कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्/प्रश्नः ०३

विकिस्रोतः तः
← प्रश्नः ०२ कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्
प्रश्नः ०३
हिरण्यकेशिः/सत्याषाढः
प्रश्नः ०४ →

3.1 अथ तृतीय प्रश्ने प्रथमः पटलः ।
वैदिकानाꣳ शब्दानाꣳ स्मृतिग्रहणानि लौकिकानि ।
कर्मणाऽभ्युदयोऽकर्मण्यप्रत्यवायोऽनियतानां तु ।
अकर्मणि दोषो येषां लोकेऽकर्मण्युपालम्भस्तानि नियतानि ।
निःश्रेयसबुद्धिः प्रजनसंबन्धापेक्षा ।
अतिथिपूजागुरुपूजासंनिपाते चाभिवादनम् ।
तत्कारितत्वाद्ब्राह्मणराजन्ययोर्वैश्यस्य च वेदाध्ययनं तन्नियतम्।
तेषामेव ब्राह्मणविहिता यज्ञा येषु यज्ञकार्त्स्न्यमविप्रतिषिद्धम् ।
यथा द्रव्यवत्ता शरीरकार्त्स्न्यं च ।
येषां च प्रकृतिलिङ्गानि यज्ञाः श्रूयन्ते त्रीन्वृणीते मन्त्र- कृतो वृणीते यथर्षि मन्त्रकृतो वृणीत इति विज्ञायते ।
गायत्रिया ब्राह्मणस्य परिदध्यात्त्रिष्टुभा राजन्यस्य जगत्या वैश्यस्येति ।
तेषामग्निहोत्रं दर्शपूर्णमासौ च नियतौ ।
सोमेज्या ब्राह्मणस्य ।
आधानादग्निहोत्रं दर्शपूर्णमासौ च नियतौ ।
निषादरथकारयोराधानादग्निहोत्रं दर्शपूर्णमासौ च नियम्येते ।
तथा जीवपितुः ।
उपक्रमादितरे नियम्येरन् ।
तत्र नित्यस्य द्रव्यस्याभावे सामान्यात्प्रतिनिधिः ।
अर्थावाप्तौ द्रव्यसामान्यम् ।
अर्थविप्रतिषेधे त्वर्थसामान्यम् ।
यथा यूपाञ्जने सर्पिषोऽभावे तैलम् ।
प्रतिषिद्धेभ्यो निवृत्तः प्रतिनिधिः ।
अविशेषेण हि प्रतिषेधः श्रूयते ।
विकल्पे प्रवृत्तिलक्षणः ।
कृत्स्नाभावे प्रतिनिधिः ।
मात्रापचारे तेन समाप्येत ।
द्रव्याभावे प्रतिनिधिर्विध्यपराधे प्रायश्चित्तम् ।
न स्वामित्वस्य भार्यायाः पुत्रस्य देशस्य कालस्याग्नेर्दे-
वतायाः कर्मणः शब्दस्य च प्रतिनिधिर्विद्यते ।। १ ।।
इति हिरण्यकेशिसूत्रस्य तृतीयप्रश्ने प्रथमः पटलः ।।

3.2 अथ तृतीयप्रश्ने द्वितीयः पटलः ।
अग्नीनाधास्यमानस्य यो अश्वत्थः शमीगर्भ आरुरोह त्वे सचा । तं ते हरामि ब्रह्मणा यज्ञियैः केतुभिः सहेत्यश्वत्थस्य शमीगर्भस्यारणी उद्धरति।
अपि वाऽश्वत्थादेवोद्धरेदियं वै शमी तस्या एष गर्भो यदश्वत्थ इति विज्ञायते ।
अश्वत्थाद्धव्यवाहाद्धि जातामग्नेस्तनूं यज्ञियाꣳ संभरामि ।. शान्तयोनिꣳ शमीगर्भमग्नये प्रजनयितव इति संभरत्यायुर्मयि धत्तामायुर्यजमान इति संभृते अभिमन्त्रयते ।
कृत्तिका रोहिणी मृगशीर्षं पुनर्वसूफल्गुन्यौ हस्तश्चित्रा विशाखे अनूराधाः श्रोणा प्रोष्ठपदाश्चोत्त रेऽग्न्याधेयनक्षत्राणि कृत्तिका ब्राह्मणस्योत्तरे फल्गुन्यौ चित्रा च राजन्यस्यावशिष्टानीतरेषाम् ।
सर्वेषां तु काम्यानि ।
कृत्तिकास्वग्निमादधीत यः कामयेत मुख्यो ब्रह्मवर्चसी स्याम् ।
कामं तु मेऽग्निर्गृहान्दाहुकोऽस्त्विति ।
रोहिण्यां यः कामयेत सर्वान्रोहान्रोहयेयमिति ।
मृगशिरसि यः कामयेत श्रीमान्स्यामिति ।
यः पुरा भद्रः सन्पापीयान्स्यात्स पुनर्वस्वोः ।
यः कामयेत दानकामा मे प्रजाः स्युरिति स पूर्वयोः फल्गुन्योः ।
यः कामयेत भगी स्यामिति स उत्तरयोः ।
विपरीतमेके समामनन्ति ।
हस्ते यः कामयेत प्र मे दीयेतेति ।
चित्रायां भ्रातृव्यवान् ।
विशाखयोः वै प्रजाकामः ।
अनूराधेष्वृद्धिकामः
श्रोणायां पुष्टिकामः ।
प्रोष्ठपदेषु ब्रह्मवर्चसकामः । सूर्यनक्षत्रे वा ।
अथो खलु यदैवैतꣳ श्रद्धोपनमेत्तदाऽऽदधीत ।। २ ।।
वसन्तो ब्राह्मणस्याऽऽधानकालः ।
ग्रीष्मो हेमन्तश्च राजन्यस्य ।
वर्षा रथकारस्य ।
शरद्वैश्यस्य ।
सर्वेषाꣳ शिशिरः ।
अमावास्यायां पौर्णमास्यामापूर्यमाणपक्षे वा ।
पुण्ये नक्षत्रे ।
यत्र त्रीणि संनिपतितान्यृतुर्नक्षत्रं पर्व तत्समृद्धम् ।
विप्रतिषेध ऋतुर्नक्षत्रं च बलीयः ।
सोमेन यक्ष्यमाण आदधानो नर्तुं न नक्षत्रꣳ सूर्क्षेदित्येकेषाम् ।
प्राचीनमुदीचीनं वोदवसाय शालीनोऽग्नीनादधीत प्राचीनप्रवणे देवयजने ।
गृहेषु यायावरः ।
उदीचीनवꣳशा शाला ।
तस्याः पूर्वेण मध्यमं वꣳशमधिवृक्षसूर्य औपासनाद्ब्राह्मौदनिकमादधाति ।
निशायां ब्रह्मौदनं चतुःशरावं निर्वपति ।
रोहिते चर्मणि पाजके वा ।
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां ब्रह्मणे प्राणाय जुष्टं निर्वपामि ब्रह्म- णेऽपानाय ब्रह्मणे व्यानाय ब्रह्मण इति चतुर्थम् ।
अवहत्य पयसि चरुꣳ श्रपयति ।
चतुर्षु वोदपात्रेषु ।
न निर्णेनेक्ति ।
नावसिञ्चति ।
श्रपयित्वाऽभिघार्योद्वास्य ।
प्रवेधसे कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे । यतो भयमभयं तन्नो अस्त्ववदेवान्यजेहेड्यानिति जुहोति ।
अभिमन्त्रयते वा ।
तं चतुर्धा व्युद्धृत्य प्रभूतेन सर्पिषोपसिच्य ।
स्थाल्याम् सर्पिःशेषमानयति ।
अनुच्छिन्दन्निव चतुर्भ्य आर्षेयेभ्य ऋत्विग्भ्य उपोहति ।
प्राशितवत्सु ।
यः स्थाल्याꣳ शेषस्तस्मिन्नार्द्राः सपलाशाः ।। ३ ।।
स्तिभिकवतीरस्तिभिका वा प्रादेश मात्रीर्लक्षण्यस्याश्वत्थस्य तिस्रः समिधोऽनक्ति ।
चित्रियादश्वत्थात्संभृता बृहत्यः शरीरमभि सꣳस्कृताः स्थ । प्रजापतिना यज्ञमुखेन संधितास्तिस्रस्त्रिवृद्भिर्मिथुनाः प्रजात्या इत्यभिमन्त्र्य । ब्राह्मौदनिक आदधाति ।
प्र वो राजा अभिद्यवो हविष्मन्तो घृताच्या । देवाञ्जिगाति सुम्नयुः । उप त्वा जुह्वो मम घृताचीर्यन्तु हर्यत । अग्ने हव्या जुषस्व नः । उदग्ने तव तद्घृतादर्ची रोचत आहुतम् । निꣳसानं जुह्वो मुख इति तिसृभिर्गायत्रीभिर्ब्राह्मणस्य ।
समिधाऽग्निं दुवस्यतेत्येषा । उप त्वाऽग्ने हविष्मतीर्घृताचीर्यन्तु हर्यत । जुषस्व समिधो मम । तं त्वा समिद्भिर- ङ्गिरो घृतेन वर्धयामसि । बृहच्छोचा यविष्ठ्येति वा ।
समिध्यमानः प्रथमो नु धर्मः समक्तुभिरज्यते विश्ववारः । शोचिष्केशो घृतनिर्णिक्पावकः सुयज्ञो अग्निर्यजथाय देवान् । घृतप्रतीको घृतयोनिरग्निर्घृतैः समिद्धो घृतमस्यान्नम् । घृतप्रुष- स्त्वा सरितो वहन्ति घृतं पिबन्सुयजा यक्षि देवान्। आयुर्दा अग्न इति त्रिष्टुग्भी राज्यन्यस्य ।
त्वामग्ने समिधानं यविष्ठ देवा दूतं चक्रिरे हव्यवाहम् । उरुज्रयसं घृतयोनिमाहुतं त्वेषं चक्षुर्दधिरे चोदयन्वति । त्वामग्ने प्रदिव आहुतं घृतेन सुम्नाय वः सुषमिधा समी- धिरे । स वावृधान ओधीभिरुक्षित उरुज्रयाꣳसि पार्थिवा वितिष्ठसे । घृतप्रतीकं व ऋतस्य धूर्षदमग्निं मित्रं न समिधान ऋञ्जते । इन्धानो अक्रो विदथेषु दीद्यच्छु- क्रवर्णामुदु नो यꣳसते धियमिति जगतीभिर्वैश्यस्य ।
धारयति ब्राह्मौदनिकम् ।
संवत्सरमृतुं द्वादशाहं चतुरहं त्र्यहं द्व्यहमेकाहं वा ।
प्रयात्यनुगते चैवं विहितं ब्रह्मौदनं पक्त्वैताः समिधोऽभ्यज्याऽऽदध्यात् । ।।
यद्येनꣳ संवत्सरेऽग्न्याधेयं नोपनमेदेवं विहितं ब्रह्मौदनं पक्त्वैताः समिधोऽ- भ्यज्याऽऽधाय यदा शक्नोत्यथाऽऽधत्ते ।
श्व आधास्यमानो ब्रह्मौदनं पचति ।
श्व आधास्यमानेऽध्वर्युरेताꣳ रात्रिं व्रतं चरति ।
नानृतं वदति न माꣳसमश्नाति न स्त्रियमुपैति । प्रजा अग्ने संवासयाऽऽशाश्च पशुभिः सह । राष्ट्राण्यस्या आधेहि यान्यासन्सवितुः सव इति गार्हपत्यायतने कल्माषमजं बध्नाति शिल्पैरेताꣳ रात्रिं यजमानं जागरयन्ति ।। ४ ।।
इति हिरण्यकेशिसूत्रस्य तृतीयप्रश्ने द्वितीयः पटलः ।

3.3 अथ तृतीयः पटलः ।
ततः संभारानाहरति वैश्वानरस्य रूपमित्येतैर्यथारूपम् ।
जातवेदो भुवनस्य रेत इह सिञ्च तपसो यज्जनिष्यते । अग्निमश्वत्थादधि हव्यवाहꣳ शमीगर्भाज्जनयन्यो मयोभूः । अयं ते योनिर्ऋत्विय इति द्वाभ्यां ब्राह्मौदनिक उपव्युषमरणी निष्टपति ।
दोह्या च ते दुग्धभृच्चोर्वरी ते ते भागधेयं प्रयच्छामि ताभ्यां त्वादध इत्यरणी यजमानाय प्रयच्छति ।
मयि गृह्णामि यो नो अग्निरिति द्वाभ्यामात्मन्नग्निं गृहीत्वा ।
अग्नी रक्षाꣳसि सेधति शुक्रशोचिरमर्त्यः । शुचिः पावक ईड्य इत्यभिमन्त्र्यानुगमयति ब्राह्मौदनिकम् ।
प्राचीनं ब्राह्मौदनिकाद्गार्हपत्यायतनमुद्धन्ति ।
उद्धन्यमानमस्या अमेध्यमप पाप्मानं यजमानस्य हन्तु । शिवा नः सन्तु प्रदिशश्चतस्रः शं नो माता पृथिवी तोकसातेति ।
दक्षिणतः पुरस्ताद्वितृतीयदेशे नेदीयसि गार्हपत्यस्य दक्षिणाग्नेरायतनम् ।
प्राचीनं गारह्पत्यायतनादाहवनीयायतनमुद्धन्ति बाह्यत इतरयोः ।
द्वादशसु विक्रामेष्वग्निमादधीतेत्यविशेषेण श्रूयते ।
अष्टासु ब्राह्मणस्यैकादशसु राजन्यस्य द्वादशसु वैश्यस्य ।
चतुर्विꣳशतिरपरिमितं च साधारणे ।
चक्षुषा प्रक्रमान्प्रमिमीतेति विज्ञायते ।
प्राचीनमाहवनीयात्सभा तत्र सभ्यस्य प्राचीनमावसथः सभायास्तत्राऽऽवसथ्यस्य ।
एवमनुपूर्वाण्येषां कर्माणि क्रियन्ते ।
शं नो देवीरभिष्टय आपो भवन्तु पीतये । शंयोरभिस्रवन्तु न इत्यद्भिरवोक्षति ।
उद्वयं तमसस्पर्युदु त्यं चित्रमित्यत्र खरहोमानेके समामनन्ति ।।५ ।।
उपक्लृप्ताः संभाराः पञ्च पार्थिवाः सप्त वा ।
एवं वानस्पत्याः ।
तेषामेकैकं द्वैधं विभज्य।
गार्हपत्यदक्षिणाग्न्योर्निवपति ।
अर्धाꣳस्त्रैधं कृत्वा पूर्वेषु ।
अग्नेर्भस्मासीति सिकता निवपति ।
संज्ञानमसि कामधरणमित्यूषान् ।
तान्निवपन्यददश्चन्द्रमसि कृष्णं तदिहास्त्विति मनसा ध्यायति ।
उदेह्यग्ने अधिमातुः पृथिव्या विश आविश महतः सधस्यात् । आशुं त्वा यो दधिरे देवयन्तो हव्यवाहं भुवनस्य गोपामित्यारदूत्करम् ।
यत्पृथिव्या अनामृतꣳ संबभूव त्वे सचा । तदग्निरग्नयेऽददात्तस्मिन्नाधीयतामयमिति गार्द्दपत्यायतने वल्मीकवपां निदधाति ।
यदन्तरिक्षस्यानामृतमिति दक्षिणाग्नेर्यद्दिवोऽनामृतमित्याहवनीयस्य ।
तूष्णीमितरयोः ।
उत्समुद्रान्मधुमाꣳ ऊर्मिरागात्साम्राज्याय प्रतरां दधानाः । अमी च ये मघवानो वयं चेषमूर्जं मधुमत्संभरेमेति सूदम् । इयत्यग्न आसीरिति वराहविहतम् ।
अदो देवी प्रथमाना पृथग्यद्देवैर्न्युप्ता व्यसर्पो महि त्वा । अदृꣳहथाः शर्कराभिस्त्रिविष्टप्यजयो लोकान्प्रदिशश्चतस्र इति शर्करास्ता निवपन्यं द्वेष्टि तस्य वधं मनसा ध्यायति ।
लौहान्यौदुम्बराणि पार्थिवानां विकल्पार्थानि भवन्ति ।
यास्ते शिवास्तनुवो जातवेदो या अन्तरिक्ष उत पार्थिवीर्याः । ताभिः संभूय सगणः
सजोषा हिरण्ययोनिर्वह हव्यमग्न इत्युत्तरतः संभाराणाꣳ सुवर्णꣳ हिरण्यमुपास्यति ।
अतिप्रयच्छति रजतं द्वेष्याय यदि द्वेष्यं न विन्देन्निरस्येन्नोपास्य पुनराददीत ।। ६ ।।
चन्द्रमग्निं चन्द्ररथꣳ हरिव्रतं वैश्वानरमप्सुषदꣳ सुवर्विदम् । विगाहं तूर्णिं तविषीभिरावृतं भूर्णिं देवास इह सुश्रियं दधुरित्युपास्तमनुमन्त्रयते ।
पुष्करपर्ण उदुम्बरः शमी विकङ्कतोऽश्वत्थोऽशनिहतो वृक्षः पलाशश्च ।
अपि वा येऽन्ये पुष्करपर्णाद्विकङ्कताच्चेति वानस्पत्या- स्तानितः प्रथमं जज्ञे अग्निरिति सकृदेवैकैकस्मिन्निवपति ।
सं या वः प्रियास्तनुव इत्यूषान्सिकताश्च सꣳसृजति।
सं वः सृजामि हृदयानि सꣳसृष्टं मनो अस्तु वः । सꣳ सृष्टः प्राणो अस्तु व इति सर्वान्संभारान्सꣳसृजति ।
ऋतꣳ स्तृणामि पुरीषं पृथिव्यामृतेऽध्यग्निमादधे सत्येऽध्यग्निमादधे दिवस्त्वा वीर्येण पृथिव्यै महिम्ना । अन्तरिक्षस्य पोषेण सर्वपशुमादध इति सꣳसृष्टान्कल्पयति ।
उद्यत्सु रश्मिष्वपोदू(दु)ह्य ब्राह्मौदनिकस्य भस्म ।
दशहोत्राऽरणी संनिधाय ।
सहाग्नेऽग्निना जायस्व सह प्रजया सह रय्या सह पुष्ट्या सह पशुभिः सह ब्रह्मवर्चसेनेत्यत्राग्निः मन्थत्युपतिष्ठत्यश्वे।
मथ्यमानेऽग्नौ चतुर्होतॄन्यजमानं वाचयति ।
अगन्नग्निर्होता पूर्वः पूर्वेभ्यः पवमानः पावकः शुचिरीड्य इति जातमग्निमनुमन्त्रयते ।
अजीजनन्नमृतं मर्त्यासोऽस्रेमाणं तरणिं वीडुजम्भम् । दश स्वसारो अग्रुवः समीचीः पुमाꣳसं जातम- भिसꣳरभन्तामिति जातं परिगृह्णाति ।। ५ ।। इति हिरण्यकेशिसूत्रे तृतीयप्रश्ने तृतीयः पटलः ।

3.4 अथ चतुर्थः पटलः ।
तमादाय प्रथमाभ्यां व्याहृतीभ्यां यथर्ष्याधानेन प्रथमाभ्याꣳ सार्पराज्ञीभ्यां प्रथमेन च घर्मशिरसा प्राणे त्वामृतमादधाम्यन्नादमन्नाद्याय गोप्तारं गुप्त्यै । अग्ने गृहपते परिषद्य दिवः पृथिव्याः पर्यन्तरिक्षाल्लोकं विन्द यजमानाय पृथिव्यास्त्वा मूर्धन्सीद यज्ञिये लोके यो नो अग्ने निष्ट्यो यो निष्ट्योऽभिदासतीदमहं तं त्वयाऽभिनि- दधामीति गार्हपत्यायतने संभारेषु प्रतिष्ठापयति ।
नाऽऽत्मानमुपरीव न कर्णदघ्नमत्युद्गृह्णात्यात्मानम् ।
उद्यच्छतीध्ममुपयच्छत्युपयमनीः ।
उपयते धार्यमाणे ।
लौकिकमग्निमाहृत्य मथित्वा वाऽऽग्नीध्रो दक्षिणाग्निमादधाति ।
द्वितीयया व्याहृत्या यथर्ष्याधानेन द्वितीयतृतीयाभ्यां सार्पराज्ञीभ्यां द्वितीयेन घर्मशिरसाऽग्नेऽन्नपा मयोभुवः सुशेव दिवः पृथिव्याः पर्यन्तरिक्षाल्लोकं विन्द यजमानाय पृथिव्यास्त्वा मूर्धन्सीद यज्ञिये लोके यो नो अग्ने निष्ट्यो यो निष्ट्योऽभिदासतीदमहं तं त्वयाऽभि निदधामीति दक्षिणाग्न्यायतने संभारेषु प्रतिष्ठापयति यज्ञायज्ञिये गीयमाने ।
यो ब्राह्मणो राजन्यो वैश्यः शूद्रो वा सुर इव बहु पुष्टः स्यात्तस्य गृहादाहृत्याऽऽदध्यात् ।
अत ऊर्ध्वमस्यान्नं नाद्यात् ।
वृक्षाग्राज्ज्वलतो ब्रह्मवर्चसकामस्य ।
भर्जनादन्नाद्यकामस्य ।
या वाजिन्नग्नेः पवमाना पशुषु प्रिया तनूस्तामावह या वाजिन्नग्नेः पावकाऽप्सु प्रियातनूस्तामावह या वाजिन्नग्नेः सूर्ये शुचिः प्रिया तनूस्तामावहेत्यश्वस्य दक्षिणे कर्णे यजमानमग्नितनूर्वाचयति ।
विक्रमस्व महाꣳ असि वेदिषन्मानुषेभ्यः । त्रिषु लोकेषु जागृहि प्रजया च धनेन च । प्राचीमनुप्रदिशं क्रमध्वमग्निनेति तिसृभिरश्वप्रथमाः प्राञ्चो गच्छन्ति ।
जानुदघ्नेऽग्रे हरत्यथ नाभिदघ्नेऽथाऽऽस्यदघ्ने ।
नाग्निमादित्यं च व्यवैति ।
पूर्वमग्निं हरति पश्चादन्वेति दक्षिणतो वा परिगृह्येव हरति नाकोऽसि ब्रध्नः प्रतिष्ठा संक्रमणमिति समयार्धे हिरण्यं निधाय वरे दत्तेऽतिक्रामति ।
बृहस्पते परिदीया रथेनेति दक्षिणतो ब्रह्मा रथं वर्तयति ।। ꣳ ।। रथचक्रं वा ।
यावच्चक्रं त्रिः परिवर्तते द्वेष्यस्य षट्कृत्वोऽभ्यस्था द्विश्वाः पृतना अरातीरिति प्राञ्चमश्वं दक्षिणेन पादेन संभारानाक्रमयति पार्श्वतो वोत्तरतः संभाराणां यथाऽऽहितस्याग्नेरङ्गाराः पदमभ्यवपत्स्यन्तीति ।
यदक्रन्दः प्रथमं जायमान इति प्रदक्षिणमश्वं पर्याणीय तदेव पदमाक्रमयति प्रत्यञ्चम् ।
अश्वाभावेऽनडुहः पद आदधीत स तु पूर्ववाडेव स्यात्तस्य सदेव बन्धुः ।
प्रत्यङ्मुखे नियते धार्यमाणे ।
यदिदं दिवो यददः पृथिव्याः संविदाने रोदसी संबभूवतुः । तयोः पृष्ठे सीदतु जातवेदाः शंभूः प्रजाभ्यस्तनुवे स्योन इत्यभिमन्त्र्य ।
सर्वाभिर्व्याहृतीभिर्यथर्ष्याधानेन प्रथमोत्तमाभ्याꣳ सार्पराज्ञीभ्यामुत्तमेन च घर्मशिरसा प्राणं त्वामृत आदधाम्यन्नादमन्नाद्याय गोप्तारं गुप्त्यै। अग्ने सम्राडजैकपादाहवनीयदिवः पृथिव्याः पर्यन्त- रिक्षाल्लोकं विन्द यजमानाय पृथिव्यास्त्वा मूर्धन्सीद यज्ञिये लोके यो नो अग्ने निष्ट्यो यो निष्ट्योऽभिदासतीदमहं तं त्वयाऽभि निदधामी. त्याहवनीयायतने संभारेषु प्रतिष्ठापयति यज्ञाय- ज्ञिये बृहति श्यैते च गीयमाने निहिते वारवन्तीयं
गायति प्रतिषिद्धान्येकेषामग्न्याधेये सामानि ।
आनशे व्यानशे सर्वमायुर्व्यानश इत्याहितमाहवनीयमुपतिष्ठते ।
नानभिहुतमुपस्पृशति ।
आज्येनौषधीभिश्च शमयितव्यः । ।
ओषधीराज्येऽवधाय या ते अग्ने पवमाना पशुषु प्रिया तनूर्या पृथिव्यां याऽग्नौ या रथंतरे या गायत्रे छन्दसीदं ते तामवरुन्धे तस्यै ते स्वाहा या ते अग्ने पावकाऽप्सु प्रिया तनूर्याऽन्तरिक्षे या वायौ या वामदेव्ये या त्रैष्टुभे छन्दसीदं ते तामवरुन्धे तस्यै ते स्वाहा । या ते अग्ने सूर्ये शुचिः प्रिया तनूर्या दिवि याऽऽदित्ये या बृहति या स्तनयित्नो या जागते छन्दसीदं ते तामवरुन्धे तस्यै ते स्वाहेति तिस्रः पवमानाहुतीर्हुत्वा।
लौकिकमग्निमाहृत्य मथित्वाऽऽहवनीयाद्वा सभ्यावसथ्यावादधाति ।
प्रतिषिद्धौ सभ्यावसथ्यावेकेषाम् ।
अग्न आयूꣳषि पवस इति तिसृभिराश्वत्थीस्तिस्रः समिध आदधाति।
सर्वा एकैकस्मिन् ।। १० ।।
अग्निर्ऋषिः पवमानः पाञ्चजन्यः पुरोहितः । तमीमहे महागयमिति तृतीयामेके समामनन्ति ।
समुद्रादूर्मिर्मधुमाꣳ उदारदुपाꣳशुना सममृतत्वमानट् । घृतस्य नाम गुह्यं यदस्ति जिह्वा देवानाममृतम्य नाभिः । वयं नाम प्रब्रवामा घृतेनास्मिन्यज्ञे धारयामा नमोभिः । उप ब्रह्माशृणवच्छस्यमानं चतुःशृङ्गो वमीद्गौर एतत् । चत्वारि शङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्याꣳ आविवेश स्वाहेति शमीमयीर्घृतान्वक्ताः सर्वा एकैकस्मिन् ।
प्रेद्धो अग्ने दीदिहि पुरो न इत्यौदुम्बरीꣳ समिधमादधाति विधेम ते परमे जन्मन्नग्न इति
वैकङ्कतीं ताꣳ सवितुर्वरेण्यस्य चित्रामिति शमीमयीꣳ शमीमयीं पूर्वामेके समामनन्ति वैकङ्कतीमुत्तराम् ।
प्रातरग्निहोत्रस्याऽऽवृता तूष्णीं प्रातरग्निहोत्रं जुहोति ।
जुहूꣳ स्रुवं च संमृज्य ।
चतुर्गृहीतेनाष्टगृहीतेन द्वादशगृहीतेन वा स्रुचं पूरयित्वा सप्त त इति पूर्णाहुतिं जुहोति ।
तामेकेषां तूष्णीमग्निहोत्रमित्यधिकुरुते ।
ये अग्नयो दिवा ये पृथिव्याः समागच्छन्तीषमूर्जं दुहानाः । ते अस्मा अग्नयो द्रविणं दत्त्वेष्टाः प्रीता आहुतिभाजो भूत्वा यथालोकं पुनरस्तं परेत स्वाहेति द्वितीयाम् ।। ११ ।।
इति हिरण्यकेशिसूत्रे तृतीयप्रश्ने चतुर्थः पटलः ।

3.5 अथ तृतीयप्रश्ने पञ्चमः पटलः ।
तदानीमेवाऽऽग्नेयस्याष्टाकपालस्या- न्वाधानादीनि कर्माणि प्रतिपद्यते ।
यत्प्राक्प्रोक्षणात्तत्कृत्वा ।
सभायां मध्येऽधिदेवनमुद्धत्यावोक्ष्याक्षान्न्युप्य व्यूह्य (व्यु) समू(मु)ह्य प्रथयित्वाऽक्षेषु हिरण्यं निधाय निषसाद धृतव्रत इति जुहोति ।
आवसथे मध्ये परिषदो हिरण्यं निधाय प्रनूनं ब्रह्मणस्पतिर्मन्त्रं वदत्युक्थ्यम् । यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकाꣳसि चक्रिर इति जुहोति ।
उत नोऽहिर्बुध्नियः शृणोत्वज एकपात्पृथिवी समुद्रः ।
विश्वे देवा ऋतावृधो हुवानाः स्तुता मन्त्राः कविशस्ता वहन्त्वेना राजन्हविषा मादयस्वेत्यावसथमभिमन्त्र्य । शतमक्षान्यजमानाय प्रयच्छति ।
तेषु कृतं विजित्य ।
सभासद्भ्यः प्रदीयमानेषु व्रीहिभ्यो गां दीव्यताहिꣳसन्तः पर्वाणि विशसतेति संप्रेष्यति ।
कल्पेतां द्यावापृथिवी येऽग्नय इति यथर्तु क्लृप्तिसामनसीभ्यामग्नीनुपतिष्ठते ।
प्रोक्षणप्रभृतीन्याग्नेयस्य कर्माणि प्रतिपद्यते सिद्धꣳ संतिष्ठते ।
पवमानहविभिर्यजते संवत्सर ऋतौ मासेऽर्धमासे
द्वादशाहे चतुरहे त्र्यहे द्व्यहे श्वोभूते सद्यो वा ।
सोमेन यक्ष्यमाणस्याऽऽदधानस्य पवमानहविषां सांवत्सरिकः कल्पः ।
अग्नये पवमानाय पुरोडाशमष्टाकपालं निर्वपेदग्नये पावकायाग्नये शुचये ।
समानबर्हिषि नानाबर्हिषि वा ।
प्रथमं वा निरुप्योत्तरे समस्येद् ।
आग्नेयेन वाऽष्टाकपालेन समानतन्त्राणि कुर्यात् ।
अग्नीषोमीयमेकादशकपालमनुनिर्वपत्याग्नावैष्णव- मेकादशकपालमैन्द्राग्नमेकादशकपालमदित्यै घृते चरुं विष्णवे शिपिविष्टाय त्र्यु ( त्र्यृ) - द्धौ घृते चरुं सप्तदशाऽऽदित्यस्य सामिधेन्यो भवन्त्यादित्यस्येडाभागं ब्रह्मणे परिहृत्य सर्वे प्राश्नन्ति तथा चातुर्धाकरणिकानि ।
अग्निहोत्रमारप्स्यमानो दशहोतारं मनसाऽनुद्रुत्य सग्रहꣳ हुत्वा सायमग्निहोत्रस्याऽऽवृता मन्त्रेण सायमग्निहोत्रं जुहोति व्याहृतीभिः प्रथ- ममग्निहोत्रमुपसादयति तथा संवत्सरे ।। १२ ।।

अथ दर्शपूर्णमासयोरारम्भः ।
दर्शपूर्णमासावारभमाणः पूर्वस्य पर्वण औपवसथ्येऽहनि चतुर्होतारं मनसाऽनुद्रुत्य सग्रहꣳ हुत्वा पूर्णा पश्चाद्यत्ते देवा अदधुरिति सारस्वतौ होमौ हुत्वा ।
अन्वारम्भणीयामिष्टिं निर्वपति ।
आग्नावैष्णवमेकादशकपालꣳ सरस्वत्यै चरुम् सरस्वते द्वादशकपालमग्नये भगिनेऽष्टाकपालं यः कामयेत भग्यन्नादः स्यामिति नित्यवदेके भगिने समामनन्ति ।
पुरस्तात्स्विष्टकृतश्चित्तं च स्वाहा चित्तिश्च स्वाहेति द्वादशगृहीतेन द्वादश जयाञ्जुहोति ।
प्रजापतिर्जयानिन्द्रायेति त्रयोदशीम् ।
अग्ने बलद सह ओज आक्रममाणाय मेऽदाः । अभिशस्तिकृतेऽनभिशस्तेनयायास्यै जनतायै श्रेष्ठ्यायेति चतुर्दशीं यां जनतां द्विष्याच्चि(च्छ्रि)त्रं तस्यां जनताया भवत्विति शबलमिव तस्याऽऽत्मञ्जायते ।
अपि वा नान्वारम्भणीयां कुर्वीताऽऽग्नेयमष्टाकपालं निर्वपेत् ।
अमावास्यायामादधानस्यैतदविकृतम् ।
पौर्णमास्यां तु पूर्वस्य पर्वण औपवसथ्येऽहन्यग्नीनाधाय सेष्ट्यपवृज्य ।
तदानीमेव चतुर्होतारं सारस्वतौ होमावन्वारम्भणीयां च कुरुते ।
श्वोभूते पौर्णमासेन यजते व्याहृतीभिर्हवीꣳष्यासादयति तथा संवत्सरे ।। १३ ।।
इति हिरण्यकेशिसूत्रे तृतीयप्रश्ने पञ्चमः पटलः ।

3.6 अथ षष्ठः पटलः ।
पुनराधेयं व्याख्यास्यामस्तस्याग्न्याधेयेन कल्पो व्याख्यातः ।
अग्नीनाधायैतस्मिन्संवत्सरे ज्यानिं पुत्रमर्त्यां वाऽभ्येति स्वेन वाऽङ्गेन विरुध्यते न वर्ध्नोति स पुनराधेयं कुर्वीत ।
पौर्णमास्येष्ट्वाऽमावास्यायामाग्नेयमष्टाकपालं निर्वपेद्वैश्वानरं द्वादशकपालमग्निमुद्वासयिष्यन्नित्येकेषाम् ।
अग्नीषोमीयमेकादशकपालमनुनिर्वपेदग्नयेऽप्सुमतेऽष्टाकपालं मैत्रं चरुम् ।
पुरस्तात्स्विष्टकृतो या ते अग्न उत्सीदतः पवमाना पशुषु प्रिया तनूस्तया सह पृथिवीमाविश रथंतरेण साम्ना गायत्रेण छन्दसा ततो नो मह आवह या ते अग्ने पावका या मनसा प्रेयसी प्रिया तनूस्तया सहान्तरिक्षमाविश वामदेव्येन साम्ना त्रैष्टुभेन छन्दसा ततो न ऊर्जमा कृधि गृहमेधीयं च वर्धय या ते अग्ने सृर्ये शुचिः प्रिया तनूस्तया सह दिवमाविश बृहता साम्ना जागतेन छन्दसा ततो नो वृष्ट्याऽवधि यास्ते अग्ने विभक्तीरिन्द्र सूकर आभर तासु शोचिषु सीदेह भस्म वैश्वानरस्य यत् । यास्ते अग्ने कामदुघा विभक्तीरनुसंभृताः। ताभिर्नः कामान्धुक्ष्वेह प्रजां पुष्टिमथो धनम् । ये ते अग्ने वानस्पत्याः संभाराः संभृताः सह तेभिर्गच्छ वनस्पतीन्स्वां योनिं यथातथम् । अगन्नग्निर्यथा लोकमसदत्सदने स्वे । अवीरहत्यं देवेषूपागां मनसा सहेति सप्ताऽऽहुतीर्हुत्वा ज्वलतोऽग्नीनवसृजति यावद्दर्शपूर्णमासावभिष्टुतौ तावच्चिरमवसृष्टाग्निर्भवति ।। १४ ।। संवत्सरं द्वादशाहं वा ।
रोहिणी पुनर्वसू अनूराधाश्च पुनराधेयनक्षत्राणि ।
वर्षासु शरदि वाऽऽधत्ते ।
सर्वान्मध्यंदिने ।
कृताकृताः संभाराः ।
सर्वाभिः सार्पराज्ञीभिर्गार्हपत्यमादधाति ।
दर्भैरुपोलवैः संवत्सरप्रवातैर्गार्हपत्यादाहवनीयं ज्वलन्तमुद्धरति ।
यत्त्वा क्रुद्धः परो वपेति दक्षिणाग्निमादधाति यत्ते मन्युपरोप्तस्येत्याहवनीयम् ।
मनो ज्योतिर्जुषतामित्याहितमाहवनीयमुपतिष्ठते।
पुनस्त्वाऽऽदित्या रुद्रा वसवः समिन्धतामित्युपसमिन्धे ।
पुनस्त्वाऽऽदित्या रुद्रा वसवः समिन्धतामित्युपसमिन्धे पुनस्त्वाऽऽदित्या रुद्रा वसवः समिन्धतां पुनर्ब्रह्माणो वसुनीथ यज्ञैः । या इष्टा उषसो निम्रुचश्च याज्यास्ताः संदधामि हविषा घृतेन स्वाहेत्याहुतिं जुहोति। मनो ज्योतिर्जुषतामिति द्वितीयाम् ।
जुहूꣳ स्रुवं च संमृज्य चतुर्गृहीतेनाष्टगृहीतेन द्वादशगृहीतेन वा स्रुचं पूरयित्वा सप्त त इति पूर्णाहुतिं जुहोति ।
आग्नेयमष्टाकपालं पञ्चकपालं वाऽऽग्न्याधेयिकस्याष्टाकपालस्य स्थाने निर्वपति ।
तस्योपांशु सर्वं क्रियत ओत्तमादनूयाजात् ।
अग्नाग्नेऽग्नावग्नेऽग्निनाऽग्नेऽग्निमग्न इति चतुर्षु प्रयाजेषु चतस्रो विभक्तीर्दधाति पुरस्ताद्वषट्कारात् ।
पुनरूर्जेति पुरस्तात्प्रयाजानामाहुतिं जुहोत्युपरिष्टादेके समामनन्ति ।
वृधन्वन्तमाग्नेयस्याऽऽज्यभागस्य निगमेषूपलक्षयेत् ।
पवमानं सौम्यस्य ।
सह रय्येति पुरस्तादनूयाजानामाहुतिं जुहोत्युपरिष्टादेके समामनन्ति।
देवो अग्नौ देवो अग्निरिति द्वयोरनूयाजयोर्द्वे विभक्ती दधाति ।
उच्चैरुत्तममनूयाजꣳ संप्रेष्यति ।
आग्निवारुणमेकादशपालमनुनिर्वपेत् ।
यः पराचीनं पुनराधेयादग्निमादधीत स एतान्होमाञ्जुहुयाल्लेकः सलेकः सुलेकः केतः सकेतः सुकेतो विवस्वाꣳ अदितिर्देवजूतिरिति ।
आधानप्रभृति यावज्जीवं गार्हपत्यदक्षिणाग्नी धार्येते तथा
सभ्यावसथ्यौ दक्षिणाग्नेस्त्वनुगतस्य मन्थनकल्पो यदि मथित्वाऽऽधीयते यद्याहार्य आहरणमर्थायार्थायाऽऽहवनीयं
गार्हपत्यादुद्धरति नित्यं गतश्रियो धार्यत आयुष्कामस्य वा ।। १५ ।।
इति हिरण्यकेशिसूत्रे तृतीयप्रश्ने षष्ठः पटलः ।

3.7 अथ सप्तमः पटलः ।
अग्निहोत्रं व्याख्यास्यामः ।
तस्मै सायं प्रातर्ज्वलन्त गार्हपत्यादाहवनीयमुद्धरति ।
अधिवृक्षसूर्ये सायमग्निहोत्रायोषसि प्रातरग्निहोत्राय ।
नक्तं वा धारयेयुः ।
उद्धरेति प्रेषिते वाचा त्वा होत्रा प्राणेनोद्गात्रा चक्षुषाऽध्वर्युणा मनसा ब्रह्मणा श्रोत्रेणाग्नीधैतैस्त्वा पञ्चभिर्दैव्यैर्ऋत्विग्भिरुद्धरामि जहामि मृत्युममृतेनाऽऽदधामि भूर्भुवः सुवरुद्ध्रियमाण उद्धर पाप्मनो मा यदविद्वान्यच्च विद्वाꣳश्चकार । अह्ना यदेनः कृतमस्ति पापꣳ सर्वस्मान्मोद्धृतो मुञ्च तस्मादिति सायम् ।
रात्र्या यदेनः कृतमस्ति पापꣳ सर्वस्मान्मोद्धृतो मुञ्च तस्मादिति प्रातः ।
अमृताहुतिममृतायां जुहोम्यग्निं पृथिव्याममृतस्य जित्यै । तयाऽनन्तं काममहं जयामि प्रजापतिर्यं प्रथमो जिगायाग्निमग्नौ स्वाहेति सायमायतने प्रतिष्ठापयति ।
मूर्यमग्नौ स्वाहेति प्रातः ।
प्रथमास्तमिते सायमग्निहोत्रं जुहोति नक्षत्रं दृष्ट्वा प्रदोषे वोषसि प्रातरग्निहोत्रं पुरोदयमुदिते वा यर्हि वाक्प्रवदेत्तर्हि होतब्यमित्येकेषाम् ।
एतस्मिन्काले सर्वकर्माणि क्रियन्तेऽन्यत्रोद्धरणात् ।
परिसमूहनेनाग्नीनलं करोत्यग्ने गृहपते शुन्धस्वेति गार्हपत्यमग्ने वह्ने शुन्धस्वेति दक्षिणाग्निमग्ने सम्राट् शुन्धस्वेत्याहवनीयम् ।
पुरस्तादलंकाराः सायमुपरिष्टादलंकाराः प्रातः ।
उभयतोऽलंकारानेके समामनन्ति ।
दर्भैरग्नीन्परिस्तृणाति यथा दर्शपूर्णमासयोः ।
अग्निहोत्रपात्राणि प्रयुनक्ति खादिरꣳ स्रुवं वैकङ्कतीमग्निहो- त्रहवणीमचक्रावर्तामशूद्रकृतामूर्ध्वकपालामग्निहोत्रस्थालीम् ।
दक्षिणेन विहारं गौरवस्थिता भवति ।
इड एह्यदित एहि सरस्वत्येहि गौरेहीति तामाहूय पूषाऽसीति वत्समुपसृजति धावन्तं वाऽनुमन्त्रयते ।
प्राचीमुदीचीं वाऽऽवृत्यान्यः शूद्राद्दोग्धि न संमृशति यथोपलम्भमनूचो वा ।
पूर्वौ दुह्याज्ज्येष्ठस्य ज्यैष्ठिनेयस्य यो वा गतश्रीः स्यादपरौ दुह्यात्कनिष्ठस्य कानिष्ठिनेयस्य यो वा बुभूषेत् ।
दोहने दुग्ध्वा स्थाल्यामानयति स्थाल्यां वा दोग्धि ।
द्वयोः पयसा पशुकामस्य जुहुयात्पूर्वमधिश्रित्योत्तरमानयेत् ।। १६ ।।
ऋतं त्वा सत्येन परिषिञ्चामीति सायं परिषिञ्चति सत्यं त्वर्तेन परिषिञ्चामीति प्रातः ।
आहवनीयं परिषिच्य गाहर्पत्यमथ दक्षिणाग्निं गार्हपत्यं वा परिषिच्य दक्षिणाग्निमथाऽऽहवनीयम् ।
यज्ञस्य संततिरसि यज्ञस्य त्वा संतत्यै नयामि संतत्यै त्वा यज्ञस्येति गार्हपत्यात्संततामपां धाराꣳ स्रावयत्याहवनीयात् ।
धृष्टिरसीत्युपवेषमादाय निरूढं जन्यं भयꣳ सह तेन यं द्विष्मः सुभूताय श्रयध्वमिति तेन गार्हपत्यादुदीचोऽङ्गारान्निरूहति ।
भूतकृतः स्था षोढं जन्यं भयꣳ सह तेन यं द्विष्म इति वा ।
व्यन्तान्करोति ।
इडायाः पदं घृतवच्चराचरं जातवेदो हविरिदं जुषस्व । ये ग्राम्याः पशवो विश्वरूपास्तेषाँ सप्तानामिह रन्तिरस्तु पुष्टिरिति तेष्वग्निहोत्रमधिश्रयति ।
समुदन्तꣳ होतव्यम् ।
अनन्तरं वाऽधिश्रयणादुद्भवः स्थोदहं प्रजया पशुभिर्भूयासमिति तृणं प्रदीप्यावेक्षते ।
हरस्ते मा विनैषमिति स्रुवेणाद्भिः प्रतिषिञ्चत्यमृतमसीति वा ।
गोदोहनसंनेजनेन प्रतिषिच्यमेकेन स्तोकेन प्रतिषिच्यं प्रतिषिक्तं पशुकामस्य ।
अप्रतिषिक्तं तेजस्कामस्याभिचरतस्तितीर्षतो वा ।
यः कामयेत शूरो मे राष्ट्र आजायेतेति पुनरेव तस्यावेक्षते यथा पुरस्तात् ।
अन्तरितꣳ रक्ष इत्युल्मुकेन त्रिः पर्यग्नि करोति परिवाजपतिरिति वा ।
घर्मोऽसि रायस्पोषवनिरिहोर्जं यच्छेति वर्त्म कुर्वन्नुदगुद्वासयति ।
प्रजां मे यच्छेत्यन्ते धारयति ।
प्रत्यूढं जन्यं भयꣳ सह तेन यं द्विष्मः सुभूतमकर्तेति तेन गार्हपत्येऽङ्गारान्प्रत्यूहति भूतकृतः स्थाप्येति सस्यं यजमानस्येति वा ।
देवस्य त्वेति स्रुवमग्निहोत्रहवणीं चाऽऽदाय ।
प्रत्युष्टमित्याहवनीये गार्हपत्ये वा निष्टपति ।
सुपर्णां त्वा सुपर्णमयीꣳ हिरण्ययष्टिरस्यमृतपालाशाः स्रोतो यज्ञानामित्यग्निहोत्रहवणीꣳ संमार्ष्टि ।
अरिष्टो यजमानः पत्नी चेत्युभयम् ।
ओमुन्नेष्यामि हव्यं देवेभ्यः पाप्मनो यजमानमिति सायमामन्त्रयते ।
प्रवसत्योमुन्नयेति स्वयमात्मानं प्रत्येव ब्रूयात् ।
अग्नये च त्वा पृथिव्यै चोन्नयामि वाताय च त्वाऽन्तरिक्षाय चोन्नयामि सूर्याय च त्वा दिवे चोन्नयाम्यद्भ्यश्च त्वौषधीभ्यश्चोन्नयामीति चतुरः स्रुवानुन्नयत्युत्तमेन द्विः पञ्चावत्तिनः ।
भूरिडा भुव इडा सुवरिडा करदिडेति वा ज्वलदिडेति पञ्चावत्तिनः ।
यं प्रति पुत्राणां कामयेतानेनर्ध्नुयामिति तं प्रति पूर्णमुन्नयेत् ।
यदि कामयेत सर्वे सदृशाः स्युरिति सर्वान्समश उन्नयेत् ।
उन्नीतं दशहोत्राऽभिमृशति न वाऽभिमृशति ।
सजूर्देवैः सायं यावभिः सायं यावानो मा देवाः स्वस्ति संपादयन्तु पशुभिः संपृचीयेति सायमुन्नीतꣳ स्थालीं चाभिमृशति सजूर्देवैः प्रातर्यावभिः प्रातर्यावाणो मा देवाः स्वस्ति संपादयन्तु पशुभिः संपृचीयेति प्रातः ।
पशून्मे यच्छेति यवोन्नयति तदुपसादयति ।
प्राचीमुदीचीं वाऽऽहृत्यापरेण गार्ह- पत्यमुपसादयतीत्येकेषाम् ।। १७ ।।
पालाशीꣳ समिधं प्रादेशमात्रीमेकां द्वे तिस्रो वोपरिष्टात्स्रुग्दण्ड उपसंगृह्य ।
उर्वन्तरिक्षं वीहीति समया गार्हपत्यस्यार्चिर्हरति ।
प्रागुद्द्रवन्दशहोतारं व्याचष्टे ।
अग्नये त्वा वैश्वानरायेति मध्यदेशे निगृह्णाति ।
वाताय त्वेत्युद्यच्छति ।
आयुर्मे यच्छेत्यपरेणाऽऽहवनीयमोषधीषूपसादयति एषा ते अग्ने समिदिति समिधमादधाति ।
हिरण्ययं त्वा वꣳशꣳ स्वर्गस्य लोकस्य संक्रमणं दधामीति वा ता अस्य सूददोहस इति वा रजतां त्वा हरितगर्भामग्निर्ज्योतिषा ज्योतिष्म तीꣳ स्वर्ग्यां कामदुघामक्षितामक्षित्या आप्त्यै व्याप्त्यै समाप्त्यै कामाय स्वर्गाय लोका- यामृतत्वाय रात्रिमिष्टकामुपदध इति सायꣳ हरिणीं त्वा रजतगर्भाꣳ सूर्यो ज्योतिषा ज्योति ष्मतीꣳ स्वर्ग्यां कामदुघामक्षितामक्षित्या आप्त्यै व्याप्त्यै समाप्त्यै कामाय स्वर्गाय लोका- यामृतत्वायाहरिष्टकामुपदध इति प्रातः ।
विद्युदसि विद्य मे पाप्मानमृतꣳ सत्यमुपैमि मयि श्रद्धेत्यप उपस्पृश्य ।
यदा श्यावेवाथ जुहोति ज्वलन्त्याम् ।
यदा वा वीतार्चिर्लेलायतीव ।
धूपायन्त्यां ग्रामकामस्य ।
द्व्यङ्गुले मूलात्समिधमनुस्रावयन् ।
होत्रा भूर्भुवः सुवरग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति सायꣳ होत्रा भूर्भुवः सुवः सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति प्रातः ।
सँसृष्टहोममेके समामनन्ति ।
अग्निर्ज्योतिर्ज्योतिः सूर्यः स्वाहेति सायं सूर्यो ज्योतिर्ज्योतिरग्निः स्वाहेति प्रातः ।
वर्चो मे यच्छेति पुनरोपधीषूपसादयति ।
लेपमादायौषधीभ्यस्त्वौषधीर्जि न्वेत्युत्तरतो बर्हिषि लेपं निमार्ष्टि ।
अग्ने गृहपते मा मा संताप्सीरात्मन्नमृतमधिषि प्रजा ज्योतिरशीयेति गार्हपत्यमवेक्षते ।
अतिहाय तूष्णीमुत्तराꣳ समिधि भूयसीं जुहोति ।
सजूर्जातवेदो दिव आ पृथिव्या जुषाणो अस्य हविषो घृतस्य वीहि स्वाहेत्याज्येन जुहुयाद्यत्र पशुपतिः पशूञ्छामयेत् ।
अग्ने दुशीर्ततनो घृतस्य स्वाहेति जुहुयाद्यदि तदतिहन्यात् ।
द्वादश रात्रीः सायꣳ सायं जुहुयाद्यदि तदतिहन्यात् ।
द्वयोः पयसा जुहुयात्पूर्वमधिश्रित्योत्तरमानयेद्यदि तदतिहन्यात् ।
नाऽऽदृत्यम् ।
इषे त्वेति सायं लेपमवमार्ष्टि ।
ऊर्जे त्वेति प्रातरुन्मार्ष्टि ।
यं कामयेतावतरां पापीयान्स्यादिति भूय स्तस्य पूर्वꣳ हुत्वोत्तरं कनीयो जुहुयात् ।
यं कामयेत न पापीयान्न श्रेयान्स्यादिति समं तस्य जुहुयात् ।
यं कामयेत वसीयान्स्यादिति कनीय
स्तस्य पूर्वꣳ हुत्वोत्तरं भूयो जुहुयात् ।
भूयो भक्षायावशिनष्टि ।
हुत्वा महदभिवीक्षेत ।
रुद्र मृडानार्भव मृड धूर्तमृड नमस्ते अस्तु पशुपते मा मा हिꣳसीरिति स्रुचा त्रिरुदञ्चमग्निमति वल्गयति ।
स्रुचं निधाय लेपमादाय ।
पितृभ्यस्त्वा पितृञ्जिन्वेति दक्षिणतः स्थण्डिले लेपं निमार्ष्टि ।
अप उपस्पृश्य ।
पूषाऽसाति द्विरङ्गुल्या प्राश्याऽऽचम्य पुनः प्राश्नाति ।
स्रुचं दर्भाꣳश्चाऽऽदायोदङ्ङुत्सृप्य ।
आग्नेयꣳ रेतः प्रजननं मे अस्तु दशवीरꣳ सर्वगणꣳ स्वस्तये । आत्मसनि प्रजासनि पशुसन्यभयसनि लोकसनि वृष्टिसनि । अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्त । रायस्पोषमिषमूर्जमस्मासु दीधरदिति ।। १८ ।।
प्राग्दण्डयोदग्दण्डया वा स्रुचा द्विराचामति द्विश्च निर्लेढि ।
गर्भेभ्यस्त्वा गर्भान्प्रीणीहीति वा ।
सौर्यꣳ रेतः प्रजननं मे अस्त्विति प्रातः ।
स्रुचमद्भिः पूरयित्वा सर्पेभ्यस्त्वा सर्पाञ्जिन्वेति विधुक्षति ।
आचम्य ।
स्रुचं दर्भैः प्रक्षाल्य ।
पूरयित्वा सर्पान्पिपीलिकाञ्जिन्वेत्यप उत्सिञ्चति ।
सर्पदेवजनाञ्जिन्वेति द्वितीयां भूतेभ्यस्त्वेति तृतीयां महते देवायेति चतुर्थीम् ।
स्रुचमद्भिः पूरयित्वा पृथिव्याममृतं जुहोमि स्वा- हेत्यपरेणाऽऽहवनीयमपरेण वा गार्हपत्यं निनयति ।
गृहेभ्यस्त्वा गृहान्प्रीणीहीति तस्यैकदेशमञ्जलौ पत्न्याः ।
पत्नी यदि नान्वास्ते सर्वं पृथिव्याम् ।
हस्तं प्रताप्य स्रुच्यवदधाति स्रुचं वा निष्टप्य हस्तेऽव-
दध्राति सप्तर्षिभ्यस्त्वा सप्तर्षीञ्जिन्वेति स्रुचोदगुद्दिशति ।
स्रुचं निधाय प्रत्येत्य स्रुवेण गार्हपत्यदक्षि- णाग्न्योर्जुहोति प्रत्याहुति समिधोऽभ्याधाय ।
मयि पुष्टिं पुष्टिपतिर्दधातु रायस्पोषमिषमूर्जमस्मासु दीधरत् । अग्नये गृहपतये रयिपतये पशुपतये पुष्टिपतये कामायान्नाद्याय स्वाहेति द्वे गार्हपत्ये जुहोति ।
अन्नपतेऽन्नस्य नो देहीति द्वे दक्षिणाग्नौ ।
अपि वा चतस्रो गार्हपत्ये जुहुयाच्चतस्रो दक्षिणाग्नौ ।
न वा जुहुयात् ।
अपिप्रेडग्निः स्वां तनुवमयाड्द्यावापृथिवी ऊर्जमस्मासु धेहीति स्थाल्यां तृणमङ्क्त्वाऽऽहवनीयेऽनुप्रहरति न वा ।
द्यावापृथिवीभ्यां त्वा द्यावापृथिवी जिन्वेत्यन्तर्वेद्याꣳ संक्षालनं निनयति ।
परिषिञ्चति यथा पुरस्तात् ।
दीदिहि दीद्यासं दीदिदामेसीत्युपसमिन्धे ।
आज्येन जुहुयात्तेजस्कामस्य पयसा पशुकामस्य दध्नेन्द्रिय- कामस्य तण्डुलैरोजस्कामस्य यवाग्वा ग्रामकामस्यौदनेनान्नाद्य कामस्य माꣳसेन वीर्यकामस्य सोमेन ब्रह्मवर्चसकामस्य ।
यदन्यदधि श्रयणात्प्रतिषेचनाच्च तद्दध्न- स्तण्डुलानाꣳ सोमस्य च क्रियते ।
अपां प्रत्यसनकाले दर्भतृणाभ्यामाज्यं प्रत्यस्येत्प्रति- षेकं यवागूꣳ श्रपयति । यथा यवागूमेवं माꣳसम् ।
पर्वणि राजन्यस्याग्निहोत्रं जुहुयान्नान्तराले ।
यत्त्वस्य गृहेऽन्नं क्रियते तस्माद्ब्राह्मणाय मुखतो हरन्ति तद्धुतमस्याग्निहोत्रं भवति य ऋतꣳ सत्यमिव वदन्नी- जानः सोमेन स्यात्तस्य सदाऽग्निहोत्रं जुहुयात् ।। १९।। इति हिरण्यकेशिसूत्रे तृतीयप्रश्ने सप्तमः पटलः ।

3.8 अथाष्टमः पटलः ।
ऋते गृहस्य प्रवासं व्याख्यास्यामः ।
सगृहस्तु प्रयास्यन्यत्र पञ्च नव दश वा सꣳहिता वसति यत्र वा नव रात्रं वास्तु पुनरभ्येत्येकां वसीत तत्र वास्तोष्पतीयं जुहोति ।
सर्वं भाण्डं यानेष्वादधाति ।
यदन्यज्जिहीर्षन्ति पूर्वं तत्प्रवहन्ति ।
अहुते वाऽपोद्धरन्ति तस्माद्देशात् ।
सर्वेषु युक्तेषु दक्षिणोऽग्निष्ठस्य युक्तो भवति सव्यस्य योक्त्रं परिहृतमनूत्सक्तमथ वास्तोष्पतीयमनुद्रुत्योत्तरया जुहोति ।
न हुतेऽभ्यादधाति ।
नावक्षाणान्यसंप्रक्षाप्य प्रयाति ।
अयं ते योनिर्ऋत्विय इति पृथगरणीष्वग्नीन्समारोप्य प्रयाति ।
अथो खल्वाहुर्यदरण्योः समारूढो नश्येदुदस्याग्निः सीदेत्पुनराधेयः स्यादिति या ते अग्ने यज्ञिया तनूस्तयेह्यारोहाऽऽत्माऽऽत्मानमच्छा वसूनि कृण्वन्नस्मे नर्या पुरूणि। यज्ञो भूत्वा यज्ञमासीद स्वां योनिं जातवेदो भुव आजायमानः स क्षय एहीत्यात्मन्समारोप्य प्रयाति ।
यत्र वसति तत्र प्रागस्तमयान्मन्थति ।
उपावरोह जातवेदः पुनस्त्वं देवेभ्यो हव्यं वहतः प्रजा- नन् । आयुः प्रजाꣳ रयिमस्मासु धेह्यजस्रो दीदिहि नो दुरोण इत्यात्मन्समारूढमरण्योरुपावरोह्य मन्थति ।
लौकिकं वाऽग्निमाहृत्य तस्मिन्नुपावरोहयते ।
इदꣳ श्रेयोऽवसानं यदगात्स्योनो मे द्यावापृथिवी अभूताम्। अनमीवाः प्रदिशः सन्तु मह्यं गोमद्धनवदश्ववद्धिरण्यवत्पुरुषवत्सुवीरवत्स्वाहेत्यवसिते जुहोति ।
दर्विहोमान्व्याख्यास्यामः ।
जुहोतीति चोद्यमाने दर्विहोमो यत्र च स्वाहाकारः ।
ताꣳस्तूष्णीकेनाऽऽज्येन सकृद्गृहीतेनाग्रेणाऽऽहवनीयं परीत्य दक्षिणतस्तिष्ठञ्जुह्वाऽऽहवनीयेऽध्वर्युः स्वाहाकारेण जुहोति ।
द्विप्रभृत्याहुतिगणेषु प्रत्याहुति गृहीत्वा प्रत्या- हुति समिधोऽभ्याधाय विग्राहं जुहोति ।
यत्र मन्त्रगणेन कर्म चोदयेत्प्रतिमन्त्रं तत्र जुहुयात् ।
जुहोतिशब्दे प्रदेशान्व्याख्यास्यामः ।
स्वकृत इरिणे प्रदरे दर्भस्तम्बे स्थाणाविति ।। २० ।।
आहवनीयापनयोऽनग्नौ तस्मिन्नेव देशे जुहोति ।
दार्शपौर्णमासिकानि प्रधानान्युत्तरस्यां ततौ चोद्यन्तेऽन्यत्र सोमाद्धर्माद्दर्विहोमेभ्यश्च ।
तानि स्वधर्माणि ।
सादृश्याद्विकारः ।
स लिङ्गेन गम्येत ।
देवतासामान्येन हविःसामान्येन वा यत्र हविः प्रदीयते ।
विप्रतिषेधे हविःसामान्यं बलीयः ।
यथा वैष्णवः पुरोडाशः ।
एकदेवतास्त्वाग्नेयविकारा अन्यत्र प्रकृतिदेव ताभ्यो यथा सौम्यश्चरुरैन्द्रः पुरोडाश इति ।
अथेतरेऽग्नीषोमीयस्यैन्द्राग्नस्य वा ।
प्रकृतौ विशिष्टधर्माणामुत्तरस्यां ततौ समवेतानामङ्गविप्रतिषेधे मुख्यत्वं बलीयः ।
मुख्यत्वाद्भूयस्त्वम् ।
भूयस्त्वात्स्थानम् ।
स्थानाद्विधिः ।
विधेरङ्गम् ।
अङ्गात्प्रधानम् ।
दर्शपूर्णमासयोर्विकृतेश्च संनिपाते दर्शपूर्णमासौ बलीयाꣳसौ ।
यानि त्विष्टिपशुबन्धानां प्रत्यक्षाणि तानि तत्र ।
दर्शपूर्णमासप्रकृतय इष्टिपशुबन्धास्ते स्वधर्माणः सामान्यद्विकारः ।
कर्मसंयुक्तानि द्रव्याणि प्रकृतौ तत्संयोगाद्धर्मं लभन्ते कर्मण्यविद्यमाने सहधर्मद्रव्यं निवर्तते ।
यथा कृष्णलेष्ववहननम् ।
अन्यस्मिꣳश्च द्रव्ये तेनार्थेन संयुज्यमाने धर्मावेशः ।
स्थाल्यां कपालधर्मः श्यामाकेषु व्रीहिधर्मः ।
यज्ञोत्पत्तौ प्रतिषिद्धे सर्वं प्रतिषिध्येत ।
न यूपं मिन्वन्ति नोत्तरवेदिमुपवपन्ति ।
अन्यस्मिꣳश्च द्रव्ये तेनार्थेन संयुज्यमाने धर्मावेष उत्करे
वाजिनमासादयन्त्यश्वे पशून्नियुञ्जन्ति परिधौ पशून्नियुञ्जन्ति ।
सामिधेनीषु वर्धमानासु ।।२१ ।।
काष्ठानि वर्धन्ते सꣳह्रियमाणासु यथाप्रकृति ।
यथार्थमूहः ।
न प्रकृतावूहो विद्यते ।
पत्नीꣳ संनह्योपहूतोऽयं यजमान इति ।
तथोत्तरस्यां ततौ यथासमाम्नातम् ।
प्रतिनिधिष्वर्थलुप्तानि न क्रियेरन्यथा लूने लवनमन्त्राच्छिन्ने छेदनमन्त्रः ।
यत्र पयः श्रपणार्थेन श्रूयते देवस्त्वा सवितोत्पुनात्वित्युत्पवननं संनमति पयो देवाग्रेष्वग्र इत्यभिमन्त्रणमेवमाज्ये ।
चरुकल्पान्व्याख्यास्यामः ।
स्थालीं कपालानाꣳ स्थाने प्रयुनक्ति ।
तस्य प्रसिद्धमात्रिष्फलीकृतेभ्यः ।
प्रथमेन कपालमन्त्रेण स्थालीमुपधाय ।
शूर्पादेव तण्डुलान्समोप्योत्पूयाधिश्रयणमन्त्रेणोप्य पर्यग्निकृत्वा श्रपयित्वाऽभिघार्य स्थाल्यैवोद्वासयति ।
पुरोडाशेन पुरोडाशगणे ।
यथाभागं व्यावर्तध्वमित्येकैकं पिण्डमपच्छिनत्ति यथाभागं व्यावर्तेथामित्यवशिष्टौ ।
तयोरेव देवतादेशनम् ।
चरु पुरोडाश्यान्प्रागधिवपनाद्विभज्येरꣳस्तत्र विभागमन्त्रं जपति समान्द्वैधं करोति विषमान्यथाभागम् ।
इदममुष्मै चामुष्मै चेत्येकैकस्मिन्राशावेकैकां देवतामुपलक्षयेत् ।
पौष्णमपच्छिद्य सह पुरोडाश्यैः पिनष्टि ।
अधिश्रयणकाले मिथो विभज्येरन् ।
तत्र विभागमन्त्रं जपति ।
नानाबीजेषु समवेतेष्वेकमुलूखलं मुसलꣳ शूर्पं कृष्णाजिनं च ।
प्रथमे बीजे हविष्कृतमाह्वयत्युत्तमे वाचं विसृजते ।
सोमेनाऽऽग्रयणेष्ट्या पशुबन्धेन वाऽमावास्यायां पौर्णमास्यां वा यजेत ।
सप्तदशानुब्रूयादिष्ट्याः पशुबन्धस्य वा पञ्च- दशभिर्विकल्पेरन्नविकल्पो वा ।। २२ ।।
आग्रायणेष्टिं व्याख्यास्यामः ।
तया नानिष्ट्वा नवानामोषधीनां फला- न्यश्नाति ग्राम्याणामारण्यानां च ।
व्रीहीणामग्रपाकस्य यजते तथा श्यामाकानां यवानामग्रपाकस्य यजते ।
तथा व्रीहीणां निर्वपणकाले पुरान्नानां व्रीहीणामाग्नेयमष्टाकपालं निर्वपति नवानामितराणि ।
आग्नेन्द्रमैन्द्राग्नं वा द्वादशकपालं वैश्वदेवं चरुं पयसि - शृतꣳ सौम्यꣳ श्यामाकं चरुं द्यावापृथिव्यमेककपालम् ।
नानातन्त्रꣳ श्यामाकमेके समामनन्ति ।
उपसन्ने हविष्यप्रोक्षिते शतायुधायेति पञ्चाज्यानीर्जुहोति ।
पुरस्तात्स्विष्टकृत एके समामनन्ति ।
एक कपालानां वैश्वदेवीयेनैककपालेन कल्पो व्याख्यातः।
नाऽऽविः पृ(विष्पृ)ष्ठं करोति ।
न मासनामभिरभिजुहोति ।
व्रीहिभिरिष्ट्वा व्रीहिभिरेव यजेताऽऽयवेभ्यो यवैरिष्ट्वा यवैरेव यजेताऽऽव्रीहिभ्यः ।
वेणुवानाꣳ श्यामाकमेके समामनन्ति ।
अपि वा नाऽग्रयणेष्टिं कुर्वीत नवै रेवामावास्यायां पौर्णमास्यां वा यजेत ।
नवैर्वाऽग्निहोत्रं जुहुयादग्निहोत्रीं वा नवानादयित्वा तस्याः क्षीरेण जुहुयाच्चतुःशरावमोदनं वा पक्त्वाऽऽग्रयणदेवताभ्यः स्विष्टकृच्चतुर्थीभ्यो हुत्वा तद्व्यञ्जनं भोजयति भोजयति।।२३।।
इति सत्याषाढहिरण्यकेशिसूत्रे तृतीयप्रश्नेऽष्टमः पटलः ।। ८ ।।
इति हिरण्यकेशिसूत्रे तृतीयः प्रश्नः ।। ३ ।।


२६२ सत्यापाढविरचितं श्रौतसूत्र- [ स्तृतीयप्रश्न-

एवं विहितमिष्टिपशुबन्धानां ब्रह्मत्वं ब्रह्मत्वम् ।। २२ ।।

इति हिरण्यकेशिसूत्रे द्वितीयप्रश्नेऽष्टमः पटलः ॥ ८॥

इति.हिरण्यकेशिसूत्रे द्वितीयः प्रश्नः ॥२॥

आध्वर्यवेऽतिदेशो व्याख्यास्यते । त(अ) तादृग्व्याख्येयं नास्तीति सूचयति । द्विरुक्तिः प्रश्नपरिसमाप्त्यर्थी । इति हिरण्यकेशिसूत्रव्याख्यायां महादेवकृतायां प्रयोगवैजयन्त्यां द्विती यप्रश्नेऽष्टमः पटलः ॥८॥ सत्याषाढमुनर्जयन्ति विपुला वाचो विमर्शेन या पायंपायममीक्ष्णशोऽमृतरतास्तृप्तिं न जग्मुर्बुधाः । तुष्टा यामिरुदारबुद्धय इमे सूत्रेऽपदेशैर्जना- नुद्धतुं नडतापसंतमसतो देवस्य गुप्त्यै स्थिताः ॥ १ ॥ स्मारस्मारमनेकशो मुनिवरान्व्याख्यानसंस्फूर्तये प्राप्ता ह्यल्पधियाऽपि संस्फुटतरा व्याख्याऽस्य सूत्रस्य सा। विष्णौ यज्ञतनौ पुराणपुरुषे प्रत्यर्पिता नांहसा योज्याऽमितिभिः प्रसादविशदैः सद्धिः पुनदृश्यताम् ॥ २ ॥ इति दर्शपूर्णमासौ पिण्डपितृयज्ञो ब्रह्मत्वं च तयोः समाप्तानि । इति हिरण्यकेशिसूत्रव्याख्यायां द्वितीयः प्रश्नः ॥२॥


3.1 अथ तृतीयप्रश्ने प्रथमः पटलः ।

यदर्पितं कर्म फलाय कल्पते यदर्पित बन्धविमुक्तयेऽपि च । सञ्चित्सुखानन्तमनन्तमीश्वरं नमामि विष्णु दुरितेमदारणम् ॥१॥ वेदत्रयात्मन्ननलत्रयात्मन्नीशत्रयात्मन्प्रकृतेर्गुणात्मन् । जन्तोरवस्थात्रितयानुबिम्बविम्बत्रयात्मन्नक मामनर्थात् ॥ २॥ ओंकारप्रतिपादितं सुरनुतं भक्तानुकम्पायुतं दोःपझे दधतं दतं हरसुतं श्वैत्यं भजन्तं तनौ । ज्ञानाच्छादितमोपहं कविमहं सोहंधिया गां(ग)मनौ । ध्येयै देहभृतां भयच्छिदमज लक्ष्म्या मनामीश्वरम् ॥ ३ ॥ १५०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । २६३ गङ्गाधरो दारशरीरभाग्यया यया हरिः श्रीपतिसंज्ञितः कृतः । यया महालक्ष्म्यभिधानया जग- पितामहोऽप्येष सरस्वतीपतिः ॥ ४ ॥ तस्यै नमस्तेऽम्ब पुनर्नमोऽस्तु ते भूयो नमस्तेऽस्तु कृपाकटाक्षतः । मां पाहि जाड्यात्कृपणं कृपानिधे मद्वंशमात गतां च साक्षिणि ॥ ५ ॥ सर्वयज्ञतदङ्गानां सामान्यन्यायपूर्वकम् । मीमांसया तथा दर्शपूर्णमासप्रयोगयोः ॥ ६ ॥ विशेषेणैव च व्याख्या कृतेदानी वितन्यते । अनुष्ठानक्रमेणैव स्वग्न्याधेयादिकर्मणाम् ॥ ७ ॥ आवश्यकानां तत्राऽऽदौ फलमावश्यकं तु यत् । सर्वसाधारणं व्याप्तमीमांसावमनाऽऽगतम् ॥ ८॥ प्रश्ने तृतीय भायेन पटलेन निरूप्यते । नियतानां विभागश्च प्रतिनिध्युपदेशनम् ॥ ९॥ कर्मभिनिःश्रेयस तानि शब्दलक्षणानि धार्यन्ते । नियतकर्मणां कलाश्रवणादनिष्टनिवृत्त्यर्थमपि प्रवृत्तिसिद्धेः संशयः किमेमिस्ति साध्य फलमुतास्तीति । तत्र-कर्तव्यान्यव नियतमिति कर्माणि यानि तु । एतेषां कर्मणां साध्यं फलं नैव हि लभ्यते ॥१॥ वाक्ये फलाश्रुतेर्वाक्य मेदात्साध्यानपेक्षणात् । फलामाव इति प्राप्ते सूत्रेणोत्तरमुच्यते ॥ २ ॥ सत्यामसत्यामिच्छायां विधिना यानि कर्तव्यानीत्युच्यन्तेऽत एवाकरणेऽनिष्टमेवा- स्तीति सेषु ज्ञायते तैः साध्यं फलं न श्रूयतेऽतो नास्ति । न च विश्वजिन्यायेन करप्य- मिति वाच्यम् । कल्पितेऽपि सत्यामिच्छायां प्रवृत्तिरन्यथा वा प्रवृत्तिनियतेषु विरु. ध्येत । अथ सर्वननोद्देश्यमुत्कृष्टं सुखमेव नियते फलं कहप्यते तर्हि निमित्तफलयो- रुद्देश्यत्वे वाक्यभेदः स्यात् । न च साकासत्वेन विध्यपर्यवसानाद्वाक्यभेदो न दूष. णमिति वाच्यम् । धात्वर्थमात्रस्य साध्यत्वेनापि कर्माकरणे दोषदर्शनात्प्रवृत्तिसिद्धेनीप. र्यवसानम् । न चेष्टसाधनतयैव प्रवृत्तिहेतुरनिष्ट परिहारे प्रायश्चित्तेऽपि प्रवृत्तिदर्शनात् । न चात्राप्युद्देश्यद्वयसद्भावाद्वाक्यभेद इति वाच्यम् । धात्वर्थस्यानुद्देश्यत्वेऽपि नान्तरी- यकतया साध्यत्वादन्यथा विध्यपर्यवसानात् । ननु कर्मणैव हि संसिद्धिमास्थिता जन- । २६४ सत्याषाढविरचितं श्रौतसूत्र- [ ३तृतीयप्रो- कादय इति कर्मफलं संसिद्धिक्षिो दृश्यते तत्कथं फलाश्रवणमिति चेन्न । तद्वाक्य भेद- भयादनियतानामेव फलमस्तु तत्र वाक्येषु निमित्तानवणात् । दृश्यते चानियतानामपि निःश्रेयसं फलं खर्गशब्देनोपात्तम् । न च स्वर्गो विशिष्टदेश एवेति वाच्यम् । उत्कृष्टे सुख एव रूढः । तथा सर्वकामार्थानि कर्माणि दर्शपूर्णमासपशुसोमरूपाणि निःश्रेयस. लक्षणस्वार्थानि च भविष्यन्ति, तथा प्रजातिज्यैष्ठ्यसर्वजयब्रह्मसायुज्यफलानि वाजपेय- द्वादशाहादीन्यनेकानि सहस्र संवत्सरान्तेषु श्रूयमाणानि कर्माणि मोक्षसाधनानीति न नियतेषु फलश्रवणम् । यद्यपि नियतेष्वपि चर्णानि त्रीण्यपाकृत्येत्यादिवाक्यान्तरैवेनिः- श्रेयस फलं तथाऽपि तत्प्रयोगान्तर एव स्यान्न पुनरेकप्रयोग उद्देश्यद्वयेन सरसं- बन्धायोगात् । अथ वा नियताननुष्ठाने दुरितं तन्मोक्षप्रतिबन्धकमिति तदनुष्ठानान्मो- क्षः फलत्वेनोपर्यत इति पूर्वः पक्षः। एवं प्राप्तेऽभिधीयते-कर्मभिनिश्रेयस तानि शब्द- क्षणानि धार्यन्ते । विधिरिष्टफलेप्सूनामिष्ट साधन एव यत् । प्रवर्तकोऽन्यथा तस्य स्वरूपक्षतिरापतेत् ॥ १॥ तस्मात्साध्यफलं त्विष्टं नियतेष्वपि सर्वथा । पाप्मनः परिहारस्तु न साध्यो नान्तरीयकः ॥ २ ॥ कर्मभिनिश्चित्तं श्रेयो यशस्थेष्टं तत्प्राप्यते यतस्तानीति शेषः । पूर्व व्याख्यानप्रति . क्षायां यज्ञप्राधान्येन कृतायामपि फलं प्रति कर्ममात्रस्य साधनत्वं समानमेव न तु यज्ञप्रयोगबाहुल्यवत्तरतमभावोऽस्तीति वक्तुं कर्मशब्देन प्रतिज्ञातार्थग्रहणम् । नन्व- विहितेऽपि कर्मणि कर्भशब्दोऽस्तीति धर्मैरिति वक्तव्यं लाघवाचेति चेत् । न । धर्म- शब्दस्य मीमांसकमते केवलविधिमात्रविहिते प्रयोगो न तु निषिद्धप्रागभावपरिपाल. नरूपे, तदनुष्ठातार धार्मिक इति प्रयोगामावादिति । तस्यापि निःश्रेयस साधनत्वं वक्तं कर्मशब्दप्रयोगः । विधिलक्षणानि कर्माणीति प्रकरणात्सामर्थ्याच्च शब्दलक्षणानीत्यनि- धानाच नावधेषु प्राप्तिरिति विहितैरिति ज्ञास्यते । नन्विह निषेधशास्त्रे कथं पालने विधि- रुभयत्र प्रामाण्यामावादिति चेत् । न पिवेन्न हन्यादित्यादौ सर्वत्र विधिप्रत्ययदर्शनान्न- नोऽपि दर्शनान्नप्रकृतिभूतधात्वर्थेन न संवध्यते न प्रत्ययन केवलेन किं तु पदेन पदे तु विशेषणभूतेन धात्वर्थेनातो हननाभावेनेष्टं भावयेदिति वाक्यार्थः । तत्राभावस्य साक्षाद्भावनावच्छेदकत्वाभावेन हननादिप्रागमाव परिपालनरूपं कर्मैव लक्ष्यते । तेनाय शब्दार्थो हननादिमागमावपरिपालनेनेष्टं भावयेदिति । तथा, चार्थाद्वोधय- त्वापत्तो हननादि दुःखसाधनमिति । तस्य चाधर्मत्वं यं गर्हत सोऽधर्म इति वक्ष्यमा- णत्वावधर्मरूपं हननादिकमिति गम्यते यश्चार्थादर्थो न स चोदनेतिन्यायान्न तस्य चोदनाशब्दविषयत्वमर्थापत्तिविषयत्वात् । स्वमते तु पालनमपि धर्म एव परमतेन १ख छ. वेऽपित। . १५०पटलः] महादेवकृतवैजयन्तीब्याख्यासमेतम् । २६५ व्याप्त्यर्थ कर्मशब्दप्रयोगः । स्वमते तु पालनेऽपि धर्मशब्दप्रयोगा दृश्यन्ते सामया- तु चारिकान्धर्मानिति । पालनबहुला आचारा एवाभिमता धर्मशब्दवाच्या आचार्यस्यैव- मन्येऽपि प्रयोगा द्रष्टव्याः । एवं याज्ञवल्क्यादिप्रयोगा ज्ञेयाः- वर्णाश्रमेतराणां नो ब्रूहि धर्मानशेषतः । ' इत्यादिकाः । ननु नियतकर्मणां खलु निःश्रेयससाधनत्वमुच्यते पालनस्य नियतत्वं कथमिति चेत् । इत्थं पालनाकरणेऽपि गादर्शनाद्धननादाविव यस्तु हनन उद्यत एव देवेन प्रतिवद्धः साक्षान्न करोति पालने यत्नं च न करोति सोऽपि पापीत्युच्यतेऽतो ज्ञायते हनन इव पालनाभावेऽपि प्रत्यवायः । उक्तं च वेदव्याख्यातृभिविद्यारण्यश्रीपादेनिषेधेऽपि न हन्यान्न पिवेदित्यादौ प्रागभावपरिपालनमे विधेयम् । जोक्तोऽधिकारः । तदतिक्रमे प्रायश्चित्तं संध्यातिकम इवेति । तथा तैरेवोक्तम्-स्मरन्ति च परिहारस्य धर्मत्वम् - नित्यमष्टगुणैर्युक्तो ब्राह्मणो ब्रा लौकिकम् । ब्राह्मं पदमवाप्नोति यस्मान्न च्यवते पुनः ॥ अष्ट गुणा अहिंसादयः। असतां परिहारश्च संसर्गश्चाप्यनिन्दितः । स्वधर्मे च व्यवस्थानं शौचमेतत्प्रकीर्तितम् ॥ इति ॥ तस्मानिषिद्धपालनं सुतरां नियाम् । तथा प्रत्यवायाजनकत्वेऽपि तस्याविनाभूतनान्येन कर्मणा प्रत्यवाय स्तस्य क्रियाजन्यत्वा- देकत्र प्रतिषिद्धा हननादिका क्रियाऽन्यत्रानुमितनिषेधाऽग्निहोत्रादिकर्माभावव्याप्तेति । तथाच केवलं कर्तव्यानीत्येव श्रूयते तानि नियमेन कर्तव्यानीत्युच्यन्तेऽतो निय- तानि । यत्र फलं तत्र सत्यां कामनायां कर्तव्यतोच्यते । तत्र भिन्ने जुहो- तोत्यादीनि यद्यपि नियतकर्मविधायकान्येव तथाऽपि रोपां क्रतुवैगुण्यपरिहार - मात्रेण फलबत्त्वोपपत्ते!दाहरणता । कर्मभिनियततया विहितनिश्चितं श्रेयो निश्रे- यसं प्राप्यते । अचतुरेति सूत्रेण कर्मधारयेऽकारान्तता । निश्चितं धुत्रमुत्कृष्टं निरव- धिसुखरूपमात्मैव । अत एव धर्मप्रश्न आत्मलाभात्परं नास्तीति चरि(वदिष्यति । तत आनन्दरूप आत्मा साक्षात्कारेण प्राप्यस्तत्प्राप्तिद्वारं कार्य ब्रह्म वा । वक्ष्यत्यूवरेत. सामचिरादिमार्गेण कार्यब्रह्मप्राप्ति तेऽयम्ग उत्तरेण गत्वा न पुनरावर्तन्त इति । अत्रो- भयोत्कृष्टताम जातात(नान)स्याऽऽभूनसप्त स्थानममृतशब्दादिवाच्यमेव निःश्रेयस तदाऽपि सात्त्विकवृत्त्यभिव्यक्त आत्मैवान्यस्य सुखस्याभावात् । न ह्येतत्रितयान्यतमा- नाकाङ्क्षी प्रेक्षाकारी विद्यते । अतस्तु नियमेन कर्तव्यस्य कर्मणोऽधिकार्यनुशयानुसा. च तदकरणरूपमागभावस्य क.ग. छ. उ. ण. तथापि। २६६ सत्याषाढविरचितं श्रौतसूत्रं- [ ३ तृतीयपने- रेण सहकारिगुणतरतमभावेन नियतमेव फलं विद्यमानं न केनापि त्यज्यते । कुतः, प्रमाणात् । यतस्तानि कर्माणि शब्दलक्षणानि धार्यन्ते । शब्दो निरपेक्षा विधिप्रत्यय- श्रुतिः । विधिर्हि विधेयकर्मणि फलसाधनता विना न पर्यवस्यतीति मावः । विधिरि- स्युक्ते वाक्यमपि स्यात्तत्रापि विधिशब्दर्शनात्तत्समभिव्याहारात्मकं न शब्दमात्रं स शब्दो लक्षणमन्यार्थव्यावृत्त्या प्रमाणं येषां तानि विधिलक्षणानि । कर्माणीत्युक्तेऽपि पुनर्वचनं वाक्याय फलासंबन्धे निवारणार्थम् । कथम् । इत्यम्-कर्मसाध्यं फलं श्रेयो निश्चितं नियतानि तु । कर्माणि विहितान्येव विधिश्रुत्याऽनपेक्षया । तथैव फललाभान्न वाक्यभेदः प्रसज्यते । विधिश्रुत्यैव सर्वत्र भावनैवेष्टसाधनम् ॥ गम्यतेऽन्यत्र वाक्येन तदेवेष्टं विशिष्यते । वाक्यबोध्ये यदुद्देश्ये द्वे यत्र स्तस्तदैव तु वाक्यभेदो भवेन्नायं श्रुत्यैकोद्देश्यबोधने । इष्टसाधनतावेदिविधिश्रुत्येकगोचरः ॥ भावनाऽपीष्टसाध्याय साकाङ्क्षाऽनिष्टरूपिणम् । धात्वर्थमाददानैव निराकाङ्क्षा मवेत्कथम् ।। धात्वर्थः करणं सोऽपि नेतिकर्तव्यतां स्वतः । गृह्णीयान्नियतेप्वेषा दृश्यमाना विरुध्यते ॥ प्रायश्चित्तेन जन्ये हि पाप्मनाशे प्रवर्तताम् । नाजन्ये करणानिष्टामावे पूर्वमपि स्थिते ।। शब्दान्तरानवच्छेदादिष्टमिष्टमप्तावधि । सकृच्छ्रुत्या वेदितं तदभ्यासै विरुध्यते ।। औदासीन्येन विहितं यथा वैदिककर्मणि । फलमभ्यासतः प्राप्यं सामर्थ्यादेवमत्र हि ॥ श्रुत्या पदान्तरवशान्नाभ्यासविहितं तु यत् । तत्तथैव कृतं कर्म निःश्रेयसकरं परम् ॥ अवश्यं भवताऽप्येषां नियतानां मुमुक्षुणाम् । कर्तव्यताऽङ्गी क्रियतेऽन्यथा मोक्षः कथं भवेत् ॥ दुरितैः प्रतिबद्धो हि न कर्मशतकैरपि । जायतेऽतस्तेभ्य एव निःश्रेयसमपीप्यताम् ।। यद्यन्येभ्योऽपि जायेत कर्मभ्यो न निवार्यते । तेषामकरणे नास्ति दुरितं फलघातकृत् ॥ ११० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । नियतानां तूमयथाऽप्युपकारोऽस्त्वनाविलः । फलस्योक्तिस्तु या पूर्व संसिध्यादिपदेरिता ॥ साsपीष्टा श्रुतितः प्रातफलस्यास्यानुवादतः। श्रुत्या प्रोक्तं कर्मणां यत्फलं निःश्रेयसं स्थितम् ।। एवं शब्दोदितान्येव ज्ञात्वाऽध्ययननिर्णयः । धान्तेऽध्येतृभिः सर्वैरनुष्ठानप्रसिद्धये ॥ तथा च श्रुत्यैव बोधितस्य न पदान्तरापेक्षा येन वाक्यमावमापन्ने वाक्ये मैदा स्यात् । तदुक्तं पार्थसारथिमित्रैः- ननु च-निमित्तफलसंवन्ध एकवाक्येन युज्यते । उद्देश्यद्वयसंबन्धे वाक्यमेदः प्रसज्यते ॥ इति । प्रामाकरोक्तमाशङ्क्योक्तम्-उच्यते- द्वाभ्यां विधेयसंबन्धे वाक्यभेदः प्रसज्यते । उद्देश्येन निमित्तेन विधेयस्य न संगतिः ॥ इति । विवृतं च तेनैव विधेयस्य द्वाभ्यां संबन्धे वाक्यमेदो भवति । न चेह तथा विधेयस्य कर्मणः फलेन संवन्धः कर्तव्यताया निमित्तेन । न चैव सति वाक्यभेदो मवति । साकाङ्क्षत्वाच, मवति ह्यस्मिन्सतीदं कुर्यादित्युक्ते किमर्थमित्याकाक्षा । तत्रैवमर्थमिति संबन्ध्यमानं फलं न वाक्यं मिनत्ति । समानजातीय युद्देश्यं वाक्यं भिनत्ति । यथा यस्य पिता पितामहः सोमं न पिबेदिति निमित्तद्वयं, यः प्रजाकामः पशुकामः स्यादिति फलद्वयम् । तस्मान्न वाक्यभेद इति विवृतम् । ननु तहि काम्यं कर्म निमित्तफलोद्देशेन विधीयमानं न वाक्यमेदास्प्रयोग- भेदमापादयेदिति चेत् । न । सत्यामिच्छायां कामनया प्रवृत्तिरसत्यां न, नियते तु नियम- नातो विरोधेऽप्येकवाक्यता न बलात्कियत इति श्रुतनानावाक्थयोंविद्यमानवाक्य- भेदात्प्रयोगभेद एव । प्रकृते तु विनियोक्ततया विधिप्रत्ययश्चत्यैवान्वितामिधायिन्या मावना फलं च तत्संबन्धश्च समप्तमयमेव बोध्यन्ते तदुत्तरकालं वाक्येन निमित्तसंबन्ध इति स एकेनैव वाक्येन मवतीति न पूर्वस्य त्यागः । अत एवापि प्रत्यवायपरिहा- रार्थत्वं वाक्यविमतं श्रौतमिष्टसाधनत्वं न बाधेत विरोधात् । अथ यदुक्तं साध्यान- पेक्षणादिति नदपि परितम् । आकाक्षा ह्यन्विताभिधीयमानप्रत्ययान्वये नाङ्गं किंतु वाक्ये । अस्तिचाऽऽकाङ्क्षाऽपि पूर्ववृत्तसंबन्धे साऽनेन बाध्यत इत्युक्तमैवैतत्सूत्रा- वयवेनेति । नन्वज्ञानकृताइन्धाज्ञानेन मुक्तिरिति युक्तं न कर्माध्यपि प्रमाकरणानी- त्याशङ्कानिरासार्थमेतदेव सूत्रं योग्यम् । तानि निःश्रेयससाधनानि धार्यन्तेऽवधार्यन्ते । कुतः, यतः शब्दा विविदिषन्तीत्यादयो विविदिषाधुत्पत्तिद्वारा निःश्रेयससाधनस्वे २६८ सत्यापाढविरचितं श्रौतसूत्र- [ ३तृतीयप्रश्ने-

प्रमाणानि । कर्मणामप्रामाण्येऽपि निःश्रेयससाधनप्रमाणोपकारकत्वानिःश्रेयाससाधना- नीत्यवधार्यत इति भावः । ननु वेदेऽथवा सूत्रे मुमुक्षुर्दर्शपूर्णमासाभ्यां यजेतेत्येवंरूप- तया. कुतो न निवद्धापी(नी)त्याशङ्कानिवारणमनेनैव कार्यम् । यादृशैः शब्दैर्लक्षि- तानि तानि तैरेव धार्यन्ते तदैव श्रेयःसाधनानि तानि विदित्वा तदेवानुष्ठितं फलाय नान्यथेति । तथा च श्रुतिः-यदेव विद्यया करोति तदेव वीर्यवत्तरं भवतीति । कचिद्वि- धायकं वाक्यं वचित्संज्ञा क्वचिदनुवादमानं क्वचिद्रव्यदेवतासंबन्धमानं क्वचिदालभतिः क्वचिनिर्वपतिरेवमादिभिः शब्दः प्रतिपादितानि तानि तथैव तत्तच्छब्दलक्षितान्ये- वास्माभिनिवद्धानि । अत एव वेदोऽप्येवं नोपालम्भनीयोऽध्ययनविधिना यादृशो दृष्टः श्रेयःसाधनतया वाऽध्यापितस्तादृशस्यैवार्थग्रहणं फलायेत्यप्यावेदितमिति. वेदं व्याख्यानमेव भवामो न तूपालब्धुमिति । न तु (नु) त्रिभिदैरित्यत्र स्मार्ताचारलक्षणकर्मणां विधायकब्राह्मणमन्त्रात्मको (क)वेदो (दे)न प्रामाण्यं नास्तीत्युक्तं ततस्तेषां न श्रुत्या विधानमिति न विधिलक्षण. कर्मत्वं नाप्यावश्यककर्मत्वमतोऽव्यापकमत आह-

वैदिकानाꣳ शब्दानाꣳ स्मृतिग्रहणानि लौकिकानि ।

तानि शब्दलक्षणानि धार्यन्त इति पूर्वानुवृत्तिः । लौकिकान्यपि यानि कर्माणि तानि तादृशनिःश्रेयसमाधनानि शब्दलक्षणानि धार्यन्त इत्यन्वयः । ननु तथा लौकि. केषु श्रुत्य भाव इत्युक्तं तत्राऽऽह-वैदिकानामित्यादि । मन्त्रब्राह्मणरूपस्य वेदस्यैक- देशभूताः केचिवचिन्मन्त्रा एव क्वचिद्विधय एव कचिन्नोभयं किंतु वैतानिककर्म- प्रकरणगतार्थवादमन्त्रावयवा एव प्रसङ्गेन सिद्धार्थानुवादिनः । ते वैदिकाः शब्दा- स्तेषां सार्थानां या जायन्ते स्मृतयो मन्वादीनां सर्ववेदेदार्शनां ताः स्मृतय एव ग्रहणानि प्रमाणानि येषां तानि तथा । प्रकीर्णानां प्रकरणे पाठाभावादेकवाक्यतयकं कर्म बोध- यितुमसमर्थानां यदेकत्रोपसंहारः शब्दानां स न पाठेनास्मदादिमिगृह्यतेऽतो मन्वा. दिभिरपि नैकत्र गृह्यते, ततस्तेषामपि यतस्ततो व्यस्तानां स्मृतथ एव जायन्ते तामिरे- कत्र संकल्प्य न तान्येव शब्दरूपाण्येकत्र धार्यन्ते तेषां स्वारस्येन वाक्यार्थानव- बोधकत्वात्तैमन्वादिभिन्यायतो मीमांस्यमानानां कर्मणां यजायते निर्णयरूपं ज्ञानं तदेव प्रमाणं येषु तानि पश्चात्स्मृत्याऽऽचारेण वा प्रवतितानि मन्वादिलोकविमर्श- कारिभिर्लोकयन्ति विमृशन्त्यर्थान्वैदिकांस्ते तथा । ते हि न्यायार्पज्ञानाभ्यां वेदमूला- भ्यां सर्ववेदार्थनिर्णयकर्तारो नान्ये । अतः स्मृतय एव निर्णयरूपस्य ग्रहणस्य हेतव इति स्मृतय एव ग्रहणानीत्युक्तम् । *तन्न । (त्रा)प्रमोका(हा) विमर्शा वा स्मृ. -

  • अत्र तत्राप्रमोट्दा इसपेक्षितमिति प्रतिभाति । १प्र० पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

२६९

तयस्ते साध्यसाधनत्वावेदका इत्यर्थः । यद्यत्र शब्दशब्देन श्रुतिविवक्ष्येत तदा पूर्वे- जैव सिद्धरेतदर्थे न सूत्रान्तरमारम्भणीयं स्यात् । न चोच्छिन्नश्रुतित्वाचाऽऽशङ्कायां सूत्रान्तरारम्भ इति वाच्यम् । दृष्टा श्रुतयस्तान्प्रति श्रोतलौकिककर्मविभागो न स्यात् । न च नित्यानुमेयश्चतिप्रतिपादनार्थमारम्भ इति वाच्यम् । वैदिकानां शब्दा- नामिति च विरुध्येत । न च नित्यानुमेया एव वेदाः केऽपि सन्तीति मतं गुरोर्मत- मिति वाच्यम् । गुरुगुरोर्न तथेति पूर्वतनं गुरुमतमेवेत्युपेक्षणीयमित्याचार्याभिप्रायः । उक्तं च पार्थसारथिमित्रैः- यद्यप्यनुमिताद्वेदालौकिकोऽपि तु वैदिकः । प्रत्यक्षवेदविरहान्नैवासौ सदृशो मतः ॥ ननु सोऽपि वेदः केषांचित्प्रत्यक्ष एव नित्यानुमेयमूळनिराकरणात् । सत्यं, तथाऽप्यसदृश एव । कथं, वैतानिककर्माधिकारे त्रयी प्रवर्तते । तन्मध्ये तु प्रसङ्गाद- वैतानिक किंचिदुच्यत इति नित्यसापेक्षत्वाद्देवदत्तस्य गुरुकुलमितिवत्स्मृतिग्रहणा- नीति समासः । एतेन श्रौतानि कर्माणि तानि न लौकिकैः शब्दैधायन्ते किं तु यथा- पठितः कठिनैरपि धार्यन्त इत्युक्तमर्थात्तदेव पूर्वसूत्र एवं व्याख्यातम् । एतदेवोपजीव्य वे विधानत्रयमुक्तमस्माभिर्व्याख्यातं ज्ञेयम् । ननु श्रुत्यैव सर्वत्र फलमिष्टं हि लभ्यते । तस्य वाक्योदितं तत्तु न विवक्ष्यं विशेषणम् ॥ उद्देश्यस्य च पूर्वेण निराकाङ्क्षस्य यद्यदः । विशेषणं विवक्ष्येत भवेद्वाक्यभिदुद्धता || न साध्यत्वप्रतीतिस्तु जायते तैः पदैः क्वचित् । स्वर्गकामादिकैः सर्वैः श्रौतसाध्याविशेषकैः ।। विशिष्टशिष्टमप्यर्थमाचष्टे तत्पदं न हि । कर्तुविशेषणत्वेन प्रथमान्त फलान्वयि ॥ ग्रामकामाऽऽगच्छ भुक्ष्य चैवं स्यादुपलक्षणम् । भथवा भूतभव्यानामेकत्राप्यन्वये सति ॥ भूतं भव्यायोपदेश्यमिति न्यायाणे विधिः । स्वर्गस्य सुखरूपस्य साधनैश्चन्दनादिमिः ॥ यागो हि साध्यता तस्मात्सर्वकर्मफलं स्थितम् । निःश्रेयस चैकमेव नान्यत्फलमसंगतेः॥ १क. योगो। २७० सत्याषाढविरचितं श्रौतसूत्र- [ ३तृतीयप्रो-

एवं प्राप्तेऽभिधीयते-

कर्मणाऽभ्युदयोऽकर्मण्यप्रत्यवायोऽनियतानां तु ।

ना पूर्वपक्षव्यावृत्तिः । अनियतानां कर्मणाऽनुष्ठानेन फलं भवति । येषामननु- छाने च न प्रत्यवायः श्रूयते । इष्टसाधनताज्ञानमात्रादिष्टं प्रतीयते | साध्ये तन्मात्रदो नैव प्रेक्षाकारी प्रवर्तते ॥ न च तत्र निमित्तेन प्रवृत्तिस्तस्य चाश्रुतेः । अतस्तान्यनियतत्वादोषाकारिण्यकणि || आवश्यक्यामसत्यां तु प्रवृत्तौ स्वष्टसाधनम् । बुबैव हि प्रवर्तेत संख्या वाऽत्रान्यया कचित् ॥ एवं प्रवृत्ति सिद्ध्यर्थ वाक्यार्थो यद्विशेषणम् । गृह्णदिष्टं न वाक्यस्य भेदं कुर्यात्तु कुत्रचित् ।। तस्मात्तेषामनुष्ठानाजायतेऽभ्युदयः फलम् । स्त्रीकामो वृणुयाद्दारानितिलौकिकवाक्यतः ॥ वरणेनैव दाराणां प्राप्तिरुक्तेति गम्यते । पूर्वप्रकारतो नैव संगतिः पदयोर्भवेत् ॥ आह च- स्वर्गकामो यजेतेति द्वे पदे चेद्विधायके । परस्परेण संबन्धो नानुवादेऽपि युज्यते ॥ अतोऽनूद्य पदेनैकेनापरेण विधीयते । यदि तत्रैव संबन्धस्ततो जायत नान्यथा ॥ अनूध यदि यागं तु स्वर्गकामो विधीयते । कामनायास्तथा यागाददृष्टं परिकल्पते ।। स्वर्गकाम त्वन्द्याथै यदि यागो विधीयते । तस्योपकारकत्वेन ततः स्वर्गस्य माध्यता ॥ प्रयत्नरूपो यागाऽयं निष्फलः स च नेष्यते । विधेयोऽपि हि साध्यस्य साधनत्वेन जायते ॥ स्वर्गः साध्या नान्यतरत्साध्यं किंचिदपीप्यते । प्रयत्नरूपो यागोऽपि तेन स्यात्तस्य साधनम् ।। उद्दिश्य स्वर्गकामं तु स्फुटे यागवियों सति । एकवाक्पगतः स्वर्गस्तेनैवेह असाध्यते ॥ . १प्र०पटलः ] महादेवकृतवैजयन्तीब्याख्यासमेतम् । २७१

साध्यं नान्यद्धि यागस्य न चान्यत्स्वर्गसाधनम् । साध्यसाधनसंबन्धस्तेनेष्टः स्वर्गयागयोः ॥ इति ॥ अश्रुतानुष्ठाननिमित्तानां कर्मणामनियमेनेच्छायामनुष्ठानमनिच्छायां नेति तान्यनिय तानि तेषामकर्मा(म)ण्यननुष्ठाने न प्रत्यवायो भवति । तस्मादवश्यं वाक्येनैवाम्युदय- लक्षणं यद्यत्र विहितं तत्तत्र कर्मणोऽनुष्ठानेन भवेदित्यावेद्यत इति सूत्रार्थः । नियतानामननुष्ठानेऽपि प्रत्यवाय उत्पद्यत इत्यर्थादुक्तम् । तदयुक्तम् । सस्सु निमित्तेषु कर्तव्यमेवेत्येतावदेवावगम्यते न तु प्रत्यवायजनकत्वमननुष्ठानस्य प्रत्यवाय- जनकत्वं च निषिद्धक्रियायाः । न चाननुष्ठानं क्रिया तस्य प्रागभावरूपत्वात् । न च तस्य निषेधः शक्यो विहितक्रियायाः प्रागभावस्यानादित्वेनोत्पत्त्यप्राप्तेस्तत्प्रागभाव- परिपालनेऽपि न निषेधो निषेधस्याश्रवणात् । न च-विहितस्याननुष्ठानानिषिद्धस्य च सेवनात् । अनिग्रहाचेन्द्रियाणां नरः पतनमृच्छति ॥' इति विहिताननुष्ठानभावस्यापि पापजनकत्वमस्तीति वाच्यम् । नहींयं राज्ञामाज्ञा तदेवायुक्तमित्युक्तम् । तस्माच नाननुष्ठाने प्रत्यवायो नापि नियतकर्मत्वं सिध्यतीति प्राप्तेऽभिधीयते-

अकर्मणि दोषो येषां लोकेऽकर्मण्युपालम्भस्तानि नियतानि ।

यथा येषां पालनानां प्रतियोगिभूतेऽकर्मणि निषिद्धक्रियारूपे दोषः प्रत्यवायापूर्व- मिति तानि प्रागभावपरिपालनरूपाणि कर्माणि नियतानि नियमेनानुष्ठेयानि नियत- फलानि च तथा येषां विहितानामकर्मणि कर्मणो विरुद्ध प्रागभावपरिपालनरूप उपा- लम्भो निन्दा लोके स्मृतिशिष्टरूपे तान्यपि नियमेन कर्तव्यानि नियमफलानीत्यर्थः । एतदुक्तं भवति-यथा निषिद्ध क्रियाया अनुष्ठाने दोषः प्रागभावपरिपालने च फलं तथा विहितक्रियाया अपि नियमविधानादनियमव्यावृत्त्याऽवश्यंभाविनि प्रतिषेधे सति तेन निवारिते प्रागमावपरिपालनरूपे कर्मण्येव गर्हया दोषोऽनुमीयते । न वा कश्चित्कालो मनोवृत्त्या त्वव्याप्तोऽस्ति माणवृत्त्या सुषुतेरपि व्याप्तत्वात्तस्मान्मनोवृत्तिभिः प्राणवृत्तिमिश्च बाह्यमकुर्वतोऽपि सर्वदाऽस्त्येव क्रिया । सा विहितप्रागभाकव्याप्ता प्रत्य- वायजनिकेत्यतोऽन्या तु सुतरामिति । ननु नियतफलानाकक्षिणः कस्यचिल्कि नियमेनानुष्ठानमु कमनियमेनेति फलानाकाक्षिणो न नियम इति प्राप्ते नियतानीत्ये. वाकरणेऽनिष्टं स्यात्तद्भियाऽपि नियतेषु तर्हि मति निमित्ते यागं कुर्यादित्येव संबध्यते तेन नेतिकर्तव्यताकाक्षेति विगुणमेव कार्यमिति प्राप्नुयात् । किं च, न हि सर्वत्र यावजीवशब्दोऽस्ति न प गर्हयाऽनुमानं कर्तुं शक्यम् । उत्सर्गोऽपि त्रिंशद्वर्षेभ्यो २७२ सत्यापाढविरचितं श्रौतसूत्र- [ २ तृतीयमने-

जीर्णतायाश्चोर्ध्व दृश्यते । तेन कथं केषां नियतता कथं चानुष्ठानमिति न ज्ञायते । उच्यते-नियतता तु येषां फलं न चोद्यते सूत्रे तेषां नियतताऽऽधानप्रभृति सचिता। वसन्ते वसन्त इत्यत्र सोमेऽपि प्रयोगभेदेन सर्वकामा(मत्वा)न्नित्यस्य नियतता । अनु• पक्रान्तेष्वपि प्रतिनिधर्वक्ष्यमाणत्वादाधानादौ नियतेऽप्यङ्गप्रयोगकथनात्प्रायश्चित्तेन वैगुण्यपरिहारामिधानायथोपपन्नाजानुष्ठानेन नित्यसिद्धिरिष्टेति गम्यते । दर्शपूर्णमास- योर्यावज्जीवशब्देन स्पष्टीकृता । आधान विना न कस्याप्यारम्भरतस्यैव निःश्रेयसफ. लेषु प्रथमपरिगणनात् । आधानादग्निहोत्रं दर्शपूर्णमासौ सोमेज्या ब्राह्मणस्य नियता- नीति वदिष्यति । तत्राऽऽधानाकरण उपपातकं स्मृतौ तथाऽग्निहोत्रादिषु यस्य वेदश्च वेदिश्चेत्यादिना स्मृतिषु । य आ तृतीयात्पुरुषासोमं न पिवेदित्यादिश्रुतिष्वपि सर्वत्र प्रायश्चित्तविधानामुपालम्भान्नियततेति सूचितम् । यावज्जीवनादिनिमित्तान्यपि शास्त्रान्तराज्ज्ञेयानि । एतत्सर्वं कात्यायनेन सम्यग्विवृतम् । तथा हि-फलयुक्तानामा- रम्भे याथाकामी फलार्थित्वात् । फलार्थिनो हि कर्म चोद्यते । तस्माद्याथाकाम्य प्राप्तम् । न, नियमनिमित्ताग्निहोत्रदर्शपूर्णमासदाक्षायणाग्रयणपशुषु प्रवृत्तेः । नियमेषु न याथाकाम्यम् । यस्मानियोगतस्तत्र शास्त्रं प्रवर्तयति । सत्यवादी स्यादधःशायी स्यादिति च । पक्षे चैतन्नियमशास्त्रं प्रवृत्तम् । प्रागेव यस्माद्याथाकाम्यं प्राप्तं यदि नियोगतो नानुष्ठेयं सत्यवदनशासनमनर्थकमेव स्यात् । तस्मानियमेषु न याथाकाम्यम् । निमित्तेऽपि यद्विधीयते तत्रापि न याथाकाम्यं निमित्तोपदेशेन विधानागृहदाहेऽग्नये क्षामवते निर्वदिति । यदि सामवत्यादिषु याथाकाम्यं स्यातहदाहग्रहणमनर्थकमेव स्यात् । प्रागपि हि गेहदाहग्रहणाद्याथाकाम्यं सिद्धमेव । तस्मान्नैमित्तिकेऽपि न याथा- काम्यम् । अग्निहोत्रेऽपि न याथाकाम्यं यावज्जीवमग्निहोत्रं जुहुयादिति श्रूयते । ननु चाग्निहोत्रं जुहुयात्स्वर्गकाम इति तत्र प्रकरणादस्यैवेष कर्मणो धर्मस्ततश्च याथा- काम्यं भवति । नेत्युच्यते । प्रकरणादेष कर्मधर्मः स्याद्यावन्नीवता । तत्रापि लक्षणया कर्माभ्यासो लक्ष्यते । कर्तृधर्मे पुनर्जुहुयादिति स्वार्थ एव वर्तते नाभ्यास लक्षयति । जीवने निमित्त त्वज्ञातो होमो विधीयते । तस्मात्कर्तृधर्मों यावजीवकता । ततश्च तया याथाकाम्यम् । यत्पुनरुक्तमग्निहोत्रं जुहुयात्स्वर्गकाम इति स पृथक्काम्यप्रयोगः। अयमपरो जीवननिमित्त इति तत्रैतद्भवति कान्येऽपि प्रयोगे क्रियमाणे नैयमिकः कृत एव भवति । सोऽप्यग्निहोत्रप्रयोग एवेति । दर्शपूर्णमासादिष्वप्येवमेव द्रष्टव्यम् । तत्रापि हि काम्यचोदना यावजीवचोदना च । दाक्षायणग्रहणं काम्यसंबन्धाशङ्कया। आग्रयणेष्टयामपि शाखान्तरान्न याथाकाम्यम् । स्वशाखायामपि नवं प्रकृत्याऽऽमनन्ति- 'अनयोा अयं द्यावापृथिव्यों रसोऽस्य रसस्य हुत्वा देवेभ्योऽथ नवमन्नाति । इति] अशनस्य च नित्यकर्तव्यता । न च देवेम्यो हुत्वाऽसौ नित्य कर्तव्यता क्रियते । अतो नित्यता गम्यते । अपि च प्रायचित्तविधानमत्र भवति-अनिष्ट्वाऽऽययणेन नवस्या- १३०पटलः ] महादेवकृतवैजयन्तीभ्याख्यासमेतम् । २५३

भोयादिति । तस्मादाग्रयणेऽपि न याथाकाम्यम् । पशावप्येवम् । निरूढं प्रकृत्याss. मनन्ति, तं. तं वै संवत्सरो नानीजानस्यातीयादिति । सोमे वैकेषां ज्योतिष्टोपस्य निमि- त्तम् | यथा यावजीवमग्निहोत्रस्य । एके पुनरन्यथा वदन्ति । ज्योतिष्टोमेन स्वर्ग- कामो यनेतेति फल्युक्ता चोदना । तस्मादिह याथाकाम्यमा(मत्रोच्यते पृथक्प्रयोग एवायम् । एकः स्वर्गकामप्रयोगोऽपरो नैयमिकः कर्तृधर्म इति । एवं च कृत्वा गवा- मयनश्रवणम् । कथमेषां सोमोऽनन्तरितो भवतीति । सवनैरिति । सवनैरिति ब्रूया. दिति । यदवश्यं कर्तव्यं तस्य कारणान्तरेणानन्तराय उच्यते । तस्मादत्रापि न याथाकाम्यम् । तथा च स्मरणम्- कृतानां पशुप्तोमानां निष्कृत्यर्थमसंभवे । इष्टिं वैश्वानरी नित्यं निर्वदब्दपर्यये ।। चातुर्मास्येषु चतुर्मुखश्रुतेः । चातुर्मास्येषु च न याथाकाम्यम् । कुत एतत् । ऋतु। मुखश्नुतेः । प्रस्तुमुख ऋतु मुखे चातुर्मास्यैर्यनेतेति श्रूयते । किंच, नियतमहपाठात् । अपि च नित्यैः सह चातुर्मास्याना पाठो भवति त एतान्यज्ञऋतूंस्तेनिरेऽग्निहोत्रं दर्श. पूर्णमासौ चातुर्मास्यानि पशुबन्धं सौम्यमध्वरमिति । नियतसहपाठोत्तत्तुल्यता गम्यते । दर्शनाच्च । दृश्यते चायमर्थो यथा नित्यानि चातुर्मास्यानि । गवामयनयाजिनं प्रकृ. त्योच्यते कथमेषां चातुर्मास्यान्यनन्तरितानि भवन्ति । दीक्षितत्वात्तेषां प्रतिषेधै सक्ति कारणान्तरेण चातुर्मास्यानामनुग्रहं दर्शयति पयस्ययेति ब्रूयादिति । यच्च नामावश्यं कर्तव्यं तस्य कारणान्तरेणानुग्रहो भवति । अपरे तु सर्वकर्मविषयं दर्शनं मन्यन्ते कथमेषामग्निहोत्रमनन्तरित भवति । कथभेषां पौर्णमासं हविरनन्तरित भवत्येवमादि सर्वत्र कारणान्तरेणानुग्रहो दृश्यते । नोत्सर्गयोगात् । न च नित्यानि चातुर्मास्यानि । उत्सर्गेण हि तानि युज्यन्ते । यन्नाम नित्यं कथं तस्योत्सर्ग इति । स्यात्रिंशच्छन्द वत् । भवेद्वा नित्यत्वेऽप्युत्सर्गो यथा दर्शपूर्णमासयोस्तस्मात्रिंशतमेव वर्षाणि यजेतेति । अपि च नित्यमुच्यते यदवश्यं कर्तव्यम् । द्विप्रकारे कर्म नित्यं काम्यं च । तत्र नित्यं प्रकृत्य चिन्त्यते--किं सगुणमेव कर्तव्यमृत विगुणमपीति । गुणाम्नानात्सगुणमे- वेत्येवं प्राप्त आह विगुणे फलनिवृत्तिरङ्गप्रधानभेदात् । विगुणेऽपि नित्ये कर्मणि फलनिवृत्तिर्मवति । कुत एतत् । यतोऽङ्गानि प्रधानानि वा भिन्नानि । इह यावजीवं दर्शपूर्णमासाभ्यां यजेतेति दर्शपूर्णमासयोरेव कर्तव्यतोच्यते नाङ्गानामतश्च प्रधाने कृते यत्फलं तत्सिद्धं भवत्येव । धात्वर्थमात्रमेष कर्तव्यम् । न तेनान्यस्य कर्तव्यता । यन । । ख. कषां। २७४ सत्यापाढविरचितं श्रौतसूत्रं- [ श्तृतीयप्रभे-

च साधनत्वेन यागस्य श्रवणं तत्र साध्यापेक्षा भवतीतिकर्तव्यतापेक्षा वा । न पात्र साधनत्वम् । तस्माद्विगुणादपि फलं भवति । अङ्गाम्नानं तर्हि किमर्थम् । काम्यप्रयोग- विषयमित्यदोषः। किंच प्रायश्चित्तविधानाच्च । विगुणेऽपि नित्ये प्रायश्चित्तं विधीयते मिन्ने जुहोति स्कन्ने जुहोतीत्येवमादि । यदि हि विगुणं फलं न साधयेत्, प्रायश्चित्त- विधानवैयर्यप्रसङ्गः स्यात् । तथा च दृष्टं विगुणमपि नित्य कर्म यथाकथंचित्परि- समाप्यमानम् । व्यत्ययो म स्यात्, केन जुहुयादिति ब्रीहिथवाम्यामिति । यद्रोहि- पवौ न स्यातां केन जुहुयादिति या अन्या ओषधय इत्येवमाद्यभिधाय पुनरुपसंह. रति न वा इह तर्हि किंचनाऽऽसीदथैतदवहूयते सत्यं श्रद्धायामिति । यथाकथं. चित्परिसमाप्तिं दर्शयति । न चैते विधयो विधिविभकेरभावात् । तस्माद्विगुणं नित्यं फलं साधयत्येव । अपरेऽन्यथा व्याचक्षते-गुणाम्नानसामन्नित्यं सगुणमेव कर्तव्यम् । सूत्रव्याख्या च विगुणेऽपि नित्ये फलाभिनिवृत्तिभवत्येव । यदि नाम दैवान्मानुषाद्वा प्रतिबलात्सर्वाङ्गोपसंहारो न शक्यते कर्तुम् । कतिपयानोपसंहारेणापि कर्तव्यमेव । यथा शक्नुयादित्युपपदार्थोऽत्र परिकल्पते । सर्वदा कर्तव्यं सगुणं चेत्य- शक्यमेवावश्यंभावि दैवान्मानुषाद्वा प्रतिबलाद्वैगुण्यमिति । एवं कृत्वा विकृतौ नित्ये कर्मणि प्राकृता पदार्थानुवृत्तिदृश्यते । यथा वरुणप्रघासेषु अथाध्वर्युरेवाऽऽहाग्निमनी- संमृड्ढोत्यसंमृष्टमेव भवति संप्रेषितमथ प्रतिप्रस्थाता प्रतिपरैति स पत्नीमुदानयन्निति पत्न्यानयनविधिपरे वाक्येऽग्निसमार्गप्रैषं दर्शयति । तथा महापितृयज्ञे स यज्ञोपवीती भूत्वाऽऽज्यानि गृह्णातीत्येवं विधिपरे वाक्ये लेखाकरणहरणोत्तरपरिग्रहादीपदार्था- ननुवदति । यदि हि नित्यस्याङ्गसंबन्धो न स्याल्लेखाकरणहरणाद्यनुवादो नाभवि- ध्यत् । भवति च तस्मान्नित्यानामप्यङ्गसंबन्धः । पशौ च दर्शयति-उत्तरमाघारमाघा. योसंस्पर्शयन्खुचौ पर्यत्य जुह्वा पशु समनक्तीति । पशुसमञ्जनविधिपरे वाक्य उत्तराधार दर्शयति । यचोच्यते न यागेनान्यसाध्यत इति । आम्नानसामर्थ्यादुपात्तदुरितक्षयो वा, उत्पत्सुदुरितासंबन्धो वा भवत्येव । तस्मानित्येऽप्यङ्गसंवन्ध इति कात्यायनाचा- येणोक्तं ज्ञेयम् । कर्ममिनिःश्रेयसं प्राप्यमित्युक्तम् । तथा मध्ये वेदनेच्छालक्षणं द्वारं चोक्तं, निःश्रेयसप्रापकं ज्ञानमेवोत्पाग्रं कर्ममिरित्युक्तम् । तत्र कर्मसाध्या यद्यपि जिज्ञासा भवेन्नैतावता ज्ञानसिद्धिरित्याशङ्कयाऽऽह-

निःश्रेयसबुद्धिः प्रजनसंबन्धापेक्षा ।

निःश्रेयसप्ताधनभूता बुद्धिस्तथा सा च प्रकृष्टो जन आचार्यो ब्रह्मवित्तरसंबन्धमपे. क्षते । आचार्यवान्पुरुषो वेदेति श्रुतेः । न कर्मानुष्ठानमात्रेणापि तु वैराग्यादिसंपत्त्या १५., ज. स.दु. 'ननसं। प्र. पटलः] महादेवकृतबैजयन्तीष्याख्यासमेतम् । २७५

धर्मप्रभ वक्ष्यमाणया। यदाऽऽचार्यमुखाद्धर्मप्रश्नप्रदृश्यमानोपनिषदां परिशीलनं स्पाच्छु. धणादिना सदैव साक्षात्काररूपा बुद्धिरुत्पद्यत इति भावः । एवं नियतकर्मणां निःश्रेयसफलतामभिधाय यज्ञशब्देन श्रौतकर्ममात्रमेव गृहो- तमितिब्युदासार्थ प्रयुक्तेन कर्मशब्देन सूचितं सर्ववर्णाश्रमकर्मणां ताइक्वं तदेवोदाइ. एणमुखेन द्रव्यति-

अतिथिपूजागुरुपूजासंनिपाते चाभिवादनम् ।

एतनियतमित्यग्रिमेण संबन्धः । सामयाचारिकेषु धर्मेषु व्याख्यास्यमानत्वाको- कहतानि लौकिकानि, गुरोः समागमे गुरोरभिवादन, स्पष्टमन्यत् । श्रौतमनेष्टासाध्यमुदाहरति-

तत्कारितत्वाद्ब्राह्मणराजन्ययोर्वैश्यस्य च वेदाध्ययनं तन्नियतम्।

अध्यापकैस्तद्वक्ष्यमाणमध्ययनं तस्मै कारिता अध्ययनार्थं कारिताः संस्कारिता- स्तेषां मावस्तेषां संस्कारितत्वं तत्कारितत्वं तस्माद्धेतो ह्मणादित्रयस्यैवाध्ययनं तच्च नियमित्यर्थः । ब्राह्मणादय एव वसन्तादिकालेष्वध्पापकैरध्ययनार्थत्वेन संस्कृता मतस्तेषामेवाध्ययनम् । वक्ष्यति च-अशुदाणामदुष्टकर्मणां विद्यार्थिनां श्रुतितः संस्कार इति । अयमाशय:-अध्ययनं यद्यपि वैदिकफलार्थिनां फलसाधनज्ञानाय सर्वेषामपि मामुयात्तथाऽपि च तदुपनीतानामेव विधीयते । उपनयनं वसन्तादिषु कालेषु त्रैवर्णि- कानामेवातस्तविनाभूतमध्ययनमपि तेषामेवेति । वैश्यस्याप्तमासग्रहणं माह्मणेन सह कर्मनिरासार्थ द्वादशाहादौ । एवं वर्णत्रयस्याध्ययनं नियतमित्युक्तम् । तेन प्रसङ्गेन मोक्षाद्विना फलार्थिना- मपि त्रैवर्णिकानामपि न सर्वकर्मानुष्ठानमिति दर्शयितुमधिकारिनियममाह-

तेषामेव ब्राह्मणविहिता यज्ञा येषु यज्ञकार्त्स्न्यमविप्रतिषिद्धम् ।

येषु त्रैवर्णिकेषु यज्ञस्य साङ्गस्य कास्न्य विद्वत्ताऽर्थवत्ता सवर्णस्त्रीपरिग्रह अत्वि. गादिसंपत्ति ह्या समग्रा तेषामेव यज्ञा न तु परमुखेन पृष्ट्वाऽपि कर्तारो भवन्ति । तथाऽथ संपादयिष्यामीति । अत एव-'यस्य त्रिवार्षिकं धान्यं स तु सोमं पिबेतिनः' इत्यादि । तथा स्त्री नासवर्णी मन्त्रपाठमात्रवती सत्यधिकृता तेषां त्रैवर्णिकानाम् । स्त्री पुंक- चेति पुमान्त्रियेति च सूत्राम्यामेकशेषेण तेषां त्रैवर्णिक्यः स्त्रियोऽपि गृह्यन्ते । एवकारः फलकामिनामपि शूदाणामन्याधानादिप्रापकलिङ्गनिरासार्थः । ब्राह्मणेनेति , क.ग. च.क.ट..ण, कान्यें। २७६ सत्यापातविरचितं श्रौतसूत्र- ( तृतीयपने- [ श्तृनीयप्रश्ने-

स्मार्तधर्माणां शूदेखि प्राप्तिनिवारणार्थम् । ब्राह्मणेन विहिताः श्रौता एतदेव स्फुटयितुं यज्ञा इत्युक्तम् । यज्ञशब्देन श्रौतस्वेनोपलक्षिता आधानादयः । अयमर्थः श्रूयते.. वसन्ते ब्राह्मणोऽनीनादधीत मीध्ये राजन्यः शरदि वैश्य इति । तेनाऽऽधानाभावाद- नग्निः शूद्रः सोऽग्निसाध्ये कर्मणि कथं प्रवर्तिप्यते । आत्मार्थ चाऽऽधीयन्तेऽनयो न परार्थी आत्मनेपदं यत्र भवत्यावधीतेति । तेन ब्राह्मणादय एवाऽऽघानेनाग्निमुत्पाद- यितुं समर्धा न शूदा आधानाभावात् । अतः शूद्रस्यानाधिकारः । ननु सन्ति चान्या- नि देर्शनानि यः शूद्रस्याप्यधिकारो गम्यते । हविष्कदाहानविशेष प्रकृत्योच्यते- आधावेति शूद्रस्य । तथा व्रतविशेषस्तु शूद्रस्य । तथा पितृमेधेऽष्ठीवघ्नं शूद्रस्येति । उच्यते-न शूद्रस्याधिकार इत्युक्तमेव । यानि पुनर्दर्शनान्युक्तानि तानि रथकारवि- पयाणि । रथकारस्य हि शूदसंबन्धाच्छूद्रत्वमुच्यते । करिण्यां हि स जातः के करिणी शूद्रीदुहितेति । तथा निषादविषयाण्यपि तस्यापि शूदत्वात् । अथ वा ब्राह्मणरा- भन्यवैश्यानामेवाध्ययनं श्रूयते-वसन्ते ब्राह्मणमित्यादि । उपनयनं चाध्ययनार्थम् । मतस्तदभावादवैधत्वादनाधिकारः शूद्रस्य । अपि च शूद्रस्य प्रतिषेधोऽध्ययने प्रतिश्र- वणे अपुजतुभ्यां श्रोत्रपरिपूरणमदाहरणे जिह्वाच्छेदो धारणे शरीरमेद इति । तस्माद- वैधत्वाच्छूद्रो नाधिक्रियत इति । तदिदमेक्कारेणोक्तं यल्लिनान्यथासिद्धिरध्ययनाभावश्च । न च स्त्रीणामङ्गत्वमात्रेण यावदुपयुक्तं वेदाध्ययनं न तु कर्माधिकार इति वाच्यम् । यापत्योर्न विभागो विद्यते पाणिग्नहणादि सहवं कर्मसु । तथा पुण्यक्रियासु द्रव्य- परिग्रहेषु न हि भर्तृविप्रवासे स्त्रिया नैमित्तिके दाने स्तेयमित्युपदिशन्तीति । स्त्रीणाम- प्यधिकारं वक्ष्यत्याचार्यों धर्मेषु । कात्यायन:-ब्राह्मणोऽनीनादधीत स्वर्गकामो यजेतेति । विशिष्टलिङ्गश्रवणास्त्रिया अनधिकार प्राप्त इदमाह-स्त्री चाविशेषास्त्री चाधिक्रियते । कुत एतद्यस्माच्छ्रयमाणमपि लिङ्गं न विशेषकं भवत्यतो न पुंसामेवाधि. कार इति । उद्दिश्यमानविशेषणमेतत्स्वर्गकामो यजेतेति । विधिसंस्पर्शाभावादविवक्षित लिहं संख्या च । यत्र पुनर्विधिसंस्पर्शोऽस्ति तत्र लिङ्ग संख्या च विवक्षिते । यथा पशुमालभेतेत्यत्र तद्विशेषणं पुंस्त्वमेकत्वं चोभयं विधीयते । विशिष्टपश्चालम्मोऽन्यथा न भवति । तस्मास्त्रिया अप्यधिकारः । दर्शनाच । दृश्यते चायमों यथा स्त्रिया अप्यधिकार इति । मेखलया यजमानं दीक्षयति योक्त्रेण पत्नीमिति । योक्त्राविधि- परे वाक्ये पत्न्या अपयधिकारं दर्शयति । सा च पुंसा सहाधिक्रियते न पृथक्रिया फलं च सकलमेकैकस्य भवति । न विभागेन स्वर्गकामो यजेतेत्यनेन यथा यजमानोऽभि- धीयत एवं पत्न्यपीति । यथा यागेन यजमानः फलं साधयति तथा पन्यपीति । वाक्यान्तरेण सह क्रिया तयोस्तथा च श्रवणम् -- क. ग. ठ, ग. दर्शितानि । २ ख. 'तत् । भविशेषात् । यस्मा । i .३ प्र० पटरः] महादेवकृतवैजयन्तीक्ष्याख्यासमेतम् । २७७

'नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषणम् । शुश्रूषयति भर्तारं तेन स्वर्गे महीयते ॥ इति । तस्मादृपनीताधीतानां त्रैवर्णिकानां तज्जातिस्त्रीणां च ब्राह्मणविहितेष्वाधानानि होत्रदर्शपूर्णमासादिकर्मस्वधिकार इति सिद्धम् । ननूक्तेन न्यायेनोपनयनाध्ययने अपि स्त्रियाः प्राप्नुतो ब्राह्मणमित्यादिषु लिङ्गाविवक्षणात् । सत्यम् । उपनयनस्थाने नारीणां पाणिग्रहणमेव संस्कारत्वेन स्मर्यते । विवाहानन्तरमध्ययनं यावदमेवार्थप्राप्तत्वात्तस्या भन्यमन्त्रोच्चारणे शूदवदेव प्रतिषेधादेवं निषादरथकारयोरपि । तदुक्तम्- 'स्त्रीशूद्रद्विमबन्धूनां त्रयी न श्रुतिगोचरा ।' इति । किंचाष्ट वर्षों ब्राह्मण उपयच्छेत्सोऽधीयीतेति कर्तलिङ्गस्य विधेयस्य विवति- तत्त्वादुपनयनाध्ययनाभावः। त्रैवर्णिकेष्वप्यपवदति केषुचित्-

यथा द्रव्यवत्ता शरीरकार्त्स्न्यं च ।

भविप्रतिषिद्धम् । द्रव्यं दायं तद्यस्य विप्रतिषिद्धं नास्ति । दायमाक्त्वेन द्रव्य- वत्ता स एव(१)नास्ति च षण्दादीनां दायमिति वक्ष्यते । अतस्तेऽशुचित्वेनानाधिका- रिणोऽति(!) दायप्रतिषेधोऽशुचित्वादेव स्मर्यते । तथा शरीरकास्न्यमङ्गानुष्ठानं न विप्र- तिषिद्धं न विरुद्धं तेषामेव ते यज्ञा नान्येषामन्धपङ्खमूकबधिराश्रोत्रियाकिंचनानाम् । भाज्यावेक्षणविष्णुक्रमणमन्त्रोचारणसंबोधनयाजमानदक्षिणासु यज्ञाङ्गेषु विरोधः स्यात् । अनधीतस्यापि त्रिवृदग्निष्ठत्प्रायश्चित्तत्वेन विहितः साधुवृत्तस्याऽऽधानादिकर्मसाद्गुण्यार्य ततो भवति तस्याप्यधिकारो नित्यनैमित्तिकेषु च । अकिंचनस्यापि नित्यविष्ठिपशु- चातुर्मास्यसोमेष्वन्वाहार्यमात्रस्य. दक्षिणाया विधास्यमानत्वारप्रतिप्रसवः । तथा मृत- भार्यस्य दारकाशक्तस्य स्वार्थमाधान कल्पसूत्रे वक्ष्यते तस्य विना मार्ययाऽपि । कल्पसूत्र एव पक्षे पत्नी निर्मन्थेन दहन्तीति तत्राप्यमयः स्वार्थमेव स्थापनीया अभा- येणापि नित्यं कार्यम् । त्रैवर्णिकानामेषाधिकार इति द्रढयति लिने:-

येषां च प्रकृतिलिङ्गानि यज्ञाः श्रूयन्ते त्रीन्वृणीते मन्त्रकृतो वृणीते यथर्षि मन्त्रकृतो वृणीत इति विज्ञायते ।

माझणे विज्ञायत इति दादयार्थम् । प्रकृति तिस्तस्या निर्णायकानि लिङ्गानि यज्ञा यज्ञसाधनानि न हि प्रवरमन्येषामस्ति ब्राह्मणादित्रयव्यतिरिक्तानाम् । तत्र पुरोहिताविप्रवरेण रानन्यवैश्ययोब्राह्मणस्य खतः प्रवरं स्पष्टम् । घ.. ज.स.म.क. यज्ञे। २७८ सस्पाषाढविरचितं श्रौतसूत्र- [ २ तृतीयपने-

त्रयाणा लिङ्गान्याह-

गायत्रिया ब्राह्मणस्य परिदध्यात्त्रिष्टुभा राजन्यस्य जगत्या वैश्यस्येति ।

इतिशब्दः प्रकारे । एवंप्रकाराण्यन्यान्यपि वेदितव्यानीत्यर्थः । एवमधिकार संभाव्येदानी कर्मस नियतान्याह-

तेषामग्निहोत्रं दर्शपूर्णमासौ च नियतौ ।

सहाऽऽधानेन पूर्वभाविवादकरण उपपातकस्मरणाच । अत एक नियतेषु पाठः । तेषां ब्राह्मणविहितानां यज्ञानां मध्ये यावन्नीवमग्निहोत्रं जुहुयाद्यावजी दर्शपूर्ण- मामाभ्यां यनेतेति नियतनिमित्तताश्रवणात् । बामणे विशेषमाह-

सोमेज्या ब्राह्मणस्य ।

ऐन्द्राग्नं पुनरुत्सृष्टमालमेत्तेति तथाऽऽश्विनं धूम्रललाममालभेतेत्यत्र ब्राह्मणस्यैक प्रायश्चित्तत्वेन विधानात्तस्य सोमेज्या नियम्यते । दौर्बाह्मण्यत्रात्यस्वपरिहारायाग्नि- होत्रं दर्शपूर्णमासौ तु सुतरामित्यर्थः । भारम्भनियमविशेषमाह-

आधानादग्निहोत्रं दर्शपूर्णमासौ च नियतौ ।

आधाने कृते दर्शपूर्णमासयोरव्यवधानेनाऽऽरम्भो नियम्यते । सोमेज्या ब्राह्मणस्य नियताऽपि न तस्या आधानाव्यवधाननियमः । चकारोऽन्यतरस्यैव नियमो मा भूपि तूभयेषामपीति दर्शनार्थः । न वक्तव्यमेतत्तेषां व्यवधानेऽग्निनाशप्रायश्चित्तश्रवणात् । वक्तव्यम् । काम्याथै सत्यां कामनायामारम्भोऽसत्यामनारम्भ इति मा भूदित्येवमर्थम् । न च सत्यामारम्भस्तन्निमित्तः कथम् । असत्यां तु नियतानामेव भविष्यतीत्येवमर्थम् । सत्यां तु काम्येनैवाकरणनिमित्तः प्रत्यवायोऽपि परिहियत इत्युक्तत्वात्तस्मान्न निःश्रे- यसमित्येतावान्विशेषः । तथाऽप्यन्यत एव सिध्यत्येतसावधानदोषो भवतीति । तहिं काम्यारम्भे सत्यासत्यां कामनायामत्यागार्यमेतद्भविष्यति । नियतारम्भे यथा यावज्जीव मत्यागस्तथा काम्यारम्भेऽप्यसत्या कामनायां तेषां त्यागेन नियतारम्भो निषिध्यते न ह्यारम्भस्याऽऽधानाव्यवहितकालं विनाऽन्यः कालोऽस्तीति कामनात्यागे सायं- प्रातः प्रयोगमात्रेण यावदिष्टेन काम्यसमाप्तौ तदनन्तरं प्रयोगा यावज्जीव निःश्रेयसार्था भविष्यन्तीति न पृथगारम्भनिमित्तं सप्तहोतृहोमादिकमन्वारमणीयादिकं कार्यमिति तात्पर्यम् । 1 । १५० पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । २७९

त्रैवर्णिकन्यतिरिक्तयोरप्याह-

निषादरथकारयोराधानादग्निहोत्रं दर्शपूर्णमासौ च नियम्येते ।

वर्षासु रथकारोऽग्नीनादधीतेति, तथा-प्रभूणां त्वा देवानां तपते वर्तनाऽऽदधा- मीति रथकारस्येति च दर्शनादाधानं रथकारमातेराधानोत्पन्नानीनो परार्थत्वादग्निहोत्र दर्शपूर्णमासनियमस्तथा चैतया निषादस्थपति याजयेदिति निषादश्चासौ स्थपतिश्चेति कर्मधारयाभिप्रायेण निषाद इत्युक्तम् । तेनाऽऽपस्तम्बसूत्रे निषादानां स्थपतिस्त्रैवर्णिक एवेति तन्निराकृतमेतच्यायशास्त्रासिद्धं तस्येष्टिविधानादाधानमाचार्यों मन्यते । एक- स्याऽऽधानमात्रं नियतं परस्य विकृतेष्टयुपक्षिप्तमाधान द्वयोरप्यग्निहोत्रं पर्शपूर्णमासी च नियम्येते न्यायमतेन निषादस्याऽऽधानं तस्य लौकिकानिषु विकृतेष्टिमात्रमवकी- णिनो ब्रह्मचारिण इव गर्दभस्येति ।

तथा जीवपितुः ।

नियम्यते इत्याकृण्यते । यस्य त्रैवर्णिकस्यान्ययोर्वा योऽयं नियम उक्तः स तु तेषां मध्ये तथा जीवपितुरेव नान्यस्य नियमः । तथा नियताग्निहोत्रदर्शपूर्णमास- कारिणी जीवो पितरौ यस्य स तथा । यदि पितरौ जीवतस्तहि ताभ्यामाधानादित्रये कृत एव पुत्रस्याधिकारो नान्यथा । तयोरकृताधानयोरन्यतरस्य मरणे सत्यस्त्येवाधि- कार इत्यर्थः । तथा नीवपितुर्भरद्वाजेनाऽऽधानादि निषिद्धं तत्प्रतिप्रसवश्च ।

उपक्रमादितरे नियम्येरन् ।

यदीच्छा तदैवोपक्रम्य नियम्यते । न तस्योपक्रमोऽपि बाधादग्निहोत्रयदर्शपूर्णमा- सवत् । ब्राह्मणस्य सकृत्सोमेज्यावद्वा । असत्यामिच्छायामनुपक्रमेऽपि न दोषः । अयमभिप्रायः-यथाऽग्निहोत्रे दर्शपूर्णमासयोश्च यावजीवशब्देन निमित्ते सति विधानात्सति जीवने निमित्तेऽवश्यकर्तव्यत्वं नैवं पशुचातुर्मास्यसोमेषु यावज्जीवशब्दे- न निमित्त तत्समाधीयते किं त्वम्यासानियतत्वमुच्येत तथा साम्यासा भारब्धाश्चेन त्याज्या इति । इतरे चातुर्मास्यादयः सोमान्तास्तेषां काम्यानां नित्यानां च सद्भावा- नाग्निहोत्रदर्श पूर्णमासवत्काम्यस्योपक्रमेऽप्यत्याग इति नियमः । किं तु नित्यानामुप- कमे सति येषां नोत्सर्गविधिस्तेषामत्यागो नियम्यते न तु काम्यस्योपक्रमेऽपि । कुतः, यावज्जीवपदाभावादारब्धस्यासत्यां कामनायां त्यागोऽपि युज्यतेऽन्यस्य पुनरारम्भोऽ- भारम्भोऽपि नियतस्याऽऽरम्मे त्वत्यागं पूर्वाभ्यासस्य निरवधित्वादवधौ चोत्सर्ग इति भावः । प्रमीतपितरौ न तु सति सामर्थे चातुर्मास्याद्यपि चोपक्रमणेऽयमेव नियतत्वे. नाविशेषेण सर्वकर्माणि प्रक्रान्तानि तत्रेतराणीति वक्तव्ये व्यवहितदर्शपूर्णमासया- गावपेक्ष्य तज्जातीयानामेव यागान्तराणां ग्रहणार्थ पुंलिङ्गनिर्देशस्तेनेतरेषां यागानामेवो- पक्रमनियमो न निःश्रेयससाधनानामन्येषां नियतानामपीत्युक्तम् । तेषां तूपक्रम२८० [३ तृतीयपने- . सत्यापाडविरचितं श्रौतसूत्र-

स्यापि नियतत्वात् । तथा चायागानामतिथिपूजोपनयनाध्ययमादीनामव्यावृत्तिः । इतरे यागा आग्रयणेष्टिपशुचातुर्मास्यसोमा नित्याः काम्याश्च । सत्रेष्टिपशुसोमाना- मनुत्सायावज्जीवमनुष्ठानमग्निहोत्रवत् । ब्राह्मणस्य सोमेन्या नियता सकृदपि । कथम् । अपुनर्भक्ष्योऽस्य सोमपीयो भवतीति लिङ्गात् । उभयप्रयोगावपि न विरुद्धौ सोमस्य । आगयणेष्टौ तृपक्रमादेवाऽऽचार्यस्य नियम इष्ट स्तस्थाने विहितं नियतमेव काम्यानामपि । यो यक्ष्य इत्युक्त्वा न यनते त्रैधातवीयेन यजेतेत्यसमाप्तौ प्राय. श्चित्तविधानात् ।

तत्र नित्यस्य द्रव्यस्याभावे सामान्यात्प्रतिनिधिः ।

तत्र तेषु नियतेषु यदि नियतं द्रव्यं ब्रीह्यादिकं सोमादिकं न लभ्यते, अभावेऽ. छामे न तु नाशे । नाशे तु पृथावदेदेवाप्रतिनिधिना सत्स्थानापन्नेन केमापि द्रव्येण नियतं कार्यमेव । आरम्भात्पूर्वमलाभेऽपि नियत प्रतिनिधिनाऽप्यारम्भणीयम् । प्रकारा. काम्येषु च नित्यस्य विहितस्य द्रव्यस्य साधनभूतस्याप्राप्तौ नाशे वा तत्स्थाने प्रति- निधीयते तत्स्वरूपेण गृह्यते स प्रतिनिधिव्यान्तरं ग्रामम् । भनियमं निवारयति सामा- न्यात् , जातिसाम्मन्याद्धर्भसामान्यात्सादृश्यादित्यर्थः । अस्मिन्नेवार्थे पूर्वोत्तरपक्षी कात्या- यनीये-चोदितामावेऽनारम्भस्तसिद्धत्वात्तस्य चोदितस्य द्रव्यस्य चाभावे नाऽऽरब्धव्यं तत्कम । कुत एतत् । तदेव हि साधनं तस्य कर्मणः श्रुतं द्रव्यान्तरमश्रुतमतो द्रव्यान्तरेण कर्मान्यत्वं भवति द्रव्यदेवतं हि कर्मणो रूपमिति । एतदेवं काम्ये । अर्थान्नित्से । कथमिति । नित्येऽपि च श्रुतद्रव्याभावे कर्मान्तरबुद्धयाऽनारम्भे प्राप्त आह-नियते सामान्यतः प्रति- निधिः स्यात् । नित्ये कर्मणि प्रतिनिधिनाऽऽरब्धव्यं तत्कर्म श्रुतद्रव्यतुल्येन । कुत एतत् । बीहिभिर्य नेतत्यत्र नियममात्रं ब्रीहिश्रुतिः । न च नियमानुरो: धेन . यावज्जीवश्रुत्युपरोधः शक्यः कर्तुम् । अवश्यं कर्तव्ये कर्मणि नियम- मात्रस्यवानुपादानं युक्तरूपम् । तस्मात्प्रतिनिधिना तत्कर्म समापनीयम् । कुत. एतत् । श्रुतद्व्यसामान्यत ... इत्युच्यते । बाहिभिर्यजेतेत्यनेन ... बोहिताजात्युपलक्षितानां व्यक्तिविशेषाणामङ्गता विहिता भवति । न बौहिज़ात्या मूर्तत्वात्। अष्टाकपालनिव. त्तिर्वा शक्यते ..कर्तुम् । न च व्यक्तिविशेषाणां जातिशब्दाहतेऽन्यद्वाचकमस्ति । तस्माद्यक्तिविशेषा. एवात्राभूता इति । तेन सदृशेषमादीयमानेषु, कियतामपि व्यक्त- विशेषाणामुपादानं कृतं भवति । तस्मात्साधूतं सामान्यात्प्रतिनिधिरिति । नित्ये प्रति निधिर्भवति । काम्ये चापि प्रक्रान्ते प्रतिनिधिरिष्यत एव । तदर्थमाह-आरम्मान्नियमः । आरब्धं हि तत्कर्म । आरम्भश्च समाप्लेनिमित्तम् । न च प्रतिनिधिद्रव्यमन्तरेण समाप्ति स्तस्य भवति । तस्माचत्रापि प्रतिनिधिर्मवत्येव । अपि च प्रकान्तस्य काम्यस्याप्यत: , क. ग. च, ट, ठ, ग, स्थानं वि०२. देव का। - १५०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

माप्तौ दोषो भवति । तदपि हि नित्यैः समानं मवति । यथैव नित्यस्याकरणे शिष्ट- विगर्हणमेवं काम्यस्यासमाप्तौ शिष्टविगर्हणम् । ननु शिष्टविगर्हणं नाम को दोषः । अस्ति दोषो येन शिष्टा विगर्हन्ते । अथापि नाम नास्ति दोषो विगर्हणमेव दुष्ट- मिति । दर्शनाच । दर्शयति द्रव्यान्तरेण परिसमातिं यदि सोमं न विन्देत्पूतोकानभि- पुणुयादिति । कात्यायनीयं सर्वत्र द्रव्यप्तामान्य प्रयोजकमित्युक्तम् । तत्किमविशेषेण नेत्याह-

अर्थावाप्तौ द्रव्यसामान्यम् ।

उपलक्षणमिति शेषः । सजातीयेन प्रतिनिहितेन यदि प्रयोजनं संपद्यते तदा समातीयं न्यूनविहितगुणमपि यथाकथंचित्प्रयोजनलामे तदेव माझं न तु तच्छब्दानु- पलक्षितं विहितसमस्त गुणमपि विजातीयम् । व्यतिरेके दर्शयति-

अर्थविप्रतिषेधे त्वर्थसामान्यम् ।

यथाकथंचिदपि यदि सजातीयेन प्रयोजनं न भवति तदाऽर्थन प्रयोजनेन नोप- लक्षिता या विहितद्रव्यनिष्ठाऽन्याऽव्यवहिता साक्षाध्यापिका नातिस्तथैव समान- नातीयं ग्राह्यं न तु व्यापकन्यापकादिसामान्येन सनातीयम् । तदपि पूर्वपूर्वालामे प्राह्ममेव समानजातीयपर्यन्तम् । तदेतदर्थतामान्यमित्यनेन दर्शितम् । एवमेव विवक्षितमिति दर्शयितुमुदाहरति-

यथा यूपाञ्जने सर्पिषोऽभावे तैलम् ।

अत्र यूपाञ्जनेऽनक्ति तेजो वा आज्यं यजमानेनाग्निष्ठेति ब्राह्मण आज्यशब्देन विधानेऽपि सर्पिष इति यदसर्पत्तत्सपिरभवदिति घतप्तामान्यवाच्याज्यशब्दो न तु संस्कारवाचीति दर्शितम् । अत एव वक्ष्यति लौकिकेनाऽऽज्येनेत्यादि यजमानो यूपमनक्तीति । सर्पिषो यथाकथंचिदसामर्थे सर्पिीत्या विजातीयमपि तैलं नेहव. गृह्यते । प्रतिनिधी विहिते च प्रतिषेधस्य संकोचो भवतीत्याशङ्कित उत्तरम्-

प्रतिषिद्धेभ्यो निवृत्तः प्रतिनिधिः ।

न हि यागीयत्वेन हि निषिद्ध प्रतिनिधित्वेन ग्राह्यं विजातीयनान्येनापि तसिद्धेः। तस्मान्यायेन प्राप्तः प्रतिनिधिर्यागीयत्वेन प्रतिषिद्धेभ्यो निवृत्तोऽन्य एवं प्रतिनिधिः । ननु प्रकरणे पठितः प्रतिषेधस्तत्रैव स्यान्नान्यत्रेत्याशझ्याऽऽह-

अविशेषेण हि प्रतिषेधः श्रूयते ।

अविशेषेण श्रुतिस्मृत्यादौ प्रतिषेधो यस्माच्छ्यते स तु न संकोचनीयो न्यायप्राप्त- विधिना तस्य दृष्टद्वारा सामर्थेऽप्यदृष्टद्वारकशक्त्यमावः प्रतिषेधादवगम्यते । - २८२ सत्यापाढविरचितं श्रौतसूत्र- [ ३ तृतीयप्रश्ने-

अक्तपणे कर्मजो लोप एवं स्यादित्यर्थः । श्यामाके चरौ विहिते प्रतिनिधौ प्राप्त श्रूयते-अयज्ञिया वे कोद्रवा अयज्ञिया वरडका इति । तथा मौद्रोऽपि चरौ अयज्ञिया । माषा इति । सोयमविशेषेण यज्ञसंबन्धी निषिध्यते न चरुद्वय इत्यर्थः । यदार्याणा. ममोजनीयमित्यादिरपि ज्ञेयः प्रतिषेधः । अथ यत्र वैकल्पिक द्रव्यमुपात्तं नष्टं यथा ब्रीहिधु नष्टेषु किं ब्रीहिसामान्येन प्रतिनिध्युपादानमुत श्रुतद्रव्यं यवा उपादेयाः । श्रृंतद्रव्याभावे प्रतिनिधिरिष्यते न श्रुतद्रव्ये सतीति यवा उपादेया इत्येवं प्राप्त आह-

विकल्पे प्रवृत्तिलक्षणः ।

अस्मिन्विकल्पे यत्प्रवृत्तं द्रव्यं तत्सामान्येन प्रतिनिध्युपादानम् । न श्रुतमपि द्रव्यमुपादेयं, किं कारणं सर्वत्र हि वैकल्पिकेषु द्रव्येषु यजमानः स्वयमेवैकं साधनत्वे. नाङ्गी करोति । तत्र च तदेव साधनं नान्यदश्रुतसममेव हि तदिति । यदि च तदु. पादीयते कर्मान्तरबुद्धिः स्यान्न च सध्यते । तस्मात्प्रक्रान्तद्रव्यप्तादृश्येन प्रतिनिध्यु- पादानमिति । सजातीयाभावेऽपि विजातीयग्रहणेऽपि ब्रीहीणां मेधसुमनस्यमान इति मन्त्रलोषो नास्ति । कचिदपवादमाह-

कृत्स्नाभावे प्रतिनिधिः ।

विहितस्योपात्तस्य सर्वस्य नाशे प्रतिनिधिरसर्वस्य नाशे न प्रतिनिधिः । ननु किंचिन्मात्रावशिष्टेऽपि भवत्येव सर्वस्य नाशस्तत्राऽऽह-

मात्रापचारे तेन समाप्येत ।

कर्मेति शेषः । प्रधानाहुत्यादिसमर्थ उपात्तद्रव्ये सति शेषकार्याणां लोपः प्रधानं तु तेनैवानुष्ठेयम् । एवं विहिते द्रव्ये प्रधानपर्याप्त संभवति तदेव ग्राह्यम् । तत्रापि शेष- कार्याणां लोपो वरं न सु शेषकार्यसमर्थप्रतिनिध्युपादानम् । प्रतिनिधावपि चोदितजात्यादित्यागनिमित्त प्रायश्चित्तं कार्यमित्याह-

द्रव्याभावे प्रतिनिधिर्विध्यपराधे प्रायश्चित्तम् ।

.मात्रापचारे नैव प्रतिनिधिः प्रायश्चित्तं तु भवत्येव । द्रव्याभाव इति पुनरभावग्रहणं प्रधानपर्याप्तद्रव्याभाव एवं प्रतिनिध्युपादानप्रदर्शनार्थम् । उपात्तविहितद्रव्यनाश. शङ्कया प्रतिनिधावपात्तेऽपि तेन प्रधानन्येणानुष्ठाने सिद्धेऽप्युपात्तद्रव्यलाभो यदि भवेत्तदा तेनापि पुनरनुष्ठानं कार्यमेव । उपात्तस्य संस्कृतस्यापि द्रव्यस्याप्रधा- नस्य नाशशङ्कया प्रतिनिध्युपादानेन प्रयोजने सिद्धे पूर्वद्रव्ये यूपादौ लब्धेऽपि न पुन-

१क. स. ग. च, छ, ट, ण, लक्षणम् । न १प्रः पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । २८३

नियोजनादिकं. प्रवादीनां कार्यमित्यादिविशेषाः परार्थान्येकनेतिन्यायतः सूत्रान्तराञ्च: ज्ञातव्याः।

न स्वामित्वस्य भार्यायाः पुत्रस्य देशस्य कालस्याग्नेर्देवतायाः कर्मणः शब्दस्य च प्रतिनिधिर्विद्यते ।। १ ।।

इति हिरण्यकेशिसूत्रस्य तृतीयप्रश्ने प्रथमः पटलः ।।

स्वामिनि नष्टे केन प्रतिनिधिरुपादेयः । उपात्तस्य तु कर्तृत्वेन कर्मफलमपि तस्यैक स्यादिति न प्रतिनिधिरसंनिधानेऽशक्त वा तत्कर्मणो लोप एव । यजमानस्येति वक्तव्ये स्वामित्वप्रयुक्तं यत्कार्य संस्कारास्ते हि फलभोगार्थी न तेषां प्रतिनिधिरन्यार्थेष्वस्त्येव । अत्र विशेषमाह कात्यायन:-गुणेषु प्रतिनिधिः परार्थत्वात् । पात्रासादनाद्याच्यावेक्ष- णादिषु गुणपदार्थेषु स्वाम्यपि प्रतिनिधीयते । कुतः एतत् । परार्थत्वात् । परार्थो ह्यसौ । तौ न प्रधानवत्स्वार्थ साधयति । तस्मात्क्रत्वर्थाभिनिवृत्तये स्वाम्यपि प्रतिनिधीयत. इति । अत एव वक्ष्यत्याचार्य:-एवं विहितं प्रवसतोऽपि याजमानं यस्यामस्य दिश्य- भयो भवन्ति तां दिशमिमुखो मन्त्राञ्जपत्यध्वर्यः कर्माणि करीत्यन्यान्यमिमर्शनाद्यन. मानो मन्त्राञ्जपत्यन्याव्यादेशमादिति । एवं भार्याया अपि प्रतिनिध्यसंभवेऽप्य- ग्रिमः सह हेत्वन्तरेणापि तथात्वं वक्तुं पुनर्ग्रहणम् । तत्र भार्यापुत्राग्नीनां न संभवति प्रतिनिधिः । नित्यस्य द्रव्यस्येत्यत्र नियतस्य न संस्कारेण सिद्धस्य द्रव्यस्य प्रति- निधित्वमुक्तम् । तत्र जातिर्न मार्यादिषु संभवति । न हि ते पदार्थी जात्या स्वयमेव क्वचित्सिद्धाः सन्ति किंतु पाणिग्रहणवीजावापाधानः स्वकृतैः संस्कृतानामेव तत्तच्छब्द- वाच्यत्वम् । तत्तु नान्यत्र कुत्रापि संभवति । यद्यपि माया अन्यस्या अपि संभवस्त- थाऽप्याधान संस्कृता चेत्तहि सा स्वाधिकारेणैव प्राप्ता नान्यस्याः प्रतिनिधिर्मवति । आधानेनासंस्कृतायास्तु श्रौते कर्मणि प्रतिषेधादेवाप्रतिनिधित्वम् । पुत्रेऽपि तथा पितृकृत्येषु ज्ञेयम् । अग्निद्वितीयो नास्त्येव संस्कृतो न हि कश्चिदार्हपत्यादिनीत्या सिद्धोऽस्ति । देशकालयोस्तूदेश्यत्वेनानुपादेययोरुपादेयो द्रव्यविशेषः कथं स्यात्स्थाने हि तेन धर्मेणोपलक्षिते शब्देन विधातव्यमनुपादेयस्य न प्रतिनिधित्वम् । ननु कथं कालस्य च कर्माङ्गत्वमविहितत्वादिति चेन्न, कर्मण एव कालसंबन्धन विधानाङ्गीका- रादनत्वमनुपादेयस्यैव । अतस्तु यत्रैती तत्रैव कर्म विधातव्यम् । प्राचीनप्रवणतायाश्च देशान्तरे संपादयितुं शक्यत्वान्न प्रतिनिधिदेवताया अपि. न काचिजातिरास्ति नापि समानसामाऽन्या भवति तस्या विध्यकसमधिगम्यत्वात् । तद्धितेन चतुर्थ्या च विहितमन्त्रवर्णन वा देवतात्वं नान्यथा प्रमाणान्तरेण सामर्थ्यमवगम्यते येन प्रतिनिधिः स्यात् । कर्मणोऽपि दृष्टार्थस्यावहननादर्ने हि पेषणं समर्थमदृष्टार्थस्य तुः न सामर्थ्य १ क... सत्याषाढविरचितं श्रौतसूत्र- [ ३ तृतीयप्रश्ने-

प्रमाणान्तरं पाह्य येन समर्थ सत्प्रतिनिधीयेत । शब्दे विस्मृतप्रतिनिधिर्वाच्यस्तद- स्मरणे तत्प्रतिपाघार्थाज्ञानात्कस्यार्थस्यै प्रतिपादकः शब्दः प्रतिनिधेयः । यस्य कस्यचिद्महणे त्वदृष्टार्थत्वं स्यात्तेन न स्वार्थ कुर्यात् । चकार एवं जातीयानां शास्त्रं विनाऽनवगतसामर्थ्यानां ग्रहणार्थः । तथा च समर्थः प्रतिनिधिर्न संभवति । सत्राङ्गलोपं सोदा प्रायश्चित्तेन कर्म समापनीयं प्रधानलोपे तु पुनः कर्मैव कर्तव्यम् । भत एवोक्तमेष्वर्थेष्वन्यस्यासामर्थ्यान्न संभवत्येव प्रतिनिधिरिति न विद्यत इत्युक्तम् । इति हिरण्यकेशिसूत्रव्याख्यायां महादेवकृतायां प्रयोगवैजयन्त्यां तृतीयप्रश्ने प्रथमः परिभाषापटलः ॥१॥

3.2 अथ तृतीयप्रश्ने द्वितीयः पटलः ।

सृतीयप्रभप्रथमपटलस्य मया कृता । मीमांसाद्वयमार्गेण यथामति सविस्तरा ॥ व्याख्या सूत्रानुसारेण महाफलमभीप्सता । द्रष्टव्या यज्ञवपुषि विष्णो माला समर्पिता ॥ प्रश्ने तृतीये प्रथमे पटले नित्यकर्मणाम् । फलं निःश्रेयसं नित्येष्वधिकारी निरूपितः ॥ आधानं पुनराधानमाग्नहोत्रं प्रयाणकम् । दविहोमातिदेशादि तन्त्रादि समुदीर्यते ॥ नवान्नेष्टिं तृ(ष्टिस्तृतीयेऽत्र प्रश्ने सर्व निरूप्यते । आधानं कर्मणामाचं श्रौतानां प्रश्न ईर्यते ॥ तृतीये तु द्वितीयाद्यैः पञ्चभिः पटलैरिह । तत्राऽऽधानं त्रिविधं सोमपूर्वमिष्टिपूर्व होमपूर्व चेति । तत्र सर्वत्रेच्छाविकल्पः । सोमपूर्वकं तु यस्य प्रायश्चित्तपशू न स्तस्तस्यैव । केचित्तु प्रायश्चित्तपश्वोरमीषोमीयेन सवनीयेन वा समानतन्त्रतां वदन्तः सोमपूर्वाधानमिच्छन्ति कल्पकारवचनात् । आधा- नात्पूर्व कर्मोपयुक्तान्मन्त्रान्भार्याऽप्यधीते पितुः पत्युर्वी सकाशात्, विग्भ्यो वा । भाधानमायतनेषु विधानेनाग्निस्थापनलक्षणः संस्कारोऽनारम्याधीतविहितत्वान्न कस्य- चित्कर्मणोऽङ्गम् । न च वाक्येन कर्माङ्गताऽमीनावधीतेति केवलमग्नीन्प्रत्येषाङ्गता प्रतीयते । तदुत्पादकत्वेनानुष्ठेयं बहिरेव कर्मभ्यः । पत्रमानेष्टीनामपि संस्कारकर्मत्व- क. ग, च. छ.ट, 8. ण, स्मृतिम । २ क. ख, ग, छ. ट. ठण. 'स्य प्रातिपदिकश। - रवि १० पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । २८५

मेव । यदाहवनीये जुलतीत्यादिना तथाऽस्य सर्वे प्रीता अभीष्टा भाधीयन्त इत्यर्थवादेन संस्कारकर्मताऽऽश्रिताऽभिमता चेति दर्शितमेव । तेन संस्कारेण संस्कृता अग्नयः पश्चादन्यैर्वाक्यैस्तत्तत्कर्माङ्गत्वेन विधीयन्ते । द्विविधं हि कर्माङ्गं द्रव्यमेकं लोकतः सिद्धमङ्गत्वेन विधीयतेऽन्यद्वैदिककर्मणा सिद्धमङ्गत्वेन विधीयते । तत्साधक कर्मापि द्विविध प्रयोगान्तर्गतमनन्तर्गतं च । प्रथमं तु प्रधानाङ्गं सदेव द्रव्योत्पादकं ययाऽवह- ननादि पुरोडाशोत्पादकम् । अन्यत्प्रधानकर्माङ्गतामनापन्नमेवाङ्गभूतस्य द्रव्यस्याङ्गं सदुत्पादकम् । यथाऽध्ययनं स्वाध्यायोत्पादकमाधानमपि तथा । तस्याधिकारिणस्तु निरूपिता एव । प्रथमपटले पुनर्धर्षेषु स्वयमप्यशूद्राणामदुष्ट कर्मणामुपनयनं वेदाध्य- यनमग्न्याधेयमिति वदिष्यति । नित्येषु पाठान्नित्यत्वेन केवलमपि हविर्वज्ञत्वेन संकारेषु पठितम् । नियमापूर्वद्वारा निःश्रेयसकारणम् । तस्मादत्रापि पृथक्स- कल्पेन भाव्यम् । अनेनैवाभिप्रायेण बौधायनेनोक्तं (न:) क्रत्वादौ ऋतु काम काम- यीत यज्ञाङ्गादौ यज्ञाग काममित्युपक्रम्याऽऽह-सर्वकामोऽग्नीनाधास्य इत्य- न्याधेय इति । वैखानसस्तु सर्वकर्मार्थमनोनाधास्य इत्युक्त्वेति ततः संकल्पपूर्वक- मेवाऽऽधानं कामिति । अत्राऽऽधानाङ्गवैकल्ये पुनः क्रिया सर्वाधानस्य न त्वङ्ग- मात्रस्य । कुतः, प्रायश्चित्तं कृत्वाऽङ्गमनुष्ठेयम् । नचाऽऽधानासिद्धावाहवनीय- योऽम्ति पवमानहविःषु तु माविसंज्ञया प्रवृत्तेः । अत्रोपकारकमाह बौधायनः- भग्नानाधास्यमानः प्राज्यमात्मानं कुर्वीत येनास्य कुशलं स्यात्तेन कुशलं कुर्वी. तेति यथोक्तमात्मनः पुरश्चरणमिति च । प्राज्यं शुद्धं येन येन कर्मणाऽस्य कुशलं प्रायश्चित्तम् । तथा वैखानसेनाप्युक्तम्-युक्तः श्रद्धान्वितो यजमानोऽ- नुज्ञातः केशश्मश्रुरोमनखानि च वापयित्वा विधिना नात इषे त्वोनें त्वत्यादि- स्वाध्यायमधीयानः शतं प्राणायार्थ च(मांश्च) कुर्याद्ध्यायन्नारायणमुपोष्य सपत्नीको घृतमिश्रं हवियं क्षीरेणाभीयास्मृत्युक्तवतमाचरन्पावनार्थममात्यहोमान्कूष्माण्डादश्चि जुहयादिति । युक्त इन्द्रिय चापलरहितः । अनुज्ञातो ब्राह्मणैः केशादीवापयेत्स्वा- ध्यायं वेदपारायणं नारायण ध्यायन्नन्नत्यागेनापोग्य नियतात्मेत्यर्थः। वेदपारायणप्रा- णायामेषु तथाऽन्येष्वमात्यहोमादिषु स्मृत्यक्तेष्वपि व्रतेषु सपत्नीकस्य भोजनानियमो घृतमिश्वमित्यादि । एवं स्मृत्युक्तान्यन्यान्यपि जपतिलहोमादीनि कृच्छ चान्द्रायणादौनि यथाशक्त्या(क्ति) यावदात्मशुद्धि मन्यते तावत्कृत्वा संकल्पात्पूर्वमेवारणी छित्त्वा शोषयित्वा यतुद्वादशाहादिपक्षः । संवत्सरपक्षसंकल्पे चाऽऽ एव वाऽऽहरणीये । भरणीप्रमाणमर्थलक्षणं यावता प्रयोननं तावत्प्रमाणमित्याचार्याणां मतम् । बौधायनस्तु- १ छ, तस्य । २ख छ. "था त'। - २८६ सत्याषाढविरचितं श्रीतसूत्र- [श्तृतीयप्र-

पतुरङ्ग्रौत्सवां द्वादशाङ्गुलविस्तीर्णा पोडशामलायामामिति । चतुर्विशत्यङ्गुला. मिति कात्यायनः । विष्णुपुराणेऽपि गायत्र्यक्षरसंख्ययेत्यादि चोक्तम् । भारद्वाजस्तु यो अश्वत्थः शमीगर्भो भूमि मूलेन संगत इति । यस्याश्वत्थस्य मूलं साक्षाभूमि प्राप्त म. एव न शम्घामप्युत्पन्नमात्र इत्यर्थः । अस्मदाचार्थस्योभयमिष्टम् । तथाऽग्रे वक्ष्य- माणां शालामपि तथाऽऽयतनान्यपि पूर्वमेव कुर्यात् । तदेतत्सविशेषमुक्तं वैखानसेन- शमीगर्भमश्वत्थं यद्यशमीग: शुक्लाङ्कुरमशनिवाग्वनुपहत्तमञ्यं परस्य स्थानावासमबहु- शुष्कमशीर्णमन्त्यजनात्यनुपहतं गत्वा वैश्वानरसूक्तेन प्रदक्षिणं कृत्वा प्रणमत्तेनैव प्राचीमुदीर्ची का शाखां प्रागादिप्रदक्षिणं छेदयित्वा प्रागग्रामदगनां चाधोभागेनाधा- रणी त्वक्पार्श्विभागां विगतत्वचं विशोषितां चतुर्विशत्यमुलायतामष्टाङ्गुलविस्तारां चतुरङ्गुलोन्नता तथोत्तरभागेनो(गो)त्तरामरणी च गायत्र्याऽथ करोति तत्र प्रथमानि यानि चत्वार्यङ्गुलानि शिरश्चक्षुः श्रोत्रमास्यं च द्वितीयानि ग्रीवा वो हृदयं स्तनस्तृ- तीयान्युदरप्रभृति चतुर्थानि श्रोणपिञ्चमान्यूरूषष्ठानि जथे पादावित्येके एवमरणी सधैरङ्गैः संपूर्णे भवतो यच्छीणि मन्थति शीर्षक्तिमान्यजमानो भवति यहोवायामवे. पनो यत्र मन्थेदनारब्धोऽस्य यज्ञो भवत्यूरू रक्षसां योनि धे पादौ पिशाचानां श्रोणी देवानां योनिस्तस्माच्छोण्यामेव प्रथमं मन्येन्मूलादष्टाङ्गुलं परित्यज्यानाच द्वादशा- मुलं पार्श्वतस्त्रीणि त्रीण्यङ्गुलानि प्रथममन्थन एवं प्रजननं कुर्वीतोत्तरारणेरष्टाल्गुल, परिणाहं प्रमन्थं चीत्वा मन्थमूले संधत्ते तेन सहितः षड्विशत्यङ्मुलायतो मन्यो भवति तथा छिद्रमित्युक्तं प्राचिरा अरणिस्तथा वेदिः । गृहे सौम्य पश्चिमपूर्वायता तथाऽनुवंशोऽपूर्वदक्षिणयोरियुगां महती शालां कल्पयित्वाऽस्थिरोमकेशाकारतुषका- ष्ठाश्मलोष्टपिपीलिकादीन्वयित्वा मृदा शुद्धयेति गार्हपत्याद्यायतननिर्माणमुक्तम् । अस्य वैखानससूत्रस्यार्थः स्पष्टः । त्वक्पावविभागानिति स्वनि पार्श्व ऊर्ध्वभागों यस्याः सा पार्श्वयोरूभागे च तक्षणं बहु न कार्यमित्यर्थः । ततस्तु शाखैव तावती ग्राह्या यावता विस्तारोऽष्टाङ्गलो भवेत् । अधोभागे तु गर्भपर्यन्तं तक्षणं कार्यमित्यर्थः । ततोऽर्धभागे चतुर्विंशत्यङ्गुलदीर्धाष्टाङ्गुलविस्तारा चतुरङ्गुलोत्सेधा कार्या । नात्र शाखायाः पाटनेन दलद्वयं संपाद्य तयोरराणिद्वयं कार्यमित्युक्तं किं तु तस्याः शाखाया अधःकाण्डमघराणिं तदूर्ध्वमुत्तरारणिमिति केचित्पाटनेनैवेच्छन्ति शिरआदिकल्प. नाऽग्रमारभ्यार्थवादा एते विधिस्तु मूलादष्टामुलं परित्यज्यानावादशाङ्गुलं पार्श्वयो- स्त्रीणि त्रीणि मध्ये द्यगुलविस्तारं चतुरङ्गुलदीर्थ मन्थनस्य प्रथमस्य स्थानमित्यधरा- रणिविषये तथोत्तरारणिविषयेऽपि तु-उत्तरारणेरष्टाङ्गुलपरिणाहमष्टाङ्गुलेन सूत्रेण परितो वेष्टनन समं प्रमन्थनामकं शकलं चोवोदर एतदपि त्वमभामादेव । मन्थमूले 0 १क. ग.च, छ.ट. ठ.. "मन्यदप्रथंब। २८७ २द्वि०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

मन्थो नाम यज्ञियकाष्ठस्य सारेण कृतो यस्य रज्ज्वा भ्रमणं क्रियते तस्य मन्यस्य मूलभागमुत्कीर्य प्रमन्थस्य शकलरूपस्य मूलं संधत्तं कृतसंधानयोरुभयोः प्रमाणं षड्. विशत्यङ्गुलमिति । अनेनैकशालोक्ता । प्राचीनवंशाचार्यस्तु यानमाने वक्ष्यत्याहवनी- यागार गार्हपत्यागारे वेति । तेन गम्यत उदीचीनवंशशालाद्वयं कार्यम् । आपस्तम्बेन तु स्पष्टमेव शालाद्वयमुक्तम् । तत्राऽऽदौ ब्राह्मौदनिकाधानात्पूर्वदिने नान्दीश्राद्धमृद- कशान्ति प्रतिसरबन्धं कुर्यात्ततः पूर्वमेवाड्रार्पणं कुर्यात् । पात्रलक्षणं तु दर्शपूर्णमाप्त - योरेव निरूपितम् । आयतनानि-सूत्रकृन्नोक्तवान्साक्षान्मानमायतनेषु तत् । गार्हपत्यादिकानीनां ततो धिष्ण्यस्य मानतः ॥ गृह्यते याज्ञिकैः सर्वैर्यतो धिष्ण्याश्च तेऽग्नयः । विष्णियमानं तु पिशीलमात्रा भवन्तीति धिष्णियानां विज्ञायते चतुरश्रा इत्येके पा. मिति सूत्रम् । तत्र परिमण्डलेन विकल्पम्(:)। सर्वाण्यायतनानि चतुरश्राणि परि- मण्डलानि वेति सूत्रकृतामाचार्याणां बहूनां संमतम् । तत्र पिशीलमानं पञ्चधा वदन्ति- बाह्रोरन्तरालमेकम् । बद्धमुष्टी रनिरिति द्वितीयम् । अरनिरिति तृतीयम् । द्वात्रिं. शदङ्गुलमिति चतुर्थम् । षट्त्रिंशदङ्गुलमिति पञ्चमम् । एतेषामर्धमानेन वर्तुलं भ्रामयेदेवं सर्वाग्नीनामथवाऽन्यतरमानेन चतुरश्नाणि सर्वाणीति निर्णयः । अथ वा वैखानसेनोक्तो विशेषो ग्राह्यः । गार्हपत्यायतनमष्टादशाङ्गुल्या वृत्तं भ्रामयित्वाऽष्टाङ्गुलोन्नत स्थण्डिलं कृत्वा परितश्चतुरङ्गुलविस्तारं हित्वा मध्ये षडङ्गुलविस्तारं निम्नं सनति शिष्टं तदूर्ध्वमेखला स्यात्तत्परितश्चतुरङ्गुलविस्तारोन्नतामधोमेखलां करोति । तथाऽऽ- हवनीयायतनं चतुरनं चतुर्दिक्षु द्वात्रिंशदल्यायतमष्टाङ्गुलोन्नतं स्थण्डिलं परि- कल्प्य पूर्ववत्परितो हित्वा मेखला मध्ये निम्नमधोमेखला करोति । अन्वा. हार्यपचनं पञ्चविंशत्यनुल्या वृत्तं भ्रामयित्वा दक्षिणार्धेऽर्धचन्द्राकार स्थण्डिलं पूर्ववत्तस्योन्नतं निम्नं मध्यमूर्ध्वाधरमेखलेषु वेद्युत्तराधी(१) कृत्वा पूर्वभागान्तरे प्रक्रमे वेद्युन्नतमुत्करं करोतीत्युक्तम् । वेदिस्तु स्वसूत्रे दर्शितैवेति न तदुक्ता माह्या तस्याश्चतुरङ्गुलोन्नतत्वमुक्तमेवमुत्करस्यापि ज्ञेयम् । इदमपि श्रौतत्वाद्मा- ह्यम् । भाष्यमते समक्षेत्रता । एतदनुसारेणेति याज्ञिका आहुर्वर्तुळे गार्हपत्यस्य चतुरश्नमाहवनीयस्यार्धचन्द्रं दक्षिणाग्नेः समक्षेत्राणीति । तदिदं रमणीयमिव मन्य- माना अस्मदीया अपि याज्ञिकाः स्वसूत्रोक्तं पिशीलप्रमाणमरस्निमात्रमनुसृत्य स्वसू- त्रोक्तं चतुरश्नत्वं वर्तुलत्वं वा सर्वायतनसमता(?) आयतनानि विहरन्ति । . १ क. ग, उ. प. छाङ्गु । २ क. ग. च. छ. ट. ठण. तुलं वा । २८८ सत्याषाढविरचितं श्रौतसूत्रं- [३ तृतीयप्रश्ने-

अरनिविष्कम्भकमाद्यवहत्तं गृहं तत्प्रकृति विधाय च । भन्यानि तरक्षेत्रसमानि कुर्वते शुरुवोक्तरीत्या स्वयमूहयन्ति च ॥ अरनिमानं चतुरश्रमेव वा प्रकृत्य तत्क्षेत्रसमं च वर्तुलम् । यद्वहेरपरत्र पूर्ववत्तत्रेरिता वृ(मोत्कृताश्च कारिकाः- प्राची विज्ञाय पूर्वं तु विहारं कल्पयेत्ततः । प्राचीज्ञानप्रकारं तु कल्प आचार्य उचिवान् ॥ तमेवार्थमहं वक्ष्ये व्याख्यानमवलोक्य च । चित्रास्वात्य॒क्षयोर्मध्यं प्राची विद्याद्विचक्षणात् ॥ श्रोणानक्षत्रमधवा दक्षिणापथवासिनाम् । उदगाशास्थितानां तु प्राची ज्ञेयास्तु कृत्तिकाः ॥ साधारणमिदं सर्वदेशानां वक्ष्यते मया । कर्तुमिष्टे समे देशे हस्तद्वयसमन्विते ॥ षडङ्गुलपरीणाहो द्वादशाङ्गुलमायतः । एकताक्ष्णूरु(क्ष्णुक्र) जुस्तष्टः खादिरस्यात्रणः समः ॥ शङ्कुः समशिराः कार्यो देशे तं स्थापयेत्समे । शङ्कोः पूर्वीपरे देशे रेखां प्रागायतां न्यसेत् ॥ शकुना संमिता रज्जुः पाशद्वयसमन्विता । मध्ये तु कल्पयेच्चिदंशको पाशौ प्रमुच्य च ॥ चिडून मण्डलं कुर्यात्तस्य शङ्कोस्तु सर्वतः । पूर्वप्रकृप्तरेखाया मण्डलस्य च संगमे । शङ्क पूर्वापरौ स्थाप्यौ ताम्चा पूर्वापरे दिशौ । यावदिष्टं विजानीयादथ याम्योत्तरे दिशौ ॥ आमुच्य पाशं पूर्वस्मिन्नन्यपाशेन मण्डलम् । लिखेत्तथा प्रतीच्ये तु पाशं मुक्त्वाऽन्यमण्डलम् ॥ मण्डलद्वयसंसर्गे शङ्कुतो दक्षिणेतरौ । याम्योत्तरदिशावेवं विदिशोऽथ प्रकल्पयेत् ।। पूर्वादिशषु तथा पाशावामुच्य लक्षणात् । मण्डलानि लिखेदेवं चत्वारि च यथाक्रमम् ।। मण्डलानां च संसर्गा विदिशः परिकीर्तिताः । आचार्योक्त उपायोऽयं प्राचीविज्ञानलज्ञणः ॥ प्राचीज्ञानप्रकारोऽन्यः सूर्यसिद्धान्तरीतितः। स एवार्थो मयाऽत्रापि यथामति निगयते ॥ . २८९ सद्वि० टलः ] : महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

मौनकन्यागते सूर्ये गते षोडशवासरे । अनन्तरं विजानीयात्माची सूर्येण बुद्धिमान् ॥ मासेम्वन्येषु विज्ञेया वक्ष्यमाणावृता हि सा । समे शकङ्गुलायामर ज्वा मण्डलमालिखेत् ॥ तन्मध्ये कल्पयेच्छङ्घ द्वादशाङ्गुलमायतम् । तच्छाखाग्रं स्पृशेद्यत्र रेखा पूर्वापरायोः ॥ तत्र शकू निखायोभी रज्जु किंचिद्विवर्धयेत् । शङ्कौ ता पश्चिमे मुक्त्वा रेखां तिर्यक्मकरूपयेत् ।। प्राच्ये शकौ तथा मुक्त्वा तद्वद्रेखां प्रकल्पयेत् । एवं कृते भवेन्मत्स्यो दक्षिणोत्तरमायतः ॥ दक्षिणोत्तयोः शङ्क् मत्स्यस्य मुखपुच्छयोः । शङ्कोः प्रकल्प्य रजन्याऽन्यं मत्स्यं प्राक्प्रत्यगायतम् ।। मुखपृच्छानुसारेण प्राची मत्स्यस्य कल्पयेत् । विदिशश्च प्रसाध्यैवं विहारं कल्पयेत्ततः ॥ अङ्गुलादिप्रमाणं तु शुल्ल आचार्य उक्तवान् । वेदिमानोपयोगित्वात्तरप्रमाणमहं ब्रुवे ॥ चतुर्दशाणवो यावत्तावदेवाङ्गुलं भवेत् । त्रयस्त्रिंशत्तिला वा स्यात्कोशस्था अङ्गुलं विह ।। दशाङ्गुलं क्षुद्रपद प्रादेशो द्वादशाङ्गुलः । पृथं(?) त्रयोदशाङ्गुल्यास्तावदेवोत्तरं युगम् । पदं पञ्चदशाङ्गुल्यो द्वादशाङ्गुलयोऽथवा ।। पदद्वयं प्रक्रमः स्यात्प्रादेशी द्वावरनिकः । जानु द्वात्रिंशदङ्गुल्यः षट्त्रिंशद्वादृशम्यके ।। चतुःशताङ्गुलं त्वक्षः षडशीत्यङ्गुलं युगम् । ईषाप्रमाणमङ्गुल्यस्त्वष्टाशीत्यधिकं शतम् ॥ अरत्नयस्तु चत्वारो व्यायामस्य प्रमाणकः । अरत्नयस्तु पञ्चैव पुरुषो व्याम एव च ॥ यजमानस्य चाध्वर्योः प्रमाणे कल्पयेदिह । साग्निकेषु विहारेषु यतुरेव प्रमाणकम् ॥ आदावाधानवेदेस्तु मानक्रम उदीर्यते । , ख. च. छ. ट. "त् । चतुम्लिं । १५ २९० सत्यापाढविरचितं श्रौतसूत्र- [३ तृतीयप्रभे-

अगारमग्निहोत्रस्य चतुर्हस्तप्रमाणकम् ॥ तन्मध्ये कल्पयेत्पृष्ठयां प्रत्यक्षागायतामृजुम् । पश्चात्पदद्वयं त्यक्त्वा पराग्न्यायतनं भवेत् ॥ अरनिना मितं तस्य मध्ये शकुं निखाय च । प्रादेशमितया रज्वा शङ्कुतो मण्डलं लिखेत् ॥ पुरस्ताविपदं हित्वा पूर्वाग्नेर्वाऽऽखरो भवेत् । अगुलैरेकविंशत्या नवभिश्च तिलैः सह ॥ चतुरश्नः समः कार्यस्तस्य चाऽऽवृदीर्यते ॥ यावती मानतो रज्जुस्तावत्यागन्तुकी भवेत् । भागन्तुरर्धे चिहं स्याच्छ्रोण्यं सार्थ तु तद्भवेत् ॥ तन्मध्यार्धाय चिह्न तु कर्षणाय भवेदिह । दीर्घमागस्थितं पाशं पूर्वशङ्को प्रकल्पयेत् ॥ हस्वपाश्वर्गतं पाशं पाश्चात्ये लक्षणात्कृषेत् । दक्षिणोत्तरतः श्रोणी कल्पयेत्कृप्तचिह्नतः ॥ शङ्कोः पाशी विपर्यस्य तस्यांसौ कल्पयेत्पुरः । पूर्वापरान्योर्मध्यस्य पृष्ठ्या पञ्चविधा भवेत् ।। षष्ठं भागमथाऽऽगन्तुं समं तत्र नियोजयेत् । रज्जोरन्तौ सपाशौ तां पुनः संभुज्य पञ्चधा ।। भागानां द्वित्रिमध्ये तु लक्षणं कल्पयेत्ततः । भागत्रयं पुरस्तात्तु पश्चाद्भागद्वयं तथा ॥ पूर्वापरारन्योर्मध्यस्थशङ्कोः पाशौ नियोजयेत् । लक्षण दक्षिणाऽऽकृष्य लक्षणे शकुमादिशेत् ॥ सदक्षिणान्यायतनमध्यशङ्कुर्भवेदिह । लक्षणं चोत्तराऽऽकृष्य शङ्कुरानवकृप्तये ।। व्यत्यस्तपाशां रज्जु तामुदगाकृष्य लक्षणे । शङ्कावुल्कर एव स्यात्संचरश्च तदन्तरा ॥ अमुल्यश्च चतुस्त्रिंशद्दक्षिणान्याखरो भवेत् । दक्षिणाग्नर्मध्यशङ्कोरुदक्सार्धाङ्गलाष्टके ॥ शकुं निखाय तस्यैव त्वाखरार्धेन मण्डलम् । कृत्वा मण्डलमध्ये च स्पन्धां प्रागायतां न्यसेत् ॥ दक्षिणं धनुरग्नेः स्यादुत्तरं धनुरुत्सृजेत् । अशलैः सप्तविंशत्या परामेराखरोऽथवा ॥ २९१ . द्वि० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

त्रयोदशामुलैः सार्धर्मितरज्ज्वा तु मण्डलम् । अरनिमितो यद्वा पूर्वाग्नेराखरो भवेत् ॥ चतुरश्रं समं कुर्यात्तत्प्रकारोक्तयाऽऽवृता । भोणीऽऽहवनीयं तु मुक्त्वाऽरत्न्यन्तरालकम् ॥ सभ्यागारं भवेत्तत्प्राक्तावदेवान्तरालकम् । मुक्त्वाऽऽवस पायतनं कुर्यादाहवनीयवत् ॥ दक्षिणाग्नेमध्यशङ्कोरुदद्वादशभिस्तिलैः । युतेऽङ्गुलद्वये शकुमादिशेन्मण्डलं ततः ॥ दक्षिणाग्नेस्तु विष्कम्भस्त्रिंशदालतमितः । चतुर्भिश्च तिलैः सार्धं तदर्धेनैव मण्डलम् ।। मण्डलोत्तररेखास्थशङ्कोरन्यच्च मण्डलम् । मण्डलद्वयसंसर्गे स्पन्धां पूर्वापरे क्षिपेत् ।। शूर्पद्वयं दक्षिणं स्यादनेरुत्तरमुत्सृनेत् । घण्णवत्यगुला वेदिः प्रत्यगाहवनीयतः ॥ पश्चात्तिरश्ची विज्ञेया चतुःषष्टयङ्गुलैर्मिते । भरत्निवययुक्ता सा पुरस्तात्तिर्यगीरिता ॥ सप्तारस्निप्रमाणस्य सूत्रस्यान्तौ सपाशको । अन्त्यपाशादरत्नौ तु चिह्नमंसार्थकं भवेत् ।। द्वात्रिंशदडले चिदं पाशाच्छोग्यर्थकं भवेत् । अरनित्रितये पाशाकर्षणाय निराञ्छनम् ।। पिसन्तयोः शङ्कोः पाशावामुच्य लक्षणात् । भाकृष्य वेधाः श्रोण्यसौ कल्पयेत्कृप्तचिह्नतः ॥ मा. दीर्घ चतुरश्रा स्यादेवमेकत्र चापराम् । पार्श्वमानी द्विरम्यस्य रज्ज्वन्तौ तु सपाशको ।। नमतानेयकोणस्थशङ्कोः पाशौ वितत्य च । मध्ये च लक्षणं कृत्वा लक्षणं दक्षिणा कृषत् ।। भवेत्तु लक्षणे शकुः शङ्को पाशौ नियम्य च । लक्षणेन लिखेत्पार्थ नैताग्नेय कोणगम् ॥ तथोत्तरं लिखेत्पाई. वायव्येशानकोणगम् । द्विरम्यस्ततया रज्ज्वा पाचँ पूर्वापरे लिखेत् ।। अपराग्नेः पुरः शिष्टोऽसावार्यों रत्निसंमितः । यदि भूमिरणुस्तत्र वेर्दि सनमयेत्कथम् ॥ २९२ सत्याषाढविरचितं श्रौतसूत्र- [३ तृतीयपने--

बहिः कोणस्थशनुभ्यो दक्षिणोत्तरपार्श्वयोः । अष्टाङ्गुलप्रमाणे तु शकुंश्चतुर आदिशेत् ॥ अगुलरष्टमी रज्जु पार्श्वमानी विवर्धयेत् । क्षिप्त्वा पाशी बहिः शङ्को रज्ज्वा तां नमयेक्रमात् || कृप्त रेखा बहिः कुर्यान्मृदाऽधोमेखला सुधीः । चतुरङ्गुलविस्तीर्णामुत्सेधेन षडङ्गुलम् ।। अग्न्याधानस्य चेष्टीनां विहारोऽयं प्रदर्शितः । इति वृद्धकारिका बौधायनीयानां तदेवेष्टमस्माकमपि ।। मानद्वयं त्वायतनेषक्तं तत्तु व्यवस्थया । धिणियानामायतनं पिशीलगतमूचिवान् ॥ सूत्रकृत्तत्पिशीलं त्वरनिना सममुच्यते । विष्णियानमण्डलाकारांश्चतुरश्रानथोचिवान् ।। अरनिमितविष्कम्भमारलं पश्चिमाग्निगम् । तम्मानेन समं क्षेत्र दर्शितं पूर्ववदिगम् ॥ अगुलैरेकविंशत्या नवभिश्च तिलैः सह । चतुरश्र तथा चैव दक्षिणानेरपीरितम् ॥ यद्यरस्निप्रमाणेन चतुरश्रं तु धिष्ण्यगम् । तरक्षेत्र वर्तुलं सप्तविंशत्यङ्लसंमितम् ॥ तेनारनिप्रमाणं तु चतुरश्नमुदीरितम् । दक्षिणान्याखरेऽस्माकं विशेषस्त्वभिधीयते ॥ अन्तराल पञ्चधा वा षोदा वा भाजितं तथा । षष्ठं वा सप्तमं वाऽपि भागमागन्तुमानयेत् । तां रज्जु त्रिगुणीकृत्य त्वाद्यभागे च कर्षणम् । पूर्वापराग्निमध्यस्थशङ्कोः पाशावथापि वा ॥ खरयोरन्तराद्यन्तशङ्कोः पाशौ निधाय च । कर्षण दक्षिणाऽऽकृष्य कर्षणे शकुमारवनेत् ॥ स मध्यो दक्षिणस्या रथवा तस्य दक्षिणे। . दक्षिणाग्नेरायतनं तत्प्रकारो द्विधा भवेत् ।। शङ्कृतोऽष्टाङ्गले सार्धे शकुमुत्तरतो न्यसेत् । यद्वा सप्तदशाङ्गुल्या वर्तुलं भ्रामयेदथ ॥

१ क. ग. ८. उ. कृप्तरे । ३ क. ग. चं, छ, ट, ठ. शीलं मत' । - २द्वि०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । २९३

दक्षिणे वा दक्षिणार्धे ह्यपरो भाग उच्यते । अरनिमानायतनः पूर्वाग्निः स्यात्तदाऽत्र तु ॥ एकोनविंशदगुल्यायामा रज्जूरथाधिका । अङ्गुलस्य तृतीयेन मागेन त्वनया दिशेत् ।। मण्डलं पूर्ववत्तत्र दक्षिणाग्निं प्रकल्पयेत् । मण्डलस्य चतुष्कोणकरणेन यथाश्रुतम् ॥ सूत्र संबध्यते तस्मादेवं व्याख्यातृभिः कृतम् । ये तु वर्तुलविष्कम्भ त्वधिकं किंचिचिरे ॥ तेषां विरोधोऽवश्यं स्याद्गणितेन न संशयः । एवं ब्राह्मौदनात्पूर्वमाधानार्थ प्रकल्पयेत् ॥ एवं संभृतपूर्वाङ्गः शोधितात्मा सभार्यः- संकल्पं कुर्यात् । गणेशादीष्टदेवता दि. स्मरणपूर्वकं दर्भेष्वासीनयोर्दभपाण्योर्यतास्योदपत्योरागकरण दर्शपूर्णमासोक्तमनुसं- धेयम् । तत्र विशेष:-अद्यतनात्संवत्सरेऽस्मिन्नृतावस्मिन्पर्वणि नक्षत्रे वा अथवाऽद्यतनाहतो द्वादशाहे चतुरहे व्यहे ह्यह् एकाहे वाऽस्मिन्नक्षने पर्वणि वेति स्मृत्वाऽग्नीनाधास्ये सर्वकर्मसिद्धयर्थ यानि कर्माणि कर्तुं शक्ष्यामि येषु चाधिकारस्तेन कर्मणा यज्ञेश्वरं प्रीणयानीति दंपती त्रिरुपांशु त्रिरुच्चैर्वदतः । केचित्सोमपूर्वान्होमपूर्वानिष्टिपूर्वी नित्यपि स्मर्तव्यमित्याहुन तेन कश्चिद्विशेषः । संकल्पा- त्पूर्वमेवारार्पणमुदकशान्ति प्रतिसरबन्धं च कृत्वा पूर्वेास्तद्दिने वा नान्दीश्राद्धं कुर्यात् । तत उक्तलक्षणानृस्विजो वृणुयात् – ब्रह्माण होतारमध्वर्युमाग्नीधम् । अन्या धेये ब्रह्माणं त्वामहं वृण दिना । तथा भविष्यामीति प्रतिब्युः । अध्वर्युपूर्वान्ता स्पष्टवाचो वेदवेदाङ्गपारगान् । अत्र वैखानसः-प्रतिसरं बद्ध्वा तहिने ब्राह्मणानुक्तक- क्षणानृविजो वृत्वा संपूज्य मधुपर्क ददाति यजमानः पत्नी च नर्वस्त्रोत्तरीयामरण- पुष्पाद्यैरलंकृतौ भवत इति । कर्माविष्वेतैर्नुहुयादिति श्रुतेरौपासने कूष्माण्डैराधारवता तन्त्रेण च्छित्वा स्थापिते अरणी पूर्वशुष्के ।

अग्नीनाधास्यमानस्य यो अश्वत्थः शमीगर्भ आरुरोह त्वे सचा । तं ते हरामि ब्रह्मणा यज्ञियैः केतुभिः सहेत्यश्वत्थस्य शमीगर्भस्यारणी उद्धरति।

अग्नोनाधानलक्षणेन कर्मणोत्पादयिष्यमाणस्य यजमानस्य यो अश्वत्थ इत्यनेन मन्त्रेणाध्वर्युररणी आहरति यजमानगृहं प्रति अश्वत्थवृक्षस्य शमीवृक्षोत्पन्नस्य संब- १च. तास्म। २९४ सत्याषाढविरचितं श्रौतसूत्रं- [ ३ तृतीयप्र-

धिनी । अरणीशब्दोऽग्निमन्थनकाष्ठे प्रसिद्धो न संस्कारवचनः । द्वयोरप्येकवदेव सकृन्मन्त्रेणाऽऽहरणम् । मन्त्रे हरामीति लिङ्गात् । अश्वत्थस्योद्धृते उगृहोते वाऽरणी हरति संसृष्टद्रव्यत्वातं ते इति तमश्वत्थमेवारणीरूपेण हरामीति मन्त्रार्थप्रतीत सहैव गृहीत्वा मन्त्रेण सहैव नयति । अत एवाऽऽपस्तम्बेनोक्तमाहरतीति । तथाऽऽहरेदित्ये- वाऽऽह भरद्वाजोऽपि ।

अपि वाऽश्वत्थादेवोद्धरेदियं वै शमी तस्या एष गर्भो यदश्वत्थ इति विज्ञायते ।

अथ वा केवलादेवाश्वत्थादुद्धरेत् । मन्त्रलिकोपपत्त्यर्थ श्रुतिमुदाहरतीय वा इति ।। इयं प्रसिद्धा पृथिव्येव शमी तस्या एष गर्भ इति श्रुतिव्याख्यानात्केवलाश्वत्थारण्यो- रपि मन्त्रो न विरुध्येत।

अश्वत्थाद्धव्यवाहाद्धि जातामग्नेस्तनूं यज्ञियाꣳ संभरामि ।. शान्तयोनिꣳ शमीगर्भमग्नये प्रजनयितव इति संभरत्यायुर्मयि धत्तामायुर्यजमान इति संभृते अभिमन्त्रयते ।

संभरति गृह्याग्निशालायां स्थापयति । पूर्ववत्तन्त्रेणाभिमन्यते तत्रैक ।।

कृत्तिका रोहिणी मृगशीर्षं पुनर्वसूफल्गुन्यौ हस्तश्चित्रा विशाखे अनूराधाः श्रोणा प्रोष्ठपदाश्चोत्त रेऽग्न्याधेयनक्षत्राणि कृत्तिका ब्राह्मणस्योत्तरे फल्गुन्यौ चित्रा च राजन्यस्यावशिष्टानीतरेषाम् ।

कृत्तिकाः स्त्रीलिङ्गबहुवचनान्तेनैकमेव नक्षत्रमनराधाः प्रोष्ठपदाः पुनर्वसू पुंलिङ्गाः- (ौ) फल्गुन्यौ विशाखे स्त्रीलिङ्गे स्पष्टान्यन्यानि । कृत्तिका एव ब्राह्मणस्य । अभि- पिक्तः क्षत्रियो राजन्यस्तस्य पूर्व तु निरुपपदफागुन्याविति पूर्वयोः फल्गुन्योरुत्तरयो. रपि ग्रहणं सामान्यमात्रविवक्षया द्विवचनान्तेनैव । तथा च नित्यानि काम्यानि चैतान्येव नक्षत्राणि तान्यम्याधेय इत्यर्थः । अवशिष्टानि त्रिभ्योऽन्याधाननक्षत्राणि येषां वैश्यनिषादरथकाराणामाधानं तेषामेवाविशेषेणाऽऽधाननक्षत्राणि । ऋतुमासकाला- भिधानपूर्वकनक्षत्रविशेषकालाभिधानं कार्य तथाऽपि पाठक्रमानुसारेणैवं कृतम् । अत्र ब्राह्मणादिविशेषोपादानेऽपि नोत्तरत्र तदनुवृत्तिविहितेष्वेव कामार्थताऽपि । काम्येषु विशेषाश्रवणात्माप्ताधानानां सर्वेषामेवाऽऽह-

सर्वेषां तु काम्यानि ।

ब्राह्मणादिनिषादान्तानां काम्यानि समानान्येव । , १. ग च, उ.ण "पि कि का। रद्विः पटलः] महादेवकृतवैजयन्तीव्यास्यासमेतम् ।

तान्येवाऽऽह--

कृत्तिकास्वग्निमादधीत यः कामयेत मुख्यो ब्रह्मवर्चसी स्याम् ।

उत्कृष्टं ब्रह्मवर्चसमध्ययनाध्यापनादिना वर्चस्तेजस्तद्वान्भवेयमिति कामः । तत्र दोषमाह-

कामं तु मेऽग्निर्गृहान्दाहुकोऽस्त्विति ।

ब्राह्मणे दृष्टो दोषो गृहदाहः स चेद्भवेद्भवतु परं तु फलं मे भूयादिति य एवं फलं कामयते स आदधीतेत्यर्थः । नित्ये तु न दोषः । कुतः, अस्मच्छाखायां फल- वाक्य एव दोषश्रवणात् । शाखान्तरे तु ब्राह्मणस्य नित्यविधौ दोषस्याश्रवणादिति दर्शयितुं फलवाक्य एव तथोक्तो दोषो दर्शितः । नच ब्राह्मणे कामपाश्रवणमिति न काम्यमिति शाखान्तरे समाननातीयेषु कामपददर्शनादत्रार्थवादेन फले कल्पिते समा- नातेव।

रोहिण्यां यः कामयेत सर्वान्रोहान्रोहयेयमिति ।

रोहानुच्छ्यान्प्रजापशुधनादिकाभिवृद्धीः ।

मृगशिरसि यः कामयेत श्रीमान्स्यामिति ।

स्पष्टम् ।

यः पुरा भद्रः सन्पापीयान्स्यात्स पुनर्वस्वोः ।

पूर्वमनेककल्याणवांस्ततोऽपकर्षगतस्तस्यापकर्षस्य परिहारायेत्यर्थः ।

यः कामयेत दानकामा मे प्रजाः स्युरिति स पूर्वयोः फल्गुन्योः ।

प्रजा दातारो लोकास्तेषां मह्यं दानं दास्याम इति कामा भवन्विति यः कामयते सः ।

यः कामयेत भगी स्यामिति स उत्तरयोः ।

फल्गुन्योः । भगोऽधिकलक्ष्मीः ।

विपरीतमेके समामनन्ति ।

पूर्वयोर्यरफलं तदुत्तरयोर्यदुत्तरयोस्तत्पूर्वयोरित्यर्थः ।

हस्ते यः कामयेत प्र मे दीयेतेति ।

में मह्यं प्रदीयतेति कामः पूर्ववत् ।

चित्रायां भ्रातृव्यवान् ।

गतम् ।

विशाखयोः वै प्रजाकामः ।

गतम् । क. ख. ग. छ. द. ठ, ण, स्यामिति । [तृतीयपने- २९६ सत्याषाढविरचितं श्रौतसूत्र-

अनूराधेष्वृद्धिकामः

ऋद्धिः समृद्धिः ।

श्रोणायां पुष्टिकामः ।

पुष्टिः पुत्रादिभाग्यम् ।

प्रोष्ठपदेषु ब्रह्मवर्चसकामः ।

गतम् ।

सूर्यनक्षत्रे वा ।

हस्ते वेदं फलमित्यर्थः ।

अथो खलु यदैवैतꣳ श्रद्धोपनमेत्तदाऽऽदधीत ।। २ ।।

ब्राह्मणमेवेदं पठितम् । न नियमो वर्णविशेषेण कामेन वा नक्षत्रेषु यानि कान्यानि नक्षत्राण्युक्तानि तेष्वेव सर्वेषु सत्यां श्रद्धायामादधीतेत्यर्थः । तदुक्तमाप- स्तम्बेन -सर्वाणि नित्यवदेके समामनन्तीति । सर्वाणि काम्यानि । अत्र भरद्वाजः- अथातः श्रद्दधानस्यतु सूक्षैम्न नक्षत्रमिति । बौधायनस्त्वातुरविषयमित्याह ।

वसन्तो ब्राह्मणस्याऽऽधानकालः ।

चैत्रवैशाखौ मीनमेषयोऽऽऽदित्यस्तिष्ठति स वसन्तः । मुखं वा एतहतूनां यद्वसन्त इति । मुखं वा एतत्संवत्सरस्य यत्फल्गुनी पूर्णमास इति ।

ग्रीष्मो हेमन्तश्च राजन्यस्य ।

वसन्तादनन्तरं माप्तद्वयं ग्रीष्मः । हेमन्तो मार्गशीर्षपोषौ वृश्चिकधनुषोर्वा रविः ।

वर्षा रथकारस्य ।

श्रावणभाद्रपदौ मिथुनकर्कटयो रविर्वा ।

शरद्वैश्यस्य ।

आश्विनकार्तिकौ कन्यातूलयोर्वा रविः । अथ वा मेषादिवसन्तप्रवृत्त्या सर्वेऽप्यत- वो ज्ञेया ज्योतिःशास्त्रात् ।

सर्वेषाꣳ शिशिरः ।

ब्राह्मणादीनां रथकारनिषादयोरपि ।

अमावास्यायां पौर्णमास्यामापूर्यमाणपक्षे वा ।

आपूर्यमाणः पक्षः पूर्वपक्षः । उक्तेष्वेवर्तुषु पौर्णमास्यमावास्यापूर्यमाणपक्षाश्च । विकल्पेन । आर्यमाणपक्ष इत्यनेन पूर्णमासमणे पुनरुपादानमतिशयार्थ तत्प्रतिप- द्मणार्थ च । १० पटलः महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

पुण्ये नक्षत्रे ।

आपूर्यमाणपक्ष इत्यनेन पुण्ये नक्षत्र इति समुच्चीयते वाशब्दस्यात्रानन्वयात् । तत्र समानस्याहः पञ्च पुण्यानि नक्षत्राणीत्युक्तानि नात्र संवध्यन्ते । सूर्योदयापूर्वमेव गार्हपत्याधानमुदिते सूर्य आहवनीयाधानमिति नैतस्य प्रयोजनमस्ति । तस्मात्पुण्यनक्ष- शब्देन कृत्तिकाद्यानि पूर्वोक्तानि द्वादश नक्षत्राणि गृह्यन्ते । तान्यविशेषेण सर्व. वर्णानाम् । अस्मिन्पक्षे कृष्णपक्षपरिसंख्या कृत्तिका ब्राह्मणस्येत्यत्र पक्षे तु कृष्णप- क्षेऽपि न तत्र पदिरोऽपि कृत्तिकासु वसन्ते पर्वासंभवाद्वैशाख्यमावास्यामाने कचिः संभाव्यत इति ब्राह्मणस्याऽऽधानकाल दुर्लभता स्यात् ।

यत्र त्रीणि संनिपतितान्यृतुर्नक्षत्रं पर्व तत्समृद्धम् ।

श्रुतिरेव वाजसनेयिनामियं पठिता । संनिपतितानि गार्हपत्याधानसमये मिलितानि यदि लम्यन्ते तत्समृद्धमतिसगुणमित्यर्थः ।

विप्रतिषेध ऋतुर्नक्षत्रं च बलीयः ।

त्रयाणां समुच्चयालाभे पर्वादरो न कार्यः किंतु वसन्तादिकेपूतेष्वेवर्तृषु नक्षत्र- मेव ग्रामम् । अत्राऽऽपूर्यमाणपक्ष इति समुच्चीयते तदर्थमेवाऽऽरम्भोऽस्य ।

सोमेन यक्ष्यमाण आदधानो नर्तुं न नक्षत्रꣳ सूर्क्षेदित्येकेषाम् ।

यस्य ब्राह्मणस्य वात्याश्विननिमित्तं नास्ति स सोमपूर्वाधानं कुर्यात् । अन्यस्य तु तन्न संभवति । भकृतसांनाय्येऽपि तद्विकारे पशौ नाधिकारीति तस्य होमपूर्वमिष्टिपूर्व वोभयथा दर्शपूर्णमासाम्यामिष्ठा प्रायश्चित्तपश् कृत्वा सोमेन यजेत । केचित्तयोः पश्वोः सवनीयेन सहाऽऽलम्भं कल्पकारवचनादिच्छन्ति । न सूझेन्नाऽऽद्रियेत । सूर्तधातुरादरार्थः । तत्र नक्षत्रे पर्वणि वाऽऽधाय सेष्टयपवृज्याऽऽगामिपर्वपर्यन्तं दीक्षापक्षमाश्रित्य कर्तुं शक्यते । एकादशीमारभ्य द्वादशीमारभ्य वा तथा कर्तुमप्तमर्थों वसन्तमात्रेऽनिमादधीत ऋतुमपि न सूक्षेदित्युक्तम् । इदं ब्राह्मणव्यतिरिक्तविषयम् । तेषां न वसन्त आधानकालः सोमस्तु वसन्त एवं सर्वेषाम् । ततस्तु सोमानुरोधेन. वाऽऽधीत ।

प्राचीनमुदीचीनं वोदवसाय शालीनोऽग्नीनादधीत प्राचीनप्रवणे देवयजने ।

शालीनो नाम शाला गृहास्तेषु निवसति स शालीन इति शब्दानुगतिः शालीन- वृत्त्याऽनुजीवनमस्येति धर्मशास्त्रे दर्शिता वृत्तिस्तद्वान् । गृहेभ्य उदीचीनं प्राचीन वा देवयजनयोग्य देशमौपासनेन सह गत्वा तत्राऽऽधीत । देवय जनदेशः सोमे व्याख्या- स्यते तत्र प्राचीनप्रवणे स्वभावतोऽमीनादधीत तत्र शालायामित्यर्थः । ३८ सत्याषाढविरचितं श्रौतसूत्रं- [३ तृतीयप्रश्ने-

गृहेषु यायावरः।

यात्राशीलो यात्वा यात्वा वृत्ति संपाद्य जीवति सोऽपि धर्मशास्त्रलक्षितो ज्ञेयः । स तु यत्र तिष्ठति गृहेषु तेष्वेव शाला संपाद्याऽऽदधीत । अथ यजमानस्य वपनं दतो धावते नात्यहतं वासः परिधत्ते वपनवनं पत्न्या अपि, भोजनमध्यनयोः शास्त्रान्तरे दृष्टम्।

उदीचीनवꣳशा शाला ।

कर्तव्येति शेषः । अत्राऽऽपस्तम्बेनोक्तमन्यदाहवनीयस्यागारमन्यद्गार्हपत्यस्येति । अत्रास्मदाचार्येण न विशेषोऽभिहितस्तथाऽपि यानमानेऽगारद्वयमुक्तम् । सम्यावसथ्य योरगाराह हिरेवाऽऽयतने बायत इतरयोरिति वक्ष्यति । एकां शालां कुर्याद्यावता शालायाः प्रारभागे ब्राह्मौदनिकगार्हपत्यदक्षिणान्यायतनानि भवन्ति । शालायाः पश्चिम- मर्धे तु सर्वेषामवस्थानार्थ संभारादिपदार्थस्थापनार्थमिति गम्यते । तथैवोक्त बौधायने. तु नापि देवयननेऽगारमपरिमितं भवति तस्य द्वे द्वारौ कुर्वन्ति प्राची दक्षिणां च मध्ये गार्हपत्यस्याऽऽयतनं कुर्वन्ति पुरस्तादादशसु विक्रामेष्वावनीयायतनमिति ।

तस्याः पूर्वेण मध्यमं वꣳशमधिवृक्षसूर्य औपासनाद्ब्राह्मौदनिकमादधाति ।

तस्याः शालाया यो मध्यमो वंशस्तस्याधस्ताद्भागस्य पूर्वेणारेऽद्रे स्थले बाझौद. निकमादधातीति संबन्धः । तस्या एव प्रतीतत्वेऽपि तस्या इति विशेषणमन्यस्या मा भूदिति । तेनाऽऽहवनीयागारत्वेन द्वितीयाऽपि शाला ज्ञापिता भवति । सा च प्राग्वं- शोदग्वंशा वा प्राग्वंशा द्वितीया कात्यायनेनोक्ता । वृक्षानधिकृत्य नाधस्तान्नोपरि- ष्टात्सूर्यस्तिष्ठति स कालोऽधिवृक्षसूर्य इत्यर्थः । औपासनानेरेकदेशं गृहीत्वा तस्मिन्स्यले स्थापयत्ति तूष्णीमेव । बाझौदनः पच्यतेऽस्मिन्निति भाविनी संज्ञा तम् । भोपासनाने सकाशादेकदेशमुद्धृत्य प्रागुक्तस्थ तमग्निमादधाति स्थापयति । सर्वं वौपासन- मित्यापस्तम्बः । सर्वाधानपक्षे सायंप्रातःकालोपासनहोमी पार्वणस्थालीपाक इत्येतानि लुप्यन्ते न प्रतिनिधिनाऽग्निना लौकिकेन कार्याणि नित्यत्वेन प्राप्तस्य द्रव्यस्याभावे प्रतिनिधिः । न चौपासनाग्निरस्ति गाई पत्यादिरूपेणावस्यान्तरप्राप्तौ पूर्वस्वरूपस्याभाव एवाऽऽत्यन्तिकः । किं च नानेः प्रतिनिधियायेनेत्येव वदिष्यति । यदा पुनराधान तदा निर्मन्थ्यमेवाऽऽदधीत ब्राह्मौदनिकं न तु पुनरौपासनोत्पत्तिथा धार्थ आहवनीयो न गार्हपत्यमागच्छत्यनुगत एवं गार्हपत्यत्वेन धृतो न पूर्वयोनि प्रत्यागच्छति योनेर- भावादेवार्धाधानेऽप्ययं न्यायः समान एव तदाऽप्युत्पत्तिनिर्मन्थ्यादेवेति निर्मन्ध्या- धानमप्यापस्तम्वेनोक्तम् । प्रकृतमनुसरामः- केचिदर्धाधाने पार्वणतायंप्रातोमान्ने- च्छन्त्य!पासने । कुतः । तस्यौपासनेनाऽऽहिताग्नित्वं तया पार्वणेन चरुणा दर्शपूर्ण 7 . २द्वि पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।। २२९

मासयाजित्वं चेति कश्चिद्वक्ष्यत्याचार्यस्ततस्तु साक्षादाहिताग्नित्वे संपन्नेः तद्भक्तिरू- पस्य नानुकल्पस्यानुष्ठानमिति । तत्र नित्यमत ऊमिति नित्यं सायं प्रातहि- मिर्यवेति नित्यग्रहणनिवृत्तिरिति सत्याषाढमतम् । अन्येषां स्मार्तानां कर्मणां तु तत्रैव कर्तव्यत्वम् । सर्वाधाने तु लौकिक एवं कर्तव्यतामाहुः फलार्थानां नियतानामङ्गभूतस्यामेरमावे यथाऽवकीणिनो ब्रह्मचारिणो गर्दभपशुबन्धेऽमीना लौकि- कानामेव ग्रहणम् । विधुरवल्लौकिक एवं कर्तव्यता न लोपः । वचनादिति पूर्वेण वैषम्यं तत्र मनुनाऽनौकरणहोमस्य दक्षिणानावपि विधानात्तथा कार्य मासि- कादावष्टकाहोमो लौकिक एव तस्याग्नौकरणशब्दवाच्यत्वाभावात् । यावदरणी निष्ट- पति तावदौपाप्सन पार्वणी च बाझौदनिक एवानुगमने तु पुनरौपासनमुत्पाद्य तमाद- धाति, तस्याद्यापि गाई पत्याद्यवस्थानापन्नस्यास्त्येवोपासने प्रवेश इति सर्व न्यायतोऽ. वगन्तव्यमर्धाधाने पिण्डपितृयज्ञः पूर्वमौपासन आरब्धोऽपि सेष्टयाधानानन्तरं दक्षिणा- नावेव | धानापवर्गात्पूर्व तु लोपे प्रायश्चित्तमेव । प्रकृतमनुसरामः-ततः परं ब्रौ- दनहोमार्थ पात्राण्यासादयति । तत्राऽऽदौ परिस्तरणं दक्षिणतो ब्रह्मयजमानयोः सदने उत्तरेण ब्राझौदनिकमाग्नं दर्भान्संस्तोर्य पात्राणि प्रयुनक्ति दवौं समिधमाज्यस्थाली- मग्निहोत्रहवी चरुस्थाली मेक्षणं शूर्प कृष्णजिनमुलूखलं मुप्तलं लोहितमानडुई चर्म पानकं वा चित्रियाश्वत्थस्य तिनः समिधो निर्वपणार्थ शरावाणि तथोद्धरणार्थ चत्वा- युपवेषकाष्ठं चेति प्रयुज्य ।

निशायां ब्रह्मौदनं चतुःशरावं निर्वपति ।

निशायां रात्रेः पूर्षि ब्रह्मणो देवतायाः संवन्ध्योदनो ब्रह्मौदनस्तमुद्दिश्य निर्व- पति । तस्य परिमाण चतुःशराव इति शरावं यद्यपि पात्रविशेषस्तथाऽपि तस्यौदन- प्रकृतिद्रव्यत्वं न संभवतीति तेन परिमितं धान्यमुक्तं योग्यत्वात् । तथा चतुरो मुष्टोनिर्व पतीति मुष्टिशब्देन मुष्टि परिमित धान्यमुच्यते । तथाऽपि पात्रस्य परिमाणा- नवगमात्पुनर्धान्यं तु न परिच्छिन्नं स्यात् । ततस्तु रूढयाऽत्र शरावशब्देनैकस्य मोज- नपर्याप्तौदनप्रकृतिधान्यमत्र ज्ञेयम् । तस्य चतुर्वारं निर्वाणोपादानं वक्ष्यति । तत्तु प्रसिद्धयाऽग्निहोत्रह्वण्या मुष्टिमानधान्योपादानं न संभवति बहुत्वाद्र्व्यस्थ । तस्माद्भो- जनपर्याप्तौदनप्रकृतिधान्यग्रहणसमर्थ शरावपात्रमेवाग्निहोत्रहवणीस्थाने ग्राह्यम् । तादृशे- न चतुर्वारमुप्तधान्यस्यौदनश्चतुःशराव इति हि निर्णयः । चतुष्प्राश्यमोदनमिति कात्या- यनोक्तेश्चतुर्यो भोजनपर्याप्त इत्यवगम्यते । स ब्रह्मशब्दाभिधेयब्राह्मणदेवताप्राश्योऽ- यमोदन इत्यवगते प्राशनं प्रधानम्। चत्वार आर्षेयाः प्रानन्तीति सार्थवादश्रुतेश्च । होमस्तु तत्संस्कारस्तस्य विस्मरणे न पुनः क्रियेति। अत्र निर्वपतिना न यागानुमानं प्रत्यक्षेणात्र प्राशनमात्रस्य विधानादपूर्व कदै निर्वापस्य चतुःशरावसंबन्धाच्चतुरि शरावेण मितं 1 . सत्याषाढविरचितं श्रौतसूत्र- [३ तृतीयप्रो- द्रव्यं निर्वपति न हि पात्रस्य निर्वापो भवति । यद्यपि संख्या पात्रगता श्रूयते तथाऽपि द्रव्यपरिच्छेदस्यान्यतोऽसिद्धेव्यपरिच्छेदाथैत्र । आग्नेयमष्टाकपालं निर्वपतीत्यादी चतुरो मुष्टीनिर्वपतीति परिच्छेदकस्य श्यमाणत्वाकपालानां पाकसंवन्धः । अस्य ददि. होमत्वान तथा । चतुर्भिः शरावैः संस्कृतो निर्वापेण स ओदनश्चतःशरावः । एकेन शरावेण चतुर्यारं निरुत इति यावत् । अथ यदि चतुर्प शरावेषु पाकस्तदा संस्कृत भक्षा इति सूत्रेणाटाकपालवदुपपद्यते । तदने स्थाल्यां सर्पिप इति न युज्येत । मत. श्चत्वार्यदपूर्णानि पात्राणि स्थापयामानीय तत्र पाक उदकपाकपक्षे । अत एव वैखान- सेनोक्तम् --चतुःशरावं निर्वपतीत्युपक्रम्य चतुःशरावस्तण्डुलानावपतीति । उक्तमा- वपनकाले प्रवृत्तिनिमित्तं संपादितमाचार्यमते तु निर्वपणे पाकोदके वेति ज्ञेयम् ।

रोहिते चर्मणि पाजके वा ।

रोहितं लोहितं धर्म तदानडुहमेवेति सूत्रान्तरे शकटवाहिनश्चर्मेत्यर्थः। पौनकं पानं महानसोपकरणं पटछकशब्दवाच्यं वंशपात्रविशेषः । तत्र शरावेण गृहीत्वा निर्वपति । तत्प्रकारमाह-

देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां ब्रह्मणे प्राणाय जुष्टं निर्वपामि ब्रह्मणेऽपानाय ब्रह्मणे व्यानाय ब्रह्मण इति चतुर्थम् ।

निर्वपतीति चतुर्थे केवलं ब्रह्मणे निरुपपदाय । जुष्टं निपामोत्यनुषणः सर्वत्र ।

अवहत्य पयसि चरुꣳ श्रपयति ।

यथार्थमवहत्यैकस्यामेव स्थाल्यां दुग्धे चरुं श्रपयति ।

चतुर्षु वोदपात्रेषु ।

पयसा सह चतुर्णामुदपात्राणां विकल्पो न स्वश्रुतया स्थाल्या । ततस्तु स्थाल्यां चतुर्पु पात्रेषदकयुक्तेषु निहितेषु सत्सु चतुर्वारं पात्रेण स्पाल्यामानीयोदकं तत्र श्रपयति ।

न निर्णेनेक्ति ।

न प्रक्षालयतीत्यर्थः।

नावसिञ्चति ।

उदकं तण्डलेषु रेचितं तन्न प्रस्त्रावयति न त्यजतीति यावत् । .

  • चमिति पदं सूत्रपुस्तकेषु नास्ति ।

५क, स्व. च... स्यात् । १ ख. पाचके ! ३ क, ख, ट. पाच । २द्वि- पटनः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३०१

श्रपयित्वाऽभिघार्योद्वास्य ।

पुनः श्रपयित्वेति वचनं सूत्रान्तरपक्षनिरासार्थम् । वैखानसेनोक्तमोपच्छ्रपणं तथाऽऽपस्तम्बेन जीवतण्डुलमिव अपयतीति । स्वमते तूचित एव पाकः । लौकिके- नाऽऽज्येनाभिघार्य ।

प्रवेधसे कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे । यतो भयमभयं तन्नो अस्त्ववदेवान्यजेहेड्यानिति जुहोति ।

जुहोतिचोदितत्वात्स्वाहाकारः।

अभिमन्त्रयते वा ।

नात्र स्वाहाकारः । स्थाल्यामेव स्थितस्याभिमत्रणम् । अस्मिन्पक्षे तु न प्रवेधसे कवये ब्रह्मणे दानं न च होमोऽतो ब्रह्मभ्य ओदनो ब्रह्मौदन इत्येव पर्यवस्यत्यमि- मन्त्रणं तु संस्कारः । होमपक्षे द्रव्यस्य देवतायाक्ष संस्कारः । कविशब्देन ब्रह्मा ब्राह्मणाश्च गृह्यन्ते । उभयत्र त एव देवताः संस्कारोऽप्रधानोऽत्र त एव जात्यैकव- पनेनोक्तास्तथाहि प्रवेधसे कवये शुश्रुवासो वै कवय इति श्रुतेः । एतदेव दर्श- थितुमायेभ्य ऋविग्म्य उपोहतीत्युक्तम् । तत्राऽऽयवचनमेष वै ब्राह्मण ऋषिरा- य इति श्रुतेस्तथोक्तं नो चेद्विशेषणवैयर्यम् । अथ प्रवेधत इति विशेषणं तस्यैव यज्ञविधायकत्वादथ वा विधातृत्वमारोप्य स्तुत्यर्थम् । सर्वथा परमेष्ठिरूपेण निरूपितो ब्रह्मा वा होमे देवतेति सर्वमतदातम् । दोपहत्येत्यापस्तम्बवैखानसौ दवा होमा- पति याऽन्यस्याविधानादप्राप्तः ।

तं चतुर्धा व्युद्धृत्य प्रभूतेन सर्पिषोपसिच्य ।

तमोदनं चतूर्षु पात्रेषु पृथक्पृथक्स्थाल्याः सकाशानिर्गमय्य स्थापयति । प्रभूतेन बहुतरेण लौकिकेन सर्पिषोपसिच्य युक्तं कृत्वा प्रत्येकम् ।

स्थाल्याम् सर्पिःशेषमानयति ।

उपसेचनशेष निक्षिपति ।

अनुच्छिन्दन्निव चतुर्भ्य आर्षेयेभ्य ऋत्विग्भ्य उपोहति ।

भूभागेन वियोगमप्रापयन्नृविग्म्यः समीपं प्रत्येकमूहति प्रापयति । नैतहानमध्वर्यु- कर्तृकत्वात् । ऋविग्भ्य इति चतुर्थ्या निर्देशात्तानुद्दिश्य निवेदनमत्र विधीयत उपो. हतीत्यनेन । तदेतदानं यद्यपि तथाऽपि व ददातिनाऽनुनिर्दिष्टमतोऽध्वर्युपूर्व(:)आ- येभ्य इति व्याख्यातम् ।

प्राशितवत्सु ।

वरदानं याजमानम् ।

१ क. ग. च, छ. ८. उ. प. रिकारे प्र। यः ३०२ सत्यापादविरचितं श्रौतसूत्रं- [१ तृतीयपमे-

यः स्थाल्याꣳ शेषस्तस्मिन्नार्द्राः सपलाशाः ।। ३ ।। स्तिभिकवतीरस्तिभिका वा प्रादेश मात्रीर्लक्षण्यस्याश्वत्थस्य तिस्रः समिधोऽनक्ति ।

ससर्पिके स्थालीगते ब्रह्मौदनशेषे समिधोऽनक्ति तेन सस्नेहाः करोति । सप- लाशाः सपत्राः स्तिभिकानि फलानि मुकुला इति केचित् । तद्वत्यो न वा सर्वा अपि तथैवैकरूपा एवेत्येवमर्थ सूत्रारम्भः । अङ्गुष्ठतर्जन्योः प्रसारितयोरन्तरालं प्रादेशो द्वादशाङ्गुलो वा लक्षणोपयोग्यो लक्षण्यो येन ग्रामतीर्थसीमादि लक्ष्यते । स्पष्टमन्यत् ।

चित्रियादश्वत्थात्संभृता बृहत्यः शरीरमभि सꣳस्कृताः स्थ । प्रजापतिना यज्ञमुखेन संधितास्तिस्रस्त्रिवृद्भिर्मिथुनाः प्रजात्या इत्यभिमन्त्र्य ।

समिधः ।

ब्राह्मौदनिक आदधाति ।

वक्ष्यमाणमन्त्रैरेकैका प्रतिमन्त्रं ब्राह्मौदनिकेऽनावादधाति न स्वाहाकारः । श्रीमन्त्रानेव पठति-

प्र वो राजा अभिद्यवो हविष्मन्तो घृताच्या । देवाञ्जिगाति सुम्नयुः । उप त्वा जुह्वो मम घृताचीर्यन्तु हर्यत । अग्ने हव्या जुषस्व नः । उदग्ने तव तद्घृतादर्ची रोचत आहुतम् । निꣳसानं जुह्वो मुख इति तिसृभिर्गायत्रीभिर्ब्राह्मणस्य ।

बादधातीत्यनुषङ्गः। एतासां तिस्रोऽन्या विकल्पार्थमाह -

समिधाऽग्निं दुवस्यतेत्येषा । उप त्वाऽग्ने हविष्मतीर्घृताचीर्यन्तु हर्यत । जुषस्व समिधो मम । तं त्वा समिद्भिर- ङ्गिरो घृतेन वर्धयामसि । बृहच्छोचा यविष्ठ्येति वा ।

एताबामणस्य ।

समिध्यमानः प्रथमो नु धर्मः समक्तुभिरज्यते विश्ववारः । शोचिष्केशो घृतनिर्णिक्पावकः सुयज्ञो अग्निर्यजथाय देवान् । घृतप्रतीको घृतयोनिरग्निर्घृतैः समिद्धो घृतमस्यान्नम् । घृतप्रुषस्त्वा सरितो वहन्ति घृतं पिबन्सुयजा यक्षि देवान्। आयुर्दा अग्न इति त्रिष्टुग्भी राज्यन्यस्य ।

सष्टम् । द्वि पटलः ] महादेवकृतवैजयन्तीम्याख्यासमेतम् ।

त्वामग्ने समिधानं यविष्ठ देवा दूतं चक्रिरे हव्यवाहम् । उरुज्रयसं घृतयोनिमाहुतं त्वेषं चक्षुर्दधिरे चोदयन्वति । त्वामग्ने प्रदिव आहुतं घृतेन सुम्नाय वः सुषमिधा समी- धिरे । स वावृधान ओधीभिरुक्षित उरुज्रयाꣳसि पार्थिवा वितिष्ठसे । घृतप्रतीकं व ऋतस्य धूर्षदमग्निं मित्रं न समिधान ऋञ्जते । इन्धानो अक्रो विदथेषु दीद्यच्छु- क्रवर्णामुदु नो यꣳसते धियमिति जगतीभिर्वैश्यस्य ।

गतम् । निषादस्थकास्योरनुप्रदेशातूष्णीमेवाऽऽदधाति ।

धारयति ब्राह्मौदनिकम् ।

मिथुनावसिक्तरेतसौ ददाति याजमानं न प्रयाति न प्रवसति ।

संवत्सरमृतुं द्वादशाहं चतुरहं त्र्यहं द्व्यहमेकाहं वा ।

पूर्वकृतसंकल्पानुसारेण धारणं विकल्पितम् ।

प्रयात्यनुगते चैवं विहितं ब्रह्मौदनं पक्त्वैताः समिधोऽभ्यज्याऽऽदध्यात् ।

नैमित्तिकमेतत् ।

यद्येनꣳ संवत्सरेऽग्न्याधेयं नोपनमेदेवं विहितं ब्रह्मौदनं पक्त्वैताः समिधोऽ- भ्यज्याऽऽधाय यदा शक्नोत्यथाऽऽधत्ते ।

देवान्मानुषाद्वा संवत्सरे संकल्पितमग्न्याधेयमेनं यजमानं नोपनमेन्नाऽऽगच्छेन्न स्यात्तदोक्त कार्यम् । संवत्सरग्रहणं कल्पितत्वाद्युपलक्षणम् । यदा शक्नुयात्तदा युक्तर्तु- नक्षत्रयोरेवाऽऽधीत, उदगयन आपूर्यमाणपक्षे पूर्वोक्तरीत्या ।

श्व आधास्यमानो ब्रह्मौदनं पचति ।

नात्र समिदाधानं पूर्ववदनभिधानान्न चैतद्ब्रह्मौदनाङ्गम् । अग्निसंस्कारोऽयं पृथगेव तस्याविधानाद्वितीये ब्रह्मौदने न प्राप्नोति ।

श्व आधास्यमानेऽध्वर्युरेताꣳ रात्रिं व्रतं चरति ।

आधास्यमाने यजमानेनौ वा कर्मणि प्रत्ययः ।

नानृतं वदति न माꣳसमश्नाति न स्त्रियमुपैति । प्रजा अग्ने संवासयाऽऽशाश्च पशुभिः सह । राष्ट्राण्यस्या आधेहि यान्यासन्सवितुः सव इति गार्हपत्यायतने कल्माषमजं ३०४ सत्याषाढविरचितं श्रौतसूत्रं- [३तृतीयप्रक्षे-

बध्नाति शिल्पैरेताꣳ रात्रिं यजमानं जागरयन्ति ।। ४ ।।

इति हिरण्यकेशिसूत्रस्य तृतीयप्रश्ने द्वितीयः पटलः ।

कल्माषः श्वेतः कृष्ण आयतनसंस्कारार्थम् । शिल्पैगीतवाद्यादिभिः । तदुक्तमाप. स्तम्बेन-वीणातूणपणवै गरयन्तीति । शल्कैरग्निमिति याजमान शिक्षौरेतां रात्रि जागतीत्यविच। इति सत्यापाढहिरण्यकेशिसूत्रव्याख्यायां महादेवकृतायां प्रयोगवैज- यन्त्यां तृतीयप्रश्ने द्वितीयः पटलः ॥२॥

3.3 अथ तृतीयः पटलः ।

ततः संभारानाहरति वैश्वानरस्य रूपमित्येतैर्यथारूपम् ।

यधारूपं यथालिङ्ग वैश्वानरस्येत्यादिमन्त्राणां यावतां यादृशं रूपं प्रतिपाद्यमस्ति तावतः संमारान्सभारनामका-पदार्थान्सनियन्तेऽग्नयो येषु ते संभाराः । अन्यत्र सर्वत्र बाह्मणपठिताना मन्त्राणां पाठेन विनियोगेऽपि प्रकृते लिङ्गमात्रेण विनियोगोऽस्य ब्राह्मणस्य स्वशाखात्वं दर्शयितुम् । पूर्व सर्वत्र पाठेनैव मन्त्रा विनियुक्तास्ततो नेदं बाह्मणमस्मच्छाखागतमिति शङ्का तामपनेतु लिङ्गमात्रेण विनियोगा आदिप्रतीकेन । पूर्व प्रतीकानुपादानमस्य ब्राह्मणस्य विकल्पप्रदर्शनार्थम् । एतस्याः संहिताया विक- पेन नाना ब्राह्मणानि सन्तीति तन्मध्यगतमिदं ब्राह्मणमिति प्रदर्शितम् । अत एवं कचिदेताह्मणमन्त्रांस्त्यक्त्वाऽन्यब्राह्मणमन्त्रान्दर्शयति । तत्रापि ते वैकल्पिका इति ज्ञापितं भवति । वैश्वानरस्य रूपं पृ० तु न इति मन्ने यद्यपि सिकताशब्दो नास्ति तथाऽपि ब्राह्मणे क्रमेण सिकता निवपति एतद्वा अग्नर्वैश्वानरस्य रूपमिति लिङ्गम- न्येषां मन्त्राणां स्पष्टं लिङ्गमास्ति । ततोऽयं प्रथमः प्रथमस्य संभारस्य प्रकाशक इति लिङ्गासिकतासु विनियोगो ब्राह्मणानुसारेण ज्ञेयः । आहरणमायतनसमीपे 'प्रत्येक मन्त्रोऽत एव चिन्मन्त्रद्वयमपि ब्राह्मणेन दर्शितं रूपं मन्त्रद्वयं प्रकाश्यमतो द्वयस्यैक एव मन्त्र इत्यपि ज्ञेयम् । वैश्वानरस्येति सिकताः । यदिदं दिव इत्यूषान् । उती कुर्वाण इत्यारवत्करम् । उनै पृथिव्या इति वल्मीकवपाम् । प्रजापतिसृष्टानामिति सूदम् । यस्य रूपमिति वराहविहतम् । यत्पर्यपश्यदिति पुष्करपणम् । याभिरह- दिति शर्कराः । अग्ने रेत इति रजतम् । सूष्णीं सुवर्णशकलानि अश्वो रूपमित्य श्वत्थः । ठर्नः पृथिव्या इत्यौदुम्बरम् । गायत्रियेति देवानामिति द्वाभ्यां पलाशम् । यया त इति शमीम् । यत्ते सृष्टस्येति वैकङ्कतम् । यत्ते तान्तस्थेत्यशनिहतम् । यं त्वा सम. मरनिति संभृत्य सह निदधाति । ततः संस्कृत्य । ३तः पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

जातवेदो भुवनस्य रेत इह सिञ्च तपसो यज्जनिष्यते । अग्निमश्वत्थादधि हव्यवाहꣳ शमीगर्भाज्जनयन्यो मयोभूः । अयं ते योनिर्ऋत्विय इति द्वाभ्यां ब्राह्मौदनिक उपव्युषमरणी निष्टपति ।

उपव्युषमुषःकालश्चतस्रो घटिकास्ततः पूर्व व्युष उप नितरां तपति तापयतीत्यर्थः । सकर्मकस्य प्रयोगः ।

दोह्या च ते दुग्धभृच्चोर्वरी ते ते भागधेयं प्रयच्छामि ताभ्यां त्वादध इत्यरणी यजमानाय प्रयच्छति ।

स्पष्टम् । मही विश्पत्नीति यजमानः प्रदीयमाने प्रतीक्षते । आरोहतमिति प्रतिगृ- हाति । ऋत्वियवती स्थ इति प्रतिगृह्याभिमन्त्रयते ।

मयि गृह्णामि यो नो अग्निरिति द्वाभ्यामात्मन्नग्निं गृहीत्वा ।

आत्मनि गृहीत्वा स्थापयित्वा । उभावपि जपतो मन्त्री विशेषस्तु भावनाऽमेः स्थापनस्य।

अग्नी रक्षाꣳसि सेधति शुक्रशोचिरमर्त्यः । शुचिः पावक ईड्य इत्यभिमन्त्र्यानुगमयति ब्राह्मौदनिकम् ।

ब्राह्मौदनिकमभिमन्व्येति संबन्धः । पश्चाच्छान्ति प्रापयति । इदमहमन्तादिति मन्त्रं जपित्वा यजमानो वाचं यच्छति ।

प्राचीनं ब्राह्मौदनिकाद्गार्हपत्यायतनमुद्धन्ति ।

प्रतिज्ञेयं प्रारभागेऽगार एव । उद्धनने खननम् । गार्हपत्यायतनामिति सिद्धवरनु- वादात्पूर्वमेव शौल्वेन विधिना कृतम् ।

उद्धन्यमानमस्या अमेध्यमप पाप्मानं यजमानस्य हन्तु । शिवा नः सन्तु प्रदिशश्चतस्रः शं नो माता पृथिवी तोकसातेति ।

उद्धन्तीत्यनेनेत्यर्थः ।

दक्षिणतः पुरस्ताद्वितृतीयदेशे नेदीयसि गार्हपत्यस्य दक्षिणाग्नेरायतनम् ।

दक्षिणपूर्वयोरन्तराले व्यतीतम्तृतीयस्तृतीयो मागो यस्य पूर्वीपरान्तरालदेशस्य तस्मिन् । नेदीयसि अतिसमीपे गार्हपत्यस्य । स एवंप्रकारः शुल्वेन दर्शितः ।

  • सूत्रपुस्तकेषु गृहीत इति विद्यते ।

१ क. ग, ण.'त्यागाईपत्याप। सत्याषाढविरचितं श्रौतसूत्रं- [ तृतीयप्रो-

प्राचीनं गारह्पत्यायतनादाहवनीयायतनमुद्धन्ति बाह्यत इतरयोः ।

उद्धन्तीतिमत्रसंपन्धार्थ पूर्वाभ्यां पराभ्यां चाऽऽयसनाभ्यामाहवनीयामारस्य पृथ- ग्दर्शनादन्योदग्वंशा शालाऽऽहवनीयार्थे कर्तव्या तस्याः सम्यावसथ्ययोः शालाया उदवंशाया बहिस्तयोरपि स्वतन्त्रे एव शाले प्रयोजनान्तरप्रयुक्ते । सभा तु देवन. शाला, आवसथोऽतिथिशाला तयोर्भवौ सम्यावातल्यौ तयोरायतने न तूदीचीनवंशायाम् । गाईपत्यात्प्राचीन कियति प्रदेश आहवनीयायतनं तत्राऽऽह--

द्वादशसु विक्रामेष्वग्निमादधीतेत्यविशेषेण श्रूयते ।

द्वादशसु विक्रामेष्वग्निमादधीतेति ब्राह्मणे वर्णविशेषेण मानं श्रूयतेऽतस्तेषां त्रैव. णिकानां निषादरथकारयोरपि भवतीत्यर्थः । विक्रामः प्रक्रमशब्देन व्याख्यातः प्रक्रमो व्याख्यातो वैकल्पिकः।

अष्टासु ब्राह्मणस्यैकादशसु राजन्यस्य द्वादशसु वैश्यस्य ।

पूर्वेण पूर्वयोर्विकल्पः।

चतुर्विꣳशतिरपरिमितं च साधारणे ।

सर्ववर्णानामित्यर्थः । अपरिमित आदधीतेत्यस्यार्थमाह-

चक्षुषा प्रक्रमान्प्रमिमीतेति विज्ञायते ।

अपरिमितशब्दस्तु ब्राह्मणेन चक्षुनिमित आदधीतेत्यनेनैव व्याख्यात इत्यभिप्राये- णाऽऽह विज्ञायत इति श्रुत्यैव विशेषो ज्ञायते । चक्षुषा मानं कुर्यादेतावन्तो विक्रमा भविष्यन्तीति प्रमिमीत न तु दण्डादिनत्यपरः पक्षः । पूरेव मानर्विकल्पते । एतत्प- सद्वयमपि सर्वेषाम् ।

प्राचीनमाहवनीयात्सभा तत्र सभ्यस्य प्राचीनमावसथः सभायास्तत्राऽऽवसथ्यस्य ।

आयतनमित्यनुषङ्गः सर्वत्र ।

एवमनुपूर्वाण्येषां कर्माणि क्रियन्ते ।

एषामायतनानामग्नीनां च संस्कारकर्माणि येन क्रमेणाऽऽयतनानि दर्शितानि तेनैव क्रमेण क्रियन्ते न तु प्रादक्षिण्येन । उद्धन्यमानमिति प्रत्यायतनमावर्तते क्रमेणोद्धन्ति । । - १ घ. इ. ज. स. अ. द. 'सु प्रक्रमे । स्तृ० पटक: महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३०७

शं नो देवीरभिष्टय आपो भवन्तु पीतये । शंयोरभिस्रवन्तु न इत्यद्भिरवोक्षति ।

भवाचीनमुष्टिना प्रत्यायतनं मन्त्रेणाऽऽवृल्या ।

उद्वयं तमसस्पर्युदु त्यं चित्रमित्यत्र खरहोमानेके समामनन्ति ।।५ ।।

खरेण्वायतनेषु होमाः खरहोमा आयतनसंस्कारत्वात्प्रत्येकं वैखानसः पृथक्पृथक्त- पडुलै होतीस्याह हिरण्यं निधायेति च ।

उपक्लृप्ताः संभाराः पञ्च पार्थिवाः सप्त वा ।

विकल्मोऽग्ने विनियोगार्थ संभृतास्तु. सप्तापि ।

एवं वानस्पत्या:।

समः पञ्च वेत्यर्थः । उपतृप्ताः पूर्वमेव संभृताः ।

तेषामेकैकं द्वैधं विभज्य ।

तेषां पश्चानां सप्तानां वैकैकमंशममिति यावत्तत्पुनद्वैधं विभज्यते । तदुक्तं वैखान- सेनाऽऽपस्तम्बेन च सिकता द्विधा कृत्येति ।

गार्हपत्यदक्षिणाग्न्योर्निवपति ।

अर्थ द्वेधाकृतं द्वयोरायतनयोरग्निशब्देन ललितयोरनुषत्कयो ।

अर्धाꣳस्त्रैधं कृत्वा पूर्वेषु ।

भाहवनीयादिपु त्रिषु यद्येकस्तदाऽर्धस्य न विभामः सर्वमर्धमाहवनीय. एक एवं विभागप्रकारमाभिधाय समन्त्रं प्रयोगमाह-

अग्नेर्भस्मासीति सिकता निवपति ।

अर्थपृथक्त्वेऽभ्यावर्तत इति न्यायात्प्रत्यायतनं मन्त्रावृत्तिः । युक्तविभागप्रकारे- त्यर्थः । पुरीषमसीत्यन्तम् ।

संज्ञानमसि कामधरणमित्यूषान् ।

भूमादिति मन्त्रान्तः । गतम् ।

तान्निवपन्यददश्चन्द्रमसि कृष्णं तदिहास्त्विति मनसा ध्यायति ।

तानूषानायतनेषु निवपन्प्रत्येक मन्त्रोच्चारणसमये यच्चाद इदं चन्द्रमति कृष्ण रूपं दृश्यते तदिह पृथिव्यामस्तु । एवं संभावनाऽदृष्टार्थी श्रुतिसामर्थ्यात् । द्वावेतो मन्त्री लिङ्गेन प्रापितौ सिकतोषाणां पुरीधामृतत्वेन संस्तवादापानब्राह्मणे ।

उदेह्यग्ने अधिमातुः पृथिव्या विश आविश महतः सधस्यात् । आशुं त्वा यो दधिरे देवयन्तो हव्यवाहं भुवनस्य गोपामित्यारदूत्करम् ।

मतम् । ३०८ सत्याषाढविरचितं श्रौतसूत्रं- . [३ तृतीयपने-

यत्पृथिव्या अनामृतꣳ संबभूव त्वे सचा । तदग्निरग्नयेऽददात्तस्मिन्नाधीयतामयमिति गार्हपत्यायतने वल्मीकवपां निदधाति ।

प्रत्येक मिन्नमनप्रदर्शनार्थ मध्ये निवपतीत्युक्तम् ।

यदन्तरिक्षस्यानामृतमिति दक्षिणाग्नेर्यद्दिवोऽनामृतमित्याहवनीयस्य ।

संबभूवेति द्वयोरप्यनुषङ्गः प्रथमात् ।

तूष्णीमितरयोः ।

अत्रार्थपृथक्त्वेऽभ्यावर्तत इत्यावृत्तिरन्तिमस्य मन्त्रस्य प्राप्ता तथाऽपि गार्हपत्या- वित्रयं सामविधानार्थ पृथिव्यादिरूपेण संस्तुतं न सभ्यावसथ्ययोस्तदस्तीति दिव इति मनलिशाविरोधात्तूष्णीमिष्टमाचार्यस्य । वैखानसस्य चाऽऽपस्तम्बवत्सर्वत्र मन्त्रः।

उत्समुद्रान्मधुमाꣳ ऊर्मिरागात्साम्राज्याय प्रतरां दधानाः । अमी च ये मघवानो वयं चेषमूर्जं मधुमत्संभरेमेति सूदम् ।

गतम् ।

इयत्यग्न आसीरिति वराहविहतम् ।

एतावानेव मन्त्रः।

अदो देवी प्रथमाना पृथग्यद्देवैर्न्युप्ता व्यसर्पो महि त्वा । अदृꣳहथाः शर्कराभिस्त्रिविष्टप्यजयो लोकान्प्रदिशश्चतस्र इति शर्करास्ता निवपन्यं द्वेष्टि तस्य वधं मनसा ध्यायति ।

नित्यत्वात्पाप्मानमेव ध्यायति द्वेष्य(प्या)भावे । एवं सप्त पार्थिवाः पुष्फरपणे न पार्थिवेषु । पञ्चपक्षे ये केचन पश्च मन्त्रास्तल्लिङ्गा एव । सर्वेषामभावे विकल्पमाह-

लौहान्यौदुम्बराणि पार्थिवानां विकल्पार्थानि भवन्ति ।

वाशब्देन भाव्यं लौहान्यौदुम्बराणि वेति, तथा नोक्तं समानार्थानां विकल्पः स्वत एव सेत्स्यतीति मत्वाऽनेन शिष्या व्युत्पादिता अन्यदपि वाशब्दाभावेऽपि विकल्पो यथा स्यादिति । तत्तु पूर्व वेदिकरणप्रस्तावेऽमावास्याविषये दर्शितमेव । लौहानि लोहस्य शकलानि । तथोदुम्बरस्य तानस्य शकलानि ।

यास्ते शिवास्तनुवो जातवेदो या अन्तरिक्ष उत पार्थिवीर्याः । ताभिः संभूय सगणः ३तृ० पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३०९.'

सजोषा हिरण्ययोनिर्वह हव्यमग्न इत्युत्तरतः संभाराणाꣳ सुवर्णꣳ हिरण्यमुपास्यति ।

आयतनेषु संमारेषतरत आयतनेष्वेवोपास्यति स्थापयति ।

अतिप्रयच्छति रजतं द्वेष्याय यदि द्वेष्यं न विन्देन्निरस्येन्नोपास्य पुनराददीत ।। ६ ।।

दानं निरसनं चादृष्टार्थ निरसनं नाऽऽयतनेषु । स्पष्टमन्यत् ।

चन्द्रमग्निं चन्द्ररथꣳ हरिव्रतं वैश्वानरमप्सुषदꣳ सुवर्विदम् । विगाहं तूर्णिं तविषीभिरावृतं भूर्णिं देवास इह सुश्रियं दधुरित्युपास्तमनुमन्त्रयते ।

नानुमन्त्रणं दानपक्षे ।

पुष्करपर्ण उदुम्बरः शमी विकङ्कतोऽश्वत्थोऽशनिहतो वृक्षः पलाशश्च ।

अग्रिममाकृष्यत इति वानस्पत्यास्तानितः प्रथमं जज्ञ अग्निरिति निवपतीति योग्यत्वात्सवदिति नानुषज्यते तद्विकल्पार्थ द्वितीयेन कल्पेन । तदयमों यथा पूर्वपार्थिवा विभज्य न्युप्ता एवमेतेऽपि तथैव न्युप्या मन्त्रस्तु सर्वेषामेक एव । अथवाऽऽहरणमस्त- ल्लिरावृत्तिस्तैस्तदेति वानस्पत्यास्तानित्येतावदेवाग्रिममाकृष्यते निवपतीति पूर्वतन विप्रकृष्टमाकृष्यते । तदुक्तं वैखानसेन समारग्रहणमन्त्ररित्येक इति ।

अपि वा येऽन्ये पुष्करपर्णाद्विकङ्कताच्चेति वानस्पत्यास्तानितः प्रथमं जज्ञे अग्निरिति सकृदेवैकैकस्मिन्निवपति ।

पुष्करपर्णविकङ्कतौ तु पूर्ववद्विभज्यैवान्यानेकत्र कृत्वा प्रत्येक मन्त्रावृत्त्या सर्वेष्वाय- तु तनेषु निवपति सकृदिति सर्वत्रेति भ्रमनिरसार्थमेकैकस्मिन्नित्युक्तं सकृत्सहैव सर्वान् ।

सं या वः प्रियास्तनुव इत्यूषान्सिकताश्च सꣳसृजति।

आयतनस्थान् । तदेवं ज्ञायते पूर्वपुञ्जानेव प्रत्येकं विविक्तानायतने स्थापयेदिति ।

सं वः सृजामि हृदयानि सꣳसृष्टं मनो अस्तु वः । सꣳ सृष्टः प्राणो अस्तु व इति सर्वान्संभारान्सꣳसृजति ।

पूर्व मन्त्रेण संसृष्टानसंसृष्टानेकत्र मिश्री करोति प्रत्यायतनं मन्त्रावृत्त्या ।

ऋतꣳ स्तृणामि पुरीषं पृथिव्यामृतेऽध्यग्निमादधे सत्येऽ

१ घ. उ. ज. अ. ज. ह. 'मभिम । ३ घ, ङ, ज, ढ, क्षः पाला । ३ ग. ठ, प. पूर्व पा'। क. ग. च. ट. ४. ण, पूर्व पु । ३१० सत्यापादविरचितं श्रौतसूत्र- [२ तृतीयप्रश्न-

ध्यग्निमादधे दिवस्त्वा वीर्येण पृथिव्यै महिम्ना । अन्तरिक्षस्य पोषेण सर्वपशुमादध इति सꣳसृष्टान्कल्पयति ।

कल्पाते सर्वान्समो करोत्यायतनेषु प्रत्येक मन्त्रावृत्त्या कल्पनं समर्थीकरणमग्नि- धारणे तत्सर्वायतनस्तरणायेति मन्त्रलिङ्गागम्यते ।

उद्यत्सु रश्मिष्वपोदू(दु)ह्य ब्राह्मौदनिकस्य भस्म ।

उद्यत्सु वर्तमानसामीप्य उक्तमुदयात्पूर्व गार्हपल्याधानविधानादायतनगतं निःशेष कृत्वा।

दशहोत्राऽरणी संनिधाय ।

चित्तिः गिति द्वे अरणी संगते कृत्वा तत्र बामौदनिकस्य स्थाने निदधाति । प्रतीचीनप्रजननामिति वैखानसेन स्थानमुक्तमापस्तम्बेन भस्मापोझ तस्मिञ्छमागर्मा- दग्निं मन्यतीति । अत्र वैखानसेनोक्कमधरारणिमर्धमात्मानं विष्णुमर्धमाग्नं ध्यायन्सहा-- मेऽमिनेति मन्यतीति ।

सहाग्नेऽग्निना जायस्व सह प्रजया सह रय्या सह पुष्ट्या सह पशुभिः सह ब्रह्मवर्चसेनेत्यत्राग्निः मन्थत्युपतिष्ठत्यश्वे।

सकृदेव मन्त्री विष्टापृथक्त्वेऽपि द्रव्यस्यैकत्वात् । उप समीपेऽश्व तिष्ठति । अत्र प्रकृते बासौदनिकामे स्थाने ।

मथ्यमानेऽग्नौ चतुर्होतॄन्यजमानं वाचयति ।

ब्रह्मवादिनो वदन्ति किं चतुर्होतॄणां चतुझेतृत्वमित्यत्र चतुर्होतृशब्देन गृह्यन्तः एव बहुवचनेन होतृनिति विनियुक्ता न तु पृथिवी होतेत्ययमेव बहुवचनवैया- पत्तेः । चित्तिः सुक् । पृथिवी होता । अग्निता । सूर्य ते चक्षुः । महाहवितेति पञ्च तान्यनमानं वाक्यशः पाठयति ।

अगन्नग्निर्होता पूर्वः पूर्वेभ्यः पवमानः पावकः शुचिरीड्य इति जातमग्निमनुमन्त्रयते ।

अनुलक्षीकृत्य मन्त्रेण प्रकाशयेत् । अत्र याजमान प्रनापतेस्त्वा प्राणेनेति । भातमग्निमभिप्राणिति अभिनिम्रतीत्यर्थः । अहं त्वदस्मीति जातमभिमन्व्य वरं ददा- तिवाचं च विसृजतेऽत्र क्षौमे वाससी परिदधाते यजमानः पत्नी च ते भपवृत्तेऽन्या- धेयेऽध्वर्यवे दत्त इति याजमानम् । अध्वर्यु:-

१ ख. च. छ.ट, 'यतीति । २ घ. छ, ज, श. म. मभिमत्र । ३११ -४च० पटलः] महादेवकृतवैजयन्तीब्याख्यासमेतम् ।

अजीजनन्नमृतं मर्त्यासोऽस्रेमाणं तरणिं वीडुजम्भम् । दश स्वसारो अग्रुवः समीचीः पुमाꣳसं जातमभिसꣳरभन्तामिति जातं परिगृह्णाति ।। ५ ।।

इति हिरण्यकेशिसूत्रे तृतीयप्रश्ने तृतीयः पटलः ।

परिग्रहणमञ्जलिनेति वैखानसो जातमञ्जलिनाऽभिगृह्णातीत्यापस्तम्बः । परितोऽञ्ज. लिना गृह्णाति परित उत्तानो हस्तौ किंचिदूर्वागुष्ठपार्टी करोतीत्यर्थो भावना च परिगृहीतोऽसीति ॥ इति हिरण्यकेशिसूत्रव्याख्यायां महादेवकृतायां प्रयोगवैजयन्त्यां तृतीयप्रश्ने तृतीयः पटलः ॥ ३ ॥

3.4 अथ चतुर्थः पटलः ।

तमादाय प्रथमाभ्यां व्याहृतीभ्यां यथर्ष्याधानेन प्रथमाभ्याꣳ सार्पराज्ञीभ्यां प्रथमेन च घर्मशि- रसा प्राणे त्वामृतमादधाम्यन्नादमन्नाद्याय गोप्तारं गुप्त्यै । अग्ने गृहपते परिषद्य दिवः पृथिव्याः पर्यन्तरिक्षाल्लोकं विन्द यजमानाय पृथिव्यास्त्वा मूर्धन्सीद यज्ञिये लोके यो नो अग्ने निष्ट्यो यो निष्ट्योऽभिदासतीदमहं तं त्वयाऽभिनि- दधामीति गार्हपत्यायतने संभारेषु प्रतिष्ठापयति ।

तमग्निमादाय तूलशुष्कगोमयचूर्णादिना पुष्टं पात्रेणाऽऽदाय प्राश्चमुद्धृत्याऽऽसीन इति वैखानसापस्तम्बौ । व्याहृतीभ्यां यथाधानेनेति मन्त्रनामधेयं यथर्षयो यस्य यजमानस्य ऋषिस्तमनतिक्रम्य यो मन्त्र आधानसाधनं स यथाधानमित्यमि. धीयते । स त्वग्रे वक्ष्यते । सर्वमग्रे स्वयमेव वदति । सर्वेषां मन्त्राणामन्ते रथंतरे साम्नि प्रारब्धे संमारेषु प्रतिष्ठापनं तत्राऽऽधानमन्त्राणां करणमन्त्रत्वेऽपि न मन्त्रान्तेन कर्मा. दिसंनिपातो न स्याद्रआंतरारम्मेण व्यवधानादसंभवादन्य एव साम गायति तावत्पर्य वस्यतीत्यत एवाऽऽहाऽऽपस्तम्बः-ब्रह्माऽऽग्न्याधेयतामानि परिगायतीति । बौधायनस्तु साम्नामर्थ उद्गातारमेवाऽऽह रथंतरं ब्रूहीत्यथैनमादधातीति । इदं छन्दोगानामेव युक्तम् । यद्यपि यजुर्वेदविहितत्वादुपांशुत्वमेव परिभाषायां दर्शितं तथाऽपि सामवेदे ३१४ सत्याषाढविरचितं श्रौतसूत्रं- [३ तृतीयप्रश्ने-

नाऽऽत्मानमुपरीव न कर्णदघ्नमत्युद्गृह्णात्यात्मानम् ।

आस्मानं शरीरमुपरीव शिरस उपरीव तथा कर्णदघ्नं परिमाणे दनच् । कर्णपरि- माणं चाऽऽत्मानं नात्युद्गृह्णाति । अत्र ब्राह्मणमुपरीवाग्निमुट्टहीयादुद्धरनिति तया- ख्यातमनेन सूत्रेण । कथम् । गार्हपत्यादाहवनीयमुद्धरन्नुपरीवोद्गृह्णीयादित्यत्रोपरीत्यु. च्यमाने न शिरसि नापि कर्णदघ्नमिवेति शब्देनेपदित्युक्तम् । व्यतिरेकेण वेदमेवो- क्तम् । यदुपर्युपरि शिरो हरेत्प्राणान्विच्छिन्द्यादघोऽधः शिरो हरति प्राणानरं गोपी. थायेति । कर्णावध ऊर्ध्वमात्मानमिति सामानाधिकरण्यम् । अधोऽधः शिरो हरत्य- स्यैवैतथ्याख्यानम् ।

उद्यच्छंतीध्ममुपयच्छत्युपयमनीः ।

पात्रणेममुद्यच्छति । पूर्वमग्निप्रणयनानीत्युक्तमिदानीमिध्ममिति यदाह तज्ज्ञापय- त्याचार्यों नेमशब्दः संस्कारवचनोऽपि तु क्रियावचन इध्यतेऽग्निरनेनेति तेन संस्कारमहतोत्यभिप्रायेण । उपयच्छतीति पूर्णपात्रमुपयमनीरेव दर्शितं तद्वैखानसवच- नेन सेमं पात्रं सिकतापूरितेन पात्रेण संवृणुयाद्यथा प्रतप्तं पात्रं न हस्तं दहेत्तथोप- यच्छति ।

उपयते धार्यमाणे।

उपयम्यत इति उपयतोऽग्निस्तस्मिन्धार्यमाणे सति ।

लौकिकमग्निमाहृत्य मथित्वा वाऽऽग्नीध्रो दक्षिणाग्निमादधाति ।

पाकशालाग्निमन्यं शुद्ध लौकिकारण्योमथित्वा वा । वैखानसस्तु गार्हपत्यादग्निमा- हृत्यैक इत्याहापि वा गार्हपत्यादेवान्याहार्यपचनमादधातीत्याह बौधायनः । प्रजापति- रग्निमस्जतेति ब्राह्मणमप्युदाहृतम् । एकयोनय इत्येक इत्याश्वलायनः । यत्रेधाऽग्नि- राधीयत इति विधिसरूपार्थवादाच गार्हपत्ययोनित्वमप्यस्ति । तथा वा गार्हपत्यादग्नि- माइत्याऽऽग्नीघ्र आदधाति ।

द्वितीयया व्याहृत्या यथर्ष्याधानेन द्वितीयतृतीयाभ्यां सार्पराज्ञीभ्यां द्वितीयेन घर्मशिरसाऽग्नेऽन्नपा मयोभुवः सुशेव दिवः पृथिव्याः पर्यन्तरिक्षाल्लोकं विन्द यजमानाय पृथिव्यास्त्वा मूर्धन्सीद यज्ञिये लोके यो नो अग्ने निष्ट्यो यो निष्ट्योऽभिदासतीदमहं तं त्वयाऽभि निदधामीति दक्षिणाग्न्यायतने संभारेषु प्रतिष्ठापयति यज्ञायज्ञिये गीयमाने ।

ऊर्ध्वजुरासोनो वेत्यापस्तम्बः । भुवो भृगूणां त्वा० आऽयं गौः । त्रिशद्धाम ।

१ क, ख, ग. च. छ. ट. ठ. . "नमुद्र'। २५. हु ज. . न. ड, न च ५। ३ प. क. ज.स.म.द."णामेराय । ४च०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३१५

वातः प्राण - तुं पचाग्नेऽन्नपा इत्यादिनाऽऽदधातीत्यर्थः । अग्नेऽन्नपा इति वर्जयित्वाऽने- नोपतिष्ठते यज।

यो ब्राह्मणो राजन्यो वैश्यः शूद्रो वा सुर इव बहु पुष्टः स्यात्तस्य गृहादाहृत्याऽऽदध्यात् ।

सुरो देवः स इव बहुप्रकारैर्धनधान्यपशुपुत्रादिभिः पुष्टः स्फीतः । परमपुष्टताख्या- पनायोक्तं सुर इवेतीति केचिद्व्याचक्षतेऽन्ये त्वसुर इति पदं कुर्वन्तोऽसुवद्रायो धनानि यस्य सोऽसुरः । ह्रस्वत्वं छान्दसम् । प्राणतुल्यं धनं व्ययितुमशक्त इत्यर्थः ।। अथवाऽसूत्रातीत्यसुरः। रा आदाने प्राणानेव पुष्णातीत्यर्थः । अतिकृपणो नृशंसः पर- स्मादेवाऽऽदाय पुष्टिं वृद्धि प्राप्त इति व्याचक्षते । तस्य गृहादग्निमात्य दक्षिणाग्नि मादधातीत्यन्यः कल्पः।

अत ऊर्ध्वमस्यान्नं नाद्यात् ।

पुरुषार्थः प्रतिषेधो यत्प्रभृत्यग्निराहृतस्तत्प्रभृति तस्यान्नं न भोक्तव्यं यजमानेन ।

वृक्षाग्राज्ज्वलतो ब्रह्मवर्चसकामस्य ।

स्वयमेव केनचिदग्निना वृक्षो दह्यमानस्तस्याग्रप्रदेशादग्निमाहृत्य ब्रह्मवर्चसकामस्यः यजमानस्याऽऽदध्यात् । तत्र संकल्पः- ब्रह्मवर्चसकामो वृक्षापादग्निमाहृत्य दक्षि- णाग्निमाधास्य इति ।

भर्जनादन्नाद्यकामस्य ।

मननमम्बरीषं यत्राहरहर्जनेन पाको जायते तस्मादानीयेत्यर्थः । स्पष्टमन्यत् ।

या वाजिन्नग्नेः पवमाना पशुषु प्रिया तनूस्तामावह या वाजिन्नग्नेः पावकाऽप्सु प्रियातनूस्तामावह या वाजिन्नग्नेः सूर्ये शुचिः प्रिया तनूस्तामावहेत्यश्वस्य दक्षिणे कर्णे यजमानमग्नितनूर्वाचयति ।

कर्णसमीपे यज्ञतनुनामकान्मन्त्रावाचयति ।

विक्रमस्व महाꣳ असि वेदिषन्मानुषेभ्यः । त्रिषु लोकेषु जागृहि प्रजया च धनेन च । प्राचीमनुप्रदिशं क्रमध्वमग्निनेति तिसृभिरश्वप्रथमाः प्राञ्चो गच्छन्ति ।

सर्वेषां मन्त्रः पठितया सह प्रतीकोपात्ते द्वे एवं तिसृभिनम्भिरश्वः प्रथमोऽग्रगो थेषामृत्विग्यजमानानां तेऽश्वप्रथमा आहवनीयायतनाभिमुखा गच्छेयुः ।

जानुदघ्नेऽग्रे हरत्यथ नाभिदघ्नेऽथाऽऽस्यदघ्ने ।

मन्त्रमुक्त्वा प्राग्गमनं प्रारम्भ एवाग्रं जानुदने ध्री(ध्रि)यमाणमा हसतिः । ततः किंचिद्गत्वा नाभिदघ्ने तथैव किंचिद्गत्वाऽऽस्यदघ्ने तथैव धृत्वा हरति । १ क. ख, ग. च. छ. ट. प. व पु । - सत्याषाढविरचितं श्रौतसूत्र- [ ३ तृतीयप्रश्चे-

नाग्निमादित्यं च व्यवैति ।

अध्वर्युरभि पश्चात्कृत्वा मध्ये सूर्यस्याग्नेश्च व्यवायं न कुर्यात् ।

पूर्वमग्निं हरति पश्चादन्वेति दक्षिणतो वा परिगृह्येव हरति नाकोऽसि ब्रध्नः प्रतिष्ठा संक्रमणमिति समयार्धे हिरण्यं निधाय वरे दत्तेऽतिक्रामति ।

समयापथ(६)मर्धभागवाचि तथा चार्धा हिरण्यं मन्त्रेण निधाय वर्मनि हिरण्य- निधानम् । तदुक्तं वैखानसेन तस्मिन्नध्वनि हिरण्यं निधायेति । यनमान इमा उ मामुपतिष्ठन्विति मध्याज्रियमाणमनिममिमन्त्रयते वरं ते ददामोति वरं ददाति । सतोऽध्वर्युरतिकामन्दक्षिणतो यज़मानो ब्रह्मा च ।

बृहस्पते परिदीया रथेनेति दक्षिणतो ब्रह्मा रथं वर्तयति ।। ९ ।। रथचक्रं वा ।

स्थानामित्यन्तः । वर्तयति वायति विहारे तिष्ठन्गार्हपत्यादाहवनीयपर्यन्तम् । सदुक्तं वैखानसेन-गार्हपत्यादाहयनीयात्संततं त्रिः परिवर्तयतीति ।

यावच्चक्रं त्रिः परिवर्तते द्वेष्यस्य षट्कृत्वोऽभ्यस्था द्विश्वाः पृतना अरातीरिति प्राञ्चमश्वं दक्षिणेन पादेन संभारानाक्रमयति पार्श्वतो वोत्तरतः संभाराणां यथाऽऽहितस्याग्नेरङ्गाराः पदमभ्यवपत्स्यन्तीति ।

गार्हपत्यादारभ्याऽऽहवनीयपर्यन्तं नीत्वा पुनः प्रदक्षिणं गार्हपत्यपर्यन्तं वाहयति पुनस्तथैवेति त्रिवार तावति कालेऽध्वर्युरग्निमाग्नीधहस्ते दत्वाऽश्वं प्राञ्चं तस्य दक्षि- णेन पादेनाऽऽहवनीयायतनगतानसंभारानाक्रमयति अश्व आक्रामति तेन तथा कारयती- त्याक्रमयति संभाराणामुत्तरतः पार्श्वत उत्तरे पाय वोभयथाऽपि आहितस्याग्रङ्गारास्त. स्पदमभि उपरि अवपत्स्यन्तीत्येवमाक्रमयति मन्त्रेण ।

यदक्रन्दः प्रथमं जायमान इति प्रदक्षिणमश्वं पर्याणीय तदेव पदमाक्रमयति प्रत्यञ्चम् ।

परितो भ्रामयित्वाऽऽहवनीय प्रति प्रत्यश्चमानीय तेनैव पादेन तदेव पदमाक्रम- यति प्रत्यङ्मुखम् । एतत्सर्व चक्रस्य त्रिः परिवर्तनमध्य एव कर्तव्यम् । अन्निति मन्त्रान्तः । द्वेप्यस्य षट्कृत्व इति प्रतिषेधार्थः ।

अश्वाभावेऽनडुहः पद आदधीत स तु पूर्ववाडेव स्यात्तस्य सदेव बन्धुः ।

अनः शकटं वहति तम्य वृषभस्य पदेऽग्निमादधीत तस्यानडुहः प्रतिनिधिरूपत्वे. नाश्वलिङ्गस्य न निवृत्तिनानडुहः । सोऽनडुत्पूर्ववाटपूर्ववयस्कः । तथोक्तं बौधायने- '४च पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३१७ नाश्वं पूर्ववहमिति युवानमित्येव तदुक्तं भवतीति । एवमनडुइपि ज्ञेयः । तस्य पूर्व- वाहोऽश्वस्य पूर्ववाडेवानडुत्सदा बन्धुः समान इव (१)।

प्रत्यङ्मुखे नियते धार्यमाणे ।

अश्वे वाऽनडुहि वा प्रत्यङ्मुख एवाऽऽहवनीयायतनदत्तपदे नियमेन कृते सति पुरुषान्तरध्वर्युः ।

यदिदं दिवो यददः पृथिव्याः संविदाने रोदसी संबभूवतुः । तयोः पृष्ठे सीदतु जातवेदाः शंभूः प्रजाभ्यस्तनुवे स्योन इत्यभिमन्त्र्य ।

भग्निमिति शेषः । आपस्तम्बेनोक्तम् - कमण्डलुपद आदधीतेति । बचब्राह्मण- मजस्य पद आदधीतेति वाजसनेयकमिति । कमण्डलुशब्दोऽपि चतुष्पदपशुजाति- वाची शाब्दिकैरुदाहियते कामण्डलेय इतिरूपसिद्धये । आकार्यकृत्यसिद्धये (१)।

सर्वाभिर्व्याहृतीभिर्यथर्ष्याधानेन प्रथमोत्तमाभ्याꣳ सार्पराज्ञीभ्यामुत्तमेन च घर्मशिरसा प्राणं त्वामृत आदधाम्यन्नादमन्नाद्याय गोप्तारं गुप्त्यै। अग्ने सम्राडजैकपादाहवनीयदिवः पृथिव्याः पर्यन्त- रिक्षाल्लोकं विन्द यजमानाय पृथिव्यास्त्वा मूर्धन्सीद यज्ञिये लोके यो नो अग्ने निष्ट्यो यो निष्ट्योऽभिदासतीदमहं तं त्वयाऽभि निदधामी. त्याहवनीयायतने संभारेषु प्रतिष्ठापयति यज्ञायज्ञिये बृहति श्यैते च गीयमाने निहिते वारवन्तीयं गायति प्रतिषिद्धान्येकेषामग्न्याधेये सामानि ।

तमिध्ममिति शेषः । तिष्ठन्नेवाऽऽदधाति । यजमान आनशे व्या० प्नश इत्या- हितमाहवनीयमुपतिष्ठते तथाऽऽधानमन्त्रैश्च प्राणं त्वेतिवर्नम् । ये ते अग्ने दध इति शिवाभिस्तनूभिराहितमाहवनीयमुपतिष्ठते । आधीयमान इति ब्राह्मणे दर्शनात्सूत्रे पुनर्यज्ञायज्ञिये गीयमान इत्यादिनिर्देशात्साम्नामाहवनीयाधानस्य सहभावोऽवगम्यते । आहवनीयाधानं चाल्पकालसाध्यमिति यज्ञायज्ञियबृहच्छयैतानां बहुकालसाध्यत्वा- दुद्धरणानन्तरमेवैषामारम्भो यावत्प्रतिष्ठापयत्यायतन आहवनीयम् । अत एव बौधाय- नेनोक्तं बृहति गीयमान आदधते । एकेषां शाखिनां प्रतिषिद्धान्याधानसंबन्धीनि

१ क. ख. ग. च. छ. ट. ठ. ण. °न घ। २ क. ख. ग. च. छ. ट. ठ, ण, ति ३ क. ख. ग च. छ. ट, ठ, ण, 'केषां सा । सत्यापादविरचितं श्रौतसूत्र- [३ तृतीयप्रश्ने-

सामानि तेन विहितप्रषिद्धत्वाद्विकल्प इति पर्यवस्यतीत्यर्थः । निहित माहवनीय वारवन्तीय साम गायति । एतस्यापि विकल्पः ।

आनशे व्यानशे सर्वमायुर्व्यानश इत्याहितमाहवनीयमुपतिष्ठते ।

अध्वयोरुपस्थानम् ।

नानभिहुतमुपस्पृशति ।

शमनहोमात्पूर्वमग्निस्पर्शनं न कुर्यात् ।

आज्येनौषधीभिश्च शमयितव्यः ।

अमय इत्यर्थः । शमनमेतेषामनेन कर्मणा भवतीति कर्माकं ज्ञानम् ।

ओषधीराज्येऽवधाय या ते अग्ने पवमाना पशुषु प्रिया तनूर्या पृथिव्यां याऽग्नौ या रथंतरे या गायत्रे छन्दसीदं ते तामवरुन्धे तस्यै ते स्वाहा या ते अग्ने पावकाऽप्सु प्रिया तनूर्याऽन्तरिक्षे या वायौ या वामदेव्ये या त्रैष्टुभे छन्दसीदं ते तामवरुन्धे तस्यै ते स्वाहा । या ते अग्ने सूर्ये शुचिः प्रिया तनूर्या दिवि याऽऽदित्ये या बृहति या स्तनयित्नो या जागते छन्दसीदं ते तामवरुन्धे तस्यै ते स्वाहेति तिस्रः पवमानाहुतीर्हुत्वा।

मग्निः पवमानो देवता । पवमाननामिका आहुतीः । ओषधीर्यथाशक्ति संपादिताः सर्वा भाज्ये लौकिके मिश्रयित्वा जुहोति । शमनहोमः सर्वेषु । नानभितमित्याहक- नौयविषये। सभ्यावसथ्ययोराधानं वचनामावान गार्हपत्यादपि तु-

लौकिकमग्निमाहृत्य मथित्वाऽऽहवनीयाद्वा सभ्यावसथ्यावादधाति ।

अत्राऽऽपस्तम्बेनोक्तं यथाधानमिति तस्मात्तावानेव मन्त्रः । स्पष्टमन्यत् ।

प्रतिषिद्धौ सभ्यावसथ्यावेकेषाम् ।

तस्माद्विकल्प इत्यर्थः।

अग्न आयूꣳषि पवस इति तिसृभिराश्वत्थीस्तिस्रः समिध आदधाति।

न स्वाहाकारो देवता लिङ्गोक्ताः।

१ घ. इ. ज, श.अ. द. 'ज्येन चौष । १ घ. द. या वाऽऽह। ४च०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३१९

सर्वा एकैकस्मिन् ॥ १० ॥

सर्वास्तिन एकैकस्मिन्नग्नौ गार्हपत्यादिक्रमेण । अदृष्टार्थत्वाद्यथाक्रममकैकाधानं मा भूदित्यर्थः ।

अग्निर्ऋषिः पवमानः पाञ्चजन्यः पुरोहितः । तमीमहे महागयमिति तृतीयामेके समामनन्ति ।

अग्ने पावकेत्यस्याः स्थान इत्यर्थः ।

समुद्रादूर्मिर्मधुमाꣳ उदारदुपाꣳशुना सममृतत्वमानट् । घृतस्य नाम गुह्यं यदस्ति जिह्वा देवानाममृतम्य नाभिः । वयं नाम प्रब्रवामा घृतेनास्मिन्यज्ञे धारयामा नमोभिः । उप ब्रह्माशृणवच्छस्यमानं चतुःशृङ्गो वमीद्गौर एतत् । चत्वारि शङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्याꣳ आविवेश स्वाहेति शमीमयीर्घृतान्वक्ताः सर्वा एकैकस्मिन् ।

समिध इत्यनुवृत्तिः । अग्निदेवता । स्पष्टम् ।

प्रेद्धो अग्ने दीदिहि पुरो न इत्यौदुम्बरीꣳ समिधमादधाति विधेम ते परमे जन्मन्नग्न इति वैकङ्कतीं ताꣳ सवितुर्वरेण्यस्य चित्रामिति शमीमयीꣳ शमीमयीं पूर्वामेके समामनन्ति वैकङ्कतीमुत्तराम् ।

प्रत्येकमग्निषु ।

प्रातरग्निहोत्रस्याऽऽवृता तूष्णीं प्रातरग्निहोत्रं जुहोति ।

नेदमग्निहोत्रमपि तु कर्मान्तरमाधानाङ्गमिति वक्तुं प्रातरग्निहोत्रस्याऽऽवृतेत्युक्तम् । अग्निहोत्रवन्जुहोतीत्याध्वर्यवमेव सर्व मन्त्रवर्जम् ।

जुहूꣳ स्रुवं च संमृज्य ।

स्त्रिक्च स्त्रीहितिश्चेत्यादिना यजमान आहवनीयमुपतिष्ठते विराजक्रमैश्च सर्वा यथालिङ्गम् ।

१ क. स. ग. छ.ट, ण. °ता प्रा। ३२० सत्यापाढविरचितं श्रौतसूत्र- [२ तृतीयप्रश्ने-

चतुर्गृहीतेनाष्टगृहीतेन द्वादशगृहीतेन वा स्रुचं पूरयित्वा सप्त त इति पूर्णाहुतिं जुहोति ।

अप्रैणाऽऽहवनीयं गत्वा दक्षिणतस्तिष्ठजुहोति दविहोमत्वात्परिस्तरणप्तमन्त्रपरिषे. कसमिदाधानपूर्वकं जुहोति स्वाहाकारेण पूर्णाहुतिनाम(मि)कामाहुतिम् । अग्निदेवता ।

तामेकेषां तूष्णीमग्निहोत्रमित्यधिकुरुते ।

तां पूर्णाहुतिमेव तूष्णीमाग्नहोत्रमिति अत्र स्थामेऽधिकुरुते नान्यत्तूष्णीमग्निहोत्र, लक्षणं कर्मेत्येकेषां शाखिनाम् ।

ये अग्नयो दिवा ये पृथिव्याः समागच्छन्तीषमूर्जं दुहानाः । ते अस्मा अग्नयो द्रविणं दत्त्वेष्टाः प्रीता आहुतिभाजो भूत्वा यथालोकं पुनरस्तं परेत स्वाहेति द्वितीयाम् ।। ११ ।।

इति हिरण्यकेशिसूत्रे तृतीयप्रश्ने चतुर्थः पटलः ।

द्वितीयां पूर्णाहति जुहोति । अग्नयो देवताः । इति सत्याषाढहिरण्यकेशिसूत्रव्याख्यायां महादेवकृतायां प्रयोग- चैजयन्त्यां तृतीयप्रश्ने चतुर्थः पटलः ॥ ४ ॥

3.5 अथ तृतीयप्रश्ने पञ्चमः पटलः ।

तदानीमेवाऽऽग्नेयस्याष्टाकपालस्यान्वाधानादीनि कर्माणि प्रतिपद्यते ।

सदानीमेवेति सद्यः पूर्णाहुत्यनन्तरमेव नतु पवमानहविर्वकालान्तरेऽपीत्युक्तम् । अन्वाधानादीनीति विकृतिस्वरूपं प्रदर्शितम् । प्रतिपद्यन्ते त एतत्विजः ।

यत्प्राक्प्रोक्षणात्तत्कृत्वा ।

उत्तरकरिस्मार्थमनुवादोऽवधेः ।

सभायां मध्येऽधिदेवनमुद्धत्यावोक्ष्याक्षान्न्युप्य व्यूह्य (व्यु) समू(मु)ह्य प्रथयित्वाऽक्षेषु हिरण्यं निधाय निषसाद धृतव्रत इति जुहोति ।

सभाऽऽधानप्रेक्षकास्तस्यां मध्येऽधिदीव्यन्त्यस्मिन्स्थाने तदधिदेवनं स्थानं तदुद्ध- त्यावीक्ष्य तत्र स्थानेऽक्षाविभीतकान्युप्यैकत्र स्थापयित्वा ब्यू(व्य)ह्य वियुज्य समू(मु)ह्य

१ घ. छ, ज. स. अ. द. "स्थापन्यन्वाधानप्रमृतीनि । . ५५०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३२१

संहत्य प्रथायित्वा प्रसार्य तेषु हिरण्यं स्थापयित्वा ब्रह्मयजमानयोरग्रेण गत्वा स्थितः । परिस्तरणपरिषेको न समित् । दर्विहोमधर्मेण जुहोति । सुक्रतुः स्वाहेति मन्त्रान्तः । वरुणो देवता।

आवसथे मध्ये परिषदो हिरण्यं निधाय प्रनूनं ब्रह्मणस्पतिर्मन्त्रं वदत्युक्थ्यम् । यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकाꣳसि चक्रिर इति जुहोति ।

पूर्ववन्मत्रोक्ता देवताः । भावसथो(थ उक्तशाला । ब्रह्मयजमानयोरप्रेण गत्वा. स्थितयोदक्षिणतः।

उत नोऽहिर्बुध्नियः शृणोत्वज एकपात्पृथिवी समुद्रः । विश्वे देवा ऋतावृधो हुवानाः स्तुता मन्त्राः कविशस्ता वहन्त्वेना राजन्हविषा मादयस्वेत्यावसथमभिमन्त्र्य ।

गतम् ।

शतमक्षान्यजमानाय प्रयच्छति ।

विभीतकान् ।

तेषु कृतं विजित्य ।

तेष्वक्षेषु कृतं पणं मो(१) यनमाने विजित्य तत्कृतं विजयते । न्युप्तेष्वक्षेषु चतु. कशो विभज्यमानेषु यत्र सर्वे भागाः समा भवन्ति स द्यूतप्रकारः कृतमित्युच्यते । यत्र त्रयोऽधिकाः स त्रेता। यत्र प्रवन्धिको स द्वापरः । यत्रैका स कलिरिति तस्य प्रकारास्तत्र कृतं विजयत इत्यर्थः । इदं याजमाने वक्ष्यमाणमनूदितम् । तत्रो. क्तम्-कृतं विनित्य समासभ्यः प्रयच्छति ते यज्जयन्ति तदुभयमन्नं संस्कृत्य ब्राह्मणान्भोजयित्वेति ।

सभासद्भ्यः प्रदीयमानेषु व्रीहिभ्यो गां दीव्यताहिꣳसन्तः पर्वाणि विशसतेति संप्रेष्यति ।

यजमानेन प्रदीयमानेष्वक्षेष्वध्वर्युः प्रतितिस्त्व(?)न्ययाजमान एवोक्तम् । ब्रीहि भ्यः प्रयोजनभूतेभ्यो गा दीव्यत पणं कुरुतेति कितवानाह । तथा तां गामसंज्ञपय- न्तोऽवयवान्विशसत पृथक्पृथक्कुरुत जीवन्त्या एवाङ्गानि तवेदं ममेदमेवंप्रकारेण विभ. जतेति लक्षणयोच्यते । इदं कर्म राजन्यस्य यजमानस्य । तथैव वैखानसापस्तम्त्राभ्या- - १ क. ख. ग. च. छ. ट. उ. ण. दि हि। २ ग. , ङ. ज. इ. स. ढ, दो मित्रो वरुणो अ। ३२२ सस्याषाढविरचितं श्रोतसूत्रं- [श्तृतीयपने-

मुक्तं सम्यावसथ्याधानाङ्गविषयमिति गम्यते । यत्समायां वि० ते । तेन सो० तः । यदावसथे० प्रीत इति श्रुतेश्च । तदमावे तु नैतत्कर्म ।

कल्पेतां द्यावापृथिवी येऽग्नय इति यथर्तु क्लृप्तिसामनसीभ्यामग्नीनुपतिष्ठते ।

सनता इति प्रथमस्यान्तः । विशन्विति द्वितीयस्य । कृप्तिसामनस्यौ नाम । कथ- मुपस्थानं तत्राऽऽह यथर्तुं यस्मिन्नतावाधानं स एव शैशिरावित्येतत्पदस्थाने प्रयो- क्तव्यः । अन्तरा द्यावापृथिवी वासन्तिकावृतू अभिकल्पमाना इति । अग्नय इति बहुवचनश्रवणादार्हपत्यस्य पश्चादयस्थाय सर्वान्सकृदेवोपतिष्ठते ।

प्रोक्षणप्रभृतीन्याग्नेयस्य कर्माणि प्रतिपद्यते सिद्धꣳ संतिष्ठते ।

सिद्धं प्रकृतौ सिद्धं सतिष्ठते समाप्यते । दक्षिणास्तु याजमाने व्याख्यास्यन्ते ।

पवमानहविभिर्यजते संवत्सर ऋतौ मासेऽर्धमासे द्वादशाहे चतुरहे त्र्यहे द्व्यहे श्वोभूते सद्यो वा ।

यह इत्युक्त्वा पुनः श्वोभूत इति वदता यहे व्यतीत इत्युक्तम् । तद्वत्संवत्सरेऽ- तीत इत्यपि ज्ञेयम् । बौधायनो द्वादशसु व्युष्टास्वित्याह । पवमानसंज्ञकैः । स्पष्टम् ।

सोमेन यक्ष्यमाणस्याऽऽदधानस्य पवमानहविषां सांवत्सरिकः कल्पः ।

सोमपूर्वाधाने तु पूर्वोक्ता विकल्पा न भवन्त्येव किं तु सोमेनेष्ट्वा संवत्सरान्ते पवमानविभिर्यजते । अत्राऽऽपस्तम्बमते विकल्पः-निर्वपेदित्येके यदि निर्वदग्नये पवमानायाग्नये पावकायाग्नथे शुचय इति तिस्त्र आज्याहुतीः सोमदेवताभ्यो वा हुत्वा निषेदिति । प्राक्पवमानहविर्यः सायंप्रातरग्निहोत्रं न होतव्यमिति न्यायविदः सूत्रकृतां मतमिति ।

अग्नये पवमानाय पुरोडाशमष्टाकपालं निर्वपेदग्नये पावकायाग्नये शुचये ।

निपेदष्टाकपालमिति चानुवर्तते ।

समानबर्हिषि नानाबर्हिषि वा ।

बहि:समानत्वेनैकतन्त्रता लक्ष्यते । समानतन्त्राणि नानातन्त्राणि वेत्यर्थः ।

प्रथमं वा निरुप्योत्तरे समस्येद् ।

अग्नये पवमानाय पृथनिरुप्याग्नये पावकायाग्नये शुचये च समस्येत्समानतन्त्रेण निर्वपदित्यर्थः।

आग्नेयेन वाऽष्टाकपालेन समानतन्त्राणि कुर्यात् ।

पूर्वोक्तेन सहैतानि त्रीणि मिलित्वा चत्वार्यपि समानतन्त्राण्येव कुर्यात् । दक्षिणास्तु है ६५०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३२३ यानमाने वक्ष्यन्ते । यदा सद्यः पवमानहवींषि तदाऽऽग्नेयेन समानतन्त्रता नान्यदाऽऽ. मेयस्य कालान्तराभावात् । सिद्धमिष्टिः संतिष्ठते ।

अग्नीषोमीयमेकादशकपालमनुनिर्वपत्याग्नावैष्णव- मेकादशकपालमैन्द्राग्नमेकादशकपालमदित्यै घृते चरुं विष्णवे शिपिविष्टाय त्र्यु( त्र्यृ)द्धौ घृते चरुं सप्तदशाऽऽदित्यस्य सामिधेन्यो भवन्त्यादित्यस्येडाभागं ब्रह्मणे परिहृत्य सर्वे प्राश्नन्ति तथा चातुर्धाकरणिकानि ।

पञ्च हवी५षि समानतन्त्राणि पवमानहविषामनुनिर्वाप्यानि । ब्युद्धौ तिस्त्र द्धयो यस्य पात्रस्य तस्मिन्पात्रे घृते । ऋद्धयः परित उन्नतता । सप्तदश सामिधेन्यो नियताः । पौर्णमासं तन्त्रं मुख्यात्वादयस्त्वाच्च । आदित्यस्य चरोरिडामागप्राशनं पृथ- गेव ब्रह्मणो विधीयत इति । नान्यस्य भक्षणं तदर्थ तत्परिहृत्य पृथगिडायां स्थापयित्वा तथा चतुर्धाकरणमागोऽपि ब्रह्मणे पृथगेव तस्यापि चतुर्धाकरणसमये सर्वमादित्यं ब्रह्मार्थ प्रथम एव भागे निदध्यादिडाप्राशनं तत्सर्वं सहैव सर्वे प्राश्नन्तीति वचनात्काले। अत्र याजमानं व्याख्यायते दक्षिणार्थम् । आग्नेयस्य दक्षिणाकालेऽनं पूर्णपात्रं सार्वसूत्रमश्वं स्थं वासः षट् च गा द्वादश चतुर्विशतिमपरिमिता वा वर्धमाना वा ददाति । पूर्णपात्रमिति रूढः पुष्कलचतुष्टय(लाष्टक) संमितो ब्रीह्यादिः ।

अष्टमुष्टि भवेत्किंचित्किंचिदष्टौ तु पुष्कलम् । पुष्कलैरष्टभिश्चैकः पूर्णपात्र उदीरितः ॥

उपवर्हणमुपधानं तत्सार्वसूत्रमित्यनेकवर्णसूत्रैनियतमुपवर्हणम् । स्पष्टान्यन्यानि । तासां धेनुरनड्वान्मिथुनौ चाऽऽदिष्टरूपाणि । आग्नेयस्य दक्षिणाऽन्वाहार्यस्तत्समये ततः पूर्वमित्यर्थादग्न्याधेयदक्षिणा इति क्रमोऽत एव बौधायनवैखानसौ-आग्नेयस्या. न्वाहार्यमासाद्यान्याधेयस्याऽऽद्वादशभ्यो दक्षिणा ददातीति । तमासादितस्यान्याधेय- दक्षिणाभ्योऽनन्तरं ददातीत्युक्तम् । अवश्यमन्वाहार्यपचनं कार्यमन्यथाऽऽधान- सिद्धिर्न स्यात् । यदन्वाहार्यपचनेऽन्वाहार्य पचन्ति तेन सोऽस्याभीष्टः प्रीत इत्यभि. धानात् । तासां षडादिसंख्यानां गवां मध्ये धेनुर्धयन्ती वत्समथाऽऽकर्षति वर्धमाना इत्युक्तम् । उत्तरोत्तरमुपयोगं गच्छन्तीर्देया इत्युक्तत्वाद्विना वत्सं वर्धमानत्वामावा- ल्लिङ्गं च क्रये नव द्रव्याणि विधाय दश संपद्यन्त इत्याह । तत्र धेन्वा क्रीणातीति वत्सोऽप्यनुकृष्टो विज्ञायते । अनः शकटं तेन वाही बलीवर्दः स्त्रीपुंसौ गावौ मिथुनौ

१ ख. त्र्यद्धौ। ३२४ सत्याषाढविरचितं श्रौतसूत्र- [३ तृतीयपने-

चत्वार्यतानि तु या गायः षडादिसंख्याकाः स्वरूपमात्रेणोक्तास्तास्वेव चतस्रो निर्दिष्ट. रूपा ब्राह्मणेन तु ताभ्योऽन्या ब्राह्मणे निर्दिष्टरूपाः । अयमाशयः- -ब्राह्मणे ह्या द्वादशभ्यो ददाति काममूर्ष देयमिति श्रूयते तत्रानादिवासोन्तानि पग्निर्दिष्टरूपाणि धेनुर होत्र इत्यादिना धेनुरनड्वांश्च निर्दिष्टौ तथा मिथूनौ ददातोति चत्वारि वस्तूनि । तथा च दश संपन्नानि । तत्र षड्नदातीति श्रूयते तत्रता दशम्योऽधिका अपि त्वादि- ष्टरूपा एव चतन्नः घण्णां मध्ये द्वे अनादिष्टरूपे । तस्माद्राह्मणे द्वादशपूरणार्ये ज्ञेये काममूत्रमिति तु सति वैभवेऽधिकं तस्यैव व्याख्यानं शाखान्तरे द्वादशेत्यादि. करुपेन ता अपि चतस्रो नित्या एवान्या वैकल्पिक्य इति । अर्न पूर्णपात्रमुप- बर्हणमग्नीधे ददात्यश्वं ब्रह्मणे धेर्नु हो। गार्हपत्यदेशेऽनड्वाहमाहवनीयदेशेऽध्वर्यवे शेषो यः स साधारणस्त्रिंशन्माने पूर्वयोः पवमानहविषोहिरण्यं दक्षिणां ददाति । चत्वारिंशन्मानमुत्तमे, अनुनिर्वाप्येषु प्रभूतान्याहार्यो धेनुमादित्ये, एता दक्षिणा ददाति । अत्राऽऽपस्तम्बः-अनादयोऽमीनादधीत काममेकां दद्यात्सा सर्वासां गा प्रत्या- नायो भवतीति । वैखानसस्तु सर्वदक्षिणानां प्रत्यासाय इत्याह । अग्न्याधेयदाक्ष- णानामेवाऽऽमेयेऽन्वाहार्यः पवमानहविष्षु पुरोक्ता एवाऽऽदित्ये चान्येषामन्याहार्य इति ज्ञेयम् । त्रिंशन्मानं [नि]यतादिमिस्त्रिंशता मितसुवर्ण पवमानहविषां तत्र शत- मानमेकं शास्त्रान्तरे दृष्टम् ॥ इत्याधानं समाप्तम् ॥ अथामिहोत्रारम्भः । यजमानः सपत्नीकः प्राणानायम्याग्निहोत्रमारप्स्थमानो दशहोतारं सग्रहं होण्यामीति संकरप्याग्निहोत्रापूर्वादन्यापूर्वप्रयुक्तत्वात् । आलप्स्यमान इति भविष्यकालमग्निहोत्रस्य निर्देशाइशहोतृहोमानन्तरमग्निहोत्रसंकल्प इति ज्ञेयम् । दुत्वाऽग्निहोत्रं सायंप्राताध्यामि यावजीवमिति संकल्पः । सत्यां कामनायां स्वर्ग- कामः पत्नी स्वर्गकामेत्यधिक न वाऽत्र त्रिंशद्वर्षादिविधानं यथा दर्शपूर्णमासयोर्वन- स्थाऽपि तु यस्प्रनजिते निवृत्तिरनधिकारा यथा विधुरे पल्यर्थ प्रबजिते च पत्नी पात्राणि सर्वाण्यरणी च विभृयाद्यावज्जीवम् । कर्मादिष्वेतैर्जुहुयादिति श्रुतेर्भाष्यकार- वचनाचाऽऽहवनीये कूष्माण्डहोमः ।

अग्निहोत्रमारप्स्यमानो दशहोतारं मनसाऽनुद्रुत्य सग्रहꣳ हुत्वा सायमग्निहोत्रस्याऽऽवृता मन्त्रेण सायमग्निहोत्रं जुहोति व्याहृतीभिः प्रथ- ममग्निहोत्रमुपसादयति तथा संवत्सरे ।। १२ ।।

वक्तव्यमन्ययाजमाने वक्ष्यति तथाऽपि पावमानेष्टीना सानुनिर्वाप्याणां समाप्त्य. नन्तरमग्निहोत्रारम्मो मन्त्रेणेति च द्वयं विधातुं प्रथमारम्भेऽपि काममन्यो जुहुयादिति वक्ष्यमाणत्वादावर्यवे पाठः । उद्धरणपक्षेऽपि द्वादश रात्री(ध्वेवामिषु होम इति ५५०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३२५ वक्ष्यमाणत्वान्नानुगमनं नोद्धरणं च पवमानहविषां व्यवधानपक्षेऽपि यावदग्निहो. प्रारम्भस्तावदनम्राणामेव धारणमाश्वपदिक एव द्वादश रात्रीोमविधानापरिसमाप्ते चाऽऽधाने मध्येऽग्निधारणमेव यागमध्येऽनुगमने प्रायश्चित्तं प्राप्नोत्येवेत्युक्तम् । ततो द्वादश रात्रीः सायंप्रातोमार्थमपि धारणमिति निर्णय आश्वपदिक एव प्रथमाग्निहो- अस्याऽऽरम्भविधानादविशेषेण सोमाधानेऽवभृथानन्तरं तस्मिन्नेवाग्नावग्निहोत्रारम्भ इष्टि- पूर्वाधानेऽप्यनन्तरमिष्टेः प्रतिपदि रात्रावारम्भः । अग्निहोत्रमारप्स्यमानः सेट्याधाना- नन्तरं रात्रौ चित्तिः गिति मनसोक्त्वा वाचस्पत इति ग्रहमश्रेण सह यथा भवति तथा स्वाहान्तेन दविहोमधर्मेण जुहोति सायमग्निहोत्रस्याऽऽवृता विधिना वक्ष्यमाणे. नेत्यर्थः । मन्त्रेणेति वचनं पूर्व पवमानहविषां तूष्णीमग्निहोत्रं होतव्यमग्निहोत्रं३ ने होतव्यमित्युपक्रम्य तूष्णीमेव होतव्यमिति श्रुतेः । तथा च कात्यायन:-अग्निहोत्रं तूष्णीं श्रुतेरिति । तथा प्रारम्भानन्तरं मा भूदिति मन्त्रग्रहणेन ज्ञापितं प्रथमं सायम- ग्निहोत्रमुपक्रम्यते न प्रातरारम्भ इत्यर्थः। तिसृमिाहतीभिः सायमग्निहोत्रद्रव्यं पश्चा- दाहवनीयमुपसाद्यते । आयुर्मे यच्छेत्येतस्य स्थाने व्याहृतीभिरुपसादयेत् । संवत्सर- स्यान्ते यस्यां तिथौ रात्रावग्निहोत्रारम्भस्तस्यां तिथौ प्रातरग्निहोत्रेऽपि व्याहृतीभिरेवो. पसादनम् । संवत्सरे पर्यागत एताभिरवोपसादयेद्ब्रह्मणैवोमयतः संवत्सरं परिगृह्णातीति संवत्सरस्याऽऽद्यन्तयोर्विधानमुपसादनस्येति वक्तुं परीत्युक्तं तथा च संवत्सरान्तेऽन्ति- मेऽग्निहोत्र इत्यर्थः । सायंप्रातःकालसाध्याग्निहोत्रस्यैकप्रयोगत्वायत्र तिथौ सायमा- रब्धं तस्यामेव प्रातः सांवत्सरिकप्रयोगसमाप्तिस्ततः सायंप्रभृति द्वितीयसंवत्सरारम्म इति ज्ञेयम् । विशेषस्तु याजमाने वक्ष्यते ।

अथ दर्शपूर्णमासयोरारम्भः।

अत्रापि कामनायां पूर्ववदेव संकल्पोऽन्यदा तु दर्शपूर्णमासाभ्यां यक्ष्ये त्रिशतं वर्षाणि यावज्जरसं यावज्जीपमिति वा संकल्पोऽङ्गीकृतस्त्रिंशदादिपर्यक्ष्ये दाक्षायण- यज्ञेन चेत्पञ्चदशेत्यपि ज्ञेयम् ।

दर्शपूर्णमासावारभमाणः पूर्वस्य पर्वण औपवसथ्येऽहनि चतुर्होतारं मनसाऽनुद्रुत्य सग्रहꣳ हुत्वा पूर्णा पश्चाद्यत्ते देवा अदधुरिति सारस्वतौ होमौ हुत्वा ।

आरम्भोऽत्र पञ्चदश्यां भवितेति पूर्वेधुरारममाण इति वचनात्संकल्पेनाऽऽरम्मे सतीति ज्ञेयम् । तथा चाऽऽदौ दर्शपूर्णमाससंकल्पहोमादिकर्म तदर्थ च पुनः संकल्प आरममाणे होण्यामीत्यादि पूर्व पर्व पञ्चदशी प्रतिपदोऽपि पर्वत्वात्पूर्वस्येत्युक्तं तस्या औपवसथ्यमहश्चतुर्दशी तस्यामित्यर्थः । औपवसथ्यं यद्यप्यन्वाधानदिनं तथाऽपि तेन पूर्वदिन लक्षणयोच्यते । पञ्चदश्याः पूर्वदिन इत्येव वक्तव्ये पर्वग्रहणं यागकाल- ना ३२६ सत्याषाढविरचितं श्रौतसूत्र- [ ३ तृतीयप्रश्ने- प्रदर्शनार्थममावास्यानिवृत्तिस्तु पूर्वा पौर्णमास्युत्तराऽमावास्येति पूर्णमास्यामेवाऽऽरम्म- सिद्धेरारम्भाङ्गत्वेन चतुर्होतारमित्यादि पूर्ववत् । पूर्णा पश्चादिति द्वे चौ ताभ्यां द्विगृहीत्वा जुहोति तौ पार्वणी होमी पर्वदेवताकमन्त्रसाधनत्वात् ।

अन्वारम्भणीयामिष्टिं निर्वपति ।

हुत्वा निर्वपतीति वचनाद्धोतृहोमपार्वणहोमयोरन्वारम्भणीयाङ्गत्वमुक्तमिति भाति तत्र दर्शपूर्णमासावारममाण इत्येव सर्वत्र संबध्यतेऽन्यथा होमयोरपि परस्परमङ्गाङ्गि- भावः स्याद्धोमाविष्टिरन्वारम्भणीया चाऽऽरम्भाङ्गमेवेष्यते । दर्शपूर्णमासावारभंमाण इति चतुर्होतार सारस्वतौ होमौ पुरस्ताज्जुहुयादिति । तथाऽऽग्नावैष्णवमेकादश. कपालं पुरस्तानिपेदिति प्रत्येक दर्शपूर्णमासप्राग्भावितावगमात्तेन प्रत्येकमग्न्युद्धरण यद्याश्वपदिके द्वादश रात्रीोमः समाप्तो होमपूर्वाधाने । तथा सोमपूर्वाधान पवमानह- विःषु जातेष्वनन्तरं द्वादश रात्रीरजस्लेष्वेव होमे सति प्रत्येकमुद्धरणं यदि न होमानां समाप्तिरथ मध्ये घेत्पौर्णमासी तदाऽप्यजनेष्वेवान्वारम्भणीयादिकमिति ज्ञेयम् । ध्यारूपातृभिः कैश्चिदन्यथाऽपि किंचियाख्यातं तद्दूषणे विलम्बभियोपरम्यते । अन्वा- रम्भणीयामिष्टिमन्वार येते प्रारम्यते संस्तूयेते दर्शपूर्णमासौ यनमानाय यया साऽन्वा- रम्भणीया तां निर्वपात करोति ।

आग्नावैष्णवमेकादशकपालꣳ सरस्वत्यै चरुम् सरस्वते द्वादशकपालमग्नये भगिनेऽष्टाकपालं यः कामयेत भग्यन्नादः स्यामिति नित्यवदेके भगिने समामनन्ति ।

अयं सत्यां कामनायां कार्योऽन्यदा विकल्पः । स्पष्टमन्यत् ।

पुरस्तात्स्विष्टकृतश्चित्तं च स्वाहा चित्तिश्च स्वाहेति द्वादशगृहीतेन द्वादश जयाञ्जुहोति ।

गणहोमे यावदाहुतिग्रहणे प्राप्तेऽपि पुनर्वचनं परिसंख्यार्थ त्रयोदश ग्रह्णानि मा भूवन्निति । नयनामकानुपहोमान्दविहोमधर्मेण । न समित्परिस्तरणपरिषेकास्तत्रान्त. गंतत्वात् ।

प्रजापतिर्जयानिन्द्रायेति त्रयोदशीम् ।

पृश्ग्गृहीतेन होम इत्येवमर्थमारम्भः । एतदाज्यं स्थालीगतमिति भाष्यकृतोक्तं मन्त्रापूर्वदर्विहोमत्वेन तूष्णीकं प्राप्तं तदर्थवादः (१) प्रसङ्गप्राप्तेन स्थालीगतेन क्रियत इत्यभिप्रायः । आहवनीय आज्या ध्रुवाया इति परिभाषितं तत्तु दर्शपूर्णमासतन्त्र एव । उपहोमत्वेन च नारिछसाम्यं च ध्रुवायामेव ग्राह्यम् ।

अग्ने बलद सह ओज आक्रममाणाय मेऽदाः । अभिशस्तिकृतेऽनभिशस्तेनयायास्यै जनतायै श्रेष्ठ्यायेति चतुर्दशीं यां जनतां द्वि१५०पटळः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३२७.

ष्याच्चि(च्छ्रि)त्रं तस्यां जनताया भवत्विति शबलमिव तस्याऽऽत्मञ्जायते ।

काम्या चतुर्दश्याहुतियां जनता जनसमुदायं द्विण्याद्यजमानश्चि(नः श्वि)त्रं कुष्ठं तस्यां भवत्विति यजमानेन संकल्पे कृते चतुर्दशी जुहोतीत्यन्वयः । तस्य फलं शबल. मिव श्वैत्यमिव जायते तस्याऽऽत्मनि द्वेष्यस्याऽऽत्मनि मुख इति फलम् ।

अपि वा नान्वारम्भणीयां कुर्वीताऽऽग्नेयमष्टाकपालं निर्वपेत् ।

अन्वारम्मणीयास्थाने विकल्पः । अत्रापि दर्शपूर्णमासावारप्स्यमान इत्येव । नन्वि- यमप्यारम्भप्रयुक्ताऽन्वारम्भणीयैवेति कथं नान्वारम्भणीयां कुर्वीतेति । सत्यम् । अन्वा- रम्भणीयाभिन्नाऽऽग्नेयी तु दर्शपूर्णमासावारप्स्यमानेन क्रियमाणाऽऽरम्भणीयैव । ननु को विशेषः । अस्ति विशेषः । आधानादनन्तरमेव प्रारम्भार्थ क्रियते साऽन्वारम्भ- णीया । या विष्टिमध्ये होमं कृत्वाऽऽरभ्यते साऽऽधानादनु न भवतीति नान्वारम्भ- णीया । कुत एतत् । उत्तरसूत्रपालोचनयेति ब्रूमः । अत्रापि तावत्सूत्रे मान्वारम्भ- णीयां कुर्वीतेति न वक्तव्यं किंतु भगिने समामनन्तीत्युक्त्वाऽऽग्नेयमेवाष्टाकपालं निर्व- पेदित्येव वक्तव्यं तथा सति लाघवं स्यात् । एवं च सत्याग्नेयेऽप्युपहोमाश्चित्तमित्या- दिकाः स्युः । एवं सत्यपि गुरुनिर्देशेनाऽऽग्नेये संज्ञयोपहोमा मा भूवन्निति तां संज्ञामपि निवारयन्नाहापि वा नान्वारम्भणीयां कुर्वीतेति । ननु ताग्नेये दर्शपूर्णमासा. वारममाण इति विप्रकृष्टमसंबद्धं व्यवहितं च किमर्थमन्वेत्विति चेत्सत्यम् । तदेय- माग्नेयी निरधिकारा सती केनान्वेतु कल्पनीयमेतस्यां भवेत् । असमाप्तं च दर्शपूर्णमा. सारम्भप्रकरणमतो दर्शपूर्णमासावारभमाण इत्येवं संबध्यते तेनैव सूत्रेण सहाऽऽग्नेयम- टाकपालं निर्वपेदमावास्यायामादधानस्यैतदेविकृतम् । अमावास्याधान आग्नेय्येषा नत्वविशेषेण प्राप्ताऽन्वारम्भणीया साऽमावास्यायामपि वेति सूत्रेण प्रतिषिद्धा प्राप्ति- निवारणेनैव । तथा च पौर्णमास्याधाने विकल्पं वक्तुमुक्तमपि वेति स विकल्पोऽमावा. स्यायामपि प्रसज्येत तदर्थमुक्तमेतदविकृतमिति । अमावास्यायामेवाऽऽधाने कृते पञ्च- दश्यामेव पवमानेष्टिसमाप्तिरागामिपौर्णमास्याः पूर्वदिने चतुर्दश्यामाग्नेय्येव नान्वारम्भ. णीया । अथवोत्तरसूत्रे सेष्ट्यपवृज्य तदानीमेव सारस्वतौ होमावन्वारम्भणीयां च कुरुत इति पुनर्विधानमन्वारम्भणीयायाः पौर्णिमाधाने नियमो न विकल्पस्तेन पौर्णमास्याम- न्वारम्मणीयैवामावास्यायां त्वाग्नेय्येवेति सिद्धम् । न चैतत्कल्पनामात्रमित्यनादरणीयम् । वैखानसेन तथैवाभिधानात्-अमावास्यायामादधानस्य नावारम्भणीयाऽऽग्नेयमष्टाक- पालं निपेदिति । इदमप्येकं विचार्यते-एते इष्टी किं विकृत्यङ्गत्वेनातिदेशेन प्राप्नुतो १ क. ग. च, द. ण, दधिकृ । ३२८ सत्याषाढविरचितं श्रौतसूत्रं- [३ तृतीयप्र-

न वा । तदर्थ विचार्य कीदृश्यङ्गतेति । केचिदाहुः-इयं यावजीवादिपौरनुष्ठीयमान- स्याङ्क तदा तत्कालमध्यपतितत्वाद्विकृतीनां प्रसझेनोपकुर्वत्यौ न पुनस्तदर्थत्वेनानुष्ठेपे इति । तत्र यावजीवता कर्तृधर्म इति मते तु न कालस्य यावजीवनोपलक्षितस्यान त्वेन विधानम् । कालो हि दर्शपूर्णमासाख्य एवागत्वेन विधीयते स तु प्रतिपर्व समा- प्यत इति न प्रसङ्गसिद्धिः । तार्ह प्रामुतां न प्राप्नुतः । कुत एते इष्टी अनारम्याधी- 1 तेन वाक्येन दर्शपूर्णमासावारममाण इत्यनेन प्राप्नुतः सूत्रे समुदायानुवादासमुदा- यानं वैमृधवत् । न च समुदायाङ्गातिदेशः कुत्रचिदस्ति । विकृतिर्हि प्रत्येकमानेया. दिप्रकृतीनां मध्ये यस्यैवाकजातं चोदकेन गृह्णात्यन्यथा वैमृधोऽपि पौर्णमासविकारेषु प्रामुयात्तस्मान्न समुदायाङ्गमतिदिश्यते । वक्ष्यति चैकैकस्यैवामित्यतिदेशविचार इति समुदायरूपप्रकृतेरसंमवात् । किं चेमे यदि प्रयोगाङ्गे स्यातां प्रतिप्रयोगमावर्तेयातां न चैवमस्ति तत्कस्य हेतोः प्रथमस्यैव प्रयोगस्य पूर्वपावित्वमात्रेण सकलप्रयोगाङ्गत्वेन प्राप्तत्वात् । कथम् । संज्ञयेति ब्रूमः । अन्वारम्भणीयारम्भणीययोः संज्ञयोरादेव । न च पशावपि तथा स्यादिति तत्र पाविष्टिरूभयतोऽन्यतरतो वेति बाव॒चसूत्रे पश्व- गत्वमात्रश्रवणात्स्वयमपि वक्ष्यति पश्विष्टिश्च नेति । पशोरेवागं नाऽऽरम्मात्पूर्वभा- वितया सर्वप्रयोगाङ्गमिदमेव मनसि निधाय प्रयत्नो न कृतो निराकरणार्य सूत्रकारे- ण विकृतिषु प्राप्तेरमा मन्यमानेन । किंच ज्ञापकमप्यस्ति यत्र प्राप्तिरभूत्तत्रोक्तमेवा. गभूतेषु पशुषु षड्ढोता पश्चिष्टिश्च न विद्यते । तत्र प्राप्ति दर्शयितुं पश्विष्टिरित्युक्तम् । तत इष्टिम्वपि यदि प्राप्तिः स्याद्वदेदेव नाङ्भूतास्विष्टिवन्वारम्भणायेति ।

अमावास्यायामादधानस्यैतदविकृतम् ।

यदुक्तमाधान तदमावास्थायामविकृतं यथोकं तत्तथैव । अमावास्यायामाधानं कृत्वा तस्मिन्नेव दिवसे सेट्यपवर्ग इत्यर्थः । नक्षत्राधानस्याप्युपलक्षणं तत्रापि यस्मिन्नक्षत्रे प्रातरादधीत तस्मिन्नेव दिने सेष्टिसमाप्तिराधानस्य । एतद्यदि पवमानहवींषि तदैव निर्वपेन्नो चेत्तद्विनैवाऽऽग्नेयं कृत्वा विरमेदिति पक्षस्तु नक्षत्रामावास्याधाने ।

पौर्णमास्यां तु पूर्वस्य पर्वण औपवसथ्येऽहन्यग्नीनाधाय सेष्ट्यपवृज्य ।

पूर्वस्य पर्वणः पौर्णमास्या औपवमध्येऽहनि चतुर्दश्यां प्रातराधानं सेष्टि समाति नीत्वा तस्मिन्नेव दिने ।

तदानीमेव चतुर्होतारं सारस्वतौ होमावन्वारम्भणीयां च कुरुते ।

चतुर्दश्यामेव सर्व कुरुते । चतुर्होतारं चतु)तृहोमम् ।

क ग. उ. प. वास्याङ्ग । २ ख. च, छ, ट, वृच्य। देप०पटलः] ' महादेवकृतवैजयन्तींव्याख्यासमेतम् ।

श्वोभूते पौर्णमासेन यजते व्याहृतीभिर्हवीꣳष्यासादयति तथा संवत्सरे ।। १३ ।।

इति हिरण्यकेशिसूत्रे तृतीयप्रश्ने पञ्चमः पटलः ।

श्वोभूतेऽन्वाधानादि प्रतिपदि यनते तत्र वेद्यां हपिरासादनं कुर्यात्तथा संवत्सर- समाप्तिर्यस्याममावास्यायां तस्यामपि व्याहृतीभिरासादनमितःपरं संवत्सरान्तरे न वीप्साया अश्रवणात् । इति सत्याषाढहिरण्यकेशिसूत्रव्याख्यायां महादेवकृतायां प्रयोग- वैजयन्त्यां तृतीयप्रश्ने पञ्चमः पटलः ॥ ५ ॥


3.6 अथ षष्ठः पटलः ।

चतुर्भिः पटलैरुक्तमाधानमधुनोच्यते । पुनराधानमकेनाथाग्निहोत्रं द्वयेन च ॥

पुनराधेयं व्याख्यास्यामस्तस्याग्न्याधेयेन कल्पो व्याख्यातः ।

पुनरनयो येन कर्मणाऽऽधीयन्ते तत्पुनराधेयमग्न्याधेयं तु पूर्वोक्तं तस्य विकारः। वक्ष्यति ह्याग्न्यायिकीर्दवा पुनराधेयिकोदक्षिणा ददातीति । सत्येवाग्न्याधयत्वे गुणेन विकृतं पुनराधेयमतस्तेन कल्प इतिकर्तव्यता व्याख्यातेत्यर्थः ।

अग्नीनाधायैतस्मिन्संवत्सरे ज्यानिं पुत्रमर्त्यां वाऽभ्येति स्वेन वाऽङ्गेन विरुध्यते न वर्ध्नोति स पुनराधेयं कुर्वीत ।

ज्यानिहा॑निद्रव्यादेः पुत्रमरणं वेति स्वीयेन वाऽङ्गेन विरुध्यते विरोधं गच्छति स्वाङ्गविकलो भवति न वा समृद्धिमधिको प्राप्नोति । एतेषामन्यतमस्मिनि(मे निमित्ते प्रथमसंवत्सरमध्ये सति पुनराधेयं कुर्वीत । आपस्तम्बेनोक्तं प्रनाकामः पशुकामो वेति कामनायां यदा कदाऽपीति । भरद्वाजस्तु यावज्जीव पुनराधेयस्य कालो नात्ये- तीत्याश्मरथ्यः संवत्सर इत्यालेखन इति कदाऽपीति ।

पौर्णमास्येष्ट्वाऽमावास्यायामाग्नेयमष्टाकपालं निर्वपेद्वैश्वानरं द्वादशकपालमग्निमुद्वासयिष्यन्नित्येकेषाम् ।

वैश्वानरगुणविशिष्टोऽस्याग्निर्देवता ।

१ घ. ङ. ज.श. व. द. मासी य° । २ घ. ह. ज. झ. य. 3. वाऽन्वेति। क.ग. ट, तरस्मि । ४ के. ख. ग. छ.ट. 8. वास्यया वाड:मे। ३३० सत्याषाढविरचितं श्रौतसूत्र- [तृतीयप्रभे-

अग्नीषोमीयमेकादशकपालमनुनिर्वपेदग्नयेऽप्सुमतेऽष्टाकपालं मैत्रं चरुम् ।

निर्वपैदाग्निमुद्बासयिष्यनुद्वासननिमित्तवैश्वानरस्य स्वशाखीय वाक्यं पठितं तत्र हे एव हविषी इत्यर्थः । एकेषामेकस्यां शाखायां परस्यां सर्वाणि पञ्चेत्यर्थः ।

पुरस्तात्स्विष्टकृतो या ते अग्न उत्सीदतः पवमाना पशुषु प्रिया तनूस्तया सह पृथिवीमाविश रथंतरेण साम्ना गायत्रेण छन्दसा ततो नो मह आवह या ते अग्ने पावका या मनसा प्रेयसी प्रिया तनूस्तया सहान्तरिक्षमाविश वामदेव्येन साम्ना त्रैष्टुभेन छन्दसा ततो न ऊर्जमा कृधि गृहमेधीयं च वर्धय या ते अग्ने सृर्ये शुचिः प्रिया तनूस्तया सह दिवमाविश बृहता साम्ना जागतेन छन्दसा ततो नो वृष्ट्याऽवधि यास्ते अग्ने विभक्तीरिन्द्र सूकर आभर तासु शोचिषु सीदेह भस्म वैश्वानरस्य यत् । यास्ते अग्ने कामदुघा विभक्तीरनुसंभृताः। ताभिर्नः कामान्धुक्ष्वेह प्रजां पुष्टिमथो धनम् । ये ते अग्ने वानस्पत्याः संभाराः संभृताः सह तेभिर्गच्छ वनस्पतीन्स्वां योनिं यथातथम् । अगन्नग्निर्यथा लोकमसदत्सदने स्वे । अवीरहत्यं देवेषूपागां मनसा सहेति सप्ताऽऽहुतीर्हुत्वा ज्वलतोऽग्नीनवसृजति यावद्दर्शपूर्णमासावभिष्टुतौ तावच्चिरमवसृष्टाग्निर्भवति ।। १४ ।। संवत्सरं द्वादशाहं वा ।

निमित्तानन्तरं यत्पर्व तनेष्ट्वाऽनन्तरं प्रतिपदि योत्सर्गेष्टिस्तस्याः स्विष्टकृतः पूर्व सप्ताऽऽहुताईत्वा - संस्थाप्योष्टिं प्रदीप्तानग्नीनवसृजत्युद्वासयन्तीत्यर्थः । उद्वास्य पुन- रादधीतेतिश्रुतेः , उद्वासयिष्यन्निति च श्रुतेः । अवस्नति विसजति । यदर्थतयाss- हितास्तत्संबन्ध विमोच्य स्वस्य निनं स्थानं यत आगतास्तत्र प्रापणं देवपूजादौ विसर्जनं दृश्यते तत्करोतीत्यर्थोऽवगम्यते । वर्षात शरदि वा पुनराधेयकालस्तावत्पर्य- न्तमवमृष्टाग्निर्मवतीति वक्तव्ये यावद्दर्शपूर्णमासावित्यायुक्तं तत्तु वर्षासु कस्मिन्नपि पर्वणि रोहिण्यादिनक्षत्रत्रयान्यतरस्मिन्या स्वेच्छया पुनराधानमिति मा भूकिंतु सौरेण चान्द्रेण वा मानेन वर्षौ प्रवृत्तं यत्प्रथम पर्व तत्र नित्येष्टेलोपो मा भूदिति । तत्र वर्षौ प्रवृत्ते यदि पुनराधेयनक्षत्रं स्यात्तदैव पुनराधेयं कार्यं नो चेत्प्रथमपर्वण्येव पञ्चदश्यामेव । ततः पूर्व शक्त्यनुसारेण कमपि पक्षमाश्रित्य ब्रह्मौदनं प्रथमं श्रपयित्वा ततः श्व

१५. च. ढ, मेखि च । २ इ. ज. स. भिहिती । न. "भिहतीन ६५०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

आधास्यमानो नक्षत्रात्पूर्वदिने द्वितीयं ततो नक्षत्रे पुनराधेयं कार्य कृत्वा ततो नित्ये. ष्टिरित्यर्थः । तत्रावधिरुक्तः संवत्सरमिति । तत्र 'संवत्सरपर्यन्तमवसृष्टामिरिति न विधीयते किं तु संवत्सरं परं नावसृजेदित्यर्थः । तदाहाऽऽपस्तम्बः-संवत्सरं परार्धमु. न्सृष्टाग्निर्भवतीति । परं परोऽवधिरित्यर्थः । तदा शरदनन्तरं निमित्ते सति चोत्सर्गे कृते यावद्वर्ष रागच्छति तावदवसृष्टानिस्ततः परं पूर्ववत् । दैवान्मानुषाद्वा प्रथमपर्वात्यये सति उत्सर्गेष्टि पर्वणोऽनन्तरं यावत्रयोदशो मासो न प्रवर्तते ततः पूर्वमेव पुनराधेयम् । तदतिक्रमे प्रायश्चित्तमग्नित्यागनिमित्तमित्यर्थः । वर्षौ शरदि वा निमित्तेनोत्सर्गे दैवान्मानुषाद्वा पुनराधेयस्य त्योत्वोरसंभवेऽपि द्वादशमासातिक्रमो न कार्यः । कृते प्रायश्चित्तमित्यपि ज्ञेयम् । द्वादशाहं वेत्यनेन निमित्तानन्तरपर्वण्येवोत्सर्गेष्टिरिति न, किंतु वर्षोः प्रथमपर्वणः पूर्व पुनराधेयनक्षत्रे प्राप्ले सति ततः पूर्व द्वादशदिनमध्य- एव पर्वणि पूर्ववदुत्सृज्य नक्षत्रे पुनराधेयं ततः पूर्वं नित्येष्ट्यादिक कार्यमेवेति मतान्तरं दर्शिलमिति ज्ञेयम् । एवं च शरदि प्राप्तेन निमित्तेन पुनराधेयप्राप्ती शरदन्तिमे पर्वणि नित्येष्टिपूर्वकमुत्सर्गोष्टिं कृत्वा तदैव प्रतिपदि रात्रौ ब्रह्मौदनद्वयं विधाय द्वितीयायां पुनराधानं तदपि प्रतिपापक्रमाद्भवत्येव पर्वाधानम् । तदिदं स्पष्टं बौधायनकात्यायनवैखानसैरुक्तम्-'तदानीभेव वाऽद्भिरग्नीनभ्युक्ष्य ब्रह्मौदनं श्रपयि- त्वोपवसति' इति । श्व आधानमित्यर्थः । एतेषां पक्ष एक एव ब्रह्मौदनः सद्यस्काले । अयं तैः सर्वपक्षर्विकल्प उक्तः स संकोचे व्याख्यातः । यत्तु निमित्तानन्तरमेवेत्यना. दृतं तदा तावन्नित्येष्टयादि निमित्तानन्तरं कृत्वा ततो वर्षर्तुप्रवृत्ती पर्वणः पूर्व नक्षत्रं न लम्यते तदा प्रथमपर्वण्येव नित्येष्टयुत्सर्गेष्टी कृत्वा तदैव ब्रह्मौदनादि पूर्ववज्ज्ञेयम् । अयमपि पक्षो द्वादशाहं वेत्येवं वदता सूत्रकृताऽप्यनुज्ञात एवं निवेदितव्यम् । श्लोकाः-अरण्यादिप्रणाशेन वह्नीनां नाश आमते । तस्मध्ये पुनराधेयनिमित्ते सति चाऽऽगते ॥ १॥ प्रायश्चित्ताधानतोऽग्नीनुत्पाद्य तदनन्तरम् । पुनराधेयविधिना कुर्यादुत्सर्गपूर्वकम् ॥ २ ॥ एवं च पुनराधाननिमित्ते सति केनचित् । निमित्तेनाग्निनाशे प्रायश्चित्ताधानमिष्यते ॥३॥ ततस्तु पुनराधानं कुर्यादुत्सर्गपूर्वकम् । नाशे सति तु वदीनामृत्सर्गेष्टिः क्व वा भवेत् ॥ ४ ॥ तस्यामनुष्ठितायां तु पुनराधानमिष्यते । उद्वास्य पुनराधेय इति श्रुत्या विधीयते ॥ ५ ॥ उद्वासनोपलक्ष्यश्चोद्वासनेष्टिरिहोच्यते । उद्वासनं चेष्टिपूर्व द्वे अङ्गे पुनराहितेः ॥ ६ ॥ ... ३३२ सत्याषादविरचितं श्रौतसूत्र- [ ३ तृतीयप्रश्ने-

इष्टिः पुरुषसंस्कारश्चार्थवादाद्धि गम्यते । तथा च संस्कृतः कुर्यात्पुनराधानमेष वै ॥ ७ ॥ उवासनं तु वदीनां संस्कृतिर्न तु नाशनम् । इष्टयर्थयरिङ्ग सत्प्रतिपत्तिर्यतो विधिः ॥ ८ ॥ उदास्येतिल्यपोद्वासः पुनराधान एव हि । अङ्गमुक्तस्ततोऽनीनां संस्कार; परिकीर्तितः ॥९॥ न बोद्वासनतो नष्टेष्वग्निषु क्व च संस्कृतिः । उच्यते म हि नाशोऽयमुद्रासनमुदीर्यताम् ॥ १० ॥ किं तु क्रियाङ्गतां तेषां विसृज्य खस्खयोनिषु । स्थापन शक्तिरूपेण पृथिव्यादिषु सत्विह ॥ ११ ॥ या ते अग्न एवमुक्तहोममन्त्रैः प्रतीयते । स्थापितानां पुनः पूर्वावस्थया स्थापनाय हि ॥ १२ ॥ प्रत्यक्षेण स्वरूपेण पुनराधानमिष्यते । न चैवं पुनराधेयं प्रायश्चित्तार्थमिष्यते ॥ १३ ॥ अग्निनाशे सतीष्टं तत्रोत्सर्गो हि निवर्तते । द्वाराभावात्ततो ह्येतदतिदिष्टं यथोचितः ॥ १४ ॥ अझैरेवोपसंहार्य न नक्षत्रर्तुमिः सह । अन्याधेयातिदेशोऽयं यथा नर्सतुभिः सह ॥ ११ ॥ तस्मादाधानमेवान्याधेयं मुख्यं ततोऽन्यथा । गौणं तथैव पुनराधानं नैमित्तिकात्पृथक् ॥ प्रायश्चित्ततया नियमाणं तद्धर्मलाभतः ॥ १६ ॥ इदानी प्रायश्चित्तेषु यत्र पुनराधेयमिति नामधेयं श्रूयते तत्रैव पुनराधेयधर्मकं प्राय- श्चित्ताधार्न यत्राग्न्याधेयमिति कर्मनामधेयेन विधिस्तत्राग्न्याधेयधर्मकमेव प्रायश्चित्ता- धानमिति नामभ्यां विध्योर्व्यवस्था । यत्र न नामधेयं तत्र पुनरादधीतेत्येवमादि यत्र क्रियापदमात्रं तत्रापि पुनराधानधर्मकमेव प्रायश्चित्ताधानं पुनःशब्दे विद्यमाने प्रत्यभि- ज्ञानात्पुनःशब्दे त्वविद्यमाने च पुनरविकृतमाधानमेवाऽऽधीतेत्यस्मात्प्रतीयत इति तद्धर्मकं प्रायश्चित्ताधानमिति व्यवस्था। प्रकृतमनुसरामः-

रोहिणी पुनर्वसू अनूराधाश्च पुनराधेयनक्षत्राणि ।

एष्वेव नक्षत्रेषु पुनराधानं नान्यत्र । प्रायश्चित्ताधाने तु न नियमः, निमित्तानन्तर मेव क्रियमाणत्वात् । ६ष०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३३३

वर्षासु शरदि वाऽऽधत्ते ।

वसन्तादीनां बाधः । बौधायनेनोक्ता येयमाषाढ्याः पौर्णमास्याः पुरस्तादमावास्या भवति सा सकृत्संवत्सरस्य पुनर्वसुभ्यां संपद्यत इति ।

सर्वान्मध्यंदिने ।

पूर्वोक्तेऽ|दित इत्यादिकालः प्रत्यपोद्यते । सर्वग्रहणमापस्तम्बेन गार्हपत्ये यथाका. लतोक्ता सा मा भूत्सर्वेषां मध्यंदिन एवाऽऽधानमष्टमे मुहर्ते पञ्चदशधा विभक्तस्याः पश्चधा वा नवधा वा मध्यमे भागे।

कृताकृताः संभाराः।

कृताश्चाकृताश्च विकल्पिता इत्यर्थः । अत्र ब्राह्मणेन संभृत्याः संमारा न यजुः कर्तव्यमित्यथो खलु संभृत्या एव संभाराः कर्तव्यं यजुरिति यजुषामपि विकल्पोऽवग- म्यते । तदुक्तमापस्तम्बेन-कृताकृताः संभारा यजूषि भवन्तीति । यजूंषि यथpधा- नेनेत्यादीनि । तत्र यदा संभारपक्षस्तदा यजूंषि कर्तव्यान्येव । यदा न संभारास्तदा न कर्तव्यानि संनियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिरिति न्यायात् । एवं यथाधानप्रभृतीनि यजूंषीति व्याख्यातमापस्तम्बोयैः । वैखानसस्तु-न संमृत्याः संभाराः संभृत्या वा संभारमन्त्रा भवन्तीत्येक इति । उभयथाऽपि यजुर्मात्रमा विकल्ये- नेत्यर्थः । आचार्यस्तु यजुषां कृताकृतत्वं नोक्तवांस्तेन ज्ञापयत्याचार्यो यजूंषि संभारा- न्येत कृताकृतानीति ब्राह्मणार्थ इति । तेन सत्सु संभारेषु कर्तव्यान्यसत्सु नेति व्यव. स्थैवाङ्गीकृता । न चासत्सु संभारेषु यजुष्करणं प्राप्नुयात्तनिवृत्त्यर्थ यत्नो न कृतः कस्मादाचोर्येणेति *न वाच्यम् । द्वारलोपे तु न यजुष्करणमित्युक्तमेव परिमाषाया- मिति पूर्वोक्तैव व्यवस्था खत एव सिद्धेति नोक्तं यजुर्विषये किमप्याचार्येण । ब्राह्मण- मपि न ह्यसंभारपक्षे यजुष्क्रियाऽस्तीत्येवमाहापि तु न संभृत्याः संभारा न यजुः कर्त- व्यमिति शाखान्तरे संभाराणामभावेऽपि यजुष्क्रियोक्ता साऽपि संभाराभावान्नास्तीत्याह, संभारेषु सत्स्वेव भवतीत्याह, कर्तव्यं यजुरित्यनुवादमात्र, तथा च केवलयनुष्करण- पक्षो नास्त्येव ब्राह्मणसूत्रयोरिति । यथाधानादिमन्त्रास्तु सार्पराक्षीमिः पूर्वमपि समुचिता एवाऽऽधानमन्त्राणां करणमन्त्रत्वेऽपि समुच्चय एव वचनादित्येव स्थितम् ।

सर्वाभिः सार्पराज्ञीभिर्गार्हपत्यमादधाति ।

प्रथमाध्यामित्युक्तस्यापवादः ।

  • नेत्यधिकम् ।

१ क. ग, ठ, ण, 'त्यादि । त। ३३४ सत्यापाठविरचितं श्रौतसूत्रं- [ तृतीयपने-

दर्भैरुपोलवैः संवत्सरप्रवातैर्गार्हपत्यादाहवनीयं ज्वलन्तमुद्धरति ।

प्रणयनीयेध्मस्थाने दर्भा उपमूलं लूना लवम्यो वोस्थिताः पूर्वच्छिन्नदर्भमूलेम्य उत्पन्ना इति यावत्संवत्सरपर्यन्तं शुष्काः संवत्सरप्रवातास्तेषां मुष्टिं बद्ध्वा तेनोद्धरेता- हायार्थ द्रव्यान्तरं पश्चागृह्यमाणं न निषिध्यते ।

यत्त्वा क्रुद्धः परो वपेति दक्षिणाग्निमादधाति यत्ते मन्युपरोप्तस्येत्याहवनीयम् ।

द्वितीयतृतीययोः प्रथमोत्तमयोरेवापवादार्थम् । अन्ये मन्त्राः समुच्चीयन्त एवेत्युक्त. मेव । सभ्यावसथ्ययोस्तु यथास्थानमप्यतरपि यजमानकार्येऽपि ।

मनो ज्योतिर्जुषतामित्याहितमाहवनीयमुपतिष्ठते।

अध्वर्युर्वृहस्पतिवत्येत्यापस्तम्बः । पाठक्रमेण बृहस्पतिस्तनुतामित्यस्यैव प्राप्तिरिति न विशेषितः

पुनस्त्वाऽऽदित्या रुद्रा वसवः समिन्धतामित्युपसमिन्धे ।

कामा इत्यन्तः।

पुनस्त्वाऽऽदित्या रुद्रा वसवः समिन्धतामित्युपसमिन्धे पुनस्त्वाऽऽदित्या रुद्रा वसवः समिन्धतां पुनर्ब्रह्माणो वसुनीथ यज्ञैः । या इष्टा उषसो निम्रुचश्च याज्यास्ताः संदधामि हविषा घृतेन स्वाहेत्याहुतिं जुहोति। मनो ज्योतिर्जुषतामिति द्वितीयाम् ।

सष्टम् ।

जुहूꣳ स्रुवं च संमृज्य चतुर्गृहीतेनाष्टगृहीतेन द्वादशगृहीतेन वा स्रुचं पूरयित्वा सप्त त इति पूर्णाहुतिं जुहोति ।

पूर्वाहुतिभ्यां पूर्णाहुतेबधिमाशङ्कय पुनर्विहितं सप्त त इति सप्त ते अग्ने समिधः सप्त निहा इत्यग्निहोत्रं जुहोतीति ब्राह्मणात्तथा परिसंख्यार्थ प्रातरग्निहोत्रहोमस्य तूष्णी- कस्यापि तत्र विकल्प उक्तोऽत्र तु प्रातरग्निहोत्रस्याप्यावृत्तिरेव | अन्यद्याजमानमा- ध्वर्यवं चाग्न्याधेयवत्सर्व कार्यमेव ।

आग्नेयमष्टाकपालं पञ्चकपालं वाऽऽग्न्याधेयिकस्याष्टाकपालस्य स्थाने निर्वपति ।

अयं तु पौनराधेयिक आग्नेयः पवमानहविभिरसमानतन्त्र एवं बहुबैलक्षण्याद्भिन्न- तन्त्रपक्षस्याप्यङ्गीकाराच्च ।

१ ख. च. छ. स. 'मानेन का। २. विशेषः । ६ष०पटकःJ महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३३५

तस्योपांशु सर्वं क्रियत ओत्तमादनूयाजात् ।

ये निगदाः परप्रैषार्थास्तेषां तु सामर्थ्यादुर्भाव एवान्यदङ्गप्रधानं सर्वमुपांशु । आ, उत्तमादिति मर्यादायाम् । इदानी याजुषे हौत्रे विशेषमाह-

अग्नाग्नेऽग्नावग्नेऽग्निनाऽग्नेऽग्निमग्न इति चतुर्षु प्रयाजेषु चतस्रो विभक्तीर्दधाति पुरस्ताद्वषट्कारात् ।

ननु दर्शपूर्णमासयोर्होत्रं व्याख्यास्याम इत्येव वक्ष्यति कः प्रसङ्गो हौत्रस्येति चेत्सत्यं तथाऽपि तेनैव हौत्रेण विकृतिविष्टिपशुचातुर्मास्येषु सौत्रामण्यां नक्षत्रेष्टि- वेवरूपेष्वन्येष्वपि हौत्रातिदेशोऽस्त्येव । याजुषं तदने व्याख्यास्यते । समिदादिषु चतुर्पु प्रयाजेषु याज्यासु विभक्तिमुक्त्वा प्रयाजेन वषट्करोतीति स्वशाखायामाह पुरस्तात्पुरस्ताद्वषट्कारात् । एवं प्रयोगः-वियन्त्वग्नाग्ने यौ० वेत्वग्नावग्ने पौ. वियन्त्व- . निमग्ने वौ. वेत्वग्निनाऽग्ने वौ० एवं ज्ञेयम् ।

पुनरूर्जेति पुरस्तात्प्रयाजानामाहुतिं जुहोत्युपरिष्टादेके समामनन्ति ।

यदा पुरस्तात्तदा जुह्वा व्यामृतत्वात्सुवेणाऽऽज्यस्थाल्या गृहीत्वा वेदमुपभृत्य दविं. होमधर्मेण जुहोति यदोपरिष्टात्तदा जुलैवाऽऽज्यस्थाल्या एव भाष्यकृतोक्तन्यायेन जयहोमवत् ।

वृधन्वन्तमाग्नेयस्याऽऽज्यभागस्य निगमेषूपलक्षयेत् ।

अग्नये वृधन्वतेऽनुब्रह्मग्निं वृधन्वन्तं यजाग्नेर्वृधन्वतोऽहं देवयज्ययाऽग्नेर्वृधन्वतोऽ. हमुज्जितिमिति । पुरोनुवाक्याऽऽपस्तम्बादिमिरुक्ताऽग्निं स्तोमेनेति ।

पवमानं सौम्यस्य ।

आज्यभागस्येत्यनुवर्तयित्वा(न्य) पूर्ववज्ज्ञेयम् ।

सह रय्येति पुरस्तादनूयाजानामाहुतिं जुहोत्युपरिष्टादेके समामनन्ति।

गतम्

देवो अग्नौ देवो अग्निरिति द्वयोरनूयाजयोर्द्वे विभक्ती दधाति ।

गतार्थम् । वषट्कारात्पूर्वम् ।

उच्चैरुत्तममनूयाजꣳ संप्रेष्यति ।

अनुवादमात्रमोत्तमादन्याजादितिमर्यादाप्रदर्शनाय ।

  • सूत्रपुस्तकेषु वृधन्वन्तमित्यस्य स्थानेऽग्निं बुधन्वन्तमिति वती।

१ क. ग. उ. ण. दिने । ख. च छ, ट. देवे । ३३६ सत्यापादविरचितं श्रौतसूत्रं- {३ तृतीयप्रश्ने-

ततः पवमानहापि निषेत्तेभ्यः पश्चादग्नीषोमीयादीनामनुनि प्यानां स्थानेऽनु- निर्वाप्यामाह--

आग्निवारुणमेकादशपालमनुनिर्वपेत् ।

अग्नीषोमीयवत्सर्वम् । समाप्तं पुराधानम् । अथ प्रायश्चित्ताधानम् ।

यः पराचीनं पुनराधेयादग्निमादधीत स एतान्होमाञ्जुहुयाल्लेकः सलेकः सुलेकः केतः सकेतः सुकेतो विवस्वाꣳ अदितिर्देवजूतिरिति ।

योऽरण्यादिनाशादिना निमित्तेनाग्निमादधीत न पुनराधेयनिमित्तेनेति वक्तुं पराची. ममित्युक्तम् । यः पुनराधेयादन्यत्राग्निमादधीत स एतान्होमाजुद्द्यात् । होमस्वात्प्रक- तेऽग्न्याधेये पूर्णाहुत्यन्तरमेता आहुती होतीति भाष्यकृत् । उपहोमत्वेन पुरस्तात्विष्टकृतो जुहोतीत्येवं स्पष्टमाचष्ट बौधायनः । तृतीयमादधान आग्नेयस्य पञ्चकपालस्य पुरस्ता- स्विष्टकृतः त्रुवाहुती होति लेकः सलेक इत्याधुक्तवान् । तृतीयमिति न तृतीयप्र- ऑगे कि तु, अग्न्याधानं पुराधानं च द्वे मुख्य आधाने ताभ्यामन्यदमुख्यं तदतिदिष्ट धर्म कर्मान्तरं प्रायश्चित्ताधान केनापि धर्मेण क्रियमाणं तृतीयमित्युच्यते । तस्य प्रथम द्वितीयतृतीयादिप्रयोगेष्वेते होमाः कर्तव्या इति फलितं भवति । ततस्तु प्रायश्चित्ताथानं पुनराधेयस्यैव विकार इत्युक्तमिति माति यतः पञ्चकपालस्य पुरस्तादित्याह । तन्न । पुनःप - परिभाषायां स एवाऽऽहाथेदं तृतीयाधेयं कतरत्खल्विदमुपपते प्रयत्यग्न्याधेयं पुनराधेयमिति बपौत् । ततो द्वयमपीष्टम् । तत्तत्पशेऽष्टाकपालस्य पुरस्तास्त्विष्टकृत एते होमा ज्ञेयाः। आपस्तम्बनाप्युक्तम् - पुनराधेयमित्याश्मरथ्योऽग्न्याधेयमित्याले. खन इति । मुख्यात्पुनराधेयादन्यत्र प्रायश्चित्तपुनराधेयेऽप्येते होमाः स्युः । अस्मदा- चार्यस्येदमेवाभिप्रेतं यतो मुख्यपुनराधेयादन्यत्राग्निमादधीतेति सामान्येन विधानाहिवि. धेऽपि प्रायश्चित्ताधाने भवन्त्येते होमा इति । न तावदयं पुनराधेये गुणविधियः परा- चीनं पुनराधेयादित्यभिधानात् । ताई येन पुनराधेयं कृतमुत्सर्गपूर्वकं तदनन्तरं क्रियमाण आधान एवं प्राप्नुयात् । न । यः, पराचीनं पुनराधेयादित्यत्रा- यमर्थोऽभिप्रेतश्चेत्तदा बौधायनेनोक्तमेव स्यात् । कथम् । पुनराधेयानन्तरं किया माणं तृतीयमेव कथं पूर्वनिमित्तभेदेन द्विः पुनराधेये सति तथा पुनराधेयानन्तरं द्विरन्याधये सति । तस्मादग्न्याधेयपुनराधेयाभ्यां भिन्नं तृतीयमित्युक्तम् । बौधा- यनापस्तम्बवैखानसैस्त्वत्रैवाभिहितं कर्मभेदं विनैव प्रयोगभेदख्यापनाय संतिष्ठते तृती. यमा यमित्युक्त्वोक्तमयापट्टतामेष्टारणिकस्य ब्रह्मौदनेनैव प्रतिपद्यत इति । तथा ख. 'प्रत्य। २ ख. च. छटवादिति । त। - ७स० पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३३७

यदरण्योः समारूढो नश्येद्यस्य चोभावनुगतावमिनिम्रोचेदम्युदियाद्वा पुनराधेयमग्न्या- धेयं वेति । अत्र हि निमित्तफलनिरपेक्षमग्न्याधानमात्रं तृतीयं विधाय किमुद्दिश्येदं कर्मान्तरं कर्तव्यमित्यपेक्षायामथापहृताग्नेरित्यादिना निमित्तान्युक्तानि तैरेव च कर्म- भेदः ख्यापितः । आचार्येण तु विध्यपराधे पुनराधेयमेवोक्तमतो नास्य विकल्प एषु निमित्तेषु मत इति भाति तथाऽपि शास्त्रान्तरादग्न्याधानमात्रं निमित्तैस्तु केवलं विना नामधेयं प्रायश्चित्तं विधीयते । तत्रोभयोरन्यतरद्ग्राह्यं, तदप्याचार्यस्येष्टमेव । कथम् । इत्थम्-यदयं प्रायश्चित्ताधाने तृतीये सामान्यरूपस्याग्निमादधीतेत्यस्यानुवादस्यानु- कारेण ब्राह्मणमेव सूत्रयति तेन ज्ञायते तृतीयं पुनराधेयमग्न्याधेयसदृशं कर्मान्तरं वोभयत्रापि होमा ज्ञेयाः । अन्यथैतत्तृतीयमग्न्याधेयविधानं व्यर्थं स्यात् । अतस्त्विदं प्राया धानमेव न तु विध्यपराधे वक्ष्यमाणेषु निमित्तेषु, यदि न प्राप्नुयात्तदा व्यर्थमेव स्यात् । विध्यपराधेऽयं शब्दो न नामधेयं किं त्वेषु निमित्तेष्वग्निनाशे सति पुनरनेन कर्मणाऽऽधेय उत्पाद्य इति पुनराधेयशब्दार्थो विवक्षितः । किंच नैतत्तृतीय आधाने कर्मान्तरे नामधेयं संभवति किं तु पुनराधेयवदिति वक्तव्यं न तु पूर्वोक्तार्थे- नैवार्थवदिति न किंचिदनुपपन्नम् ।

[आधानप्रभृति यावज्जीवं गार्हपत्यदक्षिणाग्नी धार्येते तथा सभ्यावसथ्यौ दक्षिणाग्नेस्त्वनुगतस्य मन्थनकल्पो यदि मथित्वाऽऽधीयते यद्याहार्य आहरणमर्थायार्थायाऽऽहवनीयं गार्हपत्यादुद्धरति नित्यं गतश्रियो धार्यत आयुष्कामस्य वा ।। १५ ।।

इति हिरण्यकेशिसूत्रे तृतीयप्रश्ने षष्ठः पटलः।]

इति तृतीयाधेयं समाप्तम् । समाप्तमग्न्याधेयप्रकरणम् । [+ इति सत्याषाढहिरण्यकशिसूत्रव्याख्यायां महादेवकृतायां प्रयोगवैजयन्त्यां तृतीयप्रश्ने षष्ठः पटलः ॥६॥

3.7 अथ सप्तमः पटलः।]

अग्निहोत्रं व्याख्यास्यामः ।

अमिहोत्रमिति कर्मनामधेयं तत्प्रख्यं चान्यशास्त्रमित्यत्र जैमिनिना निर्णीतं तस्य व्याख्यानं (न) प्रतिज्ञा । अत्रास्मच्छाखायां बहूनां मन्त्राणामनुपलम्भादहूनां कर्मणां

  • चतुष्कोणचिहान्तर्गतं सूत्रं व्याख्यापुस्तकेषु न विद्यते । व्याख्यानं च नोपलभ्यते

पुस्तकेषु। + चतुष्कोणचिहान्तर्गतं पुस्तकेषु न विद्यते ।

१ज, झ. ढ. धारयत्यायु। ४३ ३३० सत्याषाढविरचितं श्रौतसूत्रं- [३ तृतीयप्रश्ने- तूष्णीकानां विधामाच तूष्णीकेषु प्राकृतेषु यजुरितिपरिभाषोक्तन्यायेन मन्त्रोपसं- हारक्रम दर्शयितुं प्रतिज्ञा । आधानानन्तरमग्निहोत्रं दर्शपूर्णमाप्तौ च नियतावि. त्युक्तमेव । तत्राऽऽधानात्पूर्वमुपोद्धातत्वेन दर्शपूर्णमासौ व्याख्यातावाधानं चातः परमग्निहोत्रमवसर प्राप्त व्याख्यायते । यावज्जीवचोदनायां निःश्रेयसफलता स्वर्गकाम- चोदनायो स्वर्गफलता च दर्शपूर्णमासचोदनाद्वयव्याख्यानेन कृतव्याख्यानेति मत्वा प्रयोगमेव दर्शयति मात्र त्रिंशदादिविरामकाल इति विशेषः । सायंप्रातःकाल(ल). निवयं एकः प्रयोग उपक्रमप्रकारस्तु पूर्वमेव दर्शितः । यद्यपि सायमेवाग्निर्देवता तथाऽप्युभयकालसाध्य एक एव प्रयोग इति प्रातःकालीनमप्यग्निहोत्रमेवाग्नये होत्रं हविर्दानं तद्रूपं कर्माग्नेः प्रधानदेवतात्वाद्यद्यपि प्रजापतिरपि प्रधानदेवता होमाभ्या- सोऽत्र देवताद्वयानुरोधान्न कर्मभेदस्तथाऽपि प्राथम्याद रेव प्रवृत्तिनिमित्ततेति न्यायदर्श- नसंग्रहः । स्वशाखोपदेशस्तु प्रकारान्तरेण । तद्यथा--प्रजापतिरग्निमसजतेत्युपक्रम्य तस्मा एतद्भागधेय प्रायच्छयदग्निहोत्रं तस्मादग्निहोत्रमुच्यत इति च निर्वचनात्तेना- ग्निना प्रातः सूर्याय दत्तमपि नानग्निहोत्रं तथा च प्रजापतद्धितीयदेवतात्वेऽपि नामधे. यमग्निहोत्रमित्येवाग्नये होत्रमस्मिन्कर्मणि कालद्वयसाध्यसमुदायरूपे तदिति वा तत्सं. बन्धाद्रव्ये साधनभूतेऽपि अग्निहोत्रे दर्षिहोमविशेषशब्दो गौण एव जुहोतिचोदि- तत्वात्तथा चात्र साङ्गस्य निरूपणं क्रियत इति दर्शयितुं प्रतिज्ञा तेन न ते दर्विहोम. धर्मा मवन्ति । ततस्तु येषां न श्रुत्यादिनाऽङ्गनात ते पूर्वा दाहोभधर्मा एवाग्रे व्याख्या- स्यन्ते । न विद्यते पूर्वमतिदेशप्रापकं प्रकृतिभूतं कर्म येषां तेऽपूर्वा इति । अयमपि न तथा श्रुत्यादिप्रमाणैः स्वधर्मा सन्नातिदेशमपेक्षते । नापि अपूर्वदविहोमेषु न्यायैरना- रम्य विधिभिश्च विधास्यमानानि धर्मजातानि । प्रकृतिश्चैका साऽग्निहोत्रस्यातो नापूर्वो दविहोम इति होमशब्दस्य चाङ्गहीनचोदनाविहिते रूढत्वात्तस्मादग्निहोत्रे दर्वि. होमशब्दस्य व्यवहारो गौण इति ज्ञेयम् । अत्रापि संकल्पकरणं पूर्ववत्स्वर्गकामो वा सायं प्रातरग्निहोत्रं होण्यामीति संकल्प्याग्निहोत्रस्य यज्ञक्रतोरेक ऋत्विगिति श्रूयते यजुर्वेदविहितत्वादध्वर्युरेव । सूत्रान्तरे स्वयं वा जुहुयाविति दर्शनात्स्वयं होमोऽपि नाऽऽपदि किंतु मुख्य एव ।

तस्मै सायं प्रातर्ज्वलन्त गार्हपत्यादाहवनीयमुद्धरति ।

तस्मा आग्निहोत्रकर्मणेऽर्थायार्यायोद्धरणं प्राप्तमपि गुणविधानार्थमनूद्यते । काल- द्वयेऽपि ज्वलन्तमेवोद्धरेदित्येष गुणो विधीयतेऽन्यैरपि गार्हपत्यमिन्धनैः प्रज्वाल्यैक- देशं ज्वलन्तमेव पात्रेण पृथक्कुर्याद्दक्षिणाग्नेनित्यधारणविधानादाहवनीयमित्युक्तम् । यः प्रधानस्य कालः सोऽङ्गानामिति परिभाषितत्वात्तदपवादमाह७स०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

अधिवृक्षसूर्ये सायमग्निहोत्रायोषसि प्रातरग्निहोत्राय ।

उद्धरतीत्यनुकृष्यते । कालद्वयसंबन्धेन नामद्वयम् । प्रधानस्य साङ्गस्य कालात्पूर्व- तन एव कालेऽनुदितानस्तमितयोरुद्धरणमित्यर्थः । वृक्षानधिकृत्य वर्तत इत्यधिवृक्षः सूर्यो यस्मिन्काले तत्र सायमग्निहोत्रार्थमेवमुषप्ति प्रातरग्निहोत्रार्थम् । उदयानन्तर- होमेऽप्युषस्येवोद्धरणमेवं सायमपि ज्ञेयम् । वैखानसस्तु सायमधिवृक्षसूर्येऽर्धास्तमिते वा प्रातरुषति प्रागुदयाद्वेत्याह । कात्यायनस्त्वनस्तमितानुदितयोरित्याह । असंभव तदपि ग्राह्यम् । उषप्ति प्रातरग्निहोत्रायेत्युषःशब्द उषप्ति श्रूयमाणस्याग्निहोत्रस्योफ- लक्षणार्थम् ।

नक्तं वा धारयेयुः।

सायमेवोद्धृतं प्रातरग्निहोत्रार्थ यजमानः पत्न्यन्यो वेति विवक्षया बहुवचनमुपक्रम एव नियमः । एतदुद्धरणं न धार्ये नापि दर्शपूर्णमासार्धमुद्धृते चासमाप्तयोर्दर्शपूर्णमास- योरेवं पशुबन्धे विकृतेष्ट्यामपि ज्ञेयम् । तत्पूर्व व्याख्यातमेव ।

उद्धरेति प्रेषिते वाचा त्वा होत्रा प्राणेनोद्गात्रा चक्षुषाऽध्वर्युणा मनसा ब्रह्मणा श्रोत्रेणाग्नीधैतैस्त्वा पञ्चभिर्दैव्यैर्ऋत्विग्भिरुद्धरामि जहामि मृत्युममृतेनाऽऽदधामि भूर्भुवः सुवरुद्ध्रियमाण उद्धर पाप्मनो मा यदविद्वान्यच्च विद्वाꣳश्चकार । अह्ना यदेनः कृतमस्ति पापꣳ सर्वस्मान्मोद्धृतो मुञ्च तस्मादिति सायम् ।

उद्धरतीत्यनुषङ्गः । याजमाने तूद्धरेत्युद्भियमाणमनुमन्त्रयत इत्युक्तं तत्तूद्धरण आरब्ध एवोज्रियमाणमिति वचनादत्र च प्रेषित उद्धरतीत्युक्तं तत्र चोद्धरेति मन्त्र. लिङ्गेन च पूर्वकालताप्रतीतौ वर्तमानसामीप्ये वर्तमानवद्वेति सूत्रेणोद्धरिष्यमाण- मित्यर्थस्वीकरणं युक्तं तादृशं लक्षीकृत्ये त्यर्थः । अनुमन्त्रणवचनेन प्रेषित इत्युक्तं तत्र वयं होमेऽप्यनुमन्त्रणेन प्रैषो यथा स्यादसंनिहितेऽन्येनापि श्रेषेण संस्कृत एव कुर्यादिति प्रयोजनम् । अथ वा काष्ठादिप्रक्षेपेण प्रवृत्तमर्वयुमनुलक्षीकृत्य मन्त्रयते प्रेष्यतीत्यर्थः । श्रुतावनुमन्त्रयतिर्दृष्टः स एवानूदितः ।

रात्र्या यदेनः कृतमस्ति पापꣳ सर्वस्मान्मोद्धृतो मुञ्च तस्मादिति प्रातः ।

वाचा त्वेत्यादि चकारेत्यन्तोऽनुषङ्ग उद्धरतीति च ।

१ घ ङ. ज, झ, ञ ह. संप्रेष्यति। ३४० सत्याषाढविरचितं श्रौतसूत्रं- [३तृतीयमशे-

अमृताहुतिममृतायां जुहोम्यग्निं पृथिव्याममृतस्य जित्यै । तयाऽनन्तं काममहं जयामि प्रजापतिर्यं प्रथमो जिगायाग्निमग्नौ स्वाहेति सायमायतने प्रतिष्ठापयति ।

आहवनी पायतने ।

सूर्यमग्नौ स्वाहेति प्रातः ।

अमृताहुतिमित्यादि जिगायेत्यन्तमनुषङ्गः । प्रतिष्ठापयतीति च । प्रातः प्राङ्मुखः सायं प्रत्यङ्मुख इत्यपि सूत्रान्तराणि । नक्तं धारणपक्षे सायमुद्धरणमन्त्रा एवोद्धर- णस्य सायं होममात्राङ्गत्वात्तदर्थमुद्धृतं नक्तं विहितधारणं प्रात:मस्याहं नित्यधार्य इवात्रोद्धरणकालबाधात् ।

प्रथमास्तमिते सायमग्निहोत्रं जुहोति नक्षत्रं दृष्ट्वा प्रदोषे वोषसि प्रातरग्निहोत्रं पुरोदयमुदिते वा यर्हि वाक्प्रवदेत्तर्हि होतब्यमित्येकेषाम् ।

पूर्वमुद्धरणकाल उक्तस्ततोऽन्यो होमकालोऽनेन दर्शितस्तेन ज्ञायते मध्ये विराम संध्योपास्तावपि न दोषः । प्रथमास्तमयो नाम सूर्यादर्शनानन्तरमेव नक्षत्रदर्शने वा प्रदोषे धटिकाद्वयात्मके रजनीमुखे वा सायमग्निहोत्रं जुहोति । त्रिविधोऽपि सायं- काल एव । तथा प्रातःकालोऽपि घटिकाद्वयं पूर्वमुदयाद्वोदयात्पूर्वमेव वोदिते वेति त्रिधा । तत्र प्रातरग्निहोत्रं याह यदा वाक्पक्षिणां प्रवदेत्प्रकटा भवेत्तहिं तदा प्रात- रग्निहोत्रं होतव्यमित्येके शाखिनः । प्रदोषान्तः सायं संगवान्तः प्रातरिति वैखानसा- श्वलायनादयः । अत्रोदयात्पूर्वमारम्भे होममध्ये चेदुदयस्तदा प्रायश्चित्तदर्शनात्पृथक्का- लावुक्तौ पक्षान्तरेषु सांकर्येऽपि न दोषः । शब्दात्प्रातःकालोऽहः प्रथमविभागे रूढो यद्यपि प्रातरग्निहोत्रमित्यत्र निमित्तत्वेन प्राप्नोति तथाऽपि उपसि पुरोदयमित्यादि- कालविधानपदेषु वाक्येषु रूढ इति प्रातःकालव्यतिरिक्तकाला अपि विहितास्तेऽपि प्रातःकालशब्देन लक्ष्यन्ते सामीप्यादेवमझोऽन्तिममागवाचके सायंशब्देऽपि क्षेयम् । नानाकालानां भेदेन विधानं श्रुत्यनुसारेणेत्यदोषः ।

एतस्मिन्काले सर्वकर्माणि क्रियन्तेऽन्यत्रोद्धरणात् ।

एतस्मिन्नैकैकस्मिन्काले यः प्रधानस्य कालः सोऽङ्गानामित्युक्तं तथाऽपि विनोद्धरण तस्योदयेऽस्तमये च प्रायश्चित्तविधानात् । अन्यान्यङ्गानि यो योऽग्निहोत्रस्य काल उक्तस्तन्मध्य एक एवाऽऽदर्तव्यस्तत्र तत्रैव कर्तव्यानि नतु होमकालेषु मध्ये कस्मिंश्चि दङ्गान्यन्यास्मिंश्च प्रधानमिति विप्रकर्षों युक्त इति नानाश्रुतिसिद्धनानाकालप्रदर्शनो-

१घ, है. च. ज. स. म ढ. थममस्त । - ७१०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३४१

क्तन्यायारूढमनेन सूत्रेण कृतमुद्धरणं तु पूर्वपूर्वकाल एव नियम्यते । अत्र यजमानो विहारं प्रविशति विश्वदानीमिति । यदन्न इति स्थूलमिध्ममाहवनीय उत्तरया गार्हपत्य एवमन्यत्र । तूष्णी सम्यावसथ्ययोः । विद्युदसीत्यप उपस्पृश्यापरेणाऽऽहवनीयं दक्षि- णाऽतिक्रम्य स्वायतन उपविशति पत्न्यपि स्वस्थाने । ततोऽध्वर्यु:-

परिसमूहनेनाग्नीनलं करोत्यग्ने गृहपते शुन्धस्वेति गार्हपत्यमग्ने वह्ने शुन्धस्वेति दक्षिणाग्निमग्ने सम्राट् शुन्धस्वेत्याहवनीयम् ।

परितोऽभ्युक्ष्य हस्तेन सृणाद्यपसारणेन स्निग्धताकरणं परिसमूहनं तेन लक्षितानग्नी- न्पुष्पादिप्रकारेणालं करोति । तदुक्तं वैखानसेन-पर्युक्षणपरिसमूहनपरिपुष्पकरणै- रग्नीनलं करोतीति । प्रत्यग्नि सकृन्मन्त्रेण पर्युक्षणादिकमेकैकत्र समापनीयम् । परि- समूहनादिकमलंकरणमेव सर्वमिति प्रधानेनालंकरणेन मन्त्रसंबन्धोऽथ वा शुन्धस्वेति लिङ्गात्पर्युक्षणानन्तरं समूहने मन्त्रस्तूष्णीमलंकरणं मलापगम एवालंकारो युक्त इत्ये. कापवर्गताऽपि तृतीयया दर्शिता ।

पुरस्तादलंकाराः सायमुपरिष्टादलंकाराः प्रातः ।

भवन्तीति शेषः । उपरिष्टाद्धोमकर्मान्ते ।

उभयतोऽलंकारानेके समामनन्ति ।

पूर्व व्यवस्थयोक्तमत्र पक्षे समुच्चयः ।

दर्भैरग्नीन्परिस्तृणाति यथा दर्शपूर्णमासयोः ।

गतार्थम् ।

अग्निहोत्रपात्राणि प्रयुनक्ति खादिरꣳ स्रुवं वैकङ्कतीमग्निहो- त्रहवणीमचक्रावर्तामशूद्रकृतामूर्ध्वकपालामग्निहोत्रस्थालीम् ।

दर्शपूर्णमासत्रुवव्यतिरिक्तत्वख्यापनायाग्निहोत्रपात्राणीत्युक्तम् । सुवाग्निहोत्रह. वण्यौ व्याख्याते । कुलालचक्रेण न विद्यत आवर्तो भ्रमणं यस्याः सेति शूद्रव्यति. रिक्तेन त्रैवर्णिकेनैव कृतामित्यर्थः । ऊर्वानि कपालानि सानूनि यस्याः सा । एव- मग्निहोत्रद्रव्याधारभूतस्थाली मृन्मयो । त्रीण्येतानि नैतेषां द्वंद्वनियमः स वैष्टिकः । अत्रापि यथा दर्शपूर्णमासयोरिति वर्तनीयम् । तथा च स्रुवमग्निहोत्रहवणीमेकमिति द्वंद्वम् । वैखानसस्तूत्तरेण गार्हपत्यं कूर्चे प्रयुनक्तीत्याह ।

दक्षिणेन विहारं गौरवस्थिता भवति ।

होमारम्भात्पूर्वमेवाऽऽनीता । विहारो विहृताग्निस्थलम् । एनपा विहाराददूर इत्यु- कम् । पुंवत्सामिति कात्यायनः । ३४२ सत्याषाढविरचितं श्रौतसूत्र- [३ तृतीयप्रो-

इड एह्यदित एहि सरस्वत्येहि गौरेहीति तामाहूय पूषाऽसीति वत्समुपसृजति धावन्तं वाऽनुमन्त्रयते ।

तामवस्थितामाहूयेति धर्ममात्रम् । उपसृजति गवा संयोजयति । मुक्तं धावन्तं वा पूषाऽसीत्यनुमन्त्रयते ।

प्राचीमुदीचीं वाऽऽवृत्यान्यः शूद्राद्दोग्धि न संमृशति यथोपलम्भमनूचो वा ।

वत्समपच्छिद्य शूद्वादन्यस्त्रैवर्णिको दिगन्तराभिमुखां स्थिता प्रदक्षिणमावृत्य प्राची. मुदीची वा स्थापयित्वा दोधि । न संमृशति प्रस्त्रवार्थ सोदकेन पाणिनाऽधो न समृ. शति । सर्वथा समर्शनप्रतिषेधो न गुज्यतेऽशक्यत्वाद्यथा पय उपलभ्यते तथा स्तना- नियमेन संमृश्य दोग्धि । तत्र नियम्यते यदि स्पृशति प्रस्रकार्य तदा स्तनानेवानून एव स्तनमूलादापर्यन्तम् ।

पूर्वौ दुह्याज्ज्येष्ठस्य ज्यैष्ठिनेयस्य यो वा गतश्रीः स्यादपरौ दुह्यात्कनिष्ठस्य कानिष्ठिनेयस्य यो वा बुभूषेत् ।

पूर्वी स्तनौ तथा चापरावपि । नैमित्तिको नियमः । व्याख्यातमन्यत् । यो का भूतिमिच्छेदयं काम्यः।

दोहने दुग्ध्वा स्थाल्यामानयति स्थाल्यां वा दोग्धि ।

दोहने दोहनपात्रेऽग्निहोत्रस्थाश्यां वा । तदुग्धं पूर्वेणाऽऽहवनीयमानयेदिति कात्यायनादयः।

द्वयोः पयसा पशुकामस्य जुहुयात्पूर्वमधिश्रित्योत्तरमानयेत् ।। १६ ।।

पशकामस्य यजमानस्य पूर्वदुग्धमझारेषु अधिश्रित्य ततोऽन्यस्या दुम्वाऽधिश्रिते पयस्यानयेत् ।

ऋतं त्वा सत्येन परिषिञ्चामीति सायं परिषिञ्चति सत्यं त्वर्तेन परिषिञ्चामीति प्रातः ।

प्रदक्षिणमुदकेन सिञ्चति ।

आहवनीयं परिषिच्य गाहर्पत्यमथ दक्षिणाग्निं गार्हपत्यं वा परिषिच्य दक्षिणाग्निमथाऽऽहवनीयम् ।

तुल्यश्रुतिस्वाद्विकल्पोऽयशब्दः श्रुतिगतोऽनूदितः । अन्ते सम्यावसथ्यौ।

यज्ञस्य संततिरसि यज्ञस्य त्वा संतत्यै नयामि संतत्यै त्वा यज्ञस्येति गार्हपत्यात्संततामपां धाराꣳ स्रावयत्याहवनीयात् ।

आहवनीयं मर्यादीकृत्य गाई पत्यमारभ्याविच्छिन्नामुदकधारां करोति । आरादु. पकारकमेतत् । स०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३४३

धृष्टिरसीत्युपवेषमादाय निरूढं जन्यं भयꣳ सह तेन यं द्विष्मः सुभूताय श्रयध्वमिति तेन गार्हपत्यादुदीचोऽङ्गारान्निरूहति ।

उपवेषोऽङ्गारनिर्हरणार्थ काष्ठम् । उदगायतनान्निःसारयति तेनोपवेषेण ।

भूतकृतः स्था षोढं जन्यं भयꣳ सह तेन यं द्विष्म इति वा ।

निर्हरणे मन्त्रो विकल्पेन ।

व्यन्तान्करोति ।

अन्त आयतनस्य तस्माद्विगता अङ्गारास्तादृशान्करोति गार्हपत्यायतनाबहिनिर्ग- मयतीत्यर्थः।

इडायाः पदं घृतवच्चराचरं जातवेदो हविरिदं जुषस्व । ये ग्राम्याः पशवो विश्वरूपास्तेषाँ सप्तानामिह रन्तिरस्तु पुष्टिरिति तेष्वग्निहोत्रमधिश्रयति ।

तेष्वङ्गारेवग्निहोत्रसंबन्धिद्रव्यमग्निहोत्रस्थाल्यां स्थितमधिश्रयति सामर्थ्यात् ।

समुदन्तꣳ होतव्यम् ।

समुदन्तं दोहानन्तरं फेनवदेवाऽऽनीयैवाधिश्रितमात्रमेवोन्नयनादिना होतव्यमित्यर्थः ।

अनन्तरं वाऽधिश्रयणादुद्भवः स्थोदहं प्रजया पशुभिर्भूयासमिति तृणं प्रदीप्यावेक्षते ।

अधिश्रितमेव वा पक्षे संस्कार उच्यते । तेन प्रदीप्ततृणप्रकाशेन स्थालीगतं द्रव्यम- वनतो भूत्वेक्षते । मार्हपत्यादेव प्रदीपनं तत्त्यागश्चानन्तरमिति तु समुदन्तं होतव्यमि. त्यत्रावेक्षणादि नास्ति ।

हरस्ते मा विनैषमिति स्रुवेणाद्भिः प्रतिषिञ्चत्यमृतमसीति वा ।

हस्तपात्रयोः परिसंख्यार्थं सुवेणेति बिन्दुमात्रपरिसंख्यार्थमद्भिरित्युक्तम् ।

गोदोहनसंनेजनेन प्रतिषिच्यमेकेन स्तोकेन प्रतिषिच्यं प्रतिषिक्तं पशुकामस्य ।

पशुकामस्य यजमानस्य गोदोहनपात्रस्य संजनं संनिज्यते प्रक्षाल्यते येनोदकेन तेन प्रतिषेचनीयं तेनैकेन बिन्दुना प्रतिषेचनीयमेवं प्रतिषिक्तं पशुकामस्य नाद्भिः प्रति- देकोऽपि त्वयमेवेत्यर्थः । मन्त्रस्तु पूर्वयोरन्यतर एव ।

अप्रतिषिक्तं तेजस्कामस्याभिचरतस्तितीर्षतो वा ।

अद्भिरपि न प्रतिषिक्तं कार्य तेजः शास्त्रादिना कामयमानस्य तथाऽभिचारमिच्छ- तस्तथा तितीर्णतः पाप्मादिकमनिष्टं तनुमतिक्रमितुमिच्छतोऽपि यजमानस्याप्रतिषिक्तमेव पूर्ववत् । । ३४४ सत्यापाढविरचितं श्रौतसूत्रं- [३ तृतीयप्रश्चे-

यः कामयेत शूरो मे राष्ट्र आजायेतेति पुनरेव तस्यावेक्षते यथा पुरस्तात् ।

राज्ञः कामोऽयं मे राज्ये शूर एव क्षत्रिय उत्पद्यतामिति कामस्योद्भवस्थ इति तृण- दीप्त्या नित्यावेक्षणात्पुनरवेक्षत इत्यर्थः । एतानि काम्यानि यजमानेन संकल्पिते कार्याणि ।

अन्तरितꣳ रक्ष इत्युल्मुकेन त्रिः पर्यग्नि करोति परिवाजपतिरिति वा ।

प्रथमं तावदेव यजुरग्निहोत्रप्रकरणपठितं द्वितीया च सर्वगार्हपत्याद्ग्रहणं त्यागश्च गार्हपत्ये संस्कारा इति । गतार्थम् ।

घर्मोऽसि रायस्पोषवनिरिहोर्जं यच्छेति वर्त्म कुर्वन्नुदगुद्वासयति ।

भकारेषु किंचित्कर्षन्निवोदगानयति स्थालीम् ।

प्रजां मे यच्छेत्यन्ते धारयति ।

अन्तेऽझारप्रान्ते स्थिरी करोति अर्थसिद्धं ततो बहिरङ्गारेम्यः स्थापनं तूष्णीमेव ।

प्रत्यूढं जन्यं भयꣳ सह तेन यं द्विष्मः सुभूतमकर्तेति तेन गार्हपत्येऽङ्गारान्प्रत्यूहति भूतकृतः स्थाप्येति सस्यं यजमानस्येति वा ।

प्रत्यूहति मेलयति ।

देवस्य त्वेति स्रुवमग्निहोत्रहवणीं चाऽऽदाय ।

आदद इत्यन्तः । द्रव्यपृथक्त्वेऽभ्यावर्तत इत्यावृत्तिस्त्वेकवचनाच्च ।

प्रत्युष्टमित्याहवनीये गार्हपत्ये वा निष्टपति ।

समाप्तं वाक्यं रक्ष इत्यन्तं गतम् ।

सुपर्णां त्वा सुपर्णमयीꣳ हिरण्ययष्टिरस्यमृतपालाशाः स्रोतो यज्ञानामित्यग्निहोत्रहवणीꣳ संमार्ष्टि ।

हस्तेन संमार्जनं बिलस्य दृष्टप्रयोजनं स्यादेवमभ्यासोऽपि यावदपति बिलगतं रजः ।

अरिष्टो यजमानः पत्नी चेत्युभयम् ।

सहैव द्वयं तथा च दक्षिणेनैकैकं गृहीत्वा वामे निघाय दक्षिणेन समार्गो याव- दुन्नयनमत्यागः । उभयमित्यवयवद्वयात्मकमेकमेव व्यमिति चेष्टापृथक्त्वेऽपि न मन्त्रावृत्तिः ।

प.क. ज. स. म. द. वक्षेत य" । २ क.च. ग, च. छ. ट. ट, ण, प्ये स। । ७स० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३४५

ओमुन्नेष्यामि हव्यं देवेभ्यः पाप्मनो यजमानमिति सायमामन्त्रयते ।

यजमाने त्वामुन्नयेति प्रसवाभिधानाद्यजमानमामन्त्रयत इत्यर्थात् ।

ओमुन्नयामि हव्यं देवेभ्यः पाप्मनो यजमानमिति प्रातः।

आमन्त्रयत इत्याकृष्यते ।

प्रवसत्योमुन्नयेति स्वयमात्मानं प्रत्येव ब्रूयात् ।

स्वयमध्वर्युरात्मानं प्रति ब्रूयाद्यजमाने प्रवप्सति तथा वा तेनैव न्यायेन स्वयं होमेऽपि स्वयमात्मानमित्यपि सिद्धम् । एवं प्रैषार्थकर्तर्यनादिष्टे त्वयमेव न्यायस्तत्र तत्रा- स्माभिः पूर्वं दर्शित एव । हविर्देवानामित्यादि याजमानं प्रसूते च ।

अग्नये च त्वा पृथिव्यै चोन्नयामि वाताय च त्वाऽन्तरिक्षाय चोन्नयामि सूर्याय च त्वा दिवे चोन्नयाम्यद्भ्यश्च त्वौषधीभ्यश्चोन्नयामीति चतुरः स्रुवानुन्नयत्युत्तमेन द्विः पञ्चावत्तिनः ।

एकेनेतिकरणेन विनियोगादेकमन्त्रत्वे प्राप्तेऽप्युत्तमेनेति वचनान्नानामन्त्रता । स्वा. नुवपरिमितानि द्रव्याणि त्रुवास्तान्प्रतिमन्त्रभेकैकमुन्नयेदेवं चतुःसंख्याकान् । उन्नयन पूरितस्योर्ध्वमानयनं प्रापणान्तं तथाच द्विकर्मकत्वात्स्त्रवमुन्नयति प्रापयति क्रियारम्भे मन्त्रः । उत्तमेनाग्यश्च त्वौषधीभ्यश्चोन्नयामीत्यनेन ।

भूरिडा भुव इडा सुवरिडा करदिडेति वा ज्वलदिडेति पञ्चावत्तिनः ।

पूर्वे चत्वारश्चतुर्णा विकल्पार्थाः । पूर्वमावृत्तस्य विकल्पार्थः पञ्चमः पश्चावत्तिनः ।

यं प्रति पुत्राणां कामयेतानेनर्ध्नुयामिति तं प्रति पूर्णमुन्नयेत् ।

पुत्राणां मध्ये यं पुत्रं यजमानोऽनेनाहमृध्नुयामृद्धिं गच्छेयं तं पुत्रं प्रति पूर्ण तं पुत्रमुद्दिश्यैकं नुवं पूर्णमन्यानपूर्णानुन्नयेत् ।

यदि कामयेत सर्वे सदृशाः स्युरिति सर्वान्समश उन्नयेत् ।

सदृशाः सर्वेधनुयामिति यदि कामयेतेत्यर्थः । समशः समान्पूर्णानित्यर्थः ।

उन्नीतं दशहोत्राऽभिमृशति न वाऽभिमृशति ।

उन्नीतं जुग्गतं दशहोत्रा चित्तिः गित्यनेन तुल्यश्रुतित्वाद्विकल्पः ।

सजूर्देवैः सायं यावभिः सायं यावानो मा देवाः स्वस्ति संपादयन्तु पशुभिः संपृचीयेति सायमुन्नीतꣳ स्थालीं सत्याषाढविरचितं श्रौतसूत्र- [३ तृतीयप्रश्ने-

चाभिमृशति सजूर्देवैः प्रातर्यावभिः प्रातर्यावाणो मा देवाः स्वस्ति संपादयन्तु पशुभिः संपृचीयेति प्रातः ।

उन्नीत स्थाली चाभिमृशतीत्युभयत्र संबध्यते ।

पशून्मे यच्छेति यत्रोन्नयति तदुपसादयति ।

उन्नीतं यत्र तत्तत्रैवोपसादयति । न स्थलान्तर इति वक्तुमेवमुक्तम् । उपोन्न. यनस्थलसमीपे ।

प्राचीमुदीचीं वाऽऽहृत्यापरेण गार्हपत्यमुपसादयतीत्येकेषाम् ।। १७ ।।

उन्नयनस्थलात्प्राची दिशं प्राची खुचं चाऽऽहृत्य नीत्वेत्यर्थ एवमुदीचीमित्यपि । गार्हपत्यपश्चाद्भाग उप समीपे विकल्पः पूर्वेगात्र कूर्च उपमादनं वैखानमप्रभृतिभिरुक्तं पितृमेधे चोपसादनीयोपावहरणीयकूधयोः प्रतिपत्तिविधानात्कूचा ज्ञेयौ । तयोरेक एवोभयत्रोपलादनार्थों द्वितीयस्तु प्रारद्रवण त्रुच उपमंग्रहेण हरणार्थ इति संज्ञा- द्धयात्प्रतीयतेऽथवा भूमावेव प्रथम उपसादनं द्वितीय एवोपसादन ओषधीषूपसादय- तोति विशेषविधानादाचार्यस्य कूर्चद्वयम् ।

पालाशीꣳ समिधं प्रादेशमात्रीमेकां द्वे तिस्रो वोपरिष्टात्स्रुग्दण्ड उपसंगृह्य ।

समिधः प्रादेशमात्रत्वं नियम्यते । तेनान्यत्रारनिमात्रत्वं प्रादेशमात्रत्वं विक. रुपते । नुग्दण्डस्योपरिष्टाद्धृत्वा विकल्पैनैकादिकाः ।

र्वन्तरिक्षं वीहीति समया गार्हपत्यस्यार्चिर्हरति ।

गार्हपत्यस्याचिः समया समीपं प्रतिहरति स्नुचमिति शेषः ।

प्रागुद्द्रवन्दशहोतारं व्याचष्टे ।

वाक्यशः पठेत् । उत्थाय प्रागच्छन्प्राची दिशं गच्छन्नित्यर्थः । कूर्चामुर्च गृही- लोन्तरिक्षमित्यधिःसमीपं नीत्वा तत उद्वन्दशहोतारं वदेत् । शतृप्रत्ययेन मन्त्रप्रा. गमनयोः सहभावः । गाई पत्याहाहवनीयं हरति । मुखमात्रे धारयन्निति कात्यायनः ।

अग्नये त्वा वैश्वानरायेति मध्यदेशे निगृह्णाति ।

मध्यदेशो गार्हपत्याहवनीययोस्तत्रदेशेऽन्तरिक्ष एव निगृह्णाति नीचां यमिता स्थिरां करोतीति यावत् ।

वाताय त्वेत्युद्यच्छति ।

निगृहीतप्रदेशादूर्ध्व किंचित्करोति ।

.प. उ. ज. झ. न. प्राची बा पोहत्यप' । २ प. इ. ज. म. म. द. प्राहु । ७स०पटलः]] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३४७ ।

आयुर्मे यच्छेत्यपरेणाऽऽहवनीयमोषधीषूपसादयति

ओषधयो दर्भास्ते कूर्चरूपेणावस्थितास्तषूपप्तादयति । स्पष्टम्' । प्रथमाग्निहोत्रं व्याहृतिभिरासादयति । संवत्सरान्ते च प्रातरग्निहोत्रमपि व्याहृतिभिः ।

एषा ते अग्ने समिदिति समिधमादधाति ।

प्यायतामित्यन्तः । मध्य आहवनीयस्येति बौधायनः । समिद्वयं तु नुक्संस्कारार्थ नान्यत्तस्य प्रयोजनमुक्तम् ।

हिरण्ययं त्वा वꣳशꣳ स्वर्गस्य लोकस्य संक्रमणं दधामीति वा ता अस्य सूददोहस इति वा रजतां त्वा हरितगर्भामग्निर्ज्योतिषा ज्योतिष्मतीꣳ स्वर्ग्यां कामदुघामक्षितामक्षित्या आप्त्यै व्याप्त्यै समाप्त्यै कामाय स्वर्गाय लोका- यामृतत्वाय रात्रिमिष्टकामुपदध इति सायꣳ हरिणीं त्वा रजतगर्भाꣳ सूर्यो ज्योतिषा ज्योतिष्मतीꣳ स्वर्ग्यां कामदुघामक्षितामक्षित्या आप्त्यै व्याप्त्यै समाप्त्यै कामाय स्वर्गाय लोकायामृतत्वायाहरिष्टकामुपदध इति प्रातः ।

एषा त इति मन्त्रेणैतौ द्वौ समानविकल्पो ता अस्येति पृथग्द्वौ व्यवस्थितौ । केचि- सूत्रकाराः काम्यो द्वाविमापित्याहुः ।

विद्युदसि विद्य मे पाप्मानमृतꣳ सत्यमुपैमि मयि श्रद्धेत्यप उपस्पृश्य ।

मन्त्रणोदकं स्पृष्ट्वा । पाप्मानमित्यन्तः । स्वशाखापठितो विकल्पते ।

यदा श्यावेवाथ जुहोति ज्वलन्त्याम् ।

श्यावेवेषच्छयामा तदा तस्यां ज्वालायुक्तायाम् ।

यदा वा वीतार्चिर्लेलायतीव ।

तदा वा जुहोतीति पूर्वेण विकल्पः । सम्यग्यदा श्यामवर्णा स्क्तत्वमप्राप्ता ज्वलन्ती तस्यामित्येकः पक्षः । द्वितीयस्तु यदा सम्यग्दीप्ता शान्तार्चिः पश्चात्किंचिल्लेलायति वह्निशिखा विच्छिन्नां विच्छिन्नामुद्रुमति तस्यां दशायामिति ।

धूपायन्त्यां ग्रामकामस्य !

ग्रामकामस्य यजमानस्य धूपायन्त्यां वह्निना व्याप्ता यदा धूमवती तस्यां जुहोती- F. त्यनुषङ्गः । पातः

१ क. ग. 8. ण.न्यतरस्य । २ ख. घ. छ. ज. झ. अ. ढ, 'रण्मयं । ३४८ सत्यापाढविरचितं श्रौतसूत्र- [ तृतीयप्रश्ने-

द्व्यङ्गुले मूलात्समिधमनुस्रावयन् ।

मूलमधस्तनोऽन्तस्तदवधि मूलमारम्याङ्गुलद्वयं मध्ये धारा स्रावयति । प्रतिमुखं जुहोतीति बौधायनः । जुहोतीति पूर्वेणान्वयः । स्नावयन्निति वचनान्मुखेनेति गम्यते । प्रसेचनस्य मुखमाध्यत्वं हंसमुखप्रसेचना इत्येव प्राप्तं मुखेनेतरा इत्यपि सामान्यविधिरेव । एवं परिभाष्य समन्त्रं प्रधानाहतिद्वयं व्याचष्टे-

होत्रा भूर्भुवः सुवरग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति सायꣳ होत्रा भूर्भुवः सुवः सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति प्रातः ।

जुहोतीत्यनुवर्तते । अत्र वचतुष्टयपरिमितमन्नीतं प्रथमाहुतिः स्त्रुतमात्रेण द्वितीया सपादेन नुवेण । मक्षार्य पादानस्नुवयमिति व्यवस्था सेत्स्यति ।

सꣳसृष्टहोममेके समामनन्ति ।

अग्निसूर्यदेवताप्रतिपादकमन्त्रेण संसृष्टदेवतायै होमः संसृष्टहोमस्त मेके शाखिनः । यद्यप्युभयमस्मच्छाखायां पठ्यते तथाऽप्येक इत्युक्तमादरार्थमेकेऽन्ये शाखिनः संसृ- ष्टहोममेव समामनन्ति । ततस्त्वसंसृष्टहोमोऽस्मच्छाखायां शाखान्तरीयो निन्दितुमेवान- दितो न तु तद्विधिरस्ति । कुतः । यथा हि संसृष्टहोमस्य प्रशंसापूर्वकमितरस्य निन्दा- पूर्वकं विधिरस्ति नैवमसंसृष्टहोमस्यापि तु विधिमात्र शाखान्तरीयमनूदितम् । कुतो ज्ञायते, ज्ञायते यन्न स्तौति तमसंसृष्टविधि च संसृष्टविधिमसंसृष्टं च निन्दति नैव तद्विधानार्थ संसृष्टं वा निन्दति । तथा चास्मच्छाखायां संसृष्ट विधान एव तात्पर्यमिति सूत्रकारामिप्रायः । ततस्तूदितानुदितहोमयोः परस्परं निन्दयोभयस्तुतिपूर्वकमुभयोविधि- दर्शनाभयत्र तात्पत्तिमविकल्पः । संसृष्टं देवतामन्त्रं दर्शयति--

अग्निर्ज्योतिर्ज्योतिः सूर्यः स्वाहेति सायं सूर्यो ज्योतिर्ज्योतिरग्निः स्वाहेति प्रातः ।

जुहोतीति पूर्ववत् । अत्र मीमांसकमतेऽग्निरेव केवलो देवतोभयविधेऽपि मन्त्रे यद- अयं च प्रजापतये च सायं जुहोति यत्सूर्याय च प्रजापतये च प्रातरिति वाक्यमुत्पत्ति विधिरिति ते दर्शयन्ति । स्वशाखोपदेशस्तु(शे तु) तथोभाभ्या५ सायर हूयते, उभाभ्यां प्रातरिति संसृष्टदेवताविधानादग्नये सूर्यायेदं सूर्यायाग्नय इदम् । याज्ञिकास्त्वग्नये ज्योतिष सूर्यायदं विपरीतं प्रातराहुस्तन्मान्त्रवणिकदेवतत्त्वस्य मीमांसकनिराकरणाच्चिन्त्यम् ।

वर्चो मे यच्छेति पुनरोषधीषूपसादयति ।

स्पष्टम् । १५., ज, झ. अठ. ढ, "नरेवाप। ७९०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३४९

लेपमादायौषधीभ्यस्त्वौषधीर्जि न्वेत्युत्तरतो बर्हिषि लेपं निमार्ष्टि ।

न हि झुग्गतं लेपो भवति तस्माद्भूयमानं यदने प्रणाल्यां च लग्नं स लेपस्तमङ्गु- लिमिरादाय गृहीत्वा मन्त्रेण बर्हिषि कूर्च ओषधीष्विति यावदुत्तरभागे तं लेपं निमाष्टि नीचा हस्तेन निमाटि लिम्पति । ओषधीम्य इदम् ।

अग्ने गृहपते मा मा संताप्सीरात्मन्नमृतमधिषि प्रजा ज्योतिरशीयेति गार्हपत्यमवेक्षते ।

दक्षिणावृदिति वैखानसकात्यायनादयस्तदस्माकं प्रदक्षिणं यज्ञे कर्माणीति सिद्धम् ।

अतिहाय तूष्णीमुत्तराꣳ समिधि भूयसीं जुहोति ।

आहुतिमिति शेषः । जुहोतिचोदितत्वेन प्रजापतये स्वाहेति प्राप्तौ शाखान्तराच व्याहृतिप्राप्तावु तं तूष्णीमिति । देवता च प्रजापतिरेव विधानबलात्तदिदं दर्शितमेव । अतिहाय पूर्वाहुतिस्थानं पूर्वाहतः सकाशाद्भूयसीमधिकामुत्तरां द्वितीयां केचिदुत्तरामुत्तरे भागे चेत्याहुस्तदर्थमुक्तं समिधीति । उत्तरार्धे समिधीति शाखान्तरम् । समिधः प्राग- ग्रता मध्ये निधानं चाऽऽचारादेव सिद्धम् । अत्र याजमानमुपस्थानम् । अथ निमित्ते सत्यग्निहोत्रविकृति गुणकृतां दर्शयति-

सजूर्जातवेदो दिव आ पृथिव्या जुषाणो अस्य हविषो घृतस्य वीहि स्वाहेत्याज्येन जुहुयाद्यत्र पशुपतिः पशूञ्छामयेत् ।

पशुपती रुद्रो यत्र स्थाने यस्य यजगानस्य गृहे ग्रामे राष्ट्रे वाऽथवा षष्ठ्यर्थे यत्रे- त्यथ वा यस्मिन्स्वामिनि सति पशवो गवाश्वप्रभृतयस्ताञ्छामयेत्पीडयेत्तस्य यजमान- स्यानेन मन्त्रेणाऽऽज्येन जुहुयात्सायं प्रातस्तेनैव नित्याकरणप्रत्यवायपरिहारोऽपि तस्य गुणविकृतत्वेऽपि चाग्निहोत्रत्वात् ।

अग्ने दुशीर्ततनो घृतस्य स्वाहेति जुहुयाद्यदि तदतिहन्यात् ।

यदि कृतेऽपि होमे तदतिशयेन पीडयेत्तत्र तदाऽऽज्येनैव सायं प्रातरनेन मन्त्रे. णेति विशेषः ।

द्वादश रात्रीः सायꣳ सायं जुहुयाद्यदि तदतिहन्यात् ।

पूर्वोक्तेनाग्न इत्यनेनैवाऽऽज्येन प्रत्यहं सायं सायं होममेव यद्येतावताऽपि न शान्तिरित्यर्थः । प्रातहोमस्तु प्राकृतेनैव द्रव्येण ।

१ घ. ङ. ज. झ. ज. ढ. पत्यं प्रत्यवे । २ घ. ङ. ज. झ. न. ढ. 'हेति घृतस्य जु । ३ घ. रु. ज. झ. न. शञ्छमायत । ढ. 'शूमछमयेत् । ४ घ. 'मे दुःशीततमो । ५ क. ख. ग. च. छ. ट. ठ. ण, जुषस्त्र । ६ क. ख ग. च, छ. ट. ठ. ण. “यात्तद। - ३५० सत्यापाढविरचितं श्रौतसूत्रं- [३ तृतीयप्रश्ने-

द्वयोः पयसा जुहुयात्पूर्वमधिश्रित्योत्तरमानयेद्यदि तदतिहन्यात् ।

पूर्व प्रथमस्या दुग्धमधिनित्योत्तरमानयेदुत्तरस्या द्वितीयस्या दुग्धमानयेदधिश्रिते । निमित्तं पूर्ववत् ।

नाऽऽदृत्यम् ।

इतः परमपि तदतिहन्यान्नाऽऽदृत्य मनादरमेयमने न पुन:तव्यं किं तु निय- विधिनैव । राजन्यस्य पर्वण्येवाग्निहोत्रं तस्य नैमित्तिकमपर्वणीति ज्ञेयम् । एवं शाखान्तरेऽग्निहोत्रप्रकरणे नैमित्तिकं समाम्नातं तत्समाप्य प्राकृतमाह-

इषे त्वेति सायं लेपमवमार्ष्टि ।

अनादारभ्याविर्षन्प्रणालीगतं ले पमवगमयति ।

ऊर्जे त्वेति प्रातरुन्मार्ष्टि ।

विलादारभ्योल पूर्ववत् ।

यं कामयेतावतरां पापीयान्स्यादिति भूय स्तस्य पूर्वꣳ हुत्वोत्तरं कनीयो जुहुयात् ।

निन्दार्थवादोऽयं पूर्वाहुति भूयसी द्वितीयां कनीयप्ती न जुहुयादित्येवमर्थम् ।

यं कामयेत न पापीयान्न श्रेयान्स्यादिति समं तस्य जुहुयात् ।

इदं च निन्दथैवोक्तम् । न हि यजमानस्य श्रेयो न कामयत इत्यध्वर्युरस्ति । तस्मानिन्दैव ।

यं कामयेत वसीयान्स्यादिति कनीयस्तस्य पूर्वꣳ हुत्वोत्तरं भूयो जुहुयात् ।

अयं प्रशंसार्थोऽर्थवादः प्रकारान्तरेण नित्यकल्पस्याभावात् । एतेऽर्थवादाः कर्माक्ष- ज्ञानार्थमुपदिष्टाः । कनीयो भूय इति द्रव्यविशेषणं क्रियाविशेषणं वाऽऽडुतेः प्रकृ. ताया असंभवात् । भवतु वा तृतीयो नित्योऽपि सत्यां कामनायां काम्पकल्पः ।

भूयो भक्षायावशिनष्टि ।

द्वितीयाहुतेः प्रकृतत्वात्तद्व्यापक्षयैवाधिकम् । आहुतिद्वयं हि चतुरुन्नयनस्य प्रयोजक तदप्समाप्तौ स्कन्नादिना नाश उत्पाद्यमेव पुनर्द्रव्यं भक्षणार्थस्य नाशे तु नोत्पत्ति व्यस्य पुनः शेषकार्यलोप एवेत्यावेदितमेव तदिदं ज्ञापितमवशेषयतीति भक्षणप्रति- पत्तये शेष कुर्यादित्यर्थो न विधीयते शेषस्यानूनिष्पादितत्वेनानुत्पाद्यत्वायद्यस्ति तत्प्र- ५

  • इदं सूत्रं सूत्रपुस्तषु द्वादश रात्रीरितिसूत्रात्प्राग्वर्तते ।

१५. छ. ज. झ. न ढ, "सा सायमाग्नहोत्रं जु। २ ख, च, छ. द न । ६.न. ढ, 'यारुपान्त्या' । क्र. १. च. ट. 3 ण, रेणानि । ३ प.ज. ७स०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३५१

तिपत्तिमात्रमेव विधेयम् । तदुक्तं कात्यायनेन-स्थाल्यां यत्परिशिनष्टि तद्राह्मणः पिबेत् । तद्वै नाब्राह्मणः पिबेदिति श्रुतेरिति । अतः प्रतिपत्तिस्तु स्रुच्यवशिष्टस्यैव विधया न स्थालीगतस्य तथा चाग्निहोत्रोच्छेषणमातञ्चनार्थं निदधातीति विधीयमान- मुच्छेषणनिधानं झुग्गतमेवास्यैव प्रधानाग्निहोत्रार्थमुन्नीतस्य शिष्टत्वात् । तथा च वाज. सनेयिनां श्रुतिः-स यत्नुचि परिशिनष्टि तदग्निहोत्रोच्छिष्टमिति । तस्याऽऽतञ्चने भक्षलोपः।

हुत्वा महदभिवीक्षेत ।

हुत्वेत्यव्यवधानार्थमुक्तं लेपमार्जनात्पूर्वमेव यथा स्यात्स्थानाल्लेपमार्जनानन्तरं मा भूदिति । तर्हि तत्रैव कुतो नोक्तम् । अत्रोक्तं श्रुतिपाठक्रमेणेत्यदोषः । महदिति व्यापित्वादाकाशमिति केचिन्न तु न कर्मासमवेतार्थावेक्षणेन दृष्टार्थता स्यादतोऽवशिष्टं भूयो महदित्यन्ये । तदपि भूयःशब्दावशिष्टशब्दप्रयोगाभावान्महच्छब्देनाभिधानं कथं स्यात् । बहुशब्दविकारो भूयःशब्दः संसृष्टानेकद्रव्यसंख्यावचनः । महच्छब्दो द्रव्यपरिमाणवाची । न हि महच्छब्देनाभिधेये भूयःशब्दो युज्यते । तस्माद्ब्रह्मैव महच्छब्दवाच्यं व्यापकदृष्टया ध्येयं, तत एव नपुंसकता च । बृहत्त्वाबृंहणत्वा. च्चाऽऽत्मैव ब्रह्म । एवमात्मनः संस्कारे कर्तृसंस्कारत्वेन दृष्टार्थता ब्रह्मरूपत्वेन कर्तृत्वेन ब्रह्मार्पणं प्रायश्चित्तं चेत्यनेकानि प्रयोजनानि सिध्यन्तीत्ययं साधीयान्पक्षः । तथैवोक्तं वैखानसेन भक्षाय भूयः कुर्याद्भुत्वा भूमानं विष्णुं ध्यायेदिति भूमानं यो वै भूमेति श्रुतेरात्मानं विष्णुं व्यापकं ध्यायेदिति ।

रुद्र मृडानार्भव मृड धूर्तमृड नमस्ते अस्तु पशुपते मा मा हिꣳसीरिति स्रुचा त्रिरुदञ्चमग्निमति वल्गयति ।

सकृन्मन्त्रो द्विस्तूष्णीम् । अग्निमग्निज्वालामुद्दीची वल्गयति प्रेरयति कम्पयतीति यावत् । तसह कात्ययनो द्विः प्रकम्पयतीति ।

स्रुचं निधाय लेपमादाय ।

लेप प्रणालीगतमङ्गुलीभिरादाय ।

पितृभ्यस्त्वा पितृञ्जिन्वेति दक्षिणतः स्थण्डिले लेपं निमार्ष्टि।

स्रुचो दक्षिणे भागे स्थल । स्थण्डिलग्रहणं कूर्चे पूर्ववन्मा भूदिति । नीचा हस्तेनेति वैखानसः । उत्तानेनेति कात्यायनः ।

अप उपस्पृश्य।

श्रौतमुदकस्पर्शनम् । वृष्टिरसि वृश्च मे पाप्मानमिति हुत्वोपस्पृशतीति ब्राह्मणं यथा होष्यद्विादप्ति विद्य मे पाप्मानमिति शाखान्तरीयोऽधिकोऽत्राधिकस्यापाठात् । याजमाने पठ्यमानस्तत्रैव विकल्पते नात्र तस्याद्याप्यपठितस्यावुद्धिस्थत्वात् । ३५२ सत्याषाढविरचितं श्रौतसूत्र- [ ३ तृतीयप्रश्ने-

पूषाऽसीति द्विरङ्गुल्या प्राश्याऽऽचम्य पुनः प्राश्नाति ।

भक्षायावशेषितं द्रव्यमङ्गुल्या यया कयाचिदे कयैव विधेयविशेषणस्यैकत्वस्य विवक्षितत्वात् । अनामिकथेति वैखानसकात्यायनावानुस्तदप्यविरुद्धम् । प्राश्या$5. चम्ब पुनः प्राभातीत्यनेनैव द्विःप्राशने सिद्धे द्विरितिग्रहणं मन्त्रद्विरुक्त्यर्थ द्विःप्राशने प्रत्येकमयमेव मन्त्रो न तु गर्थेभ्यस्त्वेति द्वितीये प्राशने भरद्वानदर्शित इति अङ्गुल्याऽऽदाय तत्रैव प्राश्याऽऽचम्योदकं सकृत्पीत्वा ततो बहिर्गत्वा शुद्धयर्थ. माचम्य पुनरादाय मन्त्रेण प्राश्य बहिर्गत्वा शुद्धयर्थमाचामति । शुद्धयर्थमाचमनं स्मृत्यैव प्राप्तं मध्ये चाऽऽचमनं तु न शुद्धयर्थ विधीयते स्मृत्यैव प्राप्तेरतोऽपां पान. मेव कर्माङ्ग विधीयते प्रथमभक्षणपानयोर्मध्ये तु न स्मात शुद्धयर्धमाचमनं प्राणाहुति- मध्ये त्वशुद्धतोच्छिष्टकृता नास्तीति स्मरणात् । न चोदकपानद्वितीयभक्षणमध्येऽपि न शुद्धयर्थमाचमनमिति वाच्यम् । उदकपानं पुनः नुग्गतं नोच्छिष्टेन स्प्रष्टुं शक्य. मिति शुद्धयर्थमाचमनं ततो द्वितीय भक्षणम् । अङ्गुल्या गृहीतं यन्मन्त्रेण भक्षित तदेव मन्त्रेण संस्कृतमिति तद्भक्षणार्थं पुनमन्त्रः । अत्र पक्षणे शब्दकरणं दन्तस्पर्शन चाऽऽपस्तम्बवैखान सकात्यायनौनिषिद्धमस्माकमप्यविरुद्धम् ।

स्रुचं दर्भाꣳश्चाऽऽदायोदङ्ङुत्सृप्य ।

दर्भान्कूर्चमित्याहुस्तददृष्टार्थमापयेतातो दशैंः प्रक्षालनं विधास्यत्येतदर्य दर्भा- नपि । भरद्वाजेन तु बहिषोपयम्येत्युक्त्वा बार्हषि लेपं निमार्टि, इत्युक्त्वाऽम आहवनीये बहिरनुप्रहरतीन्युक्त कूर्चस्यानुप्रहरणाभावात् । किं चौषधीम्पसादनमु- क्तम् । द निति शब्देनान्य एव प्रक्षालनार्थ दर्मा इति गम्यते । त्रुचं गृहीत्वो- दग्दिशं प्रति विहाराहहिः पृष्ठतो विहारं कृत्वा गमनं पर्यावर्तने तु विहारस्य पृष्ठतः करणं परिभाषायां निषिद्धमत्र वचनाक्रियते ।

आग्नेयꣳ रेतः प्रजननं मे अस्तु दशवीरꣳ सर्वगणꣳ स्वस्तये । आत्मसनि प्रजासनि पशुसन्यभयसनि लोकसनि वृष्टिसनि । अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्त । रायस्पोषमिषमूर्जमस्मासु दीधरदिति ।। १८ ।।

प्राग्दण्डयोदग्दण्डया वा स्रुचा द्विराचामति द्विश्च निर्लेढि ।

खुत्रा धारया खुरगतमेकवारं किंचित्पीत्वाऽन्तर्गते तस्मिन्पुनः पीत्वा तो खुर्च निःशेषं जिह्वया स्वादयति । तदपि द्विः । चकारस्तु सकृत्वाशन द्विलेहनं विपरीत सकृदयमपीत्यनेकानांनाहुः सूत्रकृतस्ता(स्त)निरासार्थमुपात्तो द्विश्च द्विरेवाऽऽचामति

१ घ.. ज. अ. द. "रत्स्वाहेति । ७स०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३५३

निर्लेढि द्विरेवेति । मन्त्रस्त्वाचमने प्रथमे द्वितीयं तूष्णी संसृष्टद्रव्यस्य नुग्गतस्य संस्कार्य- त्यान्न तु पृथक्करणमङ्गुल्येव विहितमस्ति । यत्रैकस्मिन्निति न्यायेन सकृदेव मन्त्रो द्वितीयं तूष्णी लेहनं द्विस्तूष्णीमेव मन्त्रस्य प्रथमं धात्वर्थेन संबद्धस्य चरितार्थत्वाद्भिन्नेन नान्येन संवध्यते । अत्र स्मृतावग्निहोत्रहवण्याः कलौ लेहनप्रतिषेधात्तयाऽऽचमनमपि प्रतिषिद्ध. मतो हस्तेनेत्याह भाष्यकृत् । ततः गुग्गतं सर्व सकृद्धस्तेन ग्रहीतुमशक्यं चेत्तदा पात्रान्त. रेण गृहीत्वोत्सृप्य धारया भक्षणं लेहनं च पात्रस्यैव । पात्रं ताम्रातिरिक्तधातुकृतम् । अन्यस्योच्छिष्टस्य पुनर्ग्रहीतुमयोग्यत्वात् । अथ वा स्रुचा चुलकपूरणमात्रं गृहीत्वा द्विराचम्य द्विनिर्लेढि हस्तमेवात्र पात्रान्तरेणैव गृहीत्वोत्सृप्य हस्तेन मक्षणं लेहनं च ।

गर्भेभ्यस्त्वा गर्भान्प्रीणीहीति वा ।

पूर्वेण विकल्पः।

सौर्यꣳ रेतः प्रजननं मे अस्त्विति प्रातः ।

अयं च पूर्वश्चापि विकल्पते प्रातरपि सौर्यमित्यनेन सूर्यः प्रजामित्यपि पाठः प्रद- शितः । भरद्वाजस्तु स्वाहाकारस्तु प्रदानेषु भक्षे विद्यत इत्यपरमित्याह, तन्नेष्टमाचा- यस्य जुहोतिचोदित एव विधानात् । एवं पयोव्यतिरिक्तद्रव्ये तु गर्भेभ्य इत्येव मन्त्र ऊहानापादकत्वात्सायं प्रातश्च पयसि विकल्पः ।

स्रुचमद्भिः पूरयित्वा सर्पेभ्यस्त्वा सर्पाञ्जिन्वेति विधुक्षति ।

पूरितमुदकं भूमौ त्यजत्युत्तरेणाऽऽहवनीयमुच्छिष्टभानो जिन्वेत्युत्तरेणाऽऽहवनी- यमपो विसृजेदिति वैखानसोक्तेर्हस्तेन मक्षितेऽपि स्रुच एव पूरणं विसर्जनं च । दृश्य. ते च कात्यायनीयानां पात्रान्तरेण भक्षणेऽपि त्रुचैवापां विसर्गः । तत्सूत्रानुसारेण पात्रान्तरेण हस्तेन वा भक्षणेऽपि त्रुचमेवाद्भिः पूरयेत् ।

आचम्य।

स्मृत्या प्राप्तमपि पूरणात्पूर्व मा भूदिति तस्माद्भक्षणानन्तरमनाचान्त एव नुचं निनी- याऽऽचामेदिति नियमः । अथ वा यथा लेहनप्रतिषेध एवमुच्छिष्टेन स्नुचः संस्पर्श- प्रतिषेधकल्पनायामाचमनमयमेव पक्षः साधीयान् । प्रथमनिनयने सति पश्चाद्यदाचमनं विहितं सूत्रकृता तस्य पूर्वमेव जातत्वान्न पुनः क्रिया । तस्य श्रौतत्वे तु पुनरपि क्रियताम् ।

स्रुचं दर्भैः प्रक्षाल्य ।

अद्भिरेव प्रक्षालनं लेपापकर्षणं तु दभैः ।

  • इदं सूत्रं सूत्रपुस्तकेषु गर्भेभ्य इति सूत्रात्प्रारिपद्यते ।

४५ सत्याषाढविरचितं श्रौतसूत्र- [३ तृतीयमने-

पूरयित्वा सर्पान्पिपीलिकाञ्जिन्वेत्यप उत्सिञ्चति ।

नुचमिति पूर्वमनुकृष्यते । ऊर्ध्न सिञ्चति त्यजति पूरितकदेशोत्सेचनं वक्तुमप इत्युक्तम् ।

सर्पदेवजनाञ्जिन्वेति द्वितीयां भूतेभ्यस्त्वेति तृतीयां महते देवायेति चतुर्थीम् ।

स्नु, द्वितीयामित्यादि ज्ञेयमुसिञ्चति झुग्गतम् । आपस्तु ता उसिञ्चति पूरणप्रत्यया अपि विशेषण, तथा च पूर्वमुसिक्तास्ततो द्वितीया इत्यादि ज्ञेयम् । अत एव भरद्वाजः प्रथम द्वितीयमित्याद्येव क्रियाया विशेषणमेवाऽऽह । न च द्वितीयान्तं पूरयित्वेत्यने- नानुषज्यमानेनापि संबध्यते । यद्येवं तह्यग्रे पुनः स्युचं पूरयित्वेति न वदेत्पञ्चमीमि स्येव ब्रूयात् । तस्मात्पूरितकैव चतुर्थोसिश्वतीत्येव सिद्धम्

स्रुचमद्भिः पूरयित्वा पृथिव्याममृतं जुहोमि स्वाहेत्यपरेणाऽऽहवनीयमपरेण वा गार्हपत्यं निनयति ।

निनयति रेचयति तदर्धमेव ।

गृहेभ्यस्त्वा गृहान्प्रीणीहीति तस्यैकदेशमञ्जलौ पत्न्याः ।

निनयतीति पूर्वमाकृष्यते । एकदेशम् ।

पत्नी यदि नान्वास्ते सर्वं पृथिव्याम् ।

निनयतीति पूर्ववत् । अनालम्भुकाऽनानवादिना न संनिहिता तदाऽपरेणाऽऽहब- नोयं गार्हपत्यं वा सर्व द्वितीयमेकदेशं गृहेभ्यस्त्वेति पृथिव्यामेव निनयेत् । देवपत्नी- रुद्दिश्य निनीयते तत्र यजमानपत्न्यञ्जलिरधिकरणं तदपगमे तु न प्रधानलोप इति । न च यजमानपत्नीसंस्कारोऽयं द्वितीयादिश्रुतरश्रवणादत एव न प्रतिपनि विभज्य निनयनं तस्यैकदेशमञ्जकी पत्न्याः पत्नी यादे नान्वास्त पर्व पृथिव्यामिति तस्यैक- देशं सर्वमञ्जलौ यदि नान्वास्ते तदा पृथिव्यामिति सबन्धः । सर्वग्रहणं च प्रति- पत्ल्यावृत्तिनिरासार्थ, परार्थान्येकेन क्रियेरनिात न्यायस्य परार्थे संस्कार एव-प्रवृ. तिरिति मा भूपि तहि स्वार्थ यत्र भवत्येवं रूपे चादृष्टार्थेऽपि कर्मणि तथा चैकयैव पत्न्या सिध्यति निनयनमिति वक्तुं सर्वमित्युक्तम् । पृथिव्यामित्यपि न प्रकृतं परामृश्यतेऽपि तु पत्न्यजलिप्रतिनिधित्वेन विधीयते । पत्न्यञ्जलिकरणे याऽधस्ता- स्पृथिवी तस्यामित्यर्थः । आपस्तम्बस्तु पत्न्यायतन इति । दर्शयति च तत्रापि यजमानस्य देवानां चेति विकल्पसंभवात् । अस्माकमपि मन्त्रवर्णप्राप्त्युपस्था पित एव पत्नीस्थानमपि पृथिवीं शब्दनोपस्थाप्यत इति । अत एव भरद्वाजो द्विः पृथिव्यामिति । द्विरिति ग्रह्णादेकत्र स्थल इति गम्यते । स्थलं च प्रकृतमपरेण गाई पत्यं ततः स्थलविकल्पः। ७स० पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३५५

हस्तं प्रताप्य स्रुच्यवदधाति स्रुचं वा निष्टप्य हस्तेऽवदध्राति सप्तर्षिभ्यस्त्वा सप्तर्षीञ्जिन्वेति स्रुचोदगुद्दिशति ।

आहवनीये प्रतपनं प्रत्येत्येत्यभिधास्यमानत्वात् । सुक्नुवमाहवनीये प्रतितप्य निदधातीति कात्यायनः । उदग्दिशं प्रति हस्त संसृष्टया चोद्दिशति मनसा च दर्शयति ।

स्रुचं निधाय प्रत्येत्य स्रुवेण गार्हपत्यदक्षिणाग्न्योर्जुहोति प्रत्याहुति समिधोऽभ्याधाय ।

समाख्याप्राप्तजुर्बाधार्थ नुवेणेत्युक्तं, द्रव्यं च प्रकृतं स्थालीगतं तस्य शेषभूतस्य प्रतिपत्तिसापेक्षत्वात् । शेषाज्जुहोतीति भरद्वाजः । द्रव्यविधेः प्रधानार्थत्वादाहव. नीय आहुतिद्वयमेव प्रधानमतः स्थालीगतस्य नाशे तु न पुनरुत्पत्तिरपि तु होमा- भाव एवापरान्योः । सभ्यावसथ्ययोस्तु नास्त्येव होमो विना संभवात् । होमावशिष्टं तु यदि पिवेत्तदा ब्राह्मण एवेति दर्शितम् । जुहोतिचोदितत्वेन दर्विहोमत्वेऽपि प्रत्याहुतीत्युक्तं तदितरधर्मनिवृत्त्यर्थम् ।

मयि पुष्टिं पुष्टिपतिर्दधातु रायस्पोषमिषमूर्जमस्मासु दीधरत् । अग्नये गृहपतये रयिपतये पशुपतये पुष्टिपतये कामायान्नाद्याय स्वाहेति द्वे गार्हपत्ये जुहोति ।

आहुती इति शेषः ।

अन्नपतेऽन्नस्य नो देहीति द्वे दक्षिणाग्नौ ।

ऋगियं जुहोतिना चोदितत्वात्स्वाहान्तया होमः ।

अपि वा चतस्रो गार्हपत्ये जुहुयाच्चतस्रो दक्षिणाग्नौ ।

गुरुनिर्देशः सभ्यावसथ्यनिवृत्त्यर्थः ।

न वा जुहुयात् ।

प्रेकृतयोोमाभाव एवैकः पक्षः ।

अपिप्रेडग्निः स्वां तनुवमयाड्द्यावापृथिवी ऊर्जमस्मासु धेहीति स्थाल्यां तृणमङ्क्त्वाऽऽहवनीयेऽनुप्रहरति न वा ।

न बर्हिरनुप्रहरतीति श्रुतेः । यजमानसंस्थितौ मृताग्निहोत्र एव तृणप्रहरणं नान्य- दाऽसस्थितो वा एष यज्ञ इति वचनात् । आहवनीये बर्हिरनुप्रहरतीति वाजसनेयि- श्रुतेश्च विकल्पः ।

१ घ. ङ. ज. झ. ज.ति द्विर्गार्ह । २क. ख. ग. छ. ण.ट. 8. 'त्ये । आ । ३ घ. रु. ज. झ. अ. ति द्विदक्षि। ४ क. ख. ग. छ. ट. ठ. " "त्ये चत । ५ क. ग, च. ट. ठ. ण. प्रवृत्तयो. ६ क. ग. ट. ठ. ण. एकैकः । 9 सत्यापाढविरचितं श्रौतसूत्र- [३तृतीयप्रो-

अग्निहोत्रस्थाली प्रक्षाल्य--

द्यावापृथिवीभ्यां त्वा द्यावापृथिवी जिन्वेत्यन्तर्वेद्याꣳ संक्षालनं निनयति ।

दिस्याने मध्ये स्पष्टम् ।

परिषिञ्चति यथा पुरस्तात् ।

गतार्थम् ।

दीदिहि दीद्यासं दीदिदामेसीत्युपसमिन्धे ।

हुत्वोपसमिन्ध इति श्रुतेर्होम एकत्र कृते तत्रैवोपसमिन्धनं सर्वत्र होमे तत्रापि सर्वत्रोपसमिन्धनमिध्माधानवत् । परिस्तरणापगमनं च पुनः प्रयोगदर्शनात् । अलं करणं पूर्व व्याख्यातम् । याजमानं वृष्टिरसौति अनाज्ञातनपो विष्णुस्मृतिश्च । प्रायश्चित्तमनाज्ञाते यजमानो यथेतं गच्छति ।

आज्येन जुहुयात्तेजस्कामस्य पयसा पशुकामस्य दध्नेन्द्रियकामस्य तण्डुलैरोजस्कामस्य यवाग्वा ग्रामकामस्यौदनेनान्नाद्य कामस्य माꣳसेन वीर्यकामस्य सोमेन ब्रह्मवर्चसकामस्य ।

जुहयादिति सर्वत्रानुषज्यते नित्यद्रव्यस्य स्थान उक्तकामः सायंप्रातः सकृदुक्त- कामसंकल्पपूर्वकं जुहुयात् । तत्राऽऽह कात्यायनः संवत्सरपक्षेण पूर्वपक्षयित्वा सायं प्रातति । तस्मात्काम्यः सकृदेव प्रयोगः । तेजः शरीरशोभा परैरधृष्यता वा। पशुकामस्येति स्पष्टम् । इन्द्रियमिन्द्रियपाटवं मनःपाटवं, ग्रामः सजातसमुदाये- प्वाधिक्यम् । अन्नाद्यमन्नसंपत्ति जनसंपत्तिश्च । वीर्य बलं रेतोधिकता वा। ब्रह्मवर्चसमध्यापनादिना तद्राह्मणस्यैव । इत्येतानि काम्यानि । पैङ्गयस्तु नित्यमपि दश द्रव्याणि नित्यानि काम्यानि चेत्याइरन्ये तैलमापश्चेति अद्भिवृष्टि कामस्य सैलेना- भिचरत इति पैनिश्रुतेः।

यदन्यदधि श्रयणात्प्रतिषेचनाच्च तद्दध्नस्तण्डुलानाꣳ सोमस्य च क्रियते ।

श्रीतप्रतिषेधादविश्रयणमझारेषु नास्ति तन्निमित्तः प्रतिषकोऽपि नास्ति । दधि लौकिकं तण्डुलाश्च तथा त्रीहीणां तत्र प्रसिद्धः। सोमस्य रस एव न वल्ली पूतीकास्तु यागार्थ एवं प्रतिनिधिर्वाचनिको न सर्वत्र ।

१ घ. झ. व. न्वति स्थालीर संक्षाल्यान्तर्वेदि नि ।ज. ठ. 'न्चति स्थाली प्रक्षाल्यान्त' यदि नि । २ घ.. ज. श. म उ, मेसि स्वाहेत्यु। ३ क, ख, ग, च. छ. ट. 8. ण, णात्सरि- काच। (अपटला] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३५७

अपां प्रत्यसनकाले दर्भतृणाभ्यामाज्यं प्रत्यस्येत्प्रतिषेकं यवागूꣳ श्रपयति । यथा यवागूमेवं माꣳसम् ।

आज्यं प्रत्यस्येत्तृणे हरस्ते मा विनैषमितिमन्त्रेणोदकप्रतिषेको नास्ति । आदौ निषेकं कृत्वा पश्चादुद्भवः स्थति कार्य न पुनः प्रतिषेको यवाग्वां मांसेऽपि तथैव मांस मेध्यं क्रयादिलब्धं न तु हिंसया तस्या अविधानात् । मांसं च यदुदकपचनीयं तदेवति वक्तुं गुरुनिर्देशः । यवागूर्यथोदकपाकाहा॑ सा तथा मांसमुदकपाकाह तदेव तथाऽन्यस्य नान्ये संस्काराः समाना एव सर्वेषु द्रव्येषु ।

पर्वणि राजन्यस्याग्निहोत्रं जुहुयानान्तराले ।

राजन्यो राजजातीयस्तस्य पर्वण्येव नान्यदा ।

यत्त्वस्य गृहेऽन्नं क्रियते तस्माद्ब्राह्मणाय मुखतो हरन्ति तद्धुतमस्याग्निहोत्रं भवति य ऋतꣳ सत्यमिव वदन्नी- जानः सोमेन स्यात्तस्य सदाऽग्निहोत्रं जुहुयात् ।। १९।।

इति हिरण्यकेशिसूत्रे तृतीयप्रश्ने सप्तमः पटलः ।

तुशब्दो विशेषमाहाग्निहोत्राकरणे राजन्यस्य गृहे यत्पच्यतेऽन्नं त[स्मात्प्रथमतो ब्राह्मणाय हरन्ति मार्यादयो दद्युस्तेन दानेनैक(वा)स्य राजन्या(न्यस्या)ग्निहोत्रकर्म हुतं कृतं भवति नित्याग्निहोत्रस्थान इत्यर्थः । इति सत्याषाढहिरण्यकेशिसूत्रव्याख्यायां महादेवकृतायां प्रयोगवैज- यन्त्यां तृतीयप्रश्ने सप्तमः पटलः ॥ ७ ॥ अग्निहोत्रं च समाप्तम् ।

3.8 अथाष्टमः पटलः।

अष्टमेन पटलेन नानाकर्मव्याख्या तत्र नियतानि द्वेधाऽऽधानादनन्तरमेव नियतो- पक्रमाणि तानि प्रकृतिभूतानि व्याख्यायाऽऽधानादनियतोपक्रमाणि नियतानि विकृति. रूपाणि व्याचिख्यासुमध्ये नैमित्तिकमपि नियतमेवेति नियतत्वेन प्राप्तं यजमानस्य देशा- न्तरगमनं तत्र विधिं व्याचिरव्यासुर्गमनद्वैविध्येन प्रतिनियतं विधिद्वयं वक्तुं गमनं विशिनष्टि-

१ घ. रु. ज. झ. म. द. भतरुणा' ।२ घ. ङ. ज.झ. अ. द. जुहोति नान्त । ३ क. स. ग. च. छ. ट. ठ, ण. 'न्ति । तु। ३५८ सत्याषाढविरचितं श्रौतसूत्रं- [तृतीयप्रश्ने-

ऋते गृहस्य प्रवासं व्याख्यास्यामः ।

विना मार्यया यजमानस्य ग्रामसीमातिक्रमेण वसतिः प्रवासः । तत्र विधेर्याजमानत्वा- थानमानप्रश्नं व्याख्यास्याम इत्यर्थः । ऋते विना गृहस्य पार्यायास्तृतीयाथै पञ्चम्यर्थे वा षष्ठी। न प्रवासति न प्रयातीति पृथगनिर्देशात्प्रवासो विना भार्यया सीमातिक्रमणे वसतौ रूढः । सह भार्यया तत्रैव प्रयाणशब्दस्तत्र प्रयाणनिमित्तो विधिर्यदहुत्वा वास्तोष्पतीय प्रयायादिति प्राप्तो न प्रवासे प्राप्नोति पृथकर्मत्वादित्याशयेन विषयभेदं प्रदर्याऽऽध्वर्यवत्वेनात्र प्रयाणविधिं व्याचष्टे-

सगृहस्तु प्रयास्यन्यत्र पञ्च नव दश वा सꣳहिता वसति यत्र वा नव रात्रं वास्तु पुनरभ्येत्येकां वसीत तत्र वास्तोष्पतीयं जुहोति ।

सगृहः प्रयास्यनुहोति । तुशब्दः प्रवासाद्वैलक्षण्यार्थः । सभार्यः सीमातिक्रमण वसति करिष्यत्प्रयास्यन्नित्यनेनाग्निसहभाव उक्तो न ह्यग्नीपरित्यज्य सभार्यस्य गमनं विहितं तथात्वेऽग्निहोत्रकाले दंपत्योः सीमान्तरस्थस्वेऽग्निनाश एवेति नाग्नीन्विहायाय- मुभयोः प्रयाणविधिः । बहुभार्यस्यैकया सह भावेऽपि न दोषः । प्रवासति यजमाने तु मायर्यादिना भार्याया अपि सानिकायाः प्रयाणे तत्राप्ययमेव विधिः । मामाद्गामान्तरग- गर्न प्रयाणं न गृहागृहान्तरगमनम् । प्रयास्यन्नामान्तर गमिष्यन् । तस्किमविशेषण नेत्याह-यत्रेत्यादि । यत्र ग्राम पञ्च नवेति शाखान्तरोयं दर्शयति स्वशाखीय तस्माद्यत्र दशोषित्वा प्रयातीति श्रुतेरवर्वाचीने सति वासे ततः प्रयाणे न होमः । यत्त- तोऽर्वाचीनं न वास्तु यत्र पञ्च वसामीति संकल्प्य पञ्चरात्रिषु संहितासु कालान्तराव्य- वहितासु वासे ततः प्रयास्यन्न्यूनत्वे तु न होमः । एवं नव दर्शति संकल्पाद्विकल्पो व्यवस्थितो दर्शितः। प्रथम संकल्पाभावेऽपि पञ्चायन्यतमपक्षेण प्रयाणे होमो ज्ञेयः । न हि गृही स्वगृहे वासार्थ संकल्पं करोति तस्मात्प्रयाणमध्ये यत्र वसतिस्तत्र संकल्प कृतेऽन्यतमपक्षस्वीकारो नान्यत्र । यत्र दशेति संकल्प्य नवरात्रं वास्तु ततो देवात्स्व- गृहे स्थानान्तरं वा गत्वा पुनर्नवरात्रोषितस्थलमैत्येकां रात्रिमुषित्वा ततः प्रयास्य . होतीति विशेषविधिः । केचित्पञ्चनवसंकल्पेऽपि ज्ञेयं संकल्पितरात्रिषु काश्चिदुषित्वा पुनरागत्यावशिष्टामुषित्वा जुहोतीति स व्यर्थं न चेत्युपलक्षणमेकामिति च संकल्पित- न्यूनत्वस्य च विशिष्टपूरणस्य चेत्या स्तन्न विधिमात्रगम्योऽर्थोऽसति विधौ न प्राप्नोति। होमनिमित्तं व्याख्याय प्रयाण इतिकर्तव्यताहोपात्पूर्व कर्तव्यमाह

सर्वं भाण्डं यानेष्वादधाति ।

नेतव्यं माण्डनातं रथशकटबलीवई पुरुषेषु यथोपपन्नेषु यानेषु याति तद्भाण्डजातं प्रापयति यस्तानि यानानि प्रवहणानि तेषु तेषु स्थापयतीत्यर्थः ।

१ क.ख. ग. च. छ. ट ठ..तिर्यत्र न। (अ०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३५९ यदन्यजिहीर्षन्ति पूर्व तत्प्रवहन्ति । भाण्डेभ्योऽन्यद्यत्किंचिद्यजमानस्य निनीषितं पुरुषास्तद्धोमात्पूर्वमेव गृहाबहिः प्रव. हन्ति नेतुं शिरआदिषु गृह्णन्ति ।

अहुते वाऽपोद्धरन्ति तस्माद्देशात् ।

यन्निनोषितं पुरुषाः प्रवोढुमथ तदैवाशक्ता भवन्ति तदा तत्स्थानतो बहिरयोद्धरन्ति बहिः स्थापयन्ति । होमे त्वहुत एव पश्चाछुते बहिनिर्गमितं यथाकालं नयेयुनं तु होम- काले गृहेषु स्थापयेयुः ।

सर्वेषु युक्तेषु दक्षिणोऽग्निष्ठस्य युक्तो भवति सव्यस्य योक्त्रं परिहृतमनूत्सक्तमथ वास्तोष्पतीयमनुद्रुत्योत्तरया जुहोति ।

यानवाहनेषु बलीवश्ववाम्यादिषु यथोपपन्नेषु योजितेषु योक्त्रैर्बलीवर्देषु सत्सु ततोऽग्निष्ठस्याग्निशब्देन समारूढाग्निका अरण्य उच्यन्ते । एता यत्र संस्थाप्य नीयन्ते तच्छकटं रथो वाऽग्निष्ठस्तस्य च दक्षिणो धुर्यो युक्तो भवति । सव्यस्य योक्त्रं पूर्वमेव शम्याकुम्बात्परिहतं निर्गमितं तच्छम्याकुम्बे तूत्सक्तमासञ्जितं ततोऽग्निं विद्वत्याध्वर्यु- राज्य संस्कृत्य दर्विहोमधर्मेण वास्तोष्पते प्रतिनानीहीत्युचमनुत्य पठित्वा वास्तो- पते शग्मयेति जुहोति । वास्तोष्पतिर्देवता रुद्रः खलु वै वास्तोष्पतिरिति श्रुतेः । तदीयो होमो वास्तोष्पतीयं कर्म पुरोनुवाक्यामनूच्य याज्यया जुहोतीति । यद्यपि पुरो- नुवाक्यान्त ओं कर्तव्यो याज्यान्ते वषट्कार इति प्राप्तं तथाऽपि जुहोतिचोदितत्वेन दविहोमत्वान्न यागत्वम् । पुरोनुवाक्यामनूच्य याज्ययेति तृतीयया मन्त्रस्य करणत्वा- का स्वाहाकारान्तो मन्त्रः प्रणवान्तताऽपि न पुरोनुवाक्यायां दर्विहोमत्वादिष्यत इति वक्तुमनुवृत्योत्तरया जुहोतीत्युक्तम् । अत्र द्वाभ्यामृग्भ्यामेको होमः साध्य इत्येव पर्यवस्यति । यथा द्वाभ्यां जुहोतीत्युक्ते यत्र मन्त्रगणेन होमस्तत्र प्रतिमन्त्रं होमभेदः स्यादतोऽनुद्रुत्येति । एवं सर्वत्रानुद्रुत्येत्यत्र द्रष्टव्यम् ।

न हुतेऽभ्यादधाति ।

छते सत्यग्नौ काष्ठतृणपर्णधृतादि किमपि न प्रक्षिपति ।

नावक्षाणान्यसंप्रक्षाप्य प्रयाति ।

समारोपानन्तरं सत्स्ववक्षाणेषु दह्यमानकाष्ठादिषु तान्यसंप्रक्षाप्यादग्ध्वा न प्रयाति किं तु दग्ध्वैव । १ घ. ङ. ज. न. °दन्वाजिही । २ घ. ङ. ज. झ. अ. द. प्रयुक्तो। ३ घ. छ. ज. झ. म. इ. पत इत्यनु । ४ क. ख. ग. च. छ. ट, ठ. ण. ‘त्तमया । सत्याषाढविरचितं श्रौतसूत्रं- [३ तृतीयपने- ३६०

एवं स्थिते-

अयं ते योनिर्ऋत्विय इति पृथगरणीष्वग्नीन्समारोप्य प्रयाति ।

रयिमिति मन्त्रान्तः । नित्यधार्यों द्वौ चतुरो वाऽऽहवनीयधार्यपक्षे त्रीपञ्च वा पृथगरण्योर्द्वये द्वये मन्त्रेण समारोप्याऽऽधानसंस्कृतारण्योर्हिपत्यमन्या लौकिक्यस्त- तरान् । गृह्याना सति तमपि समारोप्य प्रत्यनि मन्त्रावृत्त्याऽरण्योः प्रतपनं समारो. हणमुक्तं बावृष्ये । अयं ते योनिविय इत्यरणी प्रतपतीति पृथगिति प्रत्यग्नि द्वयो. योररण्योराधानकमेणाऽऽरोपयति ।

अथो खल्वाहुर्यदरण्योः समारूढो नश्येदुदस्याग्निः सीदेत्पुनराधेयः स्यादिति या ते अग्ने यज्ञिया तनूस्तये- ह्यारोहाऽऽत्माऽऽत्मानमच्छा वसूनि कृण्वन्नस्मे नर्या पुरूणि। यज्ञो भूत्वा यज्ञमासीद स्वां योनिं जातवेदो भुव आजायमानः स क्षय एहीत्यात्मन्समारोप्य प्रयाति ।

अथो खल्लाहुः पक्षान्तरमित्यर्थः । पूर्वविकल्पार्थमर्थवादप्रदर्शनमुत्तरार्थवादोफ्लक्ष. णमाध्वर्यवकाण्डपठितत्वेन याजमानसंज्ञाभावेऽपि निर्देशादन्य इति न्यायप्रदर्शनेन यन. मानकर्तृकत्वज्ञापनार्थम् । तथा हि दृश्यतेऽध्वयोरेन्यस्य यजमानस्य निर्देशो यजमानो वा अग्नेयोनिः स्वायामेवैनं योन्या समारोहयत इत्यात्मनेपदं च यजमानकर्तृकत्व- माह समाख्याया आत्मनेपदश्रुत्या स्वायां योन्यामिति सप्तमीश्रुत्या वा सीद स्का पोनिमितिलिङ्गासनाधया बाधाविति । आत्मसमारोपणं तु हस्तपतपनं हस्तद्वयस्ये- त्यन्ये प्रताप्य तदूष्माणं मुखेन गृह्णातीत्यन्ये तूष्णीं प्रताप्योष्मग्रहणे मन्त्र इत्यपरे । यजमानो हस्तं प्रताप्य मुखाय हरत इति वैखानसः । चौरादिभयेऽपि समारोपणमि. च्छन्ति न तत्र होमस्तस्य प्रयाणनिमित्तत्वात् । स्मरान्ति व्याधिते प्रोषितेऽपि समारो. पणमध्वर्युणा तदसंनिधौ भार्ययाऽपि यनमानप्रतिनिधेः प्रतिषेधेऽपि स्वसंस्कारव्यति. रिक्तकर्मसु भवेदेव प्रतिनिधिरिति स्थापितत्वादात्मसमारोपोऽपि भार्यया तस्यामयो- ग्यायामध्वर्युणाऽपि कार्य इति न्यायादवगम्यते प्रयाणमुभयोरेव । यदि प्रयाणप्राप्ताव. संनिहिते यनमानेऽध्वर्युणाऽरणीसमारोपो भार्यया वाऽऽत्मसमारोप इत्यादि ज्ञेयम् । प्रामसीमातिकमे च दंपती अरण्यन्वारम्मं कुरुतोऽकरणेऽग्निनाशः । नानासीमास्वपि प्रथमान्त्ययोरिति केचित् । आपदि यजमानासंनिधौ मार्यवान्वारमते । प्रोषिते यन- माने तु होमकाले पल्या प्रामान्तरगमने नदीतरणे चाग्नीनां लौकिकत्वमेव ।

यत्र वसति तत्र प्रागस्तमयान्मन्थति ।

रात्रौ प्रयाणे तु प्रागुदयादित्यपि ज्ञेयम् । असंस्कृतारण्योरभाने बौधायनेनारण्यो- राधानकृतयोरेव सर्वाग्नीनां समारोपणमपि विहितं क्रमेण समारोप्य क्रमेण मथितेषू. पावरोहणमथवा सकृन्मथित्वा विमज्य प्रत्येकमुपावरोहणं तदापदि ज्ञेयम् । . (अ.पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३६१

उपावरोह जातवेदः पुनस्त्वं देवेभ्यो हव्यं वहतः प्रजा- नन् । आयुः प्रजाꣳ रयिमस्मासु धेह्यजस्रो दीदिहि नो दुरोण इत्यात्मन्समारूढमरण्योरुपावरोह्य मन्थति ।

मन्थतीत्युभयविध्यर्थमात्मन्समारूढमरण्योरुपावरोह्येत्यात्मप्तमारोपपक्षे ।

लौकिकं वाऽग्निमाहृत्य तस्मिन्नुपावरोहयते ।

आत्मारूढं शुद्धमग्निमाहृत्य पूर्वोक्तमन्त्रेणोपावरोहयते । अत्यन्तापदीदमिति भाष्यकृत् । उपावरोहणमनुप्राणनमिति भाष्यकृत् । हस्तप्रतापनपक्षे तु मन्त्रेण स्पर्शनमरण्योरुपावरोहणं मुखेन ग्रहणे मुखवातस्पर्शनम् । गार्हपत्यं मथित्वाऽऽ. यतने निधाय दक्षिणाग्निं तथैव तत आहवनीयं विहृत्य मथित्वा वाऽऽयतनेषु निधा. याग्नीनरण्योः समारोपणपक्षेऽपि मथित उपावरोहणमन्त्रजप इत्याचारः सोऽप्य- विरुद्धः प्रमाणं ततोऽग्निहोत्रं जुहोति ।

इदꣳ श्रेयोऽवसानं यदगात्स्योनो मे द्यावापृथिवी अभूताम्। अनमीवाः प्रदिशः सन्तु मह्यं गोमद्धनवदश्ववद्धिरण्यवत्पुरुषवत्सुवीरवत्स्वाहेत्यवसिते जुहोति ।

प्रयाणेऽवसितेऽवसानं गते समाप्ते यत्र पञ्च सप्तदश वा रात्रीर्वसामीत्यवसितेऽ. तः परं न प्रयाणमस्तीति स्थितेऽपि दर्विहोमधर्मेण जुहोति । तथा च मध्ये मध्येऽ. चीनवप्सतावपि न होमोऽपि तूद्देश्ये स्थाने प्राप्त एव वास्तोष्पतिहोमः । अतिदेशोपदेशाम्यामाज्याद्यङ्गाप्राप्तौ कथं जुहोतीत्याकाङ्क्षायां दर्विहोममर्थप्राप्त व्याचिख्यासुः प्रतिनानीते-

दर्विहोमान्व्याख्यास्यामः।

अव्याख्यातानामङ्गालाभादनुष्ठानमशक्यमिति गौरवं दर्शयितुं प्रतिज्ञाकरणम् । रूढ्या संज्ञेयम् । न हि दर्विद्रव्यस्य होमः स्यात्संततं विग्राहं चतुर्गृहीतादि वा दाः परिवेषणकाष्ठस्य संभवति । नापि दा साधनेन जुह्वादिसाधनविरोधात् । कथं तर्हि दहिोमा ज्ञेया इत्यत आह-

जुहोतीति चोद्यमाने दर्विहोमो यत्र च स्वाहाकारः।

जुहोतिना विधिप्रत्ययान्तेन विधीयमाने कर्मणि दविहोमे होमनामधेयं ज्ञेयम् । तत्र चतुरवत्तं जुहोतीत्यत्र दविहोमत्वमाशङ्कयोक्तं यत्रेत्यादि । जुहोतीति हुधातो. र्जुहोतीति रूपं तेन विहितं कर्म प्रक्षेपान्तं दानं तत्र दाने हि रूढ्या जुहोतीति भावव्युत्पत्त्या होमशब्दः प्रयुज्यते न तु जुहोतिचोदितेददाति चोदिते वा दाने

१ घ. ड.ज ढ. स्वाहाकाराः। ४६ २६२ सत्याषाढविरचितं श्रौतसूत्र- तृतीयपने-

वा तत्रैव प्रक्षेपान्तदानार्थस्वाहाकारः प्रयुज्यते रूढयेव । स्वाहाकारण वषट्कारेण या देवतायै हविदीयत इति श्रुत्या ह्यविशेषेण भयोद नार्थत्वमेवक्तं तथाऽपि यातिदाने वषट्कार एव रूढया श्रुत्या च यथा वै समृतसोमा इत्यनुवाकेन प्रजा- पतिर्देवासुरानसृजतेत्यनेन चाङ्गत्वेन विहितः प्रतीयते । तद्वज्जुहोतिचोदित एवं दाने स्वाहाशब्दो दानार्थः प्रयुज्यते रूढ्या वागभ्यवदादित्यादिना श्रुत्या च तहशि. तमेव प्रयानव्याख्याने । तथा च चतुरवत्तं जुहोती त्यादौ नुहोतिना बादितस्य दानस्य वषट्कारेण कृतस्य पुनः स्वाहाकारेण करणायोगात्तत्र प्रक्षेपमात्रेणोक्ता जहानिरित्ये- सस्थास्यासंभवान्न सदविहोमशब्दवाच्योऽस्वाहाकारत्वादिति पावः । ननु किमत्र व्याख्येय निसामान्येन दर्शपूर्गमामविध्यन्तेन साङ्गा एव होमा भगिन्ति । अस्ति तदङ्गमपि । यत्कीटावपन्नेन जुयादित्यादिनाऽग्निहोत्रऽपि दृश्योऽन्तःपरिधि निनयनं प्रायश्चितार्थ तदसत्यतिदेशे परिधि पत्तत्वं न स्यादिति भवस्येव लिङ्गमिलि शानिरासार्थ दर्विहोम इति विशिष्ट मुक्तम् । श्रुतौ विहोमत्वेनाप्रकृयविकृति- रूपा रूढ्या दविहोमशब्दवाच्यास्तान्ब्यास्यास्यामस्तेषां च स्वरूपं जूहोगी यादि नोक्तं ज्ञेयमित्युक्तं भवति । ननु कथं सति मादृश्ये चाप्रकृत्यविकृतिरूपा लिङ्ग विरोधेऽपीति चेदुच्यते-लिङ्गं च परिधिप्रदेशलक्षणोऽ(s)न्यथैव सिद्धमित्ये तत्यपश्चित जैमिनीयस्ततो ज्ञेयम् । अग्निचयने वैश्वानरं द्वादशकपालं निपेदित्यत्र निर्वपतिना यज्यनुमाने दर्शपूर्णमामविध्यातप्राप्तौ तत्प्रतिषेधार्थ दर्विहोमं करोतीति दविहोमसादृश्येन प्रयाजाद्यङ्गनात प्रतिषिद्धं तदर्थवदिव । यत्प्रयासान्या मान्कुर्या- द्विकस्तिः सा यज्ञस्येति प्राप्तप्रयाजादिमत्तां निन्दित्वा तद्विहितं दविहोममेव कुर्यादिति चोपसंहृतमतो ज्ञायते न दर्शादिविध्यन्तो होमेषु । तथा यदेकथा जुहुयादिति दविहोम- मन्द्य दर्विहोमत्वं निन्दित्वा च द्वयसाध्यया साम्येन स्तुत्वा पगेनुवाक्यामनुच्येत्या. दिना च द्वयसाध्यहोमेऽपि दानमस्तीत्युक्तम् । ततो न होमा विकृतयः, नापि प्रकृ. सयः स्वधर्मविरहात् । वक्ष्यति हि स्वधर्मवत्त्वे च प्रकृतित्वम् । यदप्यस्ति स्वधर्मवत्त्वम- ग्निहोत्रपिण्डपितृयज्ञादौ तदपि नातिदेशे प्रयोजकम् । अस्वधर्मेषु होभेषु स्वधर्माणा- मनेकेषां विद्यमानत्वाञ्च कस्यातिदेशः स्यात् । सर्वोपसंहारस्य चाशक्यत्वाद्विकल्प. स्याष्टदोषदूषितत्वात् । किं च न स्वधर्माणां सादृश्मात्रेणातिदेशोऽपि तु लिङ्गेनाति. देशेऽनुमिते यश्चा(चा)नस्थाविकल्पनिरासार्थ सादृश्येन नियममात्रं क्रियतेऽन्यथा विहितक्रियाऽन्येन सामान्येन परस्परं प्रकृतिविकृतिभावः सर्वेषामपि विधिलक्षणानां कर्मणां स्यात् , तच्चानिष्टमतः सति लिङ्गेऽतिदेशो मृग्यते । न चात्र स्वधर्मशीलम- दर्शनमखधर्मेषु होमेषु क्वचिदस्ति । तस्मान्न ते प्रकृतयस्तेषामत एव नान्ये विकृतयोऽ- परेषामिति । तत्र दविहोमशब्दो रूढ इत्युक्तं भवति । तस्मादङ्गावेदक प्रमाण न्यास्पेयमित्याशयः । यदपि वचनात्कौण्डपायिनामयनगते कर्मणि मासमग्निहोत्रं (अ०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३६३

जुहोतीत्येतस्मादग्निहोत्रस्य प्रकृतित्वं तन्न होमस्य च विकृतित्वं तत्र दविहोमस्ववि. घातकं किं तु साधकमेव। यदि सादृश्यादतिदेशः स्यात्तदा संज्ञयाऽतिदेशो न स्यात्। तु एवं च हुत्वाऽग्नौ पितृयज्ञवदितिम्मृत्युक्तातिदेशो ज्ञेयः । अथ वक्ष्यमाणदविहोम. धर्माणामग्निहोत्रेऽपि प्राप्तौ गाहमयदक्षिणान्यो)मे चाऽऽहुतिद्वये च समिद्वय- प्राप्तौ पुनर्वचनमितरधर्मपरिमंख्यार्थमतो न तत्र दविहोमधर्माः । तथा पिण्डपितृ. यज्ञेऽपि दक्षिणं जान्वाच्येति विधानान्नियमविधानादितरधर्माणां फलतः परिसंख्ये. त्यादि ज्ञेयम् । दर्शपूर्णमासयोरङ्गहोमेषु न * दविहोमनिवृत्तये ज्ञापकान्युक्तान्येवेति भलमतिप्रसङ्गेन ।

ताꣳस्तूष्णीकेनाऽऽज्येन सकृद्गृहीतेनाग्रेणाऽऽहवनीयं परीत्य दक्षिणतस्तिष्ठञ्जुह्वाऽऽहवनीयेऽध्वर्युः स्वाहाकारेण जुहोति ।

इदमनादेश एष्टंव्यमिति यद्यपि तथाऽपि विशेषविधिर्वाध उत्सर्गस्य भवेदिति पर्यवमानाइनादेश इत्येवावतिष्ठते । तत्राऽऽज्यं द्रव्यमनादेश एतद्वा अग्नेः प्रिया तन- रित्यर्थवादादपि खलु क्षिप्रसंस्कारमाज्यं ब्रुवत इति बौधायनो तेराज्यशब्दस्य जाति. वाचित्वेऽपि वचनात्मस्कारोऽस्त्येव यः श्रौतः स दर्शपूर्णमासप्रकरणगत इति तूष्णीके नापूर्वदविहामेषु प्राप्तिरत उक्तं तूष्णीकेनेति तूष्णीको मन्त्रवनितो यथा स्मा? भवतीत्यर्थः । विशेषानभिधाने मकृग्रहणमर्थवादाच्चतुरुनेषी३ द्विर्नुहोषी ३ इत्यर्थ- वादे द्विरुनयनं द्विोंमे विनियुक्तमतश्चतुरुनयने द्विरुन्नयनमधिकमित्युक्तं सकृ. दोमे सकृदेवेत्यतेऽत्र सदिति मुरणाऽऽज्यस्थाल्याः सकृद्गृहीतेन । अग्रेणेति प्रादक्षिण्यविधिशादृक्तमध्वर्युकर्मणामामनस्याननियमाभावानियमार्थमुक्तं तिष्ठन्निति । जुहनि यौगि क्या संज्ञयो तमाहवनीय इति चापि तथा यदाहवनीये जुह. तोति श्रुतेश्च सर्वहोमार्थत्वेन हऽऽहवनीय इयनेन प्राप्तमनूद्यते तयोः परिसंख्या मा भूदिति अध्वर्यग्रहणं सूत्रान्तर आश्वलायनीये जुहोतीति चोदिते प्रायश्चित्ते ब्रह्माणं कर्तारं प्रतीयादिति तन्मतनिराकरणेन प्रायश्चित्तविहोमेष्वपि व्याप्त्यर्थम- न्यथा यजुर्वेदविहितत्वेनैवाध्वर्युकर्तृकत्वसिद्धेः स्वाहाकारेणेति स्वाहाकारेण हविर्दीयत इति श्रुतेदर्दानार्थ प्रयोगः । एवं च स्वाहाकारं प्रायौगिका निनयति संस्रावयति प्रहर• त्यादधातीत्यादावपि मन्त्रान्ते स्वाहाकारं प्रयञ्जते । तदयुक्तं स्वाहाकारस्य जुहोति. चोदनायामेत्र विधानात् । किंच चतुरवत्तं जुहोतीति जुहोतिचोदनायामपि न स्वाहाकाराप्राप्तिर्गौणमुख्ययोर्मध्ये मुख्य कार्यमंप्रत्यय इति न्यायाद्यागाङ्गप्रति गत्ति. भूते होमे दानस्य वषट्कारेणैव सिद्धत्वाज्जुहोतिना प्रक्षेपमात्र लक्ष्यत इति गौणता

  • नेतिपदमधिकं प्रतिभाति । ३६४

सत्याषाढविरचितं श्रौतसूत्र- [ ३ तृतीयप्रश्ने-

चतुरवत्तादिहोमस्य । एवं जातवेदो वपयेत्यादावपि न स्वाहाकार इति सिद्धम् । तान्होमान्होमैरिति वाच्येऽप्यग्निहोत्रं जुहोतीत्यादौ द्वितीयाश्रवणादुत्पत्तिविधौ होम कुर्यादित्य वगमात्र प्रत्ययेनैव तदुपपत्तेस्तत्साधुत्वार्थ जुहोतिप्रयोग इति ज्योतिष्टो- मेन यजत इत्यादौ तृतीया यागेषु होमेषु प्रायेण द्वितीयैव सा पूर्वोक्तरीत्या नेया । मनु स्वाहान्तेन मन्त्रेणैव कर्मणो दानरूपस्य समान्त्रस्य न कर्मसंनिपात इति चेत् । उच्यते--स्वाहान्तेन दवप्रक्षिपतीत्यर्थस्य विवक्षितत्वाज्जुहोतेश्च प्रक्षेपापवर्गदान. वाचित्वरूदेः स्वाहाकारस्यापि तथात्वात्तत्र सामर्थ्यात्स्वाहान्तेन दानस्य जातत्वात्तेन मान्तस्य संनिपातायोगात्तदेकदेशेन प्रक्षेपेणैव मन्त्रान्तसंनिपात इत्यनिच्छताऽप्यङ्गी- कार्यम् । तथा च यत्र संभवः कर्मादिसंनिपातस्य तत्र तथाऽन्यत्र स्वेकदेशेनापि तस्याप्यसंभवे त्वसंनिपातोऽपि यथा वषट्कारान्तया याज्यया यागसिद्धेश्वशेषाभावा. देकदेशेनापि न संनिपातः । वषट्कारस्तु दानमाने रूद इति यजतेरपि तथात्वान्न वषट्कारान्तया याज्यया प्रक्षेपोऽपि तु प्रक्षेपस्य पृथक्कर्मत्वेन वषट्कारोपलक्षिते काले प्रक्षेपांशो विधीयते न तु तं प्रति वषट्कारान्तस्य साधनतेति अपश्चितं परिभाषायामेव ।

द्विप्रभृत्याहुतिगणेषु प्रत्याहुति गृहीत्वा प्रत्या- हुति समिधोऽभ्याधाय विग्राहं जुहोति ।

द्विप्रमृतय आहुतिंगणाः समुदायस्तत्र प्रत्याहुति यावत्य आहुतयस्तावत्संख्ययाऽऽ. यानि गृहीत्वा प्राप्तिस्तु चतुरुनेगी३ द्विर्नुहोषी३ इत्यर्थवादादेव । प्रत्याहुति समिध इत्यप्यनिहोत्रे यव समिधावादध्याद्भातृव्यमस्मै जनयेदिति समिद्य- निन्दायां प्राप्ते हि निन्दाऽनः प्रत्याहुति समित्याप्तिरिति सकृदेवाऽऽधाय विमाह विगृह्म विगृह्याऽऽहुतिपर्याप्तं विच्छिद्य विच्छिद्य जुहोति पूर्वोक्तधर्मेण । तन्त्रानन्त- गतेऽपि परिस्तरणपरिपेको धर्मोको सामयाचारिकावित्यत्र नोकौ । तन्त्रान्तर्गतो. पहोमानां त्वाहवनीय आहुतयो हूयन्त इति समिधामपि परिसंख्या द्वे आहुती जुहोति तिनश्चतस्त्र इत्याद्याहुतिंगणा ज्ञेयाः ।

यत्र मन्त्रगणेन कर्म चोदयेत्प्रतिमन्त्रं तत्र जुहुयात् ।

द्वाभ्यां जुहोति वैष्णवीभ्यामृगभ्यां कूश्माण्डैरित्यादिगन्त्रसमुदायेन कर्म होमाख्यं विदध्यावदः कर्ता तत्र कर्माण्यकमन्त्राण्येवेति परिभाषया नानामन्त्रेषु संख्यायुक्तेष्व. प्येकमन्नतोक्ता । तत्र गुणकर्मत्वेन गुणकर्मगता संख्या न भेदिका कर्मणः संस्कार- कत्वेनापूर्वानुत्पादकत्वाइपूर्वभेवप्रयुक्तो न कर्मभेद इति मवेदेकं कर्माभ्यस्तमप्येकमन्त्रं च १५. छ. ज, म. म. द. भूतियाई । २ क, ख, ग, च. छ. द. सोहैं नि । स (अ०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३६५

स्यात्तथा न होमेषु कुतः । होमानां स्वप्राधान्येन विहितानामपूर्वीयत्वात्तस्यैकत्वान- वगमाच्च गुणगतसंख्यया गुणभेदात्कर्ममेदे प्रतिकमैकैको मन्त्रस्तेन साध्यानि तावन्त्येव कर्माणि यथा सप्तदश प्राजापत्यान्पशूनालभत इत्यत्र पशुगता संख्या यागानां भेदिका। तदसत् । एकद्रव्येणैक एव संस्कारोऽपेक्ष्यते स चैकेनैव कर्मणा भवति सामर्थ्यासंख्यया वाऽभ्यासस्तस्यैव कर्मणो न तु कर्मभेद इत्यवश्यं मन्त्रान्तरं संनिपातार्थ नानाम- श्रेष्वेकमन्त्रतैवाम्यात प्रत्यनङ्गत्वाच्च मन्त्राणामित्युक्तमेवेत्याशयः । किंच यदेकया जुहुयादविहोमं कुर्यादिति निन्दया यत्र समुच्चयस्य प्रत्याख्यातत्वात्प्रथमस्य द्वारा- न्तरेण विवियोगं वक्तुं पुरोनुवाक्यातो न स्तुतिः । ततो न दर्विहोमेषु मन्त्रसमुच्चय इति सिद्धम् ।

जुहोतिशब्दे प्रदेशान्व्याख्यास्यामः ।

जुहोतिः शब्दः श्रुतिविधायको यस्य कर्मणो होमलक्षणस्य तत्र कर्मण्युत्सर्गप्राप्ता- हवनीयापवादेन प्रदेशानधिकरणभूतान्देशग्रहणेन न त आहवनीयप्रतिनिधयोऽपि तु सत्यप्याहवनीयेऽपवादेन विधीयन्त इति ते देशाः स्थानान्येव स्वातन्त्र्येणाधिकरणमिति दर्शितम् ।

स्वकृत इरिणे प्रदरे दर्भस्तम्बे स्थाणाविति ॥ २० ॥

इतिकरणः प्रकारवाची। स्वकृत इरिणे जुहोति प्रदरे वाऽभिषेचनीयेऽवमृथादुदे. स्यापां नप्त्र इति दर्भस्तम्ब ठों नप्त्र इति स्थाणौ जुहोति । स्वकृतमिरिण स्वभावो- खरभूमिभूमिगतः प्रदर इतिकरणाद्वमनोर्जुहोतीत्यादि ज्ञेयम् । आहवनीयप्रतिनिधिषु विशेषमाह-

आहवनीयापनयोऽनग्नौ तस्मिन्नेव देशे जुहोति ।

यत्राऽऽहवनीयस्यापनयोऽपह्नवोऽप्राप्तिस्तत्र तस्मिन्नेव देश आहवनीयायतनदेश एका सत्र तदनादिकमानीयाजकर्णादौ होतव्यम् । न तु यत्र तिष्ठति तत्र होतव्यमजाद्या- हवनीयाग्नेः प्रतिनिधिर्न तु तदायतनप्रदेशस्य तस्य साक्षादेव संभवात्सूत्रारम्भस्तु यदि मथ्यमानो न जायते यत्रान्यं पश्येत्तत आहृत्य होतव्यमिति वदत्यन्येषु तथाऽऽढत्य होतव्यमित्यनभिधानात्तथा न स्यादिति तन्मा भूदिति । एवमप्रकृतिविकृत्यात्मकान्दर्विहोमान्व्याख्यायेदानी दर्शपूर्णमासविकृतिषु व्याख्या- तासु व्याचिख्यासितासु धर्मलाभायातिदेशाख्यं प्रमाणं व्याचष्टे-

दार्शपौर्णमासिकानि प्रधानान्युत्तरस्यां ततौ चोद्यन्तेऽन्यत्र सोमाद्धर्माद्दर्विहोमेभ्यश्च ।

दर्शपूर्णमासयोः कर्मसमुदाययोः समुदायित्वेन भवानि दार्शपौर्णमासिकानि प्रधा-

A घ. ङ, ज, झ. म. ढ, °ब्दे दे। सत्याषाढविरचितं श्रौतसूत्र- [३ तृतीयपने-

नान्यानेयादीनि उत्तरस्यां दर्शपूर्णमासौ हि संहितायामिषे त्वेति प्रपाठके पठितमन्त्री पुरोडाशप्रश्नाम्यां व्याख्यातौ । तथा सं त्वेति प्रश्नन पाकयज्ञमित्यादितोऽनुवाकैः षड्भिविश्वरूप इति समिध इति च प्रश्नाभ्यां याज्याकाण्डेन च व्याख्यातौ । तयोः काण्डं प्रथममिषे त्वेत्युपक्रमवशात्पूर्वत्वं तत उत्तरत्र शाखायां यानि विधीयन्ते तान्य. त्तरोत्तराणि । तानि सर्वाणि व्यस्तान्येवेति वैमृधादिपवान्तया संतत्या संतानेन क्रमेण सूत्रकृता व्याख्यातानि | तान्युत्तरा ततिस्तस्यां चोद्यन्तेऽतिविश्यन्ते । सोमो ज्योतिष्ठोम एकाहाहीनसत्राणि । धर्मः प्रवर्यो दविहोमाः पिण्डपितृयज्ञोऽग्निहोत्रादयस्ते. म्योऽन्यस्यां ततौ । ननु दर्शपूर्णमासी गतिविश्यमानौ परस्परविलक्षणनानाधर्मसमु. दायात्मको तो कथं धर्मनियामको स्यातामिति शङ्का तदर्थसमुदायिग्रहणान्ते हि सामा- न्यधधर्मवन्तः प्रतिनियतधर्मकाश्चैकैक एकैकत्र कर्मण्यतिदिश्यत इत्यर्थः । ननु समु. दायो हि फलसाधनं फलापूर्वकरणेतिकर्तव्यता सहकारिणी सा प्रत्येकं कथं स्यादत भाह-प्रधानानीति । उत्पत्तिविधयो हि प्रातिस्विकास्तविहितेष्वेवेतिकर्तव्यताग्रहणा- प्रत्येक साङ्गता प्रधानता च । प्रधानसमुदायो हि फलार्थ विधीयतेऽतः प्रत्येक प्रधान मुत्तरततिगते कर्मण्येकै कस्मिन्नेवातिदिश्यत इति मावः । ननु दार्शपोर्णमासिकान्येवातिदिश्यन्ते सोमादिभ्योऽन्येष्वेवेति नियमौ कस्मात्तथा च प्रधानेष्वतिदिष्टेषु कथमङ्गप्रातिर्न हि प्रधानान्यङ्गानि भवन्तीत्यत आह-

तानि स्वधर्माणि ।

स्वस्वसंबन्धेन विहिताः स्वीया धर्मा अङ्गानि येषां तानि तथा यतस्तानि तानि स्वधर्मपूर्णानि । यद्धि पूर्णधर्मकं तद्ध्यपूर्णधर्मकेऽतिदिश्यते । दर्शपूर्णमासावुपदिष्टध भको वैमृधादिष्वनुपदिष्टधर्मकेष्वेव सापेक्षेष्वेवातिदेष्टव्यौ न तु सोमाविषूपदिष्टपूर्ण धर्मकेण्वपि निरपेक्षेषु । यत्र चाऽऽग्नेयवस्कर्तव्यमित्युच्यते तत्र वत्प्रत्ययेन तत्प्रकारक कर्तव्यमिति गम्यते न तु तदिदं कर्तव्यमित्यतिदिश्यते विरोधात् । सति ह्यङ्गसापेक्षे कर्मणि तदपेक्षानिवर्तनार्थ तद्वदित्युच्यते । तदेव चेदेतस्य स्थाने स्याद्वतिप्रयोगो विरु- श्येत । तस्मात्प्रधानान्यतिदिश्यमानान्यप्यर्थात्स्वधर्माणि स्वधर्मयुक्तान्यतिदिश्यन्ते । तथा च तद्धर्मयुक्तमेतत्कर्तव्यमित्यर्थो भवतीत्यर्थः । लोके हि बालो व्युत्पाद्यते यदा वर्णग्रहणे तदा ककारे व्यञ्जनेऽकारादिस्वरान्योजयित्वा वदति खकारोऽपि तद्वदिति तदा बालोऽप्यविद्यमानान्खकारे ककारे दृष्टान कारादीन्योजयति तद्वदिहापि । किंच न हि कृतं पुनः कर्तुं शक्यं किं तु तादृशं तथाऽङ्गान्यपि कृतानि पुनरत्र तान्येव न कर्तुं शक्यन्ते किंतु तज्जातीयानीत्येव । कर्म तु शब्दान्तरादिनिर्भिन्नजातीयत्वेनावगतं I तत्र तज्जातीयता स्वशक्या कर्तुमिति च ज्ञेयम् । अ०पटलः ] महादेवकृतवेजयन्तीव्याख्यासमेतम् । ३६७

ननु ज्योतिष्टोममात्रस्य स्वधर्मत्वेऽप्येकाहादीनामतथात्वात्तत्र दर्शपूर्णमासातिदेशः कथं न स्यात्तथाऽत्र यदि दार्शपौर्णमासिककर्मपरिणामो नोत्तरततिस्तदा कथं प्रकृतिविकृतिता स्यान्मृद्धटयोरेव तथात्वदर्शनात्तथा च सर्वाण्युत्तरततावतिदिश्यन्ते तदाऽपि धर्माणां विरोधो वा विकल्पो वा स्यादत आह-

सादृश्याद्विकारः।

अहीनादयः साकाङ्क्षा अपि ज्योतिष्टोमादेवाव्यक्तचोदनात्वेन सादृश्यात्तस्य विकारा न तु दार्शपौर्णमासिकानां व्यक्तचोदनानां, तस्मादिष्टिपशुबधा एव द्रव्यदे. वतासंबन्धनोत्पन्ना व्यक्तचोदनत्वेन सादृश्याद्विकारा न तु विना द्रव्यदेवतासंबन्धमुत्प. नस्य ज्योतिष्टोमस्येत्यपि सिध्यति । तथा दार्शपौर्णमासिकप्रधानसादृश्यादेव विकारो न तु त्रिक्षणस्थितिस्वभावानि कर्माण्यन्याकारेण परिणति गच्छेयुरतो गौणः प्रकृतिवि. कृतिभावो न तु मुख्यो मृद्धटवत्साङ्गदर्शपूर्णमाप्तयोरर्थेऽवयवा इव येऽवयवा अङ्गानि तान्युत्तरततौ विद्यन्त इति स विकारः । न च सर्वाणि सर्वत्रातिदिश्यन्तेऽपि तु पर- स्परमवान्तरसादृश्यादेकस्यैवैकत्रातिदेश इति त्रेधाऽऽवृत्त्या सूत्रं योज्यम् । तथा सादृश्यात्तदिदं कार्यमिति वाक्यमतिदेश इतीयता सूत्रसंदर्भेणोक्तम् । तदुक्तममि. युक्तैः- 'अन्यत्रैव प्रतीतायाः कृत्स्नाया धर्मसंततेः । अन्यत्र कार्यतः प्राप्तिरतिदेशोऽभिधीयते ॥ इति । प्राकृतात्कर्मणो यस्मात्तत्समानेषु कर्मसु । धर्मप्रदेशो येन स्यात्सोऽतिदेश इति स्मृतः ' ॥ इति च । ननु वैदिकं कर्म यथा चोदितं तथा च फलायालं न तु तद्वत्कर्तव्यमिति विधिरस्ति न च कल्प्यः प्रमाणाभावादित्याशङ्क्याऽऽह-

स लिङ्गेन गम्येत ।

सादृश्याद्विकारो लिङ्गेन लिङ्गदर्शनेन ज्ञातव्यः । विशेषलिङ्गे सति विशेषे ततस्तु सुतरामतिदेशसद्भावः सिद्ध एवेत्यर्थः । तथा हि-प्रयाने प्रयाने कृष्णलं जुहोतीति प्रयाजानुवाद इष्टौ तथाऽऽघारमाघार्यपशु समनक्तीति पशौ चाऽऽघारानुवादो नैवमे- काहादिषु । तस्माज्ज्ञायते स्थालीपुलकन्यायेन वाचनिकातिदेशेषु च सर्वाङ्गोपसंहारे- णातिदेशदर्शनाच्च दार्शपौर्णमासिकप्रधानधर्मा इष्टिषु पशुषु च । तथा ज्योतिष्टोम- धर्माः स्तोत्र शस्त्रादयस्तावत्क्वचिदेकाहाहीनादिष्वन्द्य गुणा विधीयन्तेऽतो ज्ञायते ज्योतिष्टोमविकारा इति ।

6 १५. र. ज. झ... सामान्यादि। 3- सत्यापाढविरचितं श्रौतसूत्र- [ २ तृतीयप्रो-

ननु सादृश्याद्विकार इत्युक्तं भूयोवयवसामान्यं सादृश्यं न तस्कर्मणि संभवति, पदि करणभूतधातुसाम्येन सादृश्यं विवक्षित तस्यानुमितस्य यजिधातोः सर्वत्र समान स्यास्किंकृतः प्रातिस्विकप्रकृतिविकृतिभावः स्यादथ देवतासामान्य हविःसामान्य पा सादृश्यकारणं तदपि न । न हि जात्या किंचिद्धविर्वा देवता वाऽस्ति नापीतिकर्त- व्यतासामान्येन तस्याचाप्यसिद्धरित्याशक्याऽऽह-

देवतासामान्येन हविःसामान्येन वा यत्र हविः प्रदीयते ।

साहश्याद्विकार इति व्यवहितमपि योग्यमनुषज्यते । देवतासामान्येन हविःसामा- न्येन वा यत्सादृश्यं कर्मणि तस्माद्विकारनियम इत्यर्थः । ननु न जात्या देवता नापि हविरस्तीत्यत उक्तं यत्रेति यस्मिन्कर्मणि यत्यै यद्दीयते सा देवता तच्च हविस्तयोरन्तर- इयोरुभयसामान्येनान्यतरसामान्येन वा सादृश्यात्प्रकृतिविकृतिविशेषनियम इत्युक्तम् । हविहि जातिशब्दनिर्दिष्टं प्रदेयत्वेन लोकप्रसिद्धमेव विधीयते पुरोडाशादिकं देवता तु न लोकप्रसिद्धा सा शब्दमात्रगम्या नापि वेदेऽपि नात्या प्रसिद्धाऽतो येन शब्देन या विहिता तच्छब्दगतं सामान्यमत्र देवताप्सामान्यं विवक्षितमिति ज्ञेयम् । प्रदीयते तदेव हविन तु तेन शब्देन गृहीतमात्रं, यथा पृषदाज्यार्थं गृहीतं दधि न दीयतेऽतो न दविधर्मालभत इत्युक्तं भवति व्यतिरेकेण । ननु पुरोडाशशब्देन चोदितस्य पुरोडाशेषु सामान्यं भवेन्न तु चरुयवागूधानाकरम्भादिषु तथाऽऽज्यपयोदधिद्रव्याणां तज्जातीयेषु तैलमधुषु पश्वामिक्षयोर्वाजिने च तथा देवताग्न्यादिशब्दमात्रसामान्येन सादृश्यं कथं सूर्यादिना सादृश्यं चेति चेत् । उच्यते-नात्र सामान्यशब्देन जाति- मात्रं विवक्षितमपि तु तद्गतधर्ममात्रं तत्रान्तरङ्गबहिरङ्गभेदेन यद्यत्र संभवति तेन सादृश्यकल्पना सुकरैव सति सामान्यातिदेशे स तु लिङ्गेनाऽऽकाशितेतिकर्तव्यताया गमकेन साधित एवेति सूत्रकृदेवेदं स्पष्टयिष्यति । चर्वादिषु पुरोडाशत्वामावेऽप्यौ. षधद्रव्यत्वेन पुरोडाशसादृश्यं कृष्णलेष्वपशुप्रभवत्वे सति काठिन्येन पुरोडाशसादृश्यं स्वयमेव वक्ष्यति कृष्णलेष्वौषधवकल्प इति । तथा संसृष्टद्रव्यकप्राजापत्येष्टा. याज्यविकारो मधूदके संसृष्टे इति । अप्सु मधुनि चाश्वेतत्वे सति द्रवद्रव्यत्वे. नाऽऽज्यसादृश्यं पशौ साक्षात्पशुप्रभवत्वेन पयःसादृश्यमामिक्षायां च पशुप्रभवत्वे सति श्वेतत्वे सति मधुरत्वेन पयःसादृश्यं वाजिने चाम्लत्वेन दधिप्ताहश्यं तत्सर्व मीमांसातोऽवगन्तव्यं, देवतायां तु देवतैक्यानेकत्ववर्णसाम्यादीनि यानि सादृश्य- निमित्तानीति सूत्रेष्वेव दर्शयिष्यन्ते । ननु किमिदं प्रमाणमतिदेश इति । उच्यते-वै- कृतस्य कर्मण उपकाराकाङ्क्षावशात्पूर्वकर्मणः सकाशादुपकारककर्मकलापसंनि- धायको वाक्याध्याहारोऽतिदेशः । तत्सहकृतो विधिरेव प्रमाणमवगन्तव्यं न हि

  • सूत्रपुस्तकेषु तु हविःसामान्येन देवतासामान्येनेति विपरीतं दृश्यते । (अपटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

विधिलक्षणके कर्मण्यन्यत्प्रमाणमस्ति । विधिविहितस्य कर्मणो ह्याकाङ्क्षा जायते कथमिष्टं मावनीयमिति । तत्र संनिधौ नोपकारकं पश्यत्पूर्वस्मात्सदृशात्तल्लाभं दृष्ट्वोप. कारकाणामङ्गानामङ्गिनिबद्धानामनेकेषां नानोपकारकाणां प्रत्येकं संनिधापनेऽतिगौरवं म्यादिति प्रकृतं प्रधानकर्मैव संनिधाप्यते । तदिदमप्युक्तं दार्शपौर्णमासिकानि प्रधाना- न्येव पूर्व विहितान्युत्तरततावनुषज्यन्ते । तत्रोपकारकमात्रमङ्गनातं गृहीतं स्वसादृश्य- प्रतियोगितया प्रधानमपि गृह्यते नोपकारकत्वेन प्रधानस्य प्रधानोपकारकत्वेन कृप्तत्वात्त. दप्युक्तं सादृश्यमात्रेण विकृतिभावो न तु ताद्रूप्येण दृष्टोऽस्ति तदङ्गसदृशान्यङ्गानि गृहीत्वा पूर्वमङ्गाङ्गित्वेन परिणतो विकृतिर्भवति । प्रत्यक्षानिर्देशे ह्येवमेव वाक्यं दृश्यते । तथा हिसमानमितरच्छयेनेनेति वाक्यस्य वेषुसंज्ञक एकाहे श्रुतस्य श्येनयागेतिकर्तव्यतासदृशीतिकर्तव्यतोचिताऽपि कर्तव्येति वाक्यार्थावगमादिहापि तादृशमेव वाक्यमनुमीयतेत्युक्तमाग्ने यवत्सौर्य इत्यादि । तथा चैतद्राह्मणान्येव पञ्च "हवीश्षि भवन्त्येतह्राह्मण ऐन्द्राग्न एतद्राह्मण एककपाल इति प्रत्यक्षवाक्यानि(णि) मासमग्निहोत्रमिति गौणवृत्त्या पर्यवप्तन्नदृष्टान्तानि लिङ्गानि पूर्वोक्तातिदेशवाक्या. ध्याहारे देवताप्तामान्येन हविःसामान्येनेतीष्टि पशुविषयत्वेनोक्तं सोमे त्वव्यक्तचोद. नाऽपि वश्यते । ननूक्तमुत्तरततिगतेष्टिपशुबन्धानां दार्शपौर्णमासिकान्येव प्रधानानि प्रकृतिरेतद्राह्मणान्येव पञ्च हवींषि भवन्तत्यित्र वैश्वदेवहवींषि वरुणप्रवासादिह. विषां प्रकृतित्वेन श्रूयन्ते मासाग्निहोत्रे दर्विहोमेऽपि प्राकृताग्निहोत्रविकृतित्वं दृश्यत इति चेत् । सत्यम्, न्यायेनातिदेशे हि दार्शपौर्णमासिकानीत्यादिनियमो वचनेनान्य. थात्वेऽपि न दोषः । दर्शपूर्णमासप्रकृतिकत्वे सत्येवान्यप्रकृतिकत्वं पञ्चपशु. व्यतिरिक्तपशुष्वपि लिङ्गदर्शनेन पञ्चपशप्रकृतिकत्वं चापि । तस्मादुक्तलक्षणवा. क्याध्याहारसहितकर्मविधिरेवातिदेशाख्यं प्रमाणमभियुक्तवाक्ययोरप्येवमेवार्थः । तथा हि... अन्यत्रैवं दर्शपूर्णमासयोज्योतिष्टोमे च प्रतीताया विहितायाः कृत्स्नाया धर्मसंततरेङ्गक्रमस्यान्यत्र धर्मसंततिरहितेषु कार्यत उपकारद्वारा प्राप्तिः प्रापर्क वचनमतिदेश इत्यर्थः । तथा प्राकृतात्प्रकृतिभूताद्यस्माद्धर्मयुक्तात्तत्समानेषु समान- धर्मयुक्तेषु धर्मविहीनेषु साकाक्षेषु धर्मप्रदेशो धर्मप्राप्तिर्येन वाक्येन सविधिकेन भवेत्तत्सविधिकमध्याहारवाक्यमतिदेश इत्यनेन रूपेणावस्थिता इत्यर्थः ।

एवमतिदेशस्वरूपमभिधायेदानी तहलाबलचिन्ता क्रियते-

विप्रतिषेधे हविःसामान्यं बलीयः।

देवतासामान्यहविःसामान्ययोर्विरोधे हविःसामान्येन यत्र सादृश्यं तद्बलीयो हविषो योगक्रियाश्रयत्वेनान्तरङ्गत्वाद्देवतायास्तु प्रतिग्रहीतृत्वेन बहिरङ्गत्वात्सर्वत्र हविर्विशे. षणत्वाच देवतायास्तद्धिते चतुर्थ्यन्ते च विशेष्यं तु रूढीतिबुद्ध्यारूढं भवतीति भावः । ४. सत्यापाठविरचितं श्रौतसूत्र- [३ तृतीयप्रश्ने उदाहरति-

यथा वैष्णवः पुरोडाशः।

विष्णुरुषांशुयागदेवताऽन आज्यधर्माः प्राप्ताः पुरोडाशधर्मेण बाध्यन्ते । एव. मानावैष्णवमेकादशकपालं निपेदत्रापि विष्णोदेवतात्वमन्यत्र प्रकृतिदेवताम्य इत्येक- देशेऽपि देवतात्वस्थ वक्ष्यमाणत्वात् ।

एकदेवतास्त्वाग्नेयविकारा अन्यत्र प्रकृतिदेवताभ्यो यथा सौम्यश्चरुरैन्द्रः पुरोडाश इति ।

एकवचनान्तशब्दप्रतिपाद्या देवताऽस्यासावेकदेवतः कर्मविशेषः । एकदेवतश्चैक- देवतश्चेति पश्चादेकशेषेण बहुवचनान्तता । औषधद्रव्यं पुरोडाशचरुयवाग्वादि तत्सा. मान्यमानेपानोपोमीयन्दाग्नेषु साधारणं तत्र विकल्प प्रसक्त निवारयति द्विदेवत्ये. म्यस्तुशब्देन ये चैकदेवताविकृतिविशेषा आग्नेयस्यैव विकारा नेतरयोद्विदेवत्ययो- द्विदेवतयोरपि चावयवगतं सामान्यमेकदेवतत्वबाधकमिति वक्तुमन्यत्रेति । प्रकृती- सोमश्वेन्द्रश्च द्विदेवतावयवभूतावपि यत्र साक्षाद्देवते तत्रैकत्वसंख्याकृतं सामान्य बहिरङ्गाद्विदेवतावयवगतेनापि भूयोवयवसामान्येन शीघ्रमुपस्थितेन देवतासामान्येन बाध्यतेऽतो द्विदेवत्यविकारौ सौम्यश्वसौन्द्रः पुरोडाशः प्रकृतिगता देवता प्रकृतिः सा देवता यस्पासौ तथा तत एकशेषः । यद्यपि न ते द्वे देवते द्वंद्वाच्चतुझं तद्धितेन वा द्वयोरेक देवतात्वमेवावगम्यते तथाऽपि द्विवचनेन द्विदेवतत्वप्रसिद्धेरवयवेऽपि देवतात्व- मुक्तम् । उदाहरणे स्पष्टे । इतिकरण ऐन्द्रवैमृधप्रभृतिविशिष्टदेवता परिग्रहार्थः । सोमेन्द्रस्येन्द्रासोमीयस्या व्यत्वेनैव व्यवस्थेति दर्शयन्नाह-

अथेतरेऽग्नीषोमीयस्यैन्द्राग्नस्य वा ।

विकारा. इति पूर्वतः । अथ प्रकृतादेकदेवतादन्ये ऽनेकदेवतत्वसामान्येनानेकदेव- तयोरग्नीषोमायेन्द्राग्नयोर्विकाराः । वाशब्दो व्यवस्थापिकल्पार्थो यतोऽनियमो नियम सति न युक्त इति । तत्र देवताविग्रहस्येष्टत्वेऽपि शब्दस्य विशेषणता न त्यज्यते । यतो येन शब्देन या यत्रोक्ता सा तेनैव शब्देन युक्ता तत्र देवताऽतस्तु शब्दगत- वर्णसंख्यागतं सामान्यमपि व्यवस्थाहेतुरिष्टं यया शब्दावयवगतं सौम्यस्वादि । देव- तासामान्यं च स शब्दकृतमेवेति दर्शितम् । तस्मादत्रापि शब्दगतवर्णसंख्यया सामान्यं यथा पदमतैकत्वाने कत्वाभ्यां न हि देवता प्रत्यक्षा यद्तमेकत्वाद्यवगम्येत प्रमाणान्तरेण । अत एव कात्यायन: यक्षरावं तेऽग्नीषोमीयस्य व्यक्षरा ऐन्दाम- स्थेति । ऊर्ध्वशब्दप्रतियोगिनोऽधःशब्दस्याप्यध्याहारः । यक्षरादधस्ते व्यक्षराश्च

ख. 'ता, आ। ने ८०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३७१

चतुरक्षरन्यूनत्वसामान्यनैन्द्राग्नविकारा इत्यर्थः । सोमेन्द्रे तु व्यक्षरेऽपि सोमप्राथम्येन शीघ्रबुद्धिस्थेनासंनातविरोधिनाऽग्नीषोमविकास्ता ज्ञेया । तथेन्द्राप्तोमीये व्यक्षरादाधि- क्येऽप्यन्द्रामविकास्ताऽपि ज्ञेया । एवमाग्नेयविकारेऽपि कालसामान्यकृता व्यवस्थेष्टा यतः पशौ वक्ष्यति कालसामान्यादिति । तत्त्वे तत्राऽऽयविकारे पौर्णमास्यां तस्याः समीपे वा कृते पौर्णमासं तन्त्रम् । एवमामावास्यमपि । सर्पपितृस्वात्यादिदेवता विशे- प्याक्षरैरेवेन्द्राग्नसमाना भिन्नलिङ्गवचनानां विशेष्याणां बहिरङ्गत्वात् । विकृतीरुक्त्वा तदङ्कबलाबलमाह-

प्रकृतौ विशिष्टधर्माणामुत्तरस्यां ततौ समवेतानामङ्गविप्रतिषेधे मुख्यत्वं बलीयः ।

प्रकृतौ दर्शपूर्णमासरूपायां तथा विकृतिरूपायामपि स्वधर्मवत्यामिष्टिपशुवन्धरूपायो च यानि विशिष्टधर्माणि प्रधानानि विशिष्टाः परस्परव्याहता धर्मा अङ्गानि येषां तानि तथा ते *विशिष्टधर्मा विपूर्वत्वाच्छिष्टपदस्य न केवलत्वमिति धर्मादनिच्केवलादिति नानिच् । उत्तरस्यां ततौ विकृतिरूपेष्टिपशुवन्धरूपायां समवेतानां चोदकेन प्रापिता- नामङ्गविप्रतिषेधे प्रत्येकं वैकृते प्रधाने प्रत्येकं प्राकृतं प्राकृतं प्रधान समवेतम् । तेषां तन्त्रेणानुष्ठाने परस्परं विरोधे प्रसङ्गेन वा स्वातन्त्र्येण वाऽनुष्ठाने प्रधानः सहाङ्गानां विरोधे समुच्चयायोगाद्वेिकल्पे प्राप्ते तत्रानुष्ठाननिर्वाहायान्यतरबोधक प्रमाणमाह मुख्य- त्वमिति । प्रकृतिभूते प्रधाने मुख्यत्वं मुख्यैः प्रथममनुष्ठानं प्रकृतौ यस्याविरोध्यङ्गं प्रथमप्रकृतावनुष्ठीयते तत्प्रधानमङ्गद्वारा मुखे प्रवृत्तं मुख्यं तस्य मावस्तत्त्वं तद्धर्मस्त- लिङ्गं बलीयोऽन्येषां तत्रानुष्ठानविघटकानामङ्गानां बाधकमित्यर्थः । चातुर्मास्येषु वैश्व- देवपर्वणि अष्टौ प्रधानानि तन्त्रेणानुष्ठयानि तेषु चातिदेशेन प्रापितानि दार्शपौर्णमासि- कानि प्रधानानि । तत्राऽऽग्नेयविकाराणि चत्वारि तानि न विरोधीनि पौर्णमासे दर्शक समानत्वात् । सौम्यद्यावापृथिव्ययोरग्नीषोमीयः प्रकृतिर्मारुतस्यैन्द्राग्नः । आमिक्षायाः प्रातर्दोहः। प्रथमस्य पौर्णमासं तन्त्रम् । ऐन्द्राग्नप्रातःहयोरामावास्यं तन्त्रम् । तन्त्रेणा- नुष्ठातुमशक्यम् । तत्राग्नीषोमीये प्रथममन्वाधानमुभयत्र साधारणम् । वर्हिसहरणम- नन्तरमसाधारणम् । ऐन्द्राने वेदिकरणम् । सानाध्ये शाखाहरणम् । तत्र दाक्षायणे यझे पौर्णमास्यां संनयतचोमयं प्राप्नोति पौर्णमासप्रयुक्तं पूर्व बर्हिःसंनयनप्रयुक्तं शाखाविप्र- तिषेधे मुख्यत्वं वलीयः । कथम् । इषे त्वेति मन्त्रब्राह्मणपाठेनाऽऽदौ शाखाहरणानन्तरं बहिराहरणं यज्ञस्य घोषदासीत्यादिनोक्तम् । तत्र पौर्वापर्येण वैश्वदेवपर्वण्यपि शाखाहरणं बहिराहरणं चेति क्रमे सति भ्यस्त्वादिविशेषकामावान्मुख्यत्वेन पूर्वबुद्धिस्थत्वलक्षणेन

  • सर्वपुस्तकेषु विशिष्टधर्माण इति विद्यते तत्प्रामादिकम् । ३७२

सत्यापाढविरचितं श्रौतसूत्र- [३ तृतीयपने-

दार्शमेव तन्त्र प्रयच्छत्यैन्द्राग्नः सानाय च । सानाय्ययोर्यागद्वित्वेऽपि सायंदोह- स्याऽऽमिक्षार्थत्वान्न प्रधानद्रव्यत्वमिति नाङ्गाकाक्षित्वमिति न तेन भूयस्त्वमाशङ्क- भीयम् । वैकृतानि प्रधानानि युगपदेवाङ्गाकाङ्क्षाणि तेषु युगपदेव प्राकृतानि प्रधा-: नानि संवध्यन्ते । तत्रैक आग्नेयो वाऽग्नीषोमीयो वाऽनेकेषु युगपदन्वयं नार्हति । तथा च प्रतिवैकृतत्वं तु प्रधानमावृत्तान्द्राग्न ऐन्द्रश्च नाऽऽवृत्तावतो न भूयस्त्वमुत्तरयोराश.. ङ्कनीयम् । एवं च प्रकृतिप्रधानगतमेव मुख्यत्वं भूयस्त्वं वा ज्ञेयम् । न तु विकृति- प्रधानगतम्।

मुख्यत्वाद्भूयस्त्वम् ।

पूर्वसूत्रं मुख्यत्वपदव्यतिरेकेणानुपञ्जनीयं सर्वत्रातः परम् । भूयस्त्वमधिकता सजा. तीयप्रधानानाम् । यस्यां कोटौ समानप्रकृतिकानि प्रधानानि न्यूनानि सा कोटिरधिक- प्रधानकोट्या बाध्यते । अयमाशयः-विकृतिसमुदाय आदावुत्पत्तिविधिभिः स्वरूप- मात्रेण चावगतस्तस्यातिदेशप्राप्तये स्वरूपावधारणवेलायामेवाल्पत्वाधिकत्वे वाऽवगते तंत्र बहनुग्रहो न्याय इति विरोधिस्फूर्तिदशायामेवाल्पवाधिकत्वेन निर्णये सति क्रमोऽनुष्ठानं पश्चाद्बुद्धिस्थं तत्रत्यं मुख्यत्वं बाधितं न पुनः प्रभवति बाधकमधिकत्व. (स्वं) बाधितुमिति । यथा दधि मधु घृतमापो धानाः संसृष्टं प्राजापत्यं हविस्तत्र दध्नो मुख्यत्वं शाखाहरणेन याक्ता ज्ञायते तावता पूर्वमेव मध्वादित्रयस्याऽऽज्यविकारत्व- मवगतं तद्भूयस्त्वादनन्तरावगतस्य मुख्यत्वस्य बाधकम् ।

भूयस्त्वात्स्थानम् ।

अग्निष्टोमादौ सवनीयपशुतन्त्रमध्ये विहितानां धानाः करम्भ इत्यादिकानां सवनीय- हविषां वाजपेयादावग्नीषोमीयपशुपुरोडाशमनुनिप्यिाणामनये गृहपतये पुरोडाश मष्टाकपालं निर्वपतीत्यादिकाष्टयागानां दर्शपूर्णमासतन्त्राणां भूयस्त्वात्पशुतन्त्रमेकादश- प्रयाजस्वादि बाध्यमिति प्राप्त स्थानं बलीय इत्युक्तम् । स्थानं पाठसादेश्यमनुष्ठानमा- देश्यमिति द्वेधा । तत्र प्रकृतेऽनुष्ठानसादेश्यं स्थानं सवनीयस्याग्नीषोमीयस्य च तत्र प्रदेशेऽनुष्ठानकाले सवनीयाऽग्नीषोमीया प्रक्रान्ताऽनुष्ठीयेते । तदुपक्रमे सवनीयानु- निर्वाप्याणामबुद्धिस्थत्वात् । तत्र पशुरेव तस्य तन्त्रानुष्ठितकतिपयविरुद्धाङ्गस्य तन्त्र- मध्ये पश्चाबुद्धिस्थानों बहूनां प्रारब्धतन्त्रबाधे न प्रयोजकत्वम् । तस्मात्पशुतन्त्रं प्रस- ड्रेनोपकरोति पुरोडाशान् ।

स्थानाद्विधिः ।

स्थानानुमितो विधिरन्यः प्रत्यक्षेण विधिना बाध्यते । अग्नीषोमीयस्य स्थानमौपवासथ्य-

१ख. च. छ. ट. कृतित्वं । (अ.पटलः] . महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३७३ महः साद्यस्केषु सह पशूनालभत इति श्रूयते । तत्र सहश्रुत्याऽग्नीषोमीयाग्नेयानूबन्ध्या- पशूनां सहालम्भेऽवगतेऽग्नीषोमीयस्य सवनीयात्पूर्वस्थानसामान्येन तत्संनिकृष्टतयैवाव्य- वधानेन प्राप्तं पूर्वभावित्वं तत्प्रकृतौ श्रुतेनाऽऽश्विनं ग्रहं गृहीत्वा त्रिवृता यूपं परिवी. याऽऽग्नेयं सवनीयं पशुमुपाकरोतीति त्वाप्रत्ययसनाथेन विधिनाऽऽश्विनग्रहानन्तर्य विहितं तद्विकृतौ चोदकेन तथैव प्राप्तमनेनाग्नीषोमीयस्य स्थान बाध्यते । विधिर्हि प्राप्तयोग्रहग्रहणाग्नेयालम्भयोरानन्तर्यमानं विधत्ते प्रत्यक्षो विधिः । अग्नीषोमीयस्य स्थानानुमितो यद्यपि विधिरेव प्रमाणं तथाऽपि स स्थानमतिदिष्टमुपजीव्यानुमीयते । स्थाने बाधिते सोऽपि बाधित एवेति स्थानाद्विधिरित्युक्तम् । न च सहश्रुतिसहकृतों विधिरौपदेशिको(क आ)तिदेशिकं बाधेतेति सह श्रूयते संनिकर्षमात्रं वाच्यं न पौर्यि- मपि । न च स्थानसहकृतः सहालम्भविधिरौपदेशिको येन प्रबलो भवति । किं चं प्राप्त आलम्भे गुणद्वयं साहित्यं पूर्वभावित्तं न विधातुं शक्यते । तस्मात्स्थानानुमित एव बाधितो विधिः।

विधेरङ्गम् ।

विधिनाऽऽश्विनानन्तर्यमवगतं साङ्गस्य सवनीयालम्भस्य तन्मध्ये यथाऽग्नीषोमीया- लम्भस्य नावकाशोऽस्ति तद्वदेव तदङ्गानामपीत्येवं प्राप्ते विधेरङ्गं साहित्यविधेरा. लम्भानां संनिकर्षावगमे सति तत्तदालम्भलक्षणसंज्ञपनस्याङ्गमननुष्ठायाऽऽलम्भः कर्तु शक्यते । तस्मादङ्गविधिना साहित्यविधिर्बाध्यते । न च तेषां सर्वेषां तत्तदालम्भात्पूर्व: मेव करणं युक्तमौत्सर्गिकपदार्थानुसमयबाधितसंसृष्टान्येकापवर्गाणीत्यभिहिते काण्डा. नुसमये तु न प्रमाणमस्ति । तस्मात्साहित्यावगतैरङ्गैः पदार्थानुसमयेनाग्नीषोमीयाल- म्भाङ्गराश्चिनानन्तर्य साङ्गसवनीयालम्भस्यातिदिष्टं बाधितम् ।

अङ्गात्प्रधानम् ।

ऐन्द्रावरुणः पुरोडाश ऐन्द्रावरुणी चाऽऽमिक्षा पापयक्ष्मगृहीतस्य श्रूयते । काम्ये. ष्टिभिश्च दर्शपूर्णमासौ संस्थाप्य यजेतेति श्रूयते । ततः प्रतिपदि सद्यस्काला एव सांनाय्यवत्यो यहकाला इति सानाय्यविकृतेद्यहकालतेति नित्येन हविषेष्ट्वा सायदोहं कृत्वा द्वितीयायां याग इति प्राप्तेऽङ्गात्प्रधानमित्युक्तमङ्गस्य कालः प्रधानकालेन पर्वणा बाध्य इति । चतुर्दश्यां दोहः पञ्चदश्यां यागो वैश्वदेवपर्वणि तथा दृष्टत्वादित्याशक्य नित्येन हविषेष्ट्रेति काम्येष्टिपशुबन्धानां नित्येष्ट्यनन्तरमनुष्ठानं श्रुतिप्रामाण्या दा]ह--

११. ट. ठ. 'यस्केषु । ३७४ सत्याषाढविरचितं श्रौतसूत्रं- [३ तृतीयप्रने-

दर्शपूर्णमासयोर्विकृतेश्च संनिपाते दर्शपूर्णमासौ बलीयाꣳसौ ।

दर्शस्य पौर्णमासस्य च प्रत्येकं विकृतेरिष्टिरूपायाः पशुक्न्धरूपाया था संनिपाते कालैक्येन सहानुष्ठाने प्राप्तेऽङ्गविप्रतिषेध एव । दशैं पूर्णमासता विकृतिर्वैपरीत्ये वा विकृतेष्टेविप्रतिषेचे सति प्रकृतेरौपदेशिकाङ्गत्वाद्विकोरनुमितातिदेशेन प्राप्तान्यङ्गानि बाध्यन्ते । बलीयांसो बाधको । एवं च कदाचिद्विकृतेश्च पृथङ्महापीया अपि तन्त्रमा स्तीति ज्ञायते । पशुबन्धस्यामावास्यातस्यैव पौर्णमास्यां तन्त्रेण क्रियमाणस्य पौर्ण. मासतन्त्रता । न चेदं तत्राविधायकमपि तु पौर्वापर्यस्य विधायकमिति वाच्यम् । प्रकारान्तरमुत्तरसूत्रेण विरुध्येत प्रकारान्तरस्य पौर्वापर्यादिरूपस्य तत्र तत्र निर्णयाच। स्पष्टमेवोक्तं भरद्वाजेन--समानतन्त्रा वा विकृतिर्दर्शपूर्णमासौ चेति । एवं च विकृतीनां मध्ये, समानतन्त्रा विकृतिस्तु सद्यस्काला सद्यस्कालया पौर्णमास्यैव संपवति नान्यथा । यहकाला च द्यहकालया चतुर्दश्यपक्रमाणि चातुर्मास्यपर्वाणि द्यप्रकृत्या न समान- तत्राणि सद्यस्काला प्रकृतिः समानता न संभवति पूर्वेधुरुपक्रान्तया विकृत्या । एवं च विकृतिः प्रधानयागात्पूर्वमेव कार्यत्यादि व्यवस्था ज्ञेया । एवं च कास्येष्टिपभुक- न्धानां सांनाय्यावत्सांनाय्यविकृतीनां ग्रहकालत्वविधानेन नित्येष्ट्यानन्तरानुष्ठान विधानेन साङ्गयोः पौपियर्यासंभवात्तन्त्रानुष्ठाने न प्रधानमात्रयोः पौपिर्यायाधात्तम्प्रेणानुष्ठान नियतमेव । तत्र च बलमप्युक्त दर्शपूर्णमासयोविकृतेश्चेति क्रमपाठेनेति भावः ।

यानि त्विष्टिपशुबन्धानां प्रत्यक्षाणि तानि तत्र ।

बलीयांसीति विपतिरणमनुकृष्यते । यानि प्रत्यक्षाणौति. श्रुत्यादिप्रमाणैविकृत्यर्थ- खेन प्रापितानि दर्शपूर्णमासचोदकव्यतिरिक्तप्रमाणेन प्रापितानीति यावत् । न हि सर्वत्र प्रत्यक्षश्रुतिविहितान्येव संभवन्ति । तुशब्देन पूर्वन्यायकाध उक्तः । कथमि. स्थम् । उभयोरौपदेशिकत्वेऽपि येन नाप्राप्ते यो विधिरारम्यते स तस्य बाधको मव. तोति प्राप्त एवातिदेशे विकृतौ प्रत्यक्षाण्यगान्यातिदेशिकाङ्गविरुद्धानि कानिचिदति- देशवाधेनैवोत्पद्यन्ते नान्यथा । तथोक्तं पूर्व परमजातत्त्वादबाधित्वैव जायते परस्यान- न्यथोत्पादानां न त्वबाधनसंभव इति । अत उभयोरौपदेशिकत्वेऽपि विकृत्यङ्गान्येक 'बलीयांतीति वैकृत ऐन्द्राम आश्विने वा समानतन्त्रे प्रत्यक्षाङ्गता नास्ति तथाऽपि सामान्यतः पूर्वमेवातिदेशदार्शपूर्णमासिकप्राप्ता एवायं पाशुकोऽतिदेशः प्रवृत्तः प्रबलः पूर्वोक्तन्यायेनैव । न च दर्शपूर्णमासातिदेशमात्रेण वैकृतः पशुनिराकासो मवति । सामयाचारिकाङ्गनातपूर्वाङ्गनातलामायावत्यापेक्षणातस्य च पूर्वाति देशबाधेन प्रवृ- तस्य बाधको दर्शपूर्णमासातिदेश एवं कथं स्यात्प्रवृत्तस्य पुनःप्रवृत्त्ययोगात् । किंच नैवैकादशप्रयानादिभिः पञ्चप्रयाजताऽपि बाध्यतेऽभ्यस्तेषु पञ्चप्रयानवानपायात् । अपटलः महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३७५

दार्शपौर्णमासिकानीत्यादिनाऽतिदेशं तबलाबलं चोक्त्वाऽधुनाऽऽमिक्षावभृथपशु- बन्धेषु केषुचिच्चातिदेशहेतोरस्वधर्मत्वस्यामावान्न विकृतित्वम् । तदन्यामिक्षापशुत्र न्धास्तु हविःसंज्ञासाम्येन तन्मात्रविकारा इति दर्शपूर्णमासविकृतिरुत्तरा ततिरविशेषे- जोक्ता तत्संकोचनीयम् । कुतः, स्वधर्मा प्रकृतिरस्वधर्मा विकृतिरिति विमागहेत्वो. स्तानि स्वधर्माणीति सूत्रावयवात्फलितयोविद्यमानस्वादित्याशक्याऽऽह-

दर्शपूर्णमासप्रकृतय इष्टिपशुबन्धास्ते स्वधर्माणः सामान्याद्विकारः ।

तएव स्वधर्माणः सामान्यात्तद्विकारश्चेष्टिपशुबन्धा ये सऽप्यविशेषेण दर्शपूर्णमास- प्रकृतय एवोक्ताः । दर्शपूर्णमासौ प्रकृतिर्येषामिति विग्रहः । निर्वपतिना चोदिता इष्टय आलमतिना चोदिताः पशुबन्धाः। तत्र लिङ्गेनातिदेशोऽस्तीत्येतावदेव सिद्धमतिः- देशप्रयोजकं तु सादृश्यं तच्चापूर्वे कर्मणि देवतासामान्येन हविःसामान्येन वा। ततस्तु देवतासाम्यं यद्यप्यव्यापकं तथाऽपि हविःसामान्यं तु व्यापकमेव । यद्यपि चौषधत्वमाज्यत्वं दधित्वं पयस्त्वमेव जातिरूपं सामान्यमव्यापकं तथाऽपि तदसंभवे चोपाधिरूपं च सामान्यं सर्वत्र संभवत्येव । तच्च कठिनद्रव्यत्वेन कृष्णलेषु द्रवद्रव्यत्वेन मधुन्यप्सु च पूर्व दर्शितमेव । तथा च सर्वेष्टीनामेकैकदर्शपूर्णमासप्रधा. नसामान्येन सादृश्यं व्यापकमतिदेशप्रयोजकमस्त्येव । पशौ च लिङ्गेनातिदेशे सिदे 1 तत्रापि पशुप्रभवत्वेन सामान्येन सादृश्यं सर्वपशुबन्धसाधारणमतिदेशप्रयोजकमस्त्येव । प्रकृतित्वे प्रयोनकं चोपदिष्टसकाङ्गवत्त्वम् । तच्च सर्व दार्शपौर्णमासिकप्रधानानुया- येव । विकृतित्वे प्रयोजकं सर्वेष्टिषु च दर्शपूर्णमासाङ्गहीनत्वमतो दर्शपूर्णमासप्रकृ. तय इष्टिपशुबन्धाः सर्वेऽप्यविशेषेणोपदेशदर्शितास्त एव स्वधर्माणस्तेऽपि न दर्शपूर्ण- मासधर्मेधर्मवन्तोऽतो दर्शपूर्णमासविकृतयः सन्तः स्वधर्माणोऽपि भवन्ति । ये स्वधर्में: स्वधर्माणस्तद्धर्महीनानामेव प्रकृतयस्तद्धर्महीनाश्च तावत्यतिदेशलाभेन तावता च तद्विः कृतयो न तु तद्विकृतय एव । दार्शपौर्णमासाङ्गानां तेभ्योऽतिदेशाभावात् । न चाति- दिष्टाङ्गसहिताः स्वधर्माम एव संपूर्णातिदेशप्रयोजकाः स्युः । तथात्वे वा दर्शपूर्ण- मासानुष्ठानानन्तरमनुष्ठीयमाना विकृतिः सकलाङ्गपूर्णा तदनन्तरमनुष्ठीयमानायां(या) विकृतेः प्रकृतिः सा च तदनन्तरमनुष्ठीयमानाया इत्यापद्येत । न च तत्रातिदेशप्रयोजक सामान्य नियतमस्ति । न च सर्वपुरुषसाधारण्येनेष्टिपशुबन्धानामनुष्ठानक्रमोऽस्ति । तथा चाव्यवस्था स्यात् ।क्रमानुष्ठितकर्मसु चातिदेशप्रयोननं सामान्यं च दुर्लभमेव । तस्मादर्शपूर्णमासावेवाऽऽदौ सर्वेषां प्रकृतिः । तत्सामान्ये तदितरा विकृतिः सर्वाऽपीति लाघवम् । किं च विकृतिः स्वधर्माऽपि दर्शपूर्णमासातिदेशेनाङ्गानि प्राप्यान्यस्मै प्रयच्छतीति वाच्यम् । विशिष्टातिदेशेऽपि दर्शपूर्णमासातिदेशे बुद्धिस्थे सति पश्चात्स्वधर्म- वैशिष्टये बुद्धिस्थे सति पश्चाद्विकृतिविकृतिषु विशिष्टातिदेशस्तद्वरं सार्वत्रिक एकोऽति- देशो द्वितीयः स्वधर्मविकृतेरपीति लाघवम् । विशिष्टातिदेशे चातिदेशयोर्विकृतिविकृतिषु च . ३७६ सत्याषाढविरचितं श्रौतसूत्र- (तृतीयप्रभे--

व पौपियं च न सिध्यति । अतिदेशद्वये च पौर्वापर्य सिध्यत्येव तच्चेष्टम् । कथम् । स्वधर्मविकृतिषु च कथभावाकाक्षा पूर्वमतिविष्टाकान्नान्वयः पश्चादुपदिष्टाङ्गानाम् । कथंभावो ह्युपकाराकाङ्क्षा । सा तृप्तोपकारद्वाराऽतिदिष्टान्येवाङ्गानि प्रथमं गृह्णाति । औपदेशिकेषु तु नाद्याप्युपकारः कृतः । उपदेशान्यथानुपपत्त्या च दृष्टार्थानामाका. झयाऽङ्गिनि झुपकाराकाङ्क्षोत्थाप्या । तत उभयाकाङ्क्षया चाङ्गसंबन्धेऽवगते तेभ्य उपकारः कल्प्यः। दृष्टार्थेष्वप्यङ्गसंबन्धोत्तरकालं यथायोग्यं दृष्टोपकारकल्पना । तस्मावुपरिष्टानामङ्गानां - पश्चादतिदिष्टेभ्य एवान्वयः । तेनैव क्रमेण कृतेन विकृति- विकृतिष्वप्यतिदेशयोः क्रमः सिध्यति । सर्वसाधारणातिदेशस्य चाऽऽदौ बुद्धिस्थ-

स्वात् । पश्चाद्विशेषसामान्येन पूर्वमदृष्टेनाधुनैत्र कल्प्येन विशेषातिदेश इति क्रमयो.

‘रतिदेशोऽपि सिद्धो भवति । अत एवाऽऽहुवृद्धा:-न हि भिक्षुको भिक्षुकाचाचत इति । विकृतिहि भिक्षुकोऽत्यन्तो(न्यतो)लब्धाङ्गत्वात् । स तु स्वपुष्ट्यर्थमेव पानानि लभते न तु परस्मै दातुमपोति न्यायार्थः । एवं नियतप्रकृतिविकृतिभावे च सिद्धे

पौर्वापर्य' चाऽऽमिक्षा विकृतिविकृतिष्वपि चाङ्गव्यवस्था सिध्यति । तथा हि सर्वा

अप्यामिक्षाः प्रातर्दोहविकृत यो दर्शविकारा भवन्ति । पश्चाद्वैश्वदेवामिक्षा स्वधर्मा तस्यां ध्युद्धरणाद्यङ्गनातस्य हौत्रस्य चास्मच्छाखायां विधानात् । दाक्षायणयज्ञे घाऽऽमि- क्षाऽपि स्वधर्मा । तथा च तां प्रकृत्याऽऽह कात्यायनः-तत्रैव दोहनं शृते वा दध्या- नयति । वाजिनं निषिच्योत्करे करोत्याज्यलिप्तं वा प्रहृत्य तृणं तेन प्रचरति विमुच्य

वा खुधौ बहिरवसिञ्चन्गृह्णाति । तद्दर्भेषु रेतो दधातीति श्रुतेरिति । अस्मत्सूत्रकृता

"तु स्वशाखानुसारेण दाक्षायणयज्ञाभिक्षाधर्मोपदेशोऽपि वैश्वदेव्यामेव व्याख्यातः । "यथाऽग्नीषोमीयादिपशुधर्मोपदेशो निरूढ एवैवमिहापि । एवं च दाक्षायणयज्ञामिक्षायां वैश्वदेव्यतिदेशेन नवप्रयाजादिपाप्तमपि तस्यां दर्शशब्दवाच्यायां पञ्चप्रयानादिकेनौप. शिकेन बाध्यते । तथा पञ्चप्रयानादिक वैश्वदेव्यामतिदेशेन प्राप्तं नवप्रयाजादिकेनो- पदेशेन बाध्यते । तथैव वरुणप्रघासामिक्षयोरपि । तत्राप्येतद्राह्मणान्येव पञ्च हवीषि भवन्तीति पञ्चानां नवप्रयाजादिक वाचनिकातिदेशेन प्राप्तं तेषां भूयस्त्वादामिक्षयो- रपि पश्चप्रयानादिकं तेन बाध्यते । इतरामिक्षासु वैश्वदेव्यतिदेशान्नवप्रयानादि प्रोमोति दाक्षायणयज्ञामिक्षातिदेशेन पञ्चप्रयाजतादि प्राप्नोति । तथा दर्शपयोविकार- वेनापि पश्चप्रयानतादिकं प्रथमत एव प्राप्तमुपजीव्य दाक्षायणामिक्षातिदेश एवं प्रबल इति पञ्चप्रयानादिकं सिध्यति । सोमे सवनीयामिक्षासु तु पशुबन्धस्य सवनीयस्यैकाद- शप्रयाजादिना तन्त्रेण स्थानिना सवनीयपुरोडाशानासन्नोपकुर्वता न तन्त्रं बाधितमेवेति ज्ञेयम् । -: एवं दार्शपीर्णमासिकानि प्रधानानीत्यादिनाऽतिदेश(श)बलाबलमुक्त्वाऽतिदेशाप- बादमाह- (अ.पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३७७

कर्मसंयुक्तानि द्रव्याणि प्रकृतौ तत्संयोगाद्धर्मं लभन्ते कर्मण्यविद्यमाने सहधर्मद्रव्यं निवर्तते ।

त्रेधातिदिष्टाङ्गबाधो द्वाराभावादर्थवत्तावदत्रसूत्रे तत्स्थानेऽङ्गान्तरविधानात् । प्रतिषेधादेतो क्रमेण द्वाभ्यां सूत्राभ्यामग्रिमाभ्यामुच्यते । कृष्णलेष्टावनौषधद्रव्यास्थि- ष्टिषु चिन्त्यते-किमविशेषेण स्फ्यादिद्रव्याणामङ्गता तद्धर्माणां च, अथवा विशेषे. णोपयुक्तानामेव कर्मणीति । तत्र स्फ्पादीनां यज्ञायुधत्वेन संस्तवाद्येषां दृष्ट उपकारो नास्ति तेषामदृष्टार्थत्वेनाङ्गता ततस्तद्धर्माणामपि तथेति प्रकृतिवद्विकृतिः कर्तव्येत्य. तिदेशेनाविशेषण प्राप्तानि कपालशूर्पादोनि विहायाङ्गहीनेष्टिः कथं फलं साधयेत् । ततस्तान्यप्पङ्गानीति प्राप्तेऽभिधीयते कर्मसंयुक्तानीत्यादिनोत्तरम् । कर्मसंयुक्तानि द्रव्याणि प्रकृतावङ्गत्वेन विधीयन्ते न स्वरूपेणेति शेषः । अयमर्थः-साङ्गे यज्ञे त्रिभिदैविधीयमाने तु न किंचिदपि विधिना वपरिगृहीतं प्रधानं चागं चास्ति । न च केवले द्रव्ये विधिः संभवति । विधिर्हि कर्तव्यतामावेदयन्कर्तव्यस्येष्टप्ताधनता वेदयति । न च द्रव्यं सिद्धं कर्तव्येनाऽऽवेदयितुं शक्यते । येनेष्टसाधनतया चानि- यतौ चापूर्वजननद्वारेष्टसाधनं स्यात् । न च विधि विनाऽऽन्यत्कर्मकाण्डे प्रमाणमस्ति । अत एवोक्त विधिलक्षणानि कर्माणीति । न चैवं सति द्रव्याणामविधेयत्वादनङ्गत्वादन. त्वमेवेति वाच्यम् । कर्मसंयुक्तान्येव द्रव्याण्यपि विधेयानि । यद्यपि स्वरूपेणासा- ध्यानि । तथाऽपि क्रियासंयुक्तानि तया साधनभूतत्वेन क्रियानिष्ठानि भवन्त्येव साध्यानि । अतस्तु सर्वत्रापूर्वसाधनत्वेन क्रियाया अपि विधेयत्वेन श्रेयःसाधनत्वं न स्वरूपेणापि । स्वरूपमात्रस्य प्रमाणान्तरगम्यत्वादनधिगतार्थगोचरस्य विधेः कर्मस्व. रूपमपि विषयो न स्यादित्युक्तमेव । अत एव जैमिनिः(निना) मावार्थाः कर्मशब्दा- स्तेभ्यः क्रिया प्रतीयेतेति क्रियाया एवापूर्वसाधनत्वमुक्तम् । तद्भूतानां क्रियार्थेन सम- न्वय इति यदेकस्मादपूर्व तदितरस्तदर्थमिति वदजैमिनिः क्रियात एवापूर्व तत्संवन्धाद्रव्ये- भ्योऽपीत्युक्तवान् । अपूर्वजनकत्वेनाङ्गता प्रधानता च न स्वरूपेणेत्यसकृदुक्तम् । ततस्तु साक्षाद्वा परम्पपरया वा त्वपूर्वोत्पादके कर्मण्यविद्यमाने तत्साधनत्वमात्रेणाङ्गद्र- व्यमपि तदनन्गं सन्निवर्तत इत्याह कर्मण्यविद्यमाने द्रव्यं निवर्तते। न च कृष्णलेषु कपाल. शूर्पादिसाध्यं कर्मास्ति । न च प्रकृतौ कपालशूर्पादिकमदृष्टार्थ कर्मसाधनत्वेन क्लप्तमस्ति किं तु दृष्टार्थ कर्मसाधनतया क्लप्तं कपालशूर्पादि । तद्धि नियमापूर्वसाधनमिति विधेयम् । ननु तर्हि कपालशूर्पादीनां प्रक्षालनसंमर्शनप्रोक्षणसाधनत्वेनाङ्गत्वात्प्रयोगोऽस्त्विति चेत् । तत्राऽऽह-प्रकृतौ तत्संबन्धाद्धर्म लभन्ते कर्मण्यविद्यमाने सहधर्मद्रव्यं निवर्तत इति ।

१ ख. छ. समानाय । २ छ. 'रसद। ४८ । ३७८ सत्याषाढविरचितं श्रौतसूत्रं- [३ तृतीयप्रो-

न मात्र प्रकृती प्रक्षालनादि साधनत्वेन द्रव्यं विधीयते पात्राणि प्रक्षास्येत्यादिना द्विती- पाश्रुत्या प्रधानवेनोद्देश्यत्वप्रतीतेने साधनता प्रक्षालनादिकियां प्रति व्याणां किंतु कर्मत्वेनोद्देश्यत्वम् । करोप्सिततमं कर्म कर्मणि द्वितीयेति पाणिनिस्मरणात् । तथा चेप्सिततमत्वमपूर्वार्थकर्मणां साधनत्वेन वाच्यम् । तत्साधनता कपालेण्वधिश्रयतीत्या- दिना कपालशूपादिषु चाधिश्रयणोद्वपनादिविधानात्साधनता तेषां प्रतीयते । तत्साधन. स्वेनेशिततमत्वाकर्मत्वं प्रक्षालनादिकर्माणि प्रति । अतः प्रक्षालनादीनां साध्यत्वं नास्ति किं तु तत्तत्साध्यक्रियासंबन्धाद्धर्म प्रक्षालनादिरूपं लभन्ते द्रव्याणि | धर्मश- देन संस्कारकर्मत्वेनाङ्गरवमुक्तं द्रव्यं प्रति । ततस्तु द्रव्यं चेदन्यत्रोपयुक्तं तद्देव संस्कारमर्हति नान्यथा । भूतभाव्यूपयोग हि द्रव्यं संस्कारमहतीति न्यायात् । संस्कार- कर्मणां न साक्षादपूर्वोत्पादकत्वं येन विधेयत्वमङ्गत्वेन स्यात् । किं तु यैस्तु द्रव्यं चिकोयते गुणस्तत्र प्रतीयतेति जैमिन्युक्तन्यायेनापूर्वोत्पादकत्वं किं तु साक्षास्पर- म्परया वा त्यपूर्वोत्पादककर्मसाधनेषु दृष्टमुपकारं जनयन्त्यपि नियमद्वारा वाऽऽधेयश- तिलक्षणादृष्टमपि द्रव्येषु जनयन्ति । प्रोक्षणादेः केवलमदृष्टमेव जन्यं द्रव्ये द्रव्यं चादृष्टशक्तिमत्साक्षादपूर्वसाधनीभूता क्रियां साधयति । यथा प्रयानादिरूपानाणां द्रव्यं किंचिद्रव्यं तु परम्परयाऽपूर्वसाधनीभूतक्रियासाधनक्रिया प्रत्यङ्गं सत्तहारा वा दृष्टश- क्तिमदपूर्वसाधनक्रियां साधयति यथा प्रक्षालनादिसंस्कृतद्रव्यं चापूर्वसाधनप्रधान- क्रियासाधनीभूतावहननादिकं साधयदपूर्वसाधनक्रियां साधयति । न च कृष्णलादिव्यं चावहननादिकं कस्तदृष्टोपकारकमर्थयतेऽतिदेशेनादृष्टोपकारस्य च तेभ्योऽक्लप्तत्वात् । तस्मादकृतोपकाराणि कर्माणि निवर्तन्नोऽतस्तत्साधनानि द्रव्याणि च निवर्तन्ते तद्व्यसं. स्कारकर्मापि स्वाश्रयाभावान्निवर्तते । विकृतिहि । न प्रकृत्यतिदेशेनाङ्गानि गृहीत्वा यथोचिसं दृष्टमदृष्टं चोपकारं गृह्णाति किं तु दृष्टमदृष्टं चोपकारमाकाङ्क्षमाणा तद. न्यङ्गानि गृह्णाति । तत्राऽऽरादुपकारकाणामदृष्टोपकारजनकानामङ्गानामेवाविशेषेण माहिका सती यावदपेक्षितदृष्टोपकारकाण्येव संनिपत्योपकाराणि गृह्णाति न तु निष्प- योजनान्यपि । तस्मानिष्प्रयोजनानि द्रव्याणि निवर्तन्त्र एवं संस्कारा अपि निष्प्रयो- जना निवर्तन्त इति । सूत्रार्थः । उदाहरति-

यथा कृष्णलेष्ववहननम् ।

यो मृत्योविभीयात्तस्मा एतां प्रानापत्या शतकृष्णलां निपेदिति कृष्णलानां सौवर्णानां कठिणद्रव्यत्वेनौषधविकाराणामपि वितुषीकरणलक्षणदृष्टसंस्कारानपेक्षणादव- हननं निवर्तत इति शेषः । कर्मण्यविद्यमाने सह धर्मद्रव्य निवर्तत इति पूर्वसूत्रादनु- पशः। y (अ०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ननु चविष्टौ कपालेष्वपि ग्रहणे निवृत्ते कपालानि सधर्मकाणि निवर्तन्ते तथा श्यामा- केष्टौ ब्रीहिनिर्वापे निवृत्ते व्रीहिषु सधर्मकेषु निवृत्तेषु स्थाल्यां श्यामाकेषु च तद्धर्मा न स्युरत माह-

अन्यस्मिꣳश्च द्रव्ये तेनार्थेन संयुज्यमाने धर्मावेशः ।

प्राकृताव्यादन्यस्मिन्द्रव्ये तेन प्राकृतेन प्राकृतद्रव्यसाध्येनार्थेनापूर्वप्रयोजनवता कर्मणा संयुज्यमानेऽङ्गत्वेन विधीयमाने तत्रापि धर्माणामावेशोऽतिदेशेन प्रादुर्भावः । अयमाशयः-न ह्यत्र पाकनिवृत्त्या कपालनिवृत्तिः किं तु सामर्थ्यसिद्धया स्थाल्या कपालस्थानापन्नया पाको हि चरोः प्राप्तः । तत्रापूर्वसाधनाभूता क्रिया न निवृत्ता। तस्याश्च साधनं जात्यन्तरविशिष्टमपि प्राप्तं, तत्स्थानापन्नं तद्बाध च तदेव पाकजन्या- पूर्वसाधनतयाऽङ्गं तस्मिन्नेवापूर्वप्रयुक्ताङ्गे धर्मा अपि भवन्त्येव । एवं पाणिनिः स्थानि- पदादेश इत्याह-अन्यथा तदपूर्वमेव तस्मान्नोत्पद्यतेति । उदाहरति-

स्थाल्यां कपालधर्मः श्यामाकेषु व्रीहिधर्मः ।

अतिदिश्यत इति शेषः । अप्राकृतेऽपि द्रव्येऽतिदेशनिरूपणमनेन स्पष्टम् । । द्रव्यसाध्यक्रियाया भनिवृत्तौ तत्स्थानापन्ने द्रव्यान्तरेऽपि धर्मातिदेशे चातिप्रसङ्ग- मासङ्कयाऽऽह-

यज्ञोत्पत्तौ प्रतिषिद्धे सर्वं प्रतिषिध्येत ।

यज्ञाद्यज्ञकर्मणोऽङ्गभूतात्कर्मण उत्पद्यतेऽथवा यज्ञाय प्रयोजनायोत्पद्यते तत्तथा । द्रव्य इत्यनुवर्तते । उत्पत्त्या प्रयोजनयोग्यताप्राप्तिलक्ष्यते । यस्मात्कर्मणे द्रव्यं संस्कृतं प्रयोजनयोग्यं भवति तत्कर्मविशिष्टद्रव्ये प्रतिषिद्धे तत्साध्य प्रयोजनमपूर्वसाधनीभूतं कर्म तत्प्रयुक्तम् । अन्यदपि धर्मजातमपि प्रतिषिध्येत । यूपो हि खातमानलक्षणेन कर्मणोत्पद्यते यज्ञप्रयोजनाय पशुनियोजनाय योग्यत्वेन प्राप्यः प्राप्तिविशिष्टे तस्मिन्प्रतिषिद्धे संस्कारा अपि प्रतिषिद्धेयुः । न च न दध्यधिश्रयतीतिव- न्मानमात्रं प्रतिषिद्धमन्यसंस्कारविशिष्टं न प्रतिषिद्धं तत्र नियोजनमपि न प्रतिषिद्ध- मिति मानं विनाऽन्यः संस्कारैः संस्कृतैः परिधावुल्मुके बर्हिषि वा पशुनियोजनमस्त्विति वाच्यम् । यद्येवं तर्हि यूपस्थानापन्नेषु परिध्यादिष्वेव न मिन्वन्तीत्येतावदेव वक्तव्यम् । यूपग्रहणमनर्थकम् । न च यूपवन्न मिन्वन्तीत्यर्थो भवेदिति वाच्यम् । परिध्यादिषु पशुप्रयोजनयोग्यतास्वरूपमपि मज्येत । अतः स्वस्वरूपप्रयुक्तरूपावाधेनैव पशुनियो- जनं तेषु विधीयत इति मानं स्वत एव निवृत्तं किमर्थ प्रतिषेधस्तस्माद्यूपस्य सकर्मकस्य प्रयोजनस्य स्थानिन एव प्रतिषेध इति द्रव्यान्तरमपूर्वमेव विधेयम् । न च तस्योपदे. शातिदेशाभ्यामन्ये संस्काराः स्युः । प्राकृतद्रव्यप्राप्तौ तत्स्थानिनस्तु तत्संस्काराः सत्याषाढविरचितं श्रौतसूत्र- [३ तृतीयप्रश्ने-

प्राप्नुवन्ति नान्यथा । तस्य प्रतिषेधादतिदेश एव प्रतिषिद्धः । उपदेशस्तु नास्त्येव । यद्यपि नियोजनं प्राकृतं स्यात्तत्रातिदेशेन तथाऽपि न ते नियोजनसाधनमात्रप्रयुक्ता अन्यथा नियोजनसाधनेऽश्वर्यावपि प्रसज्येरन् । अतो यूपप्रतिषेधे यूपधर्माः प्रतिषिद्धा एव । उत्तरवेदिहि प्राकृतावनीयस्थाने विधीयते । तस्याः प्रतिषेधे च प्राकृताहवनीय एव होमाधिकरणत्वेन । आहवनीय इति संज्ञया यदाहवनीये जुह्वतीति श्रुत्या च यथा प्रकृत्यर्थरवेन प्राप्तस्तथा विकृत्यर्थेनापि प्राप्त एव विधिना कल्पिते नानारम्या- धीतेन । तथा च तस्मिन्नप्यतिदेशाभावोत्तरवेदिधर्माणां नियोजनमपूर्वद्रव्यान्तर- विशिष्टं विहितं तत्र नातिदेशप्राप्तिः । अत्र यद्यप्यावनीयायतनं न विहितं तथाऽपि पर्थ्यात्संज्ञयव प्राप्तमपूर्वमेव । न हि सोमाहुतिषु होमाश्रयत्वेनाऽऽहवनीयायतनं प्राप्तमस्तीति पूर्वेण समानन्यायं सोमचातुर्मास्येषु प्रथमे वैश्वदेवपर्वणि श्रूयते त्रिवृदभि- ष्टोमो वैश्वदेवः पशुः सवनीयो बार्हस्पत्यानूबन्ध्या ।

न यूपं मिन्वन्ति नोत्तरवेदिमुपवपन्ति ।

परिधौ पशु नियुञ्जन्त्युल्मुके बर्हिषि वेतीष्टि चातुर्मास्येषु वैश्वदेवपर्वणि नोत्तरवेदि. मुपवतीति व्याख्यातमेतत् । इदानीं यत्र प्रतिषेधो नास्ति तत्रोभयापूर्वप्रयुक्ता धर्मा विकल्पेरन्निति प्राप्त आह-

अन्यस्मिꣳश्च द्रव्ये तेनार्थेन संयुज्यमाने धर्मावेष उत्करे वाजिनमासादयन्त्यश्वे पशून्नियुञ्जन्ति परिधौ पशून्नियुञ्जन्ति ।

अन्यस्मिन्निति सूत्रेणान्तरितेनैवार्थसिद्धौ सत्यामप्युभयापूर्वप्रयुक्ता उभयेऽपि संस्कारा भवन्त्येव । न हि स्वरूपयुक्ता धर्मा अपि त्वपूर्वप्रयुक्ता अपूर्व च कर्मभेदेन भिद्यतेऽत उभयकर्मापूर्वप्रयुक्ता अन्यतरेष्वकृतेषु नोभयापूर्वोत्पत्तिं वक्तुं पुनः सूत्रा- रम्भः । भन्यस्मिन्द्रत्येऽन्यापूर्वयुक्तसंस्कारसंस्कृतेऽपि तेनार्थेन प्रयोजनान्तरेण संयुज्य. माने प्रयोजनान्तरापूर्वप्रयुक्ता धर्मा मवन्त्येव । प्रथमपर्वणि वाक्यमुत्करे बानिनमाला- दयतीति । तथाऽश्वमेधेऽश्वे पशुन्नियुञ्जन्तीति गतार्थमेतत् । एवमतिदेशनिरूपणं व्याख्याय विकृतिविषय एव विशेषानुष्ठानन्यायान्तराणि दर्श. यति विकल्पेरन्नविकल्पो वेत्यन्तेन ।

सामिधेनीषु वर्धमानासु ।।२१ ।। काष्ठानि वर्धन्ते सꣳह्रियमाणासु यथाप्रकृति ।

समिध्यमानोऽग्निभिः प्रकाश्यते ता ऋचः सामिधेन्यस्तासु कामेन वर्णविशेषेण विकृ-

१.फ. ख. ग. न. छ. ज. झ. न, ट. ठ..यत्यश्वे । २ क. ख. ग. च. छ. ८. ठाण, पशुं नियुशन्तीति । अ । ३ क रु. च. झ. म. द. 'धु विव'। (अ.पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३८१

तिविशेषेण वा सप्तदशानुयादित्यादिविधिभिर्वर्धमानासु पञ्चदशभ्योऽधिकासु विधीय- मानासु तासां प्रणवे प्रणवे निधीयमानानीमकाष्ठानि समिधस्तत्संख्यया कार्याणि । यद्यपि न सामिधेन्यङ्गानि काष्ठानीति वर्धन्ते प्रधानानुरोधेनेति न भवति तथाऽपि सामिधेनीनामुपकारकाणि भवन्ति । कथम् । उच्यते-समिधं गृहीत्वाऽग्नौ प्रक्षिपति । प्रणवे तावत्समिध्यमान इत्युच्यत इत्युक्तमेव नहि तया गृहीतयाऽनारब्धे समिन्धनेऽग्नेः समिध्यमानत्वं, यदा प्रतितामिधेनीत्ययं पक्षोऽन्ययोः पक्षयोः पूर्व निहितसमिधै-- कैकयैव समिध्यमानः प्रकाश्य एकैकया सामिधेन्या न तु बह्वीमिः समिद्भिरिध्यमान . एकैकया प्रकाश्यः पञ्चदशेधमदारूण्यभ्यादधातीत्यादिना विहितैकविंशतिसंख्याकेम- काष्ठानां प्रत्येकं कर्मणि विनियोगात् । तथैकया समिध्यमान एकया प्रकाशितो नान्यया प्रकाश्यते । हौत्रे मन्त्रसमुच्चयोऽप्यनेकोद्देश्यत्वासंभवे न तु सर्वत्र । तस्मात्प्रतिसा- तु मिधेन्येकैकस्या एव समिध उपकारकत्वात्तदुपकाराय समिधोऽपि वर्धन्ते । नत्वे(न्वे) तिव एव सामिधेनीरन्यूच्येत्यत्रैकामन्वाहेत्यत्र च समिधां ह्रासः स्यादत उक्तं संह्रिय. माणास्विति । प्रकृतौ दृष्टा संख्याऽऽधिक्ये न बाध्यते हासे तु बाध्येत तबाघो मा भूद्विति यथाप्रकृतिपञ्चदशैवाभ्यादधाति । एकया समिध्यमान एकया प्रकाश्यत इति नियमो बाध्यते वचनान्महापितृयज्ञ एकामन्काहेत्यत्र त्रैधमिध्मं विभज्येति स्वयमेव वचनं दर्शयिष्यति । तथोपसत्सु तिस्र एव सामिधेनीरनूच्येत्यत्र च नवधेमं विभज्येति देशयिष्यति । पठ्यते सौत्रे एव वचने तथाऽपि श्रुतपञ्चदशसंख्याबाधो न सामर्थन कर्तुं शक्य इति न पञ्चदशत्वबाधः ।

यथार्थमूहः ।

विकृतौ कार्य इत्यध्याहारः । काष्ठविवृद्धौ मन्त्र ऊहनीय एकविशतिधेत्ययमित्यूहस्य बुद्धिस्थत्वे व्याख्यायते । यथाऽर्थो विद्यते कर्मणि समवेतस्तथोहोऽर्थाभिधायकपदप- योगो लौकिको मन्त्रे कार्यः। ननु कथं लौकिकपदप्रयोगेण मन्त्रताऽऽम्नानाभावान्मन्त्रपदेन योगेन लक्षणया चार्थप्रकाशनसंमवादिति चेत् । उच्यते-विकृतौ मन्त्रोऽतिदेशेनाss. नुमानिकेन प्राप्नोति न श्रुत्या यथोपदिष्टं ब्राह्मणवन्त इत्यत्र परिभाषितत्वात् । अश्रुति- प्राप्ते तु यदि नाभिधा प्रभवति तदा पदमनर्थकमुत्कृष्य तत्स्थाने समर्थ लौकिकं प्रयोक्त. व्यम् । तत्रार्थप्रकाशनं दृष्टप्रयोजनं सिध्यति न मन्त्रेणैव प्रकाशनमिति नियमामाव- मात्रमापतति । मन्त्रपदे त्वसमर्थे न प्रकाशनं नापि तदारको नियम इति द्वयमपि बाध्येत । किंच न पिता वर्धनं न मातेति हौत्रेऽन्वेनं माता मन्यतामनु पितेति मन्त्रे तस्मादेवं नोहेदिति चोहप्रतिषेधादन्यत्रोह इति मीमांसातो विस्तरतो ज्ञेयम् ।

न प्रकृतावूहो विद्यते ।

यदि मन्त्रः प्रकृतावेवासमर्थस्तदा श्रौतविनियोगानुसारेण कयाऽपि विवक्षया समर्थनीयः ३८२ सत्पाषाढविरचितं श्रौतसूत्र- [ ३ तृतीयप्र-

क्वचित्प्रकृत्यन्तरे पदलोपो वा विकृतिमात्रगामित्वं चेत्यादि ज्ञेयम् । सर्वथाऽप्यसमर्षे कचित्समर्थ पदमभिधया क्वचिद्वृत्त्यन्तरेण समर्थ स्यात्मकृत्यर्थो मन्त्रस्त त्रासमर्थ श्वे- स्कुत्र समर्थः स्यादिति न प्रकृतावूहः ।

पत्नीꣳ संनह्योपहूतोऽयं यजमान इति ।

बहुपस्नीकयजमानेऽष्टी पत्नी संनोति मन्त्रे बहुवचनान्तत्वेन नोहः । पत्नीत्वज्ञातेः पदार्थत्वेन समर्थनीयत्वात् । पत्नीसंयाजेषु चोपहूतोऽयं यजमान इति यानुषे हौके नोहः । लिङ्गाविवक्षयाधिकारिमात्रविवक्षया समर्थनीयत्वादित्याशयः । श्वो यज्ञाय रमतामित्यत्र सद्यस्कालपूर्णमासे बाधोऽपि श्वः पदस्यत्यादि ज्ञेयम् ।

तथोत्तरस्यां ततौ यथासमाम्नातम् ।

उत्तरततौ विकृती या प्रकृती नोहितो मन्त्रः स विकृतावपि तेनैव प्रकारेण समर्थ- नीयो न तूहनीय इति तथा यथा प्रकृती यथासमाम्नातं यथाप्रकृतिपाठं पौर्णमासतस- घस्कालविकृतावपि श्वःपदेनायेतिपदमूह्यं प्रकृतिपाठेन लुप्तपदेनैक प्रयोग इति च देयं समानन्यायस्वात् ।

प्रतिनिधिष्वर्थलुप्तानि न क्रियेरन्यथा लूने लवनमन्त्राच्छिन्ने छेदनमन्त्रः ।

प्रतिनिधियहो नास्तीति द्वितीयप्रश्नप्रथमपटलान्त उक्तमत्र नोक्तम् । नत्र तु मश्रा- णामहप्रसङ्गेन बाधोऽप्युच्यते मरद्वाजादियजुष्क्रियापक्षप्रतिक्षेपार्थम् । अर्थलुप्तानि दृष्टं प्रयोजनमर्थस्तस्माल्लुप्तानि कर्माणि द्रव्याणि यजूंषि वा न कियेरन्न प्रयुज्येस्स्वयं कृता यथा बार्हषि प्रतिनिधित्वेन गृहीते पूर्वमेव तथा यूपे छिन्ने लवनच्छेदनप्रकाशक- योर्मन्त्रयोर्नप्रयोग एवं लवनच्छेदनाद्यपि दृष्टार्थत्वेन क्लृप्तं तदभावे तेषु न कार्यम् ।

यत्र पयः श्रपणार्थेन श्रूयते देवस्त्वा सवितोत्पुनात्वित्युत्पवननं संनमति पयो देवाग्रेष्वग्र इत्यभिमन्त्रणमेवमाज्ये ।

यत्रेष्टयां दविः श्रपणप्रयोजनेन पयो दुग्ध विधीयते तत्र देवस्त्वेत्यूहेनोत्पवनमुत्यू- यतेऽनेन मन्त्रेण तं परिणमयति । विभक्त्यहमुक्त्वा पदोहार्थ पयो देवा इत्याद्युक्तम् । अमिमाश्रयतेऽनेनेत्यभिमन्त्रण मन्त्रमिमं यज्ञ नय यज्ञपति धेहि त्वामिन्द्रः स्वमिन्द्रमवृणी- थाः प्रोक्षितमसोत्यवशिष्टमूह्यः । आज्यं देवा इत्याज्ये आपणार्येन श्रूयत इति शेषोऽन्य- रपयोवत् । प्रणीताधर्मेण संस्कारप्राप्तादिदमुक्तम् । तत्रेदं चिन्त्यते-कथं प्रणीताधर्म- प्राप्तिर्न तावत्पयः प्रणयत्याज्यं प्रणयतीति श्रूयते नापि संयवनार्थत्वेन श्रवणं येन संयवनार्थानामपां प्रयोजनसंबद्धत्वादन्यस्मिन्द्रव्ये तेनार्थेन संयुज्यमाने धर्मावेश इति भ.पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३८३ प्रामोति । संपयनं श्रपणं भवति पिष्टेण्वानयतीति पिष्टाश्रितसंयवनार्थत्वेन मदन्तीनामेव श्रुतत्वान्न च मदन्त्यर्थं प्रणीताग्रहणे विधिरस्ति । तस्मान्न आपणार्थता प्रयोजनमिति । तत्र सिद्धान्तः सूत्रकारेण यत्र पयः श्रपणार्येनेति वदता प्रणीताभिर्हवी षि अपय- तीति श्रुतिमूलं प्रणीताविनियोगेऽङ्गीकृतं पिष्टेषु संयवनार्थ प्रणीता एवं विहिता इति च ज्ञापितम् । प्रकृती पिष्टान्येव श्रपणीयानीति तथोक्तम् । व्यक्तमापस्तम्बेनोक्तम्- प्रणीताभिः संयोतीति । संयवनेन पिण्डो भवति तस्य च पाक इति संयवनं पाकार्यमेव ।

चरुकल्पान्व्याख्यास्यामः ।

प्रकृतितोऽप्राप्तमूह विकृती व्याख्यायेदानी तथैवान्यानपि प्रकृतितोऽप्राप्ताचरौ धर्मान्व्याख्यातुं प्रतिज्ञा न्यायमूलत्वख्यापनायाव्याख्याने स्वप्राप्तेः । कस्पान्यायकहिप- सान्धर्मान् ।

स्थालीं कपालानाꣳ स्थाने प्रयुनक्ति ।

स्थाली लोकप्रसिद्धा कपालानां स्थाने कपालानामतिदेशप्राप्तानां धरुपाकासमर्थानां स्थाने तत्प्रयोजन उद्देश्ये पात्रप्रयोगकाले प्रयुनक्त्युत्तरसंस्कारानपि तुल्यान्कपालव- दित्यर्थोऽन्यस्मिन्निति तत्सूत्र उदाहृत एव ।

तस्य प्रसिद्धमात्रिष्फलीकृतेभ्यः ।

तस्य चरोः समाप्त निविष्टस्यापि बुद्धयाकृष्टस्य तस्येति निर्देशः । तस्य संबन्धि- भ्योऽतिदिष्टेभ्यस्तण्डुलेम्यनिष्फलीकृतेभ्योऽभिव्याप्य प्रकृतित एव सिद्धं प्राप्तं कार्य- मिति शेषः । प्रक्षालननिनयनान्तं त्रिष्फलीकरणेन लक्षितम् ।

प्रथमेन कपालमन्त्रेण स्थालीमुपधाय ।

प्रथमेन ध्रुवमतीत्यनेन ध्रुवासीत्येवमूहितेन । कपालमन्त्राणामनेकत्वादनेके विकरुपेन प्राप्तास्तत्र प्रथमेनैवोपधानम् । स्थाली प्रथमा प्रथमकपालधर्मेणोपधेया । कृतप्रयोजना इतरे निवर्तन्ते । उपधायेति पूर्वसंस्कारसाहित्यं यथाप्रकृतीति दर्शितम् । उपवेशादि- नाऽङ्गारनिर्वर्तननिरसनावस्थापनानि पूर्वाङ्गाण्यपि । उपधानानन्तरमुपर्यङ्गाराध्यूहनमुप- रितापार्थ नास्ति चरौ तस्य प्रयोजनाभावादित्यावेदयितुमुपधायेति ल्यपा निर्दिशति ।

शूर्पादेव तण्डुलान्समोप्योत्पूयाधिश्रयणमन्त्रेणोप्य पर्यग्निकृत्वा श्रपयित्वाऽभिघार्य स्थाल्यैवोद्वासयति ।

पदार्यानुपूर्वीकथनं विशेषप्रदर्शनार्थे मध्ये पदार्थनिवृत्त्यर्थं च । शूर्पादेवेति कृष्णा- निनव्यवधाननिवृत्त्यर्थ ज्वसनपर्वन्तं माष्यकृता त्वङ्गीकृतमेव । तदुपरि न मवेदपि तु परितः सामर्थ्यात् । संवपामीत्यन्तेन तिरःपवित्रं पाव्यामुत्पूय होस्त्वेत्यनेन । प्रणी- 3 १५... ज. स. म. द. श्रेणाधित्रित्य प। । सत्यापाढविरचितं श्रौतसूत्र- [३ तृतीयप्रश्ने-

तानामानयनं मदन्तीमिः संयवनं च समोप्य नानारापोहर्न धर्मोऽसीते मन्त्रः कपालेषु पाकार्थमधिश्रयणलक्षणावस्थापनार्थ तेनोप्यावधाय स्थास्यामित्यर्थात् । धर्मशब्दे तद्वि- शेषणे विश्वायुः शब्देऽपि नोहो धर्मत्वेन हविष एवं संस्तत्वात् । प्रथनपरिमार्जने न स्तः । पर्यग्नि कृत्वाऽन्तरितमित्यनेनाभिज्वलनमुपरिज्वालाकरणं दृष्टामेव व्याख्यातम् । तदवोपरिपाकासंभवान्न स्यात् । सं ब्रह्मणेत्यपि विरोधान्न स्यात् । नामिज्वलयति दमः । अस्त्यग्निस्त इति । सं बझणेति नास्ति । अविदहन्ते(न्त इ)त्यस्ति श्रपयित्वेति अग्निस्त इत्युल्मुकैः प्रतितप्यैवं श्रपयित्वेत्यर्थः । प्रायौगिकास्तूपधानानन्तरमेव तूष्णी प्रणीता भानयन्ति माध्यकृत्समतं च । तथात्वेऽप्यत्र समोप्योत्पूय समन्त्रमानयनं कर्तव्यमेव न पूर्वमेवाऽऽनयने मन्त्र इति वाच्यम् । संसृज्यध्वं संपृच्यध्वमिति लिकविरोधात् । अविदहन्तः श्रपयतेति संप्रेष्यत्यत्र वाचं विसृजत इस्यस्त्येव । अङ्गुलिप्रक्षालनपात्री- निर्णेननयोरभावान्न निनयनमेकतायेति । वेदिकरणादि यथाप्रकृति विष्णूनीत्यन्तम् । इदमहमिति नास्ति । सूर्य ज्योतिरित्यस्ति । स्योनं त इति नास्ति । अभिवायति यथा प्रकृत्याऽऽप्यायतामिति तूष्णी वा । स्थाश्यै वोद्वासयति । आईः प्रथनारैति मन्त्रेणा- मिन्दन्नपर्यावर्तयन्नित्युद्वासन उक्तत्वान्मध्यादिदेशभेवलोपमिया च स्थास्येत्युक्तम् । एवकारस्तु तस्मिन्सीदेति पाघ्यामुद्वासनप्रतिषेधार्थः ।

पुरोडाशेन पुरोडाशगणे ।

केवलेन पुरोडाशेन पुरोडाशजातीयेनान्येनानन्तरितेन व्यादिगणे समुदाये सति ।

यथाभागं व्यावर्तध्वमित्येकैकं पिण्डमपच्छिनत्ति यथाभागं व्यावर्तेथामित्यवशिष्टौ ।

त्रिषु सकृदेवान्येषु यावदाववशिष्यते तावहुवचनान्तमन्त्रप्राप्त्यर्थ वासकैक- मिति । पिण्ड पिण्डमागं पृथक्करोति । द्वयोरवशिष्टयोर्ययामागं व्यावर्तेथामिति द्वौ । पृथक्करोति ।

तयोरेव देवतादेशनम् ।

तयोर्न पूर्वेष्वपि । इदममुष्मा इदममुष्मा इति स्वशाखीयानाममुष्मै त्वाऽमुन्मा इति वा । पूर्वेष्वपच्छेदक्रमेण प्रथमादिदेवतार्थत्वेन क्रमेऽवगतेऽन्त्ययोर्युगपदवच्छेदक्रमामा- वात्कमेणाऽऽदेशनं कार्यम् ।

चरु पुरोडाश्यान्प्रागधिवपनाद्विभज्येरꣳस्तत्र विभागमन्त्रं जपति समान्द्वैधं करोति विषमान्यथाभागम् ।

चरु पुरोडाशार्थनिरुप्ता देवस्य त्वेत्यनेनाधिवपामीत्यन्तेनाधिवपनं तस्मात्मागेव.. विभागः । कथं तत्राऽऽह-तत्र विभागार्थ मन्त्रं द्विवचनान्तं द्वयोर्बहुवचनान्तं बहुप

घ. १. ज. स. म.डाशानां प्राग । ढ, 'डाशीयाना प्राग ।

स्पटी] 23 महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३८५

संकदेव पाट वक्तुं जपतीत्युक्तम् । न पत्र प्रतिदेवतं. मागः क्रियते येन करण: मनवेनाऽऽवृत्तिरपि तु राशिद्वयनैवातो मन्त्रस्य सकृदेव जपः । यावन्तश्चरवस्तावन्तः एक चेत्पुरोडाशास्तहि राशिद्वयन समप्रमाणानेव द्वैध विभनति । योकेऽधिकास्तहि सावता परिमाणेन. विषमानेव द्वैधं. करोतिः।

इदममुष्मै चामुष्मै चेत्येकैकस्मिन्राशावेकैकां देवतामुपलक्षयेत् ।

राश्योर्मध्य एकत्रं प्रथमा देवता चर्वर्था चेत्तदा चरुराशौ चरुदेवतामुपलक्ष्य पश्चात्यू: रोडाशदेवतामुपलक्षयेत् । वैपरीत्ये वैपरीत्येनेत्येवं वक्तुमेकैकस्मिनाशावित्युक्तम् । अत्रेय देवतेति जानीयात् ।

पौष्णमपच्छिद्य सह पुरोडाश्यैः पिनष्टि ।

धराशेः सकाशात्पौष्णं पृथकवा पुरोडाश्ये मेलयित्वा तैः सहैव पिनष्टि । अधि- वपनादि पिण्डकरणान्तं करोतीत्यर्थः ।

अधिश्रयणकाले मिथो विभज्येरन् ।

अधिश्रपणकाले प्राप्ते. सति मिथः परस्परं पिण्डांस्तण्डुलांश्च विमजति ।

तत्र विभागमन्त्रं जपति ।

... राशिद्वयेऽपि सकृदेवोक्तार्थमन्यत् । न पुनर्देवतादेशो जातत्वात् ।

नानाबीजेषु समवेतेष्वेकमुलूखलं मुसलꣳ शूर्पं कृष्णाजिनं च ।

भरद्वाजादिपरमतव्युदासाथ नानानातीयेषु नानाधर्मेषु च । यथा श्यामाकव्रीहिय. थेषु । कृष्णव्रीहिमहाव्रीह्याशुव्रीहिषु समवेतेषु समानतन्त्रेषु सत्सु न्यायसिद्धमेषामे. कत्वा बीजेषु चरुपुरोडाश्येषु ग्राम्यारण्योषधेषु ।

प्रथमे बीजे हविष्कृतमाह्वयत्युत्तमे वाचं विसृजते ।

प्रथमबीजाहानेनैव हविष्कृदागमने सिद्धे न पुनराह्वान प्रयोजनामावात् । अन्तिमे बीजे त्रिष्फलीकरणसंप्रेषे सति वाचं विसुनते प्रथम एवं विसर्गेऽन्येषामवहननमनियते- मेव की कृतमवैध स्यात् । अवहननं च दृष्टतण्डुलीभावकरणार्थ यात्रिष्फलीकरण तावत्तण्डुलीभावोऽतः संसृष्टानि त्वेकापवर्गाणीति काण्डानुसमयोऽत्र द्रष्टव्यः ।

सोमेनाऽऽग्रयणेष्ट्या पशुबन्धेन वाऽमावास्यायां पौर्णमास्यां वा यजेत ।

'. सोमार्थोऽपूर्वविधिरन्ययोस्तु प्राप्तानुवादः। श्रुतिरेवेयम् । किमर्थमनुवादः । उच्य

५ के. ख. ग. च. छ. टण. 'ता उ। २ के. ख. ग च. छ. टणता ङ. ज. श. म. द.तममाप्य वा। j । ४९ सत्याषाविरचितं श्रौतसूत्र- [श्तृतीय-

पर्शपूर्णमासयोविकृतेश्च संनिपाते दर्शपूर्णमासौ बलीयांसावित्युक्तम् । तत्र पञ्चदशी. प्रतिपदोहमयोरपि प्रातःकालो प्रकृत्यावरुद्धौ सथा चातिदेशतःप्राप्तौ विकृती काली - प्रकृत्या बाधितौ स्याताम् । न च प्रकृती सोमस्य विकृतेष्टीनां च कालविधानं स्वतन. पशोश्चान्वाधानं कृत्वा विकृतेरन्वाधानं क्रियेत यागानन्तरं पाग इति वाच्यम् । न कर्मणि कौरम्मो न्यायपस्तस्माद्विकृतिपर्वणि च । प्रकृतियागानन्तरमेव चाऽऽपयेत तदर्थमतिदेशप्राप्तस्य प्रत्यक्षश्रुस्याऽनुवादस्ततश्च यानि विष्टिपशुजन्धानां प्रत्यक्षाना. तानि तानि तत्र बलीयांसीरयुक्तेन न्यायेन पश्चदश्यां प्रकृतौ प्रातःकालबाधेन प्रवर्तते विकृतियुजनीय वा प्रकृति यागोत्तरकालं विकृतेद्वयह कालवाऽऽनुमानिकी सा गत्यन्तरा- भावाद्वाध्यते प्रकृत्येति पूर्व वा परं वा विकृत्यनुष्ठान सिद्धं भवति । तत्र काम्येष्टयः सद्यकाला उपांशुतन्त्राः पशवश्चति वक्ष्यति । तथाऽऽमावास्येन पौर्णमासेन वा हवि- पेष्टा काम्यैः पशुभिरिष्टिभिर्वा य नेतेति वक्ष्यति न तथाऽन्यपश्चिष्टिषु यदि श्वः काळ इति पशौ यहकालताविकल्यं च वक्ष्यति । तत्र पूर्वेधुरन्वाधानमित्यर्थादुक्तं, वदति च पूर्वस्य पर्वण औषवसथ्येऽहनीति पूर्वपर्वणि पञ्चदश्यां क्रियमाणयागस्यौपवमध्यमह- चतुर्दश्यपीति । तचेश्यामपि वैकलिषक ज्ञेयम् । अस्ति च पश्चदशीप्रतिपदोरुभयोरपि पत्वं यथा पच्चदश्या दर्शत्वमेव प्रतिपदोऽपि तथा पौर्णमासीत्वमपि तत्प्रथमपटले विस्तारितमिह संक्षेपतः मौत । अमावास्या शब्दः सूर्णचन्द्रमप्लोः परमेसंनिकर्षनिमित्तः पौर्णमासीशदश्च परमविप्रकर्षनिमित्तोऽनः संनिकर्षविप्रकाँ संधिमध्यमक्षणमात्रं तच पञ्चदशीप्रतिपदोः समानमेवेति तयोर्द्वयोरपि ग्रहणममावास्यापर्णिमासोशब्दाम्यां तयो- भनत्र विकृतिविधानार्थ. सूत्रितम् । अत्र केचिदाहरमावास्यायां पौर्णमास्यां चेति व्यत्ययेनाभिधानममावास्यापौर्णमाप्तीमध्यगस्य कालस्य यागाङ्गस्वख्यापनार्थम् । कामयेत वतीयास्यादिति तं पूर्वपक्षे यानयेचं कामयेत पापीयान्स्यादिति तमपरपक्ष इति विधिप्रतिषेधश्रुतिरप्यनुगृहीता स्यात्तथा छान्दोग्यसूत्रमनादेश उदगयन आपूर्यमाणपक्ष इति चेति । तथा दर्शपूर्णमासाभ्यामेकं फलापूर्व माध्यत इति द्वयोरेकप्रयोगता तत्र न कर्मणि कौरम्भ इति न्यायोऽप्यनुगृहीत इति । तन्नेष्टम् । आमावास्येन पौर्णमासेन वा इविषेष्ट्वा काम्ययागविधानात्सोमे चामावास्यायां यजनीये वाऽहनि पौर्णमास्यां यज. नीय वाऽहनि दीक्षासुत्ययोविधानस्य मानत्वादस्ति च श्रुतिरप्यामावास्येन पौर्णमासेन या हविषेष्ट्वा बीततेति. प्रत्यक्षश्रुत्या सोमे पूर्वपक्षयागनियमश्रुतिबधितैव तथा मध्ये चाव्यवधानमपि । छान्दोगसूत्रमनादेश इत्येवात्राऽऽदेशान्न तथा छान्दोगसूत्रं यं काम- येतेति श्रुतिरप्यनादेशं एवं सावकाशा । वक्ष्यति च गृझे पाकयज्ञेष्वापूर्यमाणपक्ष इति न कर्मणि कौरम्भ इत्यारम्भमात्रप्रतिषेधः । किंच ब्राह्मणभोजनान्ते प्रयोगे प्रयोगान्तर प्रतिषिध्यतेऽन्यया चातुर्मास्येषु मध्य आग्रयणेष्टिलोपः स्यादित्यलमतिपसङ्गेन । th भ.पटळ: ] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

सप्तदशानुब्रूयादिष्ट्याः पशुबन्धस्य वा पञ्चदशभिर्विकल्पेरन्नविकल्पो वा ।। २२ ।।

सप्तदशानुपादित्यनारम्य श्रूयते तत्तु दर्शपूर्णमासप्रकरणेन प्राप्तपञ्चदशत्वस्य न बाधकं नापि वैकल्पिकमतो विकृतेष्टेः पशोर्वा सप्तदश सामिधेनीरनुयादिति शाखान्तरे श्रूयमाणमुपसंहृतमतिदेशप्राप्तसामिधेनीपञ्चदशत्वविकल्पार्थमिति परमतमविकास इति स्वमतं नित्यमेव साप्तदश्यं पशुबधे विकृतेष्टिषु यत्र श्रूयते तत्राऽऽनुमानिकपञ्चदश- स्वानिवृत्तिः प्रत्यक्षश्रुतेः प्रबलत्वात् ।

आग्रायणेष्टिं व्याख्यास्यामः ।

नानान्यायातिदेशैः प्रयोगसिद्धिरित्यव्याख्याने तु न सिध्यतीत्यर्थः ।

तया नानिष्ट्वा नवानामोषधीनां फलान्यश्नाति ग्राम्याणामारण्यानां च ।

तयाऽनिष्ट्वा नाभातीत्यन्वयः । अग्रेऽप्रपाके सति तस्य देवताभ्यो हविरित्यनेनेत्यौ. प्रायणं कर्मः तत्राऽऽये दीर्घता छान्दसी । तया चासति यागे पूर्व ग्राम्यारण्यौषधीनां फलानि नाभाति तस्मादभ्यासः । प्रतिपाकं तयाऽनिष्ट्वा नवानामशने पार्थिकृतेष्टेः प्रायश्चित्तत्वेन विधानान्नित्यैवेयमनपाकेनाशननिमित्ता । तथा च मरद्वाजोऽनया याव. जी यजेतेति नियतोपक्रमा वाऽऽधानानन्तरमित्यपि ज्ञेयम् । आधाने पवमानहविषामुः कर्षे कात्यायनेन प्रतिनिधित्वेनाऽऽअयणविधानात् । नवानामिति वृष्टया यदुत्पद्यते वर्षा आरभ्याऽऽवसन्तं तत्रैव नवत्वप्रसिद्धिः । न वृक्षाणां फलानां प्रतिषेधो नाप्यौ. पधीनां फलव्यतिरिक्तमूलकन्दपत्रपुष्पादीनां प्रतिषेधः । तदिदं व्यक्तमापस्तम्बभरद्वा. मादिमिरुक्तम् । हरितयवानां शिम्बीधान्यस्यादनलब्धफलानामनुग्रहस्तैरेवोक्तः । देवा मातृकाणां हि प्रायेण प्रथमा बोहियवानां शरद्वसन्तयोरेवोत्पत्तिः । श्रुतिरपि तयो- खे । शरद्वसन्तयोरामयणमिति वैखानसेनाऽऽपस्तम्बेन भरद्वाजेन च शरदि ब्रोहिमि- वसन्ते यवैवर्षासु. श्यामाकैरिति कुल्या धान्यानामन्यदाऽपि .पाकदर्शनासर्वदाऽपि.. नवत्वमस्तीति शरद्वसन्तग्रहणमनर्थकं स्यात् । तथा च व्रीहिश्यामाकानामाग्रयणं नियत तपाच बचानां यवाग्रयणं कृताकृतमिति ।

व्रीहीणामग्रपाकस्य यजते तथा श्यामाकानां यवानामग्रपाकस्य यजते ।

प्रथमपकानामेव तदा वा शरदि वा.यागः शरदं तु नातीयात्तथा तत्रैव तम्प्रेणेत्यर्थः । श्यामाकानां प्रथमपकानां वर्षासु शरदि वा समानतन्त्रेण यागस्तदाऽप्रपाकामावे. यदा:

१क म. ग. च.छ.ट. ठ. आप्रय ।२५.क.अ. स. म. वा ।.छ. प. . 'त्याप्रय

सत्यापाढविरचितं श्रौतसूत्र- [ ३ तृतीयप्रश्नेत

प्रपाकस्तदेव मिन्नतन्त्रेण यवानां तु भिन्नत श्रेणैव । अग्रपाकशब्देन तत्कालपाकस्य- अहणम् । न च बोहियतानामेककालेऽप्रपाकता संभवति ।

तथा व्रीहीणां निर्वपणकाले पुरान्नानां व्रीहीणामाग्नेयमष्टाकपालं निर्वपति नवानामितराणि ।

तथा च समानतन्त्रमिन्नतश्रव्यवस्थायां सत्यां ब्रोहीणां निर्वपणकाले ब्रीह्याप्रयाण निषणकाले त्यानेयस्य वैशेषिकविधान न तु मिन्नतन्त्र श्यामाके यवाग्रयणे वा पुराण नोह्यानेयोऽस्तीति । इतरराणि वक्ष्यमाणानि नवानामेव । तत्र यामाके देवताविशे- पिताऽन्ययोऽस्तु देवतात्रयं समानमेव । न यवाग्रयणे पुराणानां वोहीणां यवानां याऽऽमेयो नापि नवानाम् । तथा श्यामाके मिन्नतन्त्रेऽप्येव देवता : नाऽऽयः । तदुक्तं वैखानसेन वसन्ते यौयनेत तेषां वोह्याप्रयणवत्को नाऽऽयश्यामाकाविष्यते इत्यापस्तम्बनाहि तथा चोक्तम् ।

आग्नेन्द्रमैन्द्राग्नं वा द्वादशकपालं वैश्वदेवं चरुं पयसिशृतꣳ सौम्यꣳ श्यामाकं चरुं द्यावापृथिव्यमेककपालम् ।

निर्वपतीति पूर्वस्थानुषङ्गः।

नानातन्त्रꣳ श्यामाकमेके समामनन्ति ।

पूर्वमुक्तस्य समानतन्त्रतपोक्ता श्यामाकमेकमेव भिन्नतन्त्रं न तत्र देवतास्तरमस्ती. . . त्यर्थः ।

उपसन्ने हविष्यप्रोक्षिते शतायुधायेति पञ्चाज्यानीर्जुहोति ।

अदित्या व उपस्थे साइयामीत्युपसन्ने देवस्य त्वेत्यनेनाप्रोक्षिते सति शतावुधा में पंवा ग्रीष्मो हेम० इदुवत्स० भद्रान्न इति पञ्चभिग्भिः पञ्च गृहीत्वा जुहोत्या अपणं निरुप्यता आहुतीर्नुहोतीति श्रुतेः ।

पुरस्तात्स्विष्टकृत एके समामनन्ति ।

स्विष्टकृतः पूर्व शतायुधायेत्यादिना जुहोतीत्येके शाखिनस्तुल्यश्रुतित्वाद्विकरूपः उभयत्रापि दविहोमधर्मेण ।

एक कपालानां वैश्वदेवीयेनैककपालेन कल्पो व्याख्यातः।

सर्वेषापेककपालानामनुपदिष्टधर्माणामेव न तूपदिष्टधर्मस्य वारुणस्यावभृथीयस्यापि । वैश्वदेवं चातुर्मास्ये प्रथम पर्व तत्र भवेनैककपालेन कल्पो विधिस्तस्मादतिदिष्टाङ्गाना- मंत्राडोपसंहारों ज्ञेयो न त्ववभूषैककपालात् । ननु कथेमत्रं तस्यातिदेशों यावता दर्शपूर्णमांसप्रकृतित्व विकृतीष्टीनामुक्तम् ।' न च भिक्षुको "भिक्षुकांद्याचत इति न्यायाच न विकृतेर्विकृति रस्ति विना वचनम् । तस्मादग्नीषोमीयमात्र विकृतित्वं हविः सामान्यादेककपालस्य । न च स्वधर्माणो विकृतयोऽन्यासामस्वधर्माणां प्रकृतयः मादअपटल महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

ग्रादिति वाच्यम् । न चात्र सादृश्यमस्ति । न चैककपालत्वसामान्य देवतांसामान्य देवलासामान्यस्य हविःसामान्यस्यैवाङ्गीकारात् । एककपालत्वं .. हविविशेषणं न तु. हविस्तेन हविर्ह विविशेषणसामान्ययोविरोधे मुख्यमेव. बलीयो न गुणः । यदि स्यादेक- कपालत्वेन सादृश्यं तदा वरुणप्रघासादौ वचनतद्राह्मण एककपाल इति कमिसन- यक स्यात् । न च द्यावापृथिव्यत्वं देवतासामान्यमस्तीति वाच्यम् । न हि सर्वे ए(स्मिन्ने )ककपाले तदस्ति दुर्बलं चेत्युक्तम् । नचेदमेककपाल. इति नामधेयं येन मासमग्निहोत्रमिवात्राप्यतिदेशः स्यात्तस्मात्रात्रातिदेशप्राप्तिरिति चेत् । उच्यते- लिङ्गेन गम्यतेत्यतिदेशप्रकरण उक्त विशेषातिदेशे लिङ्गं नियामकं तदत्राप्यस्ति । ताऽऽह कात्यायन:-लिङ्गदर्शमादिति । लिङ्गं च व्याख्यातम् । वाजसनेयिशाखागतं वचनं त्था हि श्रूयते-- परिचक्षा यस्यै चैकस्यै च देवतायै हविर्गृह्यते सर्वत्रैव स्विष्टकृदन्वाभक्तोऽयंत सर्वमेव जुहोति न. स्विष्ट कृतेऽवद्यति सा परिचक्षा हुतो हुतः पर्यावर्तते. सा द्वितीया परिचक्षा । तच्चैतदुमयमप्यनिष्टमित्याज्यस्यैव यागः कर्तव्य इति वचनामाग्रयणेऽष्टौ । श्रूयत आज्ययागप्रशंसार्थमेककपालस्य वैश्वदेवीयस्य धर्मों साहुतित्वं पर्यावृत्तिश्च । न चाप्राप्त योनिन्दा तत्रैव च सर्वहुतं जुहोत्यपर्यावर्तयनुहो। सोति च श्रुतौ धर्मावाऽग्रयणेष्टथैककपाले निन्दार्थमनूदितावतोऽत्रापि तद्धतिदेशे. सति तथा च सर्वहुतमपर्यावृत्तिरतिदिष्टतयैवान्यैर्ह विमिरविरुद्धा धर्मास्तेऽप्यतिदि. श्यन्ते । त्रेधा बर्हिः संनद्धं भवतीति प्राकृते बर्हिष्यधिकों गुणों नेतरैर्बहुमिविरुध्यत. इति केचिदाहुस्तन्न । एकधा सैनहनेन त्रेधा सनहनं विरुद्धमेव । नवप्रयाजत्वमपि तथा तस्याभ्यस्तस्येन्द्रादिभिर्विरोधो भवति प्राकृतगुणपरित्यागात् । वैश्वदेववत्प्रणयन निर्मन्थ्यप्रचारश्च सर्वहुतत्वप्रतिष्ठितत्वादिकं क्रियते विधावपराधे विध्यपराधप्रायश्चित्तं तत एवावभृथककपाले स्वधर्मणि नातिदेशोऽतो न तद्विकारतेत्यपि सिद्धम् ।

नाऽऽविः पृ(विष्पृ)ष्ठं करोति ।

तत्राऽऽविः पृ(विष्पृ)ष्ठता विहिता साऽत्र शाखान्तरात्प्रतिषिध्यते । न च न्यायेन प्रतिषेधो भवति द्यावापृथिवीयैककपालमात्रधर्मत्वेनेतरविरोधाभावाच । तस्मारप्राप्तप्रति- षेधायोगादवश्यमतिदेशेनैव प्राप्तिरिति लिङ्गमप्यनेनोक्तम् ।

न मासनामभिरभिजुहोति ।

- चतुर्मिसिनामभिरभिहोमोऽत्र प्राप्तः। स चाऽऽगाम्यान्तरालिकानामप्रयुक्तस्तकमाये तस्मादेव वा शास्त्रात्प्रतिषिध्यते ।

व्रीहिभिरिष्ट्वा व्रीहिभिरेव यजेताऽऽयवेभ्यो यवैरिष्ट्वा यवैरेव यजेताऽऽव्रीहिभ्यः ।

प्रकृतौ व्रीहिमद्यवमद्वा शकटमवस्थाप्येति व्रीहिभिर्यजेत यति शास्त्रमव्यवस्थया त्रेधा बहि 3 . . सस्थापाविरचितं मौतम [ तृतोषप्रमे

प्रवृत्तमाश्रित्येच्छाविकल्प उक्त इदानी व्यवस्थितशास्त्रमाश्रित्योच्यते । व्यवस्था .. नीलामयणेनेष्ट्वा यावयवारयणेष्टि यते तावत्पर्यन्तं दर्शपूर्णमासौ बीहिभिरेव. कार्यो । विकृतावनियमो : दर्शपूर्णमासावित्येव भरद्वामादिभिरभिधानात् । एवं यताप्रयणेऽपि । आयवेभ्यः पक्केभ्यः पूर्व मर्यादा आछ । यहा यवाग्रयणक्रिया तदैवायं पक्षोऽक्रि. पायां तु स्वेच्छापक्ष एका । यकामयणे कृतेऽपि स्वेच्छया यागे श्रुतिरापस्तम्मन दर्शि: ताऽपि वा ब्रीहिभिरेवोभयत्र ते ह वै म्यवरतमा मान्तीति नढचबामणमिति । सुखेनोपचारार्हा वितुषर्षीभावादि सुखसाध्यमित्यर्थः ।

वेणुवानाꣳ श्यामाकमेके समामनन्ति ।

वेणूनां पाकेन यसरशं धान्यं वेणुगवास्तेषामनपाके सतीत्यध्याहारस्तदा श्यामा- केष्टिमेके शाखिनः पठन्ति । श्यामाका-पक्कान्स्थापयित्वा यदा वेणुयवपाकस्तदैव श्यामाकेष्टिरारण्यकमक्षणाधिकारार्था । तदुक्तं कात्यायनेन - 'श्यामाकं चाऽऽरण्य- स्थाप्रपाके' इति । एते श्यामाका भारका साथमा वेणुयानामप्रपाकस्याss- प्रयणमित्यध्याहारो वेणुपवानामाग्रयणं श्यामाकं श्यामाकवन्मासममिहोत्रमितिवत् । तदुक्तं वैखानसेन-प्रियङ्गनेणुयवानां यत इशामावदिति । तथा चं चरोः सोम एव देवतेति नियमः । आपस्तम्बेन प्रजापत्यादिनानावता विकल्प उक्तः । अथ वा वैश्यवानामेव श्यामाकशब्दाभिधेयानां चरुमेके। यवहाधिकरणे हि यत्रान्या भोषधयो म्झायन्तेऽयैते मोदमानास्तिष्ठन्तीति वाक्यशेषाधवशब्देन दीर्घशूका एवं गृह्यन्ते न श्यामाका यवशब्देन व्यवहियमाणा अपि । तत्तु माम्ययवेवं निर्णायकं नवारण्यकवे. गुपवेषु । तस्मात्त एव श्यामाकशब्दवाच्यास्तेषामेव चरुरिति फलमनन्तरपक्षसमानमेव ।

अपि वा नाऽग्रयणेष्टिं कुर्वीत न वै रेवामावास्यायां पौर्णमास्यां वा यजेत ।

अपि वा नरवामावास्यायां पौर्णमास्यां वा यति लाधवेन वक्तव्ये न कुर्वीतेति प्रतिक्षा प्राप्तिष्टिविकल्पार्थः उत्तरत्र वक्ष्यमाणं "पक्षाः प्राप्तेष्टेरपि समानविकल्पा नर्वाऽग्निहोत्रं जुहुयादित्यादिकास्ततस्त्वप्रारब्धदर्शपूर्णमासस्येदै विधानमित्याहुस्त- निरस्तं नित्येष्टिमेवान्यतरस्मिन्पर्वणि नवैः कुर्यात्तातैवाऽऽप्रयणं कृतमित्यर्षः आपस्तम्भन समानताऽप्युक्ता साऽपि दर्शपूर्णमासयोपिकृतेश्च संनिपात इत्यत्रैव व्याख्याता । तत्राऽऽयो न. क्रियते पृथक्पुरागैवाहिमिनित्यानेय एवं कर्तव्य- स्तथा चैन्द्रानादीनेव चतुरो नवैवाहिभिः शामाकर्यवैर्वा निरुप्य नित्यं हविर्नकै । पुराणैर्वा निर्वपेत् । नानातन्त्रे श्यामाके तु तां निरुष्य नित्येष्टिं निर्वपेत् । श्यामाक- मन्यदा भिन्नतन्त्र वा समानतनं नित्येन वा हविषा तदा तमेकमेव निरुप्य नित्यह.

१२. ग. च. ट..ठ. . के। पदहा । S य ८०पटक: J महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

विनिपेत् । आग्रयणेलामामेयः कृताकृत एवाऽऽपस्तम्बभरद्वानादिमिरजीकृतः । अनुमतश्चास्मदाचार्येणापि पदयं वक्ष्यत्याग्रयणदेवताभ्यः विष्टकृञ्चतुर्थीम्यो हुत्येति सपा सोमेन सह चतस्त्र एवाऽग्रयणदेवता इति ।

नवैर्वाऽग्निहोत्रं जुहुयादग्निहोत्रीं वा नवानादयित्वा तस्याः क्षीरेण जुहुयाच्चतुःशरावमोदनं वा पक्त्वाऽऽग्रयणदेवताभ्यः स्विष्टकृच्चतुर्थीभ्यो हुत्वा तद्व्यञ्जनं भोजयति भोजयति।।२३।।

इति सत्याषाढहिरण्यकेशिसूत्रे तृतीयप्रश्नेऽष्टमः पटलः ।। ८ ।।

इति हिरण्यकेशिसूत्रे तृतीयः प्रश्नः ।। ३ ।।

एतेऽनुकरूया अप्रारब्धदर्शपूर्णमासस्याऽऽअयणकाल आगते नियता एवान्यस्याश• कावेव नवैस्तण्डुलैरेव बीहीणां यवानां वा सायंप्रातस्तथैवोक्तमापस्तम्बादिमिरेकापूर्ण साधनत्वं न तथैव सिध्यतीति नोक्तमाचर्येण क्षीरहोमिणस्त्वमिहोत्री गां बीहीश्या- माकान्यवान्या भक्षयित्वा तस्यै भक्षणार्थ दत्वा तत्परिणामे सति सायं प्रातस्तस्याः पयसा जुहुयात्प्रातरनिहोत्रस्यैतौ पक्षो यदा दर्शपूर्णमासावनारम्भौ स्यातामाग्रयणकाल उपस्थिते नियतावेवान्यस्यप्याश को प्राप्तप्रतिषेधमलादित्युक्तमेव । चतुःशरावस्तु व्याख्यात आधाने तस्य पाको गार्हपत्य इत्यापस्तम्ब भोपासनेऽपि वेति वैखानसः । होमो वा मोननं वेति विकल्पेनान्यरुक्तमाचार्यस्तु हुत्वा तस्यावशिष्टमोदनं कृत्वाऽ. न्यैर्यञ्जनैश्च ब्राह्मणान्यथाशक्ति भोजयेत् । अयं पक्षस्तु पवमानहविषामुत्कर्षे नियतोऽ. न्यस्याशक्तौ । अग्निहोत्रहोमपक्षयो पर्वनियमश्चतुःशरावस्य चाऽऽग्रयणदेवताभ्य माग्रयणेष्टिप्रत्याम्नायस्य पर्वनियमः । द्विरुक्तिः प्रश्नसमाप्त्यर्था । अत्र कात्यायनेन [विशेषा उक्ताः-नवाशितायाः पयसाऽग्निहोत्रमित्यभिधाय दीक्षितव्रतं चोपसत्सु रौहिणौ सुत्यामु सवनीया इति । तत्रागानाधायाकृताग्रयणो वसन्ते वीक्षेताऽऽअयणका: . लातिपत्तौ प्राप्तायामिदमुक्तं शरदि वाऽनीजान आग्रयणेन वाजपेयाय दीक्षेत तदा. प्येवमाप्रयणसंपत्तिः कार्या ॥ इति श्रीहिरण्यकेशिसूत्रव्याख्यायां महादेवकृतायां प्रयोगवैज- यन्त्यां तृतीयाधानप्रश्नेऽष्टमः पटलः ॥८॥ ॥ प्रश्नश्च समाप्तः॥ इति हिरण्यकेशिसूत्रव्याख्यायां तृतीयः प्रश्नः ॥ ३॥

घ. रू. ज. स. म. द. में ए'।