालामुखीयं प्रति प्रेतु ब्रह्मणस्पनीति मन्त्रेणत्यर्थः । उत्थाप्येत्ययमर्थ उच्छब्दालभ्यते । उत्था- प्येत्यनेन यदि तिष्ठन्ती तदा तामुपवेश्योत्स्थाप्यवाऽऽनेया नतु तादृश्येवाऽऽनेयेति बोध्यते । निपाता भनेकाका इति शास्त्रात् । उच्छब्दः शनरित्यर्थे वा । वर्णेन सीदस्विति मन्त्रान्तः ।

अथाहमनुकामिनीत्यानीयमाना जपति ।

आनीयमाना नेठा परिकर्मिभिश्च । पत्नीविशेषणमेतत् । विशा इहेति मन्त्रान्तः ।

सुप्रजसस्त्वा वयमित्यपरेण शालामुखीयमुपविश्य दार्शपौर्णमासिकान्मन्त्राञ्जपति ।

शाजामुखीयस्यापरमागे समीप एवोपविश्य दर्शपूर्णमासयोर्भवा दार्शपौर्णमासिका. स्तान्मन्त्रानमे गृहपत इत्यादीजपति । पत्नीत्यनुवर्तते । मध्यात्मादेष्ठभिष्यत इत्यनेन ठन् । अनुशतिकादित्वादुमयपवृद्धिः । नपतीत्यनेनोपस्थानादीनिवर्त्य तस्थाने जपोऽनेन विधीयते । मुप्रजासत्वा मम पुत्रा इत्यनयोस्तु स्वमावतो नप एव ।

शालामुखीयं गार्हपत्यकर्मभ्योऽन्ववस्यन्ति तस्मिन्गार्हपत्यकर्माणि क्रियन्ते ।

शालाया मुखं शालामुखं प्राग्वंशस्य पूर्वो भागः । तत्र भवः शालामुखीयो गृह- पतिर्यजमानस्तेन संयुक्तोऽग्निर्हपत्यः । गृहपतिसंयुक्तत्वं तदुत्पादितत्वेन । अतिप्रस; अपरिहारार्थ लादेरपिस्वी कर्तव्या । गाईपत्यस्य कर्माणि गार्हपत्यकर्माणि. तेम्यो गाई पत्यकर्मभ्यो गार्हपत्यकर्मार्थमन्ववस्यन्ति श्रुतयो यतः । तो यानि गार्हपत्यक- मर्माणि सर्वाणि तानि तस्मिशालामुखीये क्रियन्त इत्यर्थः । प्रथमतः प्राग्वंशरूपाया एवं शालायाः सिद्धत्वात्तन्मुखभवस्य प्राकृताहवनीयस्यैव शालामुखीयत्वम् ।कृत्स्नायाः शालाया असिद्धत्वात्तन्मुखभवस्यापि भोत्तरवेदिकस्य न शालामुखीयत्वम् यद्योत्तरवेदिकस्य शालामुखीयत्वं स्यात्तदा प्राचो गच्छन्तीत्येतद्विरुध्येत । तस्मात्प्राक- ताहवनीय एव शालामुखीयत्वम् । अत एव हविर्धानप्रणयने युझते मन इत्याहुत्यधि- करणीभूतस्यामेरौत्तरवेदिकशब्देनैव ग्रहणं कृतं नतु शालामुखीयशब्देन । अथवाऽय: मर्थः-शालामुखीयं शालामुखीयसंज्ञकं प्राकृताहवनीयं गार्हपत्यकर्थिमन्ववस्यन्ति कल्पयन्ति कर्तार इति शेष इति । द्विविधोऽत्र नियमः-शालामुखीयमेव गाईपस्य- कर्मभ्योऽन्वयस्यन्ति मत पुराणगाईपत्यमिति, उत्तरनियमेनाऽऽहवनीयकर्माणि पाव: (अ: पटकः] गोपीनाथमदृकृतज्योत्साव्याख्यासमेतेम् । ७३७ य॑न्ते; माहवनीयत्वेऽपि शालामुखीयं गार्हपत्यकर्मम्प एवान्ववस्यन्ति नवाहवनीय- कर्मभ्योऽपीति । गाईपत्यकर्माणि सौमिकान्यत्र विवक्षितानि नतु पाशुकानि । तेषु तु एषोऽत्राऽऽहवनीयो यतः प्रणीयते स गार्हपत्य इत्येतत्सूत्रादेव सिद्धः । नन्वेय- मेषोऽत्राऽऽवनीयो यतः प्रणीयते स. गार्हपत्य इत्येतस्मादेव सूत्रादपि सिध्यति किमर्थमिदं वचन मिति चेत्सत्यम् । एषोऽत्राऽऽहवनीय इत्यत्रत्येनात्रेति शब्देन पाशु. ककर्मस्वेवैतस्य प्राप्तत्वेन तदितरत्राप्राप्तौ तत्रापि प्राप्त्यर्थमेतत्सूत्रप्रणयनस्याऽऽवश्यक- स्वात् । सौमिकेषु अभिप्रणयनोत्तरं द्विविधगार्हपत्योपस्थितौ कस्मिन्गार्हपत्यकर्म कर्त: व्यमित्याशङ्कायां शालामुखीयस्यैव गार्हपत्यकर्भसंबन्धित्वं नियम्यते । गार्हपत्यसंव- न्यौनि सौमिकानि कर्माणि अग्नीषोमप्रणयनमारम्यैव प्रवर्तन्तेऽतोऽत्र परिभाषाकरणम्। नन्वेवं तत्र तत्र गाईपत्यशब्द एव प्रयोक्तव्यः, परिभाषयैव शालामुखीयस्य प्राप्तिम- विष्यति, शालामुखीयस्य गार्हपत्यत्वमौत्तरवेदिकस्याऽऽहवनीयत्वं व्यावर्तयितुमेवोद. यनीयायां प्रासंशग्रहणम् । एवं चोदयनीयाविषयकातिप्रसनवारणे सिद्धे किमर्थं क्वचिवचिच्छालामुखीयपदोपादानं कियत इति चेन्न । सर्वेषामितउत्तरमाविकर्मणां सौमिकत्वाविशेषेऽपि कर्मविशेषपरत्वमेव परिभाषाया ज्ञापयितुं तदावश्यकत्वेन सत्र तत्र शालामुखीयपदोपादानस्य प्रयोजनसत्त्वात् । तपा हि शालामुखीयं गार्हपत्यकर्म- भ्योऽन्ववस्यन्ति तस्मिन्गाई पत्यकर्माणि क्रियन्त इति परिभाषया यागसंबद्धान्येव कर्माणि गृह्यन्ते । अत एव सवनीयपुरोडाशप्रयुक्तपात्रासादनादीनां सवनीयपुरोडाश- यागसंबद्धत्वादेव शालामुखीयप्राप्तेर्न कस्याप्योः अषणम् । मत एवोदयनीयायां प्राविंशग्रहणम् । वागव्यतिरिक्तषु यागासंबद्धेषु वैतर्ननहोमादिषु गाईपत्ये जुहोती. स्येवमुच्यमाने गाईपत्ये जुहोतीति तत्र तत्र प्रत्यक्षश्रुतौ श्रूयमाणत्वेन प्राकृतगार्हपत्य. परतैव स्यात्ता वारयितुं शालामुखीयवचनमावश्यकं, प्रत्यक्षशालामुखीयपदश्रवणस्य यत्रामावः सवनीययागप्रयुक्तपात्रप्रयोगनिर्वापादौ तत्र परिभाषायाश्चरितार्थता । याग- भिन्नेषु यागासंबद्धेषु वैसर्जनादिषु शालामुखीयग्रहणं प्राग्वरशे गार्हपत्यात्पत्नीत्यत्र प्रामहित एव गार्हपत्य इति परिसंख्यातुम् । नन्विदमेषोऽत्राऽऽहवनीयो यतः प्रणी. यते स गार्हपत्य इत्यनेनैव सिध्यतीति चेन्न । एतत्सूत्रस्य तत्रस्थेना।तिशब्देन पाशु- कमात्रपरतायाः प्रदर्शनेन सबनीयपुरोडाशयागस्य पांशुकत्वाभावेन' पारेमाषाया अप्रीप्तौ तत्प्रापणार्थ शालामुखीयं गार्हपत्यकाम्योऽन्ववस्यन्ति तस्मिन्गार्हपत्यकर्माणि क्रियन्त इति परिभाषाया अवश्यमपेक्षितत्वात् । नवं वैसर्जनहोमादिष्वपि परिभाष- थैव सिध्यतीति वाच्यम् । तथा सति तत्र तत्र शालामुखीयग्रहणस्य निर्हेतुकत्वापत्तेः। नच वैसर्जनहोमादिष्वपि कस्याप्यग्नेः श्रवणं माऽस्त्विति वाच्यम् । माहवनीये जहा हूयन्त इति परिभाषयाऽऽहवनीयप्राप्त्यापत्तेः । शालामुखीय गार्हपत्यकर्मभ्योऽन्व- स्यन्ति तस्मिन्गाहपत्यकाणि क्रियन्त इति सूत्राच्छालामुखीये गार्हपत्यकर्मप्रवृत्तिरसत्यापाढविरचितं श्रौतसूत्र- [सप्तमप्र-ने- मेषोमप्रणयनमारभ्यैव नत्वन्वाधानमारम्येत्येतादृशार्थाङ्गीकारे शालामुखीयस्य गाई- पत्यत्वेनान्याधानमेव न स्यात्, गार्हपत्यत्वस्यैवाभावात् । इष्टापत्तौ तु प्रकृतकर्मण्यनु- पयुक्तस्य शालामुखीयस्यान्वाधानाभावश्चाऽऽपयेत । अत्रापीष्टापत्तौ शालामुखीययोने- रामोधीयस्यामेरप्यूपयोगसत्त्वेन तस्यानन्याहिततापत्तिरित्येवं महान्विलन आपद्येत । मतो हेतुपरत्वमेवेतस्य युक्तमिति सुस्थम् । आइयनीय भानाधीयभागे विद्यमानेऽपि तदानोमेव गार्हपत्यादृष्टसंक्रमणात्तत्र कोपपत्तिर्यपाऽऽपस्तम्बीयैः कृता तथाऽ. स्माभिरपि कर्तव्या । एतेन सोमसंबन्ध्यभिप्रणयनप्रकरणस्य एष सोमस्याऽऽहवनीयो यतः प्रणीयते स गार्हपत्य इत्यापस्तम्बसूत्रे, सत्यापादभरद्वाजयोस्तु मतादाग्नीधप्रणय- नात्परत एव तत्र गाईपत्यकर्माणीति द्रष्टव्यमिति सत्यापादभरद्वाजसूत्राशयमज्ञा. स्वाऽऽपस्तम्बसूत्रविरुद्धमर्थ वर्णयन्तो धतरामाण्डाररुद्रदत्ताः परास्ताः ।

समपिव्रतान्ह्वयध्वमिति संप्रेष्यति ।

परिकर्मिण ऋखिनो वाऽत्र प्रेष्याः । अपि समुचितं सपिण्डसहकृतं ब्रतमेकपाक- संभोजन येषां ज्ञातीनां तान् । अथवाऽपिशब्दस्तुल्यत्वार्थकस्तुल्यमेकपाकाशित्वरूप व्रतं येषां तानिति । संवयध्वमायतेति प्रैषार्थः । परपस्यायनार्थत्वादुबै स्त्वम् । उप. सर्गस्य क्रियायामन्वयः । व्यवहिताश्चेति सूत्रादुपसर्गक्रिययोर्मध्ये पदान्तरन्यवधानं न विरुष्यते । एतस्य प्रेषस्य शाखान्तरीयत्वाच्छन्दस्त्वमस्त्येव ।

तꣳ ह्वयन्ते यजमानस्यामात्यान् ।

सहयन्त आवयन्ति यजमानस्यामात्याज्ञातीनित्यर्थः । परिकमिण ऋखिनो वेति शेषः । नहुवचनं परिकर्दाविनामन्यतमप्राप्त्यर्थम् । सहयन्त इत्यत्र निसमुपविभ्यो ह इत्यात्मनेपदम् । अमात्या इति पाठे प्रथमा द्वितीयार्थे । ममात्यशब्द एकपाका शिसगोत्रज्ञातिपरः ।

अध्वर्युं यजमानोऽन्वारभते यजमानं पत्नी पत्नीं यजमानस्यामात्याः ।

अध्वर्यु यजमानोऽन्वारभते तं पत्नीति लच्छब्देनैव यजमानपरामर्शसिद्धौ पुनर्यजमान- ग्रहणं तच्छब्दस्य सर्वनामत्वेन बुद्धिस्थपरामशिस्वात्कदाचिदादावुपस्थित्वन मुख्यत्व- मादायाचोळवहितस्यापि तस्यैवान्यारम्म इति शङ्का दूरीकर्तुम् । यजमानं पत्नी तां यजमानस्यामात्या इत्यत्र तच्छब्देनव पल्याः परामर्शसिद्धौ पुनः पत्नीपदोपादान- भनेकपत्नीसत्त्वे सर्वासामप्यन्यारम्भार्थम् । अन्यथा तच्छन्दस्य प्रधानपरामर्शित्वमादाय ज्येष्ठया न विनेतरा इतिशास्त्रात्परायं कर्म कर्तव्य ज्येष्ठयेव न चान्ययेति शास्त्राच ज्येष्ठाया एवं प्रधानत्वेन तस्या एवान्वारम्भः स्यात्स मा मूर्तिकंतु सर्वा अध्यत्रान्वार- 2 १.ज.म मायाः। (म०पटलः ] . गोपीनाथमदृकृतज्योत्साव्याख्यासमेतम् । ७३९ मेयुरिस्थेतदर्थम् । सर्वा अपि पत्नयो यनमानमेवान्वारमन्ते सवर्णा असवर्णाश्च । सर्वा भाप पस्नीरमात्या अन्वारभन्ते । पत्नीशनग्रहणादाधानोत्तरं योद्वा तस्या भग्न्या- धानाधसंबद्धतायां यज्ञसंयोगप्रयुक्तस्य पत्नीत्वस्य पत्युनों यज्ञसंयोग इति पाणिनि- प्रोक्तस्याभावेन न पत्नीत्वेन ग्रहणं किंस्वमात्यत्वेनैव । यनमानस्यामात्या इत्यत्र यन- मानग्रहणमध्वर्युव्यावृत्यर्थम् । अमात्या भ्रातृमुत्रादयः, भ्रातृपुत्रादीनां पत्नया, अप्रत्ताः कन्याश्च । प्रत्तानां गोत्रान्तरसंक्रा(क)मान्न ग्रहणम् । पत्नीमेवान्वारभन्तेऽ मात्या नान्योन्यमिति पत्नी पनमानस्यामात्या इत्यस्याः ।

तानहतेन वाससा प्रच्छाद्य प्रचरण्यां चतुर्गृहीतं गृहीत्वा प्रच्छादनार्थस्य वासस्ते दशायाꣳ हिरण्यं बद्ध्वाऽज्येऽवधाय स्रुग्दण्डे वाससोऽन्तमुपनियम्य शालामुखीये वैसर्जनौ जुहोति त्वꣳ सोम तनूकृद्भ्य इति पूर्वामाहुतिं जुहोति जुषाणो अप्तुराज्यस्य वेतु स्वाहेति द्वितीयाम् ।

तानमात्यान्यजमानादीन्वा । तानिति तच्छब्देनाध्वर्युरात्मानं न प्रच्छादयेदिति गम्यते । ईषद्धीतं नवं श्वेतमित्यादिलक्षणलक्षितेन वाससाऽऽच्छादनपर्याप्तेन प्रच्छाय प्रकर्षेण च्छादयित्वेत्यर्थः । छादनं शिरसा शिरःस च्छादितेषु अमात्या छादिता भवन्ति । सर्वेषु गात्रेषु शिरसः प्रधानत्वात् । यथा शिरांसि नं दृश्यन्ते तथा छादये- दिति प्रकर्षः । प्रचर्यतेऽपूर्वो होमः क्रियतेऽनयेति प्रचरणी । योगरूर पदं, तस्या चतुर्ग्रहीतमाज्यं सुवेण गृहीत्वा प्रच्छादनार्थ तस्य वासप्तो दशाऽञ्चलस्तत्र हिरण्यं निक्षिप्य सुचः प्रचरण्या दण्डः सुदण्डस्तस्मिन्याससोऽन्तमुपनियम्य संश्लिष्टं धृत्वा यथा न चलति, शालामुखीयेऽग्नाववान्तरदीक्षा विसृज्यते याभ्यामिति वैनर्जनौ वैस. जननामको होमौ जुहोति । तत्र स्वर सोम तन्कृय इति पूर्वी प्रधमा वैसर्जनाहुतिः । जुषाणो अप्नुरिति द्वितीया । होमार्थ पात्रासादनपवित्रकरणप्रोक्षणीसंस्कारसुवाचरणी संमार्गान्यसंस्कारान्कृत्वा कर्तव्यो । प्रच्छादनार्थस्येति वचनमन्यवासोव्यावृत्त्यर्थम् । दशायामिति वचनं दशारहितप्रान्तव्यावृत्त्यर्षम् । दशायामिति सप्तमीनिर्देशाद्दशाया- मन्येन सूत्रेण दर्भेण वा बन्धनं नतु दशयैव बन्धनम् । एतच्च हिरण्यं वलयाकृति सच्छिदं वा भवति योग्यतया यथा घटमानयेति सामान्यत उक्तेऽपि योग्य एवं घट भानीयते तथा । सच्छिद्रपक्षे सूत्रं प्रोतं कृत्वा तत्सूत्रेण दशायां बन्धनीयम् । दशयेत्येकवचनादेकस्यामेव हवायां बशायां बन्धनम् । जात्पभिप्राय वैकवचनम् । तेन बोष्वपि दशासु बन्धनमसंभवे सिद्धं भवति । शालामुखीयग्रहणमाहवनीये जुह्वा हूयन्त इतिपरिभाषाप्राप्ताहवनीय कार्यकार्योंत्तरवेदिकस्य निवृत्त्यर्थम् । सत्यापाढविरचितं श्रौतसूत्रं- [७ सप्तमप्रक्षे-

शेषमाज्यस्य करोति ।

पूर्वाहतिः स्वद्वयपरिमितेनाऽऽज्येन । द्वितीयाऽऽहुतिस्तु बिन्दुमात्रपरिमितेनाss. ज्येन । नुवदयपरिमितमाज्यशेषं करोति स्थापयतीत्यर्थः । वरूथर स्वाहेत्यन्तः पूर्वो मन्त्रः। द्वितीयस्तु कृत्स्न एव ' पठितः । आन्यशेषकरणादेकदेशेन होमो भवति । भप्तुराज्यस्य वेतु स्वाहेति लिङ्गादि गम्यते बिन्दुमात्राज्याहुतिद्वितीया भवतीति । स्पष्टं लिकं प्रदर्शयितुमेव कृत्स्न मन्त्रपाठः । बौधायनोऽमुमर्थ स्पष्टमेवाऽऽह-अथ सुवे- णाप्तुं प्रस्कन्दयतीति । प्रचरण्यां चतुर्गृहीतं गृहीत्वा वैतर्जनी जहाँतीति सूचवाऽहु. तिद्वयस्य विहितत्वात्वस्य बौधायनोक्तस्य नाङ्गीकारः ।

शालामुखीयेऽग्निप्रणयनान्यादीपयति सिकताश्चोपयमनीरुपकल्पयत उद्यच्छतीध्ममुपयच्छ त्युपयमनीरुपयते धार्यमाणे ।। २२ ।। अग्नीषोमाभ्यां प्रणीयमानाभ्यामनुब्रूहीति संप्रेष्यति प्रणीयमानाभ्यामनुब्रूहीति वा ।

अग्निः प्रणीयते यः काढुस्तानि शालामुखीये प्रज्वालयति । प्रकृतगार्हपत्यादेवाया र्थाय प्राप्तमायुद्धरणं बाधितुं शालामुखीय इत्युक्तम् । सिकता वालुका एवोषयमनीरुप- यम्यते प्रदीप्तोऽग्निाभिस्ता उपयमन्यस्ता यथोपयमनसमर्थाः स्युस्तथा पात्रेण धृताः करोति । कारोऽवधारणार्थः । तेन सिकता एवोपयमनीरुपकल्पयत इत्यर्थों मवति । न च पकारस्य प्रसिद्धसमुच्चयार्थकत्वं परित्यज्यावधारणाकत्वस्वीकरणमयुक्तं, तथा चोपयमन्यः सिकतातो भिन्ना एवं मवन्तीति वाच्यम् । उपयमनीरुपनिषपतीति सिक- तानामेवोपवापयोग्यत्वारिसकता उपयमनीः कृत्वेति भरद्वाजोत सिकताभिरुपयम्यस्या- पस्तम्बोक्तेश्चात्रावधारणार्थत्वस्यैव युक्तत्वात् । यान्यपि(नि)प्रणयनान्यादीप्तानि तान्येव समुदायापन्नानीम इत्युच्यते, काष्ठान्यवेमो नतु संस्कारनिमित्तः शब्द इति दर्शितम्, इध्ममुद्यच्छति समूहोकृत्योर्ष धारयति । उपयच्छति सिकताः शरावगृहीताः प्रदिप्ते. ध्मस्य संवरणार्थमुप समोपे यच्छति अयस्ताद्धारयति यथोद्यम्यमानोऽग्निर्न विशीर्थता. धस्ताच न पतेत् । उपयत उपयमनीभिर्यमिते धार्यमाण इध्म उपरीत्यर्थः । अन्यत्स्स. ष्टम् । अत्र हौत्र याजुयहोत्रसत्वेऽपि आश्वलायनीयमेव ।

त्रिरनूक्तायामयं नो अग्निरित्यग्निप्रथमाः सोमप्रथमा वा प्राञ्चो गच्छन्ति ।

उपस्थितत्वात्प्रथमवत्रिरनूक्ता भवति । तपैपापठदापस्तम्म:- मायां त्रिरनूक्ताया. मिति । अग्निः प्रथमः पूः येषां तेऽग्निप्रथमा । अस्मिन्पक्षेऽोः पश्चात्सोमस्तत्पश्चाबहु- ख. ग. *च्यमाने का 1 . ८म-पटकः ] गोपीनाथमहकृतज्योत्साव्याख्यासमेतम् । वचनोपात्ता अध्वर्युब्रह्मयममानाः। सोमः प्रथमः पूर्वो येषां ते सोमप्रथमाः । अस्मिन्पक्षे सोमस्य पश्चादमिस्तत्पश्रादध्वर्युबमयनमानाः । प्राञ्चः प्राङ्मुखाः । अयं नो अग्नि रिति मन्त्रेण गच्छन्ति । त्रयाणां मन्त्रः । पत्न्या अपीति केचित् । अत्राऽऽह बौधायनः कौन्ते-संप्रच्छन्नाचैव गच्छेयुराहवनीयादिति । आ, आयनीयादिति पदच्छेदः । आहवनीयपर्यन्तमित्यर्थः । होतुर्वशं वन्तीति बौधायनः । शास्त्रान्तरे वैसर्ननहोमवासोऽ. ध्वर्युगुलानीति विधानादध्वर्युणा तस्य वासतो ग्रहण कार्य, यजमानेनादत्तस्य ग्रहणा- योगादानमर्थसिद्धम् । मीमांसकास्तु लोभमूलकत्वादेतच्छान्नं न प्रमाण तथा च न वासो- ग्रहणध्वयोः, अतो दानमपि नेत्याहुः । अयं न्यायः प्रथमाध्याये तृतीयमादे, अमि. निना हेतुदर्शनाचेत्यनेन सूत्रेणोक्तः । इन सूत्रं विरोधे स्वनसं स्याइसति अनुमान- मिति पूर्वस्त्रस्यैव शेष इति भाम्पमतम् । वातिककारमते भिन्नमेवेति भेदो शेयः । श्रुतिविरोधे यन्मानान्तरानपेक्ष श्रुतिवाक्यं तदेव प्रमाणं स्यान्नतु स्मृतिवाक्यं यस्मान सत्येव विरोधे स्मृतेः श्रुत्य नुमापकत्वादिति विरोचे स्वनेपेक्षं स्यादसति हनुमानमि- त्येतत्सूत्रस्यार्थः । हेतुदर्शनाछोभरूप हेतु दर्शनात् । ः पूर्वसूत्रोक्तहेतुसमुसायक इति हेतुदर्शनाचेस्येतत्सूत्रस्यार्थः । वाजसाताविति मन्त्रान्तः ।

यथार्थमनुनयन्ति ।

भय प्रयोजनमनातकम्प यथार्थमनु अग्नीपोमावन नयन्ति प्रावादीनि परिकर्मिण इत्यर्थः । मावादीनामादावामोधोये स्थापयिष्यमाणत्वास वादीन्येव पुरो नयन्ति । ततः पश्चादातिथ्यावहिः। तस्यैव प्रथमं स्तरणरूपकार्योपस्थितः । तत इध्मं नयन्ति । तस्यैवानन्तरमभ्याधानरूपकार्योपस्थितः । तत आग्यानि । तेषामेवानन्तरं होमरूपका- योपस्थितेः । मावादीनामनन्तरमुपयोगात्तत एतेषां नयनम्। अवनस्वादनुनयन्तीत्येवं वचनं, बहुवचनास्परिकर्मिणः ।

अनुगच्छन्त्यमात्याः।

एतान्यदार्थाननु पश्चाद्गच्छन्तीत्यर्थः ! पूर्वत्रान्वारम्भविधानादुत्तरत्र यथेतममात्याः प्रतिगच्छन्तीतिविधानाचार्यादेवानुगमनेऽमात्यानां सिद्ध इदं वचनं होमोत्तरमन्त्रारम्भ- परिसंख्यामनुगमनमात्रं भवति नत्वबारम्भोऽपीति । अनुगुणज्ञापनज्ञानत्वादनुगच्छ . सीत्येवं वचनम् ।

अनुनयन्त्यग्नीषोमीयम् ।

अनुगच्छन्त्यमात्या इत्येतदुत्तरं वचनादग्नोपोमीयपशोरमात्याननु नयनं, पशुत्वा- दनुनयन्तीत्येवं वचने, बहुवचनात्परिकर्मिणः । अत एव पशोबलिष्ठत्वं गम्यते । १. ज. श. म. द. नुन्ति । ७४२ सत्यापादविरचितं श्रौतसूत्रं- [७ सप्तमप्रभे-

आग्नीध्रीय एतमग्निं प्रतिष्ठाप्याग्ने नयेति नयवत्यर्चाऽऽग्नीध्रे जुहोति ।

आनोधोये विष्णिय एतं प्रणीतमग्निं विष्ण्यसंमुखो भूत्वा स्थापयेदित्यर्थः । मध्य- माम आत्माभिमुखतया स्थापनं बोधयितुं प्रतिः । अत्र प्राङ्मुखनैव नोदङ्मुखता । म विहारादुपपर्यावर्तत इति निषेधात् । अग्न्यायतनं गोमयेनोपलिप्प स्फ्येनोद्धत्यावो- क्ष्यायमग्निः स्थापनीयः सार्वत्रिकमिति वचनाद्यत्र यत्राग्निरायतने स्थाप्यते तत्र गोम- योपलेपनोद्धननावोक्षणानि कर्तव्यानि । अग्ने नयेत्युक्, नयेतिपदबत्वान्नयवती । नयव- स्यर्चाऽऽग्नीधे जुहोतीति श्रुतिरपि । इदं च विशेषण ज्ञानार्थ, ज्ञानाभावे दक्षिणामौ यजुर्भेषप्रायश्चित्तं कर्तव्यम् । ऋग्ग्रहणप्रयोजनमतिच्छन्दसर्चा मिमीत इत्यत्र यथोक्तं तद्वन्झयम् । तस्मिञ्जुहोतीत्येतावतैव तस्याः संप्रत्ययसिद्धावाग्नीध्र इति वचनमानी- धीयधिष्णियस्थापितोऽग्निरामीसंज्ञो भवतीति । संज्ञायाः प्रयोजनं यज्ञतनूरानीधे जुहोतीत्यादावतस्याग्नेः संप्रत्ययः । विधेति मन्त्रान्तः । जुहोतिचोदितत्वात्स्वाहाकारः । पक्ष्यमाणावपि होमों वैसर्जनसंज्ञकावेव । सुवर्गीय वा एतानि लोकाय हूयन्ते यद्वैतर्ज- नानि द्वाभ्यां गार्हपत्ये जुहोति द्विपायजमानः प्रतिष्ठित्या आनो जुहोत्यन्तरिक्ष एवाऽऽक्रमत आहवनीयें जुहोति सुवर्गमेवेनं लोकं गमयतीति श्रुतेः ।

शेषमाज्यस्य करोति ।

द्वौ वाववशिष्टौ तयोरेकस्नुवपरिमितेनाग्ने नयेत्याहुति हुसैकसुचपरिमितमाज्यमव- शेषयतीत्यर्थः।

निदधति ग्राव्णो वायव्यानि द्रोणकलशं चमसांश्च ।

आग्नीधीय इति शेषः । चकारः सोमस्थालीपूतमृदाधवनीयपरिप्लवैकधनाकलशपन्ने- मनीकलशवसतीवरीकल शदशापवित्रोदचनानां समुच्चयार्थः । त्रुवस्य त्वम पयोगा- स्नुग्भिः सह नयनम् ।

अतिहरन्तीतराणि।

अत्रातिरग्र इत्य] । तथा चाऽऽग्नीधीयस्याग्रेऽपीतराणि आतिथ्यावहिरिध्माज्यानि नुवं पशु चोत्तरवेदिपर्यन्तं हरन्तीत्यर्थः । प्रायश्चित्तपशुप्सले तावपि अग्रे हरन्ति । .. पुरोर्थको वा । अस्मिन्कोऽनोषोपयोरयत एवं हरणामितरेषाम् । अनुहरन्तीतराणीति पाठ इतरेषामप्यनुनयनमेव ।

उत्तरेणाऽऽग्नीध्रीयं धिष्णियं परीत्योरु विष्णो विक्रमस्वेत्यौत्तरवेदिके जुहोति ।

विष्णियग्रहणं मण्डपव्यावृत्त्यर्थम् । परीत्येत्यस्याऽऽग्नीधं परिक्रम्य दक्षिणतो गत्वा जुहोतीत्येतादृशार्थविवक्षपाऽऽनधिस्यापि प्राप्तिसंभवेन तद्वारणाय तब्रहणस्याss. ...ज., म.ड, दधाति । २ ख. व. ग्रहण' । (म0पटउः ] गोपीनाथमहकृतज्योत्पाष्याख्यासमेतम् । ७४३ यकत्वात् । औत्तरवेदिक प्रति गमनमाथिकं तद्विना होमासंभवात् । अत्र सज्यि-, म उत्तरत्र विनियोगाभावात् । आपस्तम्बः स्पष्टमेवाऽऽह-उरु विष्णो विक्रम- वति सर्वमाज्यशेष जुहोतीति । तिरेति मन्त्रान्तः । जुहोतिचोदितत्वात्स्वाहाकारः ।

यथेतममात्याः प्रतिगच्छन्ति ।

इतमनतिक्रम्य यथेतम् । अव्ययीभावासमासोऽयम् । येन मार्गेण गमनं पूर्व कृतं नैव मार्गेगामात्याः प्रतिगच्छेयरित्यर्थः । आज्यबाहिरिमानामादातारस्तु तत्तदुपयो- गपर्यन्तमुत्तर दिसमीप एवावतिष्ठन्ते । अग्नीषोमीयपशोनेताऽप्योपाकरणकालादवति- त एव । ऐन्द्राग्नाश्चिनपशुसत्त्वे तयोर्नेतराषप्यु(प्यो)पाकरणकालादवतिलेते । सुर. सितानि सादयित्वा वैते सर्वे गच्छेयुः ।

सोमो जिगाति गातुविदिति सौम्यर्चाऽपरेण द्वारेण हविर्धाने ब्रह्मा राजानं प्रपादयति ।

सौम्यति पूर्ववद्याख्येयम् । प्रपादयति प्रवेशयति । अत्र वचनं प्रयोगक्रमक्षा- नाथ यदा राज्ञः प्रपादनं तदैव पक्ष्यमाणोऽध्वयोर्हविर्धाने प्रवेशो न तत्पूर्वमिति । बालस्वसूत्रे राजानं प्रत्यादाय सोमो जिगाति गातुविदिति सौम्यर्चाऽपरेण द्वारेण हविधीने प्रविश्यावर्य राजान, प्रदाय यषेत प्रत्येत्यापरणोत्तरवेदिमतिक्रम्य दक्षिणत उपविशतीति ब्रह्मकर्तृकमेवाध्वर्यवे राक्षः प्रदानं विधास्यमानम् । अनेन तु प्रयोजक- कर्तृवं विधीयते । तथा च ब्रह्मा मन्नं खयमुक्त्वा येन केनापि परिकर्मिणा पूर्वेग द्वारेण हविर्धाने राज्ञः प्रवेशनमा सेनवार्यवे राज्ञः प्रदानं च कारयेदिति । एवं ष द्वयोविरोधाद्विकल्पः । अत्र मन्त्रवचन मन्त्रावचनात्पक्षे तूष्णीत्वमपि स्यात्तब्यान वर्तयितुम् । अब्रोति पदच्छेदो वाऽत्रापि । अर्थस्तु स्पष्टः । अस्मिन्व्याख्यानेऽपि पत्रवचनं ब्रह्मव्यतिरिक्तारवगमपेक्षितमेव । अत्रायं पिण्डितोऽर्थ:- -यदा तु बक्षक- र्तृकमध्वर्य प्रदानं तदा पूर्वेण गतश्रिय इत्येतन्न भवति किं तु ब्रह्मकर्तृकप्रदानमात्र एवेति पूर्वव्याख्यायाम् । यदा तु ब्रह्मव्यतिरिक्तत्विकर्तृकता स्वी क्रियते तदैव पूर्वेण गतश्रिय इत्येतद्भवति नतु ब्रह्मकर्तृकता यामित्येतद्वितीयव्याख्यायामिति ।'

पूर्वेण गतश्रियः।

द्वारेणेति पूर्वसूत्राहिशेष्यस्यानुवृत्तिः । गता प्राप्ता श्रीर्य तस्य गतश्रियः । एताह शस्य यजमानस्योक्तव्यवस्थानुसारेण पूर्वेण हविर्धाने राज्ञः प्रपादनम् । ये गत्यर्थाम्ते प्राप्त्यर्था इति शास्त्रमर्यादया गमनार्थकधातोः प्राप्त्यर्थकावं ज्ञेयम् । गतश्रीशब्द. 'त्रयो वै गतश्रियः शुश्रुवान्यामणी राजन्यः' इति श्रुत्युक्ता प्रायाः । बाच्या १ ख, ग, क्रियेत। सत्यापाढविरचितं श्रौतसूत्र- [७ सप्तमप्रमे- शुभ्रवान्वेदत्रयाध्यायी । अहे बुनिय मन्त्रं मे गोपाय, यमृषयस्त्रयिविदा विदुः, ऋचः सामानि यषि, सा हि श्रीरमृतां सताम् , इति मन्त्रवर्णात् । प्रामणीमाधिका- रीति यावत् । अभिषिक्तः क्षत्रियो राजन्यः । एतेषां प्रयाणां पूर्वेण द्वारेण प्रपाद. नम् । आसमिति मन्त्रान्तः ।

उर्वन्तरिक्षमन्वेमीति पूर्वेणाध्वर्युः प्रविश्यादित्याः सदोऽसीति दक्षिणस्य हविर्धानस्य नीडे कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमाऽऽस्तृणाति ।

अत्रापि द्वारेणेत्यस्य विशेष्यानुवृत्तिः । स्वशाखादृष्टस्यान्विहीति पाठस्य प्राप्तिः स्यात्सा मा भूदित्येतदर्थमन्वेमीत्यस्य पाठः । पूर्वेणेति वचनं नियमाथै गतश्रियोऽग- तश्रियो वाऽपि यजमानस्य क्रतो पूर्वेणवाध्वर्थोः प्रवेशो न तु पूर्वव्यवस्थानुसारेणेति । अध्वर्युग्रहणं ब्रह्मवावृत्त्यर्थम् । दक्षिणग्रहणमुत्तरल्यावृत्त्यर्थम् । अन्यत्सोमक्रयवद्या- रूपेयम् ।

प्रत्तꣳ राजानमदित्याः सद आसीदेति तस्मिन्नासादयति ।

इदमपि तद्वव्याख्येयम् ।

प्रोक्षणीरभिमन्त्र्य ब्रह्माणमामन्त्र्येध्मं वेदिं च प्रोक्ष्य प्रोक्षण्यवशेषं निनीय पवित्रे अपिसृज्यापरेणोत्तरवेदिं मन्त्रेण बर्हिः स्तृणाति यया दर्शपूर्णमासयोः ।

उक्तेतरपरिसंख्याथमनुकमणम् । आपो देवरित्यभिमन्य ब्रह्मन्प्रोक्षिप्यामीति बमाणमामव्य । आमन्त्रणेन प्रसवोऽप्युपलक्ष्यते । अन्यथाऽऽमन्त्रणस्य वैयर्यापत्तेः। वेदश्छन्नत्वादेष्टिकपोसणलोपः पायेत तन्निवृत्त्यर्थ वेदिवचनम् । भत्र वेदिराति - ध्यार्थचाहिःस्तरणं यत्र कर्तव्य भवति तावस्परिमितेव विवक्षिता न कृत्स्ना महावे. दिरिवि । यहिषः प्रोक्षितत्वात् । प्रोक्षणस्य चादृष्टार्थत्वेन प्रोक्षणजन्यादृष्टस्य निष्प- बलेन , पुनःमोक्षणप्रयोजनाभावात्प्रोक्षणादिप्रयोजनामाववदास्तरणस्य दृष्ट कार्यत्वेन तथा वमशक्यत्वादास्तरणे सिद्धे प्रोक्षणाभावादमश्रकमेव स्तरणमाशयेत तां शङ्कां वारयितं मन्त्रेगेति । प्रोक्षणायभावतु यज्ञोत्पत्युपदेशे निष्ठितकर्म- प्रयोगभेदात्प्रतितत्र क्रियतेति सूत्रेण द्वादशाध्याये प्रथमे पादे नैमिनिनाऽपि प्रोक्तः । पातिथ्याया वहिस्तदुपसदा तदग्नीषोमीपस्येत्येतत्सूत्रव्याख्यानावप्सर इदं सूत्र व्यारूपातम् । बहिप्पोक्षणविश्यमाव एव मन्त्रग्रहणं सप्रयोननं भवति । अत एवं बहिष्पदघटिमः पाठ आधुनिकक्षित एवेति ज्ञायते । देशपृथक्त्वामन्त्राऽप्यावर्तत . । १२.जम. म इ. पद बाँहश्व श्री। एस, ग. 'या। ! (अपटलः ] गोपीनाथमट्टकृतज्योत्साध्याख्यासमेतम् । "७४५ इति सूत्रेण द्वादशाध्याये प्रथमे पादे नैमिनिनाऽपि समन्त्रकं स्तरणमुक्तं, सूत्रार्थस्तु स्पष्ट एव । बाह साधारण्यात्प्रसङ्गप्राप्ताविदमुच्यते । देशपृथक्त्वादित्यनेनेदं बोध्यते बहिरर्थस्तरणमिदं न भवति किं तु बहिषा वेदि स्तृणातीति द्वितीयानिशात्प्रयोजन. वत्त्वाच वेदिवेशसंस्कारार्थमिति । मिनी चेह प्राग्वंशोत्तरदिदेशसमीपदेशौ तेन तदर्थ स्तरणं तदङ्ग च मन्त्रोऽप्यावर्तते । असत्यामावृत्ती वेदिवैगुण्यादोषोमीयहवि पामासादनं विगुगं स्यात् । भवतु वा बहिरर्थ स्तरणं बर्हिषि स्तीर्णे हवींषि साक्षा- दासायन्त इति तथाऽपि तदावृत्तेस्तदङ्गमन्त्रावृत्तिः । अन्यथा झमन्त्रास्तीण बहिषि हवापि साधेरनिति । अन्तदि पुरोग्रन्थीत्यादिकं प्रत्युक्षणात निवर्तते । तूष्णीं- गृहीत एवं प्रस्तरे यजमाने प्राणापानौ दधामीति पवित्र अपिस नति । परिने अपि- सूज्येति ल्यपा ब्रह्मणे प्रस्तरमदानमाहवनीयकरुपनं च पावत्यते । तेन प्रस्तरं धृत्वैव बहिरास्तरणं कम्पिमिति सिद्ध मवति । स्तोर्गन महिनाऽन्तरितस्वात्तगैरन्त- धीनं न । शुस्वस्तरणं तु भवत्येव । तस्य बहिरासतरणात्वेनाव्यवधायकत्वात् । अपरेणोत्तरवेदिमिति वचनमुत्तवेद्याः समीपेअरमाग एतस्य बहिषः स्तरणं न तु सोमार्थबहिःस्तरणवदुत्तरदिपाश्रद्वयेऽपि स्तरममित्येतदर्थम् । एनप्प्रत्ययेनोत्तर देई. रस्थोऽपरभागो इविनिमारम्प कृरस्नो व्यावयते । एवं घोत्तरवेदिसमीपप्रदेशे हवि- निमण्डपावधि के बहिः स्तृणातीत्यर्थः सिध्यति । ननु मगति वचनं सौमिकस्तरण- वत्तीत्वस्याऽऽधाय इत्यस्य मन्त्रस्य च प्राप्तिः स्यात्सा मा भूहिक तु प्राकृत एव मन्त्रः स्यादित्येतदर्थमस्त्विति चेन । एतस्य बहिषः केवळपश्चर्यत्वेन सौमिकस्तरणधर्माणां प्राप्तरेवासंभवेन तन्निवृत्तिरूपप्रयोजनासंमात् । एवं च पोक्तमेत प्रयोजनम् । पषा दर्शपूर्णमासयोरित्यनेन प्रयगपतर्गस्वादयो धर्मा अविदिश्यन्ते । नन्बनेनैव मत्रप्राप्ति- रपि भविष्यति किमर्थ मन्त्रेणेति चेत्सत्यम् । सौमि के स्तरगे व्यभिचारदर्शनेन मने- गेति वचन विना निर्वाहामावात् ।

सन्नेष्वाज्येषु यूपसंमानेन प्रतिपद्यते ।

मन्नेवाग्वैचित्यनेनानूयाना उरमुख उद्द)ोस्येतदादिक मूचितं भवति । वेद्यास्वरणानन्तरं प्लाशाखास्तरणं बहिपि । तथोक्तं कात्यायनीये बहिषि प्लक्षशाखां स्तृणातीति । यूपसंपानमन्निनाऽग्निष्ठा सदिश मिनोतीत्येतत्कर्म तेनोपलक्षितं सर्वमपि कर्म यूपसमानं देवस्य खेत्यभ्रयादानादि स्वविगृहनान्तं तेन प्रतिपद्यते तत्करोतीत्यर्थः ।

अग्नीषोमीयं पशुमुपाकरोति ।। २। ।। स व्याख्यातरूपः ।

व्याख्यातं सां यस्य स व्याख्यातरूपः । महोतबहि: पक्षशाखाभिरमीषोमदेव- तोद्देशेन पशुं स्टशन्संकल्प यतीत्यर्थः । स व्याख्यातरूप इत्यनेन यो राज्ञ आतिथ्या- ये पक्लुतः स एवोपाकरणीयो नत्वातिश्यायैव स उपाकरणार्थपन्य इति बोध्यते : 1 ७४६ सत्यापाढविरचितं श्रौतसूत्रं- [सप्तमप्र- नन्वेवं सति स व्याख्यात इत्येतावदेव वक्तव्यं रूप निरर्थकमिति चेन्न । सर्वेक्तेषु लक्षणेषु लोहः कृष्णश्वेतो लोहितश्वेत इत्येतेषां वर्णानामत्यावश्यकत्वार्थज्ञापनार्यत्वेन सार्थक्यात् । फलं सर्वलक्षणलक्षितपशोलोंभे लोहत्वादिभिर्न चारितार्थम् । कदाचित चारितार्थ कृते प्राकृते प्रायश्चित्तं काव्यमेव । तादृशपश्वलामवशेन केवललोहत्त्वादि.. विशिष्टयैव पोग्रहणे तु प्रायश्चितं नेति द्रष्टव्यम् । छागलक्ष कात्यायनपरिशिष्टे- अथातः संप्रवक्ष्यामि च्छागानां लक्षणं शुभम् । अशुभं चैव वानां तत्प्रवक्ष्याम्यत : परम् ॥ एकवर्णो द्विवर्णश्व बहुवर्णस्तथैव च । रोहितो यस्तु वै छागः स पठः कुलमुद्धरेत् ।। यस्तु श्वेतमुखश्चागः कृष्णग्रोवः सितोदरः । पशूनां चैत्र मुरूपः स्यात्पशुकामस्तमालभेत् ॥ मञ्जिष्ठवर्णसंकाशो यच्छृङ्गे चतुरङ्गुले । स च्छागः पालको नाम महान्पालयते धनम् । विकटो वामनो वेहत्साहस्राः पशवस्त्रयः ।। साधयन्ति महायज्ञं महच लभते फलम् । यज्ञे तु दक्षिणे पार्श्वे मण्डलं यस्य वै मकेत् ।। छागः सार्थको नाम सर्वकामफलप्रदः । श्वेतं तु दक्षिणे पार्श्वे भवेदै यस्य मण्डलम् ।। तु स च्छागो विनयो नाम अमित्रदमनः स्मृतः । श्वेत कृष्णः प्रतिष्ठायाः कृष्णः श्वेतैः प्रतिष्ठितः। प्रतिष्ठितौ तु तो छागौ प्रतिष्ठार्थे तु याज्ञिकः । पडु नतः पडावर्तः सकुतिलोम शोदरः ।। निम्बस्त्वरलोमवर्णः स्पाच्छागः सर्वार्थसाधकः । लोहकर्णः पुष्पक! यस्य चैतद्वयं भवेत् ॥ लानाकर्णमार्ग वा शुण्ठ कर्ण तथैव च । तलसप्तशफन्धङ्गशुण्ठाकर्णस्तथैव च ॥ दारिखं पुत्रनाशं च मरणं च तादृशे । एकवर्णास्त्र र पादास्तुरीयस्त यदा भवेत् ।। सच्छागो मुसली नाम अधस्तान्मयते कुलम् । कालालः कृष्णपार्श्वस्तु श्वेतपादौ प्रतिष्ठितः ।। छागो वैश्रवणों नाम नभागस्योपतिष्ठति । कधिचण्डेन्द्रियः क्षीणधेनं वृद्धमजायत । । <अ०पटलः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । ७४७ वार्धाणसं तु तं प्राहुनयेद्यज्ञकर्मणि वर्जयेद्यज्ञकर्मणीति ॥

प्रवरं प्रवृत्याऽऽश्रावमृतुप्रैषादिभिः सौमिकानृत्विजो वृणीते ।

प्रवरं प्रवृत्य प्राकृतं प्रवरं प्रवृत्य । प्रवरं प्रवृत्येति पूर्वकविधिप्रदर्शमायानुवादः । तेनोपाकृत्य पञ्च जुहोतीत्यादि कर्म सिद्धं भवति । सौमिकविवरणरूां विशेष विधातुमप्यपमनुवादः । प्राकृतं देवं मानुषं च वरणं कृत्वेति प्रवरं प्रवृत्येत्यस्यार्थः । आश्राव्याऽऽश्राव्येत्याश्रावम् । आभीक्ष्ण्येऽयं णमुल । तेन प्रतिवरणमाश्रावगासद्धिः । आमीक्ष्ण्यं पौनःपुन्यम् । आश्रावणसंबद्धत्वात्प्रत्याश्रावणमपि प्रतिवरणम् । बौधायनः स्पष्टमेवाऽऽश्रावणं प्रत्याश्रावणं च प्रत्येकं पठितवान्-प्रसिद्ध होतारं वृणोतेऽ. थाऽऽश्रावयत्योश्रावयास्तु श्रापमित्रावरुणौ - प्रशास्तारौ प्रशास्त्रादित्यसौ मानुष इति मैत्रावरुणस्य नाम गृह्णात्यथाऽऽश्रावयत्योश्रावयास्तु श्रौषडिन्द्रो ब्रह्मा ब्राह्म- णादित्यसौ मानुष इति ब्राह्मणाच्छतिनो नाम गृह्णातीत्यादिना संपृश्चानावसंपृञ्चानौ तन्त्र इत्यन्तेन सूत्रेण । ऋतुग्रहार्थमृतुपड़वन्तश्च प्रैषास्ते च मैत्रावरुणेन पठिष्यमाणास्तेषा- मादय ऋतुप्रैषादयस्तैतुप्रैषादिमितुप्रैषप्रतीकरित्यर्थः । सौमिकान्सौमस्येमे सौमिका : सोमसंबन्धिन एतानृविन अतुयाजिनो होत्रादीन्वक्ष्यमाणान्वृणीत इत्यर्थः । अत्रर्तु. शब्द अतुग्रहपरः। तान्यजन्तीत्यत्विजः । ऋतुग्रहयाजिनोऽत्रविनो विवक्षिता इत्यर्थः । प्रकरणादर्थाच्चतेषां सौमिकत्वे सिद्ध इदं वचनं यो होता सोऽध्वर्युः स पोता य उद्गाता स नेष्टा सोऽच्छावाको यो मैत्रावरुणः स ब्रह्मा स प्रतिहर्ता यः प्रस्तोता स ब्राह्मणाच्छ५सी स प्रावस्तुद्यः प्रतिप्रस्थाता सोऽग्नीत्स उन्नेता गृहपतिगृहपतिः सुब्रह्मण्यः सुब्रह्मण्य इति कुण्डपायिनामयनप्रकरणस्थेन सूत्रेणैकस्याने कर्मकर्तृत्वेनानेकर्तुयानित्वेऽप्येकेनैव वरणसिद्धिरेकव्यक्तिकत्वादिति शङ्कां वारयितुं सौमिकानिति व्यक्त्यमेदेऽपि सोमसं. बन्धिकर्तृत्वमुपादाय प्रत्युतुयाज्येव वरणमिति सौमिकमेवेदं वरमं नतु पाशुकमिति. ज्ञापनार्थ च । एतेन स्वतन्त्रपशुष्प्यग्नीषोमीयविकारत्वमपि ज्ञायते । अग्नीषोमायविका. रत्वसत्त एवाग्नीषोमीयपशुतो होत्राग्नीध्राध्वर्युपतिप्रस्थातृमैत्रावरुणयनमानानामेव पाशु. ककर्मणि संभवेन तेषामेव वरणप्रप्तक्तो तन्निवृत्त्यर्थत्वेनैव सौमिकानित्य॒त्विविशेषणस्य सार्थक्यं संभवति नान्यथा । ब्राह्मणाच्छंसिपोतृनेष्ट गामसंभव एव पाशुके कर्मणि । अतस्तेषामप्रसक्तिरेव । एवं च स्वतन्त्रेषु काम्येषु चतुरक्षरनामवद्देवत्येषु तथाभूतेषु सवनीयेषु अनुबन्ध्यायां चाग्नीषोमीयातिदेशोऽपि पक्षे भवतीति सिद्धं भवति । आश्रावमृतुप्रैषादिभिः सौमिकाऋत्विनो वृणीत इति सामान्यप्रतिज्ञा तत्र कथमि. त्याकाङ्क्षा यामाह. 9 सत्यापादविरचितं श्रौतसूत्रं- [सप्तमप्र-

इन्द्रꣳ होत्रात्सजूर्दिव आ पृथिव्या इति होतारम् ।

इन्द्र५ होत्रात्सर्दिव भा पृथिव्या इत्ययमृतुषादिस्ते न सौमिकत्याजिनं होतार वृणीत इत्यर्थः । इन्द्र होत्रात्मजदिन आ पृथिव्येति तृतीयान्तपाठस्त्वपपाठ एव । दिव इति पष्ठीतत्पृथिव्या इत्यत्रापि षष्ठया एव युक्तत्वात् , अतुप्रैष इन्द्र होबारस. जूर्दिव आ पृथिव्या ऋतना सोमं पिबतु होतयंजेति औषे षष्ठया एस श्रवणाच्च । अन्य- भषारिभिरत्येतस्य विरुद्धत्वापत्तेः । नवेन्द्र हो। त्यस्मिनतवेऽनुनासिकपाठाभावेन कथं सानुनाप्तिकस्य षादिस्वमिति वाच्यम् । अनुनासिकस्य प्रायशो यजुर्धर्मो. नाऽऽध्वयो यजुर्धर्मविशिष्ट पादेरेव ग्राह्यत्वात् । नहि निरनुनासिकर्तुप्रैषानुरोधे- नायु गाऽपि तौतादिकम्य इति नियमः । वेवधर्मस्य प्रवचत्वात् । नहि सानुनातिकत्वनिरनुनासिकत्वधर्मभेदेन ऋतुषत्व परवाभावी सिध्यतः । मृगारेष्टे- रग्न्यहोमुगादिदेवतासूमयापत्तेः । तथा चोभयत्राप्यतुषत्वमस्त्येवेति माश्यम हो- कार्यमेवेति सिद्धम् ।

अपिसृज्य तृणमस्फ्य उतरान्वृणीते ।

होतारमृतुप्रैषादिना वृत्वा स्पेन सह धृतं वेदिस्थ तृणे वेद्यामेवापिसज्य भेलयि. खाऽस्फ्यः संनइनसहितस्पयरहितो भूतवोत्तरावश्यमाणावृणीत इत्यर्थः ।

अग्निमाग्नीध्रादित्याग्नीध्रम् ।

सष्टम् ।

अश्विनाऽध्वर्यू आध्वर्यवादित्यात्मानं प्रतिप्रस्थातारं च ।

अध्वर्योः स्ववरणकर्तृत्वादात्मानमित्येवं निर्देशः । अत्र चकारः परस्परसमुच्चयार्थ एक । अन्यस्यासंभवात् ।

मित्रावरुणौ प्रशास्तारौ प्रशास्त्रादिति मैत्रावरुणमिन्द्रो ब्रह्मा ब्राह्मणादिति ब्राह्मणाच्छꣳसिनं मरुतः पोत्रादिति पोतारं ग्नावो नेष्ट्रादिति नेष्टारम् ।

स्पष्टम्

अग्निर्देवीनां विशां पुर एताऽयꣳ सुन्वन्यजमानो मनु ष्याणां तयोरस्थुरि गार्हपत्यं दीदाय गच्छतꣳ हिं मा वायुराधाꣳसीत्संपृञ्चानावसंपृञ्चानौ तन्व इति यजमानम् ।

प्रारणेऽयं विधिः सोऽप्यपूर्व एव । सौमिकानित्यविशेषेणोकेऽपि ऋविनोड. वर्तुयानार्थी एव ग्राह्याः । तथष्ट्रगामेव वरणात्तत्षसंयोगाच्च । एवं चर्तुयानार्थमेत- ११. जअ. म. , "पिति । २ इ. स. ग. 'मिकी । १ .. अ०पटला ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । द्वरणमिति । अत एव-पाशुक एतद्वरणनिवृत्तिः । अत्र केचिदाहुः-सुत्यायां वरण एव सुन्वच्छब्दः, अग्नीषोमीयदिवसे वरणे सुन्वच्छब्दस्य लोप एवेति । सुन्वन्नितिवर्त- मानार्थकशतृप्रत्ययनिर्देशादिति तेषामयमाशयः । अपरे तु अग्नीषोमप्रणयनादूर्ध्व मुन्वच्छब्दस्य प्रवृत्तिवर्तमानसामीप्ये वर्तमानवद्वेति । वर्तमानत्वमादाय, अतो न लोप इत्याहुः । मूत्रकृतोऽयमेवार्थोऽभिप्रेतः ।

जुष्टो वाचो भूयासमित्येताभ्यां प्रवृतः प्रवृतो दूरेत्यनन्तरं प्रवरात् ।

जुष्टो वाचो भूयासमृचा स्तोममित्येताम्यां मन्त्राभ्यां द्वे आहुती यो यः प्रवृतः स से स्वस्वप्रवरणानन्तरमेव जुहोतीत्यर्थः । यत्र मन्त्रगणेन कर्म चोदयेत्प्रतिमन्त्रं तत्र नहुयादिति परिभाषयाऽऽहुतिद्वित्वम् । आद्यस्य पुरस्त्रात्स्वाहाकारत्वात्तेनैव स्वाहाका- रेण होमो न मन्त्रान्तेऽन्यः स्वाहाकारः प्रयोज्यः । तत्स्वाहाकारान्त एवं प्रदान भवति । द्वितीये भवत्येवान्ते स्वाहाकारः । पुरस्तात्स्वाहाकारामावाद्दविहीमधर्मेण होमाः । आहवनीये जुह्वा हूयन्त इति परिभाषया जुह्वा होमे प्राप्ते तस्या व्यापृतत्वा- देतस्य होमस्य सौमिकवरणानत्वात्प्रचरण्याः सोमसंबन्धित्वात्तयैव होमः । पशुसंब- न्धिहोमो वसाहोमहवन्या । प्रवृतः प्रवृत इति वीप्सया सर्वझतुयानिभिः स्वस्वव- रणानन्तरमेताम्यामाहुतिद्वयं होतव्यम् । होत्रादिभिरपि याजुषधर्मेणैव होतव्यम् । एत. योराहुत्योः प्रवरणनिमित्तकत्वात्प्रवृताहुतिसंज्ञा कृताऽऽश्वलायनेन प्रवृताहुतीर्जुवति पषट्कर्तार इति । सूत्रकृताऽपि प्रवृतः प्रवृतो जुहोतीत्यनेनेदं संज्ञांकरणं सूचितमेव ।

हुत्वाऽध्वर्युरुत्तरान्वृणीते ।

अध्वर्युर्तुत्वाऽनन्तरमेवोत्तरान्वृणीते । प्रतिप्रस्थातुः प्रवृताहुत्योः प्रतीक्षा न कर्त- ज्येति भावः । उत्तरान्मत्रावरुणादीन् ।

सवनीय एके प्रवरानामनन्ति ।

अग्नीषोमीये प्रवरकर्तव्यता योक्ता सा तत्र न कर्तव्या किं तु सवमीये पशावेव कर्तव्येत्येक आचार्या वदन्तीत्यर्थः। अच्छावाकस्य न प्रवरणं वचनामावात् । अत एक प्रवृताहुती अपि न । प्रवृताहुती हति, वषटकर्तारोऽन्येऽच्छावाकादित्याश्वला- यनः । अच्छावाकस्य वषट्कर्तृत्वात्प्रवृताहुतिहोमे प्राप्तेऽन्येऽच्छावाकादिति पर्युदासः क्रियते । अध्वर्युप्रतिप्रस्थात्रोर्यजमानस्य च साक्षादपि पक्षे वषट्कर्तृत्वं वक्ष्यत्येव सूत्रकारः स्वयं वा निषद्य यजत इत्यनेन सूत्रेण । प्रबियन्त ऋतुयाजिन ऋतुया- जार्थमाह्वयन्त इति प्रवराः । यद्यप्यतुयाजाः मुत्यायां तथाऽपि अग्नीषोमीये वरणं वचनात् । होत्रादीनां प्रवरणे विशेषमाहाऽऽपस्तम्बः-सर्वत्रोपाशु नामग्रहणमसौ मानुष इत्युच्चैरिति । सर्वेषु प्रवरणेषु तस्ष नाम प्रथमया विभक्त्यापांशु गृहीत्वा - - ९५ NE ." ७५० सत्यापाढविरचितं श्रौतसूत्र- [ सप्तमप्रश्ने- मानुष इत्युच्चैर्वदतीत्यापस्तम्बसूत्रार्थः । अध्वर्युप्रवरणेऽहं चामुकशर्मा च मानुषाविति प्रयोगः । केचित्तु अमुकामुकशर्माणौ मानुषावित्यध्वर्योरिवाऽऽत्मनोऽपि नामग्रहणमिति पदन्ति तत्तुच्छम् । आत्मनाम गुरोर्नाम नामातिकृपणस्य च । श्रेयस्कामो न गृह्णीयाज्ज्येष्ठापत्यकलत्रयोः॥ इति स्मृतावात्मनामग्रहणनिषेधात् , स्पष्टवचनं विना नामग्रहणस्यायुक्तस्वाच । अत एव सूत्रकृताऽऽन्मानमिति परोक्षनिर्देशः कृतः । अतोऽहंशब्देनैव निर्देशः । यजमानप्रवरणेऽयं सुन्वन्यजमान इत्येतैरेव शब्दैनिर्देशसिद्धेर्न यजमाननामग्रहणम् ।

हुतायां वपायाꣳ सुब्रह्मण्य सुब्रह्मण्यामाह्वयेति संप्रेष्यति पितापुत्रीया सुब्रह्मण्या भवति ।

हुतायां वपायामग्नीषोमीयस्य पशोर्वपायां हुतायाम् । एकत्वमविवक्षितं तेनैन्द्राना- श्विनपशुसत्त्वे तयोरपि वपयो तयोरनन्तरमेव सुब्रह्मण्याह्वानं नत्वग्नीषोमीयवपाहोमा- नन्तरं सुब्रह्मण्याहानं तदनन्तरमैन्द्रामाश्चिनपश्वोर्वपायाग इति हुतायाममौ वषट्कारेण प्रक्षिप्तायाम् । हुतायां वपायामित्यनेन घृतवतीमध्वर्यो त्रुचमास्यस्वेत्युच्यमाने जुहूप- भृतावादायेत्यादिकं कर्म मूचितं भवति । यद्यपि प्रवरणानन्तरं निरूढपशौ मैत्रावरु- णाय दण्डप्रदानस्यैव विहितत्वात्तदेवात्रापि प्राप्त तथाऽपि क्रीते सोमे मैत्रावरुणाय दण्डं प्रयच्छतीति वाक्यात्सोमक्रयोत्तरमेव तस्य यजमानेन दत्तस्वादत्तस्य पुनर्दानायो- गान्नात्र दानम् । सोमक्रयोत्तरं मैत्रावरुणेनाविक्षुरो विखुरो भूयासमिति मन्त्रेणैव यजमानात्प्रतिग्राह्यः । उत्तरवप्यमानयोर्वपायागाङ्गत्वात्तयोरपि ग्रहणम् । तथा चाऽऽ. पस्तम्बः-हुतायां वपायां मार्जयित्वेति । मध्यपतितत्वादुत्तरवप्यहोमस्याप्यस्मिन्सूत्रे ग्रहणं द्रष्टव्यम् । पाशुकी दक्षिणा तु नैव भवति । सर्वेषु सौमिकेष्विष्टि पशुबन्धेषु नान्वाहार्य ददातीति निषेधात् । अन्वाहार्यग्रहणस्य पशुबन्धदक्षिणोपलक्षणपरतायाः पूर्वमेव वर्णितत्वात् । प्रधानदक्षिणथैव परिक्रयसिद्धरित्येतदाशयोऽपि तत्रैव वर्णितः । हुतायां वपायां वरं ददाति तिस्रो वा दक्षिणा नयेदितिपशुबन्धयाजमानसूत्रस्वरसादक्षि- णादानं भवत्येव । कथमेतदिति चेदुच्यते- हुतायां वपायां वरं ददातीतिसूत्रान्मार्ज- नात्प्रागेव वरदानं ततो मार्जनमिति यथा पशौ साधितं तथैवात्रापीति द्रष्टव्यम् । तित्र इत्यत्र गावो विशेष्याः क्रियापदद्वयाद्वरदानं मिन्नम् । वरं ददातीति विहितं वरदानं सर्वत्विस्य एव । तिम्रो गा इति गोत्रयदानमपि तेम्य एव । तिस्रो वेत्यत्र वरं ददातीत्यस्माद्भागाद्वरशब्दोऽनुवर्तते । वरं तिस्रो गा वा दद्यादिति तदर्थः । , ख. ग. रिप्रहसि । १ स.ग. न ति। - अ०पटलः ] गोपीनाथभट्टकृतज्योत्लान्याख्यासमेतम् । ऐष्टिकदक्षिणादानधर्मा वरदाने न किंतु ऋत्विजो वरं वो ददामीत्येवमेव दानं पाशुकद- क्षिणादान एवैष्टिकवर्धा उत्तरत्रैव दक्षिणापदात् । यदि वरं ददाति तिस्रो वा दक्षिणा नयेदित्येतस्य सूत्रस्यैकार्थकत्वं स्यात्तदा हुतायां वपायां वरं तिस्रो वा दक्षिणा नयेदित्येव ब्रूयात् । नोक्तं च तथा । अतो वरं ददातीत्येतद्भिन्नं तिस्रो वेत्येतद्भिन्न- मित्येव वक्तव्यम् । तथा च प्रथमवरदानं पाशुकदक्षिणा न भवति । अतस्तस्य निषेधो न । पश्चैकादशिनीसूत्रे वरदानस्य तन्त्रत्वविधानमनयैव रीत्या संगतं भवति नान्यथेति द्रष्टव्यम् । अथवाऽवधारणार्थको वाशब्दोऽत्र । सौमिकेषु पशुषु श्रुतौ विशेषः-प्राश्चमग्निं प्रहरन्त्युत्पत्नीमानयन्त्यन्वनासि प्रवर्तयन्त्यथ वा अस्पैष धिष्णियो हीयते सोऽनुध्यायति स ईश्वरो रुद्रो भूत्वा प्रजां पशून्यजमानस्य शमयि. तोर्हि पशुमाप्रीतमुदश्चं नयन्ति तार्ह तस्य पशुश्रण हरेत्तेनैवैनं भागिनं करोति यजमानो वा आहवनीयो यजमानं वा एतद्विकर्षन्ते यदाहवनीयात्पशुश्रपण हरन्ति स वैव स्यानिमन्ध्यं वा कुर्यायजमानस्य सात्मत्वायेति । प्राजहितात्पशुश्रपणहरणे मागित्वसंपादन प्रयोजनं तवाभागित्वोपपादनं विना कर्तुमशक्यम् । अतस्तत्प्रदर्श- यितुं प्राश्चमग्निमित्यारम्य शमयितोरित्यन्ता श्रुतिः । अस्याः श्रुतेरयमर्थः-पूर्व पश्चिमदिगवस्थिते गार्हपत्ये स्थितोऽग्निः सालामुखीये पुरातनाहवनीये प्रथम नीतोऽन- न्तरं ततोऽपि प्रामुखो तस्तदिदमुच्यते प्राश्चमग्निं प्रहरन्तीति । पश्चिमदिगवस्थितायां पत्नीशालायामवस्थितां पत्नीमपि शालामुखीय पुरातनाहवनीयं प्रत्युदानयन्ति । प्रतीचीनगार्हपत्यसमीपस्थितानि शकटान्यपि प्रादेशेऽनुक्रमेण प्रवर्तितानि । यदैत- सर्व संपयते तदानीमेवास्य पुरातनगार्हपत्यस्य विष्णियः स्थानविशेषो हीयते शून्यो भवति । स चाग्निः पूनर्मनसि चिन्तयति यजमानस्य हानि संपादयामीति । चिन्तय- मानश्वासौ रुद्रः क्रूरो भूत्वा यजमानस्य प्रजा पशूशमयितोविनाशयितुं समर्थो भवति । यहि पशुमाप्रीतमित्यारभ्य सात्मत्वायेत्यन्तया श्रुत्या भागित्वोपपत्तिः क्रियते । यहि यस्मिन्दाल आप्रीसंज्ञकामिः प्रयाजयाज्याभिराप्रीतं तोषितं पशुमुदच्च- मुदङ्मुखं नयन्ति तर्हि तस्मिन्काले तस्य प्रतीचीनगार्हपत्यस्थ संबन्धिनं पशुश्रपणका- रिणमामि हरेत् । तेनैव हरणेनैनं प्रतीचीनगार्हपत्याचि मागिनं मागयुक्तं करोति । ततः प्रजायविनाश इति द्रष्टव्यम् । नन्वाहवनीयादेव पशुश्रपणमग्निं कुतो न हरेयुः रित्याशक्य तत्र दोषं दर्शयति यजमानों का आहवनीय इत्यादिश्रुतिः । आहवनी- यादग्निं विकृष्य हरणे यजमानस्यायं विकर्षः स्यात् । आहवनीयस्य प्रधानत्वेन यजमानरूपत्वात् । तस्मात्स एव प्राजहित एव वा श्रपणार्थ: स्यान्निर्मन्थनेन लौकिकेन कंचिदानं निष्पाय तेन वा श्रपणं कुर्यात् । एवं सति यजमानो विकर्षरहितः संपूर्णस्वरूपो भवतीति । तर्हि तस्य पशुश्रपणं हरेदित्यत्रत्यतच्छब्देन स वैव स्यादित्यत्रत्यतच्छब्देन घ प्रानहितः परामृश्यते । एतदपि प्राश्चमग्निं प्रहरन्तीत्यादिश्रुतिपर्यालोचनयैव प्रस्ये- ७५२ सत्याषाढविरचिंतं श्रौतसूत्रं- [७ सप्तमप्रभे- सन्यम् । तथा च बौधायनः स वैव स्यादिति पुराणगार्हपत्यमभ्युपदिशन्तीति । समार नोऽयं विधिः सवनीयेऽपि । एतस्याप्यङ्गभूतत्वेन देक्षपशुतुल्यत्वात् । निरूढपशी स्वाहत्यवचनादाहवनीयादेवाऽऽहर्तव्यः । अत्र वाधूल आह-समानमावपाहोमाद्याह पशुमाप्रीतमुदञ्चं नयन्तीत्युक्त हुतायां पायां मार्जयित्वा सुब्रह्मण्य पितापुत्रीयार सुब्रह्मण्यामाह्वयेति संप्रेष्यतीति । आपस्तम्बीयप्रायश्चित्तसूत्रेऽपि यहि पशुमाप्रति मुदञ्चं नयन्तीत्युंक्तमिति । याह पशुमित्यारम्य ये पशु विमभीरन्नित्यन्त प्रोग्यदुक्तं ब्राह्मणे. तत्सूत्रेऽनुसंघातव्यमित्यर्थः । पर्यग्निकरणं त्वौत्तरवेदिकोल्मुकेनैव । अत्र विशेषः-आग्नीध्रः पर्यनिकरणानन्तरमुत्तरं वेद्यन्तमनु पूर्वया द्वारा प्राग्वशं प्रविश्य पुराणगार्हपत्यादग्निमादाय पूर्वया द्वारा निर्हत्योत्तरेणाऽऽग्नीधीय पशुसमीपं नीत्वा पशोः पुरतो हरति । शामित्रदेश प्रति पशौ गते तत्र पशोरुत्तरतो निदधाति । वपया सहकदेशमग्निं प्रत्याहृत्यैतेनैव मार्गेण पुराणगार्हपत्य एवं क्षिपेत् । केचित्त दक्षिणं वेद्यन्तमनु गत्वा दक्षिणया द्वारा प्रामशं प्रविश्य पुराणगार्हपत्यादग्निमादाय प्रदक्षिणमावृत्य दक्षिणया द्वारा निर्दत्य दक्षिणेन मार्जालीयं ब्रह्मयजमानावन्तरेण नीत्वाऽन्तरा यूपमाहवनीयं च पशुसमीपं हृत्वा पशोः पुरतो हरति । सामित्रदेश प्रति पशौ गते तत्र पशोरुत्तरतो. निदधांति । वपया सहकदेशमग्निं प्रत्याहत्यतेनैव मार्गेण पुराणगार्हपत्य एव क्षिपेदित्याहुः । तदयुक्तं प्रादक्षिण्यविरोधात् । उत्तरतउपचारों विहार इतिपरिभाषाविरोधाच्च । निर्मन्थ्यपक्षे प्रमुच्य पशुमित्येतस्मात्प्राक्तूष्णीमाह- पनीयसमीपे निर्मथ्य तं पुष्टं कृत्वा केनचित्पात्रेण पशोरग्रतो हत्वा शामित्रदेशे पशो- रुत्तरतो निदधाति । वपयासह तदेकदेशमग्रतो हृत्वा शुद्धदेशे विहाराबहिरेव त्यजेत् । अस्मिन्मन्थने लौकिके एवारण्यौ । पितापुत्रीयेत्यत्र पितृशब्देन पितरश्च मातरश्चेत्येकशेषेण मातरोऽपि संगृह्यन्ते । तत्रापि :पितृवर्गो मातृवर्गश्च पितृमातृश- ब्दाभ्यां ग्राह्यः । पुत्रशब्देन पुत्राश्च पुज्यश्च पुत्रा इत्येकशेषेण पुत्रीणामपि ग्रहणम् । इदं च पौत्रप्रपौत्रयोरुपलक्षणम् । पितरः पुत्राश्च यस्यां कीर्त्यन्तै सा: पितापुत्रीया, एतादृशी सुब्रह्मण्या भवतीत्यर्थः । सस्नीष्व मेखला प्रमुष्टी सारय यजमान इति त्वाचक्षता नामग्राहं ते पितृभिः पितामहै। प्रपितामहैः पुत्रैः पौत्रैः सुब्रह्मण्यः सुब्रह्म- ण्यामाहयत्विति प्रैष एव बौधायनेन स्पष्टं सर्वमिदमुक्तम् । स्रस्नीष्व शिथिलां कुरु- श्वेत्यर्थः । सुब्रह्मण्यस्य परिज्ञानाय प्रैषोत्तरं पितापुत्रीयैषेति वक्तव्यमेव । आपस्तम्ब. वाधूलाम्यां तु सुब्रह्मण्य पितापुत्रीया सुब्रह्मण्यामाह्वयेति प्रैषः एव. तथा' 'पठितः । पितापुत्रीयसुब्रह्मण्याह्वानप्रकारो लाट्यायनद्राह्मायणसूत्रयोर्द्रष्टव्यः । नामग्रहणप्रयो- मनं निदानसूत्रे द्रष्टव्यम् । मात्रादीनां स्त्रीणां नामग्रहणं नेत्यपि निदानसूत्रे । अस्मिन्पक्षे पितापुत्रीयेत्यत्र नैकशेषः । पतितप्रवनितानां न नामग्रहणम् । । न (म०पटलः ] गोपीनाथभक्तज्योत्साव्याख्यासमेतम् । ७५३

अपराह्णे वसतीवरीर्गृह्णाति वहन्तीनाम् ।

प्रेधा विमत्तस्याहस्तृतीयो माग: पञ्चधा विमक्तस्याश्चतुर्थो भागो वाऽत्रापराह स्तस्मिन्वसतीवरीर्वसतीवरीसंज्ञका अपो गृह्णाति । तत्र विशेषमाह-वहन्तीनामिति । अनेन स्थावरादयो व्यावय॑न्ते । न स्थावराणां गृह्णीयादिति श्रुतावपि निषेधः । सर्वथा वहन्तीनामलामे स्थावराणामपि ग्रहणम् । न स्थावराणां प्रतीपं तिष्ठन्गृह्णातीति बौधायनेन विशेषप्रदर्शनेन वहन्त्यलामे स्थावराणामपि ग्रहणस्याभ्यनुज्ञानात् । सोमो. पसर्जनमेतासां प्रयोजनम् । वक्ष्यति च सूत्रकारः-वसतीवरीभिरुपसृज्येति । वसती- वरीमिरुपसृज्येत्यत्रैतासामपां संप्रत्ययार्थ वसतीवरीरिति विशेषणम् । वसतीवरीनिर्वचनं तु श्रुतौ देवा वै यज्ञमाग्नीधे व्यमजन्त ततो यदत्यशिष्यत तदब्रुवन्वसतु नु न इदमिति तद्वसतीवरीणां वसतीवरित्वमिति । पुरा कदाचिद्देवा आग्नीधमण्डपे स्थित्वा यज्ञ यज्ञसाधनीभूताम्क्षालादीपदार्थान्ममेत्येवं व्यमजन्त ततः सर्वैः स्वस्वमागेषु यदवशिष्टं सदुद्दिश्य परस्परमब्रुवन्निदमवशिष्टमिदानी साधारण्येनास्माकमेव तिष्ठतु प्रातर्विमागं करिष्यामः । यस्माद्वसस्विति देवरुक्तं तस्मात्तस्य योगाद्वसतीवरीरिति नाम संपन्नं तद्वत्य आपो वसतीपर्य इति । विभक्ताद्यज्ञादत्यशिष्यत यदब्रूपं द्रव्यं तदेवैः प्रार्थित नोऽस्मदर्थमिदमब्रूपं द्रव्यम् । नुरवधारणे, अस्मदर्थमेव । अग्नीषोमीयवपायागोत्तरशा- लामुखीयसमीप एव वसतु इति प्रार्थितत्वाद्वसतीवरित्वमपाम् । एतादृशीरपो गृह्णाती. त्यर्थः । वहन्तीनामिति षष्ठी पञ्चम्यर्थे । अवयवषष्ठी वा । अत्र विशेषमाहाऽऽपस्तम्बः- आहूतायां वसतीवरीः कुम्भेन गिरिमिदां वहन्तीनां प्रत्यतिष्ठन्गृह्णातीति । गिरिमिदा वहन्तीनामित्यपी विशेषणद्वयम् । या गिरि मित्त्वा निर्गता वहन्ति नद्यस्तासामपी गृहातीत्यर्थः।

नान्तमा वहन्तीरतीयात् ।

"अन्तमा समीपगता वहन्तीरपो नातीयान्नातिकामेत् । अन्तमा एव वहन्तीर्गुणरहिता भप्यपस्त्यक्त्वा दूरस्था वहन्तीर्गुणविशिष्टा अप्यपों न स्वीकार्या इति । समुद्रतीरस्पैः समुद्रस्याऽऽपो न प्रायाः क्षारत्वात् । श्रुतावपि निषेधः-तस्मात्समुद्रस्य न पिनन्ति प्रजननमिव हि मन्यन्त इति ।

संघावातपस्य छायायाः।

छायाऽत्र मानुषप्रयत्नाजन्या । सा चाभ्रकृता । आतप उष्णम् । मभ्रच्छायो- ष्णयोः संधौ गृह्णातीत्यर्थः । श्रुतिरपि-छायायैः चाऽऽतपतश्च संधौ गृह्णातीति । छायाया इति चतुर्थी षष्ठ्यर्थे । आतपनि(दि)ति ना (ता)न्तस्याऽऽतपवाचकस्य शब्दस्याऽऽतपत इति षष्ठयेकवचनम्। संधैरुभयपदार्थाधीनत्वाञ्चकारामावेऽपि अर्थात्समुच्चयः सिध्यत्येव ।

कूलस्य वृक्षस्य स्वयं वा छायां कृत्वा ।

अभ्रच्छायाया अमावे ..कूलस्य तृणादिगुल्मस्य वृक्षस्य वा यस्य कस्यचिद्यज्ञि: ७५४ सत्याषाढविरचितं श्रौतसूत्रं- [७ सप्तमप्रश्ने- यस्य स्वयं वनच्छत्राचन्यतमेन पदार्थेनोपायान्तराभावे शरीरस्य वा छायां कृत्वैताह- श्याश्छायाया आतपस्य च संधौ गृह्णातीत्यर्थः । संधावातपस्य च्छायाया इति सूत्रा. संघावातपस्येत्यनुवर्तते । सर्व चैतदापस्तम्बोऽप्याह-यद्यभ्रच्छायां न विन्देदात्मनो वृक्षस्य कूलस्य वा छायायामिति । ग्रहणप्रकारमाह-

हविष्मतीरिमा आप इति प्रतीपं तिष्ठन्कुम्भं कुम्भीं वाऽभिपूरयति ।

अपां प्रतीपम् । अव्ययीभावसमासोऽयम् । अव्ययीमावत्वानपुंसकत्वम् । अबमि- मुखमित्यर्थः । अत्रावभिमुखत्वं नाम प्रवाहाभिमुखत्वम् । प्रतीपमिति तिष्ठन्नित्यत्रैवा. । न्वेति । कुम्भस्य कुम्भ्या वाऽबभिमुखताऽभिशब्दादेव लभ्यते । अबभिमुखस्तिष्ठन्कुम्भ कुम्मी चाऽवमिमुखतया धृत्वा पूरयतीत्यर्थः । प्रतीपमित्यत्र छन्तरुपसर्गेभ्योऽप इंदि. त्यनेन कृतसमासान्तापशब्दाकारस्य दोर्षकारादेशः । अस्तनः कुम्भः सस्तना कुम्भी बौधायनसूत्रात् । तत्र स्तनद्वयं चतुष्टयं वा कुम्भ्याः । कुम्मे कुम्भ्यां वाऽपि दृढत्वं योग्यतयैव सिध्यति । स्पष्टमेवेदमाह बौधायन:-अथ यो वीडितः कुम्भस्तं याचतीति । वीडितशब्दार्थः कर्मान्ते-दृढ इत्येवेदमुक्कं भवतीति ।

यद्यगृहीताः सूर्योऽभिनिम्रोचेद्यो ब्राह्मणो बहुयाजी तस्य गृहात्कुम्भ्यानां गृह्णीयात् ।

यदीत्यनेन नैमित्तिकत्वम् । अगृहीता वसतीवर्यः सत्यश्चेत्सूर्योऽमिनिम्रोचति अस्त- मेति तदा यो ब्राह्मणो बहुयाजी तस्य गृहाद्गृह एव कुम्मे भवाः कुम्भ्यास्तासामपां गृह्णीयात् । भवनमत्र सत्ता । बहुयाजिशब्देन सोमयाज्युच्यते । स हि गृहीतवसती. वरीक इति लिङ्गात् । सोमयाजी बहुयाजी भवतीति विज्ञायत इत्यापस्तम्बसूत्रात् , यो ब्राह्मणो बहुयाजीति सोमयाजिनं ब्रूत इति भारद्वाजसूत्राच्च । नतु बहुयाजनकर्ता । तस्य निषिद्धत्वात् । गृहादिति पञ्चमी सप्तम्यर्थे । गृह इत्यनेन तत आहृत्य वह. न्तीनां समीपे गत्वा तत्र ग्रहणमित्येतादृशोऽर्थो व्यावय॑ते । कुम्म्यानामिति पञ्चम्य षष्ठी।

यदि तं न विन्देयुरग्निꣳ हिरण्यं चाऽऽदाय परेयाद्यत्राऽऽपः स्युस्तज्ज्योतिरुपरिष्टाद्धारयन्हिरण्यमन्तर्धाय वरे दत्ते गृह्णाति ।

तं बहुयाजिनम् । यदीत्यनेनाग्निं हिरण्यं चाऽऽदायेत्यारम्य करे दत्ते गृह्णातीत्य- न्तस्य विधेनैमित्तिकत्वं प्रदर्श्यते। न विन्देयुर्न लभेयुः । यथा वसतीवरीग्रहणकाले यदि सूर्योऽमिनिम्रोचति तदा बहुयानिनो गृह एव कुम्भ्यानां ग्रहणं कर्तव्यमित्यनेन वह- 1 ७५५ (म०पटलः] गोपीनाथमट्टकृतज्योत्नाव्याख्यासमेतम् । न्तीनां व्यावृत्तिः कृता तद्वयदि तं न विन्देयुरित्यस्मिन्कल्पेऽप्येतत्सूचयितुमेव यत्राऽऽपः स्युरिति सामान्यनिर्देशः कृत इति । अथ वाऽवहन्त्यो वहन्त्यो वा यत्र संनिहिता आपः स्युस्तत्र गत्वा ग्रहणं कर्तव्यं न तु वहन्तीनामर्थे दूरं गन्तव्यमिति सूचयितुम् । बसतीवरीग्रहणकाले सूर्याभिनिम्रोचने वहन्तीनां परित्यागं कृत्वा बहुयानिगृहाधि- करणककुम्म्या ग्रहणविधिवलादृष्टार्थताऽपि ज्ञायते रात्रौ भयशङ्कायाः सत्त्वात्तदर्थ संनिधान एव ग्रहणमिति । एतेनेदमपि ज्ञायते वहन्तीनां ग्रहणार्थनर्धमार्ग गतस्तत्र । केनचित्प्रतिबन्धेन विलम्बो जातो दिवसस्त्वस्तात्पूर्व ग्रहणं कर्तुमपर्याप्तस्तदा झटिति ग्राममागत्य साङ्गाग्निहोत्रहोमपर्यातं कालं तत्र स्थित्वाऽग्निं हिरण्यं चाऽऽदाय वह- त्यो वाऽवहन्त्यो वा यत्राऽऽपः संनिहिताः स्युस्तं देशं प्रति अग्निहिरण्यादानं यत्र कृतं ततः परावृत्य गच्छेदिति । यदि तु अग्निहिरण्ये गृहीत्वैव गच्छेच्चेत्तदा तस्माद्दे- शादेव परावृत्य यत्राऽऽपः स्युस्तं देशं प्रति गच्छेदिति । एतदभिप्रायेणैव परेयादिति परेत्युपसर्गः परावर्तनार्थक उपात्तः सूत्रकृता । तज्ज्योतिरुपरिष्टाद्धारयन् । तदित्यस्य सत्रेत्यर्थः । सुपां सुलुगित्यनेन सप्तम्या लुक् । ज्योतिःशब्दग्रहणादत्र कंचन विशेष सूचयति यथा स्वच्छमनवच्छिन्नं द्रष्टुं शक्यते तथा प्रकाशः कर्तव्य इति । तथा चेदम. वगतं भवति आनीतो यो लौकिकोऽग्निस्तस्मिनुल्कां प्रज्वलयित्वा(ल्य) तत्प्रकाशे वस- तोवरग्रहणं कर्तव्यमिति । उपरिष्टाद्धारयन् , उपरिष्टात्कुम्भस्य कुम्म्या वा धारयन् । यथा वसतीवरीमहणानुकूलं भवति तथेत्यर्थः । उस्कामुपरिष्टाद्धारयमाणो गृह्णीयादि- त्यापस्तम्बः । धारयन्नित्यनेन शत्रा समानकालता बोध्यते । सामानाधिकरण्यादेव समानकर्तृकता । हिरण्यं कुम्भे कुम्भ्यां वाऽन्तर्धायावधायेत्यर्थः । हिरण्यं वाऽवधाये. त्येवाऽऽपस्तम्बः । श्रुतावपि ज्योतिष्या वा गृह्णीयाद्धिरण्यं वाऽवधाय सशुक्राणामेव गृह्णातीति विकल्प उक्तः। शुक्रं तेजः । सूत्रकारमते तु ज्योतिर्हिरण्ययोः समुच्चय एव। वाकारः समुच्चयार्थक इत्याशयः । अत्र श्रुतिः शाखान्तर उन्नया । वरे दत्ते यज. मानेन वरे स्वस्मै दत्तेऽध्वर्युगातीत्यर्थः । एतदन्तं नैमित्तिकम् ।

अग्नेर्वोऽपन्नगृहस्य सदसि सादया. मीत्यपरेण शालामुखीयमुपसादयति ।

स्पष्टोऽर्थः । धत्तेत्यन्तो मत्रः । एतदन्तो वसतीवरीग्रहणविधिः । तत्र त्रेधाविमक्त- दिवसद्वितीयभागांशे वपायागोत्तरं बह्ववकाशश्चेत्तदा प्रकारद्वयम् । तत्र पायागोत्तरं पशुपुरोडाशतन्त्रमारभ्य तृतीये मागे प्राप्ते कृतान्ताद्विरम्य वसतीवरीगृहीत्वा कृतान्ता. स्कर्म प्रतिपयत इत्येकः । वपायागोत्तरं तृतीयमागप्रतीक्षार्थ विरम्य तस्मिन्प्राप्ते वस- तीवरीगृहीत्वैव पशुपुरोडाशतन्त्रमारमत इत्यपरः । यदि तु वपायाग एव विलम्बवशा- तृतीयमागे(गो) गतस्तदा वपायागोत्तरमादौ वसतीवरीरेव गृहीत्वा पशुपुरोडाशतन्त्रा- 3

-

७५६ सत्याषाढविरचितं श्रौतसूत्र- [७सप्तमप्रमे रम्भः कार्यः । आपस्तम्बेन स्पष्टं वसतीवरीग्रहणोत्तरमेव पशुपुरोडाशतन्त्रारम्भ उक्तः । एवं पञ्चधाविमागपक्षेऽपि ज्ञेयम् । पशुपुरोडाशाद्यर्थहविर्निपिस्तु प्रकृतशालायामनोन्तर एव न तु हविर्धानाख्ययोः शकटयोः प्रवर्तने कृते निर्वापः प्रसङ्गात्तत्रैव कार्यः । अपरेण गार्हपत्यं निर्वपतीति प्राकृतदेशस्य हविर्धानाम्यामसिद्धेः। अनसोऽधिनिर्वपतीति विधिस्तु मनोन्तर उपात्तेऽपि सिध्यति । नच मन्त्रवन्महावेद्यामवस्थापितयोहविर्धानयोः पत्नी शालायां नयनमस्त्विति वाच्यम् । अनोन्तरोपादाने बाधकामावात्तेनैव निर्वाहे मन्त्रवन्महा- वेद्यां स्थापितयोनयनस्यायोगादिति द्रष्टव्यम् । तथा च द्वादशाध्याये प्रथमे पादे जैमिनिः-- हविर्धाने निर्वपणार्थ साधयेतां प्रयुक्तस्वात्, असिद्धिर्वाऽन्यदेशस्यात् । प्रधानधैगुण्या- दवैगुण्ये प्रसङ्गः स्यात्, अनसां च दर्शनादिति त्रिभिः सूत्रैराह । हविः सोमरसात्मक धीयते स्थाप्यते ययोस्ते शकटे हविर्धाने ते एव निर्वपणार्थ निर्वपणरूपं कार्य साध- येतां संपादयेतां तयोः सोमकर्मार्थ प्रयुक्तस्वात्प्रयुक्तपरित्यागे कारणाभावादिति । नच निर्वपणकार्यस्यानसोऽधिनिर्वपतीति श्रुत्याऽनो(नउ)पादानकत्वाद्धविर्धानयोनिर्वापेऽनो- (नउ)पादानकत्वाभावान्निर्वपणकार्यस्य विगुणत्वापत्तिरिति वाच्यम् । हविर्धानयोर- प्यनोरूपत्वेनानस्त्वस्य तयोरपि सत्त्वेनानस्त्वाकारेणैवाङ्गत्वाद्धविर्धानयोनिवर्वापेन च निर्वापस्य सिध्याऽनो(नउ)पादानकस्वामावाभावेन विगुणत्वापत्त्यमावात् । अङ्गे प्रयुक्त तद्गुणार्थं पुनरङ्गप्रयोगस्यायुक्तत्वाद्वेदिप्रसङ्गस्थले परिमाणहानिवदिह गार्हपत्यपा- श्वात्यलक्षणहानिर्न दोष इति भावः । अयं प्रथमसूत्रार्थः । अन्यदेशत्वाद्भिन्नदेशत्वा- निर्वपणकार्यस्य सिद्धिः । हविर्धानमण्डपे हि हविर्धाने प्रकृतिप्राप्तनिर्वापदेशस्तु अप- रेण गार्हपत्यं हविर्धाननिर्वपणयोरेकदेशत्वासंभवान्न हविर्धानाभ्यां प्राकृतनिर्वपणकार्य- स्यासिद्धिः । अनसोऽधिनिर्वपतीति विधिस्तु अनोन्तर उपात्तेऽपि सिध्यति । नच मन्त्रवन्महावेद्यामवस्थापितयोर्हविर्धानयोः पत्नीशालायां नयनमस्त्विति वाच्यम् । भनोन्तरोपादाने वाधकामावात्तेनैव निर्वाहे मनवन्महावेधां स्थापितयोनयनायोगात् । इष्टापत्तो सोमार्थ पूर्व प्राची प्रेतमध्वरमिति मन्त्रेण कृत हविर्धानप्रवर्तनमत्र रमेथामिति मन्त्रेण कृतं स्थापनं चानर्थकं स्यात् । पुनः प्रवर्तनस्थापनयोरनुष्ठाने त्वावृत्तिरशास्त्रीया स्यादिति सर्वथा प्रधानभूतः सोमो विगुणः स्यात् । तद्वैगुण्यादवैगुण्यप्रसङ्गो भवेत् । नहि प्रधानवैगुण्यादवैगुण्यं कुत्रापि दृष्टम् । अतो नयनं नैव युक्तम् । वैगुण्यप्रसङ्ग इत्यत्र प्रसङ्गशब्देनाऽऽपत्तिरुच्यते ।

अस्तमिते संवादप्रभृतिना पशुतन्त्रेण प्रतिपद्यते ।

अस्तमदर्शनमिते गते सूर्ये सतीत्यर्थः । अनेन तत्पूर्वकालो व्यावय॑ते । अस्तमि- तात्पूर्व संवादप्रमृति नैव भवति किंतूत्तरमेवेति । तेन पशुपुरोडाशयागोत्तरं दिनावशेषे विराम एव कर्तव्यः । अस्तोत्तरं पशुपुरोडाशयागविलम्बवशात्पतितेऽपि न दोष इति ७५० - ०पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । सिद्धं भवति । शृत५हवी ३: शमितरित्ययं संवादस्तत्प्रभृविना तदादिमा पशुतन्त्रेण पशुसंवन्धिकर्मकलापेन प्रतिपद्यते संवादप्रभृति पशुतन्त्रभारभ्यत इत्यर्थः । जुह्वा पञ्च गृहीतं गृहीत्वा पृषदाज्यनुवं चाऽऽदायेति संवादसंबन्ध्येवेति, पशुसूत्रे स्थपा तत्सं- बन्धित्वस्य बोधितत्वात्तदादानस्योत्तरत्रोपयोमाच्च ।

तस्य दक्षिणेन हविर्धानमुत्तरेण वा समवत्तं परिहरति ।

तस्य पशोः । पाशुकेडावदानसमूहः समवत्तशब्देनोच्यते । इदं च समबत्तपनिाति पाशुकेडापात्रे सूत्रकृता(तो) व्यवहाराज्ज्ञेयम् ।

न यजमानो भक्षान्भक्षयति भक्षणमेके समानन्ति ।

भक्ष्यन्ते से भक्षाः । मक्षशब्देनैडा हृदयादयोऽवत्ताः पदार्था उच्यन्ते । भक्षाणा- मिति शेषः । तस्मात्तस्य नाऽऽश्ये तस्माद्वाऽऽश्यमित्युभयश्रुतेरिति भावः । इडाभक्ष- णादीनां सौमिकैन प्रसङ्गसिद्धिः । भक्षयित्वाऽऽज्येडां विरमन्तीतिदर्शनात् , भक्षण. मेके समामनन्तीति सूत्राच । तथा चाध्वर्वादिभिरिडाभक्षणं कर्तव्यमेव । जैमिनिरपि द्धादशाध्याये प्रथमे पाद एवमेवाऽऽह-शेषभक्षास्तथेति चेन्नान्यार्थत्वादिति । वि. ग्मक्षाः शेषप्रतिपक्ष्यों नत्वानत्यर्थाः । अतो न प्रधानदक्षिणयैव तेषां निवृत्तिरिति शेषमक्षास्तथेति चेदित्यनेन सूत्रेण प्रतिपाद्यते ।

पत्नीसंयाजान्तः ॥ २४ ॥ अग्नीषोमीयः संतिष्ठते ।

पत्नीसंयाजैरन्तः समाप्तिर्यस्य स पत्नीसंयाजान्तः । पत्नीसंयाजान्तो भवतीत्येता- यतैव कर्मसंस्थायां सिद्धायां संतिष्ठत इति पुनः संस्थाबोधकवचनं पत्नीसंयाजान्तरप्रति- पत्तिकर्मभिरपि संस्थापनीय इत्येतदर्थम् । तेन समन्त्रमेव प्रतिपत्तिकर्माणि वेदप्रतिपत्तिः परमत्र न भवति । तस्य सुत्याप्समाप्त्यन्तं धारणस्योक्तत्वात् । प्रकरणादेवाग्नीषोपीव- लाभे पुनर्वचनमग्नीषोमीय एव प्रतिपत्तिकर्माण्यावश्यकानि न पत्नीसंयानान्तेषु द्वाद. शाहसंबन्धिसुत्यादिवसेषु प्रतिपत्तिकर्माणि आवश्यकानीति प्रदर्शयितुम् । अग्नीषोमा यो अद्य वां यो अग्नीषोमा हविषा सपर्यादिति याजुषहौत्रसत्त्वे वपाया याज्यानु- वाक्ये । अग्नीषोमा य आहुतिमग्नीषोमा चेति तद्वीर्य वामिति पशुपुरोडाशस्य याज्या- नुवाक्ये । अग्नीषोमाविम सुमेऽग्नीषोमा हविषः प्रस्थितस्य वीतमित्यङ्गानां याज्या- नुवाक्ये । ऐन्द्राग्नपशोस्तु शुचिं नु स्तोमं नवजातमद्य भथवृत्रमुत सनोति वाजमिति वपाया याज्यानुवाक्ये । उभा वामिन्द्राग्नी प्रचर्षणिभ्य इति पशुपुरोडाशस्य । आवृ. प्रणा गीर्मिविप्र इत्यङ्गानाम् । अथाऽऽश्विनपशोः-आवार रथो रोदसी स पप्रथामो अभिपञ्चभूमेति वपाया याज्यानुवाक्ये । स्वश्वायशसा युवोः श्रियं परियोषेति पशु. पुरोडाशस्य । योहस्यवार रथिरायुवं भुज्युमवविद्धमित्यङ्गानाम् । पशुहौत्रं सर्व पाज- षम् । पशुद्वयसत्त्वे द्विवचनान्त ऊहः । पशुत्रयसत्त्वे बहुवचनान्तः । ७५८ - 1 सत्यापाढविरचितं श्रौतसूत्रं- [सप्तमप्र-

निशायां वसतीवरीः परिहरति सर्वतो न पुरस्तात् ।

निशेरते प्राणिनो यस्मिन्काले स कालो निशाशब्देनोच्यते । रात्रः पूर्वाध निशा- शमेन ग्राह्यामिति केचित् । द्वितीययाम एव निशेत्यन्ये । तृतीययामोऽपीत्यपरे पूर्वमते प्रथमयामेऽपि वसतीवरीपरिहरणं भवति । द्वितीय तृतीये च मते तु न प्रथमे पाम इति मेदः । अग्नीषोमीयदिवससंबन्धिन्यव निशा क्षेया सानिध्यात् । अथैसस्पा रात्रेविनासकार इत्याश्वलायनेन संवादप्रभृतिपाशुकतन्त्रस्य बोधनप्रभृतिसोमतन्त्रैक- देशस्य चाधिकरणीभूताया राबेरेकत्वं प्रदर्शयितुमेवैतस्या इति विशेषणदानाच्च । परि परितो वेदि हरति । प्रकृते परिहरणशब्दस्य विवक्षितमर्थमाह-सर्वतो न पुर- स्तादिति । परिहरति सर्वत इतीयं श्रुतिरेवान्द्यत इति वा । सर्वत इत्यनेन पुरस्तादपि परिहरणे प्राप्ते रक्षोपहननरूापरिधिपरिधानकार्य पुरस्ताद्भाग आदित्यो यथा संपाद- यति तदत्रापि सर्वतः परिहरति रक्षसामपहत्या इति श्रुतायुक्तं रक्षोपहननरूपवसती. वरीपरिहरणकार्य पुरस्ताद्भाग आदित्यः संपादयिष्यत्येवेति भावः। नन्वादित्यो ह्येवो. धन्पुरस्तादृक्षास्यपहन्तीत्यनेन परिधान उद्यत एवाऽऽदित्यस्य रसोपहननकर्तृखेन वसतीवरीपरिहरणस्य रात्रिसाध्यरवेनाऽऽदित्यस्योदयासंभवेन रक्षोपहननकर्तृत्वासं- मवादसंगतमिदमिति चेन्न । उन्नित्यस्योदयं यास्यन्नित्येतादृशाङ्गीकारस्याग्नये. रक्षाने पुरोडाशमष्टाकपालं निर्वपेचार. रक्षासि सचेरन्नित्यस्या इटेनिशितायां निर्व- दिस्यनेन रात्री कर्तव्यायाः परिधिपरिधानविषये साकर रश्मिभिः प्रचरन्तीत्येकेषामि- त्यस्मिन्पक्ष आनीकवतोडिनीष्टिसंबन्धिनोऽर्थाद्रात्रौ पतितस्य परिधानस्य विषये वाऽऽवश्यकत्वेनात्रापि तद्रीत्या रक्षोपहननकर्तृत्वसंमवेनासंगतेरमावात् । इयं सामा- म्यप्रतिज्ञा । अथवा सर्वतो न पुरस्तादित्यस्यांशस्योत्तरत्रैवान्वयः । तथा च सर्वतो न पुरस्तादुत्कामतेत्येतावान्त्रैष एव । तदर्षस्तु सर्वतः सर्वेभ्यो दिक्प्रान्तेभ्य उत्क्रामत पुरस्तारप्रदेशातु नोक्रामत तत्र परिहरणाभावादिति । सामर्थ्यांददीक्षितान्प्रतीदं वच. नम् । उक्त्वा वसतीवरीः परिहरतीत्यन्वयः ।

उत्क्रामतेत्युक्त्वाऽन्तर्वेदि यजमानः पत्नी च भवतः ।

पत्नीत्यत्रैकत्वमविवक्षितमुद्देश्यगतत्वात् । तेन पत्न्यनेकत्वे सर्वा अप्यन्तर्वेदि भवेयुः। सत्र अस्विनामपि दीक्षितत्वादन्तर्वेदि मवनम् । अध्वर्योर्वसतीवरीपरिहरणकर्तृवात्तस्य नान्तर्वेदि भवनम् । चकारः परस्परसमुच्चयार्थः ।

नादीक्षितमभि परिहरति ।

अदीक्षितानां बहिनिष्क्रमणे हेतुरयं निषेधः । अदीक्षितममितः परिहरणं न कर्त; व्यमिति तदर्थः । . म०पटल:] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । परिहणप्रकारमाह-

आदाय कुम्भꣳ सव्येऽꣳसेऽत्याधायापरेण प्राज हितमतिक्रम्य दक्षिणया द्वारोपनिर्हृत्य द क्षिणं वेद्यन्तमनु परिहृत्येन्द्राग्नियोर्भागधेयीः स्थेति दक्षिणस्यामुत्तरवेदिश्रोण्याꣳ सादयति ।

भादाय कुम्ममित्यत्रान्यस्मादिति शेषः । तेनान्येनाध्वर्यवे कुम्मप्रदानं कर्तव्यमिति सिद्धं भवति । अन्यथा सम्यासेऽत्याधायेत्यनेनैवार्थादादानसिद्धेर्वचनं व्यर्थ स्यात् । कुम्भग्रहणं कुम्भ्युपलक्षणम् । सव्य इत्यसविशेषणं. यसतीवरीणामन्तरङ्गरवासियर्थम् । अंसग्रहणं पार्श्वव्यावृत्त्यर्थम् । अतिरत्रान्तर्धानार्थकः, असे किंचिदन्तर्धायाऽऽधानं कर्तव्यमिति । प्राजहितः पुराणगाईपस्यः प्रकर्षणाग्निप्रणयनादिकर्मसु नहितस्त्यक्तः स प्राजहित इत्यर्थो वा । अस्मिन्पक्षे योगरूढ़. पदम्। दीर्घश्छान्दसः । गत्वेति परित्यज्या. तिक्रम्येति वचनागार्हपत्यापरभागमुल्ल यैवाने गन्तव्यमिति । दक्षिणया द्वारा दक्षि- णेन द्वारेण । उपशब्दो नम्रीभवनरूपमर्थविशेष द्योतयति । निर्हरणं द्वाराहहिनिःसा- रणम् । दक्षिणं वेदेमहावेदेरन्तं प्रान्तमनुलक्षाकृत्यैव वसतीवरी: परिहत्येन्दामियोर्भाग- धेयीः स्थेति मन्त्रेण दक्षिणस्यामुत्तरवेदिनोण्या साक्यति ।

आदाय कुम्भं दक्षिणेऽꣳसेऽत्याधाय यथेतं प्रत्येत्योत्तरपूर्वया द्वारोपनिर्हृत्योत्तरं वेद्यन्तमनु परिहृत्य मित्रावरुणयोर्भागधेयीः स्थेत्युत्तरस्यामुत्तरवेदिश्रोण्याꣳ सादयति ।

दक्षिणेऽस इत्यत्र दक्षिणवचनं वसतीवरीणामन्तरजातासिध्यर्थम् । अंसग्रहणं पार्थ- व्यावृत्त्यर्थम् । उत्तरपूर्वया द्वारोपनि त्यति कामनाथ विहितस्यैतस्य तस्व एव नान्य- था। तदभाव उतरपूर्वयोत्तरया वा द्वारोपनिहरणम् ।

आदाय कुम्भꣳ सव्येऽꣳसेऽत्याधाय तीर्थेन प्रपाद्य विश्वेषां देवानां भागधेयीः स्थेत्याग्नीध्रे सादयति ।।

तीर्यशब्दो वेद्युत्करयोरन्तरा प्रदेश चात्वालोत्करयोरन्तर प्रदेशे च वर्तते । अन्जरा वेद्युत्करावन्तरेण चात्वालोत्करौ वा सार्थमिति सूत्रान्तरात् । अचा- स्वाले कर्मणि पूर्वतीर्थ सचावाल उत्तरम् । आग्नीधः आग्नीप्रधिष्ण्यसमीपे । जागृति मन्त्रान्तः । आदाय कुम्भं सव्य सेऽत्याधाय तीन प्रपद्येत्येतायतैव सन्येऽसेऽत्याहि- तत्त्वाव्यस्य तीर्थन प्रपादने सिद्धे गिप्रयोगोऽन्यत्रापि खेनागृहीतस्यापि तीर्थन प्रपादनं ज्ञापयति । तेन पश्चादीनां तीर्थेन प्रपादनं सिद्धं भवसि । इदमपि अत्र वचनाज्जातं भवति केनचित्पदार्थेन. स्वस्यासाहिये तीन प्रपदनं नानियतमिति । ७६० सत्यापाढविरचितं श्रौतसूत्र- [ सप्तमप्रश्न- नन्वन्तरा यज्ञाङ्गानि बाहाः कर्तार इत्यनया परिभाषयैवान्तरङ्गत्वे सिद्धे पुनरन्तर- स्वसिद्ध्यर्थं सन्यदक्षिणग्रहणं तत्र तत्र यत्कृतं तब्यर्थमिति चेत्सत्यम् । कर्तृगृही- तस्य यज्ञातस्यान्तरङ्गत्वमत्रैक नान्यतिज्ञापनार्थत्वात् । अत्रैवोच्यमाने तातिरिक्त. मिन्नेव स्थलान्तरे नियमामायापत्तिरतस्तत्र तत्र सव्यदक्षिणवचनम् ।

अत्र वसन्ति ।

अत्राऽऽमी एव वसन्ति नान्यत्र । वसन्तीत्यत्रान्तीवितो णिच् । तेन वासयन्ती- स्यों मवति । अध्वर्युरित्येक शेषः । बहुवचनस्य पूजार्थत्वात् । अथवाऽध्वर्युचतुष्टयेन असमीया वसतीवर्य इति शेषः । आम उपवासयत्येतद्वै यज्ञस्यापराजितं यदायी पदेव यज्ञस्पापसनितं तदेवैना उपवासयतीति श्रुतेः । एना क्सतीवर्यः ।

सुब्रह्मण्य सुब्रह्मण्यामाह्वयेति संप्रेष्यति पितापुत्रीया सुब्रह्मण्या भवेति ।

पूर्वपश्याख्येयम् ।

या यजमानस्य व्रतधुक्तामाशिरे दुह्रत या पत्न्यास्तां दधिग्रहाय या घर्मधुक्तां दधिघर्माय तप्तमनातङ्क्यं पयो मैत्रावरुणाय शृतातङ्क्यं दध्यादित्यग्रहाय कुरुतादिति संप्रेष्यति।

या यजमानस्य मतदोग्धी गौस्तामाशिर आशिरनिमित्तं दुहृत, मथितं दध्याशिरं, या पत्त्या व्रतदोन्धी गौस्तां दधिग्रहाय दधिग्रहार्थ दुहन, दना ग्राह्यो ग्रहो दधि- ग्रहः । अनेनार्थादधिरूपं हव्यमन्त्र ज्ञायते । या धर्मधुक्, धर्मः प्रवर्दीस्तत्संबन्धिद्रव्य दोग्धी गौस्ता दधिधर्माय दुहृत । दना साध्यो धर्मो धर्मनामककर्मविशेषो दधिर्म- स्तदर्थमित्यर्थः । अत्रापि अनन्तरोक्तरीत्या दधिरूपमेव द्रव्यं ज्ञायते । तप्तमनातङ्ग्य- मनातञ्यं यस्य तमस्य सत आतश्चनं न, एतादृशं पयो मैत्रावरुणाय मैत्रावरुणमहाय। कुरुतेत्यत्राऽऽकृष्यतेऽथवा कुरुतादित्यत्रापकृष्यते । शृतं सदेवाऽऽतब्च्यं बुध्नस्य शीतस्वापेक्षा पत्र न तच्छृतातङ्यमित्युच्यते । एतादृशं दधि आदित्यग्रहायाऽऽ- दित्यग्रहार्थं कुरुतादित्यर्थः । कुरुतादिति लोटः प्रथमपुरुषैकवचनम् । बधिग्रहदधिध- भर्थियोर्दमोर्न शृतातक्ष्यरूपता । आज्यग्रहस्य सोमग्रहस्य वा तत्कायनयाऽनुष्ठान कर्तव्यस्वेनामिमतं यदा तदा या पल्यास्तां दधिग्रहायेति लुप्यते । दधिग्रहाभावेन दोहामादात् । अवार्ये या धर्मधुक्तां दधिधर्मायेत्येतस्लुप्यते । दधिधर्मामावेन दोहामा कात् । मैत्रावरुणपयोर्थ यस्याः कस्याश्चिद्रोर्दोहः । शृतातक्पार्थ यस्याः कस्याश्चित् । आशिरादित्रयार्थदोहकर्ताऽतो मैत्रावरुणपयोथैदोहकर्ता तु तप्तमनातक्यं पयो मैत्रा- वरुणायेत्यत्र दुहतेत्यस्यान्वय इति पक्ष आशिरादित्रयार्थदोहनवत्कर्ताऽत्रापि अनि-- यतः । कुछतादित्य ग्रिमस्यात्रान्वय इति पक्षे तु प्रतिप्रस्थातैव । एकवचनात् । एकव(अ०पटलः ] गोपीनाथभकृतज्योत्साव्याख्यासमेतम् । ७६१ चनादादित्यग्रहार्थगतातङ्ग्यदध्यर्थदोहकर्ताऽपि पूर्ववत्प्रतिप्रस्थातैव । पञ्चानां दोहा- नामत्रैव करणं प्रैषानुरोधात् । सवनीयामिक्षार्थस्य दोहस्येदानीमेव दोहनम् । साना- व्यनिष्पत्तेर्दिनद्वयसाध्यत्वात् । सवनीयामिक्षार्थदोहकर्ता प्रतिप्रस्थातैव प्रातोहस्य तस्कर्तृकत्वेन तसंबन्धिन एतस्यापि तत्कर्तृकताया एव युक्तत्वात् । अनुबन्ध्यास्था- नीयामिक्षाकरणमन्यथाऽनुपपत्त्या लौकिकन दत्रैव । कलौ गवालम्भस्य निषिद्धत्वादा- मिक्षव । तत्र पञ्च दोहास्तूष्णीम् । सक्नीयामिक्षार्थ समन्त्रको दोहः । पञ्चानां वोहानाममन्त्रमेव शाखाहरणादितन्त्रम् । तप्तमनातळ्यमिति वचनात्तापमात्र कार्यम् । पयस आतञ्चने दयित्वापत्तिः । इष्टापत्तौ तु पयसा मैत्रावरुणं श्रीणातीति पयःकरणक श्रपणं न सिध्येत् । एवं चार्थादेवाऽऽतञ्चननिवृत्तावनातक्यमिति वचनं शाखाहरणा- दिदोहधर्मप्राप्ति ज्ञापयति । स च पयसः प्रदानार्थस्वाभावातूष्णीमेव । अत एव क्रय- धर्मा न भवन्ति । तथा च नवमाध्याये चतुर्थपादे नैमिनि:-श्रपणानां त्वपूर्णत्वात्प्रदा- नार्थे विधानं स्यात्, गुणो वा श्रपणार्थत्वादित्यादिसूत्रैरमुमर्थमाह । सो पयसा मैत्रावरुणं श्रीणातीति पयसः सोममिश्रण प्रदानार्थ दृष्टार्थत्वात् । सोमसंस्कारार्थत्वे स्वदृष्टार्थता स्यादिति प्राप्ते द्वितीयाश्रुतिवशाददृष्टकल्पने दोषाभावान्न पयसः प्रदेय. त्वमिति । श्रपणानां पयःप्रभूतीनां प्रदानार्थे । सवनीयामिक्षार्थ समन्त्रकमेव शाखा- हरणादितन्त्रम् । अथवाऽऽदौ सर्वेषां क्रमेणामन्त्रसमन्त्रभेदेन शाखाहरणम् । क्रमेण तथैवोपवेषकरणं तथैव त्रिवर्भपवित्रावसर्जनम् । कमेण तथैव दोहा इति । शतं मित्रावरुणाम्या शरदो दुहानाः । इह वो मित्रावरुणौ रमयतां गावः प्र णो ब्रूहि मित्रावरुणाभ्यार हविरिन्द्रियं बहु दुग्धि मित्रावरुणाभ्यां देवेभ्यो हव्यं० सोमेन त्वाऽऽतनच्मि मित्रावरुणाभ्यां दधि, इति सवनीयामिक्षायां विकारः । शाखोपवेषयो- राहरणसमय एवं परिज्ञानार्थ बिहानि कार्याणि । अथवाऽऽदावेव सवनीयामिक्षार्थ- को दोहः । ततोऽमन्त्रकाः पञ्च दोहाः । एतदनुरोधेनैव शाखाहरणोपवेषकरणादि । सर्वेषु दोहेषु जातेषु समकामिक्षायाः प्रातःहाय वत्सापाकरणम् ।

आग्नीध्र ऋत्विजोऽलंकृता वसन्ति ।

अनेन सदसि वासो ब्यावयते । आपस्तम्बेन न सदस्युपवस्तवा इति दोहार्थप्रैष एवं निषेध उक्तः । अकृता इत्यत्रालंकारो मानुष एव नतु दिच्यापच्यौ । ते चोका वैखानसेन- हेमभूषणसंपन्नः शुभ्रवस्त्रानुलेपनः । सुगन्धिकुसुमैर्जुष्टो दिव्योऽलंकार उच्यते ॥ स एव पुष्परहितः साञ्जनो मानुषः स्मृतः । एषोऽनुलेपरहितः पित्र्योऽलंकार ईरितः ॥ इति । १खग, पति । । ७६२ सत्याषाढविरचितं श्रौतसूत्र-सप्तमप्रश्नेऽष्टमः पटलः]

प्राग्वꣳशे पत्नीं जागरयन्ति ।

विनस्त्वयैतस्या रात्री जागरणमेव कर्तव्यमिति पत्नी जागरणे नियोज्य निद्रा- माधायां निद्रा कुर्यः । नतु निद्राया अवश्यकर्तव्यतः । न च बोधनविधिवशान्निद्राया आवश्यकत्वमन्यथा विधेयर्थ्यांपत्तेरिति वाच्यम् । निद्रासत्व एव बोधनविधेश्वारि- तार्थ्यसंभवेन विधेयर्थ्याभावात् । जागस्यन्तीत्यत्र प्रयोनका ऋत्विनः ।

हविर्धाने यजमानो राजानं गोपायति गोपायति ।। २५ ।।

इति हिरण्यकेशिसूत्रे सप्तमप्रश्नेऽष्टमः पटलः ।

हविर्धानवचनं इवि/नादन्यत्रापि सतो राज्ञो गोपनं. व्यावयते । यथा राजानं. भृत्या रसन्ति तद्वद्यजमानः परिकर्मिभिः सह सोम राजानमैकाग्येण दस्युभ्यः श्वादिम्यश्च रक्षतीत्यर्थः । यजमानवचनमवर्युव्यावृत्त्यर्थम् । जाग]ता रात्रि हविर्धाने राजानं गोपायन्नित्येतावदे (त्ये)व सूत्रे याजमानसूत्र एव लाघवात्कर्तव्येऽत्र पृथक्सूत्रका रणं स्वस्य गोपनाशक्तावन्येनापि गोपनं करणीयमिति द्वादशाहायहीनद्वितीयादिरा- त्रिषु जाति वा न जागर्ति यदा जागति तदा स्वयं राजानं रक्षत्यन्येन वा रक्षयेत्, यदा न जागात तदाऽन्येनैवेत्यर्थादित्येतादृशार्थज्ञापनार्थम् । द्विरुक्तिः प्रश्नसमातियो- तनार्थी। इति ओकोपाहश्रीमदग्निष्टोमयाजिसाहस्राग्नियुक्तवाजपेययाजिसर्वतोमुख- याजिद्विषासहस्रामियुक्तपौण्डरीकयाजिगणेशदीक्षिततनूजगोपी- नाथदीक्षितविरचितायां श्रीमद्भगवत्सत्यापाढहिरण्यके. शिसूत्राम्बुधिगतनिगूढार्थरत्नविवेचनक्लेशकृतवि. द्वज्जनसंतापशामिकायां ज्योत्स्नाख्यायां वृत्ती सप्तममनस्याष्टमः पटलः ॥८॥

संपूर्णोऽयं सप्तमः प्रश्नः ।