कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्/प्रश्नः ०१

विकिस्रोतः तः
कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्
प्रश्नः ०१
हिरण्यकेशिः/सत्याषाढः
प्रश्नः ०२ →

1.1
यज्ञं व्याख्यास्यामः।
स त्रिभिर्वेदैर्विधीयते ।
ऋग्वेदेन यजुर्वेदेन सामवेदेन सर्वैर्ज्योतिष्टोमः ।
ऋग्वेदयजुर्वेदाभ्यां दर्शपूर्णमासौ ।
यजुर्वेदेनाग्निहोत्रम् ।
विधिलक्षणानि कर्माणि ।
मन्त्रब्राह्मणयोर्वेदनामधेयम् ।
कर्मविधानं ब्राह्मणानि ।
तच्छेषोऽर्थवादः ।
निन्दा प्रशंसा ।
परकृतिः पुराकल्पश्च ।
अतोऽन्ये मन्त्राः ।
लौकिकाः प्रयुज्यमाना अमन्त्राः ।
यज्ञकर्मार्था मन्त्राः ।
रूपविप्रतिषेधाल्लौकिकेषु ।
यथा गृह्णामि ते सुप्रजास्त्वाय हस्तमिमां खनाम्योषधीं वह वपां जातवेदः पितृभ्य इति ।
यथोपदिष्टं ब्राह्मणवन्तो यथारूपमितरे ।
शेषस्य विनिधानम् ।
पारिप्लवार्था दाशतय्यः ।
उत्तरयोः पवमानयोः स्तोमाभ्यासे सामानि ।
तूष्णीकेषु प्राकृतेषु यजुः ।
वेदः कर्मनामधेयेन श्रूयमाणस्तदर्थः ।
यथा वाजपेयो याज्योपुरोनुवाक्याश्च ।
उपाꣳशु यजुर्वेदेन क्रियते ।
अन्यत्र प्रवरसंवादाश्रावणसंप्रैषेभ्यः ।
उच्चैरितराभ्याम् ।
सर्वैरुपाꣳशु ।। १ ।।
ज्योतिष्टोमे प्रागग्नीषोमीयात् ।
यावदर्थोऽपवृज्यते स एकमन्त्रः ।
आदिप्रदिष्टा मन्त्रा भवन्ति।
उत्तरास्याऽऽदिना पूर्वस्यान्तं विद्यात् २.
मन्त्रान्तेन कर्म संनिपातयेत् ।
क्रियमाणे हौत्राण्युच्यन्ते ।
एकमन्त्राणि कर्माणि ।
समभ्युच्चीयेरन्हौत्राणि ।
अन्यत्र याज्यानुवाक्याभ्यः ।
यत्रैकस्मिन्द्रव्ये विचेष्टापृथक्त्वेनार्थो निष्पद्यते सकृदेव तत्र मन्त्रं ब्रूयात् ।
यथा प्रोक्षे यूपच्छेदने च ।
द्रव्यपृथक्त्वेऽभ्यावर्तते ।
यथाऽऽज्यग्रहणे लवने स्तरणे च ।
अर्थपृथक्त्वात्कण्डूयनमन्त्रोऽभ्यावर्तते ।
परार्थान्येकेन क्रियेरन् ।
यया कपालेनोपवपति यजमानेन समितौदुम्बरी भवतीति ।
यजुर्वेदेनाध्वर्युः करोति ।
ऋग्वेदेन होता ।
सामवेदेनोद्गाता ।
सर्वैर्ब्रह्मा ।
वचनलक्षणा इतरे ।
असंभवाद्वा ।
ययाऽश्वमेधे पशुकर्मसु ।
आहवनीय आहुतयो जुह्वा हूयन्ते ।
उत्तरतउपचारो विहारः ।। २ ।।
प्राङ्न्यायान्युदङ्न्यायानि वा प्रदक्षिणं यो कर्माणि करोति ।
न यज्ञाङ्गेनाऽऽत्मानमन्यं वाऽभिपरिहरति ।
न विहारादुपपर्यावर्तते ।
अन्तराणि यज्ञाङ्गानि बाह्याः कर्तारः ।
प्राचीनावीती पित्र्याणि करोति ।
यज्ञोपवीती दर्शपूर्णमासयोरग्निहोत्रे च ।
अनियमोऽन्यत्र ।
चोदनासंयोगात्प्रधानान्येककालानि ।
तेषां विभवन्ति तन्त्रमङ्गान्यविभवन्त्यावर्तन्ते ।
नानाकालेषु पृथक् ।
यः प्रधानस्य कालः सोऽङ्गानाꣳ स देशः स कर्ता सोऽग्निः ।
.आधानप्रभृति यावज्जीवं पात्राणि धार्यन्ते ।
तेषां प्रतितन्त्रꣳ सꣳस्कारोऽभ्यावर्तते ।
सर्वकामौ दर्शपूर्णमासौ ।
तौ समानविधानौ।
निर्देशाद्व्यवतिष्ठेते ।
ताभ्यां यावज्जीवं यजते त्रिँशतं वा वर्षाणि ।
एकस्मिन्प्रयोगे सर्वान्कामान्कामयेत प्रयोगपृथक्त्वे वैकैकम्।
पूर्वा पौर्णमास्युत्तराऽमावास्या।
पौर्णमास्यां पौर्णमास्या यजतेऽमावास्यायाममावास्यया ।
आग्नेयोऽष्टाकपाल उपाꣳशुयाजश्चाग्नीषोमीयो वैष्णवः प्राजापत्यो वाऽग्नीषोमीयश्चैकादशकपालःपौर्णमास्यां प्रधानानि ।
नासोमयाजिनो ब्राह्मणस्याग्नीषोमीयः पुरोडाशो विद्यत इत्येकेषामाग्नेयोऽष्टाकपाल ऐन्द्राग्न एकादशकपालो द्वादशकपालो वाऽमावास्यायामसंनयत आग्नेयः सांनाय्यं च संनयतः ।
तदङ्गमितरे होमाः ।
पूर्वां पौर्णमासीमुपवसेत् ।
संपूर्णां वा ।
पूर्वाममावास्याम् ।
यदहर्वा न दृश्यते ।। ३ ।।
इति हिरण्यकेशिसूत्रे प्रथमप्रश्ने प्रथमः पटलः ।। १ ।।

1.2
प्रातरग्निहोत्रꣳ हुत्वाऽनुगमयित्वाऽऽग्निहोत्रिकमपोद्धृत्य वोदित आदित्यं गार्हपत्यादाहवनीयमुद्धृत्य ममाग्ने वर्च इत्यन्वादधात्युत्तरया गार्हपत्यमुत्तरया दक्षिणाग्निम् ।
सर्वाभिर्वाऽऽहवनीयम् ।
अवशिष्टा विकल्पार्थाः ।
व्याहृतीभिरन्वादधातीत्येकेषाम् ।
इति वैताभिः ।
पलाशशाखाꣳ शमीशाखां वाऽऽहरति ।
प्राचीमुदीचीं प्रागुदीचीं वाऽहीनां बहुपर्णामशुष्काग्राम् ।
यं काययेतापशुः स्यादित्यपर्णां तस्मै शुष्काग्राम् ।
यं कामयेत पशुमान्स्यादिति बहुपर्णां तस्मै बहुशाखामशुष्काग्राम् ।
इषे त्वेति शाखामाच्छिनत्यूर्जे त्वेति संनमयत्यनुमार्ष्टि वा ।
इमां प्राचीमुदीचीमिषमूर्जमभिसꣳस्कृताम् । बहुपर्णामशुष्काग्राꣳ हरामि पशुपामहमित्याहरति ।
वायवः स्थेति तया षड्वत्सानपाकरोति ।। ४ ।।
दर्भैर्वा सदर्भयेत्येकेषाम् ।
अपाकृतानामेक शाखयोपस्पृशति ।
देवो च इति गोचरमभि मातॄः प्रस्थापयति ।
इन्द्रं निगमेषूपलक्षयेदिन्द्रयाजिनो महेन्द्रं महेन्द्रयाजिनः। ।
दर्भैर्वा सदर्भयेत्येकेषाम् ।
अपाकृतानामेक शाखयोपस्पृशति ।
देवो च इति गोचरमभि मातॄः प्रस्थापयति ।
इन्द्रं निगमेषूपलक्षयेदिन्द्रयाजिनो महेन्द्रं महेन्द्रयाजिनः। ।
ध्रुवा अस्मिन्निति यजमानस्य गृहानभि पर्यावर्तते ।
यजमानस्य पशून्पाहित्यग्निष्ठेऽग्न्यगारे वा पुरस्तात्प्रतीचीꣳ शाखामुपगूहति पश्चात्प्राचीमित्येकेषाम् ।
देवस्य त्वेत्यश्वपर्शुमसिदं वाऽऽदत्ते ।
यज्ञस्य घोषदसीति गार्हपत्यमुपतिष्ठते ।
प्रत्युष्टमित्याहवनीये गार्हपत्ये वा निष्टपति ।
प्रेयमगादुर्वन्तरिक्षं प्रेहीत्यन्यतरेण प्राचीनमुदीचीनं वाऽभिप्रव्रज्य यतः कुतश्चिद्दर्भमयं बर्हिराहरति ।
विष्णोस्तूपोऽसीत्यभिप्रेतानामेकꣳ स्तम्बमुत्सृजतीन्द्रस्य परिषूतमसीत्यन्यं परिषौति देवानामिति वा ।
तꣳ सर्वं दाति ।
अपि वा पशूनां त्वा भागमुत्सृजामीति
परिषूतस्यैकां द्वे वा दर्भनाड्यावुत्सृजति।
इदं देवानामिति परिषूतमभिमृशतीदं पशू-
नामित्युत्सृष्टमवसृष्टो गवां भाग इति वा ।
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो
हस्ताभ्यां बर्हिर्देवसदनमारभ इति विशाखेष्वभिपद्यते ।
देवेभ्यस्त्वोर्ध्वबर्हिर्भ्य इत्यूर्ध्वमुन्मार्ष्टि ।
देवबर्हिर्मा त्वाऽन्वङ्मा तिर्यगित्यसिदं निदधाति माधो मोपरि परुस्त ऋध्यासमिति वा ।। ५ ।।
या जाता ओषधयो देवेभ्यस्त्रियुगं पुरा । तासां पर्व राध्यासं परिस्तरमाहरन्नित्यभिमन्त्र्य ।
आच्छेत्ता ते मा रिषमित्याच्छिनत्ति ।
सनखं मुष्टिं दाति ।
स प्रस्तरः ।
स्रुग्दण्डमात्रमुर्वस्थिकुल्मिमात्रं वा ।
एतेनैव कल्पेनेतरान्दाति ।
यदन्यत्परिषवणादुत्सर्जनाच्च ।
सर्वं यथार्थं लुत्वा ।
देवबर्हिः शतवल्शं विरोहेत्यालवानभिमृशति ।
सहस्रवल्शा वि वयꣳ रुहेमेत्यात्मानमत्यभिमृशति ।
अयुजो युजो वा मुष्टीन्निधनानि वा लुनोति ।
अदित्यै रास्नाऽसीति प्रदक्षिणꣳ शुल्बमावेष्टयति ।
अयुपिता योनिरिति प्रतिनिदधाति त्रिधातु पञ्चधातु वा धातौ धातौ मन्त्रमावर्तयति ।
पृथिव्याः संपृचः पाहीति प्रागग्रमुदगग्रं वा शुल्बं निदधाति ।
अपरिमितानां परिमिताः संनह्ये सुकृत्तायकम्। एनो मा निगां कतमच्चनाहं पुनरुत्थाय बहुला भवन्त्वित्यभिमन्त्र्य अथ सुसंभृता त्वासंभारमीति शुल्बे निधनानि संभरति ।
अलुभितो योनिरित्युत्तमे निधने प्रस्तरमादधाति । इन्द्राण्यै संनहनमिति संनह्यति पूषा त इति प्रदक्षिणं ग्रन्थिमावेष्ट्य ।
स त इति पुरस्तात्प्रत्यञ्चमुपकर्षति पश्चाद्वा प्राञ्चम् ।
आपस्त्वामश्विनौ त्वामृषयः सप्त मामृजुः । बर्हिः सूर्यस्य रश्मिभिरुषसां केतुमारभ इत्यारभते ।
इन्द्रस्य त्वा बाहुभ्यामुद्यच्छ इत्युद्यच्छते ।
बृहस्पतेरिति शीर्षमधिनिधाय हरति ।
यौ गमनौ तौ प्रत्यायनौ ।
अदित्याः सद आसीदेति परिधिदेशेऽन्तर्वेद्यनधः सादयति ।
देवंगममसीत्यासन्नमभिमन्त्रयते ।
पालाशं खादिरं वैकविꣳशतिदारुमिध्मꣳ संनह्यति ।
पच्चदश सामिधेन्यर्थानि ।
त्रयः परिधयोऽनियतवृक्षाः सत्वक्वाः ।
आर्द्रा भवन्ति ते हि सरसा इति विज्ञायते शुष्का भवन्ति मेध्यत्वायेति विज्ञायते ।
स्थविष्ठो मध्यमोऽणीयान्द्राघीयान्दक्षिणार्ध्योऽणिष्ठो ह्रसिष्ठ उत्तरार्ध्यः ।
द्वे आघारसमिधौ ।
अनूयाजसमिदेकविꣳशीति ।
समूलानाममूलानां वा दर्भाणामयुग्धातु शुल्वं कृत्वा प्रागग्रमुदगग्रं वा निदधाति ।
यत्कृष्णो रूपं कृत्वा प्राविशस्त्वं वनस्पतीन् । ततस्त्वा मेकविꣳशतिधा संभरामि सुसंभृता । त्रीन्परिधीꣳ- स्तिस्रः समिधो यज्ञायुरनुसंचरान् । उपवेषं मेक्षणं धृष्टिꣳ संभरामि सुसंभृतेति शुल्ब इध्मꣳ संभरति ।
कृष्णोऽस्याखरेष्ठो देव पुरश्चर सघ्यासं त्वेति संनह्यति ।
पूषा त इति प्रदक्षिणं ग्रन्थिमावेष्ट्य तेनैव कल्पेन यथा बर्हिषि ।
विप्रतिपाद्य वा ।
तेनैव मन्त्रेण ।
बर्हिषा सह निदधाति ।
वेदोऽसि येन त्वं देव वेददेवेभ्यो वेदोऽभवस्तेन मह्यं वेदो भूया इति दर्भाणां वेदं करोति ।
वत्सज्ञुं मूतकार्यं पङ्क्तिकार्यं त्रिवृतं वा ।
वत्सज्ञुं पशुकामस्य मूतकार्यमन्नाद्यकामस्य पङ्क्तिकार्यं प्रजा- कामस्य त्रिवृतं ब्रह्मवर्चसकामस्य त्रिवृच्छिरसं ब्रुवते ।
तृण्णात्प्रादेशे परिवासयति ।
इध्मप्रव्रश्चनानि वेदपरिवासनानि च सह निदधाति ।। ७ ।।
इति हिरण्यकेशिसूत्रे प्रथमप्रश्ने द्वितीयः पटलः ।। २ ।।

1.3 अथ तृतीयः पटलः ।
अन्तर्वेदि शाखायाः पलाशानि प्रशात्य सर्वाणि मूलतः परिवास्य ।
उपवेषोऽसि यज्ञाय त्वां परिवेषमधारयन् । इन्द्राय हविः कृण्वन्तः शिवः शग्मो भवासि न इति तमुपबेषं करोति ।
तस्यां त्रिवृद्दर्भमयं पवित्रमविदलं करोति ।
त्रिवृत्पलाशे दर्भ इयान्प्रादेशसंमितः । यज्ञे पवित्रं पोतृतमं पयो हव्यं करोतु म इति मूले मूलमुपसृजत्यग्रेऽग्रं न ग्रन्थिं करोति ।
वसूनां पवित्रमसि शतधारमिति वा ।
सायꣳ हुतेऽग्निहोत्रे ।
द्वंद्वꣳ सांनाय्यपात्राणि प्रक्षाल्य न्यञ्चि प्रयुनक्ति ।
अग्निहोत्रहवणीमुखामुपवेषꣳ शाखापवित्रमभिधानीं निदाने दोहनमयस्पात्रं दारुपात्रं वा पिधानार्थम् ।
समावप्रच्छिन्नाग्रौ दर्भौ प्रादेशमात्रौ पवित्रे करोति ।
पवित्रे स्थो वैष्णवी वायुर्वां मनसा पुनात्विति तृणं काष्ठं वाऽन्तर्धाय छिनत्ति ।
न नखेनेमौ प्राणापानौ यज्ञस्याङ्गानि सर्वशः । आप्याययन्तौ संचरतां पवित्रे हव्यशोधन इत्यभिमन्त्र्य ।
विष्णोर्मनसा पूते स्थ इत्यद्भिरुन्मार्ष्टि ।
अग्निहोत्रहवण्यां पवित्रान्तर्हितायामप आनीय ।
देवो व इति पच्छो गायत्र्योदगग्राभ्यां पवित्राभ्यां त्रिरुत्पुनाति ।
आपो देवीरित्यनुमन्त्र्यते ।। ८ ।।
आपो देवीः शुद्धाः स्थेमा पात्राणि शुन्धत । उपा- तङ्क्याय देवानां पर्णवल्कमुत शुन्धतेति वा ।
शुन्धध्वमिति त्रिः सर्वाभिरुत्तानानि पात्राणि प्रोक्षति शुन्धन्तां विश्वकर्माणि देवयज्यायै दैव्याय कर्मणे शुन्धध्वं यद्वोऽशुद्धाः पराजग्मुस्तद्व एतेन शुन्धतामिति वा ।
एता आचरन्ति मधुमद्दुहानाः प्रजावतीर्यशसो विश्वरूपाः । बह्वीर्भवन्तीरुपजायमाना इह व इन्द्रो रमयतु गाव इति गा आयतीः प्रतीक्षते ।
धृष्टिरसीत्युपवेषमादाय ।
निरूढं जन्यं भयꣳ सह तेन यं द्विष्मः सुभूताय श्रयध्वमिति तेन गार्हपत्यादुदीचोऽङ्गारान्निरूह्य ।
मातरिश्वन इति तेषु कुम्भीमधिश्रयति ।
अप्रस्रꣳसाय यज्ञस्योखे उपदधाम्यहम् । पशुभिः संनीतं बिभृतामिन्द्राय शृतं दधीति वा ।
भृगूणामङ्गिरसां तपसा तप्यस्वेत्यङ्गारैः परीन्धे ।
उपसृष्टां मे प्रब्रूतादिति संप्रेष्यति ।
वसूनां पवित्रमसि सहस्रधारमिति कुम्भ्यां प्रागग्रꣳ शाखापवित्रमादधाति ।
अन्वारभ्य वाचं यच्छति धारयन्नास्ते ।
अदित्यै रास्नाऽसीत्यभिधानीमादत्ते ।। ९ ।।
त्रयस्त्रिꣳशोऽसि तन्तूनां पवित्रेण सहाऽऽगहि । शिवेयꣳ रज्जुरभिधान्यघ्नियामुपसेवतामिति वा ।
पूषाऽसीति वत्समुपसृजति ।
धावन्तं वाऽनुमन्त्रयते ।
विहारं गां चोपसृष्टामन्तरेण मा संचारिष्टेति संप्रेष्यति न दुह्यमानामन्तरेण यन्ति विहारं गां च ।
यदि व्यवेयात्सांनाय्यं मा विलोपीति ब्रूयात् ।
अयक्ष्मा वः प्रजया सꣳसृजामि रायस्पोषेण बहुला भवन्तीरित्युपसृष्टाम् ।
ऊर्जं पयः पिन्वमाना घृतं च जीवो जीवन्तीरुप वः सदेयमित्युपसन्नाम्।
द्यौश्चेमं यज्ञं पृथिवी च संदुहानां धाता सोमेन सह वा तेन वायुः । यजमानाय द्रविणं दधात्विति दुह्यमानामुत्सं दुहन्ति कलशं चतुर्बिलमिडां देवीं वधुमतीꣳ सुवर्विदम् । तदिन्द्राग्नी जिन्वतꣳ सूनृतावत्तद्यजमानममृतत्वे दधात्विति धाराघोषमनुमन्त्रयते ।
दोग्धा हरति ।
तं पृच्छति कामधुक्षः प्र णो ब्रूहीन्द्राय हविरिन्द्रियम् ।
अमूं यस्यां देवानां मनुष्याणां पयो हितमित्यसाविति गोधुगाचष्टे ।
सा विश्वायुरिति प्रत्युच्य ।
देवस्त्वा सविता पुनातु वसोः पवित्रेण शतधारेण सुपुवेति कुम्भ्यामानयति ।
यदन्यत्संप्रैषात्तेनोत्तरे दोहयति ।
सा विश्वव्यचा इति द्वितीयाꣳ सा विश्वकर्मेति तृतीयाम् ।
तिस्रो दोहयित्वा बहु दुग्धीन्द्राय देवेभ्यो हव्यमाप्यायतां पुनर्व तसेभ्यो मनुष्येभ्यः पुनर्दोहाय कल्पतामिति त्रिः संप्रेष्यति । विसृष्टवागनन्वारभ्य ।। १० ।। उत्तरा दोहयति तूष्णीं वा ।
सर्वासु दुग्धासु हुतः स्तोक इति विप्रुषोऽनुमन्त्रयते ।
द्यौश्चेमं यज्ञमिति सांनाय्यम् ।
दोहनꣳ संक्षाल्य संपृच्यध्वमिति कुम्भ्यामानयति ।
श्रपयित्वा तूष्णीकेन सर्पिषाऽभिघार्य ।
दृꣳह गा बृꣳह गोपतिं मा वो यज्ञपती रिषदिति प्राचीनमुदीचीनं प्रागुदग्वा कर्षन्निवोद्वासयति ।
पूर्वेद्युर्दुग्धं दधि द्दविरातञ्चनमेकस्या द्वयोस्तिसृणां वैकाहे द्व्यहे त्र्यहे वा सततमभिदुग्धमौपवसथाद्भवति ।
सोमेन त्वाऽऽतनच्मीति तेन शीतं बुध्नं कृत्वाऽऽ- तनक्तीन्द्रस्य स्वा भागꣳ सोमेनाऽऽतनच्मीति वा ।
तण्डुलैः पर्णवल्कैः क्वलैर्बदरैः पूतीकैर्वा ।
यज्ञस्य संततिरसि यज्ञस्य त्वा संततिमनुसंतनोमीत्यग्निहोत्रोच्छेषणमानयति तूष्णीं वा ।
आपो हविःषु जागृत यथा देवेषु जाग्रथ । एवमस्मिन्यज्ञे यजमानाय जागृतेत्यपिधानार्थे पात्रेऽप आनयत्यदस्तमसि विष्णवे त्वा यज्ञायापिदधाम्यहम् । अद्भिररिक्तेन पात्रेण याः पूताः परिशेरत इत्यपिदधाति ।
यदि मृन्मयꣳ स्यात्तृणं काष्ठं वाऽनुप्रविध्येत् ।
इमौ पर्णं च दर्भं च देवानाꣳ हव्यशोधनौ । प्रातर्धेयाय गोपाय विष्णो हव्यꣳ हि रक्षसीत्युन्मुच्य शाखापवित्रं प्रज्ञातं निदधाति ।
विष्णो हव्यꣳ रक्षस्वेति सानाय्यं गार्हपत्यदेश उपरि निदधाति ।। ११ ।।
इति हिरण्यकेशिसूत्रे प्रथमप्रश्ने तृतीयः पटलः ।। ३ ।।
इति सत्याषाढ हिरण्यकेशिसूत्रव्याख्यायां प्रयोगवैजयन्त्यां महादेवकृतायां प्रथमप्रश्ने तृतीयः पटलः ।। ३ ।।

1.4 अथ चतुर्थः पटलः ।
अन्याꣳ शाखामाहृत्य तेनैव कल्पेन तया दर्भैर्वा प्रातर्दोहाय वत्सानपाकरोति यथा सायंदोहाय ।
उपधाय कपालानि प्रातर्दोहं दोहयति तस्य सायंदोहेन कल्पो व्याख्यातः ।
अप्रस्रꣳसाय यज्ञस्योखे उपदधाम्यहम् । पशुभिः संनीतं विभृतामिन्द्राय शृतमिति मन्त्रान्तꣳ संनमति ।
उदगग्रꣳ शाखापवित्रमादधाति ।
नाऽऽतनक्ति ।
नासोमयाजी संनयेदतो खल्वाहुः कापेयाः संनेयमेवासोमयाजिनेति ।
ऐन्द्रꣳ सांनाय्यꣳ सोमेनेष्ट्वा महेन्द्रं यजेत ।
अपि वा संवत्सरं द्वौ वेन्द्रमिष्ट्वाऽग्नये व्रतपत- येऽष्टाकपालं निरुप्य कामं महेन्द्रं यजेत ।
औवा गौतमो भारद्वाजः शुश्रुवान्ग्रामणी राजन्य इति सर्वत्र कामं महेन्द्रं यजेरन् ।
परिस्तृणीत परिधत्ताग्निं परिहितोऽग्निर्यजमानं भुनक्तु । अपाꣳ रस ओषधीनाꣳ सुवर्णो निष्का इमे यजमानस्य सन्तु कामदुघा अमुत्रामुष्मिँल्लोक इति संप्रेष्यति ।
दर्भैरग्नीन्परिस्तृणाति ।
आहवनीयं परिस्तीर्य गार्हपत्यमथ दक्षिणाग्निं गार्ह पत्यं वा परिस्तीर्य दक्षिणाग्निमथाऽऽहवनीयम् ।
उदगग्राः पश्चात्पुरस्ताच्च भवन्ति ।
एतत्कृत्वोपवसत्यमावास्यायाम् ।
पौर्णमास्यां तु ।
पूर्वेद्युरग्न्यन्वाधानमग्निपरिस्तरणं च ।
श्वो भूत इध्माबर्हिर्वेदं च करोति ।
सद्यो वा ।
सर्वं क्रियते. ।। १२ ।।
सद्यस्कालायामुपरिष्टाद्वेदकर्मणोऽग्नीन्परिस्तृणाति ।
संग्रहः -- श्वःपदं लुप्यते मन्त्र उभावग्नी च सर्वशः ।
नोहोऽस्ति प्रकृतौ नापि विकृतौ तद्विकारतः ।।
प्रातरग्निहोत्रꣳ हुत्वोदित आदित्येपौर्णमास्या- स्तन्त्रं प्रक्रमयति प्रागुदयादमावास्यायाः ।
कर्मणे वामिति पाणी प्रक्षाल्य ।
यज्ञस्य संततिरसि यज्ञस्य त्वा संतत्यै स्तृणामि संतत्यै त्वा यज्ञस्येति गार्हपत्यात्संततामुलपराजीꣳ स्तृणात्याहवनीयात्तूष्णीं दक्षिणां तूष्णीमुत्तराम् ।
दक्षिणेनाऽऽहवनीयं ब्रह्मयजयानयोः सदने करोति ।
पूर्वं ब्रह्मणेऽपरं यजमानाय ।
उत्तरेण गार्हपत्यं दर्भान्सꣳस्तीर्य द्वंद्वं पात्राणि प्रक्षाल्य न्यञ्चि प्रयुनक्ति ।
स्फ्यं कपालानि ।
अग्निहोत्रहवणीꣳ शूर्पम् ।
कृष्णाजिनꣳ शम्याम् ।
उलूखलं मुसलम्
दृषदमुपलाम् ।
खादिरꣳ स्रुवं पालाशीं जुहूमाश्वत्थीमुपभृतं वैकङ्कतीं ध्रुवाम् ।
अरत्निमात्र्यो बाहुमात्र्यो वा मुखवत्यो हंसमुख- प्रसेचना अग्राग्रा भवन्ति त्वक्तोबिला वायसपुच्छ्य इत्येकेषाꣳ हस्त्योष्ठ्य इत्येकेषाम् ।
आज्यस्थालीं कुटरुम् ।
पात्रीं मेक्षणम् ।
वेदं प्राशित्रहरणम् ।
प्रणीताप्रणयनमिडापात्रं च ।
एकामन्वाहार्यस्थालीम् ।
तेषां यान्यनादिष्टवृक्षाणि विकङ्कतस्य तानि ।
अहोमार्थानि तु वारणस्य ।
अत्र प्रातर्दोहपात्राणि प्रयुनक्ति ।
अत्रासंनयतः पवित्रे करोति ।
पूर्वेद्युःकृते संनयतो धार्येते ।
दक्षाय त्वेति प्रणीताप्रणयनं चमसमादाय ।। १३ ।।
वानस्पत्योऽसि देवेभ्यः शुन्धस्व देवेभ्यः शुम्भस्व देवेभ्यः शुध्यस्वेति त्रिः प्रक्षालयति ।
कꣳसेन ब्रह्मवर्चसकामस्य प्रणयेन्मृन्मयेनान्नाद्यकामस्य ।
ता नेङ्गयन्त्या सꣳस्थानात् ।
संविशन्तां दैवीर्विशः पात्राणि देवयज्याया इति
सपवित्रेण पाणिना पात्राणि संमृशति ।। १४ ।।
इति हिरण्यकेशिसूत्रे प्रथमप्रश्ने चतुर्थः पटलः ।। ४ ।।

1.5 अथ पञ्चम. पटलः
दक्षाय वानस्पत्याऽसीत्यग्निहोत्र हवणीमादत्ते वेषाय त्वेति शूर्पम् ।
प्रत्युष्टमित्याहवनीये गार्हपत्ये वा निष्टपति ।
यजमान हविर्निर्वप्स्यामीत्यामन्त्रयते ।
प्रवसति ।
अग्ने हविर्निर्वप्स्यामीत्यनुब्रूयात् ।
उर्वन्तरिक्षमन्वेमीति गच्छति ।
अपरेणाऽऽहवनीयमपरेण वा गार्हपत्यं नद्धयुगꣳ सपरि णत्कꣳ शकटमवस्थितं व्रीहिमद्यवमद्वा प्रागीषमुदगीषं वा ।
धूरसीति तस्य दक्षिणां धुरमालभ्य ।
त्वं देवानामिति सव्यमीषामालभ्य जपति ।
विष्णुस्त्वाऽक्रꣳस्तेति सव्ये चक्रे दक्षिणं पादमादधाति ।
अह्रुतामित्यारोहति ।
मित्रस्य त्वेति परिणहं प्रेक्षते ।
उरु वातायेति परिणहो द्वारमपच्छादयति ।
मित्रस्य त्वेति पुरोडाश्यान्परिणहं च प्रेक्षते ।
ऊर्जं धत्स्वेति पुरोडाश्यानभिमृशति ।
पयो मयि धेहीत्यात्मानं प्रत्यभिमृशति ।
अपहतꣳ रक्ष इति ततस्तृणं लोष्टं वा निरस्याप उपस्पृश्य ।
दशहोतारं व्याख्याय ।
शूर्पे पवित्रे निधाय ।
स्रुच्योप्य ।
देवस्य त्वेति पवित्रान्तर्हिते चतुरो मुष्टीन्निर्वपति त्रिर्यजुषा तूष्णीं चतुर्थम् ।
निरुप्यान्वावपति ।
एतेनैव कल्पेन यथादेवतमुत्तरं पुरोडाशं निर्वपति ।
पात्र्यां वा निर्वपति दक्षिणतः स्फ्यमुपकृष्य सर्वाञ्शकटमन्त्रानुक्त्वा ।
इदं देवानामिति निरुप्तानभिमृशतीदमु नः सहेति यतोऽधि निर्वपति ।
स्फात्यै त्वेति निरुप्तानेव ।
इदमहं निवर्रुणस्य पाशादिति पुरोडा. श्यानादाय परिणह उपनिःसर्पति ।
सुवरभिविख्येषमिति ।। १५ ।। सर्वं यज्ञमनुवीक्षते ।
वैश्वानरं ज्योतिरित्याहवनीयं परेक्षते ।
दृꣳहन्तां दुर्या इति प्रत्यवरोहति ।
स्वाहा द्यावापृथिवीभ्यामिति स्कन्नाननुमन्त्रयत उर्वन्तरिक्षमन्विहीति गच्छति ।
अदित्यास्त्वोपस्थे सादयामीत्यपरेणाऽऽहवनीयमपरेण वा गार्हपत्यमुपसादयति ।
यतरस्मिन्नग्नौ श्रपयति ।
अग्ने हव्यꣳ रक्षस्वेति यथादेवतं परिददाति ।
सशूकायाꣳ स्रुचि प्रोक्षणीः सꣳस्कृत्य यथा पुरस्तात् ।
ब्रह्मन्प्रोक्षिष्यामीत्यामन्त्रयते ।
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये वो जुष्टं प्रोक्षाम्यमुष्मा अमुष्मा इति यथादेवतं त्रिः प्रोक्षति ।
नाग्निमभिप्रोक्षेत् ।
पात्राणि प्रोक्षति यथा पुरस्तात् ।
वातस्य ध्राजिरसीति कृष्णाजिनमादत्ते देवस्य त्वेति वा ।
अवधूतꣳ रक्ष इत्यूर्ध्वग्रीवं बहिर्विशसनमुत्करे त्रिरवधूनोति ।
अदित्यास्त्वगसीत्यपरेणोत्करं प्रतीचीनग्रीवमुत्तरलोमाऽऽस्तृणाति ।
प्रति त्वा पृथिवी वेत्त्विति पुरस्तात्प्रतीचीं भसदमुपसमस्यति ।
अधिषवणमसीत्यनुत्सृजन्कृष्णाजिनमुलूखलमधिवर्तयति ।
अग्नेस्तनूरसीत्यनुत्सृजन्नुलूखले हवि-
रावपति त्रियर्जुषा तूष्णीं चतुर्थम् ।
अद्रिरसि वानस्पत्य इति ।। १६ ।। मुसलमादत्ते ।
ऊर्ध्वसूरसि वानस्पत इति वाऽवरक्षो दिवः सपत्नं बध्यासमिति त्रिरवहन्त्यपहता यातुधाना अपहतोऽघशꣳस इति वा ।
हविष्कृदेहीति त्रिरवघ्नन्हविष्कृतमाह्वयति ।
अनवघ्नन्वा ।
आद्रवेति राजन्यस्याऽऽगहीति वैश्यस्य ।
प्रादुर्भूतेषु तण्डुलेषूच्चैः समाजहीति संप्रेष्यति ।
अद्रिरसि श्लोककृदित्याग्नीध्रोऽश्मानमादत्ते ।
कुटरुरसि मधुजिह्व इति वा कुक्कुटोऽसि मधुजिह्व इति वा ।
इषमावदोर्जमावदेति ते न दृषदुपले समाहन्ति ।
द्विर्दृषदि सकृदुपलायाम् ।
त्रिः संचारयन्नवकृत्वः संपादयति ।
शम्यया वा तूष्णीꣳ शम्यामादत्ते ।
वर्षवृद्धमसीति पुरस्तादुत्तरतो वा शूर्पमोहति ।
वर्षवृद्धाः स्थेति पुरोडाश्यानभिमृशति ।
प्रति त्वा वर्षवृद्धं वेत्त्वित्युद्वपति ।
परापूतꣳ रक्ष इत्ग्रुत्करे त्रिर्निष्पुनाति ।
पराध्माता अमित्रा इति शूर्पात्तुषान्प्रध्वꣳसयति ।
पुरोदाशकपालं तुषैः पूरद्दित्वारक्षसां भागोऽसीत्यु- त्तरापरमवान्तरदेशमधस्तात्कृष्णाजिनस्योपवपति ।
नान्वीक्षते ।
अवबाडꣳ रक्ष इत्यवबाधते ।
अप उपस्पृश्य अभ्युक्ष्य कपालं निदधाति ।
वायुर्व इति विविनक्ति ।
देवो व इति पात्र्यां तण्डुलान्प्रस्कन्दयति ।। १७ ।।
त्रिष्फली कर्तवा इति संप्रेष्यत्त्यत्र वाचं विसृजते ।
यजमानस्य पत्न्यवहन्ति यो वा कश्चन तद्दास्यपत्नी स्यात्साऽपि कतिपयकृत्वोऽ- वहत्यान्यस्मै प्रयच्छेत्सोऽत ऊर्ध्वमवहन्ति ।
देवेभ्यः शुन्धध्वं देवेभ्यः शुम्भध्वं देवेभ्यः शुध्यध्वमिति पत्नी त्रिष्फली करोति सुफलीकृतान् ।
निदधाति फलीकरणान् ।
प्रक्षाल्य तण्डुलान् ।
त्रिष्फलीक्रियमाणानां यो न्यङ्गो अवशिष्यते । रक्षसां भागधेयमापस्तत्प्रवहता- दितः स्वाहेत्यन्तर्वेदि प्रक्षालनं निनयति ।
व्याख्यातः कृष्णाजिनकल्पः ।
दिवः स्कम्भनिरसीति कृष्णाजिन उदीचीनकुम्बाꣳ शम्यां निदधाति ।
धिषणाऽसि पर्वत्येति तस्यां दृषदमधिवर्तयति ।
पश्चार्धेनाभिनिदधाति ।
धिषणाऽसि पार्वतेयीति दृषद्युपलाम् ।
अꣳशवः स्थ मधुमन्त इति तण्डुलानवेक्षते ।
देवस्य त्वेति दृषदि तण्डुलानधिवपति ।
त्रिर्यजुषा तूष्णीं चतुर्थम् ।
प्राणाय त्वाऽपानाय त्वा व्यानाय त्वेति पिनष्टि ।
अपि वा प्राणाय त्वेति प्राची प्रोहत्यपानाय त्वेति प्रतीचीं व्यानाय त्वेति मध्यदेशे व्यवधारयति ।
दीर्घामन्विति प्राचीमन्ततः ।
यथामुखमत ऊर्ध्वꣳ संततं पिनष्टि ।
देवो व इति कृष्णाजिने पिष्टानि प्रस्कन्दयति ।
अदब्धेन वश्चक्षुषाऽवेक्ष इत्यवेक्षते ।
अव्यवकिरन्ती पिꣳषाणूनि कुरुतादिति संप्रेष्यति ।
पत्नी पिनष्टि दासी वा ।
सैतत्सर्वं करोति ।
अत्र मदन्तीरधिश्रयति ।। १८ ।।
इति हिरण्यकेशिसूत्रे प्रथमप्रश्ने पञ्चमः पटलः ।। ५

1.6 अथ षष्ठः पटलः ।
आहवनीये गार्हपत्ये वा हवीꣳषि श्रप्यन्ते पश्चादग्नेः ।
यथोक्तमुपवेषमादत्ते ।
अभिहतꣳ रक्षो रक्षसः पाणिं दहाहिरसि बुध्निय इति वा तेन प्रत्यञ्चावङ्गारौ निर्वर्तयति।
अपाग्न इत्यन्यतरमुत्तरापरमवान्तरदेशं निरस्याप उपस्पृश्य ।
आ देवयजं वहेत्यवशिष्टमवस्थाप्य ।
ध्रुवमसीति तस्मिन्कपालमुपदधाति ।
निर्दग्धमिति तस्मिन्नङ्गारमधिवर्तयति ।
धर्त्रमसीति तस्मात्पूर्वम् ।
धरुणमसीति तस्मात्पूर्वम् ।
अष्टाकपालस्य द्वे मध्ययाद्दक्षिणे त्रीण्युत्तराणि ।
तयोर्धर्मासीति दक्षिणपूर्व मरुताꣳ शर्ध इति दक्षिणापरम् ।
यवमस्याशा दृꣳह रयिं दृꣳह पोषं दृꣳह सजातानस्मै यजमानस्य पर्यूहेत्युत्तरापरम्।
विश्वाभ्यस्त्वाऽऽशाभ्योऽच्छिद्रꣳ सजातवनस्याया उपदधामीत्युत्तरपूर्वम् ।
चिदसीत्यवशिष्टमुत्तरतः ।
एकादशकपालस्य यथाऽष्टाकपालस्यैवं त्रीण्युपदधाति ।
तेषां वर्षिष्ठं मध्यमं द्वे मध्यमात्पूर्वे ।
तयोश्चिदसीति पूर्वम् ।
यथोक्तमवान्तरदेशेषु ।
चितः स्थेत्यवशिष्टान्युत्तरतः ।
द्वादशकपालस्य यथैकादशकपालस्यैवम् ।
भृगूणामङ्गिरसां तपसा तप्यध्वमिति वेदेन कपालेष्वङ्गारानध्यूहति ।
पात्रीं निष्टप्योपवातायाम् ।
देवस्य त्वेति तिरःपवित्रं कृष्णाजिनात्पिष्टानि संवपति ।
त्रिर्यजुषा तूष्णीं चतुर्थम् ।
संवपन्वाचं यच्छत्यभिवासयन्विसृजते ।
हर्योस्त्वा वाराभ्यामुत्पुनामीत्युदगग्राभ्यां पवित्राभ्यां पिष्टानि त्रिरुत्पुनाति ।
देवो व इति वा ।
स्रुवेण प्रणीतानामादाय वेदेनोपयम्य समाप इति पिष्टेष्वानयति ।
यदि प्रणीता न विद्येरन्या एव काश्चापो यजुषोत्पूय ताभिः संनयेदित्यापदर्थवादः ।
अद्भ्यः परिप्रजाताः स्थेति तप्ता आनयति ।
समद्भिः पृच्यध्वमिति प्रदक्षिणमनुपरिप्लावयति ।
जनयत्यै त्वा संयौमीति संयौति जनयीते त्वेति वा ।
मखस्य शिरोऽसीति पिण्डं करोति ।
यथाभागं व्यावर्तेथामिति विभजति ।। १९ ।।
देवो वाꣳ सविता विभजतु भगो वाꣳ सविता विभजतु पूषा वाꣳ सविता विभजतु वायुर्वाꣳ सविता विभजतु जनयत्यै त्वा विभजामीति वा ।
समौ पिण्डौ कृत्वेदमग्नय इत्याग्नेयमभिमृशतीदममुष्मा इति यथादेवतमुत्तरम् ।
इदमहꣳ सेनाया अभीत्वर्यै मुखमपोहामीति वेदेन दक्षिणस्मात्कपालयोगादङ्गारानपोह्योत्तरस्मादपाहेति ।
एवमनुपूर्वाण्येषां कर्माणि क्रियन्ते ।
समानजातीयेनैकैकमनुसमेति कृत्स्नमेकैकमपवर्जयति ।
संयुक्तानि त्वेकापवर्गाणि यथाऽवदानप्रदाने ।
उद्वपनं निष्पवनं च सर्वत्र प्रधानसंनिपाते क्रियन्ते ।
मखस्य शिरोऽसीति दक्षिणं पिण्डमादाय घर्मोऽसि विश्वायुरिति दक्षिणे कपालयोगेऽधिश्रयति ।
घर्मघर्मे श्रयस्वेति वा ।
एवमुत्तरम् ।
अतुङ्गमनपूपाकृतिमश्वशफमात्रं कूर्मस्येव प्रतिकृतिं करोति ।
उरु प्रथस्वेति प्रथयति ।
सर्वाणि कपालान्यभिप्रथयति ।
पात्र्यामप आनीय त्वचं गृह्णीष्वेति प्रदक्षिणमनतिक्षारयँल्लेपेनानुपरिमार्ष्टि ।
अन्तरितꣳ रक्ष इत्युल्मुकेन त्रिः पर्यग्नि करोति ।
परिवाजपतिरिति वा ।
देवस्त्वा सविता श्रपयत्विति दर्भैरभिज्वलयति ।
अग्निस्ते तनुवं माऽति धागित्युल्मुकैः परितपति ।
सं ब्रह्मणा पृच्यस्वेति वेदेन साङ्गारं भस्माभ्यूहति ।
ब्रह्म गृह्णीष्वेति वा ।
अविदहन्तः श्रपयतेति संप्रेष्यत्यत्र वाचं विसृजते ।
अङ्गुलिप्रक्षालनं पात्रीनिर्णेजनं चोल्मुकेनाभिप्रतप्य ।
अपरेणाऽऽहवनीयमपरेण वा गार्हपत्यꣳ स्फ्येनोदीचीस्तिस्रो रेखाः कृत्वैकताय स्वाहेति पश्चात्पश्चादसꣳस्पन्दयꣳस्त्रिर्निनयति ।
निनीय वाऽभितपति ।
अपरेणाऽऽहवनीयं यजमानमात्रीं वेदिं करोति ।
यावदर्थां तिरश्चीम् ।। २० ।।
वेदेन वेदिं विविदुः पृथिवीशꣳ सा पप्रथे पृथिवी पार्थिवानि । गर्भं बिभर्ति भुवनेष्वन्तस्ततो यज्ञो जायते विश्वदा निरिति पुरस्तात्स्तम्बयजुषो वेदेन वेदिं त्रिः संमार्ष्टि ।
पूर्वार्धाद्वेदेर्वितृतीयदेशेस्तम्बयजुर्हरति ।
देवस्य त्वेति स्फ्यमादाय ।
इन्द्रस्य बाहुरसीत्यभिमन्त्रयते ।
सहस्रभृष्टिः शततेजा इति तस्य दर्भेणाग्रꣳ सꣳश्यति ।
पृथिव्यै वर्मासीति प्रागग्रमुदगग्रं वा दर्भं निदधाति ।
पृथिवि देवयजनीति तस्मिन्स्फ्येन प्रहरति ।
अपहतोऽररुः पृथिव्या इति स्फ्येन स तृणान्पाꣳसूनपादत्तेऽपाररुं वध्यासमिति चा।।
व्रजं गच्छ गोस्थानमिति हरति
वर्षतु ते द्यौरिति वेदिं प्रत्यवेक्षते वर्षतु ते पर्जन्य इति यजमानम्।
नमो दिवे नमः पृथिव्या इत्युत्तरत उत्तानौ हस्तौ कृत्वाऽऽग्नीध्र उपविशति
प्रक्रमे वेदेर्बधानेति तस्मा उपनिवपति ।
स उत्करो भवति ।
अवबाडो दुरस्युरित्याग्नीध्र उत्करमभिगृह्णात्यञ्जलिना ।
परिगृह्याऽऽस्ते ।
एवं द्वितीयꣳ हरत्येवं तृतीयम् ।
मा वः शिवा ओषधयो मूलꣳ हिꣳसिषमिति द्वितीयं प्रहरति ।
अपहतोऽररुः पृथिव्पै देवयजन्या इति द्वितीयमपादत्ते ।
अवबाढा देवयजन्या यातुधाना इति द्वितीयमभि गृह्णाति ।
द्रप्सस्ते दिवं मा स्कानिति तृतीयं प्रहरति ।
अपहतोऽररुः पृथिव्या अदेवयजन इति तृतीयमपादत्ते ।
अवबाढोऽघशꣳस इति तृतीयमभिगृह्णाति ।
तूष्णीं चतुर्थम् ।
सर्वं दर्भꣳ हरति ।
अररुस्ते दिवं मा स्कानिति चतुर्थमभिगृह्णाति ।
स्फ्येन वेदिं परिगृह्णाति ।
वसवस्त्वा परिगृह्णन्त्विति दक्षिणतः प्राचीं लेखां लिखति ।
रुद्रास्त्वेति पश्चादुदीचीम् ।
आदित्यास्त्वेत्युत्तरतः प्राचीम् ।
प्राञ्चौ वेद्यꣳ सावुन्नयत्यभित आहवनीयं प्रतीची श्रोणी अभिगार्हपत्यं मध्ये संनता भवति ।।२ १।।
इमां नराः कुणुत वेदिमेत्य वसुमतीꣳ रुद्रवतीमादित्यवतीं वर्ष्मन्दिवो नाभा पृथिव्या यथाऽयं यजमानो न रिष्यादेत देवेभ्यो जुष्टामदित्या उपस्थ इमां देवा अजुषन्त सर्वे- रायस्पोषा यजमान विशन्त्विति संप्रेष्यति ।
अपहतोऽररुः पृथिव्या आ देवयजं वहेति स्फ्येनोत्तमां त्वचमुद्धत्योत्करे निर्वपति ।
देवस्य सवितुः सव इति खनति देवस्य सवितुः सघे कर्म कृण्वन्तो मानुषा मा वः शिवा ओषधयो मूलꣳ हिꣳसिषमिति वा ।
द्व्यङ्गुलां त्र्यङ्गुलां चतुरङ्गुलाꣳ सीतामात्रीꣳरप वर्त्ममात्रीं यावत्पार्ष्णियै श्वेतं तावतीं वा ।
नैता मात्रा अतिखनति ।
दक्षिणतो वर्षीयसीं पुरीषवतीं प्राचीमुदीचीं प्रवणां करोति ।
यन्मूलमतिशेते स्फ्येन तच्छिनति ।
यत्पुरीषमतिरिच्यत उत्करं तद्गमयति ।
आहार्यपुरीषां पशुकामस्य ।
यत्प्राक्खननात्तत्कृत्वा मन्त्रेण पुरीषं खात्वा हरति ।
अत्र पौर्णमास्यां वेदिं करोति ।
पूर्वेद्युरमावास्यायाम् ।
पुरस्ताद्बर्हिष आहरणात् ।
यत्प्रागुत्तरस्मात्परिग्राहात्तत्पूर्वेद्युः करोति सह वोत्तरेण परिग्राहेण ।
ब्रह्मन्नुत्तरं परिग्राहं परिग्रहीष्यामीत्यामन्त्र्य परिगृह्णाति ।
विपरीतमेके समामनन्ति मन्त्रैः पूर्वं परिग्राहं यजुर्भिरुत्तरम् ।
ऋतमसीति दक्षिणत ऋतसदनमसीति पश्चादृतश्रीरसीत्युत्तरतः ।
धा असि स्वधा असीति स्फ्येन प्रतीचीँ संमार्ष्टि ।
पुरा क्रूरस्येत्यभिमन्त्र्य ।
पश्चार्धे वेदेर्वितृतीयदेशे स्फ्यं तिर्यञ्चꣳ स्तब्ध्वा प्रोक्षणीरासादयेध्माबर्हिरुपसादय स्रुवं च स्रुचश्च संमृड्ड्ढि पत्नीꣳ संनह्याऽऽज्येनोदेहीति संप्रेष्यति ।
अग्निहोत्रहवण्यां पवित्रान्तर्हितायामप आनी. योदञ्चꣳ स्फ्यमपकृष्यान्तर्वेदि धारयन्स्फ्यस्य वर्त्मन्नुपनिनीयर्तसधः स्थेति स्फ्यपदे सादयति ।
यं द्विष्यात्तं ध्यायेत् ।
शतभृष्टिरसि वानस्पत्यो द्विषतो वध इत्युत्करे स्फ्यमुदस्यति ।
पुरस्तात्प्रत्ययञ्चꣳ स्थविमत उपोहति ।
नानवनिज्य हस्तौ पात्राणि पराहण्यान्न वेदिं परिमृशत्यास्तरणात् ।
हस्ताववनेनिक्ते स्फ्यं प्रक्षालयति नाग्रं परिमृशति ।
उत्तरेण प्रणीता इध्माबर्हिरुपसादयति
दक्षिणमिध्ममुत्तरं बर्हिः ।। २२ ।।
इति हिरण्यकेशिसूत्रे प्रथमप्रश्ने षष्ठः पटलः ।। ६ ।।

1.7 अथ सप्तमः पटलः ।
वेदप्रान्तैः स्रुवꣳ स्रुचश्च सह संमार्ष्टि ।
प्रतिविभज्याप्रतिविभज्य वा ।
उंत्तानास्तिरश्चीर्वाऽपि वा द्वे उत्ताने उपभृतं तिरश्चीम् ।
अनिशिताः स्थ सपत्नक्षयणीरित्यभिमन्त्र्य ।
घृताचीरेताग्निर्वो ह्वयति देवयज्याया इत्यादाय ।
प्रत्युष्टमित्याहवनीये गार्हपत्ये वा निष्टपति ।
गोष्ठं मा निर्मृक्षमिति स्रुवमग्रैरन्तरतोऽभ्या कारꣳ सर्वतो बिलमभि संमार्ष्टि मूलैर्दण्डम् ।
वाचं प्राणमिति जुहूं प्राचीमग्रैरन्तरतोऽभ्याकारं प्रतीचीं मध्यैर्बाह्यतो मूलैर्दण्डम् ।
चक्षुः श्रोत्रमित्युपभृतं प्रतीचीमग्रैरन्तरतोऽभ्याकारं प्राचीं मध्यैर्बाह्यतो मूलैर्दण्डम् ।
प्रजां योनिमिति ध्रुवां यथा स्रुवम् ।
न संमृष्टा चासंमृष्टां च सꣳसृजति ।
निष्टपति यथा पुरस्तात् ।
अन्नाद्यं प्रजां पुष्टिं मा निर्मृक्षं वाजि त्वा सपत्नसाहꣳ संमा- र्ज्मीति प्राशित्रहरणꣳ सर्वतो बिलमभि संमार्ष्टि मूलैर्दण्डम् ।
दिवः शिल्पमवततं पृथिव्याः ककुभिः श्रितम् । तेन वयꣳ सहस्रवल्शेन सपत्नं नाशयामसि स्वाहेति संमार्गानभ्युक्ष्याग्नावादधाति यतरस्मिन्संमार्ष्टि ।
आशासाना सौमनसमिति मौञ्जेन योक्त्रेणान्यतरतः- पाशेन पत्नीꣳ संनह्यत्यूर्ध्वज्ञुरासीना तिष्ठन्ती वा ।
न वासोऽभि संनह्येत् ।
पूषा ते ग्रन्थिं ग्रध्नात्वित्युत्तरतो नाभे- र्निष्टर्क्यं ग्रन्थिं कृत्वा स ते मा स्थादिति दक्षिणतो नाभेः परिकर्षति ।
अग्ने गृहपत उप मा ह्वयस्वेति ।।२३।। तिष्ठन्ती गार्हपत्यमुपतिष्ठते ।
देवानां पत्नीरुप मा ह्वयध्वमित्यपरेण गार्हपत्यं देवपत्नीः ।
पत्नि पत्न्येष ते लोको नमस्ते अस्तु मा मा हिꣳसीरिति तमेव देशं प्रेक्षते ।
इन्द्राणीवाविधवा भूयासमदितिरिव सुपुत्रा । अस्थूरि त्वा गार्हपत्योपनिषदे सुप्रजास्त्वायेति दक्षिणतःपश्चाद्गार्हपत्यस्योदीच्युपविशति ।
एवꣳ संनद्धाऽऽविमोक्षादन्वास्ते ।
सुप्रजसस्त्वा वयमित्यासीना जपति ।
मम पुत्राः शत्रुहणोऽथो मे दुहिता विराट् । उताहमस्मि संजया पत्युर्मे श्लोक उत्तम इति च ।
पूषा ते बिलं विष्यत्विति सर्पिर्धानस्य गर्गरस्य बिलं विष्यति पूषाऽसीति वा ।
अन्यस्मिन्पात्रे निषिच्य यावनिर्वप्स्यन्भवति ।
इदं विष्णुर्विचक्रम इति दक्षिणाग्नावधिश्रित्य ।
अदितिरस्यनाच्छिन्नपवित्रेत्याज्यस्थालीमादाय महीनां पयोऽसीति तस्यां पवित्रान्तर्हितायां प्रभूतमाज्यं निर्वपति ।
इषे त्वेति दक्षिणार्धे गार्हपत्यस्याङ्गारेष्वधिश्रयति ।
ऊर्जे त्वेत्युपादाय वेदेनोपयम्य पत्न्या उपहरति ।
महीनां पयोऽसीति तत्सा निमील्यानुच्छ्वसन्त्यवेक्षते ।
तेजोऽसीति गार्हपत्येऽधिश्रयति ।
तेजसे त्वेत्युपादाय तेजोऽनु प्रेहीति हरति ।
अग्निस्ते तेजो मा विनैदित्याहवनीयेऽधिश्रयत्यग्निस्ते तेजो मा विनैद्यज्ञे यज्ञꣳ सꣳसादयामि यज्ञे यज्ञः प्रतिष्ठित इति वा ।
अग्नेर्जिह्वाऽसीत्युत्तरेण प्रोक्षणीरः स्फ्यस्य वर्त्मन्सादयति ।
आज्यमसीत्याज्यमवेक्षते ।
उपरिष्टाद्वोत्पवनात् ।
शुक्रमसि ज्योतिरसि तेजोऽसीत्युदगग्राभ्यां पवित्राभ्यां पुनराहारमाज्यं त्रिरुत्पुनाति ।
देवो व इति त्रिः प्रोक्षणीः ।। २४ ।।
आपो रेफतपिप्रीतमध्वासमङ्क्तानिष दस्थायामन्नहृणीयमाना इति वा ।
अन्तर्वेद्याज्यानि गृह्णाति ।
स्रुवेणानिष्कासिना ।
वेदेनोपयम्य ।
चतुः पञ्च वा जुह्वां गृह्णात्यष्टौ दश वोपभृति यथा जुह्वामेवं ध्रुवायाम् ।
भूयो जुह्वामल्पिष्ठमुपभृति भूयिष्टं ध्रुवायाम् ।
उपबिलꣳ स्थाल्या जुहूं धारयमाणो मध्यदेश उपभृति भूमौ प्रतिष्ठितायां ध्रुवायाꣳ षोडशान्याज्यानि गृह्णाति ।
.सप्तदशानि पशुकामः कुर्वीतैकविꣳशानि प्रतिष्ठाकामः ।
शुक्रं त्वा शुक्रायामित्येतैर्जुह्वां गृह्णाति पञ्चानां त्वा वातानामिति चोत्तरैरुपभृति ध्रुवायां च ।
यद्यल्पीयाꣳसो मन्त्राः स्युस्तेषामर्धैरुपभृति गृह्णीयादर्धैरितरयोर्यदि भूयाꣳसोऽवशिष्टा विकल्पार्थाः ।
शुक्रमसि ज्योतिरसि धामासि प्रियं देवानामनाधृष्टं देवयजनं देववीतये त्वा गृह्णामीति वा संख्याः पूरयति धामासीति वा सर्वासु ।
अन्यत्रोत्करादाज्यानि सादयित्वाऽपोद्धृत्याऽऽज्यस्थालीं प्रोक्षणीरभिमन्त्र्य ब्रह्माणमामन्त्र्य ।
कृष्णोऽसीति निधायेध्मं त्रिः प्रोक्षति ।
वेदिरसीति वेदम् ।
बर्हिरसीति बर्हिः ।
त्रिरेकैकम् ।
अन्तर्वेदि पुरोग्रन्थि बर्हिरासाद्य दिवे त्वेत्यग्राणि प्रोक्षयन्तरिक्षाय त्वेति मध्यानि पृथिव्यै त्वेति मूलानि।
स्रुच्यग्राण्युपपाय्य मूलान्युपपाययति ।
पोषाय व इति सहस्रुचा पुरस्तात्प्रत्यञ्चं ग्रन्थिं प्रत्क्षति ।
स्वधा पितृभ्य इति प्रोक्षण्यवशेषं निन यति दक्षिणस्याः श्रोणेः संततमोत्तरस्याः ।
पूषा ते ग्रन्थिं विष्यत्विति बर्हिषो ग्रन्थिं विष्यति ।
विष्णोस्तूपोऽसीति पुरस्तात्प्रस्तरं गृह्णाति ।
नावाञ्चं निरायच्छति ।
नोर्ध्वमुद्यौति ।
न विधुनोति ।
न विकम्पयति ।
कर्षन्निवापयच्छति ।
यजमाने प्राणापानौ दधामीति प्रस्तरे पवित्रे अपिसृज्य ।
प्राणापानाभ्यां त्वा सतनुं करोमीति ब्रह्मणे प्रयच्छति ।
ब्रह्मा यजमानाय ।। २५ ।।
इति हिरण्यकेशिसूत्रे प्रथमप्रश्ने सप्तमः पटलः ।। ७ ।।

1.8 अथाष्टमः पटलः ।
बर्हिषा वेदिꣳ स्तृणाति ।
तृणैरन्तर्धायाक्ष्णया शुल्बꣳ स्तृणाति ।
दक्षिणं वेद्यन्तमित्येकेषाम् ।
देवबर्हिरूर्णाम्रदसं त्वा स्तृणामीत्यग्रैर्मूलान्याच्छाद- यन्बहुलमनतिदृश्नं प्रागपवर्गं वा त्रिधातु पञ्चधातु वा ।
धातौ धातौ मन्त्रमावतर्यति ।
अनुयाजार्थे उल्मुके उदू(दु)ह्याऽऽहवनीयं कल्पयित्वा प्रत्यादाय प्रस्तरं परिधीन्परिदधाति ।
गन्धर्वोऽसीत्यपरेणाऽऽहवनीयं बर्हिष्युदगग्रं मध्यममि- न्द्रस्य बाहुरसीति दक्षिणार्ध्यꣳ सꣳस्पृष्टं मध्यमेनाभ्यग्रं मित्रावरुणौ त्वेत्युत्तरार्ध्यꣳ सꣳस्पृष्टं मध्यमेनाग्रम् ।
सूर्यस्त्वा पुरस्तात्पात्वित्याहवनीयमभिमृश्य ।
ऊर्ध्वे आधारसमिधावादधाति वीतिहोत्रं त्वा
कव इति दक्षिणां तूष्णीमुत्तराꣳ समिदस्यायुषे त्वेति वा ।
समावनन्तर्गर्भौ दर्भौ बर्हिषो विधृती करोति ।
विशो यन्त्रे स्य इति मध्ये वेदेर्बर्हिष्युदीचीनाग्रे निदधाति ।
वसूनाꣳ रुद्राणामिति तयोः प्रस्तरꣳ सादयति ।
जुहूरसीति प्रस्तरे जुहूꣳ समं मूलैर्दण्डम् ।
उपभृदसीत्युत्तरामुपभृतमधस्ताद्विधृत्योः प्रतिकृष्टतराम् ।
ध्रुवाऽसीत्युतरां ध्रुवामुपरिष्टाद्विधृत्योः प्रतिकृष्टतरामसꣳस्पृष्टाꣳ सादयति ।
ऋषभोऽसि शाक्वरो वषट्कारस्य त्वा मात्रायाꣳ सादयामीति दक्षिणेन जुहूꣳ स्रुवꣳ सादयति ध्रुवां वोत्तरेणर्षभोऽसि शाक्वरो घृताचीनाꣳ सूनुः. प्रियेण नाम्ना प्रिपे सदसि सीदेति वा ।। २६ ।।
एता असदन्नित्यभिमन्त्रयते ।
विष्णूनि स्थ वैष्णवानि धामानि प्राजापत्यानीत्याज्यानि ।
स्रुवेण गार्हपत्यदक्षिणाग्न्योराज्यार्थानाज्यस्याल्पाः करोति जुह्वा ध्रुवाया आहवनीये ।
इदमहꣳ सेनाया अभीत्वर्यै मुखमपोहामीति वेदेन दक्षिणस्मात्पुरोडाशादङ्गारानपोह्योत्तरस्मादपोहति।
सूर्य ज्योतिर्विभाहि महत इन्द्रियायेत्यभिमन्त्रयते स्योनं ते सदनं करोमि घृतस्य धारया सुशेवं कल्पयामीति पात्र्यामुपस्तीर्याऽऽप्यायतां घृतयोनिरग्निर्हव्याऽनुमन्यताम् । खमङ्क्ष्व त्वचमङ्क्ष्व सुरूपं त्वा वसुविदं पशूनां तेजसाऽग्नये जुष्टमभिधारयामीत्याग्नेयमभिधारयति तूष्णीमुत्तरम् ।
यस्त आत्मा पशुषु प्रविष्टो देवानां विष्ठामनु यो वितस्थे । आत्मन्वान्सोम घृतवान्हि भूत्वा देवान्गच्छ सुवर्विन्द यजमानाय मह्यमिति शृतम्।
आर्द्रः प्रथस्नुर्भुवनस्य गोपाः शृत उत्स्नाति जनिता मतीनामिति पुरोडाशमुद्वासयत्यभिन्दन्नपर्यावर्तयन् ।
वेदेन भस्म परिमृज्य ।
तस्मिन्सीदामृते प्रतितिष्ठ व्रीहीणां मेध सुमनस्यमान इत्युपस्तीर्णे पात्र्यां निदधाति ।
इरा भूतिः पृथिव्यै रसो मोत्क्रमीदित्येकै- कशः कपालान्यभिघार्य संख्यायोद्वासयति ।
देवस्त्वा सविता मध्वाऽनक्त्विति पुरोडाशमनक्ति ।
स्वक्तमकूर्मपृषन्तमपरिवर्गमणिकाषमुपरिष्टादभ्यज्य स्रुवेण हस्तेनाधस्तादुपानक्ति ।
प्रियेण नाम्ना प्रियꣳ सद आसीदतामित्यपरेण स्रुचः पुरोडाशावासादयति दक्षिणमाग्नेयमुत्तरमितरम् ।
मध्ये वेदेः सानाय्यकुम्भ्यौ संधाय व्यूहति दक्षिणस्याꣳ श्रोण्याꣳ शृतमुत्तरस्यां दधि ।
अयं वेदः पृथिवीमन्वविन्दद्गुहा सतो गहने गह्वरेषु । स विन्दतु यजमानाय लोकमच्छिद्रं यज्ञं भूरिकर्मा करोत्वित्यग्रेण ध्रुवां वेदं निधाय ।
वेद्यन्तान्परिस्तीर्य ।
होतृषदनं कल्पयति कल्पयति ।। २७ ।।
इति हिरण्यकेशिसूत्रे प्रथमप्रश्नेऽष्टमः पटलः .।। ८ ।।
इति हिरण्यकेशिसूत्रे प्रथमः प्रश्नः ।। १ ।।


ॐ तत्सद्ब्रह्मणे नमः। सत्याषाढविरचितं श्रौतसूत्र महादेवकतवैजयन्तीव्याख्यासमेतम् । यर्पितं कर्म फलाय कल्पते यदर्पितं बन्धविमुक्तयेऽपि च । सञ्चित्सुखानन्तमनन्यमीश्वरं वन्दे नृसिंहं दुरितेभदारणम् ॥ १ ॥ वेदत्रयात्मन्ननलत्रयात्मन्नीशत्रयात्मन्प्रकृतेर्गुणात्मन् । जन्तोरवस्थात्रितयानुबिम्ब बिम्बत्रयात्मन्नव मामनर्थात् ॥ २ ॥ ॐकारप्रतिपादितं सुरनुतं भक्तानुकम्पायुतं दोःपो दधतं दतं हरसृतं श्वैत्यं मनन्तं तनौ ॥ ज्ञानाच्छादितमोपहं कविमहं सोहंधिया गां (ग)मनौ ध्येयं देहभृतां भयच्छिदमनं भक्त्या मनामीश्वरम् ॥ ३॥ गङ्गाधरो दारशरीरमाग्यया यया हरिः श्रीपतिसंज्ञितः कृतः। यया महालक्ष्म्यभिधानया जग- पितामहोऽनश्च सरस्वतीपतिः ॥४॥ तस्यै नमस्तेऽम्ब पुनर्नमोऽस्तु ते भूयो नमस्तेऽस्तु कृपाकटाक्षतः । मां पाहि नाड्यात्कृपणं कृपानिधे मद्वंशमातर्जगतां च साक्षिणि ॥ ५ ॥ व्यासागुरोरधिगतार्थयजुःसमाख्य. वेदप्रवर्तकमुनेरधिगत्य शाखाम् । देहेन तित्तिरिखगाकृतिना मुनीन्द्रा- नध्यापयन्मुनिवरो व्यमजस्वशाखाम् ॥ ६ ॥ यत्राकरोत्सूत्रमतीव गौरवा- होधायनाचार्यवरोऽर्थगुप्तये । तथा भरद्वाजमुनीश्वरस्तथाऽ5- पस्तम्ब आचार्य इदं परं स्फुटम् ।। ७ ।। अतीपगूढार्थमनन्यदर्शित न्यायैश्च युक्त रचयन्नप्तौ पुनः। . . .२ सत्याषाढविरचितं श्रौतसूत्रं- [१प्रथमप्र- हिरण्यकेशीति यथार्थनाममा- गभूवरात्तुष्टमुनीन्द्रसंमतात् ॥ ८॥ वाधूल आचार्यवरोऽकरोत्परं मूत्रं तु यस्केरलदेशसंस्थितम् । वैखानसाचार्यकृतं त्वथापरं पूर्तेन युक्तं स्विति सूत्रषड्विधाः ॥९॥ व्यासादिकान्मुनिवरान्प्रणमामि भक्त्या यर्वेदकल्पतरुरेष जगत्प्रसिद्धिम् । संप्रापितो विविधशास्त्रपथैहिताय लोकस्य मन्दमनसः करुणाचित्तैः ॥ १०॥ विनेययुक्तासिलसिद्धवयं- लसचिदानन्दसुर्ख मुनीन्द्रम् । नमामि माविषे मुदाऽह हिरण्यकेश्याख्यगुरुं कृपाब्धिम् ॥ ११ ॥ यो ब्रह्मदत्त इति विश्रुत आद्यकश्पे यद्ब्रह्मणाऽऽत्मजानना जनकेन दत्तः । मात्रे सुतो मुनिवरः पितृदत्तयोग- विद्यातपोमिरगमत्परमं स्वरूपम् ॥ १२ ॥ पित्रा नियुक्त इह कर्मभुवि प्रकर्णि- शाखाविभागकरणाय च वेदगुप्त्यै । सोऽयं मदीयमनघं कुशिकस्य वंश- मात्मावतारजनुषाऽलमलंकरिष्णुः ॥ १३ सत्यावलम्बनतया विदिताद्यसत्या- पादाभिभामभजदात्मैपितुः सकाशात् । सूत्रप्रणीतिकृतविस्मयसूत्रकार- मुख्यमहर्षिभिरवाप हिरण्यकेशान् ॥ १४ ॥ गुरुं गणपति नौमि जन्मज्ञानप्रदौ तथा । सह गोर्यो महेशानं नौमि विष्णुं च पद्मया ॥ १५ ॥ श्रीमदगवतो विष्णोरवतारेण सूत्रितम् । सत्यापादेन तव्याख्या महादेवेन रच्यते ॥ १६ ॥ १ क. ग. "दसिध्यै । सो । २ स.त्मभुवा प्रदत्ताम् । स्क. ग. प्रदो भव । स । स.धों सोमनार्थ बह नि। २ १५०पटल महादेवकृतवैजयन्तीव्याख्यासमेतम् । लुप्तप्रायमिदं सूध देवादासात्वचिरक्वचित् । दक्षिणस्यां तानपास्तीरेष्वेवेदमाइतम् ॥ १७ ॥ प्रयोगरत्नरिह सूत्रसंग मलिां कृतां यज्ञतनी निवेशिताम् । विष्णो निरीक्ष्याऽऽत्मनि भाति चाऽऽत्मना विद्यवृद्धश्च मतः समागतः ॥१८॥ धर्मो ज्ञानं च वेदैश्व मीमांसाम्यां प्रजायते । क्रियेशाम्यां तयोस्तद्वत्संगताम्यां फलागमः ॥ १९ ॥ याज्ञवल्क्यादयो यस्माचतुर्दशभिरेव ते । प्राप्ये विद्याभिरित्याइर्मज्ञाने च सेश्वराः ॥ १० ॥ मूत्रैः संसूचितं किंचिदन्यतोऽपि समाहृतम् । स्वस्य बुद्धिं परिच्छेत्तुं तन्यते जाड्यरोगनुत् ॥ २१॥ यथाऽध्ययनविधिदस्य सार्थस्य ग्रहणे प्रमाणमेवं कल्पसूत्रस्यापि । कुतः, सास्व ग्रहणं साररेव भवेन्नान्यतः । तस्मात्कल्पसूत्रमारम्मणीयं सार्थमध्येतन्यम् । वक्ष्यति धर्मेष्वाचार्यः स्वयमेव वेदग्रहणे साङ्गवेदग्रहणम् । गोमधुपहिषु वेदाध्याम्युपदिष्टः । सूत्रोक्तं षडको वेद इति । तथा तत्रैवामान्यपि वक्ष्यति-'कल्पो व्याकरणं शिक्षा ज्योतिष निरुक्तं छन्दोविषितिः' इति । तेषामङ्गसंस्तवादकत्वमुपकारकस्वात्तद्धीनदे- स्थासामर्थ्याच ॥ तदाह:-मुखं व्याकरणं तस्य ज्योतिष नेत्रमुच्यते । निरुक्तं श्रोत्रमुद्दिष्टं छन्दसां विचितिः पदे ॥ शिक्षा वाणं तु वेदस्य हस्तौ कल्पान्प्रचक्षते । इति । व्याकरणनिरुक्तयोः शब्दसाधुत्वार्थानुशासनात् । ज्योतिषस्य कर्माणकालनि- र्णयात् । आदिवृध्यभावश्छान्दसः । छन्दोविचित्तिर्गायच्यादिच्छन्दोविवेचनात् शिक्षाया वर्णोच्चारणादिनियमनात् । कल्पान्कल्पसूत्राणि । वेदस्यार्थमभिहित न्यायध सूचितं शाखान्तरीयै क्षणमन्त्रन्यायैः फलकरणेतिकर्तव्यतांशत्रयवदावनां प्रयोगह- पेण कल्पयति समर्थ प्रयोगयोग्य प्रतिशाखं करोति स कल्पः । छन्दाकल्प इत्याप- स्तम्बः स्पष्टमाह, छन्दो वेदस्त कल्पयतीत्यर्थः । सार्याध्ययनं स्पष्टमाह श्रुत्यन्तरम् -

  • ब्राह्मणेन निष्कारणं पडलो वेदोऽध्येयो शेयश्च' इति । निष्कारणं फलोद्देशं विनर

नित्यमिति यावत् । ननु कल्पसूत्र वेद एवान्तर्भवेद्वैदिकप्रयोगदर्शनात् । न, पौरुषेय- त्वस्मरणात् । सूत्रकृदपि वक्ष्यति पूर्वोत्तरपक्षावत्र । तत्र पूर्वः पक्षः शब्दारिम्मणा. . १गः यदाहुः। ४ सत्याषाढविरचितं श्रौतसूत्र- [प्रथमप्र-] नां तु कर्मणां समानायसमाप्तौ वेदशब्दस्तत्र संख्या विप्रतिषिद्धा । शब्दार्थतया यान्यन्वारम्यन्ते न प्रत्यक्षादिप्रमाणगोचरतया तानि शब्दार्थारम्भणानि कर्माणि वैदि- कान्यग्निहोत्रादीनि तेषां समाम्नाय उपदेशस्तस्य समाप्तौ स यावता अन्धनातेन समा- तोऽनुष्ठानपर्यन्तो भवति तत्र वेदशब्दो वर्तते वेदयति धर्म विदन्त्यनेन वा धर्ममिति । न च मन्त्रब्राह्मणमात्रेणानुष्ठानपर्यन्तमुपदेशो भवति किं तु कल्पसूत्रैरपि सह । ततश्च तेषामपि वेदस्वरूप एवानुप्रवेशात्पञ्चैवाङ्गानि । अत्र षट्सख्या विप्रतिषिद्धेति । परिहरति-अङ्गानां च प्रधानैरव्यपदेश इति न्यायवित्समयः । अङ्गान्येव कल्पसूत्राणि न वेदरूपाणि पौरुषेयत्वस्मरणात् । कतिपयान्येव हि तेषु ब्राह्मणवाक्यानि भूरीणि स्ववाक्यानि | अङ्गानां च तेषां प्रधानवाचिमिः शब्देश्छन्दो वेदो ब्राह्मणमित्यादिभि- र्थपदेशो न न्याय्य इति न्यायवित्सिद्धान्तः । ताविमौ पूर्वपक्षसिद्धान्तौ कल्पसूत्राधि- करणे स्पष्टतरं द्रष्टव्यौ । यत्ततं न मन्त्रब्राह्मणमात्रेण पूर्ण उपदेश इति, नैष स्थाणोरपराधो पदेनमन्धो न पश्यति पुरुषापराधः स भवति न वेदापराधः । ऋषयो हि वेदं वेदान्तरेण तत्सूचितन्यायश्च स्वबुद्ध्या संकल्प्य समर्थमेव प्रतिशाख पश्यन्ति न तु तत्र किंचिदपि लौकिकप्रमाणमात्रसिद्धं संक्रामयन्ति । मवानसमर्योs. गानि शास्त्रान्तराण्यधीत्य प्रयोग कर्तुं समर्थों भवत्वितीदानींतनानां कल्पायेव शरण- मिति तदध्ययनमावश्यकम् । तत्र कल्पसूत्रं प्रतिशाखं भिन्नमभिन्नमपि क्वचित् । शाखा- भेवोऽध्ययनमैदावा सूत्रभेदाद्वा । आश्वलायनीयं कात्यायनीयं च मूत्र हि भिन्नाध्यय. नयोयोद्धयोः शाखयोरकैकमेव । तैत्तिरीयके समानाये समानाध्ययने नानासूत्राणि । 1 तद्भेदादपि शाखाभेदश्चरणव्यूहशास्त्रे दृश्यते । न च सूत्रभेदे शाखाभेदः शाखाभेदे च सूत्रभेद इति परस्पराश्रय इति वाच्यम् । यथाऽध्ययनभेदाच्छाखाभेदोऽनादिरेवं सूत्र. मेदादपि । न हि सूत्राणां कर्तृ संबन्धि संज्ञाऽद्यतनी किं तु नानाकल्पगतासु तत्तन्नाम• . कर्षिव्यक्तिषु नित्या । तत्प्रणीतसूत्रेषु च नित्या जातिमवलम्ब्य तिष्ठति । यथा पुरुष. नामाङ्कितशाखासु संज्ञा । न च तत्रानाद्यानुपू. समाधिरिति वाच्यम् । अत्राप्य- र्यानपूर्व्या अनादित्वात्समः समाधिः। शब्दानुपूर्वी यद्यप्यन्यथाऽपि संभाव्यते तथाऽऽपि न व्यक्तिभेदेन जातिभिद्यते । अनुष्ठानक्रमस्त्वपौरुषये एव । अध्ययनेऽपि नाऽऽनुपूर्वी नित्या प्रतिपूरुषं तस्या जन्यत्वेनानित्यत्वात् । आन्नाये पूर्वानुपूर्व्यनुसंधानेनाध्ययन सूत्रे तु देवाकयाऽप्यानुपूर्त्या शब्दगतयाऽप्यानपर्यनाविरभिव्यज्यत इति सूत्रेषु स्मृतित्वं स्मृत्यधिकरणे स्थितं तत्सूत्रकारेणैवोक्तं न्यायविरसमय इति मीमांसासिद्धान्तस्वीकार- दर्शनेन । तथा स्मृतिप्रामाण्यमपि न्यायतन्त्रादेवत्यपि दर्शितम् । श्रुतिरपि स्मृतीनां वेदमूलत्वमाह- 'यद्वै किंच मनुरवदत्तद्देषजम् , इति । भेषजं यथा हितमेवं मनुवचन- मपि प्रमाणत्वेन-हितमित्यर्थः । १ख भूयिष्ठानि । २ ग. गसि । । . २ [प्र० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । - मनुरपि - 'श्रुतिं पश्यन्ति मुनयः स्मरन्ति च तथा स्मृतिम् ' इति ॥ अत एव मरीचिः -- 1 दुर्बोधा वैदिकाः शब्दाः प्रकीर्णत्वाच्च येऽखिलाः । तज्ज्ञैरत एवं स्पष्टार्थाः स्मृतितो व्यवस्थिताः || इति | स्मृतितन्त्रे स्मृतिलक्षणे शास्त्रे व्यवस्थिता अर्थकथनेन । तथा बैकस्यां तैत्तिरीयक- शाखायां समानपाठायां सूत्रभेदादवान्तरशाखामेदश्चरणव्यूहशास्त्रे दर्शितः | चरणाः शाखा: सूत्राणि च व्यूहो विविच्य भेदः । न चात्राध्ययनमदोऽस्ति । तस्मात्सूत्रभे- 'दादेव शाखाभेदः । ननु स्वाध्यायैकदेशो मन्त्रबाह्मणात्मकः शाखेत्युच्यते, तयो मन्त्राह्मणयोरन्यतरभेदेन वेदेऽवान्तरशाखामेदः स्यादिति चेत् | सत्यम् | यथा सा स्वाध्यायो वेदशब्दवाच्य एवं शाखाऽपि साव वेदैकदेशत्वेन शाखान्तरस्वं लभते । तत्राङ्कस्य सूत्रस्य मेदाद्भिद्यत एवं स्वाध्यायाध्ययनमिति । भवतु चरणभेद एव शाखा- भेदव्यवहारे हेतुः । तथा च यथा शाखाध्ययनं नियतमेवं सूत्राध्ययनमपि न व्यत्ययेन कर्तुं शक्यं कर्मानुष्ठानं च व्यत्यये प्रायश्चित्तश्रवणात् । स्वयमपि वक्ष्यति चरणहते प्रायश्चित्तं त्रिवृशिष्टुतम् चरणहतत्वं तु शाखासूत्रयोः प्रत्येकं व्यत्ययात् । ननु समाने स्वाध्यायाध्ययने कथं कर्मभेदः कथं च सूत्रभेदस्तद्भेदे वा कथं फलैक्यमिति चेत् । उच्यते – नास्ति कर्मभेदः । यथा नानाशाखाप्रत्ययमेकं कर्मेति न्यायशास्त्र निर्णयेऽपि स्वशाखापेक्षितानेव विधीयायांवोपसंहृत्य तत्तच्छाखिनः कर्माभेदेऽपि प्रयोगभेदं रच यन्ति न हि शब्दान्तरादिभिः प्रमाणैः कर्मभेदोऽस्ति किं तु यथैकस्यामेव शाखा- यां नित्यकाम्यभेदेन प्रयोगभेदमात्रं तद्वत्प्रयोगभेद मात्रमेव तत्क्रमगुणभेदेनेति वक्ष्यति- - . .. तौ समानविधानौ' इत्यादिना तथा समानेऽध्ययनेऽपि क्वचिदनेकार्थस्य शब्दस्यै- कार्यविवक्षयाऽनुष्ठानभेदः । कचित्त्व विध्यपेक्षित शाखान्तरीयमन्त्रब्राह्मणनानात्वेन प्राप्ते वैकल्पिकप्रयोगे नियतैकैक कोट्याश्रयणेनानुष्ठानभेदः । ततो न फलस्यापि प्रयोग- भेदे तारतम्यमस्ति । यथैकस्यां शाखायां हिमिरिष्टे यत्फलं तदेव यवैरपि । यच्चो- दितहोंमे तदेवानुदित होमेऽपि । तच्च तच्छाखिनामेव नान्येषां व्यत्यये चानिष्टमपि । तस्मा- नानार्थानेकश।खोपसंहारेणाग्निहोत्रादिकर्मणां वैकल्पिकानुष्ठान प्राप्तौ व्यवस्थापकानि कल्पसूत्राणि भवन्तीति सिद्धम् । अवश्यं च शाखान्तरोपसंहारो ऽपेक्षितः | नोकस्यां शाखायां श्रौतस्मार्तकर्मानुष्ठानं साकल्येन विहितं तन्मन्त्रा वा पठिताः। किंतु किंचि रक्कचिदाध्वर्यवहोत्रादिसापेक्षमेवेति वेदान्तरापक्षं प्रसिद्धमेव । एवमाध्वर्यवादेः साकल्य- . सिद्धय आध्वर्यवादिशाखान्तरापेक्षा | न च स्वशाखाविहितमात्रेण शास्त्रसिद्धिः, उप- नयनादिसंस्काराणामस्मच्छाखायामविहितानां लोपप्रसङ्गात् । दृश्यते च शाखान्तरी- १ क. ग. च. "दोत्रक । २ ख. छ, "येवं दी। - सत्यापाढविरचितं श्रौतसूत्र- [१प्रथमप्र- पाणामन्द्रामादिविधीनामपेक्षाऽस्मच्छाखायां तन्मश्रनिगदानानात् । किंचिदस्मच्छाखाया मप्राप्तमेवान्द्य निषेधति । कनिन्निदित्वाऽन्यद्विधत्ते । पषा नोत्तरवेदिमुपवपति, य यादगन्ननिरित्यादि । तेम ज्ञायते सर्वशाखोपसंहारादेव प्राप्तस्य निषेधनिन्देति सर्व- शाखोपसंहारेण कर्मसिद्धिरिति । एवं चेदानीतनरनधीतसर्वशाखेरधीतसर्वशास्त्रैरपि प्रतिशाख व्यवस्थितधर्मस्वरूपं न शक्यत उपसंहर्तमिति सूत्राध्ययनादेवावगन्तव्यो व्यवस्थितो धर्मः। न चान्येऽप्यूषयो भिन्ननामानोऽमुं व्यवस्थितं धर्म वक्तुमाशते तादृक्- शक्त्यभिव्यञ्जकतत्तन्नामाभावात् । यत एकः सर्वज्ञः सर्वशक्तिरपीश्वरोऽपि न प्रभवत्ये. केनावतारेण सकलं प्रयोजनं साधयितुमिति नानाऽवतरति । मुनयोऽप्यवतारा एवेति दृश्यते पुराणेतिहासेषु । तथाऽप्यनादिशक्त्यतिक्रमणे न समर्था इति पूर्वपूर्वानुपूर्त्यनु- संघानाभिव्यञ्जकनामदामवद्धाः प्रवर्तमाना योगज्ञानचक्षुषा परिश्त्यान्यविषयमत्यक्त्वा स्वविषयं सूत्राणि प्रणयन्ति प्रातिशाख्यधर्मज्ञानायेति युक्तम् ।


ते हि-द्वापरे समनुप्राप्ते तृतीये युगपर्यये।

जातः पराशरायोगी वासव्यां कलया हरेः ॥ स कदाचित्सरस्वत्या उपस्पृश्य नलं शुचिः । विविक्त एक आसीन उदिते रविमण्डले ॥ परांवरज्ञः स ऋषिः कालेनाव्यकरहता । युगधर्मव्यतिकरं प्राप्तं भुवि युगे युगे ॥ भौतिकानां च मावानां शक्तिहासं च तत्कृतम् । अश्रद्दधानानिःसत्त्यान्दुर्मेधान्हसितायुषः । दुर्भगांश्च जनान्वीक्ष्य मुनिर्दिव्येन चक्षुषा । सर्ववर्णाश्रमाणां यद्दध्यौ हितममाघदृक् ॥ चातुर्होत्र कर्म शुद्ध प्रजानां वीक्ष्य वैदिकम् । व्यदधाद्यज्ञसंतत्यै वेदमेकं चतुर्विधम् ॥ ऋग्यजुःसामाख्या वेदाश्चत्वार उद्धृताः । इतिहासपुराणं च पञ्चमो वेद उच्यते ॥ तत्रादधरः पैलः सामगो नैमिनिः कविः । वैशंपायन एवैको निष्णातो यजुषां मतः ॥ अथर्वाङ्गिरसामासीन्सुमन्तुर्दारुणो मुनिः । इतिहासपुराणानां पिता मे रोमहर्षणः ॥ त एव ऋषयो वेदं स्वं स्वं व्यस्यन्ननेकधा। शिष्यैः प्रशिण्यैस्तच्छिष्यैर्वेदास्ते शाखिनोऽभवन् । छ. स्थितं धग, च. छ, रापर। १५० पटलः) महादेवकृतवैजयन्तीष्याख्यासमेतम् । त एव वेदा दुर्मेधैर्धार्यन्ते पुरुषैर्यथा । एवं चकार भगवान्व्यासः कृपणवत्सलः ॥ इति । व्यासो हरिरेव स्वशिष्यादिषु शक्ति निवेशयंस्तद्वारा सर्व कृतवानित्यर्थः । तेन संप्रयोजनत्वे स्थिते भगवान्सत्यापाठः प्रणेष्यमाणस्य मूत्रस्या पिण्डीकृत्य शिष्यबुद्धिसमाधानाय प्रतिमानीते-

यज्ञं व्याख्यास्यमः।

यज्ञो हि मन्त्रैर्देवतामुद्दिश्य द्रव्यस्य दानम् । तस्य रूपं देवताद्रव्याम्यामेव निरूप- णीयम् । तदाहः-'द्रव्यदेवते कर्मणो रूपम्' इति मीमांसकाः । अतोऽस्य व्याख्यान नामास्यै देवताया इद द्रव्यमेतर्मन्त्रैरेवंप्रकारेण दद्यादेतस्मै फलायेति ख्यापनम् । तथा चेयं प्रकृतिरिय विकृतिरिति च यज्ञव्याख्यानम् । ततोऽतिरिक्त तदुपलक्षित दविहोमादिकमुपनयनादिकं सामयाचारिकं चानेन प्रकारेण कार्यमेतस्मै फलायेति ख्यापन तस्यापि प्रतिज्ञेयं यज्ञशब्दस्य प्रातिशाख्यकर्मोपलक्षकत्वात् । कर्माणि व्याख्यास्याम इति वक्तव्येऽपि यज्ञभूयस्त्वस्य ख्यापनाय यज्ञग्रहणम् । इदं हि सप्तविंशतिप्रभास्मकं सत्यापादहिरण्यकशिसूत्रम् । तत्राऽऽयप्रश्नद्वये परिभाषापूर्वकं दर्शपूर्णमासाव- मुनिर्वाप्येन्द्रमृधकाम्यदर्शपूर्णमासप्रयोगविकारपिण्डपितृयज्ञब्रह्मत्वानि व्याख्यातानि । तृतीयप्रने चाधिकारः सर्वकर्मसु प्रतिनिधिनिरूपणमाधान तदङ्गेष्टयः पुनराधेयम- निहोत्रं सगृहस्य प्रयाणं दर्विहोमधर्मा अतिदेशप्रकारो विकृतिषु विशेषविधिश्व सोमाग्रयणेष्टिपशुबन्धानामनुष्ठानेऽमावास्यापौर्णमासीकालावामयणेष्टिश्च । चतुर्षे प्रभे निरूढपशुबन्धस्तद्वितिविशेषविधिश्च । पञ्चमे प्रभे चातुर्मास्यानि । षष्ठे प्रभे यानमानसामान्यविधिपूर्वक दर्शपूर्णमासयोर्याजमानं प्रवसतो याममान चाऽऽध्वर्यव- विशेषइष्टिपशुबन्धेषु याजमानातिदेशश्चन्द्रवैमृधसरस्वती पूषादितियावापृथिव्यर्यमविश्व- देवेन्द्रेन्द्रियावदिन्द्रत्रातृति)णां प्रत्यक्षानुमश्रणाचाऽऽधानयानमानमाधानप्रभृत्याहिता- मिधर्माः पुनराधेये दक्षिणाविशेषोऽग्रिहोत्रयाजमान होमोपस्थान प्रवासोपस्थान पुनः प्रवासादागतस्योपस्थानविधिरामयणेष्टिनिरूढपशुचातुर्मास्येषु यानमानं च चातु. मस्येिष्वान्तरालिकानि ब्रतानि १ । ततः सतमाष्टमनवमेषु ज्योतिष्टोमस्तद्विकार उक्थ्यषोडश्यतिरावासो माश्च पश्चै (श्वे) कादशिनी तत्पशुषु तन्त्रावृत्त्याउनुष्ठेया धर्मविशेषाश्च । दशमेऽग्निष्टोमयाजमानहोतृविनियोगश्च ज्योतिष्टोमब्रह्मत्वं च । एकादशद्वादशाभ्यामग्निचयनम् । त्रयोदशे वाजपेयराजसूयौ चरकप्तौत्रामणी घ चतुर्दशेऽश्वमेधपुरुषमेधौ सर्वमेधश्च । पञ्चदशे विध्यपराधे प्रायश्चित्तानि । षोडशे द्वाद. शाहोऽहीनसत्ररूपो महावतं. गवामयनं च । सप्तदश एकाहाहीनाः । अष्टादशे सत्राणि सहस्रसंवत्सरान्तानि । एकोनविंशपिंशयोरुपनयनादीनि स्मार्तकर्माणि । एक- १ ख. "तिशे । २ ख. 'नं महोप। 1 सत्याषाढविरचितं श्रौतसूत्र- [प्रथमप्रश्ने- विशे याजुषहौत्रप्रवरनिर्णयौ । द्वाविंशे काम्येष्टिपशुबन्धाः । त्रयोविंशे कौकिली. सौत्रामणीसवाः काठकचयनानि च । चतुर्विशे प्रवर्यः । पञ्चविंशे शुल्बे विहारयोगा व्याख्याताः । षड्विंशसप्तविंशयोधर्मा इति । पितृमेधस्तु भारद्वाजीयो मुनिना परिगृ- होतो द्रौ प्रश्नौ । एतत्सूत्रप्रतिपाद्यं यज्ञशब्दो लक्षयति नाभिधत्ते । यतो यज्ञमिति यज्ञशब्दो यागमात्रे वषट्कारप्रदाने रूढस्तत्रैव प्रसिद्धः । 'यो वै सप्तदशं प्रजापति : यज्ञमन्वायत्तं वेद' इति प्रजापतेर्यज्ञशरीरस्य परमात्मन आश्रावयेत्यादि शरीरं निरूपित दर्शपूर्णमासयागाङ्गत्वेन विधानार्थम् । तेनाऽऽश्रावणादिसंपाद्यौ दर्शपूर्णमासौ यागौ तथा तदङ्गं प्रयाजादयोऽपि यमतिचोदनाविहिता दर्शपूर्णमासप्रकरणगता आश्राव- णादिकाङ्गका एव यागास्तथा 'प्रजापतिर्देवासुरानसृजत ' इति यज्ञशब्दवाच्ये सोमेऽपि च्छन्दता वीर्यरूपत्वेनाऽऽश्रावणादीन्यङ्गान्याह । तथा च ज्योतिष्टोमोऽपि पागोऽन्ये च दर्शपूर्णमासविकृतिरूपा इष्टिपशुबन्धास्तथा ज्योतिष्टोमगुणविकारास्तद्वि- कृतिरूपा एकाहाहीनसत्राणि च यागा नान्ये यजतिधात्वर्थातुशासने शिष्टा देवपूना. संगतिकरणरूपा अर्था यज्ञयागशब्दवाच्याः । यज्ञशब्दो वषट्कार प्रदान एवं कर्मणि रूढोऽन्यत्र प्रयुक्तो लक्षणया योगेन वा । अत एवं कात्यायनः वषट्कारप्रदाना यनतयः स्वाहाकारप्रदाना जुहोतयः' इति । नैमिनिरपि 'शब्दान्तरे कर्ममेदः कृता- नुबन्धित्वात् ' इत्याह । वार्तिक कृदपि धास्वर्थभेदे सर्वत्र विज्ञेयं भावनान्तरम् ' इति । तस्मायनशब्दोऽत्रापि यज्ञरूपयशभावनावाचकोऽपि पिण्डपितृयज्ञाग्निहोत्रादिना- नाकर्माणि मुम्ना प्रतिपादयति धर्मप्रश्नपितृमेधप्रश्नोक्तान्तान्यभ्युदयनिःश्रेयसफलानि । पितृमेधोऽपि पुरुषसंस्कार इति वक्ष्यति फळं चाऽऽनन्त्यं सुखं स्वर्ग इति । तथाऽऽत्माऽपि धर्मेषु व्याचिख्यासितो व्याख्येयत्वेन प्रतिज्ञातः । कथं यंशा भावना हि यज्ञशब्दा. भिधेया व्याख्येयत्वेन प्रतिज्ञाता स विधीयत इत्युच्यतेऽनन्तरमेव विधिस्तु भावनावि. षयो मावयेदिति भावनां गोचरयेत्किमित्याकाङ्क्षावती च कुर्यात् । तत्र लिङाऽभिहित. मिष्टसाधनत्वमाक्षिप्तं वा भावनागतं प्रतीयेत, इष्टसाधनं च स्वभाव्यत्वेनेष्टं प्रथमतो निरवधिक सुखमेव गृह्णाति । ततो यदि स्वर्गादिपदेन सुखमवच्छिद्यते तदा तथैव गृह्यते काम्येषु । अन्यदा निरतिशयमेव सुख साध्यं फलत्वेन गृह्यते नियतेषु तदवच्छेदका- प्रतिरात्मैव परमप्रेमास्पदत्वेन साक्षात्कारेण प्राप्यतया फलत्वेन गृह्यते । वक्ष्यत्या- चार्यों धर्मेषु ज्ञानद्वारा कर्मफलमात्मलामात्परं नास्तीति । लब्धस्य लामोऽज्ञाननिव- तकतत्साक्षात्कारेण । तदप्याधानप्रश्ने वदिष्यति । कममिनिःश्रेयसम् ' इति । सा. क्षात्कार साक्षात्कृतं चाऽऽत्मस्वरूपं निःश्रेयसशब्दार्थः । तस्मादात्माऽपि फलत्वेन प्रतिक्षात एव । केन भावयेदिति फलसंबन्धोत्तरकालमपेक्षायां फलकरणत्वेन यागादि- १ क, ग, च, छ, 'हीती द्वौ। 1 १५० पटलः] महादेवकृतवैजयन्तीव्यास्यासमेतम् । क्रियाः संबध्यन्ते । तदुत्तरकालं च कथमित्यपेक्षित इतिकर्तव्यस्वेनाङ्गानि संवध्यन्त इति यंशा भावना प्रतिज्ञाता। सैव विधेयत्वादिरूपेण व्याख्यायते । ननु यजसि- जुहोतिददातीनां समानं दानलक्षणमर्थमुपादाय यागहोमदानशब्दाः प्रवृत्तास्तेषां कथं मिन्नार्थत्वम् । सत्यं, त्रिषु दानं यद्यपि समानं तथाऽपि यजत्यादिचोदनाभेदानेदोऽ. र्थेऽप्यस्तीति हि प्रतिपादितमेवै शब्दान्तराधिकरणे । स्वरूपे कियान्विशेषः कथम् । उच्यते सूत्रकारादियाज्ञिकानां प्रसिद्धितः । तज्नैमिनिमतापेतमिति मे दूषणं न हि ॥ याज्ञिकाः सूत्रकाराणां मतं बुद्ध्वा स्वयं तथा । न्यायैस्तत्सूचितैरेव द्रढयन्त्यकुतोमयाः ॥ प्रसिद्धिमनुगृह्णन्तस्ते मान्याः श्रौतकर्मणि । तन्मतस्थापनायव चापलं मे न गण्यताम् ॥ यजतिशब्दोऽप्रक्षेपदानमात्रे, तत्रैव सप्रक्षेपे जुहोतिशब्दः, पात्रस्वत्वापादनापवमें ददातिशब्दः । होमदानयोः प्रक्षेपपरस्वत्वापादनयोरपवर्गों यागस्य दानमात्र इति न संकरः । नन्वस्ति यागेऽपि प्रक्षेप इति चेत् । न, तस्य यजत्यर्थत्वाभावात्प्रक्षेपस्प चतुरवत्तं जुहोतीति जुहोत्यर्थभक्तित्वात् । ' तात्पर्यग्निकृतानुत्सृनति ' इत्यादौ विना प्रक्षेपं यागसिद्धेः । तस्मात्तुभ्यं निवेदयामीति देवतायै वषट्कारेण दानमात्रं मानसवा. चिकक्रियामात्रं यज्ञः । अत एव वक्ष्यति तयङ्गमितरे होमा इति । प्रतिपत्तिलक्षणा इति सूत्रकृतां मतम् । ननु यनत्यादित्रिषु स्वस्वत्यागमा प्रधानमर्थः । तदेव यागरूप होमदानयोः क्रमेण तदेव प्रक्षेपान्तं पात्र स्वत्वापादनान्तं चार्थों गम्यते । तत्र देवताय उद्देश्यत्वमात्र स्वत्वत्यागस्तु त्रितयानुगतो न वषट्कारस्वाहाकारप्रतिपाद्य इति स्वत्व. निवृत्त्या परस्वत्वापादने पात्रसात्करणापवर्गरूपलक्षणे दान इव त्यागहोमयोरपि यजमान एव कर्ता क्रियते चेदं न ममेति यस्य स्वं तेन यजमानेनैव । कात्यायनेना. प्युक्तम्- -'यज्ञं व्याख्यास्यामो द्रव्यं देवता त्यागः' इति । तथा ' प्रधानं स्वामी फलभोगात्' इति च । न्यायविज्जैमिनिनापि 'शास्त्रफलं प्रयोक्तरि तल्लक्षण. त्वात् ' इति, ' उत्सर्ग वा प्रधान स्यात् ' इति च । निीतं च भाष्यवातिककारा. दिभिः । न च :- वाच्यं यनतर्दानार्थस्य शासनाद्देवतायास्तद्धितोक्ताया हविर्भागित्वे. नैव चतुर्युक्ताया अपि संप्रदानकारकत्वेनैव देवतात्वप्रतीतेः कथं मुख्यमर्थ धातुप्रत्य- ययोरुभयोरपि परित्यज्य त्यागमात्रमुद्देश्यत्वमात्रं वाऽमुख्यमुभयोरप्पङ्गी नियत 1 6 . + वाच्यमित्यधिकम् । १. 'मेत छन्दा । १ क, ख, ग, घ, तेऽन्तर्दा । २ 4. १० सत्यापाढविरचितं श्रौतसूत्र- [१प्रथमप्रश्ने इति वाच्यम् । देवताया यागसंबन्धो यदि विग्रहेण स्यात्तदैव मुख्यार्थपरिग्रहो घटेत । किंच नार्थत्यागोऽपि तु तस्मिन्मत्येवाधिकस्य प्रवेशाङ्गीकारात् । तथैव देवताधिकरणे प्रतिपादितं नवमे च देवता वा प्रयोजयेदतिथिवशोजनस्य तदर्पत्वा- दित्यादिभिर्देवताविग्रहत्वेन पूर्वपक्षस्यापि वा शब्दपूर्ववाद्यज्ञकर्मविधानं स्याद्गु- णत्वे देवताश्श्रुतिरिति विग्रहनिराकरणेन देवतासंस्कारो न याग इति स्थापित, तत्कथं वषट्कारेण दानं यागः स च होतार वषट्कर्तरीति चेत् । न । दानार्थेन धातुना तद्धित- चतुर्थीभ्यां च स्वार्थसिद्धये हविष्प्रतिग्रहीतृत्वमोक्तृत्वनिर्वाहार्थमवश्यं विग्रहवत्त्वेन विधानं पर्यवस्यति । न चैतावता देवतासंस्कारो यागः स्यात् । किं च, इन्द्राद्यर्था न लौकिका येनेन्द्रादिपदानां लोकतः शक्तिग्रहो भवेकित तेऽपिशास्त्रादेव ज्ञेयाः। शास्त्र च विग्रहवत एव बूते तत्रैव शक्तिग्रहो न तु विग्रहविधुरे व्यवहारोऽस्ति । न च शब्द एवं तावद्दे वतास्वरूपं पदार्थत्वेन प्रमाणाभावात् , तादृगप्रतीतेश्च । तस्माद्याहशेऽर्थे शक्तियहस्ताहगेव तत्तद्देवताशब्देन वाच्यं तत्रैव देवतात्वेन विधिः । किं च तद्- पर्यपि वादरायणः संभवात् ' इत्यनेन सूत्रेण भगवता बादरायणेन क्रममुक्तिनि- हाय देवतानां विग्रहवत्त्वस्थापनेन ब्रह्मविद्याधिकारस्तासामुक्तोऽन्यथोपासनादिकर्म- भिस्तत्तदेवतास्वरूपप्राप्त्या मुक्तिफलोपपादिकानां श्रुतिस्मृतीनामप्रमाण्यमेव प्रसज्ये- तेति शारीरकमीमांसायां देवताधिकरणे स्थापितम् । भगवता बादरायणेनैव विरोधः- कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ' इति च विग्रहवत्वमुक्तम् । तदुक्तमेव मनप्ति कृत्वा तत्र तत्र सूत्रकारैर्देवतासारूप्यादि कर्मफलमुपदिश्यत इति वक्तव्यम् । न च राज्यादिकानामचेतनानां देवतात्वाद्देवतास्वरूपप्राप्तिरप्यनुपपन्नेति वक्तव्यम् । तत्रापि चेतनत्य तत्तच्छरीर[स्थ] स्यैव देवतात्वस्वीकारात्। दृश्यते हि देवताः प्रति मध्यमपुरुष- युमत्प्रयोगोऽतो नाचेतना देवता । प्रतिपादितमेतन्निरुक्तादौ प्रपञ्चेन । न च शाखा- दि प्रति युष्मच्छब्दप्रयोगाद्यभिचार इति वाच्यं, तत्रापि चेतनस्याधिष्ठातुः स्वीकारा- दित्यपि तत्रैव प्रतिपादितम् । किं च सर्वेऽपि न्यायाः प्रयोगपर्यवसानफलाः । न न कर्मप्रयोगरचना विना सूत्रैरन्यतोऽवगम्यते । प्रयोगे च कर्तृविशेषनियमों मन्त्रादितिकर्तव्यतानियमश्च सूत्रकारैरेव कर्तव्यः । तत्र व्यवहारदर्शनेन शब्दशक्ति- अहो न तु न्यायसिद्धशक्तिग्रहमपेक्ष्य व्यवहारो लोकव्यवहारे तथात्वाभावादनादि- व्यवहारशक्तिपर्यालोचने मानमिति च स्थितिः । सूत्रकारास्तु चोदनासु फलभोक्तृ- कर्तश्च परिमाप्य व्यवस्थापयन्ति लाघवेन व्यवहारसिद्धये । ऋग्वेदयजुर्वेदसामवेद- विहितेषु कर्मस्वनादेशे होताऽध्वर्युरुनाता च क्रमेण कर्तारः । आदिष्टा एवान्ये भवन्ति । ततस्तु न यजमानस्यौत्सर्गिकं कर्तृत्वं वेदोपाधौ । तत आदिष्ट एवं कर्म- १ ख, छ, रूपप। . प्र०पटलः] महादेवकूतवैजयन्तीव्याख्यासमेतम् । ११ विशेषे कर्ता यजमानो भवति । ऋग्वेदं प्रकृत्य प्रवृत्ते होतृसूत्रे तदेव मनप्ति निधा- याहाऽऽश्वलायनः प्रतीयादित्यनुवृत्तौ — यजतीति कर्मचोदनायां होतारं, पदातीति यजमानं, जुहोति जपतीति प्रायश्चित्ते ब्रह्माणम् ' इति । ऋग्वेदेन होता करोतीति संज्ञया विनियोगादित्यर्थः । ततस्तु यजतिचोदनात्वन्यास्वपि चोदनास्वनादिष्टकर्तृ- कामु होतव की योग्यत्वाच्च । कुतः, यतोऽध्वर्युस्तं प्रत्येवाऽऽह यजेति । तथा मैत्रावरुणोऽपि । ये यजामह इत्यपि स एव पठति । ततो याम्यया वषट्कारान्तया स 1 एव यनति हयति वा अनुवाक्यया प्रयच्छति याज्ययेति श्रुतेः । प्रधानं च वषट्- कारान्तया ' वषट्कारेण स्वाहाकारेण वा देवेभ्यो दीयते' इति श्रुतेः । तथा वा- तीति चोदित यनमान कतीरं प्रतीयात् । तत्रायमभिप्रायः-दानं नाम ब्राह्मणाद्युहे. शेन दत्तस्य दव्यस्य पात्रस्वत्वापादनं, तच स्वत्वत्यागान्तमेव वदात्यर्थस्तत्रैव रूढः । स्वत्वत्यागो यस्य स्वं तेनैव कार्यों नान्येन । स्वं च यजमानस्येति सर्वतत्रांसद्धमतो यजमानो दान एव कर्ता तुभ्यमहं संप्रदद इत्याचारात् । श्रोत तु ददामोत्यादिप्रयो. गवन्तो मन्त्रा एवाध्वर्युसूत्रे याजमाने पठ्यन्ते नैवं यागार्थ मन्त्राम्नानं क्वचिदस्ति । हविरनुमन्त्रणं तु कर्मान्तरं प्रतिपत्तिरूपः संस्कारोऽप्यदृष्टार्थः । याजुषे हौत्रेऽपि हृदयदेशेऽझालं कृत्वाऽनुबयाद्यजेश्चेति होतुरेव कर्तृत्वं, तथा समिधो अग्न आज्यस्य व्यन्विति यनतीति, न कुत्रापि यनत्यर्थे यजमानकर्तृत्ववार्ताऽपि। तथाऽध्वर्युसूत्रेऽपि वषट्कारे वषट्कृते वा जुहोति याज्यापुरोनुवाक्यावतीषु चतुरवत्तमिति जुहोतीति- पोद्यमान इत्युपक्रम्याध्वर्युः स्वाहाकारेण जुहोतीति दविहोमवध्वर्योरेव कर्तृत्वनियमात्स- मस्तयाजुर्वेदिकक्रियास्वनादेशे च । तथा याजमानं व्याख्यास्याम इत्युपक्रम्य यान्य. नुशिष्टानि कर्माणि यजमानकर्तृकाणि न तेषु यजतिजुहोत्योर्यजमानकर्तृकत्वमुपदि- ष्टमतो दक्षिणादानमेकमेव यजमानकर्तृकम् । यागहोमावृत्विकृतावेवेति यागहोमयोरिद न ममेति यजमानेन यागहोमांशौ क्रियते इति यजमानकर्तृक त्वमिति न्यायम- तस्य न किंचिन्मूलं पश्यामोऽनुष्ठानविरोधश्च नापि प्रायश्चित्तविधिरिदं न ममेति लोपेऽस्य च प्राधान्ये पुनर्वा करणम् । किंच, उत्सर्ममात्र त्यागापरपर्याय सत्प्रधान तदा यागहोमयोरभेदे शब्दान्तराधिकरणविरोधः । अथास्ति विशेष इति चेत् । न, इदं न ममेत्येवोभयत्र संकल्पदर्शनाद्वाह्यानुष्ठानविशेषस्याभावाचात्र यजमानस्य । अथ होत्रध्वर्युम्यां विशेषसिद्धिर्वषट्कारस्वाहाकाराभ्यामिति चेत् । न, वषट्कारस्वाहा- कारकृतयोः किं प्रधानांशत्वमङ्गत्वं या । नाऽऽद्यः । प्रधानकर्मोऽशानुष्ठानमृत्विना परांशानुष्ठानं यजमानेनेति न प्रधानं यजमानकृतं स्यात् । क्रियासमुदायवाचिनौ यजतिजुहोती । समुदायावेव प्रधाने तयोरंशानामप्राधान्यादनमत्वाचविग्यजमा- १ छ. ति भाग। १२ संत्यापाढविरचितं श्रौतसूत्र-: [१प्रथमप्रश्ने- नाभ्यां नाङ्ग न प्रधानं चानुष्ठित स्यात् । किंच, फलसंबन्धिकरणं यानमानं, तच्चेदं न ममेति द्रव्यस्वत्वत्यागरूपः संकल्पः । स च गार्हपत्याद्याधानेषु महारुद्रापादौ द्रव्य- त्यागासंभवात्विग्भिः कृतस्याऽऽधानस्य अपस्य फलं यजमानगामि न स्यात् । किंचाङ्गेषु प्रयाजादिषु त्यागोऽपि होत्रादिभिरेव कर्तव्यः स्यात्फलाय करणत्वाद्धा- स्वर्थस्य त्यागपर्यवसायित्वं धात्वर्थपर्यवसानाय गृह्यतेऽतोऽहं वाच्यं प्रधान लक्षितं त्याग इति भवतां मतपर्यवसानम् । तन्न । उभावंशावुभाम्यां सहानुष्ठेयौ किंवा क्रमेण | नाऽऽद्यः । वषट्कारान्तेन दानं देवतोद्देशेन भवति तदा दानसंस्कृतस्य त्यागः कार्यः । न ह्यदत्तस्य त्यागः स्यात् । अथ दीयमानस्यैव त्यागस्तहि स्वयमनिहोत्र- होमो न स्यात् । स्वाहान्तेन होगे सति पश्चात्यागस्यावकाशो न मध्ये । सोमे च गृहपते यजेत्युक्ते यजमान एवं यजति तदाऽपि नावकाशः । अथानन्तरं त्यागस्तहि वषट्कारेण सह यदा प्रक्षेपस्तदा प्रक्षेपस्य यागे प्रतिपत्तिरूपत्वान्प्रतिपादितस्य पश्चाद्यागायोगान प्रधानयागसिद्धिः । अधाऽऽदावेव त्यागस्ताहि शिष्टाचारविरोधः । यागहोमयार्वषट्कारस्वाहाकाराभ्यां कृतयोः प्रतिपत्तिकर्मताऽऽपद्येत । अस्माभिस्तु त्यागस्य प्रतिपत्तिरूपत्वमङ्गी क्रियते । द्वितीया प्रतिपत्तिस्त्यागरूपा भस्मसात्करण- मिवाऽऽक्षिप्तस्य हविषो याज्ञिका आदरेण तथा कुर्वन्तोऽत्याचारादनुमोयते न क्वचि- साक्षादपदेशोऽस्ति त्यागस्य वा भस्मीभावकरणस्य वा। तदकरणे सर्वप्रायश्चित्त मात्रमेव याज्ञिकैरुपदिश्यते । भवत्पक्षे प्रवसतो यजमानस्य त्याग एवे न सिध्येत् । त्यागमात्रस्य प्रधानत्वे वषट्कारस्वाहाकारान्तमत्रसाध्यं देवतामुद्दिश्य हविर्दीनं त्यज्यमानस्य द्रव्यस्य संस्कार एव वाच्यो न दानं द्रव्यं प्रति प्रधान दानत्यागयोरे द्रव्यं प्रति प्राधान्यायोगात्प्राधान्ये वोभयोर्याजमानत्वापत्तेरवश्यं दानं भूतभाव्यु. पयोगं हि द्रव्यं संस्कारमहतीति न्यायेन भाव्युपयोगस्य द्रव्यस्य संस्कारो भूतोपयो- गस्य प्रतिपत्तिरित्यङ्गीकार्य, तदा तस्य प्रवसतो यजमानस्य द्रव्यत्यागात्पूर्वभावपश्चा- झावाज्ञानानं कर्मसिद्धिः । पूर्व यजमानेनात्यक्तस्य कथं यागे प्रक्षेपेण प्रतिपत्तिः स्याहानं पूर्व यहि तार्ह त्यक्तस्य कयं संस्कारः स्यादिति । मत्पक्षे यजमानसंस्कार- व्यतिरिक्तस्य संस्कारस्य प्रवसतो नास्त्येवानुष्ठानमकर्मकरणानां मन्त्राणं जपमात्र यजमानस्य, कर्मकरणैर्मन्त्रैरवगुणा याजमानं क्रियते, स्वत्वत्यागं पत्नी कुर्यात् । यजमानेन कृतेऽपि न दोषः प्रपिपत्त्या हि संनिपत्योपकारिण्या न निवृत्त यामे स्वरूपेण कश्चिदुपकारो जन्यत इति तस्याः संस्कारकर्मत्वनिर्वाहार्थ यागस्वरूपमपूर्वरूपेण स्थितं प्रतिबध्यते नोत्पद्यते वा प्रतिपत्त्यभावनेति कल्पनीयम् । । १.ग. 1२ ख. 'मिव । क्षि। ३ ख..णे च स । ४ ख. छ. होम । ५ क. ग. व सिं'। क. ग. धान्यद्यायो। स.च, न तत्कर्म । १५०पटलः महादेवकृतर्वैजयन्तीव्याख्यासमेतम् । तत्र वैगुण्ये प्रायश्चित्तेन परिहारः प्रतिबन्धकस्य दुरितापूर्वस्य भवेत् । त्वत्पक्षे प्रधाना- नुत्पत्तौ चापूर्वस्यैवानुत्पत्तेः प्रायश्चित्तशतेनापि समाधान न भवति । नहि भस्मसाहू- तस्य द्रव्यस्यानुत्पन्नस्य वा त्यागो यागो द्रव्यनिरपेक्षोऽपूर्व साधयेदसाधयंश्च न्यो- त्पत्तेरदृष्टार्थत्वमापादयेद्यवाग्वाः पाकस्येव पूर्वपक्षे । प्रवसति यजमाने निमित्तवशात्प्राप्ते- ष्टिदर्विहोमानामननुष्ठानेऽग्निनाशः प्रसज्येत । तथाऽऽधाने तु त्यागायोगादध्वर्युणा कृते तज्जनितसंस्कारोऽपि तत्रैव प्रसज्यतेत्यलमतिप्रसङ्गेन । न्यायमतमिव कात्य यनीयमपि मतं सूत्रान्तरोपदेशविरुद्धमिव तत्र तत्र दृश्यते । तथा ह्यवदानदोघे पुनरुत्पत्तिव्यस्यो च्यते जैमिनिकात्यायनाम्यामन्यस्त्वाशयादेवावदानं पुनरपीप्यते । व्याख्यातारोऽप्यत एव न्यायमतमुपदेशमतं च तत्र तत्र विविच्य दर्शयन्ति । न ह्युपदेशशब्दो न्याया- पेतेऽर्थे प्रयुज्यत इति वाच्यं, सामान्यन्यायप्रधान शास्त्र न्यायशब्देनोच्यते । प्राति- शाख्योपदेशविचारात्मक चोपदेश इत्युक्तम् । तथोपदेशप्रधानं कल्पसूत्रमपि सोपदि. ष्टन्यायगर्भमेवोपदेश इति । वेदो युपदेशो न लौकिक वाक्यम् । तस्मात्परिक्रयलब्धैर्ऋ- विभिरनुष्ठितस्य प्रधानस्यापि फलं यजमानगाम्यवेति यदि श्रुतिरावेदयेत्का नामानु- पपत्तिः। यानमाने फलोदेशेन संकल्पो यक्ष्य इति सर्वकर्मसु श्रौत एव फलमात्मसात्करो- तीति वक्ष्यते । तथा च साङ्गयागसंकल्पमात्रेण सर्वो यागो यजमानकर्तृक एव । तस्सि- धर्थमेवत्विनः कुर्वन्तीति शास्त्रफलं प्रयोक्तरीति न न्यायविरोधः संकल्पेनैव प्रयो. क्तृत्वात् । तस्माद्यज्ञशब्दोऽपि यागापरपर्यायो यनतिचोदिते वषट्कारपदानरूप एवं कर्मणि वर्तते नान्यत्र । अन्यत्राग्निहोत्रादौ प्रयोगो न मुख्योऽनेकार्थत्वस्यान्याय्यत्वात्सं- भवन्त्यां गतौ । सूत्रकारोऽपि वक्ष्यति पञ्चयज्ञान्प्रकृत्य ' महायज्ञा महासत्राणीति स्तुतिः' इति । तेनतेऽपि प्रयोगे व्याख्याता ये पिण्डपितृयज्ञः पाकयज्ञा हविर्थज्ञा अग्निहो- त्रस्य यज्ञक्रतोरित्याद्या नामरूपास्तथाऽऽख्याता अपि पिण्डपितृयज्ञेन यजेताऽऽग्नेयेन स्थालीपाकेन यानयतीत्याद्याः । ' देवान्देवयजो यान्ति' इत्यादयोऽपि दानकदेशेन लक्षणया यजेर्दानार्थस्य व्युत्पत्त्या वा क्वचिद्धोमार्थस्य ज्ञेया उक्तप्रवृत्तिनिमित्तस्य च दहोमेष्वमावात्। तस्मात्प्रकृतिविकृत्यात्मना बाहल्याद्यज्ञस्य यज्ञशब्देन सर्वसूत्रप्रति- पाद्योऽर्थः संगृहीतः । अस्ति च श्रुतिस्मृतिषु यज्ञशब्देनोपादानं सर्वेषां वर्णाश्रमधर्मा- णाम् । तथाहि ' महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः । इति 'त्रिभित्रणवा जायते ब्रह्मचर्येणर्षिभ्यो यज्ञेन देवेभ्यः । इति । विविदिषन्ति यज्ञेन' इत्येवमादिषु यज्ञशब्देनाऽऽवश्यकानि गृह्यन्ते । अत एव भगवान्बादरायणः 'सर्वापेक्षा यज्ञादि- श्रुतेरश्ववत् । इति । श्रुतौ ' यज्ञेन देवेभ्यः' इति 'यज्ञेन विविदिषन्ति ' इति चैकव- चन य(नवद्य)ज्ञमिति [न] विवक्षितम् । किंबहुना सकलवेदार्थज्ञानस्यैव सकामनिष्काम. १०. येत्याध' । २ ख. छ. वेदो। ३क. ग. छ. योगव्या । ४ ख. च. 'यज्ञाः पा। - १४ सत्याषाढविरचितं श्रौतसूत्रं- [१प्रथमप्रश्ने- साधारण्येन नित्यत्वाधानमानार्थत्वेनाऽऽवश्यकत्वाच्च । ततः परमविरक्तश्चेत्कर्माणि कुर्या- स्करोतु नाम न तं निवारयति वेदो दर्शयति परं साध्यसाधनभावमात्रम् । तज्ज्ञान- स्याऽऽवश्यकता । काम्यकर्माकरणे स्वप्रत्यवायेऽपि तद्याख्याने तज्जन्यज्ञानस्य नियत- त्वात् । व्याख्यास्याम इति फलकरणेतिकर्तव्यतालक्षणांशत्रयविशिष्टां मावनां विविच्य कथयिष्यामः । यज्ञस्यार्थरूपस्य न व्याख्यान संभवति, वाक्यपदप्रकृतिप्रत्य- यविभागेन शब्दार्थकथनं व्याख्यानं न चार्थस्य तत्संभवति । तस्मादेवमवगम्यते वेदैरिति वदिष्यति तदिदं वेदव्याख्यानमेव न्यायैः क्रियमाणं फलतः प्रयोगरूपेण व्यवस्थित भवति । वेदपाठक्रममपहाय यज्ञप्रयोगक्रमानुसरणं दर्शयितुमर्थप्राधान्येन निर्देशो न्याथीमांसायां वाक्यप्राधान्येन सूत्रे तु प्रयोगप्राधान्येनेति भावः । अर्थनिर्देशेन चैत- सूचितं द्रव्यदेवतादिकानेकार्थप्रयोगप्राधान्यतया यजुर्वेदविहितवादावर्यवमिति ज्ञापितं कानिचित्कर्माणि मन्त्रमात्रजन्यानीति हौत्रोद्भातृत्वयोमन्त्रप्राधान्यम् । अत एवाऽऽश्वलायनाचार्यः-' अर्थतस्य समानायस्य विताने योगापत्ति वक्ष्यामः शब्दप्राधान्येन प्रतिज्ञां कृतवान् । ब्रह्मत्वव्याख्यानं तु प्रतिवेदं सद्भावप्रदर्शनार्थम् । भाग्नीधर्मशतो व्याख्यातं यावद्यजुर्वेदविहितमवशिष्टं याजमानं च । सर्वेषामध्वर्युवेदान्त- सवात्कथनम् । हौत्रस्य दर्शपूर्णमासिकस्य व्याख्यानं तदपि यहग्वेदे विहितं हो सत्रैव याजुर्वेदिकगुणोपसंहारमात्रप्रदर्शनेन विकल्पप्रदर्शनपरम् । तत्र प्रसङ्गादनारम्य विधिसामान्यन्यायव्याख्यानं सर्ववेदसाधारणं च कृतं तथाऽपि यजुर्वेद विहितेऽध्व- र्युकर्मणि यज्ञरूपोत्पत्तिरूप एव प्राधान्यमत्र सूत्र इत्याशयः । द्रव्यदेवते हि कर्मणो रूपम् । तथोक्तं कात्यायनेन-'यज्ञं व्याख्यास्यामो द्रव्यं देवता त्यागः ' इति । देवता या यत्र विहिता सा तत्र न जात्या काचित् । द्रव्यं तु नियतम् । तत्र श्लोकाः-द्रव्यं पशुसमुद्भूतं नवधा चोदितं मवेत् । पयो दध्याज्यमामिक्षा वपा मांसंच वाजिनम् ॥ स्वग्लोहिते अश्वमेधे वपाविष्टकृतोः कृते । पुरोडाशो यवागूश्च चरुर्धानाः करम्भकः ।। परिवापः सुरा मन्य इत्यष्टौषधिजान्यथ । सोमो लतामवश्चान्ये पूतीकाद्या अभावतः ॥ आपः संसृष्टहविषि कृष्णला मध्वमूनि तु । वषट्कारप्रधानानि हवींषि यनिकमणि ॥ स्वाहाकारप्रदानानि होमार्थानि पयो दधि । आज्यं मांसं वसैतानि पशुजान्यथ चौषधम् ॥ ओदनोऽथ यवागूश्च तण्डुला लाजतक्तवः । मस्पा(स्य) पृथुकादीनि बहिरादीन्यनेकधा ॥ १५ १५०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । खराणि करीराणि समिधः शकलानि च । सोमो मध्वाप इत्येवंप्रकाराण्यप झौकिक ॥ अपूपाः किंशुकतिलकङ्गा अन्यानि कानिचित् । श्रोते द्रव्यप्रधानं तदध्वर्योः कर्म चोदितम् ॥ अतस्तेषां व्याख्यानं विशेषेण शाखान्सरप्रयोगव्यावृत्ततया प्रातिशाख्यधर्मस्य प्रयोग- रूपेणोपदेशातिदेशाम्यामङ्गाङ्गिमावेनानुष्ठानक्रमस्य व्याख्यानं प्रदर्शनम् । बहुवचनं च सूत्रान्तर शास्त्रान्तरवक्तृसमुच्चयार्थम् । यदाहुः-' किंचित्स्वयं नाम विचारयन्ति कात्यायनाद्याः खलु सूत्रकाराः । मीमांसयैवेति त आहुरेनमन्योन्यविद्धा हि भवन्ति विद्याः ॥ इति । न्यायो मीमांसा नाना विद्यास्तु परस्परसापेक्षाः परिगणिताः कर्मज्ञानयोः कार- गत्वेन भगवता योगीश्वरेण याज्ञवल्क्येन- 'पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ ' इति । पुराणग्रहणमितिहासरामायणादिकाव्यादीनामप्युपलक्षणम् । पुराणैरुपाख्यानः सार्थ- वादस्य समन्त्रस्य वेदस्यार्थावबोधो देवतास्वरूपज्ञानं स्वर्गापवर्गफलस्वरूपज्ञानादिकं प्रयोजन, न्यायो नैयायिकवैशेषिकशास्त्रं, तत्र प्रत्यक्षादिप्रमाणद्रव्यगुणकर्मजाति- ध्यक्त्यादिज्ञानम् । मीमांसाद्वयेन ज्ञानं तु स्पष्टमेव कर्मब्रह्मविषये । देवताकाण्डमपि ब्रह्म मीमांसव । धर्मशास्त्रेणाऽऽचमनशौचाद्याचारस्य सकलौतस्मातकाङ्गमूतस्य विधा- । नात् (नम्) । अनोपयोग उक्त एव । वेदैः प्रयोगः साक्षादेव । एतानि चतुर्दश वेदान्तानि कर्मब्रह्मविद्यानां स्थानान्यसाधारणकारणानि धर्मस्य चोत्पादकानि च । वत्र सूत्रैः प्रयोगे रचनाये मीमांसाऽन्तरङ्गमङ्गम् । तथाहि-धर्मो द्वादशलक्षण्या व्युत्पाद्यस्तत्र लक्षणैः । प्रमाणभेदशेषत्वप्रयुक्तिक्रमसंज्ञकाः ॥ अधिकारोऽतिदेशश्च सामान्येन विशेषतः । उहो बाधश्च तन्त्रं च प्रसङ्गश्चोदिताः क्रमात् ।। लक्षणानि अध्याया द्वादशानां लक्षणानां समाहारो दादशलक्षणी तादृशस्य द्वाद- शाध्यायोपेतस्य शास्त्रस्य धर्मो विषयः। प्रमाणादयः प्रसङ्गान्ता द्वादश पदार्थाः क्रमा- द्वादशानामध्यायानां विषया इति । मीमांसया तु साक्षात्सूत्रैरर्थज्ञाने जन्येऽवान्तरन्यापा- ररूपया मीमांसया विना प्रयोगविज्ञानं न भवतीति व्याख्याङ्गत्वेन न्याया अपि प्रतिज्ञा- तास्ते केचित्स्वेन व्याख्यास्यन्ते केचित्प्रयोगेणैव सूचिता अन्यतो ग्राह्याः। केचित्स्वा- भिमता एव निर्णेष्यन्त इति व्याख्यास्याम इति बहुवचनेन सूचितम् । - सत्यापाढविरचितं श्रौतसूत्र- [१प्रथमप्रश्ने- तथा च यज्ञो व्याख्येयत्वेन विषयस्तज्ज्ञानं सूत्रस्य शास्त्रस्य प्रयोजनम् । तच्चानुष्ठानाङ्गम् । एवं च प्रतिज्ञाते व्याख्येयत्वेन. कर्ममाने तस्य यावत्फलस्वरूप. लक्षणप्रमाणानि न ज्ञायन्ते तावन्न प्रयोगानुष्ठाने प्रवर्तते किंफलक किस्वरूपं कि- लक्षणकं किंप्रमाणकमित्याकाङ्क्षायाः प्राथम्यात्तत्राऽऽह--

स त्रिभिर्वेदैर्विधीयते ।

यज्ञो व्याख्येयः सफलत्वात् । सफलता च ज्ञायते । कुतः । यतो वेदैः श्रेयः- साधनतया विधीयते । एतदपि सामर्थ्य वेदानाम् । कुतः । अध्ययनविधिरूपावदादेव । नहि श्रेयःसाधनं विनाऽन्यद्विधेयमिति संभवति । तस्मादयं व्याख्येयो न ह्यन्याख्यातोऽनुष्ठातुं शक्य इत्यभिप्रायः । स विधात्रयेण प्रसिद्धो यज्ञपदोपलक्षितो धर्मत्रिविधैर्वेदैरपौरुषेयत्वेन निरस्तसमस्तदोषाशकैर्वेदत्वेन च स्वतःप्रमाणैः कर्तव्यत. योपदिश्यते । सर्वस्य मन्त्रब्राह्मणात्मकस्य सार्थवादस्य विध्येकवाक्यतापर्यवसानार्थ विधीयत इत्युक्तम् । अन्यथा ज्ञाप्यत इत्येवावक्ष्यत् । यदि लौकिकप्रमाणवत्प्रमाकरण- स्वमात्रेणैवाविवक्षिष्यत् । न ह्यश्रेयःसाधनं कर्तव्यत्वेन वेदेनोपदेष्टुं शक्यते । अतः श्रेयःसाधनमिति भावः । स्वाध्यायोऽध्येतव्य इति दृष्टार्थेनाध्ययनविधिना यद्यदृष्टप्र. योननं येन यथा कर्तुं शक्यते तथा तेन तत्कर्तव्यमित्यनुज्ञायते । स्वाध्यायस्य शब्द- रूपस्य ज्ञानोत्पादनमात्रे शक्तिः । एवं च सति तत्र विधेः प्रवर्तनावाचकस्यान्येषां प्रवृत्तिरूपप्रयत्नापरपर्यायमावनादिप्रतिपादकपदानां विधिव्यापारविषयतपेक्षितकार- कार्थज्ञापनकवाक्यतया प्रामाण्यम् । नामधेयस्यापि करणावच्छेदकत्वेनैकवाक्यत्वम् । अर्थवादानां विध्यपेक्षितेतिकर्तव्यतालक्षणप्राशस्त्यलक्षणत्वेन नामाण्यं, तेषामनन्यप्रयो- मनानां शब्दानां यज्ञे प्रामाण्यम् । यज्ञतत्साधनस्मृत्या वा साक्षात्स्वार्थस्तुत्याऽऽरादुप- कारकया वा मन्त्राणां यज्ञोपयोगे सति स्वार्थप्रकाशनद्वारैव नोचारणमात्रेण यज्ञत- साधनातेत्येवमर्थस्य नियमविध्युन्नायकत्वेन पदार्थविधयाऽङ्गतां गतानामपि प्रामा- ज्यम् । पदार्थानामपि वेणावद्यत्ति हस्तेनावद्यति स्वधितिनाऽवद्यतीत्यत्र पदार्थसा- मर्येनैव नियमप्रमाकरणता तथा मन्त्राणामपि । एवं च स्वाध्यायपदापरपर्यायवेदप- देन स्वाध्यायाध्ययनविधिनोक्तं प्रामाण्यं वेदे दर्शितम् । अन्यथा विधिलक्षणानि कर्माणात्यनेनैव सेत्स्यतीत्यनर्थकमेवैतत्सूत्रं स्यात् । स्वरूपलक्षणप्रमाणानां तत्रैव सिद्धेः । मतः सर्ववेदप्रामाण्यायैवेदं सूत्रम् । तथा च वेदेवाध्यत इत्यपि स्वाध्यायाध्ययनविधि- नैव वेदेन ज्ञापितमित्यप्यावेदितम् । अध्ययनविधेरेकशाखामात्राध्ययनेन पर्यवसानम् । अन्यथाऽशक्यार्थविधायकत्वादप्रामाण्यमध्ययनविधेः । स्वशाखानध्ययन एव दौा- मण्यम् । एवं च सति वेदचतुष्टयस्य प्रामाण्यं स्थितम् । .. ल. च. छ, "क्षिताका । २ ख. च छ. ध्यायोऽध्य । १७ १प्र०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । नमु त्रिमियदा वेदापितं कर्म तद्भवेत् । सदेकस्य भवेन्नूनमप्रामाण्येन दूषणम् ॥ १ ॥ नाप्रमाणमपि यो वेदोऽध्येयो विधानतः । चतुर्थस्यापि वेदस्याथर्वणोऽस्ति प्रमाणता ॥२॥ वैतानिके ब्रह्मकर्मव्यभिचारेऽप्यलौकिके । लौकिकेऽपि च सूत्रेणाऽऽवेदयिष्यत्यसौ स्वयम् ॥ ३ ॥ ततो न परिसंख्याऽस्य कर्नु युक्ता प्रमाणतः । न किंचिल्लौकिके मान मन्त्रबामणरूपतः ॥ ४ ॥ तत्र वेदत्वधर्मेणं प्रामाण्यमपि दुर्धटम् । अत्रोच्यते द्वंद्ववृत्तौ पदत्रयविवक्षणम् ॥ ५॥ मुख्यत्वेन चतुर्णामप्येकवेदपदाद्ग्रहः । लौकिकेष्वपि मानत्वसिद्धथै चामुख्ययोर्द्वयोः ॥ ६ ॥ यद्यप्यमुख्यवेदत्वेनैकेनकोऽपि संभवेत् । तथाऽप्यवान्तरोपाधिद्वयेनामुख्यता द्वयोः ॥ ७ ॥ अध्येतुं शक्यते शाखा सैव स्वाधाय उच्यते । तामधीयान एवासी वेदाध्यायन्यथाऽधकृत् ॥ ८ ॥ वेदशब्दश्चतुष्के वा प्रत्येकं वा चतुष्टये । एकत्वेन प्रयुक्तोऽपि नैकव्यक्त्यभिधानकृत् ॥ ९ ॥ वेदानधीत्य वेदौ वा वेदं वेति स्मृतिस्तथा । काठकेऽपि ह्यनन्ता वै वेदा इत्युच्यते यतः ॥ १० ॥ वेदत्वजात्यैकशाखा व्यक्तिरित्येव निर्णयः । तदेकदेशे शाखावं वेदत्वमपि चेष्यते ॥ ११ ॥ यच्च शाखैकदेशेन विहितं कर्म वैदिकम् । प्रोच्यते गौणमेवैतद्वेदवाक्यविवक्षया ॥ १२ ॥ ननु चैवं वैदिकं तु कर्म न स्याकिमप्यथ । स्याद्वा सर्व वेदमूलस्मृत्याचारोपवर्णितम् ॥ १३ ॥ सत्यं तथाऽपि कश्चिद्धि विशेषोऽस्ति विभेदकृत् । स्वशाखान्तर्गतैक्यिः शाखान्तरगतैरपि ॥ १४ ॥ एकप्रकरणापत्नै पितं ब्राह्मणैस्तु यत् । सदेके कर्म वा ब्राह्मज्ञानं वैदिकमुच्यते ॥ १५ ॥ . फ. प. छ. चति । १ क, छ. नेष्यते ।। क. ग. छ, “लश्रुत्या । ३ + । २ १८ सत्याषाढविरचितं श्रौतसूत्र- (१प्रथमप्रश्ने- यदा वेदेन मानेन ज्ञापिता कर्मसंततिः । सा वैदिकी तद्गतकं कर्म वैदिकमुच्यते ॥ १६ ॥ यस्य नास्ति स्वशाखायां साकल्यं नान्यशाखया । एकप्रकरणत्वेन पूरितं यत्प्रकीर्णकः ॥ १७ ॥ नानाप्रकरणाधीतमन्त्रब्राह्मणभागगैः । वाक्यैरेकत्र पुरुषैरानीतविहितं तु यत् ॥ १८ ॥ कर्म प्रोक्तं लौकिकं तन्मन्वादिभ्योऽवगम्यते । यत्प्रत्यक्षानुपूर्या स्वपाठो नास्ति नु वेदगः ॥ १९ ॥ प्रत्यक्षोऽपि स्यूषीणां स वेदोऽप्रत्यक्ष इष्यते । एकप्रघट्टकेनान्यः प्रत्यक्ष नोपलभ्यते ॥ २० ॥ तस्मात्तत्रापि वेदत्वमुपचारादिति स्थितिः । न हि प्रकीर्णको वेदो गृह्यते विधिना तु सः ॥ २१ ॥ तस्मात्तस्य त्ववेदत्वं तेन प्रोकोऽप्यवैदिकः । लौकिकः स्मार्त इत्युक्तो मन्त्रादिस्मृतिशासनात् ॥ २३ ॥ स एव क्वचिदन्यार्थमन्त्रैर्वाऽन्यार्थवादकैः । प्रसङ्गेनानुद्यमानः प्राप्तो नासो विधि विना ॥ २३ ।। तस्यापि प्राप्तये तेभ्यो विधिरेव प्रकल्प्यते । सोऽपि लौकिक इत्युक्तः स्मार्तो वा न तु वैदिकः ।। २४ ॥ ननु चैकाग्निकाण्ड तु प्रत्यक्षो वेद ईयते । पाठेन गृह्यते कैश्चिदतोऽप्रत्यक्षताऽस्य न ॥ २५ ॥ तेन यद्विहितं कर्म स्मात वा लौकिकं कथम् ॥ सत्यं तत्प्रातिशाख्यत्वाच्छ्रौततुल्यं तथाऽपि तु ॥ २६ ॥ तत्पूरणाय मन्त्रा हि श्रौतकाण्डेऽप्यवस्थिताः । श्रौतन कर्मणा नैव संबद्धा निर्गतास्ततः २७ ॥ लिङ्गरेकाग्निकमा ( वाऽs )लिङ्ग्याङ्गत्वमुपागताः । मन्त्रा एवात्र ये केचिद्विधिहीनास्तदर्थगाः ॥ २८ ॥ विधयोऽप्यागता ये चाबद्धाः प्रकरणेन हि । मन्त्रार्थवादावयवैः कल्पिता अपि पूर्ववत् ।। २९ ॥ वैतानिकाशितोऽन्यत्वागृह्यः स्मार्तोऽप्यलौकिकः । भग्निः कर्माङ्गतां प्राप्त एकाग्निरिति चोदितः ॥३०॥ १क.ग. च. छ. कमन्वद। ३ क. ग, च. छ. 'कल्पते । १५० पटकः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । तं प्रकृत्यैव काण्डं यदेकानेः काण्डमुच्यते । तत्रोपनयनं श्रौत शाखान्तरगतं यतः ॥ ३१ ॥ धर्मप्रभेरिताः पञ्च यज्ञाः श्रौता इति स्थितिः । अतः प्रकीर्णकाण्डेन तुल्यमेकाग्निकाण्डकम् ॥ ३२ ॥ श्रौतेन सदृशं चैतदेकप्रकरणोदितम् । अतस्तु लौकिकं स्मार्तकाण्डद्वयममुख्यकम् ॥ ३३ ॥ गृहमा प्रकृत्योक्तं गृह्यकर्म विशेषतः । समयः स्मृतिशास्त्रं त्याचारः शिष्टानुवर्तनम् ॥ ३४ ॥ पुंसो लिप्सापेतमाभ्यां सामयाचारिकाः स्मृताः । तदेव गृह्यकाण्डं स्याद्यच्चोपनयनादिकम् ॥ ३५ ॥ स्मृतिशास्त्रं तथा धर्मप्रश्नौ काव्यमृषीरितम् । इतिहासपुराणानि सामयाचारशासनम् ॥ ३६ ॥ स्मृतिरपि-'वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्वतम् । भाचारश्चैव साधूनामिष्टसंतुष्टिरेव च ॥ इति । शीलमात्मगुणा अहिंसादयः । संतुष्टिवैकल्पिके कर्मण्यत्साहोऽन्यतरस्मिन् । तदुक्त बौधायननेन-' सुसंस्कारा बोहय एवातो विकृतिषु त एवानादेशे' इति । यत्र कर्त- व्यस्वेनाऽऽवेदनं नास्ति कापि येदे परार्थिवादमन्त्रेषु स्तुत्या सिद्ध एवान्द्यते, न च दृष्टं प्रयोजनमस्ति स एवाऽऽचारः शिष्टैरनुष्ठीयते तस्माच्छ्यासं पापीयान्पश्चादन्वेसि' 'यथाऽतिर्षि ज्योतिष्कृत्वा परिवेष्टि' 'धन्वन्निव प्रपा असि' 'कुमारा विशिखा इव इति, गुर्वनुगमनमतिथयेऽन्नदानमन्दके देशे प्रपा प्रवर्तनं गोदाने संस्कारे सशिखं मुण्डम- मिति । यत्र निन्दयाऽनुवादो यथाऽतिथये प्रदतायेति तत्र निषषोऽपि ज्ञेयः । तथा पुराणदर्शितमेव । तथा मागवते-'इतिहासपुराणानि पञ्चमो वेद इष्यते । इति । मानान्तरागृहीतार्थप्रमाणत्वात्रयोऽपि हि । समाना उक्तविधयो नानार्था एकशेषतः ॥ गृहीतानां त्रित्वसंख्या प्रकारावेदनान्मता । अन्यप्रकारतायास्तु परिसंख्यां करोति ॥ अतोऽपि च प्रमाणानां त्रित्व आवेदिते सति । अथर्वणोऽपि वेदस्य परिसंख्या न वेदतः ॥ तन्मुख्यामुख्यवृत्त्याऽप्यत्रैकशेषोऽपि युज्यते । १क, ग, 'पाव। २० सत्याषाढविरचितं श्रौतसूत्रं- [१प्रथमप्रश्ने- मन्त्रब्राह्मणरूपो यो मुख्य इत्यभिधीयते ॥ एकाग्निकाण्डमपरस्तृतीयस्तु प्रकीर्णकः । तैः प्रत्येक मितो धर्मत्रिविधः परिकीर्तितः ॥ ४१ ॥ अनेनैवाभिप्रायेणाऽऽह बौधायन:--' उपदिष्टो धर्मः प्रतिवेदं तस्यानुव्याख्या- स्यामः स्मार्तो द्वितीयः शिष्टाचारस्तृतीयः' इति । उपदेशो वेदस्तेन कर्तव्यतया विहितो वैतानिक इति यावत् । प्रतिवेदं प्रतिशाखम् । न हि वेदे समुदायरूपेणैक एव प्रयोगो विधीयते किं तु नाना प्रयोगाः । प्रतिपूरुषमेकैक एव । तत एकशाखया स्वेन व्याख्यातः । तं प्रातिशाख्यधर्ममनु तच्छाखीय मौत तच्छाखीयशिष्टाचारलक्षणं च धर्म व्याख्यास्यामः । तावपि नियतौ प्रतिशाखमित्यर्थः । उभयोः स्मातत्वेऽपि प्रयमे त्वाचारानुमितस्याल्पत्वाद्वितीये भूपस्त्वात्स्मार्त इत्युक्तः प्रथमो द्वितीयः शिष्टाचार इति । तस्मात्साधूक्तं स चैविध्येन प्रसिद्ध। यज्ञोपलक्षितो धर्मतिभिर्वेदादिप्रमाणविधा- नत्रययुक्तैर्जाप्यते । कर्तव्यतयाऽबाधित तद्विषयज्ञानं जन्यते । अतोऽसंदिग्धाविपर्य- स्तस्पष्टेष्टसाधनताज्ञानजनकत्वात्प्रमाणरित्यर्थः । एवमत्र विधीयते कर्तव्यत्वेनोपदि- श्यते वेदेन का कर्तुरन्यस्यापौरुषेयेष्वसंभवात् । तेषामेव कर्तव्यार्थोपदेशरूपत्वेन प्रमाकरणत्वात्प्रामाण्यं विधिलागन्यापाराश्रयत्वात्तु कर्तृत्व न विरुध्यते । अस्ति चाऽऽ. रोपेऽपि प्रयोननं यथा गामानयेति वाक्येन प्रवृत्ते शिष्य उपाध्यायेन प्रेरित इति प्रयोगदर्शनाल्लोडभिधेयो व्यापार उपाध्यायनिष्ठ इत्यवगम्यते । यतो वचनरचनाकर्ता चोपाध्यायो वेदे कर्तुः प्रयोक्तुरभावेन तस्यैव प्रयोक्तृत्वेन व्यापार प्रत्याश्रयत्वमिति अपौरुषेयवेदानां निरस्तप्तमस्तदोषाशकानां स्वतो बोधकानां निरङ्कुशं प्रामाण्यमिति प्रयोजनम् । ननु कथं लिङ्गा(का)दिप्रत्ययविधुराणां प्रतिबद्धविधिशक्तिलिङ्गा(का) दिमतां च मन्त्रामा विधायकत्वं कर्मविधान ब्राह्मणमिति वक्ष्यमाणविरोधाच्च । उच्य- ते-विधिहि कर्तव्यतयाऽर्थस्योपदेशस्तस्य ज्ञानमुपदेशो व्यतिरेकश्चेति मीमांसासूत्रे प्रयोगात् । कर्तव्युत्पश्या शब्द भावव्युत्पत्त्या शब्दव्यापारे च दृश्यते तद्ग्रन्थेषु । भतो यज्ञो विधीयते कर्तव्यत्वेनोपदिश्यते । तत्र विधिप्रत्ययवतो ब्राह्मणस्य स्पष्टं ताच मन्त्राणां तु प्रयोगाङ्गभूतानामपि पदार्थविधया प्रामाण्यं वक्ष्यते विधिसइका- रित्वेन विधायकत्वं न हि मत्रविना केवलो विधिः सद्वारकमन्त्रविशिष्टां मावनां विधातुं समर्थः । एवं श्रौतस्मातीचारकर्मणां प्रत्येकं स्वरूपायुक्तम् । एवं प्रतिज्ञाते त्रिविधे कर्मणि सामान्यतः फलं स्वरूपप्रमाणावान्तरभेदं व्याख्याय श्रौतत्वेन बाहुल्यात्प्रकृतिविकृत्यात्मना च बहुव्याख्येयत्वाच्च श्रौतेषु कर्तृविशेषधर्म: विशेषान्वक्तुं मुख्यवेदपदोपात्तेन वेदचतुष्टयेन प्रमाणविशेषेणावान्तरभेदमाह - १ ख. छ. "लयमर्थम । २ क. ग. स्मार्तत । ३ क. ग. च.छ. क्षणाव्या । र ग. देनाव्यु। १प्र०पटलः महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

ऋग्वेदेन यजुर्वेदेन सामवेदेन सर्वैर्ज्योतिष्टोमः ।

अत्र वेदपदं सोपपदमे(म)वान्तरजातिवा(वो)धकं तथाऽप्येकैव व्यक्तिर्गृह्यते पुरुषभेदेन प्रतिपुरुष प्रयोगभेदात् । न दृग्वेदेन शाखासमुदाय के प्रति प्रयोगभेदो विधीयते किं तु प्रतिशाख प्रतिपुरुषं तस्माद्योग्यतया तं तं शालिनं प्रति स स प्रयोगभेदस्तयैव तयैव शाखया विधीयते । अन्यथा शाखान्तरवैयर्थं स्यात् । ज्योतिष्टोम इत्यग्निष्टोमादिषट्संस्था गृह्यन्ते । विधी- यत इत्यनुवर्तनीयम् । तत्रैकस्य कर्मणोऽनेकैदैविधानमयुक्तमन्यतराप्रामाण्यप्रस. ङ्गात्कर्तृसांकर्यधर्मसांकर्यापत्तेरनियमापादकविध्यानर्थक्याच्च । तत्परिहाराय *चकार- र्व्यवस्थितविकल्पो दर्शितः । ज्योतिष्टोमशब्देन साङ्गस्य कर्मण एकदेशभूतानि प्रधानाङ्गकर्माण्युच्यन्ते । अतस्त्रयोंऽशास्त्रिभिदैः प्रत्येकं सर्वेश्चतुभिर्विकल्पेनकोऽ. शो विधीयत इति चत्वारोंऽशा हौत्रमाश्वर्यवमौद्गात्रं ब्रह्मत्वं चैकमेवैकोऽशश्चतुर्थ- श्चतुराननमुखेभ्यः प्रागादिमुखक्रमेणोत्पन्ना इति भागवतादौ प्रसिद्धमुक्तम् । यद्यप्य- धिकारिविधयोऽनेकत्र चतुर्वपि वेदेषु श्रूयन्त इति सांकर्य तथाऽपि उत्पत्तिविनियोग- विधी तु प्रतिनियतावेव शस्त्रादिमन्त्राणामुत्पत्तिविनियोगाहग्वेद एव ग्रहह्मणादिम- त्राणां यजुर्वेद एव स्तोत्रादिमन्त्राणां सामवेद एव । यदपि व्यत्ययेन श्रूयते न तु तत्त. द्वेदविहितेषु कर्मसु प्रतिनियतेषु तदनुवादेन गुणमात्रविधानेऽपि गुणिविधायकवेदवि- हितत्वमेवेति न सांकर्यम् । मन्त्रोत्पत्तौ वेदान्तरस्थायां येन वेदेन विनियोगस्तद्वेदविहि- तत्वेन प्राधान्यमिति च न्यायशास्त्रनिर्णयोऽतो न सांकर्यम् । ब्रह्मत्वं तु समानमेव चतुर्वेिदविहितमिति न ज्ञायते क गुणविधिः क्व प्रधानविधिरिति विकल्प एव व्यव- स्थितः । एवं विकृतिष्वपि ज्ञेयम् ।

ऋग्वेदयजुर्वेदाभ्यां दर्शपूर्णमासौ ।

संदरित्यप्यनुवर्तते । ऋग्वेदेन सामिधेन्यादि यजुर्वेदेनान्वाधानादि सर्बह्मत्वम् । यथा चतुभिब्रह्मत्वं ज्योतिष्टोमे विधीयत एवं चतुर्दिर्शपूर्णमासयोरपि । ब्रह्मत्वप्राय- श्चित्तविधानार्थमेवाऽऽथर्वणिकैः सूत्र प्रणीयते । यथैतरैत्रिभिरपि सूत्रकारैः प्रत्येक ब्रह्मत्वं दर्शपूर्णमासयोज्योतिष्टोमे चैवमाथर्वणिकरपि प्रणीयत इत्युपलभ्यत एव । ज्योतिष्टोमे त्वृग्वेदादिभिः प्रत्येकं बहुतरं विविक्तं विधीयते हौत्रादिकं ततोऽसमस्तनि- देशः । दर्शपूर्णमासयोस्तु निगदा याजुर्वेदिका एव तयोविकृतिष्वपीति यजुर्वेदस्य भूय: स्त्वेनाभिधानात्स्वतन्त्रहौत्रविधानसापेक्षयोः समासेन ग्रहणमृदयजुर्वेदाम्यामिति ।

• एतडीकानुरोधेन सूत्रे चकाराः स्युरिति भाति । १ ख. च. छ. 'न्ते । तत” । २ क. ग. 'त्पन्न ।३ क.ग. च. छ. चैवं चाऽऽथ । . 9 - २२ सत्यापाढविरचितं श्रौतसूत्र- [१प्रथमप्रने-

यजुर्वेदेनाग्निहोत्रम् ।

अन्यत्र गुणं विधातुमनुवादः प्रधानस्य । यहूनामङ्गानां यजुर्वेद एव विधा. नात्तदाधानपिण्डपितृयज्ञदविहामहोतृविनियोगानामुपलक्षणम् । यद्यप्यत्र ब्रह्मत्वमा- धानेऽस्ति तथाऽपि तस्य याजुर्वेदिकत्वमेव । यद्यप्यन्यैरुक्तं ब्रह्मत्वमाधाने तदपि यजुर्वेदविहिताधानब्रह्मत्वे गुणविधिमात्र नेतरब्रह्मत्ववत्समविकल्पेन । अन्ये केचित्कर्म- विशेषा इतरवेदविहितास्तत्र तत्र श्रूयमाणाः प्रतिनियता एव सन्तीति तदर्थमेवाऽऽचा- यण प्रयत्नो न कृतः । अग्निहोत्रं गुणविध्यर्थमन्यत्रापि श्रूयते तदेवर्वेदगुणक विशे- षेणग्वेदमूत्रेऽपि दर्शितं याजुषमेवैतदर्थ यजुर्वेदनाग्निहोत्रमिति नियमितं दर्विहोमाना- मुपलक्षणम् । यज्ञं व्याख्यास्याम इति प्रतिज्ञायाग्निहोत्रं यजुर्वेदेनेत्ययक्षरूपस्याग्निहो. त्रस्य प्रदर्शनं यज्ञशब्दस्योपलक्षणार्थत्वप्रदर्शनार्थम् । वेदैविहितं श्रौतं प्रकीर्णकश. दैविहित लौकिकमिति मुख्यामुख्यवेदविमागस्तद्विहितकर्मविमागभार्थादुक्तः। न हि यज्ञशब्देन श्रोतं स्मार्त कर्म प्रतिज्ञाय तत्र वेदैविधीयत इत्युक्त्वा ज्योतिष्टोमदर्शपूर्णमा. साग्निहोत्राण्येव वेदैविधीयन्त इति वक्तुं शक्यम् । ननु चतुर्णामपि वेदानां ज्योतिष्टोमदर्शपूर्णमासानिहोत्रेष्वेव प्रमाणत्वेनोपक्षीणत्वा- स्कोऽशोऽवशिष्यते, यौ चामुख्यौ वेदी प्रमाणं लौकिकेषु न हि तदन्यो वेदोऽस्ति, योऽन्ययोरमुख्ययोर्मुलं स्यादित्याशङ्कय मुख्यवेदत्वोपाधिना ज्योतिष्टोमादिष्वेव प्रामाण्यं तदेकदेशेन प्रत्यक्षेण तदनुमितेन वा विधिवाक्येनाप्रवृत्तप्रवर्तनात्मकत्वेन विधियोपा- धिना सर्वकर्मसाधारण्येन प्रामाण्यमिति वक्तुं स त्रिपिवेदौषधीयत इत्येतन्याचष्टे-

विधिलक्षणानि कर्माणि ।

विधिलक्षणमसाधारणं प्रमाणं येषां तानि यज्ञोपललितानि कर्माणि तथा विधि- शब्दो यद्यपि प्रवर्तनासामान्यवाची तथाऽपि वेदैविधीयत इत्युक्त्वा विधिलक्षणानीति वदति । ततो ज्ञायते वेदैकदेश एव विधिरिति । स चैकदेशो यद्यपि विधितत्प्रत्यययो- रभेदविवक्षया प्रत्ययमात्रमागच्छेत्तथाऽपि न तावता साध्यसाधनेतिकर्तव्यतारूपे कर्मणि प्रामाण्यम् । यद्यपि प्रत्ययेऽन्वितानेकार्थाभिधायकत्वेन संसृष्टभावनाबोधकत्व- मस्ति तथाऽपि वैशेषिकपदैविना न पुरुषं प्रवर्तयितुमीष्टे । अतो वाक्यमेवात्र विधि- प्रत्ययान्तपदयुकं गृझते । उक्कं च वार्तिकाचार्य:-'किमाद्यपेक्षितैः पूर्णसमर्थः प्रत्ययो विधौ । तेन प्रवर्तकं वाक्यं शास्त्रेऽस्मिन्नोदनोच्यते । इति, 'नोदना चोपदेशश्च विधिश्चैकार्थवाचकाः' इति , 'भावनैव च वाक्यार्थः स्वकारकविशेषिता' इति च । - , १ क. ग, छ. 'होम। १०पटळ:] महादेवकृतवैजयन्तीव्याख्यासमेतम् । २३ तस्मात्प्रवर्तकं वाक्यमेव विधिरित्युक्तम् । ततस्तु विदधातीति कर्तृव्युत्पत्त्या वाक्य- स्यैव प्रवर्तनाव्यापारवत्तया तथा प्रवर्तकत्वेन प्रमाणतोक्ताऽपौरुषेयत्वेन । अनेन च निर- स्तसमस्तपुरुषदोषाशङ्कस्यात एव स्वतो बोधकस्य प्रवर्तकतया यत इष्टसाधनताबोध. कस्यापूर्वद्वारा स्वेष्ट ननकतोक्ता । लक्षणशब्देन चासाधारण प्रमाणमित्युक्तम् । तेन न प्रत्यक्षादिप्रमाणमाह्यत्वमित्युक्तम् । न हि कर्तव्यत्वेनोपदिष्टस्य साध्यैकत्वमावस्य कर्मणो रूपं प्रमाणान्तरगम्यं भवेत् । उपपादितमेतत्सत्संप्रयोगे पुरुषस्येन्द्रियाणामित्या- दिना तर्कपादे । अत एव यदृझते प्रत्यक्षादिना रूपं न तद्विधेयस्य धर्मस्यापि तु श्रेयः- साधनत्वेन धर्मत्वमित्युक्तं भवति । उक्तं च-'श्रेयःसाधनता हटेषां नित्यं वेदारप्रतीयते । ताशे तत्र धर्मत्वं तस्मान्नेन्द्रियगोचरः' इति । तथा 'द्रव्याक्रियागुणादीनां धर्मत्वं स्थापयिष्यते' इति । अत्र पालनस्यापि विधिलक्षणत्वं वक्तुं धर्मशब्दो न प्रयुक्तः । मीमांसका हि प्रवृ- विलक्षणस्येव धर्मत्वमाहुः । स्वमते तु पालनस्य च धर्मत्वमेव पालनप्रचुरेषु कर्मसु सामयाचारिकान्धर्मान्व्याख्यास्याम इति प्रयोगदर्शनात् । तथाचापूर्वस्यापि धर्मत्वं प्रसिद्धम् । तस्य विधिलक्षणत्वं मा भूदिति यश्चादियों न स चोदनार्थ इति न्यायात्त- दर्थ कर्मग्रहणम् । एवं पालनस्यापि श्रेयःसाधनताऽस्त्येव विधिबलेन । अनिष्टप्रागमा- वपरिपालकत्वं च निषिद्धक्रियाप्रतिबन्धारिति । तथा च विधिलक्षणान्येव कर्माणि न प्रत्यक्षादिविषयाणि साध्यैकस्यमावतया श्रेयःसाधनत्वेन कर्मत्वापरपर्यायधर्मत्वात् । तथा चाऽऽयतौ श्रेयःसाधनता । कर्माण्येव विधिलक्षणानि न ब्रह्म सिद्धत्वेन प्राप्यतया फलत्वात् । न च फलं विधेयं, तदुक्तम्- 'फलांशे भावनायास्तु प्रत्ययो न विधायकः' इति । विधेस्त्रिविधस्यापि कल्पिताकल्पितसाधारण्येनकाकारत्वेन तद्गोचरस्थ कर्मणोऽपि श्रेयःसाधनत्यनकरूप्येऽपि कर्माणीतिबहुवचनं श्रौतस्मातसामयाचारिकाणामवान्तर- भेदप्रदर्शनाय । तत्र श्रौते काण्डे 'अग्नीपोमीयमेकादशकपालं पूर्णमासे प्रायच्छत् । इत्यादिषु कल्पितविधीनां श्रौतकाण्ड एवान्तर्भावः । तत्रानुमितेनैव श्रेयःसाधनता विधे. येति नियमोऽध्ययनविधिनैव ज्ञापितः । एतादृशेषु स्थलेषु नित्यानुमितविधिस्वीकारेऽपि न दोषः । अथवा शाखान्तरीयाणामेव विधायकानामनुमानम् । आलभेत निर्वपतीत्या- दिषु प्रत्यक्षाविधीनां शाखान्तरीयाणां दुर्लभत्वादनुमितविधित्वमेव न वयं नित्यं मन्त्र- ब्राह्मणात्मकं वेदमनुमीमहे । एवं च प्रकीर्णककाण्डद्वयेऽपि तत्तच्छन्दबलात्कस्सितस्य विधेस्तत्रैवान्तर्मावो ज्ञेयः । वेदत्रयविभागार्थ मुख्यवेदत्वं व्याचष्टे- १ख.छ. शेन चध'। २छ. नाप्येक। २४ सत्याषाढविरचितं श्रौतसूत्रं- [१प्रथमप्रश्ने-

मन्त्रब्राह्मणयोर्वेदनामधेयम् ।

यद्यपीदमुक्त्वा पश्चाद्विधिलक्षणानीति वक्तव्यं सामान्यपरं तथाऽपि ब्राह्मणस्य विधि- त्वेन वक्ष्यमाणत्वाद्विधिलक्षणानीत्येवाऽऽदावुक्तम् । मन्त्रश्च ब्राह्मणं चेतीतरेतरयोगद्वंद्वे- नेतरेतरयुक्तत्वेन पठिते ते एवैको वेदो न तु यः कश्चन मन्त्रो यत्किचिदाह्मणमेको वेदो भवति । अत्रोद्देश्यगतं द्वित्वमविवक्षितम् । नाको मन्त्र एक ब्राह्मणवाक्यमेको वेदो ज्योतिष्टोमादीनां हौत्राककांशविधायकं मवति किं त्वनेकानि, प्रत्येकमेकैक- स्मिन्द्वयोर्द्वयोरध्ययने वेदोऽधीत इत्यप्रसिद्धः । नापि यत्र-ब्रामणग्रन्थत्वेन प्रसिद्धिस्तद्रा- सणं तदन्यो विमागः संहिता मन्त्र इति द्विवचनोपपत्तिरिति वाच्यम् । कर्मविधान ब्राह्मणानीति संहितागतानामपि विधायकवाक्यानां बाह्मणत्वेन लक्षितत्वात् । संहिताव्य- तिरिक्ते ब्राह्मणान्थे मन्त्राणां ब्राह्मणव्यतिरिक्तत्वेन मत्रत्वस्येष्टत्वात् । तस्माज्जात्य- भिप्रायेण द्विवचनम् । ब्राह्मणग्नन्थे या प्रसिद्धिाह्मणमिति [सा] बहुतरमाह्मणा- भिप्रायेण। अत एवोक्तं मन्त्र ब्राह्मणयोदस्त्रिगुणं यत्र पठ्यते । यजुर्वेदः स विज्ञेयः, इति । संहितागतानामपि त्रिगुणपठितानां ब्राह्मणत्वप्रसिद्धः । तस्मान्मन्त्र ब्राह्मणसमुदाय कग्रन्थत्वेन पठितो वैदिकैः स एको वेद एक पुरुषं प्रति । तथाऽन्य प्रत्यपि सामा- न्येन लक्षितः सर्वोऽपि वेदराशिदलक्षणशाखासमुदाय एव । उपपादितमेतत्प्रथम- सूत्रे कारिकाभिः । ततोऽन्यस्य त म्य एव शाखाभ्य उद्धृतस्य ब्राह्मणस्य मन्त्रस्य वा ज्योतिष्टोमादिषु हौत्राद्यविधायकस्य होत्रादिभिरप्रयुज्यमानस्य न वेदत्वम् । यत्रा- ध्ययनं तत्रासंबद्धानामपि मुख्यवेदान्तर्गतिः । अन्यत्रामुख्यवेदान्तर्गतिः । अत एवं वक्ष्यति वैदिकानां शब्दानां स्मृतिग्रहणानि लौकिकानोति । पूर्व वेदावयवत्वेन पठि- तानां शब्दानामुद्धतानां न वेदावयवत्वं किंतु वैदिकशब्दत्वमेव । तेपाममुख्यवेदत्वेन लौकिककर्मणि विधायकत्वमिति स्मातकर्म वेदाविहितत्वेनाश्रौत लौकिक वाच्यते । उक्तमेव स्मारितम् । यावतार्थोपरमत इति प्रत्येकं वाक्ये मत्रत्वमुक्तं तेषां जात्ये- कवचनम् । बाह्मणत्वमपि वाक्य एव । अतोऽसौ विधायकत्वेन च वेद इति भावः । अत्र मन्त्रब्राह्मणयोर्लक्षणे अनुक्त्वैव तन्निरूपितवेदशब्दार्थ वदति तत्प्रसिद्ध्यैव वैदिकानां लक्षणे ज्ञातव्ये प्रकारान्तरेण दुर्निरूपत्वादिति सूचितवान् । यान्यपि लक्षणानि वक्ष्यन्ते तान्यव्यापकान्यतिव्यापकानीत्यमिप्रायः । एवं च प्रथमसूत्रद्वयेन त्रिविधकर्मसाधारण्येन प्रतिज्ञाविधायके दर्शिते । ततो वैतानिकौतकर्मविभागेन मुख्यवेदविहितत्वं दर्शितमर्थात्तदितरत् । प्रमाणमुदाहृतम् । इदानी वेदैकदेशस्य लक्षणमाह- ततः सर्वकर्म- छ. नाप्येको। २५ १५०पटलः महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

कर्मविधानं ब्राह्मणानि ।

कर्म विधीयते पेन तत्तथा, विधिर्वाक्यमित्यर्थः । विधिलक्षणानीत्यत्र कर्तृत्वं विव- क्षितमकल्पितकल्पितप्रत्ययवद्वाक्यविवक्षयेह कल्पितस्य न ब्राह्मणत्वप्रसिद्धिः । तस्मात्कल्पिताकदिपतताधारण्येन विधिप्रत्यपद्वारा यद्विधानं तदाह्मणं, तेन विधिप्रत्य- यहीनस्यापि विधिकल्पकत्वेन विधायकत्वादस्ति ब्राह्मणत्वमिति भावः । तस्मात्कल्पिता. कल्पितविधिमत्तया प्रवर्तकत्वमविशिष्ट मेवेति दर्शथितुमेकवचनम् । ब्राह्मणानीति बहुवचन विधिप्रत्ययवद्वाक्यानां कल्पितविधिप्रत्ययवाक्यानां तवाऽर्थवादकल्पितविधिप्रत्ययवा तयाऽर्थवादानामपि ब्राह्मणत्वमेवेति दर्शयितुं, पहुवचनं नानाप्रकारत्वख्यापनार्य । शब्दानिष्ठे व्यापारे शब्दप्रतिपाये शब्दभावनापरपर्याये ज्ञानरूपे वा विधित्वं नान्यत्र । तचापौरुषेये वेद एव भवति । अनधिगतार्थत्वेन च प्रामाण्यमपि पैङ्ग्योपनिषदि ब्राह्मणे णेब्राह्मणत्वप्रसिद्धेर्यद्राह्मणं तत्कर्मविधानमिति तत्राव्याप्तेः । अथ सामान्यलक्षणं प्रमाणं ब्राह्मणं तद्वेधा सिद्धार्थ कर्मविधानमिति । तथा श्वेताश्वतरोपनिष- मन्त्रे ब्राह्मणत्वं स्यात् । अतोऽन्ये मन्त्रा इत्यनेन मत्रत्वं न संगच्छते तस्य ब्राह्मणा दन्यत्वामावात्। तस्माद्यत्र बामणत्वप्रसिद्धिस्तद्राह्मणम् । तस्मानानर्थो ब्राह्मणशब्दः । तत्र कर्मकाण्डोपयुक्तस्येदं लक्षणम् । मन्त्रेष्वप्येवम् । तत्र कर्मकाण्डोपयोगिनि मन्त्रेड- तोऽन्ये मन्त्रा इति स्वरूप, तेषां यज्ञकर्मार्था मन्त्रा इति लक्षणम् । उपनिषत्सु मत्रत्व- ब्राह्मणत्वे तु प्रकारान्तरेण लक्ष्ये, तयोः सांकर्यमप्यङ्गीकार्यमिति । अथवा श्रोतव्य- इत्यादिविधीनामेकवाक्यतां गतानि ब्राह्मणलक्षणलक्षितान्येवोपनिषद्वाक्यानि, ब्रह्म संस्कार्य फलं च, संस्कार्यफलं हि विधावुद्देश्यं व्यंशभावनाया विधेयत्वात् । न ब्रह्मणो विधेयत्व, संस्कार्यफलांशे प्रत्ययस्याविधायकत्वात् । तदुक्तं-'फलांशे भावनायास्तु प्रत्ययो न विधायकः' इति । तथा संस्कार्यमप्यद्देश्यत्वेनानुपादेयत्वादविधेयम् । तथोक्तं-'देशः कालो निमित्तं च फलं संस्कार्यमेव च । मीमांसाकुशलाः प्राहुरनुपादेयपञ्चकम् ' ॥ इति । ननु तहि कथंकार वेदान्तानां विधित्व निराकृतम् । विधेयज्ञानविषयत्वामायनेति ब्रूमः । नाङ्गी क्रियते च ज्ञाने विधिः । तथा वक्ष्यत्याचार्यः । आत्मलाभात्परं नास्ति' इति । लब्धस्य लाभो ज्ञानेन प्रमाणजन्यनैवेति न विधिरिति तत्रैव स्फुटयिष्यते । तस्मात्फलत्वेनोपात्तस्य स्वरूपकथनपरा बेशन्ता अपि विध्यपेक्षितसंस्कार्यफलसमर्प. कत्वाहामणवाक्यमिति संक्षेपतो निरूपितं ज्ञेयम् । अत्र वेदान्तजन्यं ज्ञानमेवोद्दिश्य- थाभावनासंभावितभावनाविपरीतभावना निवर्तयति । श्रवणादीनि कर्माणि विधे यानि । १. “य ब्राह्मणश'। २ क ग. स्कार्य की ३ क. ग. च. छ. कारण ३ र क.ग. क्षेत्र । ५ स.निवर्तयन्ति । छ. निवर्तयति। - २६ सत्याषाढविरचितं श्रौतसूत्र- [१प्रथमप्रश्ने- ननु श्रवणादिविधिशेषत्वे कथं वेदान्तानां सिद्धार्थत्वमिति चेत् । उच्यते-न वयं विधिशेषत्वेनैकवाक्यत्वं ब्रूमः किं तु विध्यपेक्षितशेषित्वेन । तथा च शेषिणः फलस्य ब्रह्मणो बोधकं महावाक्यं सिद्धार्थपरमेव । ननु तहिं स्वर्गादिफलसमर्पकमप्यवान्तर - वाक्यं सिद्धार्थमेव भवेत् । भवतु का हानिः । नन्वेवं सत्यसाधारण्येन व्यपदेशः कथ- मिति चेत् । उच्यते-यंत्र सिद्धार्थप्रतिपादकवाक्यजनिता प्रमा न कङ्गिं तत्र तज्ज्ञानमेव सुखसाक्षात्काररूपत्वेन पुरुषार्थस्तद्वाक्यं सिद्धार्थ कर्माङ्गज्ञानाजनकत्वात् । सिद्धमर्थमेव प्रतिपादयदेव परमपुरुषार्थे पर्यवस्यतीति प्रधानभूतं सुतरां सिद्धार्थम् । श्रवणादिविधायकं तु स्वोद्देश्यप्रतिपादकेनैकवाक्यतां गतं, तस्य च कर्मविधानं ब्राह्म. णमितिलक्षणलक्षितत्वेऽपि न दोषः । तेषु कुत्रचिन्मन्त्रत्वप्रसिद्धावपि तदितरमन्त्राणां मन्त्रत्वं सिद्धं, तस्यापि मन्त्रत्व प्रकारान्तरेणोपपादनीयमित्यलमतिविस्तरेण । 'ज्योतिष्टोमेन वर्गकामो यनेत' इति वाक्ये यद्यप्युद्देश्यवर्गपदार्थप्राधान्ये सिद्धा- र्थता तथाऽपि सिद्धार्थप्रतिपादनमात्रेणापुरुषार्थपरत्वाजायमानमपि ज्ञानं कर्मानुष्ठानस्यो- त्तरभाविनोऽङ्गमेवातोऽनुष्ठेयज्ञानजननप्राधान्यान्न तसिद्धार्थम् । अत एवार्थवादेषु सिद्धार्थत्वमाशय पुरुषार्थापर्यवसानेनाप्रामाण्यं स्यादिति पुरुषार्थपर्यवसायिविधि- पाक्यैकवाक्यतया प्रामाण्यमाह-

तच्छेषोऽर्थवादः।

तस्य विधायकस्य शेषो विधिनैकवाक्यत्वं गच्छंस्तद्वारा विधिविषयभावनाप्रवर्तकना- ह्मणवाक्यशेष इति भावः । तदुक्तं-विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः । विधीनां विधेयमावनानां यदाऽध्ययनविधिविधायकवाक्यानि पुरुषं प्रवर्तयेयुरिति प्रेरयेत्तदा विधायकवाक्यगतशब्दभावनापेक्षितविधयार्थभावनागतप्राशस्त्यलक्षणकरणे- तिकर्तव्यतासमर्पकत्वेन विधायकवाक्यैरर्थवादा एकवाक्यत्वं गच्छन्तीत्यर्थः । अर्थवाद इत्येकवचनमेकाकारतयैवैकवाक्यत्वं सर्वेषामप्यर्थवादानामस्तीति ज्ञापनार्थम् । द्वारं तु तेषां शब्दादेवावगम्यते । ये तु न स्वार्थविवक्षयाऽर्थ वदन्ति किंतु परप्रशंसाथै तेऽर्थ- वादा इति प्रसिद्धम्। ननु विधेयस्तुतिद्वारेण प्रशंसार्थानां भवत्वेकवाक्यता येऽन्यनिन्दा कुर्वन्ति ते कथमेकवा- क्यतां विधिना गच्छन्ति 'ब्रह्महत्यायै धेषा वर्ण प्रतिमुच्याऽऽस्ते' इत्येवमादयः। न च तेषां निषेधेन सहकवाक्यतेति वाच्यम् । 'कर्मविधानं ब्राह्मणानि' इति निषेधस्य पृथग. स्वीकारात् । अत एवाऽऽचार्यः सर्वत्र कर्मशब्दं प्रयुते । निषेधैष्वपि निवृत्तिभावना. पर्यायस्य कर्मण एव विषयत्वेनाभिप्रेतत्वात् । अन्यथा विधिलक्षणो धर्मोऽर्थात्प्रतिषे. धलक्षणो ह्यधर्मः स्यात् । तथा च धर्माधर्मयोः प्रमाण-ब्राह्मणमिति सूत्रयेत् । नच १क, ग. छ. "कर्तव्यति। १प्र०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । तथा । तस्मात्सर्वत्र भावनाया एव विधायकमेव ब्राह्मणं न च ते नापेक्ष्यते । किच नहि सर्वत्र निन्दार्थवादविषयेष्वनिष्टत्वावेदकः प्रतिषेधोऽस्ति । न च निन्दया कल्प्यः। विहितेषु निषेधस्यानिष्टसाधनतावेदकस्यासमवात् । नहि 'यदिते सूर्ये प्रातर्जुहुयात् । यथाऽतिथये प्रद्रुताय शून्यायाऽऽवसथायाऽऽहार्य हरन्ति । ताहगेव तत्' इत्यादीना निन्दार्थवादानां कल्पिता अनिष्टसाधनत्वावेदकाः प्रतिषेधाः सन्ति, विहितेषु विद्यमाना या कथमनिष्टसाधनतामावेदयन्ति, येन निन्दार्थवादानामेकवाक्यता स्यात् । तदुक्तं भट्टाचार्यैः-'यद्यपि स्याद्विधिस्पृष्टे निषेधो नैव तादृशः। विज्ञायते ह्यनर्थत्वं षोडशिग्रहणादिवत् ॥ इति । तादृशान् वानर्थत्वं विज्ञायत इत्यन्वयः । तस्मानिन्दार्थवादा नान्तर्भवन्ति विध्येक- वाक्यत्वाभावादित्याशझ्याऽऽह-

निन्दा प्रशंसा ।

या निन्दा निन्दकं वाक्यं सा प्रशंसैव प्राशस्त्यसमर्पणपरैव । विधिषु प्रतिषेधेषु वा यत्किंचिनिन्दया प्रवर्तते वाक्यं तत्सर्व विधेये धर्मे प्रवृत्ते निवृत्ते वा प्राशस्त्यपरमेव । तथोक्तं शवरस्वामिभिः 'नहि निन्दा निन्द्यानिन्दितुं प्रवर्ततेऽपि तर्हि विधेयं स्तोतुम्' इति । तस्मात् 'न पृथिव्यां नान्तरिक्षे' इत्याद्यर्थवादानां सिद्धं 'हिरण्यं निधाय चेतन्यः । इत्यादिब्राह्मणैकवाक्यत्वम् । इदानी केषांचिद्वाक्यानामर्थवादत्वेन व्यवहताना स्वार्थंकनिष्ठतया विधेयकर्तृविशेष- समर्पकत्वेन व्यापकं तच्छेषत्वमित्याशझ्याऽऽह-

परकृति: पुराकल्पश्च ।

प्रशंसत्यनुवर्तते । परकृतिपुराकरुपौ प्रशंसव न विधायको कर्तृविशेषस्य । तद्यथा 'अत्रिरददादौर्वाय' 'जमदग्निः पुष्टिकामः' एवमादयः । एकेन परेणान्येन तद्भगोत्रोद्भवेन का कृतं कर्म परकृतिस्तत्प्रतिपादकानां विशिष्टानां वाक्यानां परकृतीना, तया 'अङ्गि- रसो वै सत्रमासत ' इतिप्रभृतीनामनेककर्तृकाणां पुराकल्पानां न तत्तद्गोत्रजकर्तृत्ववि वै धायकत्वं किं तु एतौ प्रशंसैव प्रशंसापरावेव । अत्र केचित्सकर्तृकमात्र परकृतिम् 'आपो वा इदमने सलिलमासीत् । इति, पुराकल्पं च कथनमात्रमाहुः । तत्र ये पुराकल्पा एव सन्ति न तत्र विधिः श्रूयते । तेषु ब्राह्मणैकवाक्यत्वं न संभवतीत्याशय पुरा- कल्पोऽपि प्रशंसा । तस्मात्तदेकवाक्यत्वाय विधिः कल्पनीयस्तेनैवैकवाक्यतेति परि- हारः । चकारेण 'त्वष्टा हतपुत्रो वन्द्रिम् ' इत्यादीनां यदग्नीषोमीयादिविधिकश्पकरवं तच्छेषत्वं प्रदर्शयति । अस्मिन्पक्षे परकृतेः प्रकारान्तरत्वेन पृथग्ग्रहणं युक्तम् । पुसकल्पग्रहणमप्रयोजक विधिकल्पकानां नानारूपाणामर्थवादानां चैतेनैव चुकारेण ग्रहणं स्यादिति । तथाऽपि नानानामभिर्व्यवहिपमाणानां पृथक्त्वाशङ्कानिवृत्त्यर्थ- वेिन सप्रयोजनतेति व्याख्येयम् । केचित्तच्छेपोऽर्थवादो निन्दा प्रशंसा परकृतिः . - । २८ सत्पाषाढविरचितं श्रौतसूत्र- (१प्रथमप्रश्ने- पुराकल्पश्चेत्येव सूत्र ज्याचक्षते । शेषस्य विभागोऽर्थवादादिः । तत्त्वर्थवादादीनां परस्पराव्यावृत्तस्पेन विभागः कथं स्यानिन्दाप्रशंसे अर्थवादविशेषौ भवेयातां यथाकथं. चित्तथाऽपि परकृतिपुराकल्सौ न निन्दाप्रशंसयोाप्तौ तौ विशेषाविति तव्याख्यान पदार्थमात्रमाचष्टे न सप्रयोजनत्वमिति । क्रमप्राप्तं मन्त्राणां प्रामाण्यं वर्नु स्वरूपमाह-

अतोऽन्ये मन्त्राः।

विधायकाद्रामणात्सार्थवादादन्ये वेदावयवाश्च मन्त्राः सन्तस्तच्छेष इति पूर्वतनम- नुवर्तनीयं प्रामाण्याय । प्रमाणस्य शेषः प्रमाणमेव । ' वसन्ताय कपिझलानालभते । इत्यस्य मन्त्रवशायां माह्मणान्यत्वेऽपि विदिशायर्या विधायकत्वेऽपि न दोषः । मीमांसकैः शक्तिद्वयाङ्गीकारात् । ते च वैतानिकावैतानिकप्ताधारण्येनैव लक्षिता विविधा एव । मन्त्रं मे गोपाय प्रचो यनॅषि सामानि । इति श्रुतेः । निगदस्या- तर्भावोऽप्युक्त एवं नैमिनिना । एवं च मन्त्राणामपि विधिशेषत्वाद्वेदैविधीयत इत्युक्त तत्समर्थितमेव । सत्र कथं विधिशेषत्वमिति द्वाराकाङ्क्षायां यज्ञकर्मार्था इत्यनेन द्वारं वक्ष्यते । मन्त्रवरप्रयोगका प्रयुज्यमानत्वेन मत्रत्वाशङ्कायामाह-

लौकिकाः प्रयुज्यमाना अमन्त्राः।

स्वाध्यायाध्ययनविधिना नाध्यापिताः ।

यथा पुत्रस्य नामधेयं दुन्दुभिशब्दश्च ।

नाव नामधेयं, दुन्दुभिशब्दो दृष्टान्तः । चकार इवार्थे । दुन्दुभिशब्देन स्तोत्रमु- पाकरोतीति । यथाऽव्यक्तशब्दस्य कङ्गित्वेन विहितस्यापि न मन्त्रत्वमेवमर्थक्तोऽपि पूर्वोक्ताद्धेतोर्न मन्त्रत्वमित्यर्थः। वेदैकदेशस्य ब्राह्मणस्य कर्मणि प्रामाण्यमभिधाय वैदैकदेशस्य मन्त्रभागस्य प्रामाण्यं वकुं मन्त्राणां बामणविहितव्यंशभावनाङ्गवं व्याचष्टे-

यज्ञकर्मार्था मन्त्राः।

यज्ञशब्देनोपशक्षितानि विधेयानि कर्माणि, तान्येव लक्षितानि विधिलक्षणानि कर्माणीत्यनेन, तथा च पौनरुक्त्यम् । तस्मादेवं व्याख्येयं यज्ञशब्देन सर्वाणि विधेयानि कर्माणि गृह्यन्ते । तेषां कर्म क्रियोत्पत्तिरिति यावत् । तत्कर्मार्थो येषां ते तथा । विधिना प्रमितमात्र न हि श्रेयःसाधनं ब्रह्मवत् , किंत्वनुष्ठितं च । अतो यज्ञानुष्ठान प्रयोजनमेषाम् । ननु वेदैविधीयत इत्यनेन विधिमन्त्रात्मकवेदस्य प्रामाण्यमुक्तम् , अतोऽनुष्ठानं प्रतिपाद्यं येषां ते तथा, अर्थप्रतिपादनेन प्रामाण्यं भविष्यतीति चेत्, न । विधिमिरवानुष्ठानमपि बोधितं कर्मणि कर्तव्यत्वावेदनेन प्रमाणत्वात् । तस्मा- ख. प्राप्तम। १० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । द्विहितः कममिरुत्पत्तिरेवापेक्षिता । सा मर्जन्यत्वेन प्रयोजनमित्येव युक्तम् । मन्त्राणां विहितानुवादिनामेवोत्पादकत्वात् । यज्ञस्योत्पादकत्वेन संनिपत्योपकारकत्वेनाङ्गतोक्का भवति । तथोच्चारणमात्रेण नाङ्गता । दृष्टार्थाध्ययनविधिबलान्मन्त्राणामर्थावबोधपर्यः वसायिताऽवगता । मन्त्रा हि दृष्टार्याध्ययनविध्यध्यापिताः किमस्माभिः पुरुषसमाहित दृष्टं जन्यमित्याकाक्षमाणा अध्ययनविधिना यच्छक्यते दृष्टं येन जनयितुं तेन तज्जन्य- मिति चानुज्ञाता मन्त्राः स्वार्थप्रकाशनमात्रमेवास्माकं जन्यत्वेन शक्य तज्जन्यम- स्माभिः । तच्च कथं दृष्टद्वारा पुरुषसमाहितसाधनं स्यादित्याकाक्षमाणास्तिष्ठन्ति । तत्र जपस्तोत्रशस्त्रकर्माणि चाथ प्रतिपादनरूपाणि विहितानि । तत्र ये समर्थी जपस्तोत्रश. स्त्रमन्त्रास्तदुत्पादनमात्रेणानत्वं गताः सप्रयोजनाः सन्तो निराकाङ्क्षा जायन्ते । अन्ये मन्त्रास्तु स्वार्थावबोधकत्वमात्रेण न निराकाङ्क्षाः। स्वार्थावबोधनस्य विधिना समोहित. साधनत्वेनाविधानात् । एवं च कथमजिनामुपकारो दृष्टोऽस्माभिः कर्तव्य इति साकाक्षा- स्तिष्ठन्ति । तत्राङ्गिनः स्वोत्पत्तये स्मृतिमपेक्षन्ते । न ह्यननुसंहिताः पुरुषेणानुष्ठातुं शक्य- न्ते । तदनुसंधानं यद्यपि विधिवाक्यैर्मवेत्तथाऽपि तेषां कर्तव्यताप्रमाननेनोपक्षीणत्वा- मन्त्राणामानर्थक्यौदृष्टार्थत्वापत्तेश्च मन्त्रेभ्यः स्वाङ्गत्वेन विहितेम्य एव स्वस्मृति ब्ध्वा निराकाङ्क्षा भवन्ति । मन्त्रा अपि स्मृतिद्वाराऽङ्गतां गता निराकाक्षा जायन्ते । येषां स्वत्वावेदको विधिर्नास्ति तेऽपि लिनेन विधि कस्पयित्वा स्वार्थानुष्ठानाङ्गता प्रतिपद्यन्ते विधिविनियुक्तमत्रसाम्येनैकरूप्याय । तत एवाध्ययनविधेर्दष्टार्थत्वेनैक- रूप्यं स्यात् । कचिदृष्टार्थता लौकिकेषु मन्त्रेणुं चादृष्टार्थतेति वैषम्यं स्यात् । ननु जपतेरुच्चारणमा वाच्यं, न तस्य स्वार्थप्रकाशकस्वेन तत्प्रत्यक्षत्वं स्वार्थप्रकाशन- स्थाविधानात् । तदर्थ स्मृतेरपि कर्माङ्गताया अनपेक्षणाचेति चेत् । उच्यते-अध्ययन- विधिदृष्टार्थतालाभाय नपतीत्यस्यैव विधेरर्थप्रकाशनमर्थाद्विधेयं यथा मन्त्रेणेदं कार्यमि. त्यत्र मन्त्रोच्चारणमर्थाद्विधीयते । अपतेश्वार्थानुसंधानेनोच्चारणमध्यभिधेयं मन्त्रोचारण- लक्षणजपेनादृष्टं भावयेन्मार्थप्रकाशनद्वारेति विधौ पर्यवसन्नेऽर्थप्रकाशनभावनाऽपि विधेयेति दृष्टद्वारेणैव यज्ञकर्मार्थता नोच्चारणमात्रेणापूर्वोत्पाद कता किंतु स्वार्थप्रकाशन- द्वारा तेषां दृष्टार्थप्रकाशनमात्रद्वारोचारणासर्वसाधारणाददृष्टं करप्यत इत्यदृष्टार्थ- स्वामिलापो गौणो न तु दुन्दुभ्यादिशब्दस्य स्तोत्रोपाकरणत्ववन्मुख्यः । एवं स्तोत्र- शस्त्रमन्त्राणामपि स्तौतिशंसातम्यां देवतागुणकीर्तनवाचिम्यां विहितस्तोत्रशस्त्ररूपक- मणोः संकीर्तनरूपयोजनकत्वादस्सि ह्येषामपि यज्ञकर्मार्थत्वम् । एवं प्रत्यगाशीमप्रकृतो- पस्थानाभिमन्त्रणानुमन्त्रणाभिमर्शनमन्त्राणामपि ज्ञेयमिदं स्पष्टयिष्यते याजमाने जपतु. १ क. ग. च. धकस्य । २ क. ग. घ. जन्यत्वेऽने । ३ ख. क्याद। ४ क.ग. च. छ. लब्पा । ५ ख, लैहिकेषु । ६ क. ग. प. उ. 'धु वाऽ। , सत्यापाढविरचितं श्रौतसूत्र- [१प्रथमप्र- क्यता च । अप्रत्यगाशर्मिन्प्रकृतोपस्थानादिमन्त्राणां तु यत्र प्रतिपादनमात्रं प्रधान कर्मजन्यं तत्रापि जपतुल्यता यम स्वप्रतिपाद्यं प्रविगुणकर्म तत्रोपस्थानादिनाऽर्थप्रकाश. नरूपेणार्थ संस्कुर्यादिति वाल्यार्थे संस्कार्ये स्वदृष्टः संस्कारो मन्त्रेणार्थप्रतिपादनेन जायते । याज्यादिमन्त्रैर्दषट्कारेण स्वादाकारेण वा देवताद्रव्ययोः स्मृतिर्दृष्टमेव प्रयो- जनम् । द्रव्यदेवतादियज्ञार्थानां लिद्धानामपि श्रेयःसाधनतया धर्मत्वेन साध्यत्वादस्ति तेषामपि यज्ञकर्मत्वमिति सर्वे गन्ना यज्ञाझं यज्ञकर्मार्था इति सिद्धम् । न त्वङ्गत्वं प्रामाण्यद्वारेति किमुक्तम् । नहि बोहोणामङ्गत्वेऽपि प्रामाण्यमस्ति । सत्यम् । ने हि मन्त्राणां शब्दविधया प्रामाण्यं, तथाऽपि नियमविधिरयं मन्त्रा एव यज्ञकर्मार्थी इति । अत एव बौधायनाचार्य:-'मरेव स्मृतमनुष्ठितं श्रेयःसाधनम् ' इति । येषां च मन्त्रा न सन्त्येव तेषां स्मृतिस्तु विधायकम्य एव । न हि वैदिककर्म प्रकारान्तरेणा- नुसंधातुं शक्यम् । ततो गत्यन्तरामावाद्विधायकवेव स्मारकत्वं कल्पनीयम् । यथा 'वसन्ताय कपिचलानालयते । इत्यादिमन्त्रेष्वगत्या विधायकताऽपि कल्प्यते मीमांत- कैरेवं विधायकेषु मन्त्रशक्तिः कल्पिता । न च तेऽपि मन्त्रा इति वाच्यम् । तूष्णी चतुर्थमित्यादौ मन्त्रजितकर्मविधानाग्ज्ञायते विधिस्मारितेषु न मन्त्रस्मारितत्वमस्तीति । अन्यथा किमपि तूष्णीकं कर्म न स्यात् । एवं पालनलक्षणकर्ममु विधिरेव स्मारकः । स्मार्तेष्वपि तूष्णीकेषु तथैव । अत्र संग्रह श्लोका:- कर्मप्रयत्नो धात्वर्थैरनुरक्तो विधीयते । धातुप्रकृतिकर्याच्या प्रत्ययैस्तु विधायकैः ॥ १ ॥ तदङ्ग देवता द्रव्यं यज्ञाविष्टं च कर्म यत् । सैव ध्यंशा मादनोत्ता क्रिया सवोच्यते बुधैः ॥ २ ॥ प्रयत्नस्याभिधा नास्ति स्वरूपेणैव कुत्रचित् । अनुरजकधावर्षदा दोऽवगम्यते ॥ ३ ॥ धात्वबैंक्येऽपि भेदोऽस्ति ह्यभ्यासाद्यैस्तु पश्चभिः । तत्कर्म द्विविधं प्रोक्तमर्थज्ञानमतरत् ॥ ४ ॥ अर्थज्ञानं द्विधैकं तु गुणो यो देवतार्थयोः । संस्कारकं तु तन्मन्त्राः संस्कारार्था इतीरिताः ॥ ५॥ दृष्ट संस्कारका याज्यानुवाक्या अथ हौत्रके । उच्यमाना अदृष्टस्य संस्कारस्याङ्गतां गताः ॥६॥ अर्थज्ञानं द्वितीयं न जन्यते येन संस्कृतिः । प्रधानभूतं तत्तस्य मन्त्राश्चापूर्वसाधनम् ॥ ७॥ १ ख. छ. न म । ३ क. ग. च... प्रयलैस्तु ।... १५०पटळ:] महादेवकृतवैजयन्तीव्याख्यासमेतम् । अपः स्तोत्रं तथा शरूमपूर्वार्थ प्रचक्षते । तद्वारैव च तन्मन्त्रा दृष्टार्था अप्यपूर्वगाः ॥ ८॥ प्रधानगुणभूतस्य ज्ञानरूपस्य कर्मणः । उत्पादकास्तु ये मन्त्रा अकर्मकरणाः स्मृताः ॥ ९ ॥ ज्ञानं सर्व हि मन्त्राणां व्यापारोऽस्प्रिजायते । विहितज्ञानजनका व्यापारान्तरवनिताः ॥ १०॥ व्यापारवद्धि करणमकर्मकरणास्ततः । अर्थशानात्पृथग्यत्तु कर्म नानाविधं द्विधा ॥ ११ ॥ गुणप्रधानभेदेन पूर्ववत्तस्य लक्षणम् । तन्मन्त्राः कर्मकरणा ज्ञानव्यापारवत्तथा ॥ १२ ॥ एवं सूत्रकृता संज्ञाः कृताः स्वव्यवहारगाः । एताभिर्व्यवहर्तव्यं कर्मतन्मत्रयोरपि ॥ १३ ॥ ननु वेदैविधीयन्ते मन्त्रब्राह्मणात्मकैरिति मन्त्राणां विधायकैकवाक्यत्वेन प्रामाण्य- मुपक्षिप्त तत्समर्थनीयम् । अत एवाऽऽपस्तम्बाचार्यः-' मन्त्रब्राह्मणे यज्ञस्य प्रमाणे ' इति । न पाङ्गत्वे दृष्टद्वारा सिद्धेऽपि तोहीणांमिव प्रामाण्यं सिध्यति । उक्त च-प्रयोगवचनो मन्त्रैः सह प्रामाण्यमृच्छति ' इति । प्रयोगवचनः प्रयोगविधिर्मन्त्रैः सह प्रामाण्यं लभत इत्यर्थः । एवं चाङ्गत्वे सिद्धे प्रामाण्ये किमायातमिति चेदुच्यते- दृष्टद्वारा स्थितेऽङ्गत्वे मन्त्राणां वाक्यभावनः । स्मृत्युत्पादेन वाक्यार्थो मन्त्र व प्रभाव्यते ॥ तपाऽपि विहिता मन्त्राः स्मृत्यैवाङ्गत्वमागताः । नतूच्चारणमात्रेणेत्येवमर्थनियामकाः ॥ पदार्थविधया तस्मात्प्रामाण्यमपि लेभिरे । अङ्गत्वं विधिना द्वेषां प्रयोगविधिरूपिणी ॥ विहितानां पदार्थत्वात्स्वप्तामान्नियन्तृता । तथा च नियमज्ञानमन्यतो लम्यमाप्यते ॥ मन्त्रा हि वाक्यरूपा अपि विहितार्थानुसंधानजननसमर्था न स्वार्थे शब्दविधया प्रमाणम् । तथाऽपि स्रवेणावयति हस्तेनावद्यति स्वधितिनाऽवद्यतीत्यादौ विहिता अवि- शेषणापि नियमप्रमामुत्पादयन्त एव सुवेणैव द्रवद्रव्यं हस्तेन कठिनं पुरोडाशादि स्वधितिना च मांसमवदेयमिति स्वसामर्थेनैव स्रवादयोऽपि प्रयोगविधेः सहकारिणोऽ- १ क. ग. च. छ. °वद्विक । २ छ. पाम् । वि । ३ क. ग, च. छ. नैवातो धर्माद। rक, य, च, "णोs

- 2 ३२ सत्यापादविरचितं श्रौतसूत्र- [१प्रथमप्रश्वे- ङ्गरूपत्वेनावाक्यरूपा अपि प्रमाणमित्युच्यन्ते । एवं विनियोगविहितपदार्थतयाऽर्थ- सामर्थेन स्मृतिजनकत्यनाय नोच्चारणमात्रणेति नियमप्रमामुत्पादयन्तो हि प्रयोग- विधिविहितपदार्थविधयैव प्रयोगविधिसहकारिणो भवन्त्येव प्रमाणम् । ननु पदार्थी भपि प्रमाण भवन्तु कुत्र प्रमाणेऽन्तर्भविष्यन्तीति चेत् । वाक्य एवेति ब्रूमः । उक्तं 'चामियुक्तैः-नन्वङ्गत्वेऽपि प्रयोजनमात्र लभ्यते न प्रामाण्यम् । नैष दोषः । पदा- र्थानां वाक्यार्थे प्रामाण्याभ्युपगमादित्युक्त्वा वातिकाचार्यवचनेनापि दृढी कुर्वन्ति 'पार्थसारथिमिश्राः । उक्तं हि पदार्थास्तन्मतिर्वा स्यात् ' इति । एवं वार्तिकसंमति- मुक्त्वोपसंहरन्ति । तेन मना विशिष्टमर्थ बोधयन्तः प्रधानवाक्याथै प्रमाणम् । तेन मन्त्राणामपि प्रयोजनत्वात्प्रामाण्यमस्तीत्येतावसिद्धमिति । वार्तिके तु पदसमुदायस्य स्वार्थे प्रामाण्यमुक्त्वा- 'पदार्थास्तन्मतिर्वा स्पाद्वाक्यार्थावगमोऽपि वा' इत्युक्तम् । वाक्य पदान्यर्थी वा विशिष्ट संसर्ग बोधयन्तः प्रमाणम् । तन्मतिः पदार्थज्ञानं वा वाक्यार्थज्ञानं जनयन्तीति प्रामाण्यम् । वाक्यार्थज्ञानं वा प्रवर्तकत्वान्निवर्तकत्वाद्वा प्रमाणमिति वार्तिकार्थः । शब्दमूल वेषां प्रामाण्यमिति शब्द एवान्तर्भाव इति भावः । मन्त्राः कर्मातं. सन्तोऽपूर्वार्थसंसर्गनियामकतया प्रमाणमित्युक्तम् । तत्र ये विहितं कर्म स्वस्थानस्थिता न जनयन्ति विधेरभावात्, नापि लिङ्गेन विहितं प्राप्नुवन्ति तेषामङ्गत्वाभावेऽप्रामाण्यं ष स्यावित्यत आह-

रूपविप्रतिषेधाल्लौकिकेषु ।

रूपं यत्र पठितास्तदङ्गत्वं तद्वारा च प्रामाण्यं मन्त्राणां रूपं, तस्य रूपस्य विरोधो हानिनिष्प्रयोजनवादप्रमाणत्वाच्च वेदानन्तर्गतिरवेदत्वापत्तिरिति यावत् । तस्मान्मुख्यवेदान्निर्गता अगत्या लौकिकेषु स्मार्तकर्मविशेषेषु कर्मार्था इत्युत्कृष्य पद- मनुवर्तनीयम् । तत्रामुख्यवेदान्तर्गत्या सप्रयोजनता प्रामाण्यं च लभन्ते विहितकर्मार्थ- स्वादित्यर्थः। उदाहरति-

यथा गृह्णामि ते सुप्रजास्त्वाय हस्तमिमां खनाम्योषधीं वह वपां जातवेदः पितृभ्य इति ।

त्रयो मन्त्राः प्रतीकेन गृहीताः । एतेषु प्रथमतृतीययोर्वधूहस्तग्रहणे त्वपैतानिके सामर्थ्यात्तद्विवाहे प्रथमस्य गोवपाहोमे चाष्टकासु तृतीयस्य विनियोगः स्वेनैव करि- केवलसूत्रपुस्तकेषु यथेतिपदं विद्यते । १. "गविधिवि । २. वाड्रेनों' । ३ ख. छ, भवन्तः । १ क, ख. ग. च. ति, भङ्ग । ५१, भावादना । छ. भावोऽप्रा।६ क. ग, घ. पधि ब।

१५० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । प्यते । मध्यमस्य वापस्तम्बेन 'इमा खनाम्योषाधं वीरुधं बलवत्तमाम् । यया सपत्नी माधते यया संविन्दते पतिम् । इति पत्न्यामध्ये पत्युरेकस्यामनुरागेऽन्यतर- स्यामसति पाठाख्यवीरुधं हस्ते बद्ध्वाऽनुरागो भवतीति तस्याः पूर्वेयुः खनने मन्त्रो विनियुक्तः । ननु स्वस्थान एवं किमपि विहितं कर्म लक्षयन्तु लक्षणा सर्वत्र सुलभेति भविष्य. त्यङ्गत्वम् । सन्ति च तूष्णीकानि कानिचित्कर्माणि सापेक्षाणि । न वाऽभिधासंभवे लौकिककर्मसु सति लक्षणा न युक्ता । लक्षणयाऽपि स्वस्थाने निवेशो दृश्यते । यथा गार्हपत्यमुपतिष्ठन्त इत्युपक्रम्यैकयोपतिष्ठन्त इति निवेशनः संगमनो वसुनामिति मन्त्रमिन्द्रप्रकाशकं गार्हपत्योपस्थाने विनियुङ्क्ते । न चायं प्रत्यगाशीमो येन गाई- पत्यात्प्रत्यगाशिषमेवार्थयत इति स्यात् । किं विन्द्रप्रकाशक एव । गार्हपत्यस्या- संस्कार्यत्वेऽपि गार्हपत्योपस्थानेन गार्हपत्यप्रकाशनरूपेणापूर्व भावयेदित्यर्थावगमे सति गार्हपत्यप्रकाशनं योगेन लक्षणया चै क्रियत एवं किमपि तूष्णो कं कर्म कयाऽपि वृत्त्या प्रकाशयन्तु नोत्कर्षों युक्त इत्यत आह-

यथोपदिष्टं ब्राह्मणवन्तो यथारूपमितरे ।

ब्राह्मणमुपदेशलक्षणविनियोनकश्रुतिसहितो मन्त्रविनियोजकविधिः । तयेषां मत्रा. णामस्ति ते ब्राह्मणवन्तः । तेऽभिधामलभमाना यथोपदिष्टाः श्रुत्या यर्थत्वेनोपदिष्टास्त. मर्थमनुलध्यैव कयाऽपि वृत्त्या यज्ञकर्मार्थाः । न हि गोणी वृत्तिरभिषया समानवला यत एव गौणी । तस्माद्यत्राभिधा प्रमाणान्तरेण बाधिता तत्र दृष्टार्थस्वलाभाय गौण्या- श्रीयते नान्यथा । उक्तं च पार्थसारथिमिश्रः- 'गौणे सदपि सामथ्र्य न प्रमाणान्तराद्विना । आविर्भवति मुख्ये तु शब्दादेवाऽऽविरस्ति तत् ॥ सादथ्यं च स्वतो मुख्य गौणेऽर्थपरता पुनः । प्रमाणान्तरविज्ञेया तदभावान सिध्यति । ॥ इति । अथासति याधे तु मुख्ययैव कर्मार्थी इत्याह-यथारूपमितरे । इतरे विधि- नाऽबाधितामिधानशक्तयः । ते यथाभिधाशक्ति यज्ञकर्मार्था नतु गौण्या योगेन वा सर्वयज्ञकर्मार्थाः । अभिधया न समान व्यापारान्तरमस्तीति न सर्वकर्मार्था इत्यर्थः । कुतः सर्वकर्मार्थत्वेन प्राप्तिरिति चेत् । उच्यते-यज्ञकर्मार्था मन्त्रा इत्युक्तं, तत्र च वाक्यप्रकरणस्थानः साङ्गकर्मार्थताऽवगम्यते । तत्र रूपमभिधारूयं - क.ख. ग. च. पादास्य । 7 क.ग.च. १. "तमम् । २ ख. ग. च. यथा । "हितकर्मलक्षणा । ५. वा। ५ !

३४ सत्यापाढविरचितं श्रौतसूत्र- :- [१प्रथमप्रमे- नियामक न भवेत् । तदा कयाऽपि वृत्त्या वाक्याघवगतप्तर्वकर्मार्थताऽपि स्यात् । तस्माद्वाक्यादिभिर्यदर्थत्वमवगम्यते तन्मध्ये प्रधानमहं वाऽभिधयैव प्रतिपादयन्तीति वाक्यादिप्रमाणानां दुर्बलानां संकोचो भवतीति सप्रयोजनं सूत्रम् । तथा घेतरे बाधके- तरप्रमाणविनियुक्ता इति पर्यवसानम् । ननु यत्र वाक्यादिप्रमाण सामान्येन विधायक नास्ति तेषां लिङ्गेनापि नानाकर्मा- थता स्यात्तत्राऽऽह-

शेषस्य विनिधानम् ।

शेषोलिङ्गव्यतिरिक्तप्रमाणान्तरेण न कर्मविशेषार्थत्वेन नियमिताः । लिङ्ग च तदाऽनेककर्मानुष्ठानगामि कर्माणि मन्त्रान्त एव रुद्धानि । तत्र न समुच्चयः प्रमाणा- न्तरसहकृतलिङ्गविनियुक्तैः केवललिङ्गविनियुक्तानां समानवत्वाभावात् । अत एव न विकल्पोऽपि । तेषां कर्मविशेषे मन्त्र साकाङ्क्ष विशेषेण निधानं विनियोगः । उच्यत इति शेषः । योग्यताप्रदर्शनार्थ प्रतिज्ञामात्रसिद्धम् । सामानां शेषाणां समवेतार्थप्रकाशकत्वामावाल्लिङ्गेन विनियोगामावमाश- याऽऽह-

पारिप्लवार्था दाशतय्यः ।

दश मण्डलानि यस्या भवेदसंहितायाः सा दशतयो तत्रत्या भचो दाशतय्यः । ताभिर्देवतागुणशंसनरूपे पारिप्लवे शस्त्रे शंसितव्ये तत्पूरणार्थी देवतागुणशंसनलिकन हौत्रसमाख्यया पारिप्लवसमारूयया च तदर्थाः परितः प्लवमाना अन्यत्र विनियोगा. भावात् । क्रमरहितचा शंसनं हि पारिप्लने क्रियतेऽतस्तदपि मन्त्रान्तरसापेक्षमेव । भत उभयाकाङ्क्षया यज्ञार्थी इत्यर्थः । इदानी सानां विकृतिगामित्वं पूर्वेणाविनियुक्तानामाह-

उत्तरयोः पवमानयोः स्तोमाभ्यासे सामानि ।

स्तोमानां सामाधारभूतर्समुदायानामभ्यासे विवृद्धौ सत्यां न विनियुक्तानां साम्नाम- भ्यासः कार्यः, किंतु यान्यन्यत्र न विनियुक्तानि तानि साकाङ्क्षाणि तैरेव विवृद्धिः कार्या । यथा विवृद्धस्तोमकेषु ऋतुषु श्रूयते--' एकशिनातिरात्रेण प्रजाकामं याजयें- त्' इति । तत्र त्रिवृत्स्तोमानि पञ्चदशस्तोमानि सप्तदशस्तोमान्यकविंशस्तोमानि चैकविंशस्तोमान्येव ! कार्याणि । तत्र सर्वस्तोत्रेष्वविनियुक्तसाम्नां पूरणायागमे प्राप्ते पवमानयोरित्युक्तम् । अयमभिप्राय:- पवमानव्यतिरिक्तेषु स्तात्रेषु नापूर्वसामागमः । १ क. ग, च, छ; यतीति। २ छ."माणावि । ३ क. ग. च. कर्मणि । । सामागम इत्यत है १ १० पटलः]. महादेवकृतवैजयन्तीन्याख्यासमेतम् । सर्गागम एव न्याय्यः । कुतः, त्रीणि वै यज्ञस्योदराणि गायत्री बृहत्यनुष्टुप्नेति, तथाऽत एतेष्वेवाऽऽवपन्त्येतेष्वेवाद्वैपन्तीति च्छन्दसामाधारभूता च एवावगम्यन्ते । पव- मानेषु च्छन्दस्त्रित्वाभावान्नागमः किं तु साम्नामेव । उत्तरयोरिति किमर्थम् । उच्यते - बहिष्पवमाने सामागमप्रतिषेधात् । एवं हि श्रूयते-एकं हि तत्र सामेति यात्स्वरसाम्नैव गायत्रीमिस्तेनात्रापि चर्गागम एव न तत्र उक्तमुत्तरयोरिति । अत्रापि देवतागुणसंकीर्तनलिङ्गेनौगात्रसमाख्यया च साका- क्षत्वेन च विनियोग इत्यर्थः । एवमृक्सामानां विनियोगमुक्रवाऽवशिष्टानां विनियोगमाह-

तूष्णीकेषु प्राकृतेषु यजुः ।

अक्सामवेदयोः शेषस्य विनियोगमुक्त्वा यजुर्वेदाथर्वणवेदयोः शेषस्य विनियोगो वाच्योऽतो यजुर्ग्रहणं यजुर्वेदाथर्वणवेदयोरुपलक्षणम् । तेन तयोर्यानि शेषमूतानि यजुष्युचो वा तानि सर्वाणि विनियुन्यन्ते । कुत्र, तूष्णीकपु प्रकृतिभूतदर्श पूर्णमासज्यो- तिष्टोमाग्निहोत्रेषु । 'मासमनिहोत्रं जुहोति' इत्यस्याग्निहोत्रमपि प्रकृतिः । प्रकृतिस- बन्धीनि प्राकृतानि कर्माणि । तूष्णीकेषु विहितेष्वप्यविहिता मन्त्रा येषु तानि तूष्णी- कानि मत्रप्ताकाङ्क्षाणि । विकृतिस्तु तूष्णीकाऽपि न मनसाकाङ्क्षा तस्या विनोपदेश मत्रान्तरानाकाङ्क्षणात् । तेषु प्राकृतेषु यजुर्गच्छति । यथारूपमेव सर्वे मन्त्रों न सर्वत्र किंतु प्राकृतेष्वपि तत्तत्कर्म व्यवस्थिता एव भवन्ति । ननु. यथारूपमितरः इत्यनेन गतार्थमिति चेत् । सत्यम , एवमेषां शेषत्वं श्रुत्या विनियोगामावेन वाक्यादिसहकारा. भावाचोपप्लवमानानाम् । तेन पारिलवे शंसनीयम् । यद्यपि सर्वा प्रचः सर्वाणि यजूंषि सर्वाणि सामानि पारिप्लवं (वे) शंसतीति श्रुतौ सर्वमन्त्राणां विनियोगान कोऽपि शेषोऽस्ति तथाऽपि लिङ्गनरपेक्ष्येणैव तत्र विनियोगाद्यथारूपमितर इति बाधितं स्यात्तत्परिहारार्थ यथमियोदेवताद्रव्यगुणलिङ्गेन विशेषविनियोगः प्रदर्शित एवं प्रकृतिगतार्थप्रकाशनलक्षणसामर्थेन विशेष विनियोगार्थमिदं सूत्रम् । तत्रादृष्टार्थ- स्खमात्रेण सर्वसाधारणेषु विनियोगे सत्यपि कर्भसमवेतार्थप्रकाशकत्वलिङ्गेन दृष्टार्थत्वस- मवात् । सामानामसमवेतार्थप्रकाशकत्वान्नात्र प्राप्तिरिति स्तोत्रशस्त्रयोरदृष्टार्थत्व-

< ख. हती त्रिष्टुम्चेत्यत्र मेवाऽऽवपन्त्यत एषों। २ ग, च, 'वोदयन्ती । ३. क. 1 इयरती | ४ क, ग.छ.'च्छन्ति । यी ५ क, ग,च, 'श्राः सा ६ क, म, च.पिच त७. क. ग. च. छ.म् । यद्यपि मत्राणां न कोऽपि विशेषोऽस्ति तथाऽपिलिङ्गनरपेक्ष्येणैव तत्र विनियो- गायधारूपमितर इति बाधित स्यात्तत्परिहारार्थे यथामियोरेव। . क. ग. च. छ. तो। क.ग.च. छ. एव । - ३६ सत्याषाढविरचितं मौतसूक्ष- [१प्रथमप्रभे- मात्रेण कृतार्थत्वात् । तथोत्कृष्टानां शेषर्भूतमन्त्राणां लिनेन विकृतिगामित्वं च मा भूद्विरुक्तिदोषापत्तरप्राप्तप्रकृतिगामित्वमवेत्यपि प्रयोजनम् । प्रत्यक्षाणां हविरनुमन्त्र- णमन्त्राणां च प्रकृती विप्रतिषेधाद्विकृती स्पष्टेन लिङ्गेन विनियोगः । एतेषां प्रकृती विरोधाभावात्प्रकृतावेवौत्सागको विनियोगः सिद्धः । ते च मन्त्रा अच्छिद्रप्रपाठकादि- पठिता अथर्वणि च विषाणे वितं ग्रन्थिमित्यादयो यथायोग्य प्रकृतिगामिनो ज्ञेयाः। एतदपवादमाह-

वेदः कर्मनामधेयेन श्रूयमाणस्तदर्थः ।

अत्र प्रकरणेनासंबद्धानामपि शेषत्वेऽपि न प्रकृतिगामित्वमित्युक्तम् । सामान्यलि. स्य विशेषसंज्ञगा नियमात् । वेदो मन्त्रब्राह्मणात्मकः । मन्त्रा इति चानुवर्तते । वेदो मन्त्राश्च ये कर्मनाम्ना श्रूयमाणास्ते तत्कर्मार्थाः । उदाहरति-

यथा वाजपेयो याज्योपुरोनुवाक्याश्च ।

पानमन्नं सुरा पेयं यस्मिन्कर्मणि तद्वाजपेयाख्यं कर्म । तस्य नामधेयेन यस्मिन्या- जपेयो विधीयते स प्रश्नः काण्डो वा श्रूयमाणो वेदो वानपेय इति याज्ञिकेषु प्रसिद्धः।स वेबो वाजपेयः। न हि वेदो वाजपेयः किं तु वाजपेयार्थो वेदो वाजपेयः। प्रतिपाद्यप्रतिपाद- कयोरभेदविवक्षया प्रतिपाद्यकर्मनामधेयं प्रतिपादके वेदेऽपि प्रयुज्यते । अयं यजु- दोऽपि न प्रकृत्यर्थः किंतु विकृत्यर्थः । संज्ञयोत्सर्गस्य बाधात् , लिङ्गेन प्रकृतिवि- रोधाच्च। तज्यतेऽनया मा याज्या ततः पूर्व हविग्रहणायान्च्यत आहूयते देवचा यया साऽनुवाक्या । ' हयति वै पुरोनुवाक्यया प्रयच्छांत याज्यया' इति श्रुतेः । तथाच सकलयागलक्षणकर्मसंवन्धेन श्रूयमाणा योगेन सकलयागार्था नतु प्रकृतिमात्रार्थाः सर्वयाज्यानां प्रकृतिषु विप्रतिषेधात् । एवं यत्र प्रकरणे श्रूयते मन्त्रोऽसंबद्धस्तत उद्धृतः शेषात्तद्विनियोगे यज्ञकर्मार्था मन्त्रा इति सकळवेदप्रामाण्यं सिद्धम् । एवं च मन्त्रबाह्मणयोरित्यादिना प्रमाणस्वरूपं सप्रपञ्च निरूप्य प्रमाणविशेष- संबन्धोपाधिभिः प्रमेयगताम्सकलकर्मसाधारणधर्मान्व्याचष्टे-

उपाꣳशु यजुर्वेदेन क्रियते ।

यजुर्वेदेन यद्विधीयते ज्योतिष्टोमादि कर्माऽऽध्वर्यवमिति यावत् । तद्यजुर्वेदविहित- मुपांशु क्रियते कर्तव्यम् । करणवदशब्दममनःप्रयोगमुपाश्विति प्रातिशाख्यम् । मन्त्रोत्पत्तियद्यपि वेदान्तरस्था तथाऽपि विनियोगविधेः प्राबल्यं प्रयोगकाले तस्याऽऽदौ १ स. भूतं म । २ ख. छ. विध्यते। क. ग, च.. 'माणास्त' । ४ क. ग... च. "र्थाः । । ५ क. ख. ग. प. इ. च. . ज्यान । 3 प्र०पटलः महादेवकृतवैजयन्तीव्याख्यासमेतम् । बुद्धिस्थत्वात्पश्चान्मन्त्रपाठस्य यथा नैमित्तिकेऽग्निहोत्रहोंमे सामवेदगतो मन्त्रोऽमेवे- होत्रमिति तथाऽऽधाने रधंतरममिगायते गार्हपत्य आधीयमान इति मन्त्राणां सामवेद उत्पन्नानामपि यजुर्वेदेन विनियोगादुपांशुत्वम् । उपांशुत्वं शब्दधर्म इति यजुर्वेदविहिते कर्मण्यसंभवादशावतारन्यायेन यजुर्वेदविहितकर्मार्थेषु, मन्त्रेषपांशुत्वं पर्यवस्यति । पथा सप्तदशारनिनिषेय इति सप्तदशारनित्वं वाजपेयाले यूपे तद्वत् । न्यायेनापवादमाह-

अन्यत्र प्रवरसंवादाश्रावणसंप्रैषेभ्यः ।

एभ्योऽन्यत्रान्यकर्मस्वेव । न्यायमूलमिदं सूत्र परसंप्रत्यायनार्थानामामन्त्रणानुज्ञादि- वचनानामप्युपलक्षणम् । अग्निदेवो होतेत्यादिः प्रवरः । संवदखेत्यादिः संवादः। आश्राव- येत्याश्रावणम् । प्रत्याश्रावणस्यास्तु श्रौषडित्यस्यापि ग्रहणम् । श्रेषो यजेत्यादिः । अत्रा- न्यत्र परप्रत्यायनार्थेभ्य इति लाघवेन वक्तव्येऽपि विविच्य प्रदर्शनं प्रवसति यजमाने प्रवर. स्याग्ने हविनिर्वस्यामात्यस्योमुन्नेष्यामीत्येवमादीनामुच्चस्वरो यथा स्यात् । तथोपांशुया. जेऽपि चाऽऽश्नावणस्य गां दोहपवित्र रज्जमित्यादिकस्यापरप्रत्ययनार्थस्याप्युच्चैर्यथा स्यादिति प्रयोजनम् ।

उच्चैरितराभ्याम् ।

ऋग्वेदसामवेदाम्यां यद्विधीयते तदुच्चैः क्रियते । एतदर्थवादस्तत्तत्सूत्र एव ज्ञेयः । अत्र निगदानां याजुर्वेदिकानामपि विनियोगविधेग्वेदस्थत्वादुच्चैष्ट्वमेव । ननु याजुर्वेदिके होत्रे याजुर्वेदिक एवं विनियोग इति चेत् । न । गुणविधिमात्रार्थमुग्वेदविधेरेवानुवादो यजुर्वेदे । अत एवर्वेदविहितत्वेन होतृकर्तृकत्वाद्धौत्रमितिसमाख्या । गुणविधेरुत्पत्तिविधि- प्रयोगादिविधीनां चर्वेदस्थत्वादुच्चैरेव स्वरः । एवं चाऽऽध्वर्यवमपि श्रूयते तत्रदे, तदपि गुणविधिरेव याजुर्वेदिक उत्पत्तिविधौ सतीति ज्ञेयम् । ब्रह्मत्वेऽपि स्वस्ववेदानुसारेण स्वरो ज्ञेयो विशेषस्तु तत्तत्सूत्रेष्वेव ज्ञेयः । अथर्ववेदे वेदत्वेनोपाधिना ब्रह्मत्वं विना न किंचिदपि विहितमस्ति, तस्मात्तत्र विवाद एव नास्ति । ब्रह्मत्वे तूपांशत्वमेव । आथर्वणा वै काम्या इष्टयस्ता उपांशु क्रियन्त इति वक्ष्यति । ततो ज्ञायत आधर्वण- 'कर्मोपांश्वेवेति । दूरस्थस्य श्रवणयोग्यमुच्चैः ।

सर्वैरुपाꣳशु ।। १ ।। ज्योतिष्टोमे प्रागग्नीषोमीयात् ।

संवेदविहितं तदुपांश्चैव प्रयोक्तव्यम् । तत्रावधिरग्नीषोमीयपशोः पूर्वभावीनि कर्माणि। तत ऊर्ध्वं यथोक्तमित्यर्थः। अत्रोच्चैः प्रयोग अग्वेदसामवेदाभ्यामेव प्रतिोऽपोदि (हि)- १ ख. "महोत्र । ट. "मेह होत्र । २ छ. ट. लिथुपों वाज । ३ ट. 'पेये पठ्यते त । छ. पे पठ्यते त' । ५ छ. ट. मीत्योमु।६ क. च, स्योन्ने । . क. ग. च. पथ पवा । ८३.८. तो यो वेदि। 4 . सत्याषाढविरचितं श्रौतसूत्रं- [१प्रथमप्रमे तव्यस्तत्रानुवृत्त्यैव लम्यते सर्वैरिति न वक्तव्यम् । एवं तर्हि वेदान्तरविहितस्य ब्रह्मत्व- स्थापि नियमार्थमारम्भः सर्वैरिति । ननु तदपि सिध्यति तस्यापि ताम्यामेवोचैः प्राप्तेः । एवं तहि ज्ञापयत्याचार्योऽग्नीषोमीयादूर्ध्व यांच्चैः प्रयोगो द्वाभ्यामेवमनुपां- आप्रयोगः क्वचिद्यजुर्वेदविहितस्याप्यस्तीति । यान्प्राचीनमाग्रयणाहान्गृह्णीयात्ता- नुपांशु' इत्यन्य 'यारिस्तानुपब्दिमतः । इति स्वेनानुक्तोऽपि ग्राह्य इति । एवं सामान्यप्रकरणाद्विशेषविधिविहिताना मन्त्राणां प्रसङ्ग इति तत्सदेवमन्तराऽन- च्यमित्याद्यपि तत्र तत्र ज्ञेयमिति । यत्र विशेषं न वदति तत्र स्वशाखीयमेव । यत्रान्यथा सत्र विकल्प इति । एवं मन्त्रधर्मान्नियम्येदानी यदुक्तं यज्ञकर्मार्था मन्त्रा इति, तमिमन्त्रयोरेक- मत्रत्वं स्पष्टमेव पारेकत्वज्ञानात्परिशेषाद्यजुषामपादबद्धानां क्रियापदहीनानां वाऽध्याहारं विनाऽपि मत्रत्वमस्तीति स्वमतेन विशेष दर्शयितुं सामान्येन मन्त्रविभाग- निमित्तमाह-

यावदर्थोऽपवृज्यते स एकमन्त्रः ।

यावदित्यव्ययं तृतीयाथें । यावता यावत्प्रमाणकपदसमुदायेनार्थः पदार्थ एकरवमु. इश्यगतं न विवक्ष्यते, जात्यभिप्रायेण वा, यावता पदसमुदायेन पदसमुदायार्थोऽपवृज्यते निराकाङ्क्षो भवति, अपवर्गः परिसमाप्तिनिराकासता स पदसमुदाय एकमन्त्रः । अत्राऽऽकाङ्क्षा पुरुषनिष्ठेव यद्यपि तथाऽपि साऽऽरोप्यते पदेषु वा पदार्येषु वा । सत्राऽऽचार्येणार्थोऽपवृज्यत इति वदताऽऽकाङ्क्षाऽर्थ आरोपिता । तेने त्वेति द्विपदे मन्ने क्रियापदस्याभावान्निराकाङ्क्षाणि पदानि न भवन्ति तथाऽपि योग्यपदस्याऽऽना. नादर्थोऽध्याहियत इति निराकाङ्क्षताऽर्थस्यैवोक्ता भवति । तस्मान्न च्छिनोत्यध्या- हारः । न्यायविदस्तु पदाध्याहारं मन्यन्ते । अत एवोक्तं. जैमिनिना 'अर्धेकत्वादेक वाक्यं साकाङ्क्ष चेद्विभागे स्यात् । इति । यद्यपि शाब्दी ह्याकाक्षा शब्देनैवाऽऽ. पूर्यत इति न्यायस्तथाऽपि तागर्थ एवाऽऽनावसमाप्ताद्वाक्याबुद्धिस्थो भवतीति 'सिद्धार्थस्मृत्या क्रियोत्पत्तिरिति न पदस्य प्रयोग इत्याचार्याभिप्रायः । अर्थों निरा- काक्षो भवति स एको मन्त्र इत्युक्ते स्योनं ते सदनमित्यमुमर्थमपेक्ष्य तस्मिन्सीदेति निराकाङ्क्षो भवतीति मिलित्वको मन्त्रः स्यात्तन्निवृत्त्यर्थ विवक्षितमेकत्वम् । ननु सर्वमन्त्रान्त इतिकरण लिङ्ग वा यत्र विनियोजक तत्रैव विनियोगः स्याना- न्यत्र समग्रमनप्रतिपादकनामधेयस्य प्रातिपदिकस्याभावादितिकरणेन च यावदुचरित-

  • निराकाङ्के पदे न भवत इति परितं युक्तम् ।

१०. ज. स. स. बतायों' । २ ग. ट. "नत्तीय। ३ क. ख, ग, च, छ, 'रणो, लि। च, 'यस्या'। ५८. "तिस्वीकारस्या'। ५ १५०पटलः महादेवकृतवैजयन्तीव्याख्यासमेतम् । स्यैव स्वरूपपरत्वेन तावानेव मन्त्रः स्यात् । न च निरपेक्षैकार्थप्रतिपादकत्वलक्षणसा- मर्यन स्वस्वरूपप्रतिपादकं शब्दरूपं स्वप्रतिपाद्याविनाभूतं मत्रशेष लक्षयेदिति वाच्यम् । असमाप्तस्यैवेषे त्वेत्याहेतिवद्यावदुच्चरितप्रतिपादितस्यैव योग्यपदार्थस्मारक- त्वेनकमत्रत्वेऽपि न किंचिदनुपपन्नमित्यत आह-

आदिप्रदिष्टा मन्त्रा भवन्ति।

भादिनस्याऽऽधैकदेशस्तेन प्रदिष्टाः प्रतिपादिता एकवाक्यरूपा मन्त्रा एव भवन्ति प्रयुक्ता दृश्यन्ते न स्वरूपमात्रम् । कुतः । शब्दोच्चारणमात्रेणावयवत्वेन ज्ञानात्सम- मोपस्थितिः शीघ्रमेव भवति यावदर्थद्वारा योग्यपदान्तरापिस्थितिर्मवति । तस्मात्पूर्व- मेव समग्रमन्त्रविनियोगो भवति । नेयं सांप्रतिको लक्षणोऽतोऽपि शीघ्रबोधिका । इषे स्वेत्यत्र न मन्त्रेपाठावसरे योग्य पदान्तरं पठितं यदाकाङ्क्षानिवर्तकं तस्मात्पूर्वस्य च न मन्त्रावयवत्वमवगतं, येन ब्राह्मणेऽवयव्युपस्थितिः स्यादिति यथोपदिष्टमिति न्यायन तावानेव गृहीतो मन्त्रस्तावानेवानुष्ठानयोग्यमर्थान्तरं लक्षयित्वा स्मारयतीति मावः । तदिदं भवन्तीत्यनेनोक्तमन्यत्राप्येकदेशेन नाम्ना सामानाधिकरण्येन समग्रमन्त्रप्रतिपा- दकानां विशेषणानां प्रदर्शनादित्युक्तं भवति । तथा हि-इदं विष्णुविचक्रम इति वैष्णव्यर्चा जुहोतीत्यादावेकदेशस्य वैष्णव्येति तथचेति सामानाधिकरण्यं दृश्यते यदि थावदुचरितपरत्वं स्यान स्यादेव सामानाधिकरण्यमिति । स्वस्वरूपपदार्थत्वमपि प्रसि- मित्यपि मवतीत्यनेनैवोक्तम् । आद्यैकदेशस्य स्वप्रतिपाद्यार्थप्रतिपादकत्ववत्स्वरूप- प्रतिपादनपरत्वमपि प्रसिद्धमेवेति । तथा हि पाणिनिनियममाह-वं रूपं शब्द- स्याशब्दसंज्ञा ' इति । तथा — न वेति विभाषा' इति सूत्रे महाभाष्यकारैरप्युक्तं स्वरू- पपदार्थत्वम् । तच्चेतिकरणेन वा प्रकारान्तरेणाभिव्यज्यते यत्रेतिकरणस्त्रत्र यथा । तथैव याज्याकाण्डे ' त्वं नो अग्ने 'स त्वं नो अग्ने' इत्यत्रापि असमग्रमन्त्रपाठेs- वयवत्वेनावयविप्रत्यभिक्षा । एवं पूर्वोक्त एव त्वमग्ने अयासीत्यन्ते तथैवेति ।

उत्तरास्याऽऽदिना पूर्वस्यान्तं विद्यात् ।

उत्तरमन्त्रस्योऽऽदिप्रतीकेनोपलक्षितः (त) पूर्वस्य मन्त्रस्याऽऽदिप्रदिष्टस्यान्तं समाति जानीयात् । मध्येऽनेकमन्त्रत्वेन यत्र प्रतीति यते तत्र नानकमन्त्रता, किं तु स एक एवाध्ययनविधिबलादेकवाक्यतथैवैक एव ज्ञेयः । यथोपदिष्टं ब्राह्मणवन्त इत्युक्तत्वात् । अत्राऽऽद्यावयनैक एवावयवी बुद्धिस्थो भवति मन्त्रः । उत्तरप्रतीकनोत्तरो विनियुक्तः । तयोविनियुक्तयोमध्येऽन्ये ये क्वचिन्मन्त्राः सन्ति तेषामानर्थक्यं स्यात् । यथा सुरूपव. प्रवर्ण एहोतीडामाहियमाणां प्रतीक्षते । अत्रेमान्भद्रान्दुर्यानिति मन्त्रलक्षणेन मन्त्रः समा. छ. ट. पाय वि।२ क. ग, च. छ. ट. "स्मात्सर्व। ३ क, ग. गान्ताऽपि । च. शान्ता शी°17 . अमानाव १५ ख, स्याऽऽदिः प्र । , ४० सत्याषाढविरचितं श्रौतसूत्रं- : [१प्रथमप्रभे- प्यते। अनन्तरं यावदस्मास्चिन्द्र इन्द्रियं दधात्विति विनियुक्तः। ततः पूर्वतनानामभ्येहि मामनुव्रतेत्याद्यन्ते केषामविनियोगादानर्थक्यमेव स्यात् । नचाऽऽदिप्रतीकेनेति करणश्रुत्या विनियुक्तस्याभ्येहीत्यादीनां लिङ्गेन कथमपि विनियुक्तानां विकल्पो भवति । श्रुतेः प्रबल- वालिङ्गस्य दुर्बलस्य बाध एवेति श्रुतिलि त्यनेन जैमिनिसूत्रेणोक्तमेव । अतो मध्य- स्थानामानर्थक्ये प्राप्त आदिप्रतीकेन समुदाय एवं गृह्यत आनर्थक्यभयादित्युक्तमनेन सूत्रेण । दृश्यते च सहकारिवशादादिप्रतीकमनेकेषामपि मन्त्राणाम् । यथा चतुर्भिरभ्रिमा- दत्ते चत्वारि छन्दासि छन्दोभिरेव देवस्य त्वा सवितः प्रसव इत्याविच्छन्दसाऽऽरदे- आङ्गरस्वदित्यन्तानां चतुर्णा ग्रहणम् । अतोऽत्रोत्तरप्रतीकात्पूर्वतनः समुदायो गृहीत इति गम्यते । एवं च क्वचिन्मन्त्रसमुदा योऽपि विनियुज्यत इति करणभृत्या यथोप- दिष्टं ब्राह्मणवन्त इत्युक्तत्वाच्छतिबलादेकवाक्यतयकमन्त्रत्वेन विनियोगो ज्ञेयः ।

मन्त्रान्तेन कर्म संनिपातयेत् ।

मन्त्रस्यान्तः समाप्तिस्तया कर्म संनिपातयेत् । मन्त्रो हि पदार्थप्रतिपाद. कपदसमुदायस्तस्यान्तोऽन्तिमपद नाशरूपः । नाशारम्भेण सहान्तिमपदार्थज्ञानं तेन वाक्यार्थस्मृतौ जन्यमानायामेव तया सहैव करिम्भे सति कर्मान्तेन सनिपातो भवेत् । तथाऽऽरम्भणीय कर्मेत्यर्थः । मन्त्रोचारणकर्मणो मन्त्रेण सहभावनिः यमात् । वाक्यार्थस्मृतिलक्षणकर्मणोऽप्यनन्तरमेवोत्पत्तेरवश्यमावात्तत्र नियमविधान नाकर्म करणेषु किं तु कर्मकरणेषु । ते हि वाक्यार्थस्मृति जनयन्तस्तद्वारा तद. तिरिक्त कर्म जनयन्ति । तत्रानियमप्राप्तौ नियमो विधीयते कर्मकरणत्वनिहाय । कथं, करणं हि यदा स्वव्यापारेण सहैव क्रियामुत्पादयेत्तदा साधकतमत्वेन प्रकृष्टो- पकार जनकत्वेन करणं स्यान्नान्यथा । अन्यथा व्यापारात्पूर्व विलम्बेन वा कियो. स्पद्यते सा कथमनुत्पन्ने नष्टे वा व्यापारे तनन्या स्यात् । अतोऽन करणमन्त्राणां दृष्टद्वाराऽङ्गत्वनिर्वाहायायं नियमोऽवगम्यते । अन्यथा वाक्यार्थस्मृतिव्यतिरिक्त क्रियां प्रति दृष्टद्वाराऽता न स्यात् । नन पदानि वाक्यं तस्मिन्पक्षे वाक्यार्थस्मृतिलक्षण- कर्मोत्पत्तौ पदानि स्वव्यापारेण पदार्थप्रतिपादनेन वाक्यार्थस्मृतिं जनयन्तीति कथं न वाक्यार्थस्मृतिलक्षणा क्रिया वाक्यकरण(णि)का भवेत्, कथं च ते मन्त्रा अकर्मकरणाः। उक्तं च- साक्षाद्यद्यपि कुर्वन्ति पदार्थप्रतिपादनम् । वर्णास्तथाऽपि नैतस्मिन्पर्यवस्यन्ति निष्फले ।। १ च.न्ते तेषा । २ ग. च. ८. 'त् । तच्चाऽऽदि । ३ क. ग. च. 8. श्रुतिः प्रबला लिङ्ग । । क ग. प. उ. 'गोर्मन्बे'। ५ क. ख. ग, ब.उ.हि पदार्थव्या'। ६ क. ग. च.उ. "रकन । ख. छ. 'रकजनकज । ७ क. ग. च. 3. गजानं त्याब, छ, 'स्थति नि। १५०पटल महादेवकृतवैजयन्तीव्याख्यासमेतम् । वाक्यार्थमितये तेषां प्रवृत्तौ नान्तरीयकम् । पाके ज्वालेव काष्ठानां पदार्थप्रतिपादनम् ॥ इति, तत्कथं न वाक्यार्धस्मृतिर्मन्त्रकरणिकेति चेत् । उच्यते-न पदानां वाक्यत्वेन मन्त्रतोच्यते सूत्रकारेण । पदानां प्रत्येक व्यापारी यत्पदार्थप्रतिपादनं, तेन च पदार्थज्ञानम् । पूर्वपूर्वपदार्थज्ञानजनित संस्कारसंघी चीनमन्तिमपदार्थज्ञानं वाक्यार्थ- ज्ञानं जनयति । तबस्तु तादृशं पदार्थज्ञानमेव व्यापार इति चेत् । न । ज्ञानानां सहोत्पत्तेरनङ्गोकारात् । अन्तिमपदार्थज्ञाने नष्टे वाक्यार्थज्ञानं जायते । अतो न तव्यापारस्तेन सह वाक्यार्थज्ञानानुत्पत्तेः । यस्य व्यापारेण सह यदुत्पद्यते ततस्य करणमिति सूत्रकृतामिष्टम् । यतोऽन्तिमपदार्थज्ञानादनन्तरं सर्वत्र वाक्यार्थजाने सति मन्त्राणां कर्मकरणत्वाकर्मकरणत्वाभ्यां विभागेन व्यवहरन्ति ततो ज्ञायते वाक्यार्थ- ज्ञानं प्रति न मन्त्रस्य करणतेति । अत एवोच्यते-मन्त्रान्तरे(न्)न । सह जातवा- क्यार्थस्मृत्या स्थितिदशापन्नयैव व्यापारण क्रियारम्भे कृते करणता नान्यथेत्यव. गम्यतेऽमिप्रायः । नन्वनये प्रणीयमानायानुवहीत्यादौ होतुरनुवचनलक्षणमन्त्रैः कथं न प्रणयनक्रि. पायाः संनिपात इत्याशझ्याऽऽह-

क्रियमाणे हौत्राण्युच्यन्ते ।

मन्त्रान्तरेणाध्वर्युप्रयुक्तेन क्रियमाणे प्रारब्धे कर्मणि अथवा संस्क्रियमाणे द्रव्ये हौत्राण्यनुवचनानि । अनुवचनविवक्षया नपुंसकता । तेन शस्त्रमन्त्राणां तथा जपमन्त्रा- जामिवाननुवचनविषिविहितानां हौत्रत्वेऽपि न क्रियमाणेऽनुवचनमित्युक्तम् । मन्त्रो. चारणानि क्रियन्ते । उच्यन्त इत्यस्य प्रत्ययार्थो विवक्षितः प्रकृतिः साधुत्वाय प्रयु.. तेति कृतिमात्रं विवक्षितम् । अतो मन्त्रान्तरेणारब्धा क्रिया कथमनेन क्रियेत । अतो विधिवलाक्रियमाणानुवादिमन्त्रालिङ्गाच नैते करणमन्त्रा अतोऽन्तेन न कर्मसंनिपात इत्यभिप्रायः । अत एव प्रणीयमानायत्यारव्यापरिसमाप्तक्रियया संस्क्रियमाणाय सिद्धाय द्रव्यायानुब्रूहि प्रतिपादनं कुर्विति प्रेषितोऽनुयादिति हौत्रे विधिः । प्रदेवं देव्योति मात्रा अपि सिद्धानिप्रकाशका एव । अतो नैते करणमत्रा अपि तु प्रति- पादनेनोपयोक्ष्यमाणस्य द्रव्यस्य संस्कारका एवेति मत्वोक्त क्रियमाण इति । अत्रापि मन्त्रः प्रतिपादनमेव विधेयं न क्रियान्तरमित्यकर्मकरणा एव । एवं यज्ञकार्थी मन्त्रा इत्युक्ते यत्रोत्तरस्याऽऽदिना पूर्वेऽनेके मन्त्रा गृह्यन्ते तत्र: १८. 'रो यावत्प' । २ ट. "समीचि । ३ छ, ८. दानु । - क. ग. ४. रब्बा कि । ५. ग. च. ठ, रव्यप। ६ ४२ सत्याषाढविरचितं श्रौतसूत्र- [१प्रथमाने- समुच्चयोऽपि दृश्यते । तथाच नानाश्रुतिप्राप्तेषु लिनेन वाऽनुज्ञातेषु किं सर्वत्र समु. चयो विकल्पो वेति संदेह आह-

एकमन्त्राणि कर्माणि।

एक एव मन्त्रोऽङ्गत्वेन करणं येषां तानि । अत्र हि प्रकाशनव्यतिरिक्ता किया विवक्षिता न कर्ममात्र, प्रकाशनार्थानां चाग्रिमसूत्रे समुच्चयस्यापि वक्ष्यमाण- स्वात् । अतोऽत्र क्रियार्थप्रकाशनव्यतिरिकैव विवक्षिता । मन्त्रा अपि करण- मन्त्रा एव संभवात् । तत्रैकेन मन्त्रेण क्रियोत्पत्ती सत्यामितरेषामानर्थक्यं स्यादिति सर्वत्र विकल्प एव । नानाश्रुतीनां परस्परनरपेक्ष्येणैव विनियोगात् । लिङ्गमपि प्रति- मन्त्रं निरपेक्षमेवाङ्गत्वमावेदयति । तस्मात्प्रत्येकमेव करणताऽतो वैयर्थ्यभयादष्टदोष- दूषितो विकल्पोऽपि गृह्यते । यत्र तु द्वाम्यामादत्ते पञ्चभिराहवनीयमित्यादिकरण- मन्त्रेषु संख्याश्रुत्या समुच्चयोऽवगतः सामर्थ्य बाधते, श्रुतेः सामर्थ्याबलीयस्त्वात्, तंत्र यथोपदिष्टन्यायेन कयाऽपि वृत्त्यैकमन्त्रता संनिपातकरणता च संपादनीया । अत एवाऽऽपस्तम्बाचार्य:-'अपि च संख्यायुक्तानि' इत्याह । संख्या प्रदर्शिता । तान्यपि कर्माण्येकमवाण्येवेत्यर्थः । अकर्मकरणेषु तु समुच्चयोऽप्यनुज्ञातोऽपि(तः) संख्यावि. धुरा यत्रानेके कर्मकरणा नाना पाठान्तरमे (ए)कैनेतिकरणेन वा विनियुज्यन्ते तत्र प्रत्येकमेकमन्त्रलक्षणगुणभेदाझेद एव कर्मणां प्राप्नोति । तत्र गुणकर्मसु द्रव्यैकत्वेन प्रयोजनकत्वात्प्रयोगभेदेन विकल्पः । प्रधानकर्मकरणमन्त्रेषु तु प्रयोजनस्यापूर्वस्य प्रमाणान्तरेणैकत्वानवगमात्कर्मभेद एव । तत्राने कानि कर्मण्येवैकप्रयोगे क्रियन्त इति न मन्त्राणां समुच्चयो नापि विकल्पः । यथा भगो वामिति सर्वमन्त्रान्त इतिकरणेन गुणकर्मकरणा मन्त्राः । प्रधानकर्मकरणास्तु कूश्माण्डर्नुहुयादिति नाम्ना । इष्टेभ्यः स्वाहेत्यष्ट(टा)त्रिंशन्मन्त्रान्त इति सर्वप्रायश्चित्तानि होतीति मन्त्रगणेन कर्म चोद्यते तत्र प्रतिमन्त्रं जुहुयादिति च वक्ष्यति । इदं न्यायमूलम् । श्रुतिरपि ' यदेकया जुहुयाइर्विहोमं कुर्यात्' इति । दविहोमस्यैकमन्त्रसाध्यत्वेन निन्दयाऽनुवादावगमाइविं. होमा एकर्साध्या इति गम्यते । एवमन्यत्रापि द्रष्टव्यम् । अकर्मकरणेषु संस्कारकमन्त्रेषु नानामन्त्रप्राप्ती समुच्चयोऽस्तोत्याह-

समभ्युच्चीयेरन्हौत्राणि

नपुंसककर्तृ व्याख्यातम् । समुच्चयनकस्मिन्नेव प्रयोगे संस्कार्यैकत्वेन क्रियेरन् । अनवचन शब्दबलात्प्रतिपाद्यार्थप्राधान्यात्संस्कारमन्त्री एवं गृह्यन्ते । होतुः कर्तव्यानि १.न. उ. मितिन्या । 2. ट. नानापा । ठ. मायावान्तरे एवै । ३ क. ग. च. उ. अत्र । 3.पि वक्ष्यति-य। . . 5 २ १५० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ४३ मन्त्रैरर्थप्रतिपादनरूपाण्यनुवचनान्येव गृह्यन्ते, नपुंसकलिङ्गेन निर्देशात् । तेननपश- स्त्रमन्त्राणामपूर्वोत्पादकार्थप्रकाशनसाधनभूतानामनेकेषां प्राप्तावपि प्रतिमन्त्रमपूर्वभेदेन कर्मावान्तरभेदान्न समुच्चयः । हौत्राणीत्यनेनान्यत्र शस्त्रनपेष्वप्यपूर्वभेदानेद एवं कर्मणाम् । शस्त्रकर्म यत्रैकवचनेनोच्यते तत्रावान्तरजातिभेदेऽपि समुदायापूर्वस्यै- कस्याङ्गीकारादेकवचनमुपपन्नम् । तथा च परिशेषद्रव्यसंस्कारार्थार्थप्रकाशनसाधन- मन्त्राणामेवानेकप्राप्तौ समुच्चयोऽनेनोक्तः । अत्रापि प्रतिमन्त्रमदृष्टार्थस्मृतिजनकत्वेऽपि द्रव्यस्यैकत्वात्समुच्चयः। यत्रानुवचनैर्द्रव्ये दृष्टः संस्कारो जन्यते तत्रान्यस्य वैययं मा भूदिति विकल्प एवेत्याह-

अन्यत्र याज्यानुवाक्याभ्यः ।

होत्राणि समम्युच्चीयरन्याज्यानुवाक्यानुवचनानि न समभ्युचीयेरभित्यर्थः । दृष्टसंस्कारार्थस्मृतिजनकत्वमुपपादितं कात्यायनेन । सर्वत्र होत्रकाणां समुञ्चये प्राप्त भाह-न याज्यानुवाक्यासु विरोधात् । देवतास्मरणार्था ह्यनुवाक्या हविःस्मरणार्या च याज्या । अतो दृष्टार्थत्वाद्विकल्पः । तथा च ' यति चानुवाक्यया प्रयच्छति याज्यया' इति दर्शनाच्च । दृश्यते वायमर्थो यथा याज्यानुवाक्यासु न समुच्चयः । प्राजापत्यान्प्रकृत्याऽऽमनन्ति-'एकधाऽनुवाक्या भवत्येका याज्यैकदेवत्या हि प्रजा- पतयः' इति । देवतैकत्वमेकत्वाद्याज्यानुवाक्ययोहेर्नु ब्रुवन्नेकत्वं दर्शयति । तथा पितृयज्ञे पुरोनुवाक्यां प्रकृत्याऽऽमनन्ति ' एकया वै देवान्प्रच्याश्यति द्वाभ्यां पितॄन्' इति । अनुवाक्याद्वित्वविधिपरे वाक्य एकत्वं दर्शयतीत्येवं कात्यायनीये । कियार्थी मन्त्रा इति स्थिते यत्र क्रियाया आवृत्तिस्तत्र प्रतिप्रधान मन्त्रावृत्ति- माशझ्याऽऽह-

यत्रैकस्मिन्द्रव्ये विचेष्टापृथक्त्वेनार्थो निष्पद्यते सकृदेव तत्र मन्त्रं ब्रूयात् ।

यत्र यस्मिन्नेकस्मिन्नेकव्यक्तिरूपे समुदाये वैकया विभक्त्यैकवचन द्विवचनबहुवचन- रूपयोद्दिष्टे विषयभूते द्रव्ये विचेष्टाया एकविधिविहितक्रियायाः पृथक्त्वेन नानात्वेना- म्यासेनेति यावत् । अर्थो विधेयभावनायाः प्रयोजनं निष्पद्यते समाप्यते प्रयोजन भवतीति यावत् । तत्र तस्मिन्द्रव्ये विषयभूत उद्देश्य क्रियासंबन्धेन प्रकाश्यप्रकाश- कत्वेन प्राप्तो यो मन्त्रस्तं सकृदेवोच्चारयेत् । अयमभिसंधिः-एकविधिविहिता क्रिया झेकेत्युच्यते यावत्प्रयोजनलामं तस्याः संस्कार्यव्यस्य चैकत्वात्तत्प्रकाशको मन्त्रोऽपि १ख. छ. ट. शेषाद) । २ ख. र.ति वा । ३ क. ग.व. छ. उ. ये का । ४ क.. ग.च. ठ. नव। ५८, "हिताः कि। . - ४४ सत्यापाढविरचितं श्रौतसूत्र- [१प्रथमप्रक्षे- सकृदेवोचारितः क्रियाम्यासावयवेन संबद्धो हि करणं संदङ्ग न तु मध्ये क्रियावयवैः संवध्यमानोऽपि । नहि ते क्रियाभ्यासा अप्यन्याः क्रिया भवन्ति । भेदो हि शब्दान्तरा- भ्याससंख्यासंज्ञागुणप्रकरणैर्वक्तव्यः । स न प्रकृते क्रियाभ्यासोऽङ्ग, मन्त्रोऽप्यङ्गं क्रियायाः । न च तयोविनियोनकप्रमाणमस्ति । तस्मादेकस्या अङ्गं सकृदुच्चारित एवेति त्रिः प्रोक्षतीति संख्यया मावनाम्यासो विहितस्तत्र मन्त्रावृत्तिर्मा भूदित्येव- कारेणोक्तम् । न चात्र संख्यया कर्मभेदस्तया भेदोऽप्यनुसंख्यक्रियापदात्तिस्त्र आहुती- र्जुहोतीति । अत्र क्रियाम्यावृत्ती कृत्वसुनर्थे त्रिरिति संख्याऽभ्यासपरा । यत्र प्रधानकोत्पत्तिविधिस्तत्रैव प्रायेण क्रियासमानाधिकरणा संख्या त्रिनिदधातीत्यत्र प्रधानकर्मण्यप्यभ्यास एव विधीयते । संस्कारकर्मसंख्याऽभ्यासप्रतिपादितैव । तत- श्वाभ्यस्तया समानकालैकभावनयैव संख्या च मन्त्रश्च संबध्येते, तस्या वाक्यार्थत्वान्न तु तेषां परस्परसंबन्धो भवति । तदुक्तम्-'गुणानां तु परार्थत्वादसंबन्धः समत्वा. स्यात् । इति । अतः सर्वत्रावघातपेषणादिसंस्कारकर्मसु बहिरादिच्छेदनादिषु प्रोक्ष- णादिषु दृष्टार्थेष्वपि संस्कारकर्मसु संख्यायुक्तेष्वपि सकृन्मन्त्रः प्रयोक्तव्यः । उदाहरति-

यथा प्रोक्षे यूपच्छेदने च ।

प्रथमोदाहरणं समुदायद्व्यैकत्वप्रदर्शनार्थमदृष्टार्थसंस्कारेऽपि साम्यप्रदर्शनार्थ च । सत्र त्रिः प्रोक्षतीति वाचनिकाऽऽवृत्तिः क्रियायास्तथाऽप्युद्देश्यप्रयोजनकत्वात्सव- देव मन्त्रः। द्वितीयोदाहरणं सामर्थेनाभ्यासप्रदर्शनार्थ व्यक्त्येकत्वप्रदर्शनार्थ च । पात्राणीति जात्या पात्रत्वेन समुदायस्य कोडीकारेणैकशब्दत्वादेकत्वं नत्वेकवचना: न्तत्वेनैव व्यक्त्यैकत्वेनैव, बोद्देश्यैकवचनस्याविवक्षितत्वात् । यथा बहिरासाय प्रोक्षतीति बाहःशब्देनैकधर्मकोडौकृतं द्रव्यमेकमिति । निर्वापादौ चेष्टापृथक्त्वेन मन्त्रा वृत्तिश्चतुरश्चतुरो मुष्टीनिर्वपतीति द्विरुक्त्या प्रतिदैवतं निर्वापे त्रिर्यजुषा तूष्णी चतुर्थ पञ्चकृत्वो यजुषा मिमीते पञ्चकृत्वस्तूष्णीमित्यत्रापि पूर्वन्यायः श्रुत्यैव बाधित इति स्वेनैवोत्तरसूत्रोदाहरणैः सूचितं ज्ञेयम् । पूर्वन्यायापवादमाह-

द्रव्यपृथक्त्वेऽभ्यावर्तते ।

यत्रैकस्मिन्द्रव्ये विचेष्टा पृथक्त्वेनाओं निष्पद्यत इत्यनुवर्तते । तत्रायमन्वयः- यत्रै कस्मिन्द्रव्ये व्यपृथक्त्वे द्रव्यावयवभेदे सत्येव विचेष्टापृथक्त्वेनाओं निप्पद्यते - १ छ. ट. तदर्थ । ख. छ. ट. 'दो याऽनुसंख्याति । ३ क. च, ट, ठ, दा तिन । ४. "पर सं' । ५ न. सूष्णीमिति च । ६ छ. ट.bणी चतुर्थमिति च। १५०पटळ:]. महादेवकृतवैजयन्तीव्याख्यासमेतम् । ४५ तत्राभ्यावर्तते मन्त्र इति । द्वितीयाया विपरिणामेन योजना | आवर्तत एव, नाऽऽवृत्तिपरिसंख्येयम् । उदाहरति-

ययाऽऽज्यग्रहणे लवने स्तरणे च ।

अयमाशयः-षोडशान्याज्यानि भवन्तीति यद्यप्याज्यशब्देनक द्रव्यं तथापि पोडशानीत्यवान्तरद्रव्यभेदात । चतु“हामष्टावुपभृति चतुर्धवायामिति च क्रियाभ्यासः श्रूयते, स तु संसृष्ट एकस्मिन्नेवाऽऽज्ये द्रव्ये, तथाऽपि संख्यया सुवेण ग्रहणं नियम्यते । आज्यत्वेनैकद्रव्यत्वेऽपि खुवपरिमाणेन परिच्छिन्नस्योद्देश्यस्य षोडशानां नानादव्यत्वादस्त्येव मन्त्रावृत्तिः । संस्कारस्य दृष्टार्थत्वे स्वेण ग्रहणं नियतमाज्यस्था. स्यास्तद्गृहीतमेव मन्त्र संस्कृतमगृहीतं तु मन्त्रान्तरेणैव संस्कर्तुं युक्तं, तथा मन्त्रावृत्तिः। क्रियावृत्तिस्तु न संभवति । यथा प्रोक्षित पुनरपि प्रोक्ष्यते नैवं गृहीतमेव पुनर्ग्रहीत शक्यत इति पुनर्गृह्यमाणं द्रव्यं संस्कृताहव्यान्तरमेवेति मन्त्रावृत्तिः । बहिर्विषये लव- नस्तरणोदाहरणप्रदर्शनं बहिर्जुनातीत्यादौ द्रव्यैकत्वेऽपि मुष्टिमात्रस्यावयवत्वं सनखं मुष्टि दातीति विधानात्तत्रापि पूर्ववत् । महिषा वेदिय स्तृणातीत्येकद्रव्यत्वेऽपि त्रिधातु पञ्चधातु वेति विभागेन स्तरणविधानात्तत्रापि पूर्ववत् । एतेन यत्र बहुवचनेन पात्राणि संमृशतीत्यादि विधीयते तत्रापि समर्शनं सकृत्कर्तुं न शक्यत इति मवेदेवाऽऽवृत्तिः । तत्र ग्रहणसमार्गवन्न प्रतिपात्रं किंतु यावान्त सकृत्समर्शनयोग्यानि तत्र सकृदन्यत्र पुनरावृत्तिरिति केचिदाहस्तनिरस्तम् । तत्रापि केनापि प्रकारेण नानादन्यताया अदर्श नान्सकृन्मन्त्र इत्येव न्याय्यम् । नाप्यत्र प्रकारान्तरेण वक्ष्यमाणमपि द्रव्यपृथक्त्वामावेऽपि मन्त्राभ्यासकारणमास्ति । यदाह भरद्वाजः मन्त्रव्यवाये मन्त्राम्यासो व्यपृथक्त्वेऽर्थ- पृथक्त्वे देशपृथक्त्वे च ' इति । शुल्बावेष्टने प्रतिधातु मन्त्रावृत्तिमध्य आवेष्टन- क्रियायाः संधानमन्त्रेण व्यवधानात् । व्यपृथक्त्वे दर्शित एव । अर्थः प्रयोजनं, तस्य पृथक्त्वे कृष्णाजिनादानमवहननार्थ पेषणार्थ च । देशपृथक्त्वे दक्षिणकपालयोग उत्तरकपालयोगे च मन्त्राभ्यासः । एवं कालपृथक्त्वेऽप्युपवेषादाने सायं सांनाय्यार्थ प्रातः कपालार्थमङ्गारकार्य आवृत्तिः । तत्र तत्र स्वयं मन्त्रावृत्तिमेव दर्शयिष्यति ।

अर्थपृथक्त्वात्कण्डूयनमन्त्रोऽभ्यावर्तते ।

अर्थः प्रयोजनमुद्देश्यं निमित्तं च तस्य नानात्वाद्र्व्यैक्येऽपि मन्त्र आवर्तते । यथा सुपिप्पलाम्य इति शिरः कण्डूयते विषाणे विष्येतीतराङ्गानी(णी)ति शिरसि यावन्ति कण्डूयनान्युद्दिश्य प्रवृत्तस्तावतां सकृन्मन्त्रः । तथा चाम्यासे निमित्तं कालव्यवायः, स $ , १क व. समवं । च. ख. सन्ना। 1 ॥ सत्याषाढविरचितं श्रौतसूत्र- [१प्रथमप्रभे- त्वर्थपृथक्त्वेनैव व्याख्येयोऽन्यथा कालक्रमेण जातानां निद्राणां प्रत्येकं निमित्तत्वे नैकस्यामपि रात्रावावृत्तिर्मन्त्रस्य प्रप्सम्येत । तस्मादेतावता कालेन जातानां कण्डूय- नानां बुद्धावारूढानां तथा जनिष्यमाणानां स्वापानां नदीतरणानां जातानामम्बुवर्षाणा- ममेध्यदर्शनानामपि निमित्तत्वेन प्राप्तानि प्रतिमन्त्रोचारणानि तानि सकृदेवेति । स्वापे मन्त्रः--अग्ने त्वर सुनागृहीति । मन्त्र एकस्यां स्वप्स्यतः सकृदेव । सर्वस्वापान्ते बुद्ध्वाऽपि विश्वे देवा इति सक्कदेव । राज्यन्तर आवर्तते । नदीतरे नानास्रोतस्कायामपि सरणे देवीरापो अपां नपादिति सकृन्नद्यन्तर आवृत्तिः । अम्बुवर्षे-उन्दतीर्बलमिति धुद्धया यावत्कालवर्षेषु कोडीकृतेषु सकृत्ततोऽन्यत्राऽऽवृत्तिः । अमेध्यदर्शने--अबद्धं मन इति पूर्ववत् । भद्रादमि श्रेय इति दीक्षितं प्रयान्तमनुमन्त्रयते । अत्र दीक्षितो रहे दीक्षित्वा यषु पुण्यमरण्यं प्रयाति। तत्रैतावदत्वा स्थास्यामीति संकल्पिते तावत्पर्य- तं सकृन्मन्त्रः । देवादधिकप्रयाणे पुनमन्त्रः । भावृत्तिप्रसङ्गेन साधनावृत्तौ विशेषमाह-

परार्थान्येकेन क्रियेरन् ।

पुरोडाशश्नपणार्थ प्रयुक्तेन कपालेन परार्थानि तुषोषवापादीनि तान्येकेनैव कपालेन क्रियेरकर्तव्यानि । कुतः, तत्र न कपालसंस्कारार्थस्तुषोपवापः । येन तुपैः पुरोडाश- कपालं पूरयित्वेति कपाले द्वितीयया विभक्त्या ग्रहं संमाष्टर्टीतिवत्संस्कार्यत्वं प्रतीयेत । अपि तु भूतोपयोगिनां तुषाणामेव प्रतिपत्तिलक्षणः संस्कारः । कुनः, शाखान्तरे पुरो- डाशकपालेन तुषानुपवपतीति तुषा एक द्वितीयया प्रतिपाद्यत्वेनोद्देश्या उपवापः प्रति- पत्तिस्तेषां कपालेनेति तृतीयया तस्य साधनत्वावगतेविधेयगतं विशेषणं विवक्षितम् । एवं च तुषप्रतिपत्त्यर्थ कपालं साधनमेव न झुभयोः संस्कार्यत्वं युक्तम् । ततस्तु कपालमिति द्वितीयाऽऽर्थिक कर्मणि तथा युक्त चानीप्सितमिति विधीयते । तथा कपालस्य विधे. यत्वेन विवक्षितैकत्वादेकेनैव सर्वतुषोपवापः सन्मन्त्रेण ततस्तूष्णीम् । पुरोडाशका. लेन तुषोपवापोऽन्यसनीयः । न हि तुषोपवापार्थ कपालानि प्रयुक्तानि । येनान्येषां वैयर्यभयेन तुषोपवापे विनियोगः सर्वेषां स्यात् । किं तु परार्थानि तानि, यतः पुसे- डाशकपालेनेति पुरोडाशसंबन्धित्वेन ग्रहणादतः पुरोडाशश्नपणेन तानि सर्वाणि सप्र: योजनानीति वक्तुमुकं परा(नीति । अर्थात्परानकेनेति गम्यते । उदाहरति-

यया कपालेनोपवपति यजमानेन संमितौदुम्बरी भवतीति ।

कपालेनेति व्याख्यातम् । तथा नानायजमानेषु कर्भमु द्वादशाहादिषु कर्मफलभोगाथ १ क.ग.प. छ, ट, ठ, "णि संम। . २० पटलः] महादेनकृतवैजयन्तीव्याख्यासमेतम् । प्रवृत्तानां यजमानानां मध्य एकेन यजमानेनौदम्बरीमाने सति शास्त्रार्थों निष्पन्नस्ततो- ऽन्ययजमानेन मानं नापेक्ष्यते । न हि मानं यजमान संस्कारो येन सर्वेषां प्राप्नुयादेक- स्वाविवक्षया विधेयो यनमामः साधनत्वेनातो विवक्षितमेकत्वम् । परार्थानीति किम् । एकेन बहिषा वेविस्तरणे सिद्धेऽपि बहिषामपरायत्वादन्येषामयुना युजां वा वैयर्थ्य मा भूदिति संस्कारोऽभ्वस्यते । तदेव वक्ष्यति–' त्रिधातु पञ्चधातु पो पातौ धातौ मन्त्रमावर्तयति' इति । तैः सर्वैरनैकैः क्रियत इति प्रत्युदाहरणम् । कर्मविशेषे कर्तृनियममाह-

यजुर्वेदेनाध्वर्युः करोति ।

यजुवेदेन यद्विधीयते तत्सर्गेणाऽऽध्वर्यवमिति याज्ञिकैय॑पदिश्यते । अध्वर्योः कर्माऽऽध्वर्यवमिति वृतोऽध्वर्यु नाति मया यजुर्वेदविहितं कर्तव्यमिति । अन्यथा येन केनचिहत्विजा वृतेन किमपि कर्तव्यमित्यनियमः स्यात् । तत्रावान्तरसंज्ञया ब्रह्मत्वं होत्रं चैतादृशं नियम्यते । कात्यायनेन तु अध्वर्युः कर्मसु वेदयोगादित्युक्तम् । तत्रा- ध्वर्युरित्यत्विजः संज्ञाऽध्वर्युवेद इति वेद संज्ञाय । तेनाध्वयुक्तो जानाति मत्संज्ञकेन विहितं मया कर्तव्यमिति सूत्रयोजना । यजुर्वेदेन विधीयते तदध्वयुरेव करोति संज्ञा- साम्यादिति शेषः।

ऋग्वेदेन होता।

ऋग्वेदेन यद्विधीयते तद्धोता करोति । मेदविहितस्य कर्मण उत्सर्गेण हौत्र- मिति पूर्ववयवहारात् । अत्रापि कात्यायनोक्तप्रकारेणापि योजना । ब्रह्मत्वस्यावान्तर- संज्ञया वेदैकदेशे बाझं कर्म ।

सामवेदेनोद्गाता ।

पूर्ववद्याख्याब्रह्मत्वे च ।

सर्वैर्ब्रह्मा ।

यजुर्वेदवेदसामवेदेषु च स्वातन्त्र्येणैकदेशे संज्ञा ब्रह्मत्वमिति । त्रिभिः संज्ञाविशेषै. खत्वं नियम्यते । अथर्ववेदे चोत्सर्गेण विहितस्य ब्रह्मत्वमिति संज्ञाप्रसिद्धा विशेष- बचोमिस्तत्राध्वर्युहोत्रौद्गात्राणां शेषो ज्ञेयः । अन्यसंज्ञाभिश्च शान्त्यादि ज्ञेयम् । अतो विशेषसंज्ञाभिर्विहितं वेदत्रये ब्रह्मत्वं नाथर्वणस्य शेष इति पूर्वमेव दर्शितम् । अत. स्तानि वेदभेदेन ब्रह्मत्वानि विकल्प्यन्ते । अथर्ववेदोक्तं तु स्वत एव । अतः सैंदर्वि हितं समप्राधान्येन तद्ब्रह्मा करोति । कात्यायनीयानुसारेणाऽऽथर्वणाः स्वं वेदं ब्रह्मवेद- क. ग. च. छ. द. ठ, वेति । २ ख. छ. ८. क्रियन्त । ३ ख. छ. ट."शे प्रमक । क. ग. च. ठ, पेदेन । ५ क, ग, च. ठ, कल्पन्ते । “सत्यापाविरचितं श्रौतसूत्र- [प्रथमप्रश्शे- मिति व्यवहरन्त्यत उत्सर्गेण संज्ञासामान्येनापर्ववेदविहितं ब्रह्मा करोति । वेदत्रये तु विशेषसंज्ञया विहितं करोत्येव । एवमुत्सर्गेण तत्तद्वेदविहितस्प कर्मण ऋत्विकर्तृक त्वनियमे सत्यपवादमाह-

वचनलक्षणा इतरे ।

पचन संज्ञाविशेषो विधायक वाक्यं च । तदेवान्येषामृस्विनामनृविनां च लक्षणं येषां ते तथा । इतरे 'चतुर्योऽन्ये कुर्वन्तीत्यनुषको विपरिणामश्च । तेषामुत्सर्गण वेदप्रयुक्तं कर्म नास्तीति विशेषवचनैः प्रमाणैः कुर्वन्तीत्यर्थः । तथा चतुर्णा स्वस्ववेदेषु नियमेऽपि संज्ञाविशेषैस्तेषामपि परस्परमन्यवेदविहितमपि किमपि कर्तव्यं दृश्यत इत्यनेनैव नियम्यते । अत्रोदाहरणानि, संज्ञया होत्रं यजुर्वेदस्थमपि. होता करोति । पचनं पत्नी पिनष्टि दासी वा । स्वयमग्निहोत्रं जुहोति उन्नेता जुहोति नेष्टा पत्नियामुद्गात्रा संख्यापयति ।

असंभवाद्वा ।

इतर इत्यनुषङ्गः । यस्य यत्कर्म विहितं तेन तस्य कर्तुमसंपवोऽसमावना सस्मात् । उदाहरति-

यथाऽश्वमेधे पशुकर्मसु ।

• अत्र पशूपाकरणं नानादेशस्थनानापशूनामेकेनाध्वर्युणा कर्तुमशक्यमिति न हि वेदेनाशक्यं विधीयते, विधीयते च, तस्मादन्यं कर्तारमपि विदधाति न तु पश्चन्तरोपाक. रणाद्यभावमनुजानाति वेदः कर्मवैगुण्यापत्तेः । तस्मादन्यैर्ऋत्विगादिभिः कार्य, नात्र प्रायश्चित्तं प्रतिनिधिग्रहण इव । बहुवचनग्रहणात्प्रोक्षणादिकमपि प्रकृतौ यद्यस्य विहित तत्तेन कर्तुमशक्यमन्येन कर्तव्यमिति । साधननियम व्याचष्टे-

आहवनीय आहुतयो जुह्वा हूयन्ते ।

आहवनीयस्याधिकरणता श्रुतिप्तमाख्या यां, यदाहवनीये जुह्वतीति श्रुतिः, समाख्या च हूयतेऽस्मिन्नित्याहवनीय इति । हूयतेऽनयेति जुहूरिति समाख्यया साधनता जह्वाः । आहुतयोऽत्र कर्माणि जुहोतिना विहितानि यस्य कस्याप्यत्विनः । एवं चेदमुक्त- यत्राऽऽहंतयो हूयन्ते तत्राधिकरणमाहवनीय, साधनं जुहूः । तथा च वेदचतुष्टयवि- हितकर्मणामुत्विना ये होमा विहिता येन केनचिद्रव्येण तेषामेतावानेव नियमः, ते सर्वेऽपि तेर्नुह्वाऽऽहवनीय एव कार्या इति नियम्यते । सामान्यश्रुतेर्वाधोऽपि गार्ह. पत्यादिश्रुत्या द्रष्टव्यः । एवं जुल्हा साधनेनति नियमः । सोऽपि समाख्ययैव । विशेष. क. ग.न. छ. . याहा । ख. प्रमाण । ख. र.धु विनि । ३ क. ग. च. 3. "प्रोहण । ४ क.ट. 'वं वेद । । प्र.पटलः महादेवकृतवैजयन्तीव्याख्यासमेतम् । विधिनाऽस्य बाघोऽपि द्रष्टव्यः । या वैदिकेषु दविहोमेषु दर्शपूर्णमासतको चाना- मतेष्वेव दर्षिहोमान्व्याख्यास्याम इत्यत्रोक्त ज्ञेयम् । कुतः । अत्राऽऽहुतिमात्रस्यानु. क्तद्रव्ये विशेषस्यैव नियमात् । तथा कर्तुविशेषेणानभिधानात् । दर्शपूर्णमासयोई- व्यनियमस्य सोमेऽपि च द्रव्यविशेषस्य वक्ष्यमाणस्वात् । दविहोमेषु तु यत्र द्रव्यं न श्रूयते तत्रैव तूष्णोकेनाऽऽज्येनेति तथाऽध्वर्युरिति नियमसंभवात् । सोमे होमस्य नाना- कर्तृकत्वात् । दर्शपूर्णमासंतोमतन्त्रान्तर्गतोङ्गदव्यकर्तृविरोधात् । तत्रानन्तर्गता अङ्ग- भूताः स्वतन्त्रा वा दर्विहोमशब्देन व्याख्येया इति गम्यते । तेन दर्शपूर्णमासयोरना. देशे चोत्तरतउपचारो विहार इत्युत्तरत एव स्थित्वा जुहुयात्तषेतरधर्माणां परिसंख्या सत्रैव व्याख्यास्यते । तथा सोमेऽपि सोमाहुतीनामपीति ज्ञेयम् । तस्मात्परिशेषाद्दर्श- पौर्णमासतन्त्रान्तर्गतहोमसोमाहुतित्वविधिहोमेभ्योऽन्ये हि तव्यका जुहोतिचोदना. चोरिता दविहोमाः पारिभाषिकधर्मयुक्ता दर्विहोमान्व्याख्यास्याम इत्यत्र व्याख्यास्यन्ते नान्य इति ज्ञेयम् । कर्मनियुक्तानां विहारे स्वेच्छया संधारं निवारयति-

उत्तरतउपचारो विहारः ॥२॥

श्रुतिरवोसरतउपचारो वै यज्ञ इति । तसिस्तृतीयार्थे सप्तम्यर्थे था। विहारस्य य उत्तर. मागस्तेन तत्र वोपसमीपे चारो गमनागमने कार्ये न दक्षिणमागेनेत्यर्थः । तत्रापि सामान्यश्रुतेविशेषलिङ्गादिना बाध आज्यसंस्कारवसतीवरीपरिहारादौ पंक्ष्यते । अनियतदेशस्य कर्मणो देशनियम ध्याचष्टे-

प्राङ्न्यायान्युदङ्न्यायानि वा प्रदक्षिणं यज्ञे कर्माणि करोति ।

प्राश्मयुदचि च कर्माणि सतिष्ठेरभितिश्रुतेः प्रागपवर्गाणि कर्माण्युदगपवर्गाणि वा करो. तीति नियमः । न्यायः समाप्तिः । तथा प्रदक्षिणं नियम्यन्ते । कात्यायनेन चाऽऽवृत्तौ सामन्ते च प्रायश्चि प्रदक्षिणमिति श्रुत्यनुसारेणोक्तम् । प्रापयुदश्चयावृत्तौ सामन्ते च प्रदक्षिणमिति कर्मावृत्तौ प्राङ्न्यायानीत्यादि । सामन्ते समन्ताद्विहिते कर्मणि प्रद- क्षिणमिति नियमः । तेन न सर्वत्र प्राङ्यायानीति, नापि प्रदक्षिणमिति किंतु पूर्वोक्तव्यवस्थया । यज्ञग्रहणं वैतानिककर्ममात्रमहणार्थम् । या स्मृतिः पिम्येषु दक्षि. जापवर्गाण्यप्रदक्षिणं कर्माणीति सा स्मार्तेष्वेव । अत्र यज्ञग्रहणेन प्रत्यक्षदर्शितश्रुत्यनु। सारेणाविशेषेण देवपित्र्येषु प्राङ्न्यायान्युट्यायानि वा प्रदक्षिणमिति च निय. १ क. ग. ब. छ. उ. 'जुदि । २ ट. शेषणा । ३ क. ग. च. ट, ससाम' । ४. ट. गंतद । ५ क, ग, च. ठ. ताॉई। ६ ख, . र उ । ख. इ. श्रीपूर्ण । ८ द. मासान्त । एक, ख. ग. च. छ. उ. वक्ष्यते। ७ सत्याषाढविरचितं श्रौतसूत्र- [१प्रथमप्र- म्यते । प्रदक्षिणमनु परिप्लावयतीति सामन्तत्वख्यापनार्थम् । शुल्बकरणेऽपि प्रदक्षिण- मिति विधास्यते, प्रथमत एव प्रदक्षिणमेकगुणमित्यर्थः । तत्तु द्विगुणरज्जुकरणनिवार- गार्थम् । द्विगुणा हि रज्जुर्गुणानामप्रादक्षिण्ये प्रदक्षिणं यज्ञकर्माणीत्यनेनैव भवेत् । तथा मा भूदेकगुणेत्येवं वक्तुं प्रथमं प्रदक्षिणमेवाऽऽवेष्टयेत्तथाचैकगुणं चेत्यर्थः । तेन न पुनरुक्तं प्रदर्शितन्यायेनैव सर्वत्राऽऽवेष्टनकरणसंभवान्न पृथक्सूत्रकरणम् । तथा हि-यदा रज्जूरेकगुणा तदा मूलमधः कृत्वाऽप्रमुपरि कृत्वा वेष्टयति, तदेवं प्रदक्षिणं भवति । द्विगुणायां तु गुणकरणं द्वौ गुणौ कृत्वा वेष्टयति । अथ वा सहैव गुणौ संपादयन्वेष्टयतीति । तत्र प्रधानानुरोधेनाप्रदक्षिणं गुणौ कृत्वा प्रदक्षिणमावेष्टयति । द्वितीये पक्षे तु गुणार्थ द्रव्यं द्वयोर्हस्तयो?धा कृत्वा वामहस्ते दक्षिण पुरतश्चालयन्ध र्षणेन गुणौ कुर्वन्नावेष्टयेद्रज्जुमिति । त्रिगुणायां तु तृतीयगुणोऽप्यप्रादक्षिण्यनैव भवतिः । स्पष्टमेतदापस्तम्बेनोक्तम् -' यानि शुल्बानि समासं गच्छन्ति प्रसव्यं तान्यावेष्ट प्रदक्षिणं समस्येदय यानि समस्यन्ते प्रदक्षिणं तानि ' इति । शुरुवान्यावे. ष्टितानि सन्ति द्विगुणानीत्यर्थः । ।

न यज्ञाङ्गेनाऽऽत्मानमन्यं वाऽभिपरिहरति ।

आत्मानमन्य वाऽभिलक्षीकृत्य परिहारमर्थप्राप्तमनिष्टत्वेन तयज्ञानेन न परिहरति । तसस्तु यज्ञानेन स्फ्यादिनाऽऽत्मानमन्यं वाऽत्रानुलक्षीकृत्याऽऽगच्छल्लोष्टादि न परि- हार्यम् । तथा शूर्पादिना धूमादिवाधाऽपि न परिहर्तव्या। नापि मक्षिकादिनिवारणम् । आत्मना तह चरितो जीव एवान्यो गृह्यते । तेन यज्ञपात्रैर्यज्ञपात्राणां मलिकादि. वारणे न दोषः । विस्मरणेन परिहारे कृते सर्वप्रायश्चित्तं कुर्यात् । कर्तृणां नियमान्तरमाह-

न विहारादुपपर्यावर्तते।

न विहारादपच्छिद्य वर्तत इत्येकं वाक्यं, नापच्छिद्यन्ते (ते) । तदुक्तमाश्वलायनेन- विहारावल्यावृत्तिः । द्वितीयं वाक्यं, ल्यलोपे पञ्चमी । विहारं प्राप्य न पर्यातते, आत्मानं परीत्य नाऽऽवर्तते । स्पष्ट मुक्तं बौधायनेन–'यदि प्रादक्षिणेनासेन- पर्यावर्तते यदि प्रत्यङ्सव्येन ' इति । तथा चाऽऽत्मानं मध्ये कृत्वा न पर्यावर्तनीय- मित्यर्थः। , १ ट. 'गुणिना। २ ख. छ. 2. "न। ३ ख. हारार्थ प्रा। छ. द. हारार्थ । क. न. म. च. 3. 'रन्ति । त । ५ ख. ८, "मत। क. स. म. घ. छ. ट, ठ, "तन्ते । मा ७ के. ख. ग. च.छ.उ. वर्तन्त । .क. ख. म. च... तन्ते, आ" । ९ स. ग. च.. 'तन्ते । स्प . । । 4 -१५० पटल]] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ५१ संचारे विशेषान्तरमाह-

अन्तराणि यज्ञाङ्गानि बाह्याः कर्तारः ।

अन्तराणि यज्ञाङ्गानि केषामित्याकाङ्क्षायाममीना प्राधान्यादुपस्थितिस्तेषामन्तराणि। अन्तरशब्दः परिधानवाची । ततस्तु परिधानमिव संलग्नानि समीपस्थानीत्यर्थः । बाह्या बहिर्भवा बाह्याः । केम्य इत्यपेक्षायां यज्ञाङ्गेभ्य इयुक्तमर्थाद्यतस्तान्यन्तराणि समीपस्थानि । तेषामग्नीनां च मध्ये कर्तृभिर्न संचरणीयमित्यर्थः । कर्तृणां मध्ये यज. मान आन्तरः । ततः पल्येव बाह्या । ताभ्यामध्वर्युरेव, तेभ्यो ब्रह्मैव, ततो होतेव, तत उद्गाता । एवमन्येऽपि ज्ञेयाः।

प्राचीनावीती पित्र्याणि करोति ।

अत्र स्मृत्योपवीतं दैवे पित्र्ये प्राचीनावीतं प्राप्तमेव । तदुक्तं कात्यायनेन- 'उपवीतिनः कुर्वन्ति स्मृतेः' इति, 'विपर्यस्य पित्र्येषु ' इति च । पुरुष संस्कारवेन माप्तस्यायमनुवादः । किमर्थम् , उत्तरार्थमित्युच्यते । एवमुत्सँगै स्माते च प्राप्तेऽपवादमाह-

यज्ञोपवीती दर्शपूर्णमासयोरग्निहोत्रे च ।

पित्र्याणि कर्माणीत्यप्यनुवर्तते । दर्शपूर्णमासयोरग्निहोत्रे च यानि पिच्याणि कर्माणि तानि यज्ञोपवीत्येव कुर्यात् । अयमभिप्रायः-उपवीतीति वकव्ये यज्ञोपवी- तीति स्वाध्यायब्राह्मणप्रत्यभिज्ञानार्थम् । तत्र हि यज्ञोपवीत्येवाधीचीत याजयेद्यनेत वा' इति विहिते पुनरुपव्ययत इति विधिः प्राप्त पुनरारम्भो नियमावेति दर्शपूर्ण- मासयोः पित्र्येऽपि कणि यज्ञोपवीत्येव कुर्यात् । कुतः । यत एतदुपव्ययत इति नियम्यते । न च प्राचीनावीतं पितृणामिति विधिकल्पकमिति वाच्यम् । स्मृत्या प्राप्तस्य कर्मान्तरेऽत्र स्तुत्यर्थत्वेनानुवादसंभवात् । निवीताधिकरणे व्युत्पादितमाचा. पैरेतत् । तथाऽग्निहोत्रस्याप्रत्यभिज्ञानाकर्ममात्रे प्रौप्तस्मार्तयज्ञोपवीतित्वानुवादोऽय- मिति तत्राऽऽचार्यस्याभिमतं, किंतु मृताग्निहोत्रसजातीयं वैकग्निहोत्रं यज्ञोपवीती दोहयतीति दोहधर्मेण बुद्धिस्थं तत्र यज्ञोपवीतित्वविधिरित्युपरिसमिद्धारणवदित्युप- देशः । तेन स्मृत्याऽग्निहोत्र उपवीतित्वप्राप्तावपि यज्ञोपवीतित्वविधानं पियेऽपि नियमार्थमिति । तदपि यज्ञोपवीतीति यज्ञग्रहणेनाधिकन मृताग्निहोत्रे यज्ञोपवीति- शब्दप्रत्यभिज्ञानार्थम् ।

अनियमोऽन्यत्र ।

दर्शपूर्णमासाग्निहोत्रेभ्योऽन्येषु कर्मसु पिव्येषु यज्ञोपवीतीत्यनियमो नियमो नास्ति । १क. स. ग. च. उ. तेन प्रा । २ छ. ट.प्रस्य च. प्राप्त स्मा। 4 सत्यापाढविरचितं श्रौतसूत्र- [प्रथमप्रमे यथा स्मृत्या प्राप्तं तथैव । श्रुत्योनियामिकयोः कल्पितयोरत्र प्राप्त्या दर्शपूर्णमास- देवाग्निहोत्रम्योऽन्यत्र प्राप्त्यमावादित्यर्थः । प्रत्येक दर्शपूर्णमासलक्षणकालस्योत्पत्तिवाक्ये संवन्धावगमादेकैकमेवाऽऽग्नेयादिक- मैंककस्मिन्कालेऽनुष्ठेयमित्याशक्याऽऽह-

चोदनासंयोगात्प्रधानान्येककालानि ।

अनेकप्रधानोपकारकाङ्गविधिचिन्तेयम् । सामान्यत एकस्मिन्फले निमित्त बोद्देश्ये चोदनयाऽधिकारविधिना दर्शपूर्षमासाम्यां यतेत्यनेन, तथाऽमावास्यायाममावास्यया यजेत पौर्णमास्यां पौर्णमास्येति च कालद्वये समुदायकरणात्प्रधानानि सन्ति । एकः कालोऽनुष्ठाने येषां तानि तथा भवितुमर्हन्ति । संज्ञा वा प्रकृतपरामर्शेनैत- येष्वा यजत इति वा यानि कोडीकृत्य विधीयन्ते तानि प्रधानानि सहचोदितत्वा- देककालानीतरेतरव्यपेक्षाण्येव सहयावं गच्छन्ति । न हि तान्यसमुदितान्येकप्रयोन- नानि भवन्ति । समुदायश्चैककालान बन्धन इति नैकैकत्र दर्शे पूर्णमासे वैकैकमित्यु- सर्गः । युगपत्कर्तव्येषु कर्मस सन्सु-

तेषां विभवन्ति तन्त्रमङ्गान्यविभवन्त्यावर्तन्ते ।

तेषामेककालानां तत्रं सकृदनानि सकृदनुष्ठितान्येवाङ्गानि । किमविशेषेण नेत्याह- विभवन्ति समर्थानि, यानि युगपदनुष्ठितानि सर्वोपकारे समर्थानि तान्येव तन्त्र नान्यानि । पूर्वसूत्रेऽपि कालोऽहं तन्त्रेण न प्रत्येकं चेति चिन्ता । तयाऽपि तस्या- विधेयत्वेन सकृदनुष्ठानायोगात्यक्चिन्ता । कर्मणामखैरुपकारो द्वेषाऽदृष्टो दृष्टश्चेति । तत्रादृष्टार्थानां प्रयाजादीनां दृष्टानामपि वेद्यादीनामस्त्येव सामर्थ्य, याज्यापुरोनुवा- क्यादीनामसामर्थ्यावावृत्तिः । कुतः । चोदनासंयोगादित्यनुवर्तते । चोदनयोत्पत्ति- वाक्ये कधभावाकाङ्क्षादिभिः सहैत योगायुगपदेवाङ्गैः सह संबन्धात्सर्वेऽपि यागा यद्यपि पृथक्पृथक्कथंभावाकाङ्क्षिणस्तथाऽपि युगपदेव चारैः संबध्यन्ते सकृच्छ्रुतैरङ्गैर्न पौर्वापर्येण सकृच्छुतान्यान्यपि कि माव्यमिति सहैत साकाङ्क्षाणि युगपदेव प्रधानैः संबध्यन्ते युगपदेवान्वयं गच्छन्तीति नाऽऽवृत्त्या संबध्यन्ते । अत्र चोदनासंयोगादित्य- स्यान्या व्याख्या चोदना श्रुतिस्तया संयोगात्संहत्य योगेन तद्गणनात्संख्यानादर्शपूर्णमास- प्रधानानामशानां च तया परिगणितत्वातन्त्रमेव युक्तम् । तथाहि, श्रूयते श्रुतौ) हि-ता एकविंशतिराहुतयो द्वावाधारी पञ्च प्रयाजा द्वावाज्यभागावाग्नेयः पुरोडाशस्तद्दशाग्नीषो- १८. तथापि । २ क. ग. च, ठ, "त्पन्ना। 3 क. ख. म. च. ४, 'इक्षिभिः । । ट. ख्यानां दर्श।

१५०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ५३ मीय उपांशुयानोऽग्नीषोमीयः पुरोडाशोऽग्निः स्विष्टकृदिडा त्रयोऽनूयाजाः सूक्तवाका शंयोर्वाकश्चाथ यदेवादः पत्नीसंयाजेषु संप्रगृह्णाति समिष्टयर्जुश्चेत्याहुतीनामेकविंशति- संख्या दृश्यते, सा तन्त्रानुष्ठाने मवति नान्यथेति । एकया चोदनया सह मावेऽपि क्वचिदपवादमाह-

नानाकालेषु पृथक् ।

नानाकाला विहिता येषां कर्मणां तानि तथा तेषु प्रत्येककालपधानं पृथक्पुनः पुनर- जानि कर्तव्यानि । पौर्णमास्यां कृतानामङ्गानामवृद्धिस्थत्वादसहभावापौर्वापर्यविपर्ययाचं दर्शऽपि सहैव पौपियेंण पृथगनुष्ठेयान्यङ्गानीति भावः । यद्यपि योगपद्यमधिकारविधिना प्रधानानां सहभावविधिस्तथाऽपि विशेषश्रुत्या भिन्नकालानामेव साधनत्वमित्यर्थः । यथा दर्शपूर्णमासाम्यां स्वर्गकामो यनेतेति सहभावेऽपि पौर्णमास्यां पौर्णमास्या यजतेऽ. मावास्यायाममावास्ययेति नानाकालता (ता) । बहुवचनेन च तथैव चातुर्मास्यैर्यजत इति राजसूयेन यजेतेति विधिषु कालभेदो ज्ञेयः । तत्राङ्गानामावृत्तिरपि भवतीति पौर्णमासी. मात्राहुतीनामेपैकविंशतिसंख्याविधानादित्यर्थः । ननु दर्शपूर्णमासादिप्रधानानामेव कालदेशकर्तृविधिरमावास्यायाममावास्ययेत्या- दिना समे दर्शपूर्णमासाभ्यां यतेत्येका श्रुतिः, प्राचीनप्रवणे दर्शपूर्णमासाम्यामित्यन्या, तथा दर्शपूर्णमासयोर्यज्ञक्रतोश्चत्वार ऋविज इति, अर्थायार्थायाग्निप्रणयनं तथा उत्त- रस्यां वेद्यामन्यानि वीषि सादयति । दक्षिणार्या मारुतीम् ' इति प्रधानमात्रस्य दक्षिणोत्तराग्न्योः प्रचारो विहितः । एवं चाहानामन्यैः कालादिमिर्भवितव्यमि- त्याशङ्क्याऽऽह-

यः प्रधानस्य कालः सोऽङ्गानाꣳ स देशः स कर्ता सोऽग्निः ।

अत्र दर्शपूर्णमासादिशब्दविहिताः कालादयो नाङ्गैः सैवध्यन्ते, नाङ्गानां दर्शादिन शब्दवाच्यता, तस्मादङ्गानां कालादिभेद इति प्राप्त इदं सूत्रम् । चोदनादिभि- प्रयोगविधिभिः सानं प्रधानं युगपत्कुर्यादित्येतः साङ्गस्य प्रयोगस्य संबन्धित्वेन कालादिसंबन्धविधानात्प्रयोगश्च साङ्गस्येति कालादि समानम् । एवं चार्थावार्थायाग्नि- प्रणयनम् । तथाऽपि प्रधानाङ्गं देवतापरिग्रहे सति तदर्थमन्यन्वाधाने कृते सति । तदभिप्रणयनै सकृत्तन्त्रेण साङ्गप्रधानोपकारकं भवति । विकृतिष्वम्यन्वाधानात्पूर्व- तनेषु होमेषु पृथक्पृथगेव प्रणयनम् । पश्चादी चान्वारम्मणीयादिभिर्यज्ञारम्भार्यत्वेन विधानान्न पुनः प्रणयनम् । दर्शपूर्णमासचातुर्मास्यान्वारम्भणीयाया अर्थवादेनादृष्टार्ष- - १ क. ग. च. छ. उ. 'जुषचे । २ क. म. च. ठ. भक्च पुनः। 32. "नं च कृतं तन्। सत्याषाढविरचितं श्रौतसूत्र- [प्रथमप्रश्ने- त्वावगमात्तथा सारस्वतहोमयोः पृथक्प्रणयनम् । एवं च सति योगपये तन्त्रमङ्गानां सिद्धम् । कालदेशकग्निभेदे प्रधानानां विद्यमाने पृथगङ्गानुष्ठानमपि सिद्धम् । दर्शपूर्णमासाङ्गलया पात्राण्युत्पादितानि तानि नान्यस्य प्रयोगस्याङ्गं भवितुमर्हन्ति । ततः प्रयोगान्तरार्थमन्यान्येवमन्येष्वपि प्रयोगेष्विति प्राप्त आह-

आधानप्रभृति यावज्जीवं पात्राणि धार्यन्ते ।

स्पयादिपात्राणि आधानप्रभृति यावज्जीवं धार्यन्ते । तैरेव यावनीवं प्रयोगः कार्यः । न हि दर्शपूर्णमासप्रकरणे तेषामुत्पत्तिर्विधीयतेऽपि तु सर्वार्थमनारम्याधी- तविधिभिः प्रकरणाबहिरेव लौकिकेन कर्मणाऽऽधानेनानीनामिव । तस्माद्धारणं नियम्पते प्रयोगान्तरार्थमुन्सर्गे वा विरामे वा धार्याण्येव । कुतः । तत्र हेतुर्जीव- शब्देनोक्तो मृत एव प्रतिपत्तिविधानात् , गृहीतस्याविधिना त्यागायोगात् । देशक- @स्तु परिगृहीतत्यागः शिष्टैनोऽऽहत इति तत्यागेऽपि न गर्हेत्याहुर्मीमांसकाः । ने तु प्रतिपत्तिर्धारणं न प्रयोजयेदिति वाच्यम् । यजमानशरीरसंस्कारार्थान्यपि श्रूयन्ते । तद्यथा-पाने तु यजमानेन सह पात्राणि दहेतीत्युक्त्वा यजमानस्य दक्षिणे हस्ते जमुपदधातीत्यादिनाऽऽधारत्वेन शरीरस्यापि संस्कार्यत्वावगमात्पात्राणां द्विती- यया प्रतिपाद्यत्वावगमादवैगुण्याय धार्यन्ते । आधानप्रभृतीत्यनेन यानि दर्शपूर्णमास- पशुचातुर्मास्यसोमानां पात्राण्यप्रतिपादितानि तानि सर्वाणीत्यर्थः । यावन्नीवमिति यावत्प्रतिपत्ति धार्याणि । यः पूर्व म्रियते तेनैव पात्राणां प्रतिपत्तिः । प्रवनति वन. मनग्निर्वा प्रतिष्ठति तदा भार्यया धार्यन्ते पात्राणि । ननु सकृदेव संस्कृतानामग्नीनामिव पात्राणामङ्गत्वमस्त्वित्याशझ्याऽऽह-

तेषां प्रतितन्त्रꣳ सꣳस्कारोऽभ्यावर्तते ।

आधानेनानारम्याधीतेनोत्पादितानामनीनां न प्रयोगमध्य उत्पत्तिः । पात्रसंस्कारो हि प्रोगमध्ये कृतः । स एकस्मिन्प्रयोगे कृतो न प्रयोगान्तरस्याङ्गं प्रयाजादिवदिति प्रतितन्त्र प्रतिप्रयोग कर्तव्यः । आधाष्टिषु कृतोऽपि पात्रसंस्कारोऽतिदेशेनैष प्राप्त- इति नाऽऽधानवत्सकृत् । पात्राणां प्रयोगमध्ये भेदनादौ प्रायश्चित्तं कृत्वा प्रतिनिधि- ह्यो योग्योऽनुपयुक्तस्य यथाशास्त्र प्रतिपत्तिः । प्रयोगात्पूर्वमसामर्थे त्वसमर्थमेव प्रयोगकालपर्यन्तं स्थापयित्वा प्रतिनिधाय तस्य शुचौ देश आहवनीये वा प्रतिपत्तिः कार्या। बौधायनीये ह्यसमारण्योराहवनीये प्रतिपत्तिदर्शनात् । एतावता सूत्रसंदर्भण सर्ववेदसर्वकर्तृसर्वकर्मसर्वानाना(णां) सामान्येन साध्यसाधनभावावेदनेन प्रयोगसामा- न्यस्वरूपं दर्शितं, विशेषस्तु जैमिनीयन्यायैरवगन्तव्य इति सूचितम् । १८. नमिति सि । २ ख. 2. तान्येकस्य । ३ ग. उ. विप्र ख. छ. ८. ननु । ५ स. इन्तीत्यु । ६८. वति । ७ ख. च. ट. देशत एष । ५५. १प्र० पटलः महादेवकृतवैजयन्तीव्याख्यासमेतम् । अथ प्रयोगः। प्रयोगक्रमाधिकारास्तु न सामान्यतो व्याख्येया इति तेषां प्रयोगविशेषा. देव स्पष्टा विशेषा भविष्यन्तीति फलप्रदर्शनपूर्वकं दर्शपूर्णमासप्रयोग व्याचष्टे-सर्वकामा- वित्यादिना ननु तृतीयप्रश्ने सर्वनियतकर्मणां निःश्रेयसं फलं व्याख्यास्यमानमन्त्र व्याख्याय पश्चात्सर्वकामावित्यादिना व्याख्येयमिति चेत् । सत्यम् । यज्ञं व्याख्यास्याम इत्यारभ्य व्याख्या या कृता सा तु कर्मकाण्डमात्रविषयनैमिनीयन्यायोपबृंहणेन कृता, न चात्र नैमिनिना कर्मणां मोक्षोपायतोक्ता, येन तदुपबृंहणं क्रमप्राप्तमत्रैव स्वेन कर्तव्य स्यात्किं तार्ह किंचिदविवेचितं नियतकर्मसाध्यं फलमस्तीत्येतावदेव जैमिनीये ऽर्थीसिद्धं तत्तथैव दर्शपूर्णमासयोरेव ताभ्यां यावजीवं यजेतेति कर्मकाण्डमात्राधिकारिणं प्रत्येव व्याख्यास्यते । दर्शपूर्णमासाबुपोद्घातत्वेनैव व्याख्येयावाधानाचे वाऽनुष्ठानक्रमस्य मुख्यत्वात् । तस्मादत्रोपोद्घातमात्रेण दर्शपूर्णमासयोरवसा इति दर्शयितुं जैमिनीय- न्यायसिद्धमेव फलमनूद्यते । ततः परमाधानादिप्रयोगे व्याख्येये बादरायणमतसिद्धं फलं मुमुखं प्रकृत्य स्वतन्त्रशास्त्रसिद्धत्वेन पृथगधिकारिप्रकरणतया प्राधान्येन प्रतिज्ञा. तानां नियतकर्मणां प्राधान्येनैव फलं व्याख्येयमिति दर्शयितुं तत्रैव व्याख्यास्यते । यच्च काम्यप्रयोगे फलं तत्तु प्रयोगभेदेन जैमिनीयन्यायेनैव दर्शपूर्णमासयोदर्शयिष्यते । प्रासङ्गिकमुत्तरत्र सर्व ज्ञेयमिति तदुत्तरत्र न व्याख्यायते । कर्मणाऽभ्युदय इत्येतत्तु निःश्रेयसफलसाधनोपयोगितयैव व्याख्यास्यत इति न क्वाप्यनवसरेण व्याख्या । आधानेष्टीनां विकृतिरूपत्वेन दर्शपूर्णमासविध्यन्तापेक्षायामाधानात्पूर्व तावेवाऽऽदौ निरूपयंस्तद्विषयन्यायप्रदर्शनार्थ तयोरादौ फलसंबन्धं व्याचष्टे-

सर्वकामौ दर्शपूर्णमासौ ।

कस्यांचिच्छाखायां धूयते । काम्य एव फलवत्ता जैमिनीचे साधिता। न चास्मच्छा- खायां दर्शपूर्णमासयोः फलं श्रूयते । न च तस्मिन्नसति कथमित्याकाङ्क्षात्मकं प्रकरण- मुदेति । तथा च तौ समानविधानावित्यादि न व्याख्यातुं युक्तमिति फलमेव बुद्धा पुरुषः प्रवर्तत इति तदादौ वक्तुं युक्तम् । शाखान्तरे हि श्रूयते–'एकस्मै वै कामायान्ये यज्ञक्रतत्र आरभ्यन्ते, सर्वेभ्यो वै कामेभ्यो दर्शपूर्णमासौ ' इति । तदिदं व्याख्यानतो निर्दिष्टम् । काम्यन्ते ते कामा इष्टानीति यावत् । सर्वे कामा याम्यां साधनाभ्यां साध्यास्तौ सर्वकामौ । परसरापे- क्षाणामेव कारणता । दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति प्रसिद्धं वाक्यमुपेक्षितम् । .क. ग. च. 3. 'गकर्माधि। २8, 'चिटुचितं । ३ क. ग. च. छ. उ. यजत इति । च. 'येनानु। सत्पाषाढविरचितं श्रौतसूत्र- [प्रथमप्रमे सत्र प्रयोगदोदाहरणत्वामावः । स्वशाखायां च परमामेव काष्ठा गच्छतीत्यर्थवादेन फलकल्पनाऽपि न युक्ता श्रौते फले सति । तस्मादिदमेव फलमुदाहृत्य विचार्यते कि शाखान्तरीयमत्रोपसंहर्तव्यं फलं न वा । तत्र नोपसंहारः कर्तुं युक्तः । कुतः । दर्शपू. णमाससंज्ञया प्रत्यभिज्ञानेऽपि फलस्याविधेयस्वाद्विहितयोरेव फलानुवादेन विधानमयु- क्तमतोऽभ्यासाकर्मभेद एवेति प्राप्तेऽभिधीयते-

तौ समानविधानौ।

अप्रत्यदर्शपूर्णमासाभ्यां समानविधानौ तत्रत्ययोरप्रत्ययोश्वामिन्नयोः समानमेकमेव फलविधानं ब्राह्मणं ययोस्ती तथा । अयं भावः- यथा सर्वेभ्यः कामेभ्यो दर्शपूर्णमासा- वित्यधिकारविधिना दर्शपूर्णमासस्वेन तत्रत्वो विहितो तथा तत्वा तेनैव शब्ने- नैतावपि विहितौ । न च संनिधिर्विशेषकः । प्रत्यभिज्ञया संनिधेरपि साम्पात् । तत्रा. प्येतो यदि प्रत्यभिज्ञातौ तदा कयोरसंनिधिर्मवेत् । तथा च यथोत्पत्त्यादिविधिविहि- तयोस्तत्रत्ययोः फलार्थ विधानमेवमनयोरपीति संतोष्टव्यम् । अन्यथा तत्रापि विहि- तस्य न विधिरिति तयोरपि कर्मभेदे प्राप्ते न कस्यापि कर्मणः फलपत्ता भवेत् । ययोश्च फलवत्ता न तयोरुत्पत्त्यादिविषय इत्यतिविशीर्ण कर्म नानुष्ठेयं स्यात् । न हि निष्फलमनुष्ठेयम् । न च फलवदपि द्रव्यदेवतादिसंबन्धविधुरं दर्शपूर्णमासशब्दप्रतिपाद्य स्यादरूपत्वेन कालसंबन्धानवगमात् । ययोश्चावगतस्तयोरफलत्वादप्राप्ते शास्त्रमर्थवदिति फलोद्देशेन पुनर्विधानं युक्तमिति। तदुक्तं नैमिनिन!- संनिधौ स्वविमागेन फलार्थेन पुनः श्रुतिः' इति । प्रत्यभिज्ञया संनिधापित कर्मणि भेदाभावेन तदेव फलार्थ पुनः श्रुत्या विधीयत इत्यर्थः । एतेन दर्शपूर्णमासप्रकरणं सर्ववेदसर्वशाखास्वेकमेवेत्युक्तम् । सदिदमाहु:--'सर्वशाखाप्रत्ययमेक कर्म ' इति । यदि यादृशं विहितं तादृशमेव चेत्पुनर्विधीयेत तदा भवेदम्यासात्कर्ममेदोऽप्राप्तेऽशे विधानान्न सा विधिपुनःश्रुतिरिति । ननु प्रतिशाखं विविधगुणभेदेन शाखान्तरीयानुष्ठाने प्रायश्चित्तश्रवणाच्च कर्मभेदे प्रत्यभिज्ञा भ्रान्ततिशङ्कानिरासार्थमाह-

निर्देशाद्व्यवतिष्ठेते ।

समानविधानावपि गुणादिभेदेन यस्यां शाखायां निर्दिष्टौ तेषां शाखिना तावेव व्यवस्थितौ च व्यवस्थितविकरुपमाप्तौ विहिताविति यावत् । तेन तं प्रति तथैव निर्दिष्ट- विशेषेणैव व्यवस्थितौ ज्ञेयो । तथा प्रयोगभेदमात्रं स्थान तु कर्मभेदः । यथा नीले घंटे संकेतग्राही पोतेऽपि घटोऽयमिति प्रत्येत्येवं स्वशाखीयकिंचिद्गणविशिष्टयोदर्शपूर्ण मासत्वेनावगती शाखान्तरेऽपि गुणान्तरविशिष्टावपि दर्शपूर्णमासावकत्वेनैव गृह्णातीति , क. ग. च. ८. "दिदं वारतब। २ क. प. प. . . "स्यापि श्रेयस्त्वादि । 1 १५०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । सर्वसाक्षिकम् । न केवलशाखाभेद एव प्रयोगभेदः कित्वेकस्यामपि नानागोत्राणां तनून- पानाराशंलभेदेनोदितानुदितभेदेन चाग्निहोत्रेऽपि प्रयोगमेददर्शनात् । तस्मात्स्वशाखा- गुणाबाधेनैव समानविधानौ, ततो न सर्वशाखाप्रत्यभिज्ञाबाध इति भावः । आवृत्त्या पुनरेते सूत्रे व्याख्येये अग्रिमप्रयोगनिर्वाहाय पूर्वोक्ताकतन्त्रनिर्वाहाय च । सर्वकामतया फलवत्तयाऽवगतौ स्वशाखायामुत्पत्तिविधिमिः प्रत्येक विहितौ तदा प्रत्येकं करणत्वेनावगतौ प्रत्येकं कथंभावाकालिगौ तौ समानविधानौ समानानि सर्वेषां समुदाययोः प्रत्येकं विधानानि ब्राह्मणानि ययोस्तौ तथा । तथा चाङ्गविधानानि समा- नानि न स्वरूपविधानानि संभवन्ति भिन्नकमत्वात् । तथा च संनिधिसमाख्ये अनाहत्य विहिता असंनिहिताश्च पदार्था अङ्गत्वेन गृह्यन्त इत्यर्थः । किमविशेषान्नेत्याह- निर्देशो विशेषावेदकं प्रमाणं वचनमिति यावत्तस्मादेव व्यवस्थितावित्यर्थः । तत्र स्पयादिद्वव्याणां संस्कारकर्मणां च योग्यतालक्षणेन सामर्थेन तेषां व्यवस्था, तथा मन्त्राणामपि, केषांचित्प्रमाणान्तरेणापि । आरादुपकारिणां तु सर्वत्र समानैवाङ्गता । वैमृधप्रभृतीनां तु वचनाद्यवस्थेति बोद्धव्यम् । प्रयोगे नैव स्पष्टयिष्यते । अङ्गिनोयैव- स्थाभिधानेनाङ्गानामेव व्यवस्थोक्ता । तेन कानिचिदङ्गानि प्रधानेषु साक्षानुपकुर्वन्ति कानिचिदद्वारेत्यपि व्यवस्था संगृहीतेति । तेन मन्त्राणां लिङ्गेन विनियुक्तानां साक्षा- प्रधानाङ्गत्वाभावेऽपि अन्वाधानाद्यङ्गत्वेनापि व्यवस्थितानां समानविधानावित्यनेन न त्यागः। यानि साक्षादङ्गानि यानि च परम्परया तानि सर्वाण्यपि विधानशब्देन संगृहीतानि ।

ताभ्यां यावज्जीवं यजते त्रिशतं वा वर्षाणि ।

जीवनं निमित्त प्राणधारणं तन्न कर्माङ्गं भवतीति यावजीववाक्येन न काम्ययोः काल- विधिः किंतु निमित्तान्तरे तो विधीयते । त्रिंशदादिकालसंबन्धेनापि नान्यौ भिन्नौ तत्त्वेन प्रत्यभिज्ञानादित्याह-ताम्यामिति ।यौ सर्वकामार्थों ताभ्यामिति प्रत्यभिज्ञा जातिनिमित्ता न व्यक्तिनिमित्ता । एकस्यां व्यक्तौ निमित्तार्थत्वं कामार्थत्वं च न सिध्यति । उद्देश्यद्वये प्रयोगद्वयावश्यं भावयेत् । तथा च निमित्तेनोपलक्षिते काले प्रयोगो नित्यस्तस्यैव शाखान्तरे कालान्तरविधानं त्रिंशतमिति तत्रैवाऽऽपस्तम्बेन जीणों वा विरमेदिति कालान्तर विहितं, काम्ये त्वैहिकफलाय यावत्फलप्राप्त्यनुष्ठानं, पारलौकिक तु सकृदभ्यासाश्रवणात्। तथा च नैती प्रकृतिविकृतिभावं भजेते द्विविधावपि यो पुनद्वितीयप्रश्ने काम्यौ व्याख्या स्यते गुणवैकृतौ च ।

एकस्मिन्मयोगे सर्वान्कामाकामयेत प्रयोगपृथक्त्वे वैकैकम् ।

यथा पशुकामोऽनेकान्पशूनेकस्मिन्प्रयोगे कामयत एवं सर्वान्कामान्कामयेतेति पूर्व । . ८ ५८ 2 सत्याषाढविरचितं श्रौतसूत्र- [१प्रथमप्रश्ने- पक्षयित्वोच्यते प्रयोगपृथक्त्वे वैकैकम् । वेति पूर्वपक्षो व्यावर्तते । कामानां प्राधान्येन प्रतिप्रधानमगावृत्तिय्या । न च पशुदृष्टान्त एकजात्या क्रोडीकृतानामेकफलत्वम् । नचात्र तथा । उद्दिश्यमानानां फलानां न स्वरूपेण फलत्वं किं तु काम्यमानत्वेन । न सर्वस्य सर्व काम्यं तथा वेदमिदमिति बुद्धया ग्राह्यं तत्रैकया क्रोडीकर्तुं शक्यत इति प्रतिप्रधानमगावृत्तिः । तस्माद्वाक्यमेदोऽङ्गीकार्यः । प्रजाकामो दर्शपूर्णमासाभ्यां यजेत पशुकाम इत्यादि।

पूर्वा पौर्णमास्युत्तराऽमावास्या।

अत्र दर्शपूर्णमासौ निर्दिष्टौ दर्शपूर्वी सर्वत्र तथा पाठक्रमेणवोभयोरनुष्ठाने प्राप्त इदं सूत्रम् । तत्रायमर्थः-अरूपान्तरमिति दर्शस्य पूर्वनिपातेऽपि पूर्वा पौर्णमास्येवाss. रम्मणोयाप्रकरणे सारस्वतहोमार्थवादे 'य एनयोरनुलोमं च प्रतिलोमं च विद्यादित्यमावा- स्याया ऊर्ध्व तदनुलोमं पौर्णमास्यै प्रतीचीनं तत्प्रतिलोमम्' इत्युक्त्वा 'यत्पौर्णमासी पूर्वा- मालमेत प्रतिलोममेनावालमेत' इत्यादिना पूर्णमासस्य पूर्वानुष्ठाने दोषोऽभिधीयते । तहोपपरिहाराय सारस्वतहोमयोविधिरिति कृत्वा पूर्वा पौर्णमासी तथैवोत्तराऽमावास्यै- वात्र बहूनि लिङ्गान्यनुमन्त्रणसूक्तवाकदेवतायान्यादीनीति भावः । ननु दर्शपूर्णमासशब्दो कालपरौ कथं सर्वकामौ दर्शपूर्णमासावित्यादिनिर्देश इत्यत आह-

पौर्णमास्यां पौर्णमास्या यजतेऽमावास्यायाममावास्यया ।

अत्र सप्तमीनिर्दिष्टोऽधिकरणं कालस्तृतीयानिर्दिष्टौ न कालौ, तयोरधिकरणत्वेनैव साधेनत्वेऽसति करणत्वायोगात् । तस्माद्यागनामधेये । तथोक्तं-'विधाने वाऽनुवादे वा यागः करणमिष्यते । तत्समीपे तृतीयान्तं तद्वाचित्वं न मुश्चति ॥ इति । तस्मात्पौर्णमास्यमावास्याकालयोः क्रियमाणत्वात्कर्मसमुदायावपि तन्नामको । अनेन घ फलकरणस्यैकत्वेऽपि तस्य कालभेदात्प्रयोगभेदेन कालनिमित्तकरणावयवकर्मसमुदा. यवाचकत्वेन द्विवचनमुपपद्यतेऽशीषोमयोरिव दर्शपूर्णमासयोरेते वाक्ये समुदायद्व- यानुवादेनाऽऽ याद्युत्पत्तिवाक्यविहितकालानन्यत्वेऽप्येकैकस्मिन्समुदाय एकैक एवं । १ क. मिति । २ ख. र. दोषमभिधीय त। ३ ख. र. तथोत्त। ४ ट, 'छौ यागौ न । ५क, ग, च. छ. उ, धने स। खछ. ठ. यान्तस्तद्वा । ७ क. ख. ग. च. छ. "कालनान्य। द. कालजन्य । - १प्र०पटल: महादेवकृतवैजयन्तीव्याख्यासमेतम् । कालोऽङ्ग प्रयोगयोरित विधत्तः । अत एवोक्तम्-चोदनासंयोगादित्यादि । समु- दाये च विद्वद्वाक्यावगतो य एवं विद्वानमावास्यां यजते य एवं विद्वान्पौर्णमासी यजत इति सूत्रवाक्ये पाठानुसारेण नस्वनुष्ठानानुसारेण पठित एकैकस्मिन्समुदायो न । एक- वचनेन न समुदितानामेव संज्ञाकरणं, किंतूत्पत्तिवाक्यावगतपरस्परसंबन्धनिरपेक्षाग्नेय- त्वाष्टाकपालत्वादिवकैकस्यैव प्रत्येक संज्ञा पर्यवस्यति । तेनाग्नीषोमीयाकरणपक्षेऽपि क्रियमाणयागयोरेवाऽऽग्नेयोपांशुयाजयोरेव संज्ञेति सिध्यति । ततस्तु काम्यदर्शपूर्णमास- योरप्यो प्रदयमानयोरुपांशुयानामावेऽपि क्वचिद्दनो मावेऽपि क्वचिहणान्तरसंयोगे संज्ञा न हीयते । तत्राप्युत्पत्तिवाक्य कालविधानात् । तद्यथा दाक्षायणयज्ञे पूर्णमासे संनयेन्मैत्रावरुण्याऽऽमिक्षयाऽमावास्यायां यजेतेति शास्त्रान्तरे यत्र कौण्डपायिनाम- यने कर्मणि मासं दर्शपूर्णमासाम्यां यनेतेति तत्र गौणी संज्ञो । अविधिस्तेषां मखः ऋतुसमूह इति संज्ञा मुख्यास्तदमावे शब्दमात्रम् । यत्र पश्चात्संज्ञासबन्धादन्यधर्म- लामस्तत्र गौणी । यथाऽग्निहोत्रसंज्ञा मुख्या यदग्नये च प्रजापतये च सायं जुहोती- त्युत्पत्तिवाक्येऽनदर्शनान्मुख्या । कौण्डपायिनामयने कर्मणि मासमग्निहोत्रं जुहोतीति कालविधौ नाग्निदेवता विधानमिति गौणी । काभ्यदर्शपूर्णमासयोनित्यदर्शपूर्णमासयो- रपि मुख्यैव संज्ञा, दर्शपूर्णमासाम्यां स्वर्गकामो यजेतेति कस्यांनिच्छाखायां विधान साङ्गयोरस्ति । यत्रापि यावजीवं दर्शपूर्णमासाम्यां यतेत्यत्रापि तथा कालविशिष्टा- थोत्पत्तिविधय उभयत्रापि सर्वकामावित्यत्र तु फलवाक्यमनारम्याधीतम् । पौर्णमास्यां पौर्णमास्येत्यादि यदुक्तं तत्र कोऽयं पौर्णमासी नाम यागोऽमावास्या नामेत्यपेक्षायां नामयोपात्तान्विविच्य प्रधानयागान्दर्शयति-

आग्नेयोऽष्टाकपाल उपाꣳशुयाजश्चाग्नीषोमीयो वैष्णवः प्राजापत्यो वाऽग्नीषोमीयश्चैकादशकपालःपौर्णमास्यां प्रधानानि ।

प्रधानानीति बहुवचनेन कर्मणां प्रधानभूतानां भेद उक्तः । प्रधानानीत्यनुवर्ततेऽनि- मेऽपि सूत्रे । तत्रापि कर्मभेद एव । अग्नीषोमायो यद्यपि पञ्चमप्रपाठके समाम्नातोऽय षष्ठप्रपाठक आग्नेयस्तथाऽपि (e) याज्यादिहौत्रानुष्ठानकाले तु स्मारकत्वात्प्राबल्यं तत्कमेण कम इति जैमिनीयैः साधितं ज्ञेयम् ।

नासोमयाजिनो ब्राह्मणस्याग्नीषोमीयः पुरोडाशो विद्यत इत्येकेषामाग्नेयोऽष्टाकपाल ऐन्द्राग्न एका-

ः ।१ के. स्व. ग. च. ठ. "शा । २ क, ख, ग, च. उ. ३ ३ क, ख, ग. च. °य एका'। ४४. लेऽनुस्मा । सत्याषाढविरचितं श्रौतसूत्रं- [१प्रथमप्रश्न-

दशकपालो द्वादशकपालो वाऽमावास्यायामसंनयत आग्नेयः सांनाय्यं च संनयतः ।

अत्र 'आग्नेयोऽष्टाकपालोऽमावास्यायां च पौर्णमास्यां चाच्युतो भवति' इति वाक्य- विहितस्योभयत्रोपादानम् । अत्रोत्पत्तिवाक्ये यजतिन श्रूयते तथाऽपि साऽस्य देव- तेत्यधिकारेऽग्नेर्डक्प्रत्ययो विधीयते । अष्टाकपाल इति त्वष्टसु कपालेषु संस्कृतः । संस्कृतं मक्षा इति सूत्रेणापत्यये सति तस्य लुकि सति निष्पन्नस्तयोः सामानाधिकरण्येन द्रव्यमष्टाकपालमग्निदेवतासंबन्धीति गम्यते । यद्यप्यत्र द्वयोविशेष्य नोकं तथाऽपि पुरोडाशः स इति वाक्यशेषादवगम्यते ' तेऽपश्यन्पुरोडाशं कर्म भूतम् ' इति । पुरो- डाशशब्दश्च जातिनिमित्तको लोके पिण्डाकारे द्रव्ये सुप्रसिद्ध इति न्याय इति दर्श- यितुं न प्रयुक्त आचार्येण । प्रकृतिद्रव्यमपि शास्त्रान्तरोक्तं नौहिमिर्यजेत यवैर्यजे. तेति निर्वापन(ण)व ज्ञास्यत इति । अन्यत्राग्नीषोमीयादिषु सर्वत्र न पुरोडाशशब्दो वाक्यशेषे तथाऽपि ज्ञास्यते । पिण्डकरणादिना पुरो डा(दा)श्यत इति व्युत्पत्तिः साधुत्वाय न यौगिकत्वाय । तेन त्रयम्बकपुरोडाशेषु न संस्कारा इति दर्शितम् । न च देवताद्रव्ययोरन्यः संबन्धोऽस्ति यत्तस्यैव द्रव्यस्य दीयमानत्वं विना । तावतैव संबन्धनिर्वाहे सति प्रक्षेपान्ततापर्यन्ततया होमकल्पने प्रमाणाभावात् । त्यागश्व दानरूपो यागः । प्रधानभूत एव होमें कल्प्यमाने तस्योपसर्गत्वं प्रक्षेपस्य प्राधान्यं स्यात् । न हि द्रव्यदेवतासंबन्धः प्रक्षेपेण विना न भवतीत्यस्ति । तात्पर्य- निकृतानुत्सृजतीत्यत्र तथा यागस्य दर्शनात् । तस्माद्यागमात्रेण संबन्धचरितार्थत्वाद्या- गमात्रं कल्पनीयम् । एतेन दानकल्पनाऽपि निरस्ता । यस्तु प्रक्षेपस्तस्य चतुरवत्तं जुहोतीति साक्षाद्विधिरेवास्ति । एवमन्यत्रापि यागकल्पना । उपाश्शुयानमन्तरा यजतीति साक्षाद्याग एव श्रूयते । यजयाजेति सूत्रेण संज्ञायां कुत्वाभावः । चकारो विलक्षणत्वमुपांशुयाजस्याऽऽह । त्रयाणामनीषोमीयादीनां विकल्प इति । अग्नीषो- .मीय इति वृद्धाच्छ इति देवताधिकारे । तथा वैष्णव इत्यौत्सर्गिकोऽण् । प्राजापत्य इति दित्यदित्यादित्यपत्युत्तरपदाण्ण्य इत्येता देवता मानवणिक्यो याज्याकाण्डात् । शाखान्तरेऽनीषोमावुपांशु यष्टव्यौ, अनामित्वायेत्यादिवाक्यौत् । यागद्रव्यं तु धौवमा- ज्यम् । सर्वस्मै वा एतद्यज्ञाय गृह्यते । यद्धृवायामाज्यम् ' इति । तदुक्तं- प्रौवं साधारणं द्रव्यं देवता मानवर्णिकी ' इति । उपांशुयाज इत्यन्वर्थसंज्ञा ।आग्नेययागादस्याभ्यासेन भेदोऽभ्यासो विधिपुनश्रुति - णेन देवतालक्षणेन द्रव्यलक्षणेने वोत्तरस्मादपि तथैवं सर्वेष्वप्युत्तरेषु ज्ञेयम् । आग्नेयस्य १८. स्यै द्र। १ ख. छ. ट, कल्पमा । ३. क. ग. च, छ. ८. वयाद्याज्यद । ट, क्यायजिद्र" । ४ क.ग. न. छ. ट. ठ. 'ताद। ५ क. न चोत्त। . 1 १५०पटलः महादेवकृतवैजयन्तीव्याख्यासमेतम् । परस्परसेदः कालभेदात्। 'अग्नीषोमीयमेकादशकपालं पूर्णमासे प्रायच्छत् ' इति द्रव्य- देवतासंबन्धानुवादाद्यागः पूर्ववदेव कल्पितः । - आग्नेयो वै ब्राह्मणोऽनोपोमीयेनेष्ट्या सौम्यो भवति ' इति शाखान्तरीयो विशिष्टाधिकरणो विधि कल्पिकोऽस्माकं क्षत्रि यवैश्ययोस्तु नित्य एवाग्नीषोमीयः । संनयदसंनयतोयवस्थया सानाय्यैन्द्राग्नयोविकल्प इत्यर्थः । ऐन्द्राग्नपक्षे यागद्वयममावास्यायाम् । सानाय्यं चैन्द्रं दध्यमावास्यायामैन्द्र पंयोऽमावास्यायामिति यागद्वयं, तद्रूड्या समुदितं सानाध्यम् । निर्वचनमपि ' यत्समनयन्तत्सांनाय्यस्य सांनाय्यत्वम् ' इति । तत्तु सोमयाज्यसोमयानिनोरपि । 'नासोमयानी संनयेत् । इति, कापेयाः संनयेरनिति च वक्ष्यमाणत्वात्तत्र यागत्रयम् ।

तदङ्गमितरे होमाः।

पूर्व सर्वकामौ दर्शपूर्णमासाविति शाखान्तरीयमधिकारविधि प्रदर्थ तस्य दर्श. पूर्णमासाम्यां सर्वान्कामोन्मादयेदिति वाक्याथ मत्वा कथमिति भावनायामङ्गाकाक्षिण्यां प्रत्येकोत्पन्नत्वेन सर्वाकाङ्क्षानिवृत्त्यर्थं तौ समानविधानावित्यनेन श्रुत्यादिप्रमाणे- रसंनिधिमनोहत्य कथंपादाकाक्षितत्वेन गृहीतैः पदार्थेः प्राकरणिकैरुपकृत्येत्युक्त्वा दृष्टार्थाङ्गानामसाधारण्येन प्राप्तेऽदृष्टोपकाराभावेऽदृष्टकल्पनाप्रप्तङ्गेन प्रश्ने तृतीये विचारयिष्यति । निर्देशादित्यनेन च प्रकरणे व्यवस्थाभावं परिहत्य प्रयोगभेदेऽपि न तयोः शब्दान्तरादिभिर्भेदोऽस्तीत्येवं ताम्यामित्यनेन पूर्व दर्शप्रयोगभेदमुक्त्वा समु- दायद्वित्वोपात्तसमुदायनामभ्यामनुष्ठानक्रममुक्त्वोत्पत्तिकालोपाधिकृतनामभ्यां समुदा- यानुवादेन द्वित्वसंख्याममावास्यायाममावास्यया यजत इत्यादिनोपपायोत्पत्त्यधी- नस्वरूपी ताविति द्रव्यदेवतात्मभ्यां निरूपितरूपयागाना(णां) कालद्वयसंबन्धन न्यायापेक्षवाक्यप्रतिपाद्यानि स्वरूपाण्युक्त्वा परिशेषसिद्धस्वरूपेण कथंभावापेक्षितोप- कारकाणि साकाङ्क्षत्वेनान्वययोग्यानि दर्शयत्यनेन सूत्रेण । तेषां कालसंवन्धेन प्राप्त- नाम्ना समुदायद्वयेन फलाय विधीयमानानामत एव कथंमावताकाक्षिणामर्थात्तभ्यः कालफलसंबन्धिभ्योऽन्येऽतो निष्फलाः पदार्थी विधिविषयीकृताः परम्परयाऽपि भान्यमिष्टमपेक्षमाणाः प्रधानानामङ्गं भवन्तीत्यर्थः। शेषोऽङ्गमित्यनान्तरम् । इदमपे. क्ष्योक्तं तौ समानविधानौ निर्देशाध्यवतिष्ठेते इति । तेषां यागानां फलवतामितरे भिन्नाः संनिहिताः पदार्था अफला जातिद्रव्यगुणक्रियात्मका अङ्गम् । 'दृष्टादृष्टोमयार्थत्वात्रिधाऽङ्गानि प्रचक्षते । दृष्टार्थ तु चतुर्धा स्याज्जातिव्य गुणक्रियाः ॥ इति । 7 १ ख. ट. "धिकारिणो । २ ट. मान्कामये । ३ क. ग. च. ठ. 'नावृत्य । 7 क. प्राप्ते- नास । ग. प्राप्त न स । च, ठ. प्राप्तानां स । ५ ख.नानी स। ६ क. ग. च, छ. 2. "त्यर्थाच. छ. ट. हितार्थाः प । । 3 सत्याषाढविरचितं श्रौतसूत्र- [१प्रथमप्रश्ने- फलवत्संनिधावफलं तदङ्गमिति च न्यायात् । जातिबीयादिः। द्रव्यं स्यादि। गुणो वैकङ्कतत्वादिः । क्रिया धात्वर्थरूपाः । तेषां मध्ये : जात्यादीनां संस्कारकर्मणां च स्पष्टदृष्टोपकारकत्वेन श्रुत्यादिप्रमाणैश्च स्पष्टमङ्गत्वम् । प्रयाजादियागानामपि परस्परमभ्यासाझेदः प्रधानयागेम्यश्च ते भिन्ना एवाफलाः सन्तो हि फलवतामङ्गम् दविहोमाश्च शब्दान्तरादेव भिन्नास्तेऽपीतर इत्यनेनैवाङ्गतां गताः पुनर्वहणं होमा इति यत्तेन चतुरवत्तं जुहोतीत्यादिना प्राप्तास्तेषां यागादविवेकमाशङ्ग्य निरस्यति वषट्का. रसाध्यत्वान्न तैमिन्नं वानमस्तीति यागान्तर्गत्याशङ्का शब्दान्तरात्सा निरस्ता । यागेम्यो यजतिचोदितेभ्यो होमा जुहोतिचोदिता भिन्नाः प्रक्षेपमात्ररूपा इति तेषां भेदस्तूप- पादित एव न विस्मरणीयो यागद्रव्यप्रतिपत्तिरूपत्वेन । एवं च दर्शपूर्णमासयोः फलप्रकरणयागस्वरूपमेदाङ्गानि निर्णीतानि । अथ प्रयोगो वक्तव्यः । तत्र प्रयोगाअभूतदर्शपूर्णमासाख्यकालस्य दिनद्वयात्म- कस्य विमागेन व्यवस्थिताङ्गतानिर्णयाय पौर्णमास्यमावास्याशब्दो व्याख्येयौ । तत्रेद- मिदानी विचार्यते-पौर्णमास्यां पौर्णमास्या यजतेऽमावास्यायाममावस्यया यजत इति कर्मणामेकैकतिथ्यात्मकः कालोऽङ्गत्वेन विहितः पुर्वेदरानं गृह्णात्युत्तरेधुर्यनतीति, 'पुर्वेद्युरिधमाबाहः करोति । यज्ञमेवाऽऽरम्य गृहीत्वोपवसति' इति, 'यो वै देवताः पूर्वः परिगृह्णाति स एनाः श्वोभूते यजते' इतिश्रुतिभिहकालताऽवगम्यते । तत्र विरोधात्सं. शयः । तत्रोमयदिनात्मकत्वमेकैकस्याङ्गभूतस्य कालस्य न संमवतीति निश्चितमन्यत- रव्हर्गौणं पूर्वमपरं वा. ग्राह्यमिति संदेहे स्थिते सूत्रेण पौर्णमासीविषये तावत्पूर्व- पक्षमाह-

पूर्वां पौर्णमासीमुपवसेत् ।

अन्वाधानादेरङ्गत्वात्तदेव पौर्णमासीशब्देन सामीप्येन लक्षितायां चतुर्दश्यामेव कार्य न तु प्रधान तथालक्षितायां प्रतिपदि कार्यमङ्गप्रधानविरोधे प्रधान बलीय इति न्यायादिति पूर्वपक्षसूत्रार्थः । कालाध्वनोरत्यन्तसंयोग इति द्वितीयाविभक्तिरिति नाऽऽशङ्कनीयम् । उपान्वध्यावास इत्युपपदविभक्तिरेव । नात्राशनाभाव उप- वासः, प्रातराशे दंपती अनीत इति विरोधात् । तस्मादयं 'देवता उपव- सन्तु मे, अहं ग्राम्यानुपवसामि' इति संकल्पो दृश्यते । तथोपवासशब्देन जाया. पत्योरेकवारं भोजनमेवति धर्मे वक्ष्यमाणत्वात्प्रातराशे जायापती सपिमिश्रमभीत इति, तदैवायैकवारं भोक्ष्यामीति संकल्पः कार्य इति । अथवा व्रतेन नियमग्रहणात्तदः क्षया 'उपावृत्तस्तु पापेभ्यो यस्तु वासो गुणैः सह । उपवासः स विज्ञेयः - 4 ३३ १५० पटलः] महादेवकृतवैजयन्तीब्याख्यासमेतम् । इति स्मरणात्संकल्पादीनामुपवासशब्देन ग्रहणम् । सिद्धान्तमाह-

संपूर्णां वा ।

वेति पूर्वपक्षव्यावृत्तिरन्यतरद्गौणे काले कर्तव्यमिति यदुक्तं तनेति । कुतः । संपूर्णी पौर्णमासीमेवोपवसेत् , पञ्चदशीमित्यर्थः, पौर्णमास्यामेव । यागस्य मुख्ये काळे प्रतिपदि विधानात् । 'पक्षान्ता उपवस्तव्याः पक्षादयो यष्टव्याः' इति स्मृतेः । तथा संधिममितो यजतीतिश्रुतेः पर्वप्रतिपदोः संधिर्यागमध्य उक्तो विरुध्येत । ताह किम- यमुक्त पौर्णमास्यां यजेतेति परदिने यागो गौण एवाऽऽपद्येतेति । न । उमयदिनात्मको मुख्यः कालो यतः संधिमभितो यजतीति चन्द्रपूरणनिमित्तोपलक्षिता पौर्णमासी दिनदया- मिका यागायोक्ता । संपूर्णा पूर्वदिनामिकां पौर्णमासीशब्दवाच्या पूर्वामुपवसेदित्याकृ- ध्यते पूर्वसूत्र सर्वमपि । तथा च चन्द्रपूरणवती द्वितीयाऽपि पौर्णमासी तिधिस्तत्र यष्टव्य- मित्यर्थादुक्तं भवति । गोभिलः–'यः परमो विप्रकर्षः सूर्याचन्द्रमप्लोः सा पौर्णमासी यः परमः संनिकर्षः साऽमावास्या'।क्षणमात्रमेव परमविप्रकर्षसनिकर्षशब्दवाच्यमुभयत्रापि पर्वप्रतिपदोः स एव संधानं तदुभयोरपि तिथ्योः सममेवेति तिथिद्वयात्मकः कालः स एवं क्षणश्चन्द्रस्य पूरणसंबन्धेनोपलक्षितः । तथा च श्रुतिः ‘पूर्णो मासो येन क्षणेन भवति सः' इति । तथा पूर्णो मासश्चन्द्रमा यस्मिन्क्षणे स इत्यपि पूर्णमासस्य निर्वचनदर्शनात् । तथा च श्रुतिः(तौ) 'ऊर्ध्वं मध्यरात्रात्पौर्णमास्यां चन्द्रमाः पूर्यते ' इत्यादिना क्षणस्वैव परमपूर्णत्वेनोपलक्षणत्वं परमविप्रकृष्टत्वेन च तिथ्योयोरे. वोक्तम् । परदिनात्मकत्वात्पूर्वामित्युक्तम् । तथाचायमर्थः-संपूर्णा दिनद्वयसाध्ययागाय संपूर्णी मुख्यामेव पौर्णमासी पूर्वा पूर्वदिनात्मिकामेवोपवासाय विहितामुपवसेत्परदि- नामिका पौर्णमासी मुख्यैव पूरणगुणयोगिनी यागकालत्वेन साक्षाद्विहिता पौर्ण- मास्यां यजेतेति सामर्थ्याचुक्ता । अनेन च पौर्णमासीशब्दार्थे प्रदर्शिते पूर्णमाप्त- शब्दोऽपि समानार्थत्वेन व्याख्यातो ज्ञेयः । तत्र पूर्णो मासश्चन्द्रमा यस्मिन्क्षणे तद्युक्तं तिथिद्वयं पौर्णमासी तेनोपलक्षितं तिथिद्वयं पूर्णमास इति न तद्धितोत्पत्तिः । संज्ञया रूढस्य पुंलिङ्गता । यथा यागत्रये पुंलिङ्गे पौर्णमास्यमावास्याशब्दौ रूढ्या स्त्रीलिङ्गी, दर्शपूर्णमासशब्दौ च तत्रैव पुंलिङ्गौ, तत्पर्यायत्वं न विरुध्यते, उभयोरे- कप्रवृत्तिनिमित्तत्वात्पर्यायत्वम् । तथा च श्रोते कर्मणि सर्वत्रेष्टिपशुसोमात्मके पूरण- गुणयोगादेव पौर्णमासीशब्दोदितः कालो दिनद्वयात्मकः प्रवर्तते, तथाऽमावास्या- शब्दोऽपि गुणान्तरादेव पिण्डपितृयज्ञादौ स्मार्तेषु च लोकप्रसिद्ध एव । कुतः । तस्मा- स्पितृभ्यः पूर्वेयुः क्रियत इति यागात्पूर्व एव दिवस इति दिङ्मात्रम् । , ६४ सत्यापाढविरचितं श्रौतसूत्र- [१प्रथमप्रश्ने- दर्श तु पूर्वपक्षो यद्यप्यनेन पूर्वसूत्रेणैव स्यात्तथाऽप्यन्यथा सिद्धान्तयितुं पुनः पूर्वपक्षमाह-

पूर्वाममावास्याम् ।

उपवसेदित्यनुवृत्तिः । पूर्ववद्यारव्या । सिद्धान्तमाह-

यदहर्वा न दृश्यते ।। ३ ।।

इति हिरण्यकेशिसूत्रे प्रथमप्रश्ने प्रथमः पटलः ॥१॥

चन्द्र इति शेषः । आपस्तम्बे तथा दृष्टत्वात् । न दृश्यत इत्यनेनामावास्या- शब्दोऽपि दर्शशब्दोऽप्येतदर्थत्वेन व्याख्यातौ । यतो न दृश्यते सूर्यसहभावादतोऽ. मावस्यदन्यतरस्यामिति पाणिनिस्मृत्याऽपि च सह वसतश्चन्द्राविस्मिन्निति त्वमावा. स्याशब्दस्तथा च सूर्येणैव दृश्यते नान्येनेति दर्शशब्दो व्याख्यातः । तथा च श्रुतिः- अमावास्याया औपवसथ्येऽहन्यूज़ मध्यंदिनाच्च चन्द्रमसमादित्यो रमते' इति । रभते लभते पश्यति नान्यदा विप्रकृष्टत्वात्काष्ठामिरित्यर्थः । तथा च निर्वचनमदर्शन- निमित्तं पुराणादौ दृश्यते तदपि सुतरां युक्तमिति सूत्रतात्पर्यम् । पर्वनिर्णयस्तु विशे. पानभिधानात्सामान्यकृतो ग्राह्यः । तथा हि शिष्टोदाहृताः स्मृतयः- 'आवर्तने यदा संधिः पर्वप्रतिपदोर्भवेत् । तदर्याग इष्येत परतश्चेत्परेऽहनि ॥ आवर्तनात्परत इत्यर्थः। तथा-पर्वप्रतिपदोः संधिरर्वागावर्तनाद्यदि । तस्मिन्नहनि यष्टव्यं पूर्वेयुः स्यादुपक्रमः ॥ उपक्रमोऽन्वाधानादि तत्समाप्य । पूर्वाहें मध्यमे वाऽपि यदि पर्व समाप्यते । . तदोपवासः पूर्वद्युस्तदहांग इष्यते ॥ आवर्तनात्परे संधिर्यदि तस्मिन्नुपक्रमः । परेद्युरिष्टिरित्येवं पर्वद्वयविनिर्णयः ॥ इति । तथा-'संधिश्चेत्संगवादूर्ध्वं प्राक्पर्यावर्तनाद्ववेः । सा पौर्णमासी विज्ञेया सद्यस्कालविधौ तिथिः ॥ इति । अयं पर्वनिर्णयो येषां शाखायां सूत्रे वा विशेषो नोक्तस्तेषाम् । नोक्तश्चास्म- च्छारवासूत्रयोरित्ययमेव ग्राह्यः । सूत्रमप्यावृत्त्याऽत्र निर्णये योजयितुं शक्यम् । - १ क. ग. च. छ. ट, ठ, ड, पूरणादौ । प्र० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ६५ पूर्वा चतुर्दशीयुक्तामुपवसेत् । यदि परेारसंपूर्णेत्यभिमसूत्रपालोचनयाऽर्थासित ध्येत् । संपूर्णा वेति, तस्याः साम्येन विहितायाः परम्परया प्रतिपदा संयुक्तामित्यर्था- स्यात् । संपूर्णा द्विधाविभक्तस्य दिवसस्य प्रयमार्धव्यापिस्वेन स्थितामित्यर्थः । तथा चासंपूर्णा चेत्परा तर्हि पूर्वी पौर्णमासीमित्यर्थादवगतम् । अत्रैवावान्तरभेदेन सद्य. स्कालो ज्ञेयः । तथा पूर्वाममावास्यामत्रापि समानं यदहन दृश्यत इति । तत्रापि पूर्व- युक्ता यस्मिन्दिने न दृश्यतेऽमावास्या तत्र संपूर्णममावास्यामित्याकृष्य योज्यं पूर्ववत् । अत्र संग्रहः-ौते कर्मणि मध्याह्नापरावाभ्यां विभज्यते । दिन स्मात' नवधा विभक्तेऽययुनोंऽशकाः ।। प्रातः पर्वाप्रवेशेऽपि स्यात्तदैव गुपक्रमः । संकल्पादिरिमामूर्नमिति मन्त्रो न लुप्यते ।। कालात्ययेऽपि कस्यांचित्तियौ सद्योऽपि न क्षतिः । सद्यः परिस्तृतौ लोप उभावनो मनोभवेत् ॥ अग्निं गृह्णामि सुरथमत्र श्व इति लुप्यते । विकृतिष्वपि सर्वासु सद्यस्कालामु चोहनम् ॥ पौर्णमासीविकारे तु नोहः प्रकृतिलोपतः । इमामूजमिति प्राप्तं सर्व स्यात्तु यथातिथि ॥ प्रतिपद्यवशिष्टायां यागः स्यान्न विलम्बनम् | विकृतिष्वपि सर्वासु यदि पूर्व यजिभवेत् ॥ नित्येन हविषेष्ट्वा तु ततः स्यान्न विलम्बनम् । योग औपवासथ्येऽति पूर्व पश्चात्तु नित्यतः ॥ न विशेषोऽस्ति कश्चित्त सत्याषाढानुशासनात् । विकृतिष्वपि सामर्थ्यावयहता वा पशावपि ।। पूर्वत्रोपक्रम कृत्वा यागं कुर्यात्तु पर्वणि । ततोऽपराहे रात्री वा नित्ययाग उपक्रमः ।। पशोनित्यस्य सद्योऽपि पूर्व पश्चाद्यनिर्भवेत् । काम्येष्टिपशुबन्धानां नित्ययागादनन्तरम् ।। काम्यकाण्डस्थितप्रायश्चित्तष्टिपशवन्धयोः । काम्येष्टौ यदि सानाय्यं तदा नित्येष्टयुपक्रमात् ॥ पूर्व पर्वणि यष्टव्यं सायं दोहस्ततः पुरा । काम्येष्टि पश्वा वास्ति ब्यहता कापि चेच्छया ।। १क.गच.ट.उ.मस्याः। १क, च.छ.. आग। $ सत्यापाडविरचितं श्रौतसूत्र- [१प्रथमप्र- अन्यत्र स्थितयोः पूर्व पश्चाद्वेति विकल्पनम् । चातुर्मास्येषुः सर्वेषु पूर्वेधुर्याग इष्यते ॥ केचिदाग्रयणेष्टौ तु व्यवस्थां ब्रुक्ते पुरा । पौर्णमास्यां परा दर्श कार्येय तु व्यवस्थिता ॥ पूर्वपक्षे याजयेदित्येतद्राह्मणवाक्यतः । तेषां स्मातानि कर्माणि संभवन्त्यविशेषतः ॥ आपूर्यमाणे कृष्णे वा पक्षे पुण्यक्ष एव च । ये दाक्षिणात्याः स्मार्तेषु पूर्वपक्ष इति श्रुतिम् ।। गृह्णन्ति तेषां नाऽऽप्रयणेष्टौ कश्चिनियमः स्थितः । अन्ये प्रकृतये पूर्वपक्षमेवं वदन्ति हि ॥ छन्दोगानुमृतास्तेषां मतं नेष्टं विरोधतः । अविशेषेण सूत्रे हि काम्ययागप्रचोदनात् ॥ हविषेष्ट्दैव नित्येन येन केनाविशेषतः । संक्षिप्य नानाविधयाऽपशब्दगैः सूत्रः समथैरतिगृहिताशयैः । न्यायाननेकांस्तु वितन्वता जडोऽप्यहं स्वसूत्रार्थविवेचकः कृतः ॥ तस्मै नमस्तेऽस्तु हिरण्यकशिने दुर्ग्राह्यवेदाम्बुधिपारदृश्वने । स मे स्वसूत्रार्थगति कृपाम्बुधिर्दिशत्वजस्रं जडतां प्रणोदयन् ॥ प्रयोगवैजयन्त्यास्तु मालायाः सूत्रसस्थितेः । न्यायसूत्रस्येह कृतो निर्णयः कौस्तुभी मणिः ॥ मध्यगो यज्ञवपुषस्तुष्टयेऽस्तु मयाऽर्पितः । गृह्णाति हि किमप्येष भक्तैर्यद्यत्ततः कृतम् ॥ इति सत्याषाढहिरण्यकशिसूत्रव्याख्यायां प्रयोगवैजयन्त्यां महादे वकृतायां प्रथमपश्ने प्रथमः पटला* ॥१॥

अथ द्वितीयः पटलः

प्रथमे पटले यज्ञं व्याख्यास्याम इतीरिते ।

यज्ञे मानं कर्तृशेषधर्माद्या अधिकारिणः ॥ १॥

  • एतदनन्तरं च. पुस्तके ' इति परिभाषाप्रकरण समाप्तम्' इति विद्यते ।

१क, यज्ञमा । ६७ २द्वि पटलः]. महादेवकृतवैजयन्तीव्याख्यासमेतम् । उक्ताः सामान्यतो दरों पूर्णमासे च पर्वणी । निर्णीते देवतास्तत्र प्रधानविषामपि ॥२॥ व्याख्यायाथ यजुर्वेदविहिताध्वर्यवं क्रमात् । निर्देशादपरेषां तच्छुत्या लिङ्गेन वाक्यतः ॥ ३ ॥ अवान्तरसमाख्यातो ब्रह्महोतृपतिष्वपि । गृह्यकर्म भवेत्पत्युज़विनोऽनभिधानतः ॥ ४ ॥ इष्टीनां पशुबन्धस्य प्रकृती तावदादितः । निरूप्यते दर्शपूर्णमासावध्वर्युकर्तृकौ ॥ ५ ॥ प्रथमस्य द्वितीयादिसप्तभिः पटलैस्तथा । द्वितीयस्याऽऽदिभैः षड्भिः पिण्डयज्ञश्च सप्तमे ॥६॥ ब्रह्मत्वं तु तयोरेव चाष्टमे तु विधीयते । याजमान हविर्यज्ञे षष्ठे प्रश्ने निरूप्यते ।। ७॥ हविर्यज्ञगत होत्रमेकर्षिशे वदिष्यति । हौत्राध्वर्यवशेषं तु तत्रैव प्रवरं तथा ॥ ८॥ सूत्रान्तरोपात्तमपि स्मृत्युक्तमपि चेर्यते । अविरुद्धं प्रयोगस्य साकल्यप्रतिपत्तये ॥९॥ व्याख्यास्याम इति ह्यादावाचार्येणैव दर्शितम् । व्याख्याने बहुकर्तृत्वं तन्न विस्मर्यतामिह ॥ १० ॥ उदयात्पूर्वमेवाऽऽदावग्निहोत्रे हुने सति । दंपती तु भवेयातां वस्त्रयज्ञोपवीतिनौ ॥ ११॥ आचान्तावपरेणैव गार्हपत्यं कुशेष्वपि ॥ स्थितौ कुशधरौ स्वान्तान्त)त्रिर्यतासू यथाविधि ॥ १२ ॥ विनायकादि संपूज्य कालं चापि विशेषतः । कुर्वात दंपती आगूष्करणं तत्सहैव तौ ॥ १३ ॥ प्रयोगे प्रथमे वक्ष्यय॑न्वारम्भणपूर्वकम् । विधि तत्रापि संकल्पो वक्ष्यते काम्यनित्ययोः ॥ १४ ॥ कामेन संप्रवृत्तेऽपि यदा कामो निवर्तते । तदा ताम्यां च यष्टव्यं न त्याज्यौ सति जीवने ॥१५॥ १ ठ. ड. पर्वणि । २ क. ग. च. ८. ड. "तासूत्र । । क. ग. च. 3.ड, 'ख्याते हैं। ट. संस्तुत्य । ५ क. ग. च. छ. ट, ठ, इ. वाऽपि । ६ क. ग, च, छ. ठ, ड. "त्यन्तर । क. भ,ठ,ह,याचने। सत्याषाढविरचितं श्रौतसूत्रं-; [१प्रथसप्रश्ने- निरूपितं प्रपञ्चेन परिभाषार्थनिर्णयः । नविस्मर्तव्यमेवैतदित्यन्यत्रापि चोच्यते ॥ १६ ॥ त्वां वृण इत्यादिना वृतास्ते प्रतिबयुस्तथा भविष्यामीति, वस्त्रयज्ञोपवीता(तिन) आचान्ता दर्भपाणयस्तीन प्रविश्याऽऽयतप्राणा अव्यावृत्ता विहाराच्च परिभाषितधर्मः स्वं स्वं कर्म यथान्याये कुर्युस्तौ दंपती च ॥

प्रातरग्निहोत्रꣳ हुत्वाऽनुगमयित्वाऽऽग्निहोत्रिकमपोद्धृत्य वोदित आदित्यं गार्हपत्यादाहवनीयमुद्धृत्य ममाग्ने वर्च इत्यन्वादधात्युत्तरया गार्हपत्यमुत्तरया दक्षिणाग्निम् ।

प्रातरग्निहोत्रमिति विशिष्टं कर्मनामधेयं रूढयैवोषःप्रभृतिसंगवात्पूर्व विहित. स्याग्निहोत्रस्य कर्मणः । तद्धत्वा कृत्वा । प्राप्तानुवादोऽयं क्त्वाप्रत्ययेन दर्शपूर्ण- मासार्थोद्धरणात्पूर्वकालत्वल्यापनाय । हुत्वोद्धृत्येति संबन्धः । प्रातरग्निहोत्रमंपि प्रातः प्राप्तम् । इष्टयर्थमुद्धरणमपि प्रातःकाले प्राप्तम् । इष्टेः प्रातरुपक्रमनियमात् । तत्र प्रातरनिहोत्रकालः सूर्योदयात्पूर्वमप्यस्ति । तत्र सावकाशमग्निहोत्रं निरवकाशश्चेष्टि- प्रातरुपक्रमः । अतः सूर्योदये सत्येव यः प्रातःकालस्तत्रैवेष्टयर्थमुद्धरणम् । तदि- दमाह-उदित आदित्ये गार्हपत्यादाहवनीयमुद्धृत्येति । यदि सायमेवोद्धरणमग्निहो- त्रार्थ तदा प्रात)मस्याप्युपक्रान्तस्य समापन कार्यम् । प्रातरपि पुनरुद्धरणपक्षे चाप्यु- पक्रान्तस्य समापनभेव । संभवति पौर्वापर्येणे समापने न च कर्मणि प्रारब्धेऽसमाप्ते कर्मान्तरारम्भो युक्त इत्यर्थः । आग्निहोत्रिकमग्निहोत्रार्थमृद्धृतः सायमेव वा प्रात- रपि वा स आग्निहोत्रिका, तं शान्ति प्रापयित्वा, यदि शान्ति सूर्योदयात्पूर्व न गच्छे- तदाऽऽयतनादपोद्धृत्य बहिः कृत्वा ततोऽन्यस्योद्धरणमित्यर्थः । आग्निहोत्रिकशब्देन नित्यधार्थस्य न त्याग इत्युक्तम् । न हि सोऽग्निहोत्रार्थमुद्धृतो धार्यते किंतु स सर्वा- र्थधृतो नाऽऽग्निहोत्रिकत्वन्यपदेशं लभतेऽसाधारण्येन व्यपदेशा भवन्तीति न्यायात् । इष्टयर्थमुद्धरणे प्राप्ते पूर्वस्यापवृत्तकर्मकस्य त्यागे प्राप्तेऽपि पुनर्वचनं मतान्तरनिवृ. त्यर्थम् । भारद्वाजेनोच्यते ' य एषोऽग्निहोत्रार्थोऽग्निस्तं गृह्णीयात् ! इति । गृह्णीया. दन्वादध्यात् । तस्यापवृत्त कर्मकस्य लौकिकत्वादाहवनीयत्वाभावात्तत्याग एवेत्यर्थः । उदित आदित्य इत्येतदप्राप्तं विधीयते । तस्मादुद्धृत्येत्यत्रोद्धरेदिति विधिरनुमितो ज्ञेयः । अर्थीयार्थीय गार्हपत्यादाहबनीयमुद्धरतीति वक्ष्यमाणस्यानुवादो गार्हपत्यादित्यादि । नित्यधार्येऽप्यदृष्टार्थ पुनरुद्धरणं मा भूदिति । आहवनीयमिति गार्हपत्ये यदाऽऽहवनीयः ...ग. ट... ६. बोच्यते । २ क. च. ट. उ. वा । ३ ख. अतः । । छ, क्षे वाऽप्यु। - ५क.ग. च.छ.ट...'ण ।न।

1 रद्विः पटलः] :: महादेवकृतवैजयन्तीव्याख्यासमेतम् । प्रविष्टः स्यात्तदाऽऽहवनीयमुद्धृत्येत्युपपद्यते। नित्यंधार्ये त्वाहवनीयशक्तेहिपत्ये प्रवे शाभावात् । अन्वादधातीत्यनेनाऽऽवनीयमित्यपि संबध्यते साकाङ्क्षत्वात् । उद्धृत्ये- त्यनेन गार्हपत्यात्पृथक्कृत्वाऽन्वादधातीत्यर्थो न किंतु हरतेहिकर्मकत्वात्कृष्याऽऽहवनी- यायतनं प्रापय्य स्थापितमाहवनीयमाहवनीयत्वापन्न मत्वाऽऽधाति कर्मार्थत्वेन स्थाप- यति संकल्पमात्रेण बाह्यक्रियाया अभावात् । अन्वादधातीत्यस्य स्थाने गृह्णातिप्रयोगो भर- द्वाजादिसूत्रेषु दृश्यते, श्रुतौ च पूर्वेझुरग्निं गृह्णात्यपरमहर्यजतीत्यादौ । ततोऽन्वादधाति स्थापयत्युत्तरकर्थित्वेन गृह्णाति संकल्पमात्रेण । ममाग्ने वर्च इत्यूचा तथैवोत्तरावपि । सभ्यावसथ्ययोन्विाधानं विहव्याभिः । अत्रे विहव्यामिरन्वादधातीति शाखान्तरीयो विधिः । तत्र जात्याख्यायामेकस्मिन्बहुवचनमिति पाणिनिस्मृतेरेकवचनविवक्षायामकैव प्राप्ता । तत्र शास्त्रान्तरे वाऽऽहवनीयादीनामन्वाधाने प्रत्येकं त्रयाणां श्रवणात्पृथग्दव्यत्वेन मन्त्रावृत्तौ प्राप्तायां तिसृणां विनियोगः । न हि व्याहृतिभिरन्वाधाने मन्त्रान्तरमस्ति । न चान्तिमस्याऽऽवृत्तिः । तयोरुत्तरकाङ्गत्वाभावान्न संस्कार्यत्वं, ततो न मन्त्रावृत्तिः । नचाच्छिद्रैरपि नान्वाधानं प्राप्नुयाद्वक्ष्यति च । सत्यम् । मन्त्रलिङ्गेन विधिरनुमीयते संस्कार्यत्वाभावेऽपि तयोरपूर्वार्थमारादुपकारकमन्वाधानम् । न चान्वादधातीत्यत्र विधे- (रूप्यं स्यात् । तयोरनुमितस्य विधेः प्रत्यान्यस्य स्वीकारान्न वैरूप्यम् । नचाग्न्यन्वा- 'धानमित्येकवचनप्रयोगादत्वाधानस्य संस्कारकर्मण : एकत्वात्तयोरन्वाधानयोहणं न स्यादिति । तयोरारानुपकारकयोराप संस्कार कान्वाधानाङ्गत्वात्साङ्गेऽन्वाधीन उपपन्न- मेकत्वम् । ननु संनिपत्योपकारकस्य कथमारादुपकारकमङ्गम् । संनिपत्योपकारकेना- (णा)पि नियमापूर्व जन्यते, तत्राऽऽरादुपकारकमुपकारकमित्यदोषः । यद्यप्यर्थीयार्थाय गार्हपत्यादाहवनीयोद्धरणं विहितं तथाऽपि न कर्ममात्रमत्रार्थो विवक्षितो येन कृतेऽ. न्वाधाने तत्यागेऽन्यस्योद्धरणं, यथा होतृहोमार्थमुद्धृतस्य त्यागे पुनरुद्धरणं, कि त्वपू. मित्रार्थशब्देन विवक्षितं प्रयोजनम् । अर्थायार्थकर्मणे न तु गुणकर्मणे संस्कारकाये। त्यर्थः । न चान्वाधानेन संनिपत्योपकारिणा होतृहोमवदपूर्व जन्यते । तस्मादपूर्वजन. कस्य प्रधानस्यैव प्रयोजनत्वात्तदर्थमुद्धृतस्य संस्कारो द्वितीयाश्रुत्याऽवगम्यतेऽग्नानन्बाद- धातीति । अत एवाऽऽहवनीयमन्वादधातीति प्रयोगोऽग्नानन्वाधायेत्यादिकश्च सूत्रकृ- तोऽपि । यश्च प्रधानस्याग्निः सोऽङ्गानामिति वक्ष्यतीति नागार्थ पृथगुद्धरणम् । नच होतृहोमार्थमुद्धृतः प्रधानार्थों भवति, अङ्गार्थमुद्धृतस्य प्रधानार्थत्वे प्रमाणाभावात् , प्रधानस्य तदानीमबुद्धिस्थत्वात् । नचान्वाधानेऽपि तथा । अन्वाधान संस्कारकर्म १८. 'यमन्वाद । २ क. च. छ. 'लायतमन्वाद । ग. ह. द. वायतनमन्बाद। 32. यो भार । ४ ख, ग, च, छ, ठ, इ." हि वि।५ इ. शाखान्त'। ६ ख. °णां ग्रहणा'। ७ ट, विधिनि । ८ ८. क्षादन्यः । ६ क. ख. ग. च. छ. उ. स. धानेत्युप। १० ख, "कमि । ७० सत्यापाढविरचितं श्रौतसूत्र- [१प्रथमप्र- 'भूतमान्युपयोगं हि द्रव्यं संस्कारमर्हति' इतिन्यायाद्भाव्युपयोगिन एव संस्कारो नोत्तर- कर्मार्थोऽग्निसंस्कारस्तस्मिन्नकृते तत्त्यागे पूर्वकर्मवैयर्थ्यमुत्तरकर्मवैगुण्यं च । होतृहोमा- दीनां तु न तथा। तत्र श्लोका:-अन्वाधानात्पूर्वभाविन्याप पश्विष्टिकर्मणि । आरादुपकृतौ वाऽपि वह्वेस्त्यागो न हीष्यते ॥ १ ॥ तत्रान्वारम्भणीयेति संज्ञयेष्टाग्निसंस्कृतिः । अन्वारभ्यते ह्यनया कर्मेत्यर्थावधारणात् ॥ २॥ अग्निसंस्कारतो ह्यत्र करिम्भो विनिश्चितः । यतो वक्ष्यति पश्विष्ट्या वर्धारणमत्र तु ॥ ३ ॥ दीक्षणीया यथा ह्यारादुपकारिण्यपीष्यते। देवतानां वाऽपि परिग्रहार्थी ह्यर्थवादतः ॥ ४ ॥ अन्वाधानं च पश्चात्तत्संस्कारान्तरमिष्यते । शब्दान्त कार्यभेदादतो नैतन्निवर्तते ॥५॥ दर्शपूर्णमासयोर्याऽऽरम्भणीया न सा तथा । तदर्थवादतोऽस्यास्तु न दृष्टफलता मता ॥ ६ ॥ किं च सा नोत्तरस्यैव प्रयोगस्याङ्गमिष्यते । किंतु प्रथम आरम्भे निमित्ते च विधीयते ॥ ७ ॥ अतः पश्विष्टिवत्सा तु नाऽऽवर्तत इति स्थितिः । आरम्मे तु निमित्ते सत्यप्तौ कार्येति संज्ञया ॥८॥ प्रयोगाङ्गं ततो नेष्टमतो नाऽऽवर्तते सदा । एवं सर्वं च विज्ञेया व्यवस्थोद्धरणाय हि ॥९॥ विहव्याभिरितिबहुवचनविवक्षया पक्षान्तरमाह-

सर्वाभिर्वाऽऽहवनीयम् ।

विनियुक्ताभिस्तिसपिरित्यर्थः । अत्र पूर्ववन्नानाद्रव्यत्वेन प्रत्यग्नि तिसृणां प्राप्ति- स्तथैव पक्षान्तरस्याऽऽपस्तम्बेनाभिधानात्तथाऽप्याहवनीय एव शास्त्रान्तरेण विहव्य- विनियोगनियमादाहवनीय एवेत्युक्तम् । अत एव भरद्वानो ममाग्न इति पूर्वमग्निं गृह्णी- यातूष्णीमितराविति ह्याह । न चात्रापि तूष्णीमितरयोः प्राप्तिर्बाह्यक्रियाया अभावास्कि मन्त्रेण विना कर्तव्यं स्यात् । यदपि समिदाधानं दृश्यते सूत्रान्तरे तदपि नाम्न्यन्वाधान- शब्दवाच्यं किं तु तदङ्गमदृष्टार्थमेव । नच तस्य मन्त्रः साधनं किंतु मन्त्रान्ते प्रक्षेपो हविषः प्रक्षेप इव वषट्कारान्ते । तदभिप्रायेण तूष्णीमुक्तं भरद्वाजेन । - १ क, ग. च. छ. स. छ. अनाया। ख राकर्ममें। २द्वि० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ७१ ननु वक्ष्यत्याहवनीयं गार्हपत्यं दक्षिणाग्निमिति तत्तर्हि वक्ष्यमाणाच्छिद्रिकैः प्राति स्विकान्वाधानाभिप्रायम् । तत्र विहव्याभिरवादधातीत्यत्र बहुत्वस्य विधेयगतस्य विव. क्षितत्वेऽपि कपिञ्जलाधिकरणन्यायेन त्रित्वे पर्यवसानान्न दशभिराहवनीयान्वाधानम् । दृष्टार्थानां मन्त्राणां बहुवचनेन त्रित्वमात्रं संगृह्यते नत्वन्येषामपि समुच्चयः । तदि. दमाह-

अवशिष्टा विकल्पार्थाः।

चतुर्थीप्रभृत्यूचा त्रिषु वाऽऽहवनीय एव वा विकल्पः। दशम्या विनियोगायाष्टमी नवमी वाऽनुवर्तनीये ।

व्याहृतीभिरन्वादधातीत्येकेषाम् ।

विहव्यावय्याख्या विशेषानमिधामात् । अप्रिं गृह्णामि सुरथं यो मयोभूर्य उद्यन्तमारोहति मूर्यमहे । आदित्यं ज्योतिषां ज्योतिरुत्तम श्वो यज्ञाय रमतां देवता. भ्यः । वसून्नद्रानादित्यानिन्द्रेण सह देवताः । ताः पूर्वः परि. गृह्वामि स्व आयतने मनीषया । इमामूर्ज पञ्चदी ये प्रविष्टा- स्तान्देवान्परिगृहामि पूर्वः । अग्निहव्यवाडिह तानावहतु पौर्ण- मासः इचिरिदमेषां मयीति पौर्णमास्थामामावास्या हविरिद- मेषां मयीत्यमावास्यायामिति तिमृभिराहवनीयमन्तराऽमी पश- वो देवससदमागमन् । तान्पूर्वः परिगृह्णामि स्व आयतने मनी. षयेत्यन्तरामी तिष्ठञ्जपतीह प्रजा विश्वरूपा रमन्तामा गृहप तिमभिसंवसानाः । ताः पूर्वः परिगृह्णामि स्व आयतने मनी- पया । इह पशवो विश्वरूपा रमन्तामानं गृहपतिमभिसंवसानाः। तापूर्वः परिगृह्णामि स्व आयतने मनीषयेति द्वाभ्यां गाईपत्य- मयं पितृणामग्निरवाइडव्या पितृभ्य आ। तं पूर्वः परिगृह्णाम्यविषं नः पितुं करदिति दक्षिणामिमजस्रं त्वा सभापाला विजय- भाग समिन्धताम् । अग्ने दीदाय मे सभ्यविजित्यै शरदः शतमिति सभ्यमन्त्रमावसथीयमभिहराणि शरदः शतम् । आव. सये श्रियं मवपहिर्बुध्नियो नियच्छत्वित्यावसथ्यम् । पाठेन प्रदर्शनेनापि त्रिभिदीम्यामिति संख्या विकल्पनिरासा । मिन्नद्वारत्वात्स- मुच्चय इत्यर्थः । अन्वादधातीत्यनुवर्तते । १२.च्छिद्रः। क.ग, च, छ. ट, ठ, २. तिष्टिका । , 4 . ७२ सत्यापाढविरचितं श्रौतसूत्र- [१प्रथमप्रश्ने-

इति वैताभिः।

इत्येतदाच्छिद्रिकमन्वाधानमेताभिविहव्याभिः सह वा कर्तव्यम् । सर्वाभिरिति पक्षे भवत्येव सह । एकैकयाऽन्वाधानपक्षेऽपि वैकयाऽऽहवनीयेऽन्वाधानं कृत्वाऽत्रैव तिसृभिराच्छिद्रिकर्षिभरेवमपरयोरित्येकः पक्षः । द्वितीयस्तु प्रथममेवोक्तप्रकारेण त्रया- णां विहव्याभिः कृत्वा पश्चात्पुनः पृथगेवोकमाच्छिद्रिकर्मन्त्रैरतत्तथैव कार्यमित्यर्थः । सभ्यावसथ्ययोः केवलमाच्छिद्रिकाम्यामन्वाधान तयाख्यातमेव । नन्वन्यन्वाधानमे. कमेव देवतापरिग्रहद्वारा दृष्टार्थमिति सर्वसूत्रकारसंमतम् । तदिदं वाजसनेयिन आहुः-'कस्य देवा गृहानागच्छन्ति कस्य न यः पूर्वेधुर्ममाग्न इत्यग्नीन्गृह्णाति । इति । वाक्येनार्थवादरूपेण विहन्यान्वाधानमेव वक्ष्यमाणदेवतापरिग्रहद्वारा दृष्टार्थ- मित्याहुः । तत्रापि ज्ञापकमध्याहुः-दीक्षणीयाया अनन्तरास्विष्टिषु यदन्वाधानं निवर्त. यति कात्यायनस्तद्देवतापरिग्रहार्थेऽन्वाधाने सत्युपपद्यते । तत्र दोक्षणीयया देवतापरि- ग्रहस्य जातत्वादित्यभिप्रायं वर्णयन्ति । यतः 'आनोवैष्णवमेकादशकपालं निषेदी- क्षिप्यमाणोऽग्निवरायो विष्णुः परायस्तावन्तरेण सर्वाश्चैता देवताश्च सर्व च यज्ञमा- रभ्य दीक्षते ' इति । प्रधानार्थीया अपि दीक्षणीयाया अर्थवादबलेनाङ्गप्रधानदेवताप रिग्रहोऽपि प्रयोजनान्तरमङ्गी क्रियते । अतो दीक्षणीययाऽर्थवादेन सर्वाश्चेति श्रुत्याऽ. प्रधानदेवतापरिग्रहः साध्यते । अतो दीक्षणीयानन्तरेष्टिषु चाग्न्यन्वाधानं प्रतिषिः ध्यत इति वर्णयन्ति । आपस्तम्बादिमिरप्येवमेवाङ्गीकृतम् । तेषां त्वम्यन्वाधानस्य देवतापरिग्रहार्थत्वे लिङ्गमातिथ्येष्टयादिष्वान्यन्वाधानप्रतिषेध एव । तेषामप्यर्थवादेन कस्य वा ह देवा यज्ञमागच्छन्तीत्याापक्रम्याग्निं गृह्णाति स्व एवाऽऽयतने देवताः परिगृह्णातीत्युपसंहारादग्निग्रहणरूपेणान्यन्वाधानेन देवतापरिग्रहलक्षणं कार्य साध्यते । दीक्षणीयगा वाऽग्निः सर्वा देवता विष्णुयशो देवताश्चैव यज्ञं चाऽऽरमत इति । तत्रा- रन्यन्वारम्भेणान्यन्वाधानसिद्धिः । तथा देवता एवोभयतः परिगृह्य यजमानोऽव- रुन्ध इति । तथाऽग्नेरङ्गप्रधानार्थस्याऽऽरम्भेण तत्कार्यमङ्गप्रधानदेवतापारिग्रहो देवता एवोमयतः परिगृह्येत्यर्थवादेनैव सिध्यतीति नाऽऽतिथ्यादिवान्यन्वाधानमिति । एवं च दृष्टार्थत्वे विहव्यान्वाधानस्य सिद्ध आच्छिद्रिकान्वाधानं व्यर्थमेव । नापि तत्र विधि. रस्ति । मलिङ्गं तु याजमाननपेनाप्युपपन्नमिति चेत् । अत्रोच्यते-विहव्यान्वाधानमिदं न दृष्टार्थ हि दृश्यते । अर्थवादेन चेदेवं तेषाभवास्तु शाखिनाम् ।। येषां तु विधिरेवास्ति देवतानां परिग्रहे। न तैः कल्प्योऽर्थवदिन देवतानां परिग्रहः ॥ . 1 १छ. : क्षः । अन हि । २ क, ग. च. छ. ट. व. ड. षु वाऽन्यः । . २द्वि पटलः महादेवकृतवैजयन्तीव्याख्यासमेतम् । शाखान्तरे विहव्याभिरेवान्वाधानमिष्यते । यथा वा अनुवाकेन मन्त्रहीन विधीयते ॥ अन्वाधान द्वितीयं चेदग्नीनां देवरूपिणाम् । तेषां ग्रहणः सर्वदेवतानां परिग्रहः । उपपादित एवात्र सापेक्षो मन्त्रसाधने । मन्त्रा आच्छिद्रिकाः स्पष्टलिङ्गा आलिङ्गय तं विधिम् ।। सप्रयोजनतां यातास्तैद्वितीयमिदं भवेत् । दृष्टार्थमेवान्वाधानं तस्याङ्गं प्रथम भवेत् ॥ ततस्तदपि दृष्टार्यमिति सूत्रकृतो मतम् ॥ अथ सूत्रकारेण विहव्यान्वाधानमभिधाय तत आच्छिद्रिकरवाधानं विहितम् । न १ तदेकं भवेत् । श्रुतिप्राप्तविहव्यावरुद्धेऽन्वाधाने लिङ्गप्राप्तानामाच्छिद्रिकाणां नं समुच्चयो नापि विकल्पोऽतुल्यबलत्वात् । अत इदं कर्मान्तरमेवाभिमतं सूत्रकारस्थ । अत एवान्वाधानयोः क्रमसहभावपक्षावुताविति वैताभिरिति । तदिदं मिन्नं कर्म विहित द्वितीयमन्वाधानम् । यथा वै समृतसोमा इत्यनुवाकस्य सार्थवादस्य विधिस्वसंभवे शाखान्तरोयविहव्यावरुद्ध कर्मणोऽग्न्यन्वाधानस्यार्थवादोऽनुवाकः कथं भवेत् । एकवा- क्यताया अश्रवणात् । देवतापरिग्रहलिडेन शाखान्तरार्थवादसाहश्येन च व्यवहितक- वाक्यताकल्पनातो वरमत्रत्येनैवापूर्वेण विधिना सप्रयोजनबसपादनेनैकवाक्यता । एवं चाऽऽच्छिद्रिकाणामावर्यवसंज्ञाया अबाधेनैव विनियोगसिदिः । यथा वै समृत. सोमा इत्यस्य याजमानत्वेऽपि नाप्यत्यन्तं यानमानसंज्ञाबाधेनाऽऽच्छिद्रिकमत्रप्रापणम् । अध्वर्युणा कृते यजमानेन कृतं भवति । यनमानेन चाऽऽच्छिद्रिकाणां जपमात्रे कृतेऽ: पि तेषामाध्वर्यवसंज्ञाबाध एव । तस्माद्यो वै श्रद्धामित्यनुवाकस्य यानमानत्वेऽपि मन्त्रविष्यन्तरवशादध्ववि कर्मैव द्वितीयमप्यान्यन्वाधानम् । ननु विहव्यामिरेव तस्य जातवादाच्छिद्रिकवतापरिग्रहमानं कार्य न पुनराहवनीयादीनामन्त्राधानं पूर्वेण समानत्वाद्देवतापरिग्रहस्य लाभाच्च । न । उद्धृतावनीयो हि प्रत्यक्षाग्निशरीरस्तसमभि- व्याहृतौ तदन्यावपि प्रत्यक्षाग्निशरीरावेवावाहिताः पुनश्च तैः शब्दैर्देवताशरीरों अग्नयो विवक्षिता इति गम्पते पौनरुक्त्यपरिहाराय । मन्त्रलिङ्गादपि देवताशरीरा एवान्वाधीयन्ते । देवतारूपाग्निग्रहणादेव देवतापरिग्रहोऽपि ब्राह्मणेन दर्शितः । तथा हि- यौ वै देवताः पूर्वः परिगृह्णाति स एनाः श्वोभूते यजते ' इत्युपक्रम्य कथमित्र देवतापरिग्रहः कार्य इत्यपेसिते देवतारूपग्निग्रहणेति वक्तुं देवतारूपानेः सर्वदेवता- . १ ख. धनम् । म। २ क. ग. च, छ, ट. इ. स. "यो विहितमा क. ग, च..... ड. सदंशम । ४ क. च. 'राश्चान। - सत्यापाढविरचितं श्रौतसूत्रं- [१प्रथमप्रवे- मयस्वं श्रुतिसिद्धं वक्तुं तवतारूपामेराहवनीयादिदेवताशरीरत्रयभेदेन देवता- शरीरप्रयमयत्वं दर्शयति-एतद्वै देवानामायतनमित्यादिना । मयि सनः संनिधद्ध्व- मिति देवतारूपेणामिना देवतानां संनिधानं कारितमतोऽग्निः सर्वा देवता इति तत्र तत्र श्रूयते । अग्निः सर्वदेवतामयस्तामा सर्वदांऽशेन तत्राऽऽश्रितत्वात् । तदिदमत्र विवि- च्योच्यते-एतद्वै देवानामायतनमित्यादिना । अधिकरणत्रयगता देवता हि साजात्येन धर्मेण शरीरत्रयेण त्रेधा तिष्ठन्ति देवा मनुष्याः पितर इति । ते ह्यत्र वोमूते पूज्यन्ते । ततस्तेषां पूर्वेयः परिग्रहः कर्तव्यः । कथं हि त्रैराश्येन दर्शपूर्णमासयोः पूजेति चेत् । उच्यते-होता हि वदति-'ईडामहै देवार ईडेन्यान्नमस्याम नमस्यान्यनाम यज्ञियान् ' इति । तस्य ब्रामणं ' मनुष्या वा ईडेन्याः' इत्यादि । ये देवा भागधेयेनाग्नित्रयेऽपी. ज्यास्ते तु बहमिहविर्माभिराहवनीय इज्यैः सहैवाऽऽहवनीय एव तिष्ठन्ति हविग्रहणायक तु तत्र तत्र गच्छन्ति । गार्हपत्ये तु मनुष्या ईडेन्या ब्रह्मणः प्रथमसृष्टिः प्रजापशुरूपा मनुष्यशब्दवाच्यास्तिष्ठन्ति । अग्निहपतिस्तेषामुत्पादयितेति श्रूयते- 'एतस्माद्वै मिथु. मात्प्रजापतिमिथुनेन प्रानायत' इति । दक्षिणाग्निस्तु पिण्डपितृयज्ञपियेष्टयादौ कव्यवा- हन इति तस्मिन्नपि पितरस्तिष्ठन्ति | आजानसिद्धा ब्रह्ममष्टिः। एवं स्थिताः खस्वपूना गृह्णन्तीति तेषामवस्थानार्थ तन्मयानामग्नीनामेव ग्रहणमित्याह - अग्निं गृह्णाति स्व एवाऽऽयतने देवताः परिगृह्णाति ताः श्वोभूते यजते ' इति । तत्तद्राशिमयस्याग्ने. स्नेधा विभक्तस्यैव ग्रहणेन देवतापरिग्रहं कुर्यादिति वाक्यार्थः । तस्मादत्र विहव्यामि- या॑हतिभिर्वा प्रत्यक्षाशीनामन्वाधान द्वारसाकाङ्क्षस दृष्टप्रयोजनार्थमाच्छिद्रिकैः कृतदे. पतामयाग्निग्रहणस्याङ्गं स्यात् । तेन च प्रत्यक्षामिग्रणे सति तत्र देवतामयानां देवतारू- पाणामाययादीनां ग्रहणं युक्तम्। 'श्वो यक्ष्यमाणे देवता वसन्ति' इति श्रुतेः प्रत्यक्षानीनां देवतारूपाग्निनिवासाधिकरणता दृश्यते । तस्मादङ्गत्वेनाऽऽश्रयभूतानां प्रत्यक्षाणामपि ग्रहणम् । न ह्यगृहीत आश्रये तत्राग्निदेवतानां ग्रह्ण युक्तम् । तस्मादङ्गं प्रत्यक्षाग्नि. ग्रहणं प्रथम, तेषु देवतारूपाग्निग्रहणं द्वितीयम् । एवमिष्टं सूत्रकारस्य देवतारूपानेः परिग्रहणेन देवतापरिग्रहो मवति न तु प्रत्यक्षाग्निधारणायन विहव्यान्वाधानेनेति । अत्र लिङ्गम् -पदयं दीक्षणीयया प्रधानार्थमारादुपकारिण्या यनमानसंस्कारिण्याऽप्यर्थवा- दबलेन याज्यालिङ्गेन च सोमदेवतापरिग्रहोऽपि कार्य इति सूचयति । कथं, यतो वक्ष्यति सवनीये पशौ सवनीयेषु पुरोडाशेषु च नाग्न्यन्वाधानं विद्यत इति । तत्तु दीक्षणी- यया सोमदेवतापरिग्रहे सति तत्कालपातिनीनां सवनीयपशुसवायपुरोडाशदेवतानां प्रसन परिग्रहे सत्येवोपपद्यते । तथा हि-आग्नावैष्णवमेकादशकपालं निर्वपेत् ।

इत्यपक्रम्याऽऽह 'अग्निरवमो देवतानां विष्णुः परमो यदानावैष्णवमेकादशकपालं

निर्वपति देवता एवोमयतः परिगृह्य यजमानोऽवरुन्धे । इति । देवताया अग्नेविष्णोश्च परिग्रहेण प्रधानदेवतापरिग्रह एवोक्तो दीक्षणीयायाः प्रधानार्थत्वात्प्रधानदेवतापरिग्रह . ७५. - २वि०पटलः) महादेवकृतवैजयन्तीव्याख्यासमेतम् । एक सिद्धः । तथा याज्यानुवाक्ये प्रधानदेवतापरिग्रहमेव वदतः, अग्निश्च विष्णो तप इति विश्वेदेवैर्युक्तौ यजमानाय दीक्षा धत्तमिति । दीक्षा च प्रधानायांतो देवाः प्रधा- नार्थी एव दीक्षासंपादकाः । तथाऽग्निर्मुखं प्रथमो देवतानामत्रापि प्रधानार्थया दीक्षणी. ययाऽग्निविष्णुषागद्वारेण प्रधानदेवतापरिग्रह एव युक्तो न तु साङ्गप्रधानार्थानां परिग्रहः। यतो वदिष्यति । आतिथ्यादिषु पुनर्देवतापरिमहामन्वाधाने चोदकप्राप्तेऽपि पाऽऽतिथ्यादिष्वान्यन्वाधानमिति परैः प्रतिषिद्धं पुनर्विहितम् । ननु चात्राप्यमिः सर्वा देवतेति देवतारूपाग्नेरारम्भेण साङ्गप्रधानार्थेन साङ्गप्रधानदेवतापरिग्रहसिद्धौ कथ- मान्यम्वाधानं विहितमिति चेत् । सत्यम् । देवतारूपामेरारम्भेण देवतारम्भमात्र सिध्यति नरवन्वाधान, तस्य शब्दान्तरेण कर्मान्तरस्वात् । अत एवानभूतेषु, पशुषु पान्वारम्भणीयां प्रतिषेधति । सवनीयमात्रे चान्वाधानप्रतिषधादातिथ्याविष्वग्नीषो. भीयानुबन्ध्ययोश्चानुजानाति । अत एव निरूढेऽपि धारयत्याहवनीयमित्यन्वारम्मणी. पानन्तरमुक्त्वाऽग्नीनन्वादधातीत्याह । ततो ज्ञायत आरम्भे सिद्धेऽपि नान्वाधान सिध्यतीति । तयोरप्यन्वाधानयोरङ्गाङ्गिभावे च लिङ्गं यदयं पृथगन्याधानद्वयममि. घायाऽऽह-इति वैतापिरिति । अत्र देवतापरिग्रहरूपान्वाधानस्य प्रत्याय- म्पासा तदङ्गं विहव्यान्वाधानं संयुक्तान्येकापवर्माणोति न्यायात्तत्तदङ्गमूतं विहव्या- न्वाधानं प्रधानेकैकेन सह कार्यमित्यर्थोऽवगम्यते । अङ्गत्वेऽपि यस्या(चाऽऽ)-तरं य(त)देकं समाप्यान्यत्कार्यमिति । तत्रायमभिप्राय:-विहव्यान्वाधानमङ्गमपि सर्व- मेकः पदार्थोऽग्नीनन्वादधातीति संसृष्टदेव्यत्वेनैकत्वात् । आहवनीयादिषु क्रियमाणं न प्रत्येक पदार्थोऽपि तु पदार्थावयवः सः । तस्मात्कृत्स्नमेकैकमपवर्जयतीत्यभिधाना- सर्वमेकं कृत्वा परं कार्यमेतावता नाजातिभावविरोध इति सर्व समञ्जसम् । अप शाखाहरणम् ।

पलाशशाखाꣳ शमीशाखां वाऽऽहरति ।

प्रथमाऽस्मच्छाखोक्ताऽन्या शाखान्तरीया । पलाशवृक्षस्य शमीवृक्षस्य या(वा) शाखासामान्यमात्रमनिमविशेषविधिप्रपश्चार्य प्रतिज्ञातं शाखादयेऽपि समान एवाऽऽह. रणान्तो विधिरिति दर्शयितुम् । यद्यप्यत्राऽऽहरणेन शाखां संस्कुर्यादिति संस्कार- विधिः, शाखामित्येकवचनमविवक्षितं, तथाऽपि तया वत्सानपाकरोतीति साधनत्वमे- कस्या एव दृष्टमिति सैकव । इह त्वाहरणं वत्सापाकरणेन शाखापवित्रकरणेन च प्रयुक्तं, जाते वत्सापाकरणे यदि शाखा नष्टाऽन्याऽऽनेतन्यैव पवित्रार्थम् । एवं 1 १ ख.ना यतो। २ क. ग. च, छ. ट, ठ, "पि वाऽऽति ।३ क. ग. च. छ. ट, ठ. ह. 'तामार। क. ग. च. छ. ट. ठ ..'दव्येनै । ५ख. छ. ट. इदमाइ । . ७६ । . सत्याषाढविरचितं श्रौतसूत्र-- [१प्रथमप्र- शाखापवित्रे नष्टे पुनस्तदर्थ शाखाहरणमिति न्यायवित्समयः । उपवेष नष्टे न पुन• रानयनं येन केनचिद्याज्ञिकेन काष्ठेनोपवेषं कुर्यादिति । आदौ शाखागुणान्नित्यान्च्याचष्टे-

प्राचीमुदीचीं प्रागुदीचीं वाऽहीनां बहुपर्णामशुष्काग्राम् ।

वृक्षात्याग्माग उत्पन्नां प्राची प्रान्दिग्भागवृद्धानां तथोदीचीमत्रापि । अत्र प्राची वोदीची वा प्राचीमुदीची वेति तयोविकल्पः । कुतः । मन्त्रे हीमां प्राचीमुदीचीमिति विशिष्टा दृश्यते । तदुक्तं कात्यायनेन-प्रागुदीचीमन्यतरां वेति । अहीनामत्यक्तां केनचित्पूर्वमाहरणार्थ परिगृह्य त्यक्ता होना तादृशी न भवति । ओहाक्त्याग इत्यस्य । घातो रूपं निष्ठान्तम् । अथवा न विद्यते हीनं त्यागो यस्याः सा, पूर्व एवार्थः । बहूनि पर्णानि पत्राणि यस्यां सा तथा । न शुष्कमयं यस्याः सा । सूत्रान्तरे ब्रामणे च बहुशाखामित्यपि विद्यते तरकाम्यमित्यत्र नोक्तं मन्त्रेणानभिधानात् । गुणयस्तुत्यर्थमगुणाया निन्दार्थवादमुदाहरति-

यं कामयेतापशुः स्यादित्यपर्णां तस्मै शुष्काग्राम् ।

यं यजमानमपशु यादिति कामयेत तस्मै यजमानाय निर्गुणामाहरेदध्वर्युरिति वाक्यार्थस्तत्र परिक्रपलब्धेनाविना कथं यजमानायानिष्टं कामयितव्यं, प्रतिषेधाच्च । तस्मादर्थवादोऽयमपशुकरत्वान्न तादृशीमानयेदित्यर्थः । एतद्याजमाने प्रपञ्च्यते । काम्यं कल्पं व्याचष्टे-

यं कामयेत पशुमान्स्यादिति बहुपर्णां तस्मै बहुशाखामशुष्काग्राम् ।

अयमपि कामो यजमानस्येत्यपि वक्ष्यते । बहुशाखत्वं काम्यमन्यद्वयं नित्यानु- वादो विरोधाभावात्समुच्चयार्थी बढ्यः शाखा. यस्यां साऽवान्तर भेदयुक्तेत्यर्थः । विशेषविधि व्याचष्टे-

इषे त्वेति शाखामाच्छिनत्यूर्जे त्वेति संनमयत्यनुमार्ष्टि वा ।

तावन्तौ मन्त्रौ । छिनमोति नाध्याहारः शब्दस्यापि त्वर्थ एव लक्षणीय इति परिभाषायामुपपादितं न विस्मरणीयम् । शस्त्रेण हस्तेन वृक्षात्पृथक्करोतीत्यर्थः । उदकस्पर्शनं स्मार्तम् । संनमनमवान्तरशाखासमीकरणम् । अनुमार्जनमनुलोमं सम- र्शनं विकल्पेन।

इमां प्राचीमुदीचीमिषमूर्जमभिसꣳस्कृताम् । बहुपर्णामशुष्काग्राꣳ हरामि पशुपामहमित्याहरति ।

गृहीत्वा विहाराभिमुखो. गच्छतीत्यर्थः । प्राच्यादिगुणत्रयवैशिष्टयमेकस्यां न संभवतीति जातिपदार्थपक्षे जातेः स्तुतिरित्यधिकृतो मन्त्रः । व्यक्तिपदार्थपक्षे 1 । १.क. ग. च. छ. 2. छ. उ. मु। ३ ख. रशाखायु। . . २द्विपटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । प्रागुदीच्यामविकृतोऽन्ययोस्तु प्राचीमुदीचीमित्यसंबद्धपदस्यान्यतरस्य त्यागः . । सर्वमन्त्रत्यागस्त्वनुचितः । विकृतिष्वपि तथा । यदि न लभ्यते दिक्त्रये तदाऽन्य- दिक्स्थाऽपि ग्राह्या । तस्यां व्यक्तिपक्षे न मन्त्रलोपो विकृतिष्यपि नोह इति वक्ष्यते । अत्रामावास्यायां यजमानयाभीजनं तथा ब्रतोपायनमपि । परेधुरपि पर्वद्वयेऽपि व्रतोपायन:कालं विधास्यति प्रणीतासु प्रणीयमानास्वासनेषु हविष्षु चैतौ साधारणौ कालाविति ।

वायवः स्थेति तया षड्वत्सानपाकरोति ।। ४ ।।

मातृभ्यः पृथक्करोति गृहेऽवस्थापनार्थ, पाने सति दोषे प्रायश्चित्ताभिधानात् । सथा च आसंग मात्रा सह चरति ' इति श्रुतेः। अत एव वैखानसः-अध्वर्युः संगव इषे वेति शाखां छिनत्तीति । संगवात्पूर्व न वसापाकरणं, तावत्सहचार इत्यर्था- दुक्तम् । वत्सानिति पुंलिङ्गमविवक्षितमुद्देश्यगतत्वात् । 'ग्राम्यपशुसंघवतरुणेषु स्त्री' इति सूत्रेण स्त्रीपुंवत्सानामेकशेषेऽपि तरुणेषु पुमाशिष्यते । वायवः स्थोपा- यवः स्थेति मन्त्र उत्तरस्याऽऽदिना पूर्वस्यान्तमिति - परिभाषितत्वात् । वत्सानिति संसृष्टद्रव्यत्वे षडिति द्रव्योवान्तरमेवात् । प्रतिवस मन्त्रावृत्तिव्यपृथक्त्वेऽम्यावर्तत इति परिभाषितत्वाद्वत्सशब्देन बहुवचनान्तेन सर्वोपादानेऽपि संस्कार्यद्रव्यप्राधान्या- युगपत्कर्तुमशक्यत्वाच्च । बहुवचनं षड्वत्सापेक्षमुपरवेषु रसोहणवत् । योक्ष्यमाणाना प्रखवार्थमपाकृतानामेव संस्कारो द्वितीयानिर्देशात् । शाखासाधनं तस्याः शाखाया अपाकरणद्वारा दोहसंस्कारकत्वात् । प्रस्तरेण सह प्रतिपत्तिः । षडवराानित्याप- स्तम्बः । तदपि षट्संख्यया न विरुध्यते न्यूननिवृत्तिमात्रपरत्वासंख्यायास्तत्रापि तिस्रो दोहयित्वा विसृष्टवागुत्तरा यावत्या सन्ति तावतीर्दोहयति । सर्वासां वत्सापाक- रणम् । अत्रोक्तानामभावे बौधायनेनोक्तं 'ताश्चेत्तिस्त्र एव स्युः प्रथमां चोत्तमां चतुर्ग्रहीयादथ चेद्वे एव स्यातामुमे एव निस्त्रिविगृह्णीयादथ चेदेव स्यात्तामेव षद्कृत्वोविगृह्णीयात् । इति । विगृह्णीयाद्विगृह्य विगृह्य दोहयेदित्यर्थः । एवं बौधायने नोक्तम् । तत्रैकस्मिन्नपि वत्से बहुवचनेनापाकरणं नोहः प्रकृतौ प्रतिषेधात् । षट्कृत्वो मन्त्रावृत्तिरुपावसर्जनप्रतिदोहद्रव्यस्य द्रव्यगृथक्त्वेऽभ्यावर्तत इति भवत्येव मन्त्रावृत्तिः । वत्से तु प्रधानानुरोधेन मन्त्रावृत्तिः । द्वयोस्तिसृणामपि दोहे मातृविग्रहणानुप्तोरण ज्ञेयाऽवृत्तिः संस्काराणां वत्से । उपलक्षणमेतबौधायनीय वचनं चतसृणां पञ्चानां वा । किं च विगृह्य दोहसमर्थैव दोह्या प्रथमोत्तमा. मध्यमा १. छ. 'क्षम। २ क. ग. च. छ. स. उ. र. व्यान्त' । ३ क. च. ट. "ते हैं। ४ क. ख. च. ट. ८. "त है। - ७८ सत्यापाठविरचितं श्रौतसूत्र- प्रथमप्रग्ने- वेस्यपि ज्ञेयम् । तिमृणां तूष्णीं दोहे तु साङ्गस्य पोहशब्दस्याद्वत्सापाकरणज्य- मिरिकमपि तूष्णीमेव ।

दर्भैर्वा सदर्भयेत्येकेषाम् ।

दस्त वाहतः परिभोजनीया । न तस्यां शाखाहरणविधिरविधानान्मन्त्रलिङ्ग- विरोधाच्च । न चान्यस्मिन्द्रव्ये तेनार्थेन संयुज्यमाने धर्मावेश इति वक्ष्यमाणन्याय- प्राप्तिः । तस्य विकृतिविषयस्वेनातिदेशार्थत्वान्न च प्रकृतावूहोऽस्ति । अपाकरणं तु मन्त्रेणैव वत्ससंस्कारत्वात् । अत्र पक्षे शाखाहरणं पवित्रार्थमस्त्येव । तत्र पशुपामह मिति लिहं यजमानस्य पशून्पाहीत्यदृष्टार्थेनोपपन्नम् । पुंस्त्वं वत्सगतमविवक्षितम्- द्देश्यगतत्वात् । वत्सासु मिश्रेष्वपि विधिः समान एव । तयैव सदर्भया शाखया वेत्यर्थः ।

अपाकृतानामेकꣳ शाखयोपस्पृशति ।

एक वत्समपाकृतानां मध्ये । दभैरपाकरणे तैरेव सदर्भया तयैव सांनिध्यात्, मापस्तम्बे तथा दर्शनाचेति केचित् । तन्न । तयेति लाघवेन वक्तव्ये गुरुमिर्देशेना- प्रस्तुतत्वमुक्तं, तेन येन केनापि वत्सापाकरणे स्पर्शनं वत्सस्य शाखयैवेति नियमः । पश्वसंवन्धे पशुपामिति लिनविरोधः स्यात् ।

देवो व इति गोचरमभि मातॄः प्रस्थापयति ।

शाखयैवानुवृत्तेः । स्पष्टमाहाऽऽपस्तम्बः शाखयेति । गावश्चरन्त्यस्मिन्देशे स गोचरस्तुणयुक्तो देशस्तममिमुखाः प्रेरयति । रुद्रस्य हेतिः परि वो वृणक्स्विति मन्त्रान्तः। सकृन्मत्र इत्युक्तमेव ।

इन्द्रं निगमेषूपलक्षयेदिन्द्रयाजिनो महेन्द्रं महेन्द्रयाजिनः। ।

इन्द्रमहेन्द्रयोर्दवतयों दो न्यायशास्त्र इन्द्रमहेन्द्राधिकरणे स्थितः । अस्मच्छाखायां सांनाव्ये कर्मणि महेन्द्रदेवताप्रकाशका मन्त्रा न दृश्यन्ते । दृश्यन्ते (ते) च-'महान्या अय- मभूयो वृत्रमवधीदिति तन्महेन्द्रस्य महेन्द्रत्वम् ' इत्यर्थवादे देवतैक्यम् । अतो महेन्द्रपद. पन्तो मन्त्रा न सन्तीतीन्द्रपदेनोपलक्षणं मन्त्रेषु कार्यमित्याशङ्कानिवृत्त्यर्थ लाघवेनः लक्षणेनैव शाखान्तरीयान्मत्रान्महेन्द्रपदवतो दर्शयत्यनेन च सूत्रेण । सर्वशाखाप्रत्यय. मेक कर्मेत्युक्तमेव । न चेन्द्रपदवन्तो मन्त्रा महेन्द्रयोगे ब्राह्मणेन विहिता येन लक्षण- याऽपि प्रवर्तेरन् । तदिवमाह-इन्द्र देवता(ता) निगमेषु निगदरूपेषु मन्त्रेषु देवताया हविःसंबन्धो येषु मन्त्रेषु निगम्यते स्पष्टो ज्ञायते ते निगमा नामान्तरेण मन्त्रविशेषा उच्यन्ते न सर्वेऽपि मन्त्रा इति निर्वचनकृद्भिर्नेवण्?कैरुक्त तेषु मन्श्रेषूपलक्षयेत्तत्यदेव १ ख, यागना। रवि० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । प्रतिपादयेत्पठेदिति यावत् । इन्द्रो देवता यस्यासाविन्द्रयाजी पजमानस्तस्यैव देवा प्रकृत्य । तथा महेन्द्र देवता महेन्द्रयानिन उपलक्षयेद्यत्ययेन भिन्नयोक्तयोः प्रति. पादने सामर्थ्याभावात् । एतदुक्तं मपति-यथेन्द्रपदवन्तो मन्त्रा अस्मच्छाखायां पठयन्त एवं महेन्द्रपदवन्तोऽप्यन्यस्वा साखागा, ततस्त्वस्मच्छाखिमियदा महेन्द्र इज्यते तदा महेन्द्रपदवन्त एव मन्त्रा प्रामा म तु स्वशाखीया इन्द्रयानिनोऽर्थे पठितास्तेऽपीति भावः । निगमेष्वित्यधिकरणबलान्मन्त्रविन्द्रमिन्द्रपदमुपलक्षयेदिति सामर्थ्याविन्द्रया- जिनोऽर्थे पठेदित्यर्थो वा । इन्द्रस्य देवताया उपलक्षणं कुर्वत्युपलक्षयेदित्यर्थात् । न पार्थस्यार्थ एवोपलक्षणं न पदमिति वाच्यम् । पदमपि यन्नाममात्र तरस्वरूपेणैव व्याव- तकम् । तथोक्तं-'शब्देन देवतायागे समवैति न रूपतः । तस्मान्महेन्द्रशब्दोक्त्या महेन्द्रो देवतेष्यते ॥ इति । यद्यपि स्यादस्मन्मते रूपेण समवायस्तथाऽपि देवतात्वं तत्तच्छन्दविशिष्टाया एव । शाब्दिका अपि- -'न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमाइते । अनुविभूमिव ज्ञान सर्व शब्देन गृह्यते ॥ इति निर्विकल्पकं निराकुर्वन्त आहुः ॥

प्रस्थितानामेकाꣳ शाखयोपस्पृशति ।

तूष्णीमेव । प्रस्थितानां प्रस्थानामिमुखीभूतानाम् । शाखाग्रहणं नियमार्थमित्युक्तमेवा. त्राऽऽपस्तम्वेनापि नियमार्थं कृतमेव शाखाग्रहणमस्मत्सूत्रकारेण पूर्वत्रापीति विशेषः । एकामिति नियमाददृष्टायमेवाऽऽरादपकारकम् । अन्यथा सर्वासामापयेत । अथवा संसृष्टद्रव्यत्येनकत्वाददृष्टद्रव्यसंस्कारार्थमेकस्या एवोपस्पर्श नं सर्वासां संस्कारो मप- 5 तीति ।

शुद्धा अप: सुप्रपाणे पिबन्तीः शतमिन्द्राय शरदो दुहानाः।

रुद्रस्य हेतिः परि वो वृणक्त्विति मस्थिता अनुमन्त्रयते ।

ता अनुलक्षीकृत्य मन्त्रयते मन्त्रेण प्रतिपादयेददृष्टार्थः संस्कारः प्रत्यगाशीष्वाभाषा- ज्नपो यजमानस्य । शतं महेन्द्रायेति महेन्द्रयाजिनो द्रष्टव्यम् । अत्र महेन्द्रेऽसमवे. तार्थप्रकाशमिन्द्रपदमाहुस्तन्न पूर्वसूत्रविरोधात् । भारद्वानः साक्षादमुमेव प्रकृत्याऽऽह- महेन्द्रायेति चेति । पाठद्वययुक्तमन्त्रसंग्रहः- शुद्धा अप उपवेषोऽस्येता अप च कामधुक् । बहु दुखि च सोमेनेन्द्रस्य भागं द्विषण्मताः ॥ १ख स्यैवार्थ तस्यैव । 7 सत्यापाढविरचितं श्रौतसूत्र-: [१प्रथमप्रश्ने--

ध्रुवा अस्मिन्निति यजमानस्य गृहानभि पर्यावर्तते ।

बहीरित्यन्तः । पर्यावर्तते प्रदक्षिणमावर्तते यनमानालयमभिलक्षीकृत्य गृहान्गन्तु मित्यर्थः ।

यजमानस्य पशून्पाहित्यग्निष्ठेऽग्न्यगारे वा पुरस्तात्प्रतीचीꣳ शाखामुपगूहति पश्चात्प्राचीमित्येकेषाम् ।

अग्निसमीपस्थमनिष्ठम् । अनः शकटं, तत्राग्निशालायां वा पुरस्तादागेऽन्यतरस्य प्रत्यगग्रां शाखां पश्चाद्भागे वा पूर्वानामुपगूढां न पतति तथा संवृतां कुर्यात् । एवमिथे स्वेति मन्त्राणां तृतीयस्यामिति ब्राह्मणश्य पाठेनाऽऽच्छिद्रिकैः शाखान्तरमन्त्रैर्वाह्मणै- श्वोपह्य शाखाहरणविधियाख्यातो गृहतीत्यन्तः । अत्रामावास्यायां वेदिकरणं वक्तव्य- मपि शाखान्तरीयत्वेन विकल्प एवेति दर्शयितुं नोक्तम् । तथा वेदकरणानन्तरमपि प्राप्तं न दर्शयति कित्वाप्पलेपनिनयनान्त एव व्याख्यास्यते विकसोऽपि तत्रैवेति । इति वसापाकरणविधिः ॥ अथ पाठानुक्रमेण पर्वद्वयसाधारण मन्त्राह्मणानुपारेण बहिराहरणविधि व्याचष्टे-

देवस्य त्वेत्यश्वपर्शुमसिदं वाऽऽदत्ते ।

उत्तरेण गार्हपत्यं निहितयोरन्यतरादानमापस्तम्बमतात् । आदद इत्यन्तः । अश्वस्य पार्श्वे स्थितमस्थि वजिनामकमश्वपशुः स्त्रीलिङ्गोऽश्वपर्धा बहिरच्छैतीति दृश्यते । साऽय सोपस्कृता छेदनयोग्या कार्या । तस्थामस्मच्छाखीयो विधिभत्रस्य । असिदो वक्रायुध. विशेषः । तत्र शाखान्तरीयोऽयमेव मन्त्रः । छेत्तुं गच्छतः शस्त्रादानं दृष्टः संस्कारः ।

यज्ञस्य घोषदसीति गार्हपत्यमुपतिष्ठते ।

उप समीपं गत्वा गार्हपत्यस्योपस्थानं मन्त्रकरणमुपश्लोकनेन प्रकाशनं कुर्यादिति गार्हपत्यस्यासमवेतत्वेनैव प्रकाश्यत्वादारादृपकारकं कर्मेदम् । प्रकृते समवेतत्वेऽपि वा सूर्यायसमवेतार्थप्रकाशकत्वेनोपस्थानस्य विधेरूप्यभिया सर्वत्रोपस्थान विशिष्टो जप एव । अथवा यथासंभवं वैरूप्येण प्रधानगुणकर्मणोरेका संज्ञोऽऽचारादिबद्धात्वर्थोऽ. व्यको जुहोतिवद्भविष्यति । सर्वथा दृष्टार्थ न भवति । यानमानेऽयमर्थः स्पष्टो: भविष्यति ।

प्रत्युष्टमित्याहवनीये गार्हपत्ये वा निष्टपति ।

अरातय इत्यन्तः । निरतिशयेन तपति तापयतीत्यर्थः । आपस्तम्मो नाश्वपशुमि. त्याह दाहप्रसङ्गात् । १क, ग. च. उ. इ. 'रणम । २ क, ग, च... । श"।। द. शाऽऽधारा, रद्वि० पटलः) महादेवकृतवैजगन्तीब्याख्यासमेतम् ।

प्रेयमगादुर्वन्तरिक्षं प्रेहीत्यन्यतरेण प्राचीनमुदीचीनं वाऽभिप्रव्रज्य यतः कुतश्चिद्दर्भमयं बर्हिराहरति ।

सद इत्यन्तः प्रथमस्य । द्वितीयः शाखान्तरीयः। पत्र निष्टपति ततोऽनेः सकाशात्प्रा. चीनं क्रियाविशेषणं किंचिद्गत्वा तमोदीचीन मिति शाखान्तरीयम् । द्वौ त्रीश्चतुरः प्रक. मानिति बौधायनः । अभिप्रवज्याभिमुखं गत्वा यस्यां दिशि बहिरास्ति तां दिशं गत्वाऽऽ. हरतीत्यर्थः । प्रथम पुरस्तादिति मन्त्रलिङ्गात्तद्राह्मणाञ्च प्राचीनगमने प्रथमः । श्रेयमि- तिलिङ्गादश्वपश्वी सह गमन एव । धिषणापेक्षया स्त्रीत्वमित्यसिदेन सह गमनेऽपि प्राचीनो मन्त्र इति केचित् । तन्न । एवं कल्पनायर्या प्रमाणाभावात् । तदिदं दयितुमन्यतरेणे. त्यधिक प्रयत्नः । अन्यतरेण विधिना स्वशासीयेनैव वा परशाखीयेनैववा। परशाखीयाः पदार्या उर्वन्तरिक्षमिति मन्त्रोऽसिद उदीचीनं गमनं न ते व्यत्ययं गच्छन्ति संनियोग. शिष्टत्वादिति भावः । नोचेद्वेति बगाल्लाघवेनातो व्यवस्थित त्रितयं त्रितयमिति ज्ञाप. यति । दिनियमस्तु ब्राह्मणानुसारेणादृष्टार्थः । प्रत्रज्येत्यस्योपसर्जनत्वेनाऽऽहरतीत्यनेन मन्त्रसंबन्धविधानमिति न वाच्यम् । आहरणं वक्ष्यमाणमनूद्यते न विधीयते, गमनं तु ल्यपा निर्दिष्टमध्यपूर्वत्वाद्विधेय, तदेवोभयमन्त्रप्रकाश्यमिति तत्रैव मन्त्रविधिः कल्प- नीयः । आहरतीति प्रतिज्ञा क्रियत आहरणस्यातः परं वक्ष्यमाणमझमिति दर्ययितुम् । सूत्रान्तरे समुच्चयोऽनयोर्मन्त्रयोदृष्ट स्तनिवारणमप्यन्यसरग्रहणेनेस्यपि प्रयोजनम् । यतः कुतश्चिदिति ब्राह्मणमेवानुकृतं ' अथो यदेतदुक्त्वा यतः कुनश्चाऽऽहरति । तत्प्राच्या एव दिशो भवति ' इति । दर्भमयम् । दर्भा दशप्रकाराः सप्तप्रकारा वा । कुशादिमध्ये पूर्वः पूर्वो ग्राह्यः । दर्भरूप दर्भमयं तदेव बहिः । तत्रैव बहिःशब्दो मुरूगस्तृणनाति- वाची चामुख्य इति ज्ञापयितुं पूर्व दर्भमयमित्युकं, दर्भमयमेव बहिर्नान्यदित्यर्थः । बहिरेव सत्पश्चाद्विधिना नयति । जातिवामित्व बहिराज्याधिकरणे स्थितम् । बर्हिरित्येकवचनमविवक्षितमुद्देश्यगतत्वात् । तथाऽप्येक नातीयमेवेत्यस्ति विवक्षा।

विष्णोस्तूपोऽसीत्यभिप्रेतानामेकꣳ स्तम्बमुत्सृजतीन्द्रस्य परिषूतमसीत्यन्यं परिषौति देवानामिति वा ।

वर्षवृद्धमसीत्यन्तोऽन्त्यस्य । अभिप्रेता ग्रहणयोग्यत्वेन, स्थलविशेषनिष्ठस्तम्बा दर्भा. स्तेषां मध्य एक स्तम्बं छेद्येभ्यो बहिर्लीयत्वाऽन्यमवशिष्टं स्तम्ब नातं परिगृह्णाति । छेदनीयत्वेन बुध्या परिग्रहः । स्तम्बत्यागेन सर्वेषामपादानभूतानां दर्भाणां संस्कार इति त्याज्यं स्तम्नमुपादेयं तद्नं विशेषणं च विवक्ष्यते । तथाऽप्येकमिति संख्योपादानं न प्रतिमुष्टि स्तम्बत्याग इति प्रदर्शनार्थम् । अन्यमित्येकवचनमविवक्षितमद्देश्यगतत्वात् । स्तम्बशब्दः पुंलिङ्गोऽग्निवान् दर्भस्तम्ब इति दर्शनात् । . ग. च. छ. द. 3. ह. 'रण दृ" । २ ख. 'कृतम् । तथाहि ।। ११ २ . . : सव्यापाढविरचितं श्रौतसूत्र-- इप्रयमप्रश्ने-

तꣳ सर्वं दाति ।

ते परिपूत, सर्वग्रहणमसर्वेण पर्याप्तावपि परिपूतावशिष्टस्योपघातो मा देवमर्थम् । स्तम्बजातं सर्वे दाति वक्ष्यमाणविधिना तन्मध्ये किमपि न त्यजति । विधिना त्यागपक्षमाह:

अपि वा पशूनां त्वा भागमुत्सृजामीति परिषूतस्यैकां द्वे वा दर्भनाड्यावुत्सृजति।

... नाल्यौ शलाके । अत्रापि संख्योपादानं पूर्ववयाख्येयम् । अयमपि परिपूतानां .. संस्कारस्तस्मादेकत्वसविवक्षितम् । परिष्तस्येति जात्या वाऽन्यं परिषोतीति च । ... इतः परं. सर्वच्छेदननाड्युत्सर्गपक्षयोः साधारणं विधिमाह-

इदं देवानामिति परिषूतमभिमृशतीदं पशूनामित्युत्सृष्टमवसृष्टो गवां भाग इति वा ।

१. अनुत्सृष्टोत्सृष्टनाडिकं परिघूतमविशेषेण । मन्त्र इदमिति नपुंसकं बहिर्मात्रविव- . : क्षया । तत एव परिषून मुत्सृष्टमिति च नपुंसकम् । अथोत्सृष्टायां नाड्यामसंगत स्यान्ना. न्योरपि । अभिमृशतीत्युभयत्र संबन्धः। एते संस्कारा, अदृष्टार्थाः एते मन्त्राः ...संस्कारार्थाः। दृष्टानाह-

देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां बर्हिर्देवसदनमारभ इति विशाखेष्वभिपद्यते ।

विगताः शाखा येभ्यः पर्वसंधिभ्यस्तानि विशाखानि परूंप्युच्यन्ते यत्पुरुषि दिनम् । तद्देवानाम् ' इति श्रुतेस्तेषु च्छेत्तुमभिपद्यते मुष्टिनाऽऽरभते गृह्णातीति यावत् । बहु- वचनं सर्वेषु मुष्टिमांत्रतृणेवित्येथे वक्तुम् ।

देवेभ्यस्त्वोर्ध्वबर्हिर्भ्य इत्यूर्ध्वमुन्मार्ष्टि ।

गृहीतस्थानादूय दक्षिणहस्तेनोन्माटि दक्षिणेनैव वाऽऽरमते तेनैवोन्मार्यपर्यन्तं, बहिरिति शेषः।

देवबर्हिर्मा(र्या) त्वाऽन्वङ्मा तिर्यगित्यसिदं निदधाति माधो मोपरि परुस्त ऋध्यासमिति वा ।। ५ ।।

पूर्वस्य राध्यासमित्यन्तः । पूर्व गृहीतमसिदं निदधाति पर्वसंधौ नाधस्तादुपमूलस्य पिठ्यत्वान्नापर्युपारे लूनस्य मानुषत्वात् । गुरुनिर्देशनैतदेव दर्शितं पूर्व व्यवस्थितौ प्रेय- मगादित्यादिको मन्त्रावुक्तौ । तथाऽत्र शाखान्तरीयो मन्त्रः शाखान्तरीयेऽसिद एवेति मा भूदित्यसिदमित्युक्तं शाखान्तरेऽसिदेऽप्ययं मन्त्रोऽश्वपश्वी शाखान्तरे. परुस्त इति, H 1 ! रद्विल्पटलः । महादेवकृतवैजयन्तीज्याख्यासमेतम् । तस्मादूंमयमुमय।ति ज्ञापितम् । असिदमपीति न तु पशुमेवैत्यर्थः । केचिदसिदमेवेति- नियमार्थत्वं वदन्त आहुभन्ने पुंस्त्वेनः निर्देशादिति हेर्नु तदभिप्रायं न विद्मः । कथं भन्ने पुंस्त्वेनाऽऽयुधनिर्देशः । किंचाश्वपशुरेवास्मच्छाखायां देववहिरिति मनोऽपि तत्कथमुभयोरसंबन्धो द्वयोरेवास्मच्छाखीयत्वात् ।

या जाता ओषधयो देवेभ्यस्त्रियुगं पुरा । तासां पर्व राध्यासं परिस्तरमाहरन्नित्यभिमन्त्र्य ।

बहिरिति शेषः । अभिमुखः प्रकाशयेदित्यर्थः संस्कारोऽदृष्टार्थो बार्हिषः । ....

आच्छेत्ता ते मा रिषमित्याच्छिनत्ति ।

शस्त्रमाकर्षन्वहिश्छिनत्ति शस्त्रयोरुभयोरपि वक्रत्वादवान्तरधारत्वाच । संसर्गिद्वव्याणामेकद्रव्यत्वं बर्हिषामेव तथाऽपि मुष्टेस्तदवयवत्वं वक्तुं परिमाणमाह-

सनखं मुष्टिं दाति।

मुष्टिर्नखप्रधानः पुंलिङ्गो मुष्टिशब्दो बर्हिषः इति शेषः । बर्हिष्टिं सनखमङ्गुष्ठा- १लिसंबन्धेन मण्डलीकरणेऽवान्तरावकाशो मुष्टिस्तत्तिर्यव्यानं बहिर्मुष्टिस्तावत्पर्याप्त छेदनीयमाच्छेत्तेति सकृदुच्चारितेन मन्त्रेणैकमेव तत्ससृष्टं द्रव्यस्यावयवस्ततोऽधिक मुष्टिना ग्रहीतुमशल्ये पुनमन्त्रोंऽवयवद्व्यत्वेन पृथन्द्रव्ये विचेष्टा पृथक्त्वेनानिष्पत्ते मिहस्तेनं गृहीतं न तन्मुष्टिनैव मितम् । प्रथमबहिर्मुष्टेविशेषसंज्ञामाह-

स प्रस्तरः ।

स बहिर्मुष्टिः प्रस्तरसंज्ञकः । संस्कारनिमित्तः शब्दः । मुष्टिपरिमाणे सर्वेषां बर्हिषामविशेषेण प्राप्त प्रस्तरे वैकल्पिकैः परिमाण धमाह -

स्रुग्दण्डमात्रमुर्वस्थिकुल्मिमात्रं वा ।

तिर्यक्प्रमाणानीत्यापस्तम्बः । सुग्दण्डो नवाङ्कुलपरिणाह उक्त एव । उरुणोऽस्पि प्रसिद्ध, कुल्मिोपुच्छं, मात्रशब्दस्य प्रत्येक सबन्धः । एवं प्रस्तरे परिमाणविशेषानमिधायेतरबार्हषासुक्तमेव प्रमाणं न प्रस्तरगतेन परिक माणेन बाध्यत इत्याह-

एतेनैव कल्पेनेतरान्दाति ।

एतेनेति परामृष्टो विशेषः प्रस्तरपरिमाणादन्यो बहिर्मुष्टिमानविषयस्तस्य द्रव्य पक्वेन प्रतिमुष्टि प्राप्तावपि प्रस्तरविधानेन व्यवधानादनुसंहितः स एव पुनरेवमितराई १ क. ग. च. उ. इ. 'वावा । ख. 'वादेवा । ३ क. ग. "सृष्टद्र' । ३ क. ग. च. छ. उ. ठ.द.तेन को u 1 --

। सत्याषाढविरचितं श्रौतसूत्रं- [१प्रथमपने- नित्येतावता सिद्धे गुरुनिर्देशेन सर्वेषु मुष्टिपूत्सर्गतः पदार्थानुसमयः प्राप्नुयात्स मा भूत्काण्डानुसमयो यथा स्यादित्युक्तम् । एतेनैकस्मिन्मुष्टौ कृतेन कल्पेन समर्थेन काण्डानुसमययुक्तो हि समर्थः संयुक्तान्येकापवर्गाणीति वक्ष्यमाणत्वात् । अतस्तेन विधिविशेषेण दातीतराबहिर्मुष्टीन्प्रत्येकं छिनत्तीत्यर्थः तत्र प्रतिमुष्टि त्वावर्तनीयं परिच्छिनत्ति--

यदन्यत्परिषवणादुत्सर्जनाच्च ।

द्वयस्य सर्वार्थत्वं स्पष्टमिति न तस्याऽऽवृत्तिप्राप्तिरिति मत्वा यदन्यत्परिषवणा- दिति परिवर्जनीयमुक्त, सर्वेषां परिग्रहो जातः परिषवणाख्यो विभुत्वात्संकल्परूपस्य परिषवणस्य नाउयुत्सर्गो वैकल्पिकः । सोऽपि सर्वस्य परिपूतस्येत्युक्तमेव । अतो द्वयं विहायान्यद्देवस्य स्वेत्यादि समानमित्यर्थः । परिषवणोत्सर्गशब्दाभ्यां परिषताभिमर्श- नोत्सृष्टामिमर्शने च परिसंख्याते । उभयोः संस्कारप्रतिपत्तिरूपयोः सर्वार्थत्वेन जातत्वात् ।

सर्वं यथार्थं लुत्वा ।

उत्तरविधानार्थमनुवादमात्र, दिवेति वक्तव्येऽप्याच्छिनत्ति दाति लुनाति लुनोति । एते प्रयोगाः समानार्थाः क्वचिच्छाखायां कश्चिदिति दर्शयितुमच्छिनत्तीति प्रयुज्य गुणविध्यर्थ दातीत्युक्त्वा लुत्वेति प्रत्ययेनानुवदति यथार्थ वेदेानुसारेण मुष्टानां संख्या बहियानुसारेण च । देवस्य त्वेत्यादिना मन्त्र नातेनाभिप्रतिपद्यत इत्यादि कर्मजातं प्रतिमुष्टयावर्तत इति न्यायः स्मारितः ।

देवबर्हिः शतवल्शं विरोहेत्यालवानभिमृशति ।

उलाः स्तम्बशेषा आवश्चनानि भूमौ येऽवशिष्टारछेदकालेऽपादानभूता इति यावत्त- प्रतिपत्तिरिय सकृदेव प्रभत्नावृत्तावपि न मन्त्रावृत्तियत्रै कस्मिन्द्रव्य इति न्यायात् ।

सहस्रवल्शा वि वयꣳ रुहेमेत्यात्मानमत्यभिमृशति ।

आत्मानं हृदयदेशं तत्रैव पुमान्हस्तं दत्त्वाऽहमस्मीत्यात्मानं दर्शयति हस्तेन स्पृशति आत्मानं प्रतिसंधायामीति न मनोमात्रेण पश्यन्नपि तु चक्षुषाऽपीत्यर्थः । अपामुपस्पर्शनं स्मार्तम् ।

अयुजो युजो वा मुष्टीन्निधनानि वा लुनोति ।

नेदं मुष्टीनां निधनानां च विकल्पार्थ मुष्टीनामेव नित्यं छेदनीयत्वेन विधानात् । निधनानि मुष्टिराशयो धान्यादिलवने प्रसिद्धास्तेषामेव संमरणं नित्यं विधास्यते । अतो सूर्य नित्यमयुक्त्वं युक्त्वं च विकल्पमानमन्यतरन्मुष्टिषु वा स्यानिधनेषु वेति विकल्पार्थः। ख.ति प्रथम । ३ क.वं. ग. च... "हेत्युलपान । ३ ख. निरये। 1 २द्विः पटलः) महादेवकृतवैज़गन्दीव्याख्यासमेतम् । मुष्टीनामयुक्त्वयुक्त्वे त्वविवक्षिते । कृतानि निधनानि समानि विषमाणि वाऽथवा मुष्टय एव समा विषमा वैति । न चात्र कोट्यन्तरासंभवादवाच्यमिति वाच्यम् । युग्मविधानेऽपि द्वयोस्त्रयाणां च निषेधः फलति बहुवचनेन विधानात् । एवमयुग्म- विधाने बहुवचनेनैकस्य द्वयोश्च प्रतिषेधः । तथा च ब्राह्मणद्वयानुरोधेनैवमुक्तम् । फलं तु चतुःप्रभृति समत्वं विधेयं त्रिप्रभृति विषमत्वं वेति । अत्र परिभोजनीनामका- न्दर्माशुष्कानशुष्कांश्च परिस्तरणाद्यर्थे लुनन्ति याज़िकाः । तथैव वैखानसेनोक्तम् ॥

अदित्यै रास्नाऽसीति प्रदक्षिणꣳ शुल्बमावेष्टयति ।

आवेष्टयतीत्यनेन सामन्ते सिद्ध प्रदक्षिणमित्यवाच्यं वाच्यं द्विगुणत्वनिरासार्थ. मन्यथा सव्यं गुणं वेष्टयित्वा प्रदक्षिणं स्यात् । शुल्ल बन्धनार्थी रज्जूस्तथा मा मूदिति किं तु प्रथमत एवं प्रदक्षिणमेकसरामेवाऽऽवेष्टयतीत्यर्थः ।

अयुपिता योनिरिति प्रतिनिदधाति त्रिधातु पञ्चधातु वा धातौ धातौ मन्त्रमावर्तयति ।

मन्त्रेण प्रतिनिधानं प्रतिसंधानं मुल्यन्तरस्य पूर्वमेकमुष्टिमात्रमावेष्टितं सस्प संघानेन द्वितीयमुष्टि प्रतिसंदधातीत्यर्थः । कथं, त्रिधातु प्रयो घातवोऽवयवाः संघानार्थी यस्मिन्छुल्बे, तथा धातो यावन्तः प्रक्षिप्यन्ते प्रतिप्रक्षेपं मन्त्रावृत्तिः । कुतः , धातूनां संख्यया पृथग्दव्यत्वात् । यावान्संहितस्तावानेव संस्कृतोऽन्यस्य संधीयमानस्य संस्कारार्थ भवितव्यं मन्त्रेण । तत्र पूर्वसूत्रे 'शुल्चमावेष्टयतीत्यावेष्टनम- भिहितं, तत्तु दर्भयुष्टिनैवेत्यासिद्धम् । ततस्तु संघानार्थे मन्त्र उक्तस्तत्र संख्याका धातूनां सा संख्या प्रथमधातुना सहेति गम्यते । तदुकं कात्यायनेन-' अयुग्धातूनि पूनानि ' इति । पूनानि बन्धनानि, तेन रज्ज्वा एव तथात्वमुक्तम् । प्रतिसंघानकि- याविशेषणत्वे तु धातूनां भवत्येव पूर्वेण सह ग्रहणं, न हि प्रतिसंघानमेकस्य भवति । तथा च त्रिघातुशुल्वे द्विःसंधाने चतुरावृत्तिरिति ज्ञेयम् । नन्वत्र मन्त्रावृत्तिर्न वाच्या द्रव्यपृथक्त्वेऽम्यावर्तत इति प्राप्तत्वात् । सत्सं, नेयमावृत्तिर्मन्नस्य संघानार्थोच्यतेऽपि तांवेष्टनार्थी । तत्र शुल्वस्यैकत्वे च सकृत्प्राप्ताविदमुक्तं यद्व्यैकत्वेऽपि मध्ये मध्य आवेष्टनक्रियायाः संधानार्थ मन्त्रेण व्यवधानात्। यया कालदेशकृते मेरे द्रव्यभेदोऽमि- धास्यत एवं मन्त्रकृते न्यवायेऽपि गन्यभेदान्मन्त्रावृत्तिरिति । तदेव भरद्वाजवचनेन द्रव्यपृथक्त्वेऽभ्यावर्तत इत्यत्र सूत्रे व्याख्यातं न विस्मरणीयम् ।

पृथिव्याः संपृचः पाहीति प्रागग्रमुदगग्रं वा शुल्बं निदधाति ।

विततं पृथिव्यां स्थापयति । स्पष्टमन्यत् । सत्यापादविरचितं श्रौतसूत्र--- [१प्रथमप्रमे

अपरिमितानां परिमिताः संनह्ये सुकृत्तायकम्। एनो मा निगां कतमच्चनाहं पुनरुत्थाय बहुला भवन्त्वित्यभिमन्त्र्य अथ सुसंभृता त्वासंभारमीति शुल्बे निधनानि संभरति ।

अभिमय निधनानि मन्त्रलिजात्तेषामेव प्रतीतः । संभरति "निदधाति । संभ मी. स्यन्तः । अभिमन्त्रणं तत्रं विभुत्वासंभरणे तु प्रतिनिधान मन्त्रों न हि तानि संकृत्सभर्तु शक्यन्ते, न च मेलनीयांनीति विधिरस्ति । तथाचाऽऽह वैखानसः-'यथालून समरति : इति । वनक्रमेणैव संभरणविधानात् । तथान प्रस्तरस्योत्तमे निधाने संभरणमुपपद्यते सुसंभूता त्वेति प्रकृतनिधनैकत्ववचनाच न संभरणं सकृत् ।

अलुभितो योनिरित्युत्तमे निधने प्रस्तरमादधाति ।

सष्टम् ।

इन्द्राण्यै संनहनमिति संनह्यति पूषा त इति प्रदक्षिणं ग्रन्थिमावेष्ट्य ।

अभात्विति मन्त्रान्तः । संनयति शुखेनं संगृह्णाति शुरुवान्तावुपर्यानीय विपर्यस्य वितनोतीति यावत् । ग्रन्धिमांवेष्टयतीत्येतायता प्रादक्षिण्यं सिध्यति परिभाषयवेति प्रदक्षिणमित्यवाच्यं वाच्यं प्रकारान्तरग्रन्थिनिरासार्यमुपरिगुणावेष्टनमात्रेण प्रन्धिर्यथा स्यालोकसिद्धप्रकारान्तरग्रन्थिर्मा भूदिति ।

स त इति पुरस्तात्प्रत्यञ्चमुपकर्षति पश्चाद्वा प्राञ्चम् ।

मा स्थादित्यन्तः । प्रन्थिमित्यावर्तते । बर्हिषि दिशोरभावाहियो वेष्टनस्य पूर्वभागेन (ग) प्रन्थिमधस्ताद्वेष्टनस्यैव प्रत्यश्च प्रतीचीनं कर्षति निर्गमयति, ग्रन्थिमात्र न तु शुल्वप्रान्तावपि, अन्थिरेव मध्ये द्विगुणीकृतोऽपकर्षणीय इत्यर्थः । विपरीतं: वाऽपकर्षति ।

आपस्त्वामश्विनौ त्वामृषयः सप्त मामृजुः । बर्हिः सूर्यस्य रश्मिभिरुषसां केतुमारभ इत्यारभते ।

बर्हिरिति शेषः प्रकृतत्वात् । आरमत आहरणार्थमारम्भ हस्ताम्यां गृहीत्वा करोतीत्यर्थः ।

इन्द्रस्य त्वा बाहुभ्यामुद्यच्छ इत्युद्यच्छते ।

ऊर्ध्वमुद्यौति. बहिरेव । उद्यच्छत इत्यात्मनेपदं छान्दसम् । क, ख, ग, वेष्टयति ।। . -द्वि.श्पटलः महादेवकृतजयन्तीयम्ल्यासमेतम् ।

बृहस्पतेरिति शीर्षमधिनिधाय हरति ।

हरामीत्यन्तः । शीर्षन्निति सुपां सुलुगिति सप्तम्या लुक्तस्यासिद्धत्वान्न....नलोपः। शिरसि निधाय यजमानस्य विहारं प्रति नषति मन्त्रेण शिरसि निधानं विधीयते न तु हरणं तस्य प्राधान्याद्विधिप्रत्ययश्रवणाच.। मन्त्रसंबन्धप्राप्तावपि तत्र मन्त्रान्तरस्यानन्तर- कमेव विधास्यमानत्वान्नायमपि तत्रैव मन्त्रानर्धक्यप्रतिहत्तत्वादुपसर्जनेनापि संबन्धनीयः । तथा चाप्राप्तविधिः शीर्षन्नधि निदधातीति । हरतीत्येतदग्रिमप्रतिज्ञाऽधिनिधानहरणयो. रविनाभावार्थ, तेन यत्र देशान्तराषि आहरणमस्ति तत्रैवाधिनिधानम् । यत्र सिद्धा एव दर्भा यथोपपन्नसंस्कारैर्बहिर्गृह्यते तत्र न । न ह्येत्तद्धर्ममात्रं किंतु दृष्टार्थ नियम्यते ।

यौ गमनौ तौ प्रत्यायनौ ।

गम्यतेः याभ्यां मन्त्राभ्यां तौ गमनौ, पूर्व गमनापत्वेन प्रेयमगादुर्वन्तरिक्षं प्रेहीति मन्त्रायुक्तौ तावेवात्र प्रत्यायनौ प्रत्ययते प्रत्यागम्यते याभ्यां तो प्रत्यायनौ । अस्मच्छा- खायां गमनप्रक्रमे प्रेयमगादिति पठितस्तत्स्थान एव शाखान्तर उर्वन्तरिक्ष प्रेहीति पठितः । शाखान्तरे पुनः प्रत्यायनस्थाने द्वावपि पठितौ स्वशाखायां यत्रोर्वन्तरिक्ष- मन्विहीत्ययमध्यायान्ते पवितस्तस्मादयमपि तौ च गमनार्थत्वेन ज्ञेयौ । अन्यथा स्वशा- खामन्त्रस्यान्विहीत्वस्य त्यागः स्यात् ।

अदित्याः सद आसीदेति परिधिदेशेऽन्तर्वेद्यनधः सादयति ।

मध्यमपरिधिदेशे वेदेमध्ये तृणादिना प्रदेशं व्यवधाय तत्र बहिरासादयति ।

देवंगममसीत्यासन्नमभिमन्त्रयते ।

तत्रैवाऽऽसादित बहिरमिमन्त्रयते ।

अदित्यास्त्वा पृष्ठे सादयामीति गाईपत्यदेश उपरि निदधाति ॥ ६ ॥

. : गार्हपत्यस्योपरिष्टात्कटादौ यथा न निपतति. तथा स्थापयति परिभोजनीयानपि बहिषा सहाऽऽनीय स्थापयति । अत्रानुग्रहं बहिराहण आह बौधायन:-' आहृतं यजुषा करोति ' इति । कात्यायनस्तु निसातलूनच्छिन्नावहतपिष्टदुग्धेषु यजुष्क्रिया- संभवादिति । इति बहिराहरणविधिः।

पालाशं खादिरं वैकविꣳशतिदारुमिध्मꣳ संनह्यति ।

संज्ञा संख्या प्रदर्शनार्थमेतत् । पलाशस्य विकारस्तं पालाश, खदिरस्य विकारस्तं वा, एकविंशतिर्दारूणि काष्ठानि यस्मिन्नसावकविंशतिदारुस्तम् । इध्ममिति व्युत्पन्नोऽयं '" .S 14. कच. छ. द. वस्ताद । २. उ... "स्तद' । सत्यापाढविरचित भौतसूत्र-- [रपथमप्र- शब्द इध्यतेऽनिरनैनाते ननु (त) संस्कृतवाचीत्युक्तं वारूण्यतष्टकाष्ठानि सनपति पक्ष्यमाणप्रकारेण । काष्ठानां विनियोगमाह-

पच्चदश सामिधेन्यर्थानि ।

सामिधेन्यनुवचनकाले समिन्थनार्थत्वेन प्रक्षेप्यमाणानि 'सामिधेन्यः प्रयोजनं येषा तानि सामिधेनीभ्य इति वा सामिधेन्वर्धानि सामिधेनीप्रयुक्तानीति यावत् । सामिधे- नीमिः प्रकाश्यमानोऽर्थः समिद्धिः समिध्यमानोऽग्निस्तस्य विशिष्टस्य विशेषणान्यपि सामिधेनी भिरर्यन्तेऽभिधीयन्तेऽतस्तान्युपकारकत्वात्तदर्थानीयुक्तम् । न ह्यसत्यर्थे शब्दः प्रवर्तते ।

त्रयः परिधयोऽनियतवृक्षाः सत्वक्वाः ।

अग्नेः परितो धीयन्ते तानि दारूणि परिचयः, अनियतवृक्षा नानानातीयो वृक्ष उपादानं येषां ते । अत एवाऽऽहाऽऽपस्तम्बः-'त्रयः परिधयः पलाशकार्मर्य- खदिरोदुम्बरबिल्वरोहीतकविकतानां ये वा याज्ञिका वृक्षाः' इति । समिर्धा सत्वस्व स्मृतिसिद्धम् । परिधीनां तु शभ्याकारत्वं स्वेव विधास्यते स्मार्ते, आकारस्तु तक्षणेन विना न भवति तच्छङ्कानिवृत्यर्थ सरवका इत्युक्तम् । तत्रैव वैशेपिकं सार्थवाद विधिद्वयमाह-

आर्द्रा भवन्ति ते हि सरसा इति विज्ञायते शुष्का भवन्ति मेध्यत्वायेति विज्ञायते ।

विज्ञायत इति शाखान्तरीयसाक्षाच्छृतित इत्यर्थः । ते हि सरसा इति मेध्य- स्वायेति चार्थद्वयप्रदर्शनं कर्मानज्ञानार्थम् । उक्तं च बौधायनेनार्थवादरम्युदयायेति । अर्थवादाज्ञाने यजुर्भेषप्रायश्चित्तं मुवः स्वाहेति दक्षिणाग्नौ । एवं यत्र यत्रार्थवादानुदाह- रति तत्र दृष्टं प्रयोजनं येषु लभ्यते तत्र तथा । यत्र न लभ्यते तत्र कर्मान- ज्ञानार्थमेव ग्रहणम् । त्रय आर्द्रा एव वा कर्तव्याः शुष्का एव वा ।

स्थविष्ठो मध्यमोऽणीयान्द्राघीयान्दक्षिणार्ध्योऽणिष्ठो ह्रसिष्ठ उत्तरार्ध्यः ।

अत्र हि स्मृतिकारः कनिष्ठिकास्थूलाः समिधोऽनामिकास्थूला इमसमिध इतरानु। लिस्थूलाः परिधयः समिधामपि प्रादेशमात्रत्वं स्मृत्य(त)म् । द्विप्रादेश इध्मनिप्रादेशाः परिधयो बाहुमात्रा इति भारद्वाजः । द्विचत्वारिंशदङ्गुला इत्यर्थः । एतानि प्रमाणानि मध्यम एव । इध्मसमिधामपि प्रादेशमात्रत्वं स्मृत्यन्तरे । कात्यायनीयस्त्वायतनमानते- १ख..3, 2... लक्ष्यते । २ ख. छ. उ. अ. मिषस्तु । २द्वि० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ध्मसमिधामुक्ता । स्थविष्ठत्वं स्थूलत्वमुत्तरापेक्षया च मध्यमे किंचिदणुत्वं पूर्वापेक्षया दक्षिणाय एव तथैव द्राधीयस्त्वं दीर्घत्वं दक्षिणायें एव । अणिष्ठो हसिष्ठ उत्तरार्ध्यः । मध्यमापेक्षया हृस्वत्वं तदपेक्षयैवाणुत्वं च । अर्धशब्दो मागवाची । दक्षिणमागे भवो दक्षिणार्ध्यः । एव मुत्तराभ्योऽपि ।

द्वे आघारसमिधौ ।

भाषारप्रदेशे आधीयमानत्वात्तथा ।

अनूयाजसमिदेकविꣳशीति ।

अनूगानार्ष समिदनूयामसमित् । सर्वासा समिधां भूम्नाऽग्नीन्धनत्वेन तदपेक्षयेध्म इति संज्ञा ।

समूलानाममूलानां वा दर्भाणामयुग्धातु शुल्वं कृत्वा प्रागग्रमुदगग्रं वा निदधाति ।

शुल्वशब्दो जातिनिमित्तो न संस्कारनिमित्त इति' ज्ञापयति यदाहायुग्धास्विति । संस्कारवत्त्वे( त्वं ) तु प्राप्तमेव शुल्वत्वेन । तथा पूर्वोक्तमन्त्रनिवृत्तिः । समूलानाममू- छानामिति विधानमन्यत्र ज्ञापयति नियमं पूर्वस्मिन्छुल्वेऽमूला एव कर्तव्याश्छेदनस्य प्रकृतत्वात् । पिव्ये समूला एव । ' यत्समूलम् । तपितृणाम् । ' इति श्रुतेः । अत्रा- नियमः । अत्रैव वा नियमः समूलानामेवामूछानामेव वा ।

यत्कृष्णो रूपं कृत्वा प्राविशस्त्वं वनस्पतीन् । ततस्त्वा मेकविꣳशतिधा संभरामि सुसंभृता । त्रीन्परिधीꣳ- स्तिस्रः समिधो यज्ञायुरनुसंचरान् । उपवेषं मेक्षणं धृष्टिꣳꣳ संभरामि सुसंभृतेति शुल्ब इध्मꣳ संभरति ।

प्रागप्रमुदगर्ग वा निदधाति शुल्वानुसारेण व्यवस्थया । अत्र यज्ञायुरनुसंचरानिति पुंलिङ्गः शब्दः समिधां परिधीनां च वाचकस्तथाऽपि पुमान्त्रियेति सूत्रेणैकशेषे पुंलि. ङ्गताविधानात् । तथा च यत्र न परिधयस्तत्र स्त्रीलिङ्गेनोहः । ननूपवेषं मेक्षणं धृष्टि- मिति पुनरपि पुंलिङ्गताप्राप्तिरिति चेत् । न.। तिस्त्रः समिध इति स्त्रीत्वेनापि प्रतिपाद- नात् । अत्र भाष्यकृन्मतं पूर्व द्वे आघारसमिधावनूयाजसमिदेकविंशीत्युक्तं तस्मादा- तिथ्यायामन्याजसमिदमानार्धष्टिशब्दस्योपसन्मु चाऽऽघारानुयाजसमिधाममावादृष्टि- मेक्षणशब्दयोनिवृत्तिरिति । केचिदुपवेषादिशब्दा न कर्मसमवेतार्थप्रकाशका अपि तु संभ्रियमाणस्येमस्य स्तुतिस्तत्पक्षे तु न त्यागः । प्रकृतौ काम्यत्वेन काष्ठवृद्धा-

  • तथापीत्यधिकम् ।

क. ख, ग, छ.ट...'शी । १२ सत्याषाढविरचितं श्रौतसूत्र- [१प्रथमप्रश्न- वपि नोहो मन्त्रलोप एव तूष्णी संभरणं न काम्यो गुणो मन्त्रं गृह्णात्यप्रकरणत्वात् । अत एव वक्ष्यति तूष्णीकं संनहनमिति । विकृतौ यथार्थमूहः-ततस्त्वां त्रयोविंशति- धेति । आतिथ्यायो द्वे समिधाविति । उपसत्सु त्वेका समिधमिति । अस्मिन्पक्ष उपवेषादिशब्दानामनिवृत्तिरसमवेतार्थत्वात् । अयं पक्षः साधीयान् । उपवेषादिश- ब्दानामाघारानूयाजसमित्सु प्रवृत्तिनिमित्ताभावात् ।

कृष्णोऽस्याखरेष्ठो देव पुरश्चर सघ्यासं त्वेति संनह्यति ।

पूर्ववत् ।

पूषा त इति प्रदक्षिणं ग्रन्थिमावेष्ट्य तेनैव कल्पेन यथा बर्हिषि ।

प्रशास्वित्यन्तः । तेनैव कल्पेन सत इत्यादि अपकर्षणान्तं, नायमतिदेशः शाखा- तरीयस्योपदेशस्य लक्षणेन कथनम् ।

विप्रतिपाद्य वा ।

अथवा विप्रतिपत्त्या विलक्षणग्रन्धिप्रतिपादनेन यथाकथंचिदेव मन्थ्यपकर्षण कार्य न तत्पुरस्तात्मत्यश्चमित्यादिविशेषेण ।

तेनैव मन्त्रेण ।

सत इत्यनेन मन्त्रेण यथाकथंचिगन्थ्यपकर्षणपक्षेऽपीत्यर्थः ।

बर्हिषा सह निदधाति ।

सर्व तूष्णीमेव ।

वेदोऽसि येन त्वं देव वेददेवेभ्यो वेदोऽभवस्तेन मह्यं वेदो भूया इति दर्भाणां वेदं करोति ।

मध्य इध्मेन व्यवधानात्पुनदर्भाणामित्युक्तं, वेदशब्दोऽयं संस्कारवाची, य एवं क्रियते स वेदशब्दवाच्य इत्यर्थः । कर्तव्यताप्रकारमाह-

वत्सज्ञुं मूतकार्यं पङ्क्तिकार्यं त्रिवृतं वा ।

वत्सस्य जान्विव वत्सवः । जानुशब्दस्य जुरादेशः । दर्भमुष्टिं गृहीत्वा झप्रदति. णमावेश्य किंचित्प्रदक्षिणमावेष्टनेन द्विगुणं कृत्वा द्विगुणप्रदेशानन्तरमेव शुखेन बध्नाति । यथा मूलाग्रे विविच्य तिष्ठतः । वत्सो ह्युपविष्टस्तस्य जानुनि संनमनेनोरु- मङ्घयोनानुसमीपे च संनिकर्षः परतोऽसंनिकर्षस्तथा कार्य इति भावः । मृतकार्य पत्र राशीभूते तृणपुञ्जविशेषेऽधस्तादुपरिष्टाच बद्धे मध्ये धान्यं निधीयते तद्वन्मत- सदशमित्यर्थः । पति कार्य विस्तीर्ण गुम्फितमुपवेशनाद्यर्थं तत्पतिस्तद्वत्कार्य, तद्वत्रि. वृतं त्रिरावर्तनेन संपादितस्त्रिवृतो वेणीसदृश इत्यर्थः । १घ, हैं. ज. स.अ. द. बध्यते । ३० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । काम्यान्कल्पानाह-

वत्सज्ञुं पशुकामस्य मूतकार्यमन्नाद्यकामस्य पङ्क्तिकार्यं प्रजा- कामस्य त्रिवृतं ब्रह्मवर्चसकामस्य त्रिवृच्छिरसं ब्रुवते ।

यनमानगताः कामानिवृच्छिरसं ब्रुवत इत्येतद्विना पूर्व चतुष्टयं नित्यं काम्यं चेदं काम्यमेव । त्रिवृच्छिरसं त्रिवृच्छिरो यस्यासौ त्रिवृच्छिरास्तं त्रिगुणशिरसमिति यावत्, ब्रुवते यजमानाय काम्यप्रायपाठाद्यक्तवाक्त्वकामाय ।

तृण्णात्प्रादेशे परिवासयति ।

शुल्नेन बद्ध्वा तत ऊवं प्रादेशमात्रे समाप्ते छिनत्ति । स वेद इत्यर्थः ।

इध्मप्रव्रश्चनानि वेदपरिवासनानि च सह निदधाति ।। ७ ।।

इति हिरण्यकेशिसूत्रे प्रथमप्रश्ने द्वितीयः पटलः ।। २ ।।

इध्मस्य प्रवचनानि च्छेदनकाले पृथग्जातानि मूलाग्रादोनि वेदस्य च्छेदनकाले पृथकृतानि तृणानि सानि प्रज्ञातानि सहैव निदधाति शेषकार्याय । इति सत्यापादहिरण्यकेशिसूत्रव्याख्यायो प्रयोगवैजयन्त्यां महादेवकृतायां प्रथममने द्वितीयः पटलः ॥२॥

1.3 अथ तृतीयः पटलः । .. इध्माबहिराहरणानन्तरं संहिताब्राझणपाठक्रमप्राप्तं शाखापवित्रकरणपूर्वकं सायंदोहं. व्याचष्टे-

अन्तर्वेदि शाखायाः पलाशानि प्रशात्य सर्वाणि मूलतः परिवास्य ।

अन्तर्वेदि वेद्या अन्तरन्तर्वेदि, तत्र करिष्यमाणवेदिदेशे कृतायां तु मध्ये वेद्या- मुपगूढां शाखामानीय तस्या विद्यमानानि पलाशानि पर्णानि प्रशात्य च्छित्वा, पछा- शान्यसर्वाणीत्ययमकारः प्रतिषेधार्थः, न सर्वाणीत्यर्थः । सर्वस्या अपि कियन्ति च्छित्वा छेदनेन शाखासंस्कारो वेदिदेशे पातनेन पर्णप्रतिपत्तिः । मूलतः परिवास्येति मूलतो मूलमागमेव परिवारमा च्छेदनेन पृथकृत्वा । अयमपि शाखासंस्कारः ।

उपवेषोऽसि यज्ञाय त्वां परिवेषमधारयन् । इन्द्राय हविः कृण्वन्तः शिवः शग्मो भवासि न इति तमुपबेषं करोति ।

तं छिन्नं शाखाया मूलभार्ग मन्त्रेणोपवेषं करोति कल्पयति न तुं मन्त्रेण च्छित्त्वा यत्र न शाखाहरणं तत्रोपवेषकार्य याक्षिकेन केनापि काठन कार्य, मन्त्रं च केचिदि- , .९२ सत्यापाढविरचितं श्रौतसूत्रं- [१प्रथमपन्ने- च्छन्ति । न चेन्द्रपदविरोधस्तस्यै पदस्यासमवेतार्थप्रकाशकत्वात् । तस्मान्न महेन्द्रपद- वान्मन्त्रोऽपि मृग्योऽत्र । तन्न । मन्त्रत्वसांनाय्यमन्त्रपाठसंदंशमध्यपठितत्वेन सानाय्य. प्रयुक्तशाखानुनिष्पादिन्येव मूलमागे न तु काठान्तरकृते सूत्रकृताऽपि तमुपवेष करो. तोति पदेन प्रासङ्गिकत्वमुक्तम् । ग्रणेन संकल्पेन वा मन्त्रन संस्करोति भाव्युप- योगाय न शाखाहरणप्रयुक्तमन्त्रः । तदभावे च नास्ति । तथाऽपि काष्ठमात्रं तु युज्यत एवाङ्गारानेर्हरणार्थम् । तदाह भारद्वाजः-चोद्यमाने कर्मणि द्रव्यमुत्पादयद्य- था पौर्णमास्यामुपवेष इति । भाष्यकृत्पूर्व परिवासितस्य पुनः परिवासनायोगान्मन्त्रेण करणमुपादानमात्रमित्याह ।

तस्यां त्रिवृद्दर्भमयं पवित्रमविदलं करोति ।

सामान्यप्रतिज्ञेयम् । तस्यामग्रमागेन(ग) विद्यमानायां शाखायां त्रिवृत्रिमिदमः कृतं दर्भमयं पवित्र पयःपवनयोग्यमविदलमविलग्नान्यसंश्लिष्टानि दलानि यस्य तत्तथा । अत्र त्रिवृदादिगुणयुक्तं पवित्रमादौ पृथगेव तूष्णीं करोतीति वाक्यार्थः । तस्यां मूले मूलमुपसूनतीत्यन्वयः । अत एवाऽऽपस्तम्बः-त्रिवृद्दर्भमयं पवित्रं कृत्वा बसूनां पवि- त्रमीति शाखायां शिथिलमवसृनति' इति । अथ वा तस्यामविदलं करोतीति संबन्धः । अविदलमविलसदलं शिथिलमिति यावत् ।

त्रिवृत्पलाशे दर्भ इयान्प्रादेशसंमितः । यज्ञे पवित्रं पोतृतमं पयो हव्यं करोतु म इति मूले मूलमुपसृजत्यग्रेऽग्रं न ग्रन्थिं करोति ।

उपसृजति श्लषयतीत्यर्थः । कथं, शाखाया मूले पवित्रस्य मूलं तथैवाग्रेऽयं न अन्धि करोतीति । पवित्रावयवेन अन्धि करोति संश्लिष्टं मूलाग्रयोर्यथा तिष्ठति तथा प्रकारा- न्तरेण कर्तव्यमेवेति प्राप्ते दर्भान्तरेण बन्धनमप्यनुज्ञायत एव । मन्त्रलिङ्गाद्दर्भाणां प्रादेशमात्रत्वेऽवगते मूले मूलमित्यादिना लिनेन शाखाऽपि प्रादेशमात्रैवावशेषणीये. त्यवगम्यते । तेन तावतीमवशेषयित्वाऽवशिष्टस्य मूलभागस्योपवेषार्थ इस्त्वमि ). त्यवगम्यते । एवं पलाशशाखायां लिङ्गेन प्रथम मन्त्रमभिधायोमयोरपि शाखयोः पवित्रकरणे शाखान्तरीय मन्त्रमाह-

वसूनां पवित्रमसि शतधारमिति वा ।

गतम् । अनन्तरमपराह्ने पिण्डपितृयज्ञः । अथ सायदोहः ।

सायꣳ हुतेऽग्निहोत्रे ।

इष्टयर्थमुद्धृत एवानावाग्निहोत्रं नानुगमनादिविधिरिति दर्शयित हुतेऽग्निहोत्र इत्यु. - १८. "स्मान्महे ।। . श्तृ पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । .९३ क्तम् । हुत एव दोहारम्भोऽन्यथा मा भूदिति । हुते यजमानेनेति दर्शयितुं त्वाप्रत्ययो न प्रयुक्तो हुत्वेति ।

द्वंद्वꣳ सांनाय्यपात्राणि प्रक्षाल्य न्यञ्चि प्रयुनक्ति ।

स्थापयति द्वंद्व द्वे द्वे संभरति सह, सायंदोहपात्राणीति वक्तव्ये सांनाय्यपात्रा. णीति सामान्यनिर्देश उभयत्र पात्रेषु समानधर्मता यथा स्यात् । प्रक्षाल्याद्भिश्चि अधोबिलानि बिलवन्त्युत्तरेण गार्हपत्यं दर्भान्सस्तीर्येति सूत्रान्तरे दर्शनात्तत्रैव कार्य- मासादनम् । तान्येव दर्शयति-

अग्निहोत्रहवणीमुखामुपवेषꣳ शाखापवित्रमभिधानीं निदाने दोहनमयस्पात्रं दारुपात्रं वा पिधानार्थम् ।

अष्टावत्र पात्राणि पिधानार्थपात्रयोरन्यतरस्यैकस्यैव ग्रहणात् । एकैकविमक्तिनि. दिष्टमेकैकं निदाने द्वे अपि एकविमक्तिनिर्देशादेकम् । अग्निहोत्रहवणीमिति व्युत्पन्नः । उपवेषं शाखापवित्रमिति शब्दसंस्कारनिमित्तौ । व्युत्पन्नो दोहनमिति । उखाभिधा- न्यादिशब्दास्तु जातिनिमित्ता एव । उखा मृन्मयं पात्रमभिधानी गोबन्धनार्या रज्जु. · निंदाने पश्चिमपादयोरधस्तादुपरिष्टाच्च बन्धन्यौ रज्ज्वावथवा धेनुविषाणयोर्वत्सस्य च बन्धन्यौ । दोहनं दुह्यतेऽनेनेति यस्मिन्वा तदोहनपात्रमायसदारुमयपात्रयोरापिधा- नार्थयोर्विकल्पः । एतानि यथावत्प्रयुनक्ति ।

समावप्रच्छिन्नाग्रौ दर्भौ प्रादेशमात्रौ पवित्रे करोति ।

सामान्यप्रतिज्ञयम् । समौ वर्णरूपाभ्यां प्रादेशमात्राविति परिमाणस्य विधानात् । एतादृशौ यो दौं तौ पवित्रे पवनयोग्यौ संस्कारैः करोति। पवित्रशब्दो यद्यपि विशे- प्यलिङ्गोऽप्यस्ति तथाऽपि पवनसाधने नपुंसक एव दृश्यते द्विवचनं तूभृतावयवत्वात्। आचारप्राप्तग्रन्थिकरणं श्रौते कर्मणि दुर्लभमेवाविधानात् । अच्छिद्रणेति लिङ्गं च द्वयो. य॑वधि निवारयति । तेनाऽऽौं कृत्वा श्लिष्टौ कार्यों । कथं करोतीत्यपेक्षित आह-

पवित्रे स्थो वैष्णवी वायुर्वां मनसा पुनात्विति तृणं काष्ठं वाऽन्तर्धाय छिनत्ति ।

दर्भावग्रे प्रादेशमात्रमवशेषयित्वा( प्य ) तत्र तृणं काष्ठं वा व्यवधायः तदुपरि छिनत्ति दर्भावपि च्छिन्नौ यथा स्यातामिति । छेदन एव मन्त्रः । अप उपस्पृश्य । तत्तु नखव्यतिरेकेणान्येनोपायेन न तु नखैरित्याह-

न नखेनेमौ प्राणापानौ यज्ञस्या सत्यापादविरचितं गौतसूत्रं- [प्रथमप्रश्ने-

ङ्गानि सर्वशः । आप्याययन्तौ संचरतां पवित्रे हव्यशोधन इत्यभिमन्त्र्य ।

सौ दो पवित्रत्वेन क्रियमाणौ ।

विष्णोर्मनसा पूते स्थ इत्यद्भिरुन्मार्ष्टि ।

अनुलोममूर्ध्व च । अद्भिरितिविधानं सर्वत्रोमार्जनमेवोदकैरनुमा नादिक तु केवलेन हस्तेन ।

गां दोहपवित्र रज्जु सर्वा पात्राणि शुन्धतेति संप्रेष्यति ।

गामिति प्रात्यभिप्राय, रज्जुमित्यपि । प्रेषस्य कर्ताऽत्र नोक्तो नापि प्रैषानन्तरं प्रेषानुसारि किंचित्कर्म विहितं गवादिशोधनरूपम् । न च शुन्धध्वमिति प्रोक्षणार्थोऽयं प्रैष इति वाच्यम् । पात्राणीति प्रोक्षणविधानात् । शुन्धध्वमिति सकर्मके कर्तारों महयोऽत्र प्रकृता न सन्ति, तस्माददृष्टार्थोऽयं प्रैष आत्मानं प्रति यद्यपि संभवतीत्यग्रे प्रतिपादयिष्यते तथाऽपि प्रकृते प्रैषानुरूपः कोऽप्यों नास्तीत्यदृष्टार्थमुच्चैपमात्रमिति सूत्रान्तरेऽत एव वदतीत्युक्तम् ।

अग्निहोत्रहवण्यां पवित्रान्तर्हितायामप आनीय ।

पवित्राम्यामन्तहिता अन्तर्विलमध्ये स्थापिताम्यां पिहिता अन्तर्धानप्रदेश एव । अप आनीयापः प्रक्षिप्य ।

देवो व इति पच्छो गायत्र्योदगग्राभ्यां पवित्राभ्यां त्रिरुत्पुनाति ।

देवो यः सवितोत्पुनास्विति प्रथमम् । अच्छिद्रेण पवित्रेणेति द्वितीयम् । यसोः सूर्यस्य रश्मिभिरिति तृतीयम् । पच्छ इति विधानात्रयो मन्त्रा इत्येकां व्याख्यामाहुः केचित् । तन्न । गायत्र्येति तृतीयया सर्वस्या एव अचः साधनताऽवगम्यते न पादानां, पच्छ इत्यनभिधानात् । द्वितीयतृतीयपादयोस्तु क्रियापदाभावाच । अतः पच्छः पठितया गायव्येवोत्पुनाति सकृन्मन्त्रेण द्विस्तूष्णीमिति युक्तम् । त्रिरुत्पुनातीति संख्ययाऽभ्यावृत्तौ विहितया न कर्मभेदः । संस्कार कर्मणि हि नोत्पत्तिविधिः । उत्पत्तिविधिहि संख्यासहकृतो भेदैकः । तस्मादेकस्यैव कर्मणोऽ. भ्यासोऽभ्यासस्य गुणमूतस्य च न मन्त्रोऽहं किं तु प्रधानभावनायास्तस्या एकरवा- मन्त्रे गायव्येति पुनरेकमन्त्रत्वावगतेः प्रत्येकं मन्त्रेषु वाक्यपरिसमाप्त्यभावात् । भतस्त्रिपदया गायत्र्या प्रथममुत्पवनं तूष्णी द्वे । अनवानं मन्त्रोच्चारणं मा भूदित्ये- सदर्थ पच्छ इत्युक्तम् । उत्पवनमुदगग्राभ्यां पवित्राम्यामूर्ध्वपवनं शोधनमपाम् । याज्ञिका हस्तद्वयेन पवित्रे गृहीत्वोत्पुनन्ति तन्मूलमन्वेष्टव्यम् । गायच्या ख. ग. प. छ. स. म. ट. ठ. इ. 'यत्रियोद' । ३ क. ग, च. छ. 8. 3. इ. 'दस्तस्मा।

श्तृ० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ९५

आपो देवीरित्यनुमन्त्र्यते ।। ८ ।।

प्रोलिताः स्थेति मन्त्रान्तः । अयं मन्त्र उमयदोहयोः ।

आपो देवीः शुद्धाः स्थेमा पात्राणि शुन्धत । उपा- तङ्क्याय देवानां पर्णवल्कमुत शुन्धतेति वा ।

अत्र तूपातळ्याय देवानां वर्णवस्कमिति लिङ्गात्सायदोह एव ।

शुन्धध्वमिति त्रिः सर्वाभिरुत्तानानि पात्राणि प्रोक्षति शुन्धन्तां विश्वकर्माणि देवयज्यायै दैव्याय कर्मणे शुन्धध्वं यद्वोऽशुद्धाः पराजग्मुस्तद्व एतेन शुन्धतामिति वा ।

यज्याथा इत्यन्तः । सर्वामिरिति शेषं नावशेषयेत् ।

एता आचरन्ति मधुमद्दुहानाः प्रजावतीर्यशसो विश्वरूपाः । बह्वीर्भवन्तीरुपजायमाना इह व इन्द्रो रमयतु गाव इति गा आयतीः प्रतीक्षते ।

मन्त्रान्तेनेक्षणं प्रतीपं गस्वाऽऽयतीरग्निशालासमीपमागच्छन्तीः ।

धृष्टिरसीत्युपवेषमादाय ।

ब्रह्म यच्छेति मन्त्रान्तः ।

निरूढं जन्यं भयꣳ सह तेन यं द्विष्मः सुभूताय श्रयध्वमिति तेन गार्हपत्यादुदीचोऽङ्गारान्निरूह्य ।

गार्हपत्यागार्हपत्यायतनात्तेन गृहोतोपवेषेणोदीच उदीची दिशं प्रति निख() साऽऽयतनात्यकृत्वा ।

मातरिश्वन इति तेषु कुम्भीमधिश्रयति ।

दृश्हस्व मा हारिति मन्त्रान्तः । उखाशब्देन प्रयुनक्तीत्युक्तम् । अत्र तु कुम्मीम- विश्रयतीत्याह तज्ज्ञापयति जातिनिमित्तौ पर्यायशब्दावेताविति । चैकल्पिक मन्त्रान्तरमाह-

अप्रस्रꣳसाय यज्ञस्योखे उपदधाम्यहम् । पशुभिः संनीतं बिभृतामिन्द्राय शृतं दधीति वा ।

अनोखे इति द्विवचनं प्रातर्दोहोखापेक्षम् । अत एव सनीतमिति शृतं दधीति च दधिपयसोः संस्तवः । तद्यद्यप्ये कैकस्मिन्दोहे न संभवति तथाऽपि व्यक्तिविशे- पोपस्थित्या नातिमात्र स्तूयते । महेन्द्रपदवानपि ज्ञेयो मन्त्रः ।

भृगूणामङ्गिरसां तपसा तप्यस्वेत्यङ्गारैः परीन्धे ।

इन्धे दीपयति परितः। . - ९६ 'सत्यापाठविरचितं श्रौतसूत्र- [१प्रथमप्रश्ने-

उपसृष्टां मे प्रब्रूतादिति संप्रेष्यति ।

उपसृष्टां वत्सेन संगताम् । गोदुहं प्रत्येव प्रैषः ।

वसूनां पवित्रमसि सहस्रधारमिति कुम्भ्यां प्रागग्रꣳ शाखापवित्रमादधाति ।

स्पष्टमेतत् ।

अन्वारभ्य वाचं यच्छति धारयन्नास्ते ।

कुम्भीमन्वारभ्य पवित्र धारयन्नास्त इत्युभयेन संबध्यते । तथा चान्वारम्भ कृत्वा मध्ये न त्यति वाचं यच्छति यावद्विसंगविघानं शाखापवित्रं धारयन्निति संबन्धः ।

अदित्यै रास्नाऽसीत्यभिधानीमादत्ते ।। ९ ।।

मभिधीयतेऽनया सामिधानी तां रज्जुमादत्ते गोधुक् । अध्वर्योः कुम्म्यन्वार- मादादानादिकर्मणां विरोधादसमवादन्यः कर्तेत्युक्तमेव । तूणी निदाने । द्रव्य- पृथक्त्वेन मन्त्रावृत्तिः प्राप्ता वचनेन निवार्यते । तामिः कृत्यमपि तूष्णीम् । वैकल्पिक मन्त्रान्तरमाह-

त्रयस्त्रिꣳशोऽसि तन्तूनां पवित्रेण सहाऽऽगहि । शिवेयꣳ रज्जुरभिधान्यघ्नियामुपसेवतामिति वा ।

आदानं पूर्वमन्त्र उक्तं तस्यायं मन्त्रो विकल्पतेऽमिधान्यामेव मन्त्रालिङ्गात् ।

पूषाऽसीति वत्समुपसृजति ।

गोधुगेव गोसमीपं नीस्वा विसृजति मुञ्चतीति यावत् । पुंस्त्वमविवक्षितमुपसननेन संस्कार्यत्वात् । वत्सेन च दोहार्थ प्रस्रवः साध्यः ।

धावन्तं वाऽनुमन्त्रयते ।

अध्वयोरशक्यत्वात्स एव कर्ता मनसा लक्षीकृत्य पठेत् । उपसृष्टा मे प्रबूतादिति संप्रेषबलाद्दोग्धा होपसृष्टेति ततोऽध्वर्युः ।

विहारं गां चोपसृष्टामन्तरेण मा संचारिष्टेति संप्रेष्यति न दुह्यमानामन्तरेण यन्ति विहारं गां च ।

अन्तरेण मध्य उपसृष्टां वत्सेन संगतामुपसृष्टामित्यनेनोपसर्ननसंस्कारेणोपलक्षिता दुह्यमानां गां विहारं चान्तरेण नै यान्तीत्युक्तं सर्वेऽपि । व्ययाये प्रायश्चित्तमाह-

यदि व्यवेयात्सांनाय्यं मा विलोपीति ब्रूयात् ।

व्यवेयाद्यः कश्चन तदा सानाय्यं मा विलोपोत्यध्वर्युयादिदमेव प्रायश्चित्तम् । - १.ग. छ, ट, नयन्ती। १७ स्तृ० पटला. महादेवकृतवैजयन्तीध्याख्यासमेतम् ।

अयक्ष्मा वः प्रजया सꣳसृजामि रायस्पोषेण बहुला भवन्तीरित्युपसृष्टाम् ।

गोदुहोपसृष्टत्युक्ते तामनुमन्यत इत्यग्रिममाकृष्यते व्यवहितं वा पूर्वम् ।

ऊर्जं पयः पिन्वमाना घृतं च जीवो जीवन्तीरुप वः सदेयमित्युपसन्नाम्।

दोग्धा दोहार्यमुपविश्यानुमन्यते, उप वः सदेयमिति लिङ्गात् । न वा विधाना- भावात् । स्वयमेव प्रयोजकत्वेन क; यत्पुरुषेण प्रयोज्येन कृतं स्वयमेव तत् । तदाऽध्वर्यरुपसृष्टामुपसनामनुमन्यते ।

द्यौश्चेमं यज्ञं पृथिवी च संदुहानां धाता सोमेन सह वा तेन वायुः । यजमानाय द्रविणं दधात्विति दुह्यमानामुत्सं दुहन्ति कलशं चतुर्बिलमिडां देवीं वधुमतीꣳ सुवर्विदम् । तदिन्द्राग्नी जिन्वतꣳ सूनृतावत्तद्यजमानममृतत्वे दधात्विति धाराघोषमनुमन्त्रयते ।

घोषं शब्दम् ।

दोग्धा हरति ।

दुग्धमिति शेषः । कुम्भी प्रति नयति दोग्धेत्यंत्राऽऽनिधानात्पूर्वमशक्यमध्वयों- दोग्धा करोत्यन्यदयुरेवेति ज्ञापितम् ।

तं पृच्छति कामधुक्षः प्र णो ब्रूहीन्द्राय हविरिन्द्रियम् ।

तं गोनुहं कां गामधुक्ष इति पृच्छति । महेन्द्रपदवानपि मन्मो ज्ञेयः । गोधुक्प्रत्याह-

अमूं यस्यां देवानां मनुष्याणां पयो हितमित्यसाविति गोधुगाचष्टे ।

अध्वर्यु प्रति किममिति नाम गृह्णातीति ब्राह्मणं द्वितीयान्तं नाम गृहाति गङ्गामित्यादि।

सा विश्वायुरिति प्रत्युच्य ।

अध्वर्यः प्रतिवचनं दत्त्वा ।

देवस्त्वा सविता पुनातु वसोः पवित्रेण शतधारेण सुपु(षु)वेति कुम्भ्यामानयति ।

च. सत्र नि" । २ क. ख, ग, च. छ. ट.. 'यमिति । ते। - ४ 0 सत्यापादविरचितं श्रौतसूत्र- (प्रथमप्र- दुग्धमिति शेषः । सपवित्रायां कुम्भ्याम् ।

यदन्यत्संप्रैषात्तेनोत्तरे दोहयति ।

संप्रेषव्यतिरिक्तेन दोहनविधिना द्वे गावौ दोहयति । उपसृष्टां मे प्रस्ताविति यत्रै. कस्मिन्द्रव्य इत्यादिन्यायस्य विलक्षणता क्रियाव्यवधानेन द्रव्यपृथक्त्वेन बाधमाशङ्कच विजातीयक्रियाम्यः पूर्वमेव कृतस्य प्रैषस्याविवक्षितोद्देश्यविशेषणवेनैव विभसर्वार्थ- त्वात्पुनःप्रैषाप्राप्तिरिति भावः । पूषाऽसि न विहारमिति संप्रेषस्यापि न प्राप्तिः पूर्ववत् । अयक्ष्मा वः । उर्ज पयः । द्यौश्चिम० । उत्सं दुहन्ति । कामधुक्षः । अमूं य० । सा वि० । देवस्त्वा० । एतन्त्रै दोहयति । तत्र विशेषमाह-

सा विश्वव्यचा इति द्वितीयाꣳ सा विश्वकर्मेति तृतीयाम् ।

अध्वर्युप्रतिवचने विशेषो गोदहा द्वितीयान्तनामग्रणेऽपि यथा नाम यदि न तादृसंकेतस्तदा यमुनां सरस्वतीमिति क्रमेण दोग्धा वर्गत्रयान्यतमो वा सच्छूद्रो वाऽग्निहोत्रमेव न दुह्याच्छूद इति विशेषप्रतिषेधाच्छूद्रोऽप्यधिक्रियते तस्य मन्त्रोचा. रणमपि स्थपतिवत् ।

तिस्रो दोहयित्वा बहु दुग्धीन्द्राय देवेभ्यो हव्यमाप्यायतां पुनर्व तसेभ्यो मनुष्येभ्यः पुनर्दोहाय कल्पतामिति त्रिः संप्रेष्यति ।

भत्र संप्रैषार्थस्य कर्तुमशक्यत्वान्न दृष्टार्थोऽयं श्रेषः । यतः कल्पतामिति पुनर्दोह- सामर्थमाशास्यते । अतो मन्त्रमेवोच्चारयेदित्यर्थः । अथ वा बहु दुग्धीत्येतावान्सप्रेष इतरदनुवादमात्र स्तुतिरिति गोदुहं प्रति प्रेषः ।

विसृष्टवागनन्वारभ्य ।। १० ।। उत्तरा दोहयति तूष्णीं वा ।

दोहनपक्षे पूर्ववदेव मन्त्राः । वानियमान्वारम्भत्यागमात्रमधिक, पुनरपि सा विश्वा- युरित्यादि *पुनरावर्तनीयं षडधिकास्वपि, तथैव विगृह्य दोहेऽपि । अत्र दोहस्य तूष्णी. पक्षे मन्त्रवर्भ सर्व गृह्यते षण्णां गवां दोहनं नित्यमुत्तरा दोहयति सर्वासु दुग्धास्वित्यत्र संख्याया अदर्शनाच्छास्त्रान्तरेण गवाधिक्यमुक्तं तदप्यनुज्ञातम् । षण्णां मध्ये कति. पीनाममा विगृह्य दोहनं व्याख्यातमेव । नामानि तु श्वेतां पीतामित्यादिगुणै यानि । सर्वाभावे लौकिके पयसि तदभावे दहिन वा सर्वमन्त्राञ्जपतीत्ययम बौधायनभरद्वा-

  • पुनःशब्दोऽधिक इति प्रतिभाति ।

१ कासग, च, ट. इ.क्षता। २ क. ग. च. ह. हैं, मेवाईख. "वत्वस्य स । छ. 2. "वता । क. ग. छ.ट. ठ... "प्रा । ३१० पटटः) महादेवकृतवैजयन्तीव्याख्यासमेतम् । ९९ मादिमिरुत आपदि क्षेषः । यजुष्करणं सूत्रकारस्यानभिमतमपि लोकगीपरिहारा- र्यमपि कर्तव्यम् ।

सर्वासु दुग्धासु हुतः स्तोक इति विप्रुषोऽनुमन्त्रयते ।

द्यावापृथिवीभ्यामिति मन्त्रान्तः । विघुषः स्कन्ना दोबिन्दयो यदि सन्ति ।

द्यौश्चेमं यज्ञमिति सांनाय्यम् ।

अनुमन्यत इत्यनुषज्जते ।

दोहनꣳ संक्षाल्य संपृच्यध्वमिति कुम्भ्यामानयति ।

दोहनं दोहनपात्रमद्भिः प्रक्षाल्यान्तरे वाऽऽलोड्य सातय इति मन्त्रान्तेन तत्प्रक्षाल. नोदकमधिश्रितसांनाय्यकुम्म्यामानयति । दोहनमिति द्वितीयानिर्देशात्संक्षालनेन तस्य प्रतिपत्तिनिनयनेन संक्षालनस्य प्रतिपत्तिरिति गम्यते । प्रक्षालननाशे पुनः प्रक्षालन कुम्भ्यामानयतीति नास्ति विद्यमानस्य कुम्भ्यामधिकरणे प्रतिपत्तिमात्र विधानान वान- यनविधिप्रयुक्तं तत्।

श्रपयित्वा तूष्णीकेन सर्पिषाऽभिघार्य ।

सम्यक्पक्त्वा तूष्णीकेन मन्त्रवनितेन विधिना संस्कृतं तूष्णीकं तेन स्मात वृताः संस्कृतेनेति गम्यते । अन्यथा पदं व्यर्थ स्यातूष्णीमि(केने)ति । सपिषेति जातिवचनो बौकिकं घृतमाह । अतस्तेन कुम्भीगतसांनाय्यमभिधाभिषारयेत् । अपूर्वस्वाद्विधिः ।

दृꣳह गा बृꣳह गोपतिं मा वो यज्ञपती रिषदिति प्राचीनमुदीचीनं प्रागुदग्वा कर्षन्निवोद्वासयति ।

प्रागुदगीशान्ययं त्रिप्रकारो विकल्पः । नपुंसकनिर्देशात्कुम्म्या सह सानाय्यमित्य- वगम्यते । कर्षन्निव वर्त्म कुर्वन्निवोद्वासयति अङ्गारेम्य उत्कृष्योतदिग्भागं प्रति निर्म- मयति । आर्थिक स्थापयतीति मन्त्रान्तेनोत्कर्यमाणस्य संनिपातः--

पूर्वेद्युर्दुग्धं दधि द्दविरातञ्चनमेकस्या द्वयोस्तिसृणां वैकाहे द्व्यहे त्र्यहे वा सततमभिदुग्धमौपवसथाद्भवति ।

औपवमध्यात्पूर्वेश्चतुर्दश्यां दुग्धं लौकिकं गोपयो दधि कृत्वा हविरातश्चनं सायदोहातञ्चनमम्लत्वेन दधित्वलक्षणविकारजनकमौपवसथ्यो यष्टव्यानां देवतानां योऽग्निसमिपे वासः स उप वसथस्तत्संबन्ध्यहरौपवसथमन्वाधानदिनमिति यावत् । तस्मात्पूर्वेयुर्दुग्धमातञ्चनार्थ दधि संपादितं मवति । तत्रैकस्ये (स्या इत्यादिविकल्पे. नैकः पक्षो अह इत्यादि द्वितीय एतयोः कालभेदाद्विरोधादेव विकल्पो वाशब्दः योरन्यत्रान्वयात् । द्वितीये पक्षे तु संततममिदोहोऽत्रापि पूर्वद्यरित्यनुवृत्तिः । यचे. कस्या गोस्तद्दधि तदा चतुर्दश्यां प्रातर्दुग्ध्वा तस्मिन्नेव दोह आतञ्चनेन दधिकवे । > १७...श्यां वा प्रा। 2 १०० सत्यापादविरचितं श्रौतसूत्र- भिमप्रमे- सायमभिदौग्धि । तथा त्रयोदश्यां द्वादश्यां वा प्रातर्दुग्ध्वा दधिकृते तत्रैव सायं प्रातः संततमभिदोग्धि, तथाऽरे चतुर्दश्यां त्रयोदश्यां द्वादश्यां वा प्रातर्दुग्धे दनि पुन संततमभिदोग्धि । एवं तिसृणामपि । एवंरूपेण द्वितीयः पक्ष आपस्तम्बे दृष्टः ।

सोमेन त्वाऽऽतनच्मीति तेन शीतं बुध्नं कृत्वाऽऽतनक्तीन्द्रस्य स्वा भागꣳ सोमेनाऽऽतनच्मीति वा ।

इन्द्राय दधीति मन्त्रान्तः । पूर्वस्योभयत्र महेन्द्रपदं महेन्द्रयाजिनस्तेन पूर्वकृतेन दनाऽऽतनक्ति दधित्वलक्षणं विकारं प्रापयति । शीतं बुधनं कृत्वा कुम्भ्या यावदध. स्तात्कुम्भी न शीता तावदातश्चने कृते पयो विकृति गच्छन्न दधि भवेत्तदर्थ शीतमि- स्युक्तम् । आतञ्चनदध्यभावे वैकल्पिकानि पञ्च द्रव्याण्याह-

तण्डुलैः पर्णवल्कैः क्वलैर्बदरैः पूतीकैर्वा ।

मन्त्रस्तु पूर्वोक्त एव । पर्णवल्कैः पर्णत्वगवयवैः क्याम्यवदरैवदरैरारण्यैः पूतीकैः सोमप्रत्याम्नायौषधिखण्डैः।

यज्ञस्य संततिरसि यज्ञस्य त्वा संततिमनुसंतनोमीत्यग्निहोत्रोच्छेषणमानयति तूष्णीं वा ।

अग्निहोत्रोच्छेषणमग्निहोत्रे हुते यदुच्छिष्यते स्थालीगतमिति केचित्चुग्गतमिति न्याय्यं वाजसनेविश्रुतेश्च तत्तस्यां कुम्भ्यामानयति प्रापयति मन्त्रेण तूष्णी वा। अग्निहोत्रोच्छेषणमन्यातनक्तीति विद्यमानस्योच्छषणस्य प्रतिपत्तिः संस्कारो दोहस्य । तेन नोच्छेषणनाशे बौधायनोक्तमिव पुनरग्निहोत्रम् । उच्छेषणाभावेऽनुग्रहमाहाऽऽप- स्तम्बः- उच्छेषणाभावे तण्डुरातञ्च्यात्तण्डुलाभाव ओषधीभिः ' इति । एताभ्यां तूष्णीमेव । सौम्ये पयसि प्रतिनिधिनवाऽऽतञ्चनं भवति । अत ज्ञायते न पुनरग्निहोत्रं होतब्यमुच्छेषणनाश इति । यवाग्माऽग्निहोत्रहोमोऽमावास्यायां रात्रौ स्वयं यजमानस्य संनयतो नैमित्तिको नोच्छेषणप्रयुक्त उच्छेषणं चानुनिष्पादि वानिनत्तस्येयं प्रतिपत्तिरनिहोत्रोच्छेषणमभ्यातनतीति द्वितीयानिर्देशासंस्कारोऽयं दोहस्यापि आनयतेतिकर्मकत्वाम्मलिङ्गाद्यज्ञस्य संतत्या इति ब्राह्मणाच्च यज्ञेनाग्नि- होत्रिणाऽस्य यज्ञस्य सातत्य संस्तुतेः । न ह्यग्निहोत्रोच्छेषणप्रतिपत्तिदर्शपूर्णमाप्त- माझणप्रतिपाया भवति । ततस्तु संस्कारलोपो मा भूदिति प्रतिनिधिराश्रित आपस्त. म्माचार्येण । नोक्तस्त्वस्मदाचार्येण प्रतिनिधिायेन लौकिकी यवागूस्तत्प्रकृतितण्डुला "अन्यास्तत्सदशा ओषधयो वा प्राप्नुवन्त्येवेति । एवं क. व. ग. . पं. छ. अ.. मेट. ४. इ. "मेन त्वाऽऽत । "च०पटलः) महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

आपो हविःषु जागृत यथा देवेषु जाग्रथ । एवमस्मिन्यज्ञे यजमानाय जागृतेत्यपिधानार्थे पात्रेऽप आनयत्यदस्तमसि विष्णवे त्वा यज्ञायापिदधाम्यहम् ।

अयस्पायेण दारुपात्रेण वेति श्रुतेरायसे दारुमये वा। तयोरभावे विशेषमाह-

यदि मृन्मयꣳ स्यात्तृणं काष्ठं वाऽनुप्रविध्येत् ।

पात्रे मृन्मये प्रक्षिपेत् ।

इमौ पर्णं च दर्भं च देवानाꣳ हव्यशोधनौ । प्रातर्धेयाय गोपाय विष्णो हव्यꣳ हि रक्षसीत्युन्मुच्य शाखापवित्रं प्रज्ञातं निदधाति ।

पलाशशाखापवित्र एवायं मन्त्रो न शमीशाखापवित्रे लिङ्गतिरोधात् । तत्र तूष्णीमेव निधानं पूर्वत्रापि निधानमेव मन्त्रेण न तून्मोचनम् ।

विष्णो हव्यꣳ रक्षस्वेति सानाय्यं गार्हपत्यदेश उपरि निदधाति ।। ११ ।।

इति हिरण्यकेशिसूत्रे प्रथमप्रश्ने तृतीयः पटलः ।। ३ ।।

शिक्यादौ स्थापयति । अत्र सानाम्येऽनुग्रहं बौधायनः-दुग्धमलममानस्य वसापाकरणप्रभृतिमन्त्रान्साधयेदिति बौधायन आसेचनप्रभृतीति शालीकिरिति । गवामभावे दोहाशक्तौ वा दुग्धमेव ग्राह्यं, तत्रैव प्रागुक्कसंस्काराः कार्याः । आचार्यस्य तु दुग्धे दोहनमन्त्रप्रयोगस्यानिष्टत्वाद्वाराभावे सति शालीकिमतमिष्ट- माचार्यस्याऽऽसेचनगोदोहनप्रक्षालननिनयनं तत्प्रभृति मन्त्रैः कार्यम् । दैनि प्रति- निधिमूते तु नैव यजुष्क्रिया बौधायनपक्षादन्यत्र पक्ष आचार्यपक्षे च नेति ज्ञेयम् । इति सत्यापाढ हिरण्यकशिसूत्रव्याख्यायां प्रयोगवैजयन्त्यां महादेवकृतायां प्रथममश्ने तृतीयः पटलः ॥ ३ ॥

1.4 अथ चतुर्थः पटलः ।

अन्याꣳ शाखामाहृत्य तेनैव कल्पेन तया दर्भैर्वा प्रातर्दोहाय वत्सानपाकरोति यथा सायंदोहाय ।

तेनैव कल्पन पलाशशाखां शमीशाखां वाऽऽहरतीत्या तेनाऽऽहरणेन संबद्ध ..सादथे । ३ क. ग, च. उ.द. दधि । । १०२ सत्यापाढविरचितं श्रौतसूत्र-- [श्मयमप्रमे वारसानपाकरोत्येतद्यथा सायं दोहायेत्यनेन संवध्यते । दोहायेति वदता दोहात्पूर्वतनः सर्वोऽपि विधिः समान इत्युक्तम् । तन्मध्ये देवो वः इति प्रस्थापनमेकस्या उपस्पर्शनं प्रस्थितानुमन्नणं चालुतानि न विद्यन्ते । अन्यन्सर्वं क्रियत उपगृहनान्तं, तस्या अपि शाखायाः प्रस्तरेण सह प्रतिपत्तिः । यदा तु वत्सापाकरणमिति पक्षस्तत्र न पुनः शाखाहरणं प्रयोजनामावात् । शाखापवित्रस्य च पूर्वस्यैव मन्त्रलिङ्गाद्विधानास्थिति- रुत्तरदोहार्थम् । अत्राऽऽरण्याशनपरिस्तरणं यद्यपि विधेयमस्मिन्समये तथाऽपि सायंदोहस्य प्रातदहस्य च समान विधानमौपदेशिकमेवेति दर्शयितुं न व्यवधानेनै- कप्रकरणतया प्रदश्यते । तथोमी सायंप्रातःही सानाय्यमतोऽप्यव्यवधानेन व्याख्येयौ। तत्रापि क्रमविशेष वक्तुमाह-

उपधाय कपालानि प्रातर्दोहं दोहयति तस्य सायंदोहेन कल्पो व्याख्यातः ।

स्पष्टमेतत् । विशेषमाह-

अप्रस्रꣳसाय यज्ञस्योखे उपदधाम्यहम् । पशुभिः संनीतं विभृतामिन्द्राय शृतमिति मन्त्रान्तꣳ संनमति ।

एवं पाठेन पठतीत्यर्थः। विशेषान्तरमाह-

उदगग्रꣳ शाखापवित्रमादधाति ।

सायं दोहे प्रागुदगग्रमत्रोदगग्रमिति विशेषः । संक्षालननिनयनान्तं समान, तूष्णी केनेत्येतन्नास्ति स्थालीगतेनाभिधारणस्याभिधास्यमानत्वात् । विशेषान्तरमाह-

नाऽऽतनक्ति।

अर्थलुप्तस्सानुवादोऽयमग्रिमपदार्थनिवृत्त्यर्थम् । तेनाग्निहोत्रोच्छेषणानयनमपिधानं शाखापवित्रनिधानं सांनाय्यनिधानं च निवर्तन्ते । एवमुभा दोहावृत्तौ दर्शमात्र प्रकृत्य संनयतः सानारयमिति । इदानी संनयदसंनयतोविभागमाह-

नासोमयाजी संनयेदतो खल्वाहुः कापेयाः संनेयमेवासोमयाजिनेति ।

नासोमयाजी संनयेदित्यस्मच्छाखास्थमयो खल्वाहुरिति शाखान्तरस्थमयो खलु कल्पान्तरं कापेयशाखिन आइत; तरिक, संनेयमेवेत्यादि । तथा च विहितप्रतिषि- दसोमा मनोऽपि विकल्पः । ४च० पटलः]. महादेवकृतबैजयन्तीव्याख्यासमेतम् । १०३ मसोमयाजिनः सानाय्ये देवतामाह-

ऐन्द्रꣳ सांनाय्यꣳ सोमेनेष्ट्वा महेन्द्रं यजेत ।

व्यवस्थिते देवते सोमेन वैवानन्तरे दशैं महेन्द्रं यनेत । सोमात्पूर्वमिन्द्रमेवानन्तरं पूर्व- कृतसांनादयोऽकृतसांनारयो वा महेन्द्र मेव यनेत । इदानी स्वशाखीयं सोमयाजिनः पक्षान्तरमाह-

अपि वा संवत्सरं द्वौ वेन्द्रमिष्ट्वाऽग्नये व्रतपत- येऽष्टाकपालं निरुप्य कामं महेन्द्रं यजेत ।

पूर्व कृतसांनाय्यो वाऽकृतसांनाय्यो वा सोमनेष्वाऽपि संवत्सरं द्वा वा संवत्सरा. विन्द्रमेव सानाय्येनेष्वाऽग्नये ऋतपतयेऽष्टाकपालामिष्टिं कृत्वा ततो महेन्द्रं यजेत काममिति सत्यामिच्छायामग्नय इत्यादीष्टिस्ततो महेन्द्रयागः । असत्यां तु नेष्टिर्न महेन्द्रयागोऽपि विन्द्रयाग एवेति सूचितम् । कथं, निरू(रु)प्येति ल्यपाऽधिकार- संपादकत्वात् (त्वं) वदता पौर्वापर्यमेव दर्शितं, तेन नेयं नैमित्तिकेष्टिः संवत्सरेऽतीते विधीयतेऽपि तु महेन्दापेक्षायामेव विधीयत इति व्याख्यानलामात् । कल्पान्तरमाह-

औवा(र्वा) गौतमो भारद्वाजः शुश्रुवान्ग्रामणी राजन्य इति सर्वत्र कामं महेन्द्रं यजेरन् ।

इति एत इत्यर्थे वार्थे वा । और्वादयस्त्रयस्तद्वोत्राः शाखान्तरोपात्ता भन्ये स्वशा- खायां गतश्रीशब्देनोपात्ताश्च 'त्रयो वै गतश्रियः शुश्रुवान् '. इत्यादिना । शुश्रुवा- सर्ववेदास्त्रीन् । ब्राह्मणे · यमृषयस्त्रीयविदा विदुः । ऋचः सामानि यषि । सा हि श्रीरमृता सताम् ' इति श्रुतेः । गता प्राप्ता श्रीर्येन स गतश्रीः । शुश्रुवान् । 'शुभ्रवासो वै कषयः कविः कान्तदर्शनः' इति निर्वचनमपि । ग्राममिहत्तमो वैश्यानां परमसमृद्धौ श्रीशब्दः स्पष्ट एव । राजन्योऽभिषिक्तस्य राज्ञः पुत्रः । सोऽपि महदेश्वर्ययोगागतश्रीः । एते षडपि । सर्वत्रेति सोमात्पूर्वमपि पश्चाचेन्द्रमेव महेन्द्रमेव पा सांनाय्येन खेच्छयैव यजनित्वत्यर्थः । अत्र याजमान आरण्याशनम् । एवं प्राप्सनिक माप्प सायंदोहानन्तरं कर्तव्यमाह-

परिस्तृणीत परिधत्ताग्निं परिहितोऽग्निर्यजमानं भुनक्तु । अपाꣳ रस ओषधीनाꣳ सुवर्णो निष्का इमे यजमानस्य सन्तु कामदुघा अमुत्रामुष्मिँल्लोक इति संप्रेष्यति ।

अनियतकर्तृकं परिस्तरणं परिस्तृणीतेत्यादिबहुवचनेनोक्तम् । तत आग्नीधोऽन्यो पत्विक्परिस्तृणाति । दृष्टे संभवत्यदृष्ट कल्पना नेति भाण्यकृत् । तदिदं व्याख्यान ' । क.ग, च, छ. ज. अ.जाट... निरूप्य । . सत्यापाविरचित श्रौतसूत्र-:: प्रथमप्रथे- नानुमन्यन्तेऽन्ये प्रेष्यस्य कर्भकतुरनिर्देशादश्वर्युतमाख्या च केन बाध्यताम् । म च भैषसामर्थेन पाध इति वाच्यं, प्रेषस्याऽऽस्मानं प्रत्यपि दर्शनात्स्वयमग्निहोत्र. होमे चोरेन्युजयेत्यात्मविषयत्वदर्शनात् । न च औषवैयर्थ्यम् । स्मृतिहि न यथाऽन्यस्य निगदेन जन्यते तथा खस्यापि जन्यमाना दृष्ट एवं संस्कारो मवेत् । तथोक्तं कात्यायनेन 'यथा प्रेषितमन्यः करोति पराधिकारात्तया वयं वा करोत्य. विरोधात् ' इति । भारद्वानेनापि- आमीध एतानि कर्माणि कुर्यादित्येकमध्वर्युरित्य- परम् ' इति । सन्ति प्रैषवचनानि च प्रेष्यस्यामावेऽपोति सूचितमेव भगवता परि. भाषायाम् । * यत्प्रेषस्य परप्रत्यायनार्थस्य यजुर्वेदविहितस्यापि सामादुचैरुच्चारणे प्राप्तेऽपि यदयमन्यत्र प्रवरसंवादाश्रावणप्रेषेभ्य उपांशुत्वं यजुर्वेदविहित इत्याह । तेन ज्ञापयत्यात्मानं प्रति प्रैषेऽप्युच्चैरुच्चारणं विधानप्तामर्थन निर्देशादन्य इति । परि- भाषाकरणाचानिर्दिष्टकर्तृके याजुर्वेदिकेऽध्वयुरेव कति सूत्रकृतो मतम् ।. परिस्तरणप्रकारमाह-

दर्भैरग्नीन्परिस्तृणाति ।

परिभोजनीयर्द भैरुपादेयविशेषणविवक्षया बहुत्वं विवक्षितं, तेनैकैकस्मिभागे चत्वारो दर्भा आचारान्यायेन तु बहुस्वं त्रित्वे पर्यवस्यति । कममाह-

आहवनीयं परिस्तीर्य गार्हपत्यमथ दक्षिणाग्निं गार्हपत्यं वा परिस्तीर्य दक्षिणाग्निमथाऽऽहवनीयम् ।

पूर्वो मुख्य क्रमो द्वितीय आधानक्रमो विशेषाद्विकल्पः । यदपि श्रूयते 'उपस्तीः पर्यश्वाग्निरपरश्चेत्याहः' इति तत्रापि पूर्व इति पूर्वमागे पूर्वमाहित इति व्याख्याना संभवात् । सभ्यावसथ्ययोस्तु क्रमेणात्रैवेति ज्ञेयम् । परिस्तरणसंनिवेशविशेषमाह-

उदगग्राः पश्चात्पुरस्ताच्च भवन्ति ।

पच्याचेति मध्ये चकारः पश्चात्पुरस्तादित्येकपदभ्रमनिवारणार्थम् । दक्षिणत उत्तरतस्तु मागमा इत्यर्थसिद्धम् । नात्रोत्तराधरमावोऽविधानात् । अत्र भरद्वाजेनोक्तं 'दक्षिणः • पक्ष उपरिष्टाद्भवत्यधस्तादुत्तरः' इति । सूत्रकृता स्मार्ते नियमविधानादनियमः श्रौत इति गम्यते ।

  • यत्पदमधिकम् ।

क. स. ग. च. छ... इ, 'पाकार। i - च० पटल महादेवकृतवैजयन्तीव्याख्यासमेतम् । १०५ ननु पूर्वेयुरमावास्यायां वेदिकरणमिति वक्ष्यति, प्रकृते दर्शतन्त्रं दर्शयता कथं नोक्तमित्याशझ्याऽऽह-

एतत्कृत्वोपवसत्यमावास्यायाम् ।

सत्यं तत्रोच्यते शाखान्तरीयं तदनेन विकल्पते । कुतः, अस्मच्छाखायामेतदेव कृत्वोपवासतौति यत उक्तम् । आयमाशयः-न चायमध्वोरुपवासविधिर्वतस्य याजमा- नधर्मत्वात्तस्मादुपरतेऽध्वोरुप वा समीपे निवासो वा विधीयते । स च पूर्वोक्तपाठक्र. मेण परिसरणान्ते प्राप्नोति तत्रैतदित्यनूयते, तदनर्थकं सदेतदेवेति साधारणमन्यशाला- विधिपरिसंख्यार्थमिति गम्यते । न च पाठेन श्रुतेरपरिसंख्येति वाच्यम् । वाशब्दमप्र. युञ्जानेनैतादृश्याः श्रुतेरेवानुवादो दर्शितः। सा श्रुतिरेतत्कृत्वोपवसत्यमावास्यायामिति । सा च ततोऽपि श्रुत्यन्तरात्माप्त ममावास्यायां वैदिकरणं तत्प्रतिषेधति, न तत्र वाश. ब्दापेक्षा, विहितप्रतिषिद्धत्वादस्मच्छ।खायां विकल्पो भवतीति नात्र वाशन्दो नापि वेदिकरणसमयेऽपोति श्रुतिभिरेव विकल्पो दर्शितः । पूर्वेयुर्वेदिकरणमपि बर्हिषः पूर्व वेदादनन्तरमित्यपि वक्ष्यते । भाष्यकारेणक एव प्रयोगों वहिष आहरणात्पूर्वतनः प्रदर्शितः प्राथम्यात् । न चान्तवेद्यनधः सादयति तथाचान्तर्वेदि शाखाया इत्यनुवाद. बलाद्वेदिकरणं पूर्वेयुरेवामावास्यायामिति वाच्यम् । प्रथमानुवादेन पौर्णमास्यामपि प्राप्नोतीति नायं मुख्योऽनुवादोऽपि तु वेदिशब्देन वेदिदेशग्रहणम् । यथा विध्यपरा- धेऽग्निहोत्रेऽन्तःपरिधि निनयेदिति देशलक्षणा तथैवात्रापि ततो न काचिदनुपपत्तिः । ननु पौर्णमास्यामपि मन्त्र ब्राह्मणानुसारेण सांनाय्यप्रयुक्तं विहायान्यस्त्येव समान तत्कथममावास्यायामित्युक्तं व्यावाभावादित्याशक्य शाखान्तरविधिवशात्तु न समानं पौर्णमास्यामित्याह -

पौर्णमास्यां तु ।

त्विति मन्त्र ब्राह्मणोक्तपदार्थक्रमनिवृत्तिः कियते । कथं तत्राऽऽह-

पूर्वेद्युरग्न्यन्वाधानमग्निपरिस्तरणं च ।

एतावदेव पूर्वगुरित्यर्थः । पदार्थान्तरं तु कुत्र, तत्राऽऽह-

श्वो भूत इध्माबर्हिर्वेदं च करोति ।

श्व इत्यव्ययमागाम्यनन्तरदिनाधिकरणवप्रतिपादकमुत्तरत्राव्यवहितेऽहीत्यर्थः । भूते प्राप्ते भूप्राप्ताविति स्मरणात् । इध्मादि करोति शाखान्तरीयविधिवशादित्यर्थः । ननुमन्त्र ब्राह्मणपाठप्राप्तः पदार्थक्रमः शाखान्तरीयश्रुत्या यद्यपि बाध्यते तथाऽपि पूर्वेधुरिमाबहिः करोति । यज्ञमेवाऽऽरभ्य गृहीत्वोपत्रसतीतिश्रुत्या विहितस्य कथं - १४ १०६ सत्यापाढविरचितं श्रौतसूत्र- [प्रथमप्रमे- बाधन, न च तत्सानाय्यसमाभिव्याहारासंनयत एवेति वाच्यं, तथा सत्यसंनयतो दशेऽपि न स्यात्तथाचामावास्यायामित्यविशेषोपसंहारोऽपि न स्यात्तौ च समानवि- धानाविति परिभाषितत्वाच्च । किंच ' बर्हिषा पूर्णमा व्रतमुपैति वत्सैरमावास्याया. मेतद्येतयोरायतनमुपस्तीर्यः पूर्वश्च ' इत्येतत्क्रमसादेव यानुगृहीतलिङ्गेन सांनाय्यसंनिधेः शैथिल्यानिरङ्कुशा श्रुतिः पूर्वेद्युरिति प्रवृत्ता कथं बाध्यतेति तत्राऽऽह-

सद्यो वाा।

करोतीत्यनुवर्तते । श्रुत्योः समानबलत्वाद्विकला इत्यर्थः । समानेऽहि सद्य इध्मानाई. वेद चान्वाधानदिने यथाऽस्मच्छाखायां विहितं तथा कार्य न वो भूत एवेत्त्याशयः । ननु सद्यस्कालपौर्णमास्यामपि पूर्वेद्या सर्व प्राप्नुयादिति तत्राऽऽह -

सर्वं क्रियते ।। १२ ।। सद्यस्कालायामुपरिष्टाद्वेदकर्मणोऽग्नीन्परिस्तृणाति ।

सद्यस्कालत्वेनोपवसथयजनीयदिनयोः समानमेकमेव दिनमित्येवरूपेण प्रवृत्तिनि. मित्तेन प्रवृत्तया सद्यकालसंज्ञया सर्व सद्य एव । सर्वमिति पूर्वेयुः परेयुः शास्त्रान्तरव- शामाप्तमेकस्यामेव सद्यकालायां तिथौ करोति न तिषिद्वय इति भावः । भारद्वाने. नोक्तं 'सद्यस्कालां पौर्णमासीम्' इति, तदपि चेदनुसंधेयं तर्हि पूर्वसूत्र एवं व्याख्या- सद्यो वेत्येतावत्सूत्र पूर्वेयुः श्वो भूने चोकं समानेऽदि पूर्वेणाङ्का परेण वा करोति । पूर्वेण यदा तदा पूर्वोक्त एवं द्वितीयोऽग्न्यन्वाधानमियाब हेराहरणं वेदकरणं परिस्त . रणमुपवासः श्वो भूते कर्मणे वामित्यादि यथापाठमेव पक्षो वैकल्पिकः । परेणाका समानेऽति यदा तदा सयकालां पणिमातीमिति पारद्वा नोकः पक्षस्तृतीयः । यन. नीय एव दिनेऽन्नाधानमिध्मावहिर्वेदं परिस्तरणं च करोतीत्यर्थः । सूत्रान्तरेऽयं पक्षः पूर्वतनाभ्यां पक्षाम्यां समविकल्पतया पौर्णमासीमात्रनिष्ठतया व्याकृतो व्यवस्थयोक्तः । सर्व करोति सद्यकालायामिति पक्षः सद्यस्कालायामवेति व्या त्यातः । अत्र भाष्यकृता सद्यो वेति द्वितीयपक्षस्य पूर्वपक्षतया कृतस्य निराकरणेन सयो वेति व्याख्यातं, तेनैक एवं पक्षः स्थापितस्तव्याख्यानं सूत्रकृतः प्रयत्नाधिक्यस्य सार्थक्यासंपादकत्वादपेक्ष्यम् । मूत्रान्तरेषु चैतथैव विधया नानापक्षस्वीकारात् । सद्यस्काले सायमग्निहोत्रानन्तरं प्राप्त परिस्तरणं तत्तकालालामेऽपि पदार्थक्रमेणैव कार्य न्यायवलेनेति दर्शयितुं सबस्काला- यामुपरिष्टावदकर्मणोऽग्नोपरिस्तृणातीति दर्शितं, कालामावेऽपि क्रमपदार्थयोरुभयो- कोपो मा भूदिति । अत्र सद्यकालपौर्णमास्यामयमपरो विशेषः ।

संग्रहः -- श्वःपदं लुप्यते मन्त्र उभावग्नी च सर्वशः ।

नोहोऽस्ति प्रकृतौ नापि विकृतौ तद्विकारतः ।। 17 टीकापुस्तकेषु क्रियत इति स्थाने करोतीति वर्तते । . १०पटलः] महादेवंकृतवैजयन्तीव्याख्यासमेतम् । १०७

इति पूर्वेयुर्विधिः समाप्तः। भय श्वो भूते विधिः।

प्रातरग्निहोत्रꣳ हुत्वोदित आदित्येपौर्णमास्या- स्तन्त्रं प्रक्रमयति प्रागुदयादमावास्यायाः ।

भत्राविशेषात्प्रातरग्निहोत्रं हुत्वोदित इति श्रवणात्पर्वद्वयेऽपि पूर्वमृदयाद्धोमनियमः । तत्रोपक्रमे तु व्यवस्थेति समजतं सूत्रम् । उदित आदित्ये प्रातरग्निहोत्रं हुस्वा पौर्ण- मास्यास्तत्रमित्येतत्तु व्याख्यानमप्तमञ्जतम् । प्रक्रमयतीति स्वार्थ णिच्, परिकर्मिणः प्रक्रमार्थ प्रेरयतीत्या वा।

कर्मणे वामिति पाणी प्रक्षाल्य ।

शकेयमित्यन्तः । अनिः प्रक्षालनमदृष्ट संस्कारः कर्मणि शक्तत्वलक्षणो मन्त्रलिङ्गा- द्वाक्यशेषाच । अत एव नोलपराजिस्तरणमात्रात्पूर्वभावित्वेन तावन्मात्रामपि तु सर्व- पज्ञापत्वेनामिति न्यायसिद्धम् ।

यज्ञस्य संततिरसि यज्ञस्य त्वा संतत्यै स्तृणामि संतत्यै त्वा यज्ञस्येति गार्हपत्यात्संततामुलपराजीꣳ स्तृणात्याहवनीयात्तूष्णीं दक्षिणां तूष्णीमुत्तराम् ।

गार्हपत्यायतनादारम्याऽऽहवनीयायतनमा मर्यादीकृत्य विच्छेदवनितां शुष्कदर्भ- पक्ति तनोति । तूष्णीमिति प्रत्येकश्रुतिपाठस्य शाखान्तरीयस्य प्रदर्शनार्थम् । कि प्रयोजनं पाठप्रदर्शनस्य, तूष्णौमिति श्रुत्या न्यायप्राप्तमन्त्रावृत्तिनिवारणं यथा स्यादिति। सपा हि राज्या भूतमाव्युपयोगाभाकान्न द्वितीयया संस्कार्यत्वं बोध्यते, गार्हपत्याइन. नीययोरपि पञ्चमीनिर्दिष्टयान संस्कार्यत्वं मन्त्रान्तयोरप्रतीतेश्च यज्ञस्य संतानकरण- मात्र प्रतीयते यज्ञस्याविच्छेदायेति वाक्यशेषाच्च । तस्मादारादुपकारकं प्रधानकर्म । तया चास्मच्छाखायां यद्यप्याहवनीयासंतनोतीत्येतायतैके कर्म विधीयते तथाऽपि शाखान्तरे गुणमेदेन द्वे अन्ये दक्षिणोत्तरे राजी विधीयते । तथा च त्रीण्येतानि प्रधान. कर्मण्येवेति । यत्रैकस्मिन्निति न्यायेन मन्त्राभ्यासनिवारणं न संमवति, ततस्तु प्रतिप्रधान- मावृत्तिरिति मन्त्रावृत्तौ प्राप्तायां तूष्णीमिति पाठप्रदर्शनमावृत्तिनिवारणामिति सिद्धम् ।

दक्षिणेनाऽऽहवनीयं ब्रह्मयजयानयोः सदने करोति ।

आहवनीयस्यादूरे दक्षिणभागे याज्ञिकैस्तृणैरुपवेशनार्थमासने करोति । नमसदना- तृणं निरस्येति दर्शनात्तृणमये आसने । तत्रारनिपरिमाणाहवनीयायतनस्य दक्षिणत भाञ्जस्पेनोमयोरुपवेधुमशक्यत्वासासाव्यवधानयोश्वामिने सूत्रे पूर्व ब्रह्मणेऽपर . १०८ सत्याषाढविरचितं श्रौतसूत्र- [१प्रथमप्र- यजमानायेति निवारितत्वादुभयोर्मुख्यदक्षिणावस्थितित्यागायोगादन्यतरस्य प्राप्तावपि प्रथमस्य ब्रह्मण एव मुख्यं यजमानस्य तदनुरोधेन किंचिन्नितिकोणेऽपि च न दुष्यति । तथा च ' दक्षिणतआयतनो वै ब्रह्मा' इति तथा ' दक्षिणतःशय एतद्वै यजमानस्याऽऽ. यतनम्' इति च समानश्नुत्योरपि दक्षिणं वेद्यसं श्रितो यजमान इति श्रुत्यन्तराद्वि- रोधपरिहारोऽपि दृश्यते ।

पूर्वे ब्रह्मणेऽपरं यजमानाय ।

चतुथ्यौँ सादर्थे । अत्र ब्रह्मयजमानयोः सदने पूर्वापरे करोतीति व्याख्या- तमेतत् ।

उत्तरेण गार्हपत्यं दर्भान्सꣳस्तीर्य द्वंद्वं पात्राणि प्रक्षाल्य न्यञ्चि प्रयुनक्ति ।

प्रागग्रानुदगग्रान्वा परिभोजनीयेभ्यो दर्भानास्तीर्य तेषु. पात्राणि प्रयुनक्ति स्थाप- यति । उत्तरेणेत्यदूर उत्तरेण प्रयुनक्तीति वोपयत्र संबन्धः । द्वंद्वमित्यपि प्रयुनक्ती- स्यनेनैव संबध्यते । तथा पात्राणि न्यञ्चीत्यपि प्रक्षाल्येत्यपि प्रधाननैव संबध्यते । पश्चात्परस्परसंबन्धः सामर्थ्यात् । ततस्तु पात्राण्यद्भिः प्रक्षाल्य न्यच्चि विलवन्त्येवावाङ्म. खानि द्वंद्वं सर्वाणि प्रयुनत्तीत्यन्वयः । द्वंद्व द्वे द्वे संभरतीति श्रुतेः । तान्येवाऽऽह-फ्यमित्यादीडापात्रमित्यन्तम् । ततश्चकारः श्रूयमाणो द्वाभ्यां साभ्याकेन वा संबध्यते श्रौतस्य चकारस्य प्रत्येक श्रूयमाणस्य व्याख्यानाय । श्रूयते हि-स्फ्यश्च कपालानि चेति । अत्रैकधिया क्रोडीकृतयोर्द्धयोः पदयोरों द्वे पारे विवक्षिते । सद्भुतं द्वित्वं द्वंद्वमित्येतेनीतं, तव्य तौ क्वचित्कचिज्जातो. पर्यवस्यति ततस्त्वेकप्रातिपदिकार्थ एकोऽर्थोऽनेन द्वंद्वपूर्तिः कार्या । , तद्यथा-

स्फ्यं कपालानि ।

सर्वाणि कपालान्येक पात्रम् । स्स्योऽस्याकृतिरित्यापस्तम्बः । अप्तिः खङ्गः। अहोमार्थवाद्वारणवृक्षस्य | आपस्तम्बस्तु स्फ्यः शम्याः प्राशित्रमिति खादिराणीत्याह । स्मयः शम्या च बाहुमात्राविति भारद्वाजः । द्वात्रिंशदङ्गुलेति बौधायनः । षट्त्रिंशॉ. लेत्यन्ये । कपालानि नूतनस्य मिन्नस्य मृन्मयस्य पात्रस्य शकलानि पुरोडाशाधिश्रयण. योग्यानि । रौहिणकपालेषु चाऽऽकृतिविधानात्तथा मृन्मयानि कृत्वा रेखामिविभाग किंचित्कृत्वा पक्त्वा भङ्क्त्वा कार्याणि वा, न तु पृथगेकैकस्मिन्कृते पक्के कपालशब्दो युक्तः । उत्तानेषुः कपालेष्वधिनयतीति दर्शनात् । सोऽवयववाची । रौहिणेषु तु १ ख... ट: "रस्य संः । २ न. ट, सादर । 10 ४१० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । विधानादेकैकं कर्तुं शक्यम् । तत्र कपालशब्दो गौणो भविष्यति कपालधर्मप्राप्त्यर्थम् । द्वितीयान्तता प्रयुनक्तीत्यनेन संबन्धार्थम् ।

अग्निहोत्रहवणीꣳ शूर्पम् ।

अग्निहोत्रं हूयतेऽनया साऽग्निहोत्रहवणी सुग्लक्षणलक्षिता । सा वैकङ्कती होमा- थत्वात् । यान्यनादिष्टवृक्षाणि विककृतस्य तानीति वक्ष्यति । शूर्व लोकप्रसिद्धं, सद्वैणवं नळमयं वेति भरद्वाजः । वर्षवृद्धमसीति शूर्प मन्त्रदर्शनाद्वर्षवृद्धा इषीका इति लिङ्गादेषीकमिति केचित् । इपीका इपीकासदृशतृणानि ।

कृष्णाजिनꣳ शम्याम् ।

कृष्णमृगस्वक्सप्रीवमसत् । शम्या स्फ्येन व्याख्याता ।आकारस्तु यथार्थः । शम्या ( तु युगविले प्रविष्टं काष्ठम् ।

उलूखलं मुसलम्

तत्प्रमाणमर्थसिद्धमेव । वरणस्यैवैते ।

दृषदमुपलाम् ।

लोकप्रसिद्धे पेषाणार्थों ग्रावाणौ कृत्रिमौ जातिवचनौ ।

खादिरꣳ स्रुवं पालाशीं जुहूमाश्वत्थीमुपभृतं वैकङ्कतीं ध्रुवाम् ।

वषट्कारो वै गायत्रिया इत्यनुवाके तथोक्तत्वात् । शाखान्तरीय मानमाह-

अरत्निमात्र्यो बाहुमात्र्यो वा मुखवत्यो हंसमुख- प्रसेचना अग्राग्रा भवन्ति त्वक्तोबिला वायसपुच्छ्य इत्येकेषाꣳ हस्त्योष्ठ्य इत्येकेषाम् ।

इदमग्निहोत्रह्वण्याः सुवस्य च मानं तयोर्मानान्तरानभिधानात् । अररिनमाम्य इत्यादि यद्यपि स्त्रीलिङ्गनिर्देशस्तथाऽपि सुचः समाटि नुवमग्र इत्यादिभूम्ना खुवस्यापि ग्रहणात् । तथा च मानमात्रमेव सुवेण संबध्यते । आकारविशेषः स्नुचां चतसृणामेव । । खुवस्याऽऽकारस्तु खुगाकारेण विरुध्यते । यतोऽस्यावदानार्थत्वेनैव संस्तवः । 'यस्य खादिरः खुवो भवति छन्दसामेव रसेनावद्यति ' इति वाक्यशेषात् । अक्षप्रमाणविल. स्वेनाङ्गुष्ठपर्वमात्रविलत्वेन च शास्त्रान्तरे विधानाच्च । अग्राग्रत्वं त्वक्तौबिलत्वं चावि. रोधादत्रापि संबध्यते । अरनिस्तुः चतुर्विशत्यङ्गुलः । बाहुरडल्यग्रमारभ्य जनुसंश्लिं- ष्टास्थिपर्यन्तो द्विचत्वारिंशदङ्गुल इति केचित् । षट्त्रिंशदङ्गुलो बौधायनमारद्वाज योमते । सुचां प्रादेशमात्रत्वमपि बौधायनेनोक्तम् । मुखवत्यो मुखं बिलमागादूर्ध्वमागो न तु सुववहिलमा समाप्तिरित्यर्थः । हंसस्य मुखमिव प्रसेचन यासां ताः प्रसिच्यतेऽनेन सत्यापाढविरचितं श्रौतसूत्र- [१प्रथमप्र- प्रसघनमित्युच्यते । हंसस्य मुखं पञ्चपुटस्याधःप्रणालिका तत्सदृशप्रणालिकमित्यर्थः । खुम्गतं द्रव्यं प्रणाच्या गच्छदग्नौ पतति येन प्रदेशेन विभागं गच्छति तत्प्रसेचन काष्ठानमनिमोऽवधिस्तदेवानं यासां ताः । मवन्तीत्यनेन नानाश्रुतिसामर्थ्यसिद्धतोक्का । स्वक्सारा वे वृक्षा इति श्रुतेः, स्वतः सप्तम्यर्थे तसिळ, त्वग्भागे बिलमाज्यादिद्रव्यसं- ग्रहार्थ खातं यासा तास्तथा । द्वेधा पाटितस्य काष्ठस्यान्तर्भागे विलं न कार्य किंतु स्वरभागे समीकृत्य तत्रैव बिलम् । अपाटितस्य तु मध्यभागादधिकमागे बिल न्यूनमागे मुझं त्वक्समीपे यथा विलं भवति तथा कार्यमित्यर्थः । वायसस्य पुच्छमिव पुच्छं यासामिति दण्डमूले स्थूलाः परिणाहे नतास्तत ऊर्ध्व पात्रपर्यन्तं सूक्ष्मं किंचिदित्यर्थः अत्रैकेषामिति विशेषदर्शनार्थ न विकल्पार्थम् । हंसमुख्यो वायसपुच्छय इत्येतयोगें। णयोरविरोधात् । हस्तिन ओष्ठ इवौष्ठा यासामिति विरुद्धधर्मोपसंहारेण विकल्पप्रति- पादनार्थमेकेषामिति वचनम् । हंसमुख्य इत्यनेन हस्त्योष्ठय इत्यस्य विकल्पः । यथा- शोमं कार्या इति बौधायनः । मरद्वाजः-अङ्गुष्ठपर्वमात्रबिलः खुवो भवस्यर्धप्रादेश- मात्रविलाः खुच इति । मजल्याकृति पात्रं सुचामिति शास्त्रान्तरम् ।

आज्यस्थालीं कुटरुम् ।

भाज्यनिर्वापार्था स्थाली मृन्मयो । कुटहः पाषाणः कुटनसाधनम् ।

पात्रीं मेक्षणम् ।

पिष्टसंवपनार्थी मृन्मय्येव । मेक्षणं पिष्टस्य मेलनार्थ दीसदृशं वारणम् ।

वेदं प्राशित्रहरणम् ।

वेदो व्याख्यातः । ब्रह्मणेऽवदानं प्राशितं येन हियते तत्पात्रं प्राशिवहरणं, गोकर्णाकृति चमसाकृतीति भरद्वाजः । आदर्शाकृतीति कात्यायनः ।

प्रणीताप्रणयनमिडापात्रं च ।

प्रणीता आपः प्रणीयन्ते येन स चमसो वारणः । तथेडावदानाधानार्थमपि चमसो द्रोणीकंसमृन्मये कास्य पात्रे (1) प्रणयनार्थम् । चकारो द्वाभ्यां संवन्धनीयः ।

एकामन्वाहार्यस्थालीम् ।

एकामित्यर्थसिद्धम् । मानुषे पात्रे च न द्वंद्वसंपत्तिः । अन्वाहार्यो त्यत्तिभ्यः परिक्रयणार्थ वीयतेऽतो मानुषम् । सह सर्वाणि मानुषाणीति श्रुतेरन्येषाममावाचार्या- देकस्यैव प्रयोगस्तस्माच पूर्वण दैवेन सहकत्वकरणेन द्वंद्वसंपत्ति कार्येत्यर्थः । एतेनान्यत्र विकृतिबपि पदार्थद्वयमप्येकीकृत्य यथाकथंचिदेवेषु वसंपत्तिः कार्येति ज्ञापितम् । 1 १५० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । एवं स्वशाखानुसारेण सुचां व्यवस्थितोपादानवृक्षत्वं व्याख्यायेदानी शाखान्तरा. नुसारेण वैकतैकवृक्षोपादानत्वं व्याचष्टे-

तेषां यान्यनादिष्टवृक्षाणि विकङ्कतस्य तानि ।

अत्र वाशब्दाभावेऽपि विकल्पो शेयो विरुद्धगुणविधायिकयोः श्रुत्योरेकत्रोपसंहा. रायोगात् । तृणं द्वितीयां शाखान्तरीयां विरुद्धगुणविधायिकामस्मानुते वंशेऽविरो- धिना()प्रदर्शयत्नर्थतो व्याख्यातवाननेन सूत्रेण । तेषां नानावृक्षनानां पात्राणामस्म- च्छाखोक्तानां मध्ये यान्यवैकतानि शाखान्तरे च वैकङ्कतोपादानत्वेन निर्दिष्टवृक्षा- णि अस्मच्छालायावत्त (यां च तत्वेनानिर्दिष्टवृक्षाणि तान्यपि विकङ्कतस्यैव । अग्नि- होत्रवणी वयोः शाखान्तरवदस्मच्छाखायामपि वैकङ्कत एवाऽऽदिष्टः । तत्राविकल्पः । इतरेषां तु वैकङ्कतवृक्षनत्वेन विकल्प इत्यर्थः । तत्राप्यहोमार्थानि वरणस्योते वक्ष्यते । सत्राप्राप्सव वारणता विधीयते नियतैव । परिशेषाद्धोमार्थानामेव वैकङ्कतत्वेन विकल्पः।

अहोमार्थानि तु वारणस्य ।।

शम्यादीनि सर्वाण्यपि । इदमनेन वाक्यद्वयं व्याख्यातं यदाधान पठयते शाखा. न्तरे । तस्माद्वारणो वै यज्ञावैचरः स्यान्नत्वतेन जुहुयाद्वैकङ्कतो वै यज्ञाचरः स्याउनुहयादेवैतेनेति जैमिनीयैरुदाहृतम् । यज्ञावैचरो यज्ञपात्राणि । तपाऽऽधाने. टीनां स्वप्राधान्येनाङ्गस्वं यज्ञस्वेन, तवे पात्रविधानमिति पूर्वपक्षः । सिद्धान्तो यदा- हवनीये जुह्वति तेन सोऽस्यामीष्ट इत्यादिना । अग्निसंस्कारत्वावगमादिष्टयोऽप्यनि- संस्कारत्वेनाऽऽधानरूपा एवेति तासामयज्ञत्वमतो वाक्यमुत्कृष्यते प्रकरणात्तेनानारम्य विधिवाक्यमिति । दर्शपूर्णमासयोरग्निष्टोंमे वेदं गच्छति प्रकृतौ । तत्रापि यानि होमा- नि विकङ्कतस्य तानीत्येको वाक्यार्थः । द्वितीयस्तु यान्यहोमार्थानि तानि वरण- स्येति । एवमेव भरद्वाजेनाप्युक्तम् । सुचां लक्षणं याज्ञिका उपदिशन्ति- आयामं पञ्चधा कृत्वा चतुर्धा वाऽग्रतो द्वयोः । उपान्त्यः पात्रमित्युक्तो हविराश्रयभावतः ॥ १ ॥ उपान्त्यमागे विस्तारः स्वदैर्येण समो भवेत् । सोऽञ्जल्याकृतिरुद्दिष्टो बिलमत्र च वर्तुलम् ॥ २ ॥ षडङ्गुले बाहुमाभ्यां तदर्धेन च निम्नता। अरनिमाने हस्तस्य तलमानं बिलं स्मृतम् ॥ ३ ॥ १ ख. छ. द. 'मस्मनु । २ च.. "नि वार' । ३ छ. ट. भवरः । क.ग. च. 'बरः । छ. र. धवरः । ५क. ग. च. छ. ट. ववरो। ६ उ. चेदं । 1 ११२ सत्यापाठविरचितं श्रौतसूत्र- [१प्रथमप्र- विस्तारार्धन निम्न स्यादन्त्यभागेऽथ निर्णयः । मागेऽन्तिमे मवेगोवा दैयोन च विस्तृता ॥ ४ ॥ तस्या मुखं हंसमुखं हस्त्योष्ठमुखमेव वा । बिलात्प्रणालिका तावत्पर्यन्तार्यानुरूपतः ॥ ५॥ कर्णी ससुषिरौ ग्रीवापार्श्वयोश्वोदितौ तथा । बिलस्य बुध्ने पझ स्यादथ दण्डस्य लक्षणम् ॥५॥ अविशिष्टानयो द्वौ वा मागौ दण्ड इतीर्यते । तस्य मूले भवेत्स्थूलः परिणाहो नवाङ्गुलः ॥ ७ ॥ भन्ते पश्चाङ्गुलः श्लक्ष्णो यन्त्रतो वर्तुलो मवेत् । दण्ड एवं सुचां काकपुच्छत्वं समुदीरितम् ॥ ८॥ यथाशोभं त्रुचः कार्याः इति बौधायनोऽब्रवीत् । शास्त्रान्तरात्तु विज्ञेयं विशेषान्तरमत्र यत् ॥ ९॥ प्रादेशमात्रताऽपि स्याहौधायनमतादि तत् । दण्डो भागद्वयेन स्यात्पात्रं भागद्वयेन च ॥ १० ॥ ऊर्ध्वमैकेन मागेन ग्रीवा चेति यथार्थतः । नुचः सह स्खुवेण स्युरुक्तवृक्षा अथापि वा ॥ ११॥ वैकङ्कत्यो वारणानि पात्राण्यन्यानि सर्वतः । मापस्तम्बेनाप्युक्तम् - - एतेषां वृक्षाणामेकस्य खुचः कारयेत् । इति । एतेषा खदिरपलाशाश्वत्थविकतानामन्यतमेन वृक्षण उचः कारयेदित्यर्थः ।

अत्र प्रातर्दोहपात्राणि प्रयुनक्ति ।

अत्रापि द्विमित्यादि पूर्ववत् । तत्र विशेषः सायदोहपात्रेभ्य उपवेषं शाखापवित्र- ममिधानी निदाने दोहनमिति घडेव । अग्निहोत्रहवण्याः सर्वार्थत्वेन प्रयुक्तत्वात् । 1 पिधानं तु नास्ति प्रातःहे । अत्रास्मिन्काले । इतः पूर्व सनयत एव प्रयोगो मन्त्रबाह्मणानुसारेण प्रदर्शितः । तत्र न्यूनं शाखा- न्तरेण पूरणीयं पूर्वेयुर्वेदिकरणं, तदने सिंहावलोकनन्यायेन वक्ष्यति वेदिकरणसमये, तद्वदिहापि सामर्थ्यसिद्धौ विशेषौ व्याचष्टे-

अत्रासंनयतः पवित्रे करोति ।

सायदोहाभावात्तदर्थमकृते अत्र काले करोतीत्यर्थः । इदं संनयनममावास्यायां दाक्षायणयज्ञिनः पौर्णमास्यामपि । दर्शेऽपि च 'दाक्षायणायज्ञेन सुवर्गकामो यजेत पूर्ण- मासे संनयेन्मैत्रावरुण्याऽमिक्षयाऽमावास्यायां यजेत' इति वक्ष्यति च । ततस्तु पर्वद्वये ' ४१० पटलः महादेवकृतवैजयन्तीव्याख्यासमेतम् । ११३ प्रयोगौ ससानाय्याविति न पौर्णमाप्तीमतिक्रम्य दर्शप्रयोग एव कथं सूत्रकारेण प्रद- शित इति शङ्काऽपि निरस्ता। पर्वविशेषप्रयुक्तौ विशेषौ स्वेतत्कृत्वोपवसतीत्या. दिनोत्तौ। संनयतः पवित्रे पूर्वकृते एवेत्यर्थासिद्धेऽपि सायदोहकाले कृतयोरपि पवित्रयोः प्रकरणेन सर्वार्थता गम्यत इत्याह-

पूर्वेद्युःकृते संनयतो धार्येते ।

पूर्वेषाकृते धार्यते । अधारणे तु प्रायश्चित्तमित्यर्थः ।

दक्षाय त्वेति प्रणीताप्रणयनं चमसमादाय ।। १३ ।।

चमतग्रहणात्कास्य मृन्मयं च तूप्णीमेव । तथैवाऽऽपस्तम्बेनाप्युक्तम् । कुत एत. दिति चेत् । कास्यद्रव्यं हि न क्रत्वर्थमतो न प्रकरणेन गृहीतं ततस्तु प्रकरणगृहीतो मन्त्रो म कांस्यमपेक्षते । नापि कांस्यं तेनान्वेति तस्याप्राकरणिकस्वात् । तथा च विकृतौ न पुरुषार्थस्यातिदेशः।

वानस्पत्योऽसि देवेभ्यः शुन्धस्व देवेभ्यः शुम्भस्व देवेभ्यः शुध्यस्वेति त्रिः प्रक्षालयति ।

जलैरित्यर्थात् । अत्र प्रत्येक क्रियादर्शनादसीतिक्रियायाः प्रक्षालनप्रकाशकत्वावा. नसात्योऽसि देवेभ्यः शुन्धस्वत्येको मन्त्रस्तथाऽन्यौ द्वौ । प्रयाणां कर्मकरणानां समु- चयावेदकं प्रमाणं नास्तीति बलादेकमन्त्रता न कल्प्या । चेष्टापृथक्त्वेन चार्थों निष्पद्यते त्रिः प्रक्षालयतीति साम्यासविधानात् । मन्त्रविकल्पस्याष्टदोषदुष्टत्वादभ्यासाङ्गता मन्त्राणामवगम्यते । तेन त्रीण्यपि प्रक्षालनानि समन्त्राणीति सिध्यतीति भाग्यकार: तदन्ये नानुमन्यन्ते । कुतः, देवेभ्य इत्यादित्रयमुच्चार्येतिकरणेन शाखान्तरीयब्राह्म- णस्यैवानुवादो न च लिङ्गप्रातानामस्पष्टलिङ्गत्वात् । तस्माद्यथोपदिष्टं ब्राह्मणवन्त इति भवत्येव समुच्चय इति सर्व एक एव मन्त्रस्तं समुच्चार्य प्रथमं प्रक्षालनं ततो द्विस्तू- प्णीमिति पक्षमेव साधयांबभूवुः । [यन सूत्रकारस्येष्टं मन्त्रनानात्वं तत्र हि करोत्येव प्रयत्नाधिक्यम् । यथा शुक्रं त्वा शुक्रायामित्येतामिति बहुवचनान्तमेतच्छन्द प्रयुते । वैखानसेन सरप्रक्षालने मन्त्रो विनियुक्तः सर्वोऽपीति ज्ञायते ब्राह्मणमेव विनि- योनकमिति । तथा च प्रकृती पुरुषार्थत्वेन प्रणयने पात्रद्वयं विधत्ते-

  • नेत्यस्य प्रदर्शित इति व्यवहितेन संबन्धः ।

- 1 क. ख. ग. च. छ. "मादत्ते ॥१३॥ १ ख. छ. 3. स्माप्रकरणित्वा' । छ.. ८. बना। १५ ११४ सत्याषाढविरचितं श्रौतसूत्रं- [१प्रथमप्रश्ने-

कꣳसेन ब्रह्मवर्चसकामस्य प्रणयेन्मृन्मयेनान्नाद्यकामस्य ।

ब्रह्मवर्चसं वेदवेदाङ्गार्थज्ञानानुष्ठानाभ्यां यो यजमानो वर्चः शोमामात्मनः काम- यते तस्याध्वर्युः कस्ये(से)न पात्रेणापः प्रणयेन्मृन्मयेन पात्रेणान्नाद्यमन्नमत्तीत्यन्नादः प्रकृष्टान्नस्यान्नादस्य भावोऽन्नाद्यं तत्कामस्य यजमानस्येति पूर्ववत् । चमसेनापः प्रण- येदिति शाखान्तरीयं दर्शपूर्णमासप्रकरणे पठितम् । तद्वाक्यमङ्गत्वमावेदयति प्रणयनं प्रति चमसस्य । अप इति द्वितीयया संस्कार्यत्वमवगम्यते प्रणयनेनापः संस्कुर्यादिति । संस्कृतानां च विनियोगः प्रणीताभिहवींषि संयोतीति । न्यायदर्शन उदाहृत्य दृष्टार्थत्व- मेव स्थापितम् । प्रणीतानामादाय पिष्टेष्वानयतीति सूत्रकारेणाप्युक्तम् । यदा न संय- वनप्रयुक्ताः स्युस्तदा न प्रतिनिधिं विदध्यात् । यदि प्रणीता न विद्यरन्याः श्चि- दापो यजुषोत्पूय ताभिः सेयोतीति । ततो ज्ञायते दृष्टार्थत्वमविप्रतिपन्ने सूत्रकृतामिति । तथा यत्राऽऽज्यपयती चरौ श्रपणार्थे श्रूयेते तत्र ते प्रणयतीत्येवं वक्ष्यति । तस्मास्पिष्टे- ज्वानयतीति सूत्रेऽर्थ एव निर्विष्टो वाक्यं तु प्रणीताभिर्हवींषि संयोतीति न्यायशास्त्रे दर्शितमेव । अन्यथा कः प्रसङ्गश्चरौ प्रणीतानाम् । तस्माद्धविःसंयवनार्थाः प्रणीताः । अष्टार्थता चावगम्यते, यत उपनयनादिषु प्रणीताप्रणयनं विधत्ते । आह च भर- द्वाजः सर्वसंस्थासु प्रणीता इति । एवं च प्रणयनस्यादृष्टार्थत्वे दर्शपूर्णमासप्रकरण- पठितानां सर्वेषां यागानां प्रकरणेहीतस्य प्रणयनस्य सर्वाङ्गता सिध्यति । दृष्टा. र्थत्वमात्रे तु. पुरोडाशमात्राङ्गता स्यादुपांशुयोगसांनाच्ययागाङ्गता प्रकरणगता बाध्येत । तस्मात्तौ समानविधानाविति सूत्रकारवचनाचादृष्टार्थ, तथा सर्वयागाङ्गता युक्ता । तथा प्रणीताबाह्मणेषु च प्रणयनस्तुतिः समस्तदर्शपूर्णमासयागफलार्थत्वेन दृष्टा चादृष्टार्थत्व एव युक्ता भवति । एवं वा दृष्टार्थप्रणनयने विनियुक्तानामप्यपा संयोगे(ग)पृथक्त्वन्यायेन हविःसंयवनार्थत्वेनैकदेशस्य दृष्टार्थत्वेनाविनियुक्तस्यापि शास्त्रान्तरबलाह(दृ)ष्टार्थत्वेऽपि न कश्चिद्दोषः । न चापः प्रणयतीति द्वितीयानि- देशादपा प्रणयनसंस्कार इति वाच्यम् । प्रणयनव्यतिरेकेणान्यस्य कर्मणः सर्वयागा- र्थत्वेनादृष्टार्थस्यासंभवात् । न च हविःसंयवनोपयोक्ष्यमाणस्य संस्कार इति वाच्यम् । प्रकरणैः सर्वयागार्थत्वमवगां बाध्येतेत्युक्तमेव । तस्मात्सक्तूज होतीतित्र- द्वितीया व्याख्येया । ततः प्रणयनमुपांशुयानसांनाय्ययागाङ्गमपीति तद्विकृतिषु केव. लाज्ययागपश्चामिक्षादिष्वपीति । प्रणयनं कार्यमेवादृष्टार्थमिति सिध्यति । ननु यदि पशौ प्रणयनं स्यात्तदा पवित्रे कृत्वा यजमान वाचं यच्छेति संप्रेष्यति, वाग्यतः पात्राणि संमृशति, प्रोक्षितेषु वाचं विसनत इसि क्रमनियमो बाध्येतेति चेत् । न । नेदं क्रमनियमार्थ पशौ सूत्रं वक्ष्यति, किं तु पशावप्राप्तपवित्रविधानार्य तथैवाप्राप्तवा- १ क.ग. इ. कांस्थेन । २ ट. ड, प्याजस। क. ख. ग. छ. द. "णवता। ४च०पटलः महादेवकृतवैजयन्तीव्याख्यासमेतम् । विसर्गकालविधानार्थ च । पशुं प्रातःहविकारं वक्ष्यति । प्रातोहे च सायंदोह- कृतपवित्रं गृह्यते । पशौ तदसंभवात्व कार्यमिति जिज्ञासिते पवित्रकार्ये चोदकप्राप्त उपस्थितं तदैव कार्यमिति दर्शितम् । ब्रह्मणि स्वस्थानमवस्थिते पवित्रं कृत्वा ब्रह्मन्नपः प्रणेष्यामि यजमान वाचं यच्छेति संप्रेष्यतीति वक्तव्येऽपि यथा चोदकप्राप्तं कर्मणे वामित्यादिनोक्तमेवं ब्रह्मन्नित्यादिनोक्तं प्राप्तत्वादेव यथाकालम् । अतोऽप्राप्तं पवित्र- करणमेवोक्तम् । वाचं यच्छत्या हविष्कृत इति याजमाने हविष्कृता वाचं विसृजत इति चाध्वर्यवे वाग्विसर्गकालस्य पशावसंभवाद्वानियमविधानमपि निवर्तते । कुतः, नियमस्य समाप्त्यसंभवाद्यावत्कर्मसमाप्ति वानियमः प्राप्नुयात्तच्च नेष्टम् । तस्माद्या- वद्धविष्कृदाह्वानात्पशौ पूर्वतनवानियमव्याप्तकर्मसंभवस्तावदेव . नियमोऽथ त्याग इति न्याय्यं न तु प्रकृत्युक्तवितर्गकालाभावानियमाङ्गीकाराभाव इति युक्तमिति वक्तुं यजमान वाचमित्यादिना नियमस्तद्विसर्गश्च प्रदर्शितो यजमानस्य । तस्याध्व. योरपि प्रणयन्वाचं यच्छति हविष्कृता विसृजत इति विसर्गासंभवेऽपि यजमानवदेव विसर्गकालसंभव इति साक्षादेव दर्शितमाध्वर्यवं यथा याजमानम् । कथं, पवित्रे कृत्वा संप्रेष्यति संमृशति प्रोक्षिते विसृजत इत्यध्वर्योरेव कर्म प्रदर्शितम् । यजमान वाचं यच्छेति संप्रेषकालाधनमानस्य प्रदर्शितमर्थात् । यदि प्रणयन्वाचं यच्छतीति चोदकप्राप्तं नाङ्गीकृतं स्यात्तदा कः प्रसङ्गो विसर्गकालविधानस्य । न च वाग्यतः पात्राणीत्यनुवादबलात्प्राप्तस्य विसर्गकालविधानमिति वाच्यम् । वाग्यत इति विधेर• मावादतिदेशाभावाच कथं प्राप्तिः स्यात् । तस्मात्प्रणयन्वाचं यच्छतीति चोदकप्रा. प्तस्य वानियमस्य व्याप्यं पदार्थ पूवोक्तन्यायेन दर्शयन्विसर्गकालमेव दर्शित. वानिति प्रणयनानुज्ञालिङ्गमेवेदं न प्रणयनपरिसंख्यार्थ पवित्रे कृत्वेत्यादि वचनमिति सिद्धम् । न च सति पशौ प्रणीताप्रणयने पशुपुरोडाशे प्रणीतापात्रासादनमयुक्त- मिति वाच्यम् । पशौ प्रणयनस्यादृष्टार्थत्वमात्रप्रयुक्तस्य न प्रसङ्गेन पुरोडाशे दृष्टद्वाराऽप्युपकारकता भवेत् । तस्मात्पुरोडाशार्थमन्यदृष्टप्रयोजनमेव प्रणयनं कार्यम् । अदृष्टद्वारा प्रसङ्गेनोपकारे सत्यपि दृष्टप्रयोजनस्य प्रसङ्गेन सिद्ध्यभावात् । न च प्रसङ्गेनादृष्टद्वारोपकारिणीनामपामेकदेशेन दृष्टद्वारोपकारकत्वमपां प्रसङ्गेनैव स्यादिति वाच्यम् । प्रणयनमदृष्टद्वारा प्रसङ्गेनोपकरोति तत्साधनत्वेनैव विनियुक्तानामपां कर्मा- न्तराणां साधनत्वं न प्रसङ्गसिद्धमिति युक्तम् । यथा पश्वर्थसमवत्तधान्याः प्रयोगेऽपि तस्यास्तदर्थत्वेनाविनियुक्ताथा न पुरोडाशेडार्थत्वं प्रसङ्गेन सिध्यति । तत्तथोपकारान्तरेण प्रसङ्गादुपकारकं च रूपान्तरेण प्रसङ्गादेवोपकारकमिति प्रणयनान्तरमेव विहितम् । यदपि कात्यायनापस्तम्बादिमिनिरूढपशौ प्रणीताविधानं तत्तेषां शास्त्रान्तरेणाग्नी. घोमीये प्रणयनं प्रतिषेधति । तन्मतेन तद्विकृतौ निरूढेऽपि प्रतिषेधे प्राप्ते पुनःप्रणयन- प्रतिप्रसवार्थ प्रणयनविधानमिति । ४ 'सत्यापाढविरचितं श्रौतसूत्रं- (१प्रथमप्रश्न- देशे स्तोर्णेषु दर्भेषु मैंरपिधानमाच्छादनं पात्रविलस्य । उत्तरतउपचारो विहार इति परिभाषितत्वादुत्तरेणैव प्रणयनम् । केचित्प्रायौगिकास्तु दक्षिणेन कुर्वन्ति तन्मूलं चिन्त्यम् ।

ता नेङ्गयन्त्या सꣳस्थानात् ।

न चालयति प्रणीता एव, आ संस्थानासंस्थानसमीपे क्रियमाणात्प्रणीताविमोका. स्पूर्वमित्यर्थः ।

संविशन्तां दैवीर्विशः पात्राणि देवयज्याया इति सपवित्रेण पाणिना पात्राणि संमृशति ।। १४ ।।

इति हिरण्यकेशिसूत्रे प्रथमप्रश्ने चतुर्थः पटलः ।। ४ ।।

स्मयादीनि । अङ्गुष्ठेन पवित्रं प्रागप्रमुदगर्न वा हस्ततले नियम्य तेन हस्तेन संमृ. शति । यथा लोके बालादिलालनार्थ सम्यक्स्पृशति तथा पाणिना संस्पृशति पात्रा- णीति द्रव्यैकत्वात्सकृन्मन्त्रः सर्वेषां स्पर्शनम् । संग्रहः-स्वशाखायां न पुर्वेद्युदर्श वेदिकृतिस्तथा । पौर्णमास्यां न बर्हिष आतिः परशाखया । स्वशाखया तु पूर्वेयुः सद्यस्काले व्यवस्थितिः । दर्भसंस्तृतिरगुणकर्मपात्रेषु होमिषु । वैकङ्कतत्वं पक्षे स्यात्प्रणीतानां द्विरूपता । काम्ये पात्रे न मन्त्रोऽस्ति नित्ये ह्यस्त्यङ्गता मनोः । इति सत्याषाढहिरण्यकेशिसूत्रव्याख्यायां प्रयोगवैजयन्त्यां महादेवकृतायां प्रथमप्रश्ने चतुर्थः पटलः ॥ ४ ॥

1.5 अथ पञ्चमः पटलः।

दक्षाय वानस्पत्याऽसीत्यग्निहोत्रहवणीमादत्ते वेषाय त्वेति शूर्पम् ।

निर्वापार्थमादान एवाग्निहोत्रहवण्या मन्त्रो न पशौ प्रोक्षणार्थम् । आदत्त इत्युम- यत्र संबध्यते । ग्रहीतुं शक्यत्वादक्षिणेनैव हस्तेन । द्वयोरत्यागो यावन्निपिप्तमाप्ति । . १क. स. ग. च, यत्या स। ५५०पटलः महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

प्रत्युष्टमित्याहवनीये गार्हपत्ये वा निष्टपति ।

अरातय इति मन्त्रान्तः । गतार्थम् ।

यजमान हविर्निर्वप्स्यामीत्यामन्त्रयते ।

अनुज्ञार्थ यजमानं पृच्छति ।

प्रवसति।

यजमाने ।

अग्ने हविर्निर्वप्स्यामीत्यनुब्रूयात् ।

अदृष्टार्थमेतत् । प्रतिवचनदातुरभावाव्यादित्युक्तम् । आत्मसंस्कारत्वेन दृष्टार्थता वक्तुं शक्या । याजमानमों निर्वति । नात्र वानियमलोपो विधिसामर्थ्यात् । प्रणव उक्ते करोतीति पूर्वमेव परिभाषितं, हविज़हयो यवा वा, व्रीहिमियनेत यवैर्य नेतेति श्रुतेः । वाशब्दाभावेऽपि न समुच्चयः परस्परनैरपेयेऽसाधनत्वावगमात्समुच्चयस्य । द्रव्यान्तरत्वान्न ब्रीहिमिर्नापि यवैरिष्टं भवतीति विधिद्वयबाधभियाऽष्टदोषदुष्टोऽपि विकल्स एव युक्तः । विकृतावपि विजातीयेऽपि हविषि नोहः सर्वेषां हविष्ट्वात् ।

उर्वन्तरिक्षमन्वेमीति गच्छति ।

यत्र हविः शकटे तिष्ठति तदभिमुखो गच्छति ।

अपरेणाऽऽहवनीयमपरेण वा गार्हपत्यं नद्धयुगꣳ सपरिणत्कꣳ शकटमवस्थितं व्रीहिमद्यवमद्वा प्रागीषमुदगीषं वा ।

भवतीति शेषः । आहवनीये गार्हपत्ये वा हवींषि श्रप्यन्त इति वक्ष्यति तदनुसा- रेण व्यवस्थितो विकल्पो गार्हपत्ये वेति । कुतः, अपरेण वाऽऽहवनीयमित्यपरशब्दे विद्यमानेऽप्यपरेण वेति पुनर्ग्रहणात् । नद्धं युगं यस्येति तथा, ईषाभ्यां बन्धनप्रकारेण बद्धं युगं यस्य, सपरिणत्कं परिणद्धान्यावस्थित्यर्थं शकटोपरि समन्ततो बद्धं कटादि तेन युक्तं सपरिणत्कं शकटमनः, जातिवाची शब्दो न संस्कारवाची तेन सिद्धमेव लौकिकं ग्राह्यम् । अवस्थितमपरेणेत्यन्वयः । ब्रीहिमद्यवमद्वेति विकल्पो ब्रोहिमिरिष्ट्वा ब्रोहिभिरेव यजेताऽऽग्रयणाधवैरिष्ट्वा यवैरेव यजेतेति शास्त्रव्यवस्थया । अनारब्धा- ग्रयणस्य विच्छाविकल्पः । ब्रोहयो यस्मिन्सन्ति शकटे तत्तथा व्रीहिमदिति मानुपधा- याश्चेति न मकारस्य वकारोऽयवादिभ्य इति यवादिगणपरिसंख्यानात् । प्राची ईषे यस्य तत्तथा । तथोदगीषमित्यपि । ईषे शकटयुगयोः संधानकाष्ठे विशेषकृते । १ क. ख. ग. च. मीति । २ क, ग, च. छ. ट. ठ. . चनं दा। ३ क. ग. च. छ. द. ठ, ड,क्ष्येण सा'। १२० सत्यापाढविरचितं श्रौतसूत्र- [१प्रथमप्र-

धूरसीति तस्य दक्षिणां धुरमालभ्य ।

अपूर्वत्वाद्विधिः । पूर्यत्र बध्यते बलीपर्दस्तयुगस्थानम् । मालम्भः स्पर्शः । पूर्वाम इति मन्त्रान्तः।

त्वं देवानामिति सव्यमीषामालभ्य जपति ।

नाथमालम्मे मन्त्र आलम्मानन्तरं जपे । देवहूतममिति मन्त्रान्तः । जपत्वाचातु:- स्वर्यम् ।

विष्णुस्त्वाऽक्रꣳस्तेति सव्ये चक्रे दक्षिणं पादमादधाति ।

स्थापयति शकटमारोदु दृष्टार्यत्वात्तेन स्पर्शनमात्रं पादेन कृत्वा पादं नापसारयेत् ।

अह्रुतामित्यारोहति।

अह्रुतम् असि हविर्धानं दृꣳहस्व मा ह्वार् मा यज्ञपतिर् ह्वार्षीत् । विष्णुस् त्वा क्रमताम् । उरु वाताय । अपहतꣳ रक्षः । यच्छन्तां पञ्च ॥[१]रोहति ।

शकटमुत्तरपादेनाऽऽरोहति । मा हरति मन्प्रान्तः ।

मित्रस्य त्वेति परिणहं प्रेक्षते ।

मा स्वा हि सिषमित्यन्तः ।

उरु वातायेति परिणहो द्वारमपच्छादयति ।

पत्र हविनिहितं परिणहि पाने तदारसुद्धाटपति । तावानेव मन्त्रः ।

मित्रस्य त्वेति पुरोडाश्यान्परिणहं च प्रेक्षते ।

पुरोडाश्यान्पुरोडाशाहीन् । प्रत्येकं मन्त्रो द्रव्यपृथक्त्वात् । हविर्मात्रविषक्षयकव- चनं मन्त्रगतम् । मन्त्रान्तः पूर्ववत् ।

ऊर्जं धत्स्वेति पुरोडाश्यानभिमृशति ।

पुरोडाशसाधनमात्रविवक्षया मन्त्र एकवचनमेवं सर्वत्र गतार्थम् ।

पयो मयि धेहीत्यात्मानं प्रत्यभिमृशति ।

मात्मानं हृदयदेशस्थं प्रत्यक्तयाऽनुसंधायाहमस्मीति हृदयदेशेऽभिमृशति । स्मात उदकस्पर्शः।

अपहतꣳ रक्ष इति ततस्तृणं लोष्टं वा निरस्याप उपस्पृश्य ।

निरसने मन्त्रः । श्रौतमुपस्पर्शनम् । तयोरमावे तु कात्यायना-अविद्यमानेऽभि. मृशेत् । अनेन मन्त्रेण । ' या नाम्येव मृशेत् ' इति श्रुतेः ।

दशहोतारं व्याख्याय ।

वाक्यशः पठित्वा यातुःस्वर्येण जपरूपत्वात् । चित्तमाज्यमित्यादि सामाध्वर्युरि। स्यन्तो दशहोता दशहोतनामको मन्त्री होतृविनियोगे प्रवृत्तिनिमित्तं ज्ञेयम् । 15. खग, च, दमबद। ५५०पटलः]. महादेवकृतवैजयन्तीव्याख्यासमेतम् । १२१

शूर्पे पवित्रे निधाय ।

तूष्णीमेव । यच्छन्तां पञ्च गोपीयाय वो नारातय इति मुष्टिं पूरयित्वा । पुरोडाश्यानेकेन मुष्टिना पूर्ण गृहीत्वा ।

स्रुच्योप्य ।

पामहस्तेन गृहीतायामथवा शूर्प हवनी निधायेति वैखानसोक्तेस्तस्यामग्निहोत्रह- वण्यां मुष्टिमोप्य रेचयित्वा गृहीतं मुष्टिं तूष्णीमेव मन्त्रस्य संनिधिना लिकन च पूरणं प्रत्येव विधेः।

देवस्य त्वेति पवित्रान्तर्हिते चतुरो मुष्टीन्निर्वपति त्रिर्यजुषा तूष्णीं चतुर्थम् ।

पवित्रान्तहिते शूर्प यत्र पवित्रे तत्रैवाग्नये जुष्टं निर्वपामीत्यन्तेन निर्वपति मुष्टिमात्र. मेव तस्यैव च्यावापान चतुर्णामावाप उक्तोऽस्ति । निर्वापस्तु चैवान्यथा तस्या- मावापोऽदृष्टार्थः स्यादग्निहोत्रहवण्या चतुरो मुष्टीनिर्वपतत्यिापस्तम्बोक्तेश्च । चतुर्णा- मेकवारं निर्वापः संमवति स्रुचि ग्रहीतुमसामर्थ्यात् । यद्यपि चतुर इति द्रव्यगता संख्या तथाऽपि त्रियजुषा तूष्णीं चतुर्थमिति क्रियाभ्यासस्यैव विधानात् । न च चतु. मुष्टिपरिमितस्यैको निर्वापस्तादृशानां त्रिर्यजुषा तूष्णीं चतुर्थमित्यभ्यास इति वाच्यम् । चतुरश्चतुर इति वीप्साया अश्रवणात्सर्वम्यैव निर्वापस्य चतुर्मुष्टिमात्रपरिमितत्वं चतुर इत्येतेनावगम्यते । मुष्टीनिति मुष्टित्वेनोद्देश्यत्वात्प्रतिमुष्टि द्रव्यपृथक्त्वादभ्यावृत्त्या निर्व- पतीति गम्यते । तथा च चतुर्मुष्ट्यात्मक एकः पदार्थस्तथाऽपि जुवेण गृहीतमाज्यं मन्त्रेण संस्कृतं पुनर्गृह्यमाणमसंस्कृतमेवेति । यथा द्रव्यैकत्वेऽप्यवयवस्य नुवमात्रत्वेन परिच्छिन्नत्वान्मन्प्रावृत्तिरेवमत्र पदार्थैकत्वेऽपि मुष्टिमानेनावान्तरद्रव्यभेदाव्यपृथक्त्वेऽ. भ्यावर्तत इति न्यायात्प्रत्येकं चतुषु मुष्टिषु निर्वापमन्त्रावृत्तिनिर्वापाङ्गं च मुष्टिपूरणमा. वापश्च दृष्टार्थ तदपि संयुक्तान्येकापवर्गाणीत्येकस्य मुष्टेः पूरणमावापो निर्वापश्च तथैवा. न्येषामपि तथैव मन्त्रोऽपि प्रतिमुष्ट्यावतते । तथा चायमर्थो भवति देवस्य त्वेति स्त्रुचोप्तां. श्चतुरो मुष्टीन्प्रत्येकं मन्त्रेण निर्वपति । आवापस्तु सामर्थ्यसिद्ध एकैकस्यैव मुष्टेमन्त्रा- वृत्त्या द्रव्यपृथक्त्वादेव पूरणमपि तथैव । एवं विशिष्टविधिनोत्सर्गतश्चतुर्वपि यच्छन्ता- मित्यादिमन्त्रेषु प्राप्तेप्वपवादवाक्यं ब्राह्मणं दर्शयति त्रिरित्यादि । त्रिर्यजुषेति प्राप्तस्यानु- पादस्तूष्णीमितिविधानार्थः । यच्छन्तामिति देवस्य त्वेति च यजुर्द्वयं यजुःशब्देनानूद्य. तेऽनुवादगतमेकत्वं न विवक्ष्यते । अथवाऽस्मच्छाखायामश्रुतं प्रथमं यजुर्नानुवदेदस्म- ब्राह्मणं तथाऽपि साङ्गस्यैव निर्वापत्वात्सर्वोऽपि चतुर्थमुष्टिनिपिस्तूष्णीमेव विधीयते । तथा च यच्छन्तामित्यस्यापि निवृत्तिश्चतुर्थे । अत्र मुष्टिं पूरयित्वेति मुष्टिना पूर्ण - 2 . - १२२ सत्यापाढविरचितं श्रौतसूत्रं- [१प्रथमप्र- गृहीत्वेत्यर्थः । तेनाध्वयोरेव मुष्टिनेति संज्ञानुग्रहों भवेत् । यदि मुष्टिमितमिति तदा याजमानमपि स्यात्तदाऽऽध्वर्यवसंज्ञा बाध्यत । निर्देशाद्वाध्यतामिति चेत् । न । ओप्येति समानकर्तृकत्वं चतुरो मुष्टीनित्यनेनासंबद्धं स्यात् । तस्मान्मुष्टिना गृहीत धान्यमेव मुष्टिः पूर्णग्रहणेन मानमर्थसिद्धं न तु तत्र विधिस्तदेव लक्षणया मुष्टिशब्देन व्यवहृतमिति ।

निरुप्यान्वावपति ।

निरुप्येति किमर्थ पाठादेव सिद्धिः । तहिं त्रिर्यजुषा तूष्णीं चतुर्थमित्यस्यानुवृत्त्यर्थ, तेन निरुप्यवान्वावपति । अमिहोत्रहवण्या निर्वपतीत्येतावता संवद्धाया निवृत्तत्त्वाद्ध- स्तेनान्वावापः । तथा चैकैक मुष्टिनिर्वापान्तेऽपि ' नावावापरतस्यावयवानङ्गत्वादित्यपि सिध्यति त्रियजुषा लूणी चतुर्थ निरुप्यान्वावपतीति संबन्धादन्यथाऽनुलक्ष्यीकृत्येति किं मुष्टिमात्रनिर्षि सर्व वेति न ज्ञायत इति प्रयोजनम् । स्पष्टमुक्तमापस्तम्बेन-चतुरी मुष्टोन्निरुप्य निरुप्तेष्वन्वोप्येति । एवं चैकैकस्यै देवताया एकैकं मुष्टिं निरुप्य पुनर्द्वि- तीयं द्वितीयमित्यपि नेत्युक्तम् । पदार्थो हि चतुर्मुश्यात्मको निर्वापोऽस्यावयवा एवं मुष्टय आनिताश्च पदार्थानुसमयबाधेन कृत्स्नमेकैकमित्यनेन काण्डानुसमयो ह्यवेत्यर्थः । तौ समानविधानाविति परिभाषितत्वादन्येषामप्ययमे विध्यन्त इत्याह-

एतेनैव कल्पेन यथादेवतमुत्तरं पुरोडाशं निर्वपति ।

नायमतिदेशोऽपि तु प्रकरणादेतेनैव कल्पेन विधिना यच्छन्तामित्यादिनेत्यर्थः । उत्तरं यद्यस्ति पुरोडाशग्रहणमुपांशुयाजदेवताया आज्यनिर्वापो मा भूदिति । अग्नये जुष्टं निर्वपाम्यग्नोपोमाभ्यामिति हि पठ्यते नोपांशुदेवतेति भावः । अग्नीषोमीयपक्षे पौर्णमास्यां देवस्य त्वेत्यादिकमनुद्रुत्याग्नीषोमाभ्यां जुष्टं निवपामीति निरुप्तेष्वेव निवपिः । दशैं त्वामेयानन्तरमिन्द्राग्निभ्यां जुष्टं निर्वपामीति शाखान्तरीयो मन्त्रो ब्राह्म- णेऽनुसंहितो द्रष्टव्यः । तूष्णीं चतुर्थम् । अपरिमितमेवावरुन्धे स एवमेवानुपूर्व५ हवीपि निर्वपतीनि बहुवचनात्पुरोडाशत्रयं गम्यते । न चायमूहेन सिध्यत्यर्थो न प्रकृतावुहो विद्यत इत्यूहप्रतिषेधात् । पर्वद्वयाभिप्रायेण ब्राह्मणम् । एवमन्येष्वपि मन्त्रेषु ज्ञेयम् । विना शकटं शाखान्तरीय कल्पान्तरमाह-

पात्र्यां वा निर्वपति दक्षिणतः स्फ्यमुपकृष्य सर्वाञ्शकटमन्त्रानुक्त्वा ।

पाच्यां मृन्मयों शकटस्थाने कृतायां न शूर्पस्थाने तस्यां सर्वाशकटमन्त्राञ्जपती- त्यमिधानान्न हि शर्पस्थाने कृतायां शकटमन्त्रप्राप्तिरस्ति । वाचनिकः प्रतिनिधिर्मनन-

  • टीकापुस्तकेषु उक्त्वेतिस्थाने जपतीति वर्तते।

१छ. ८. ड. सिद्धेः । २ क. ख, ग, च, श, ट. ठ, ह. चति । 6 9 १५०पटलः]. महादेवकृतवैजयन्तीव्याख्यासमेतम् । १२३ पश्च स्वेन यजुष्करणानङ्गीकारात् । तस्यां पायां निर्वपतीत्याधारता हविर्मात्राधार- त्वान्न तु क्रियाश्रययोः कर्तृकर्मणोराधारो भवति पात्री । अथ वा सामीप्ये सप्तमी पात्रीसमीपे स्थित्वा निर्वपतीति शूर्प एव पूर्ववच्चातुःस्वर्येण जपः शाकटमन्त्राणामिव करणमन्त्रत्वासंभवात् । देवस्य त्वेत्यादयस्तु यथापूर्वमेव । पाच्या अधस्ताद्दक्षिणभागे स्फ्यमाकृष्य स्थापयित्वा । वैखानसेनोक्तम् ' अपरेण गार्हपत्यं स्फ्यं निधाय तस्मि- पात्रीम् ' इति । प्रकृतमनुसंधत्ते-

इदं देवानामिति निरुप्तानभिमृशतीदमु नः सहेति यतोऽधि निर्वपति ।

येभ्यः सकाशान्निपिः कृतस्तान्परिणहि पाव्यां वाऽवशिष्टान् । यतोऽपीत्यपिशब्दा- पूर्वेषामत्यागस्तेन द्वितीयमन्त्रेण निरुप्तानवशिष्टांश्च सहैव । तदेव द्रढयन्नाहः-

स्फात्यै त्वेति निरुप्तानेव ।

नारात्या इति मन्त्रान्तः । एवकारस्तु शिष्टनिषेधार्थः ।

इदमहं निवर्रुणस्य पाशादिति पुरोडाश्यानादाय परिणह उपनिःसर्पति ।

शूर्पण सहेति ज्ञेयम् । तूष्णीमादाय मन्त्रेण परिणहः सकाशादुप समीप एव, निर्गत्य तिष्ठति पात्र्याः सकाशाद्वा । अत्र प्रक्रमे नास्मच्छाखायां मन्त्रोऽस्तीति शाखा- स्तरीयत्वात्सर्वोऽपि पठितः ।

सुवरभिविख्येषमिति ।। १५ ।। सर्वं यज्ञमनुवीक्षते ।

यज्ञविहृताननीन्हविः पुरुषान्पात्राणि चान्यानि यज्ञसाधनानि अनु प्रत्येकं लक्षयित्वा. विविच्येत्यर्थः । सकृदेव मन्त्री यज्ञमित्येकत्वेन न द्रव्यपृथक्त्वम् ।

वैश्वानरं ज्योतिरित्याहवनीयं परेक्षते ।

तत्रैव तिष्ठन्निति परेत्यस्यार्थः । दक्षिणार्ध परेक्षेतेति दर्शनात् ।

दृꣳहन्तां दुर्या इति प्रत्यवरोहति ।

शकटादित्यर्थः । पान्यां जपः । द्यावापृथिव्योरित्यन्तः ।

स्वाहा द्यावापृथिवीभ्यामिति स्कन्नाननुमन्त्रयत उर्वन्तरिक्षमन्विहीति गच्छति ।

अन्विहीति मन्त्रान्तः। यत्र श्रपयति हविस्तस्याग्नेः समीपं गच्छति । न १.क. ख...ग. च.. यतोऽपि । २. क. ख. ग.. क्षमिति । स्कन्नमभिम । ३ क..ख. ग. च. १२४ सत्याषादविरचितं श्रौतसूत्रं- [१प्रथमप्रग्ने-

अदित्यास्त्वोपस्थे सादयामीत्यपरेणाऽऽहवनीयमपरेण वा गार्हपत्यमुपसादयति ।

हविःशूपमन्यतरस्याग्नेः समीपे स्थापयति । व्यवस्थामाह-

यतरस्मिन्नग्नौ श्रपयति ।

तस्य समीप एव सादयतीत्यर्थः । अनेन पूर्वमुक्तो गार्हपत्याहवनीययोर्विकल्प ऐच्छिक इत्युक्तम् । यत्र श्रपर्ण तत्समीप उपसदिनमित्यत्रैव व्यवस्थितविकल्पवि- धानात् ।

अग्ने हव्यꣳ रक्षस्वेति यथादेवतं परिददाति ।

तस्यास्तस्या देवताया कशे परिरक्षणार्थ तेन तेन मन्त्रेण ददाति । अग्ने हव्यर रक्ष- स्वेत्याग्नेयमग्नीषोमौ हत्य५ रखेथां, दर्शे तु इन्द्राग्नी हव्यः रक्षेथामिति शाखान्तरीयौ मन्त्री लक्षणेन प्रदर्शितौ।

सशूकायाꣳ स्रुचि प्रोक्षणीः सꣳस्कृत्य यथा पुरस्तात् ।

सशूकत्वं न विधीयते किं तु शूकप्रक्षालनं निवार्यते । शूका ब्रोह्यादिद्रव्यस्याग्नि. होत्रहवण्या लग्नाः सूक्ष्मशिखावयवाः । एतेन त्रीहयोऽपि ज्ञेया ये सशूकास्त एव बीह- योऽन्याः शालयो ब्रीहिसदृशाः । अत एव सशूकत्वसाम्येन ब्रीह्यमावे नीवारा एव प्रतिनिधीयन्ते न शालयोऽशूकत्वात् । यवास्तु सशूका एव सशूकानामेव ब्रीहित्वं न्याय- विद्भिरप्युक्तमेव | प्रोक्ष्यते यामिस्ताः प्रोक्षण्यः सत्यस्ताः संस्कृत्येतिनिर्देशात्संस्कारा- त्पूर्वमपि प्रोक्षणीत्वमस्तीति न संस्कारवचनः । तेन प्रोक्षणीरासादयेत्यादौ तथाऽऽज्य प्रोक्षणमित्यादावपि विना संस्कारं प्रोक्षणीत्व सिद्धम् ।

ब्रह्मन्प्रोक्षिष्यामीत्यामन्त्रयते ।

गतार्थम् ।

देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये वो जुष्टं प्रोक्षाम्यमुष्मा अमुष्मा इति यथादेवतं त्रिः प्रोक्षति ।

तन्त्रेणैव विभागाभावात् । अग्नीषोमाभ्यामिति यथापाठं मन्त्रान्तः । न चानुषङ्गोऽ- ग्रीषोमाभ्यां वो जुष्टं प्रोक्षामीति, वाक्यान्तरे ह्यनुषशास्तन्त्रेण प्रोक्षणे न वाक्यान्तर- प्रयोगः । कल्पान्तर स्पष्टमुक्तमेतत् । यथाऽग्नये वो जुष्टं प्रोक्षाम्यग्नीषोमाभ्याममुष्मा अमुष्मा इति च तथा दर्शेऽग्नये वो जुष्टं प्रोक्षामन्दिाग्निम्यामिति मन्त्रान्तरं पूर्ववज्ञेयम् । ५५०पटलः]. महादेवकृतवैजयन्तीव्याख्यासमेतम् । १२५

नाग्निमभिप्रोक्षेत् ।

अग्निमभि प्रोक्षणं न कार्य हविः प्रोक्षन्नग्नौ यथा बिन्दवो न पतन्ति तथा कार्यम- न्यथोपघातात्प्रायश्चित्तं स्यादित्यर्थः ।

पात्राणि प्रोक्षति यथा पुरस्तात् ।

उत्तानानि कृत्वा शुन्धध्वमित्यनेन त्रिः प्रोक्षतीति पूर्व यथोक्तं तथेत्यर्थः ।

वातस्य ध्राजिरसीति कृष्णाजिनमादत्ते देवस्य त्वेति वा ।

द्वितीयस्याऽऽदद इत्यन्तः । आसादित कृष्णाजिनम् ।

अवधूतꣳ रक्ष इत्यूर्ध्वग्रीवं बहिर्विशसनमुत्करे त्रिरवधूनोति ।

अरातय इत्यन्तः । प्रोवामागमधं कृत्वा विशसनं मांसलग्नो देशो विशसनं विशा. स्यते मांसात्पृथक्क्रयते छिद्यते यत्तत् । कृत्यल्युटो बहुलमिति प्रत्ययः । स भाग आत्मानं प्रति न कार्य इत्यर्थः । अवकृष्यावकृष्य धूनोति कम्पयति निझाटयतीत्यर्थः । उत्करो यत्र करिष्यते तत्र व्याख्यास्यतोऽ(तेs)पि क्वचित्स्मारयिष्यते च ।

अदित्यास्त्वगसीत्यपरेणोत्करं प्रतीचीनग्रीवमुत्तरलोमाऽऽस्तृणाति ।

उत्करस्य पश्चाद्भागे यथा तथा प्रतीचीनग्रीवमुपरिलोमानिनमास्तुणाति प्रप्तार- यतीत्यर्थः।

प्रति त्वा पृथिवी वेत्त्विति पुरस्तात्प्रतीचीं भसदमुपसमस्यति ।

मसदं गुदप्रदेशे त्वचः पुरस्तादिति ब्राह्मणानुकरणमात्रं मसदमित्यनेन गतार्थत्वात् । तां भसदं प्रतीचीमधस्तादुपसमस्येत्संधानं मांसभागेन सह मांसमागस्य कुर्यात् । न च पुरस्तादुपरिष्टात्प्रतीची भसदमिति संबन्धुं योग्यम् । उपसमस्यतीत्यनुपपन्नं स्यात्सं. धानं मांसदेश एवान्यथा द्विगुणी कुर्यादित्येव ब्रूयात् । ब्राह्मणे प्रति त्वा पृथिवी त्वित्याह प्रतिष्ठित्या इति प्रतिष्ठितत्वमनेन कर्तव्यमुपरि समसने कथं सा तिष्ठेदप्रतिष्ठा स्यादतः पूर्वव्याख्यैव ।

अधिषवणमसीत्यनुत्सृजन्कृष्णाजिनमुलूखलमधिवर्तयति ।

कृष्णाजिनमन्वारब्धमेव कृष्णाजिनमधि उपरि उलूखलं वर्तमानं यथा भवति तथा करोति वर्तयति । त्वग्वेत्त्विति मन्त्रान्तः ।

अग्नेस्तनूरसीत्यनुत्सृजन्नुलूखले हविरावपति त्रियर्जुषा तूष्णीं चतुर्थम् ।

गृह्णामीत्यन्तः। उलूखलमननुत्सृजन्नित्यर्थात् । हविरावपति बिले निक्षिपति । १ छ. ट. मूर्ध्व कृ । २ छ. ट. देशा त्व। . . १२० सत्याषादविरचितं श्रौतसूत्र-... [१प्रथमप्रमे- शूपीद्धस्तेन त्रिरित्यादि स्पष्टम् । अग्नेरिति न देवतावाची किं तु प्रकृताग्निवाची वाऽऽहवनीयवाची, वा ब्राह्मणे ' अग्नेर्वा एषा तनूर्यदोषधयः' इत्यग्निपोषकत्वेन संस्तवाहेववीतये त्वा गृह्णामीति शेषस्यैव देवताभिरेवैनत्समर्धयतीति. देवतार्थत्वप्रति- पादकत्वात् । तेन नाग्नीषोमयोस्तनूरिति मन्त्रान्तर करप्यम् । अत एव यथादेवत- मिति नोकम् ।

अद्रिरसि वानस्पत्य इति ।। १६ ।। मुसलमादत्ते ।

मुशमि शमिष्वेति मन्त्रान्तः । शाखान्तरीय मत्रान्तरमाह-

ऊर्ध्वसूरसि वानस्पत इति वाऽवरक्षो दिवः सपत्नं बध्यासमिति त्रिरवहन्त्यपहता यातुधाना अपहतोऽघशꣳस इति वा ।

सकृन्मन्त्रोऽवधातस्त्रिः । ननु . यथार्थमवघातो विधीयते तत्रित्वमयुक्तमतो मन्त्रस्य त्रिरुच्चारणविधिरिति चेत् । सत्यम् । तथाऽपि हविकृदेहीति प्रेषकालादर्शनार्थ त्रिवहत्य पश्चादवचन्हविष्कृतमाह्वयतीति संबन्धार्थ, तेन सकदवहत्यानन्तरं हवि. प्रकृदाहानं मा भूदिति ।

हविष्कृदेहीति त्रिरवघ्नन्हविष्कृतमाह्वयति ।

त्रिभ्योऽवधातेभ्य उपरिष्टादवघ्नंत्रिरावयतीति निष्फलीकर्तारं हविष्कृतं विराह- यतीति संबन्धः । हविष्कृतमित्येकवचनं हविःसंस्कारित्वोपाध्यमिताय, ते तु नाना । तथा च ब्राह्मणम् ' य. एव देवाना हविष्कृतः । तान्ह्वयति ! इति । बौधायनस्त्वे.. तव्याचष्टे हविष्कृदेहीति पर्जन्य एवैष. उक्तो भवत्यथाप्युदाहरन्ति हविःसंस्कारिण- मैवैतदाहेति । देवहविष्कारित्वेन पर्जन्यप्राप्तावपि तदाह्वानमदृष्टार्थ स्यात्सति दृष्टस्य संभवे तदन्याय्यमिति । अथाप्युदाहरन्ति, याज्ञिका एवं वदान्त यः प्रकृते हविःसं. स्कारी तं प्रत्येवै( वे ) हीति प्रैषवचनम् । कुतः, एतद्वचनं पर्जन्योपमया संस्कार- मेवाऽऽहेत्यर्थमुक्तवान् । तथा च प्रकृते. त्रिष्फली कर्तवा इति प्रेषोत्तरकालमवहनने पत्नी फलीकरणे चान्यो वा दासी पुनराग्नीध्रश्चावहनने कर्तारस्तानेकवचनेनाऽऽह्वयति । अवघ्नन्नवधातं कुर्वन् ।

अनवघ्नन्वा ।

अवघातात्पूर्वमेवाऽऽहूय पश्चादवरक्षइत्यन्यतरेणावघातस्त्रिरिति नास्ति कर्मान्तरामावा- तण्डुलप्रादुर्भावपर्यन्तम् । तदुक्तं भरद्वाजेन ' मुसलमादाय हविष्कृतमाह्वयति हविष्कृ- ? १ घ. द. व॑सुर' । ३ क. ख, ग, च, हत्याप । . ५५०पटलः] महादेवकृतवैजयन्तीब्याख्यासमेतम् । १२७ देहीति ततो वदन्त्यवहन्त्यवरक्षो दिव इति । [इति । तदवघातात्पूर्वमेवाऽऽह्वानमुक्तं ततोऽस्मिन्पक्षेः त्रिरिति नास्तिः किं तु अवरक्षो दिव इत्यवहन्त्येतावदेवासिध्यति । अर्थ वा विरम्येति व्याख्याऽपि । अनवघ्नन्वा हविष्कृतमाह्वयतीत्युपक्रान्तत्वादवहन• नस्य मध्ये विरामविधानमिति । त्रिरवहत्यानवन्नन्नवघातमकुर्वस्त्रिरायतत्यिन्वयः।

आद्रवेति राजन्यस्याऽऽगहीति वैश्यस्य ।

'वर्णविशिष्टयोर्यजमानयोः शाखान्तरीयौ विकल्पितौ, वर्णत्रयस्य रथकारनिषाद. योश्च पूर्वोक्तः स्वशाखीयो नियतः। ब्राह्मणस्येति विशेषस्य सूत्रब्राह्मणयोरनभिधानात् । आपस्तम्बोऽप्याह-प्रथम वा सर्वेषामितिः । निषादरथकारयोरप्याधानादग्निहोत्र- दर्शपूर्णमासौ च नियम्येते. इति वक्ष्यमाणत्वात् ।

प्रादुर्भूतेषु तण्डुलेषूच्चैः समाजहीति संप्रेष्यति ।

उच्चैः समाहन्तवा इति ब्राह्मणोक्तो विकल्पेन तस्याधीतस्याऽऽनर्थक्यं मा भूदिति सर्वत्र ब्राह्मणोक्तानामविनियोगे द्रष्टव्यम् ।

अद्रिरसि श्लोककृदित्याग्नीध्रोऽश्मानमादत्ते ।

कुटरुशब्देनाऽऽसादितेऽप्यश्मानमिति वचनमदिरसीति लिङ्गेनावयवरूपाश्मामि. धानेन शम्यायां शास्त्रान्तरप्राप्तायां मन्त्रो मा भूदितिज्ञानार्थम् ।

कुटरुरसि मधुजिह्व इति वा कुक्कुटोऽसि मधुजिह्व इति वा ।

पूर्वेण विकल्पोऽश्मन्येवात्रापि स्पष्टलिङ्गात् ।

इषमावदोर्जमावदेति तेन दृषदुपले समाहन्ति ।

जेष्मेत्यन्त एक एव मन्त्र उत्तरादिना । तथैव बोधायनेनापि पठित एक एव । नाना- मन्त्रता यत्राभिप्रेता तत्र करोत्येव प्रयत्नान्तरमित्युक्तमेवेति । दृषदुपले इति दृषदौ समाहन्तीति च द्वितीया निर्देशादृषदृपलयोः संस्कारः । तदुक्तं भरद्वाजेन-' द्रव्यामावे कर्मनिवृत्तिथा चरौ समाहननमाप्यलेपनिनयनं च ' इति । अर्थवचनं तेनेति चेत् । उच्यते-कुटरुग्रहणमदृष्टार्थ मा भूदिति दृषदुपलयोः परस्परं च समाहननं मा भूदिति च । ब्राह्मणे हि पात्राणामेव परस्परं शब्दोत्पत्त्या भ्रातृव्यपरामव उक्तः । तथा च पात्राणां मध्ये दृपदुपले अपि तयोईषदौ च समाहन्तीति साधनान्तरं न श्रूयते तदर्थं तेनेति शाखान्तरवशादित्यर्थः । तेन द्विदृषदि सकृदुपलायामित्येव सिद्धौ पृथग्हपदुपले इति द्वितीयानिर्देशेन. संस्कार्यत्वं तयोरेवेत्युक्तम् । ब्राह्मणमपि तयोरेव शब्दस्तावक- मिति व्याख्यातं द्वितीयाश्रुतिबलात् ।

द्विर्दृषदि सकृदुपलायाम् ।

समाहन्तीत्यनुवर्तते । द्विदृपदं सकृदुपलामिति वक्तव्ये सप्तम्या निर्देश उत्तरार्थः । १२८ सत्याषाढविरचितं श्रौतसूत्र- [१प्रथमपने-

त्रिः संचारयन्नवकृत्वः संपादयति ।

दृषदुपयोरत्र सप्तम्या निर्दशेनान कर्मान्तरमध्याहर्तव्यमित्युक्तं भवति । तद्यत्र समाहन्तीत्यन्तो वाक्यार्थ एव कर्म । तथा च द्विषदि सकृदुपलायां समाहन्तीत्येत- विरम्यस्यन्नववारं संपादयति । समाहन्तीस्येतावदेवाभ्यासेन संचारयन्नवकृत्वः संपाद. यतीति । संचारयन्निति प्रागपवर्गमुदगपवर्ग वा संचारः क्रियायाः प्रदेशोत्तरे प्रदेशा- न्तरे करणेन भवति । तत्र दृषदि प्रथम मन्त्रेण द्वितीय तूष्णीमेक,व्यत्वादुपलायां सकृन्मन्त्रेणैव द्रव्यपृथक्त्वात् । एवं विरिति षट्कृत्वो मन्त्री नवकृत्वः समाहननम् ।

शम्यया वा तूष्णीꣳ शम्यामादत्ते ।

शम्यया समाहन्ति वेषमावदेतिमन्त्रेणैव । अत्र मन्त्रलिङ्गविरोधादप्राप्ते मन्त्रे तूष्णी ग्रहणं करूपान्तरे देवस्य खेत्यनेनाऽऽदानमुक्तं तन्मा भूदिति । तदाहाऽऽपस्तम्बः- 'सावित्रेण वा शम्यामादाय ' इति ।

वर्षवृद्धमसीति पुरस्तादुत्तरतो वा शूर्पमोहति ।

उलूखलमुप समीपमूहत्यानयति पुरोभाग उत्तरमागे बोलूखलमुखत्यैव संमुखम् ।

वर्षवृद्धाः स्थेति पुरोडाश्यानभिमृशति ।

गतार्थम् ।

प्रति त्वा वर्षवृद्धं वेत्त्वित्युद्वपति ।

उर्ध्वमानीय र्षे वपति पुरोडाश्याञ्छू प्रक्षिपति हस्तेन ।

परापूतꣳ रक्ष इत्ग्रुत्करे त्रिर्निष्पुनाति ।

उत्करप्रदेशस्योपरि शूर्प धृत्वेत्यर्थः । शूर्पण त्रिनिझटिनेन पुनाति शोधयति तुषा- स्तण्डुलेभ्यो निर्गमयति शूर्प एव । सकृन्मन्त्रः। भरातय इत्यन्तः ।

पराध्माता अमित्रा इति शूर्पात्तुषान्प्रध्वꣳसयति ।

शूर्पण तेनोत्करे पातयति तुषानिःसारणानामभ्यासो यावत्तुषनिर्गमनम् ।

पुरोडाशकपालं तुषैः पूरद्दित्वारक्षसां भागोऽसीत्यु- त्तरापरमवान्तरदेशमधस्तात्कृष्णाजिनस्योपवपति ।

उत्तरापरमवान्तरदेशं कृष्णाजिनस्यैवाधस्ताद्भागमुपलक्ष्य तुषानिक्षिपति कपालेनैव यावन्तो गृह्यन्ते तावत एवोत्कराद्धस्तेन गृहीत्वा कपालं तैः पूरयित्वा पूरितांस्तुषानि- त्यर्थात् । हस्तेनेति बढचब्राह्मणं चर्वर्थम् । अत्र मीमांसकैरुदाहृतं वाक्यं पुरोडाशक: पालेन तुषानुपवपतीति । अत्राविशेषेण सर्वतुषप्रतिपत्तिरुक्ता । तदनुसारेण चेत्पूरयित्वा पूरयित्वेत्यभ्यासो यावतुषसमाप्ति सकृन्मन्त्र इति ज्ञेयम् । ...S५० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । १२९

नान्वीक्षते।

उपवापसमये परं च यावत्कृष्णाजिनं निर्गमयति ।

अवबाडꣳ रक्ष इत्यवबाधते ।

हस्तेनावष्टभ्योप्ततुपदेशं बाधते मावनैव रक्षसां बाधां भावयेदित्यर्थः ।

अप उपस्पृश्य ।

श्रौतमुदकस्पर्शनम्।

अभ्युक्ष्य कपालं निदधाति ।

अद्भिरभ्युक्ष्य यथास्थान स्थापयति ।

वायुर्व इति विविनक्ति ।

विविनक्तु मन्त्रान्तः । विवेचयति अनवहतान्त्रीहीस्तण्डुलांश्च ।

देवो व इति पात्र्यां तण्डुलान्प्रस्कन्दयति ।। १७ ।।

प्रक्षिपतीति पाव्यां संवपनार्थायाम् । प्रतिगृह्णात्वित्यन्तः । अत्र सामर्थ्यादनवह- सान्त्रीहीनप्यवहत्य तूष्णीं रूपा(तुषा)निर्गमयति । तण्डुलान्पाव्यां स्कन्दयित्वा सतः प्रेषः ।

त्रिष्फली कर्तवा इति संप्रेष्यत्त्यत्र वाचं विसृजते ।

नात्र त्रिरवघाताम्याप्तो विधीयते किं तु यथार्थोऽवघातसमुदाय एकं फलीकरण. मेवं त्रिस्त्रीणि फलीकरणानि । तेषां त्रयाणां प्रत्येकं पृथक्पृथकर्ताति(रो) हविष्कृदे. हीत्यनेन संस्कर्तृत्वमात्रविवक्षयैकत्वेनैवाऽऽहूना अपि । कर्तवा इत्यययं कुरुते- स्यस्मिन्नर्थे व्याख्येयम् । ततो दृष्टार्थमाह्वान स्यात् । फैलं विशरणं विसर्गत(स्त)ण्डु- लानां कोशलक्षणत्वगपसारणं. त(य)त्फलं तत्कर्तवा इति प्रैषार्थः। अभूततद्भावे चिर्दीर्घः । त्रिष्फलीकरणं त्रिवार तण्डुलानामेव कणिकाकोशेभ्यः पृथक्करणेन शुद्धताकरणम् । अत्रैव वाचं विसृजते यदुक्तं हविष्कृता वाचं विसृजत इति तस्यार्थोऽत्र वाचं विमृ. जत इति न तु हविष्कृदाह्वानात्पूर्वम् । कात्यायनेनोक्तमनन्तरं वाऽनन्तरमेव वैखान. तु सादिमिरप्युक्तं तथा मा भूदिति वक्तुमत्रेत्युक्तम् । अयमाशयः- -हविष्कृतेति हवि. कृदेहीति तस्य न शब्दपदार्थको निर्देशोऽपि त्वयंपदार्थकस्तत्र शब्दो लक्षणीयस्तेन प स्वोच्चारणमुच्चारणेन च कालस्तत्र वाग्विर्गविधानमतो वरं हविष्कृताऽर्थेन हविः, संस्कारं कुर्वता कतुं प्रवृत्तेन त्रिष्फली करणेन हविर्भवति तत्कव हविष्कृदित्युच्यते । सत्र क्रियाऽप्युपाधित्वेन वाच्या तया च काल लक्षणेति न लक्षणापरम्परेति । ततस्तु तस्मिन्सति वाग्विसर्गो युक्त इति । १ क्र. ग. च. छ. टे. ठ. ङ, कर्तव्यानिह । २ क. ग. . . फली करणं । न [प्रथम - सत्यापाठविरचितं श्रौतसूत्र-

यजमानस्य पत्न्यवहन्ति यो वा कश्चन तद्दास्यपत्नी स्यात्साऽपि कतिपयकृत्वोऽ- वहत्यान्यस्मै प्रयच्छेत्सोऽत ऊर्ध्वमवहन्ति ।

अत्र द्वौ प्रेष्यौ दर्शयत्युत्तरसूत्र एकं, 'पूर्वयोस्तावस्फलीकरणप्रकार व्यक्तिनिय- ममनेनाऽऽह । तत्र पत्नी यो वा कश्चन तदासीति त्रयं विकल्पेनकः कर्ता । अन्यस्मा इत्यनेनोक्त आनोनो द्वितीयः । यजमानपत्न्या एवं प्रकृतत्वाद्यजमानग्रहणं यजमानस्य पत्न्यवहननाय वक्ष्यमाणा दास्यपि प्रकृतस्य यजमानस्यैवेति प्रदर्शनार्थम् । विकरूपार्थों- ऽपिशब्दः । दासी प्रसिद्धा । कीदृशी, या पत्नी न भवति या तु वर्णत्रयोत्पन्ना स्माता- मिसाक्षिक पत्नीत्वेनाङ्गीकृता पश्चाद्दास्यं प्राप्ता ताहशी न भवति पत्नीत्वयोग्या वा न भवति शूद्रजात्युत्पनेति यावत् । पत्युनों यज्ञसंयोग इति पाणिनिस्मरणान शूद- नाया यज्ञसंयोगोऽस्ति । तस्मात्पत्नीत्वानहीं शूद्रप्रजैव । तेषां प्रथमावहनने विकल्पेन प्राप्तानां कतिपयकृत्वोऽवहननं नियम्यते नातितरामिति द्वितीयावहननेन पूर्णीमावो मा भूदिति तेषां मध्येऽन्यतरेण समुचितेनाग्नीधाऽवहननं द्वितीयं तत्तु यावत्सुफलीकृता भवन्ति तावत्कार्यमिति वक्तुं सोऽत ऊर्ध्वमवहन्तीत्युक्तम् । आवर्यवसंज्ञाया अत्य- न्ताबाधामन्यशब्देनामोधी ग्रहणं तस्याप्यध्वर्युशब्देन सोमे व्यवहारस्य वक्ष्यमाण- त्वात् । एवं फीकरणद्वये जाते तृतीयं फलीकरणमाह त्रिष्फली कर्तवा इति । संप्रे. प्याऽत्र हविष्कृदेहीत्यनेन पत्नी । सैव प्रेष्या तस्या एव पस्नी त्रिष्फली करोतीति विधा. स्यमानत्वात् । कर्तवै कुरु फलीकरणं तण्डलेभ्यः कणानां वियोगकरणम् ।

देवेभ्यः शुन्धध्वं देवेभ्यः शुम्भध्वं देवेभ्यः शुध्यध्वमिति पत्नी त्रिष्फली करोति सुफलीकृतान् ।

एवमवहननलक्षणफलीकरणद्वयेन सुफलीकृतांस्तण्डुलान् । पत्नीफलोकरणमिवं, तत्र प्रैषार्थे सिद्धे पुननिरिति धर्ममात्रार्थ वचनं, मन्त्रस्य सकलस्यापि त्रिः कृत्वा फलीकरणं साध्य, तन्मन्त्रेण सकृत्, द्विस्तूष्णी, तदवघातत्रयं चैकमेव फलीकरणं, पूर्वाभ्यां सह त्रीणि फलीकरणानीति निर्णयः । पत्न्यामनालम्भुकायां तु स्वयमध्वर्यु- स्तृतीयमवहननं समन्त्रं करोति।

निदधाति फलीकरणान् ।

विविक्तीकृतान्कलीकरणान् । कृत्यल्युटो बहुलमिति कर्मणि ल्युट्नत्ययः । अति- 'रिक्ताः फलीकरणाः' इति ब्राह्मणम् । अतिरिक्तास्तण्डुलेम्यः पृथकृतास्तानिदधाति पात्रान्तरे स्थापयति प्रज्ञातानित्यर्थः । 4 क ख. ग. छ. ट.ट.इ. । न ते । २ क, ख, च, छ, ठ, ड. "प्रेष्यत्यत्रा ग. 'प्रेष्येत्यत्र । ५५०पटल:] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

प्रक्षाल्य तण्डुलान् ।

शूर्पस्थास्तण्डुलानुदकेन गतमलान्कृत्वेत्यर्थः ।

त्रिष्फलीक्रियमाणानां यो न्यङ्गो अवशिष्यते । रक्षसां भागधेयमापस्तत्प्रवहतादितः स्वाहेत्यन्तर्वेदि प्रक्षालनं निनयति ।

प्रक्षाल्यन्तेऽनेनोदकेन तन्निनपति प्रक्षिपति वेदिप्रदेशे शूर्पे प्रक्षालितानामुदकं पात्रान्तरे गृहीत्वा तन्निनयति । रक्षोभ्य इदम् । उभयोरुदकस्पर्शनं स्मृतिसिद्धमत्र न श्रौतं, तस्य तुषेष्वेव विधानादप उपस्पृशति मेध्यत्वायेति ब्राह्मणेन ।

व्याख्यातः कृष्णाजिनकल्पः ।

अवहननार्थमुक्तः कृष्णाजिनस्याऽऽदानादिविधिस्तेनाऽऽस्तरणान्तं पुनरपि कुर्यादि- त्यर्थः । कालदेशपृथक्त्वामावेऽपि प्रयोजनपृथक्त्वादावृत्तिरिति भावः ।

दिवः स्कम्भनिरसीति कृष्णाजिन उदीचीनकुम्बाꣳ शम्यां निदधाति ।

कृष्णाजिनमनुत्सृजन्नेवादित्यास्त्वग्वेत्त्वित्यन्तः । तत्र कृष्णाजिनस्य मध्य उदीचीनं कुम्बमूर्ध्वमागो यस्याः सा, युगविले शम्या यदा प्रवेश्यते तत्र यदुवं स्थूलमग्र स्थाप्यते यथा बिलादधो न पतति स स्थूलभागं (गः) कुम्बमुदगग्रां शम्यां निधायेत्यर्थः ।

धिषणाऽसि पर्वत्येति तस्यां दृषदमधिवर्तयति ।

तस्यां शम्यायां प्रतिष्ठापयति । प्रति त्वा दिवः स्कम्भनिस्विति मन्त्रान्तः।

पश्चार्धेनाभिनिदधाति ।

दृषदः पश्चिमेनार्धमागेन शम्यां छादयति ।

धिषणाऽसि पार्वतेयीति दृषद्युपलाम् ।

अधिवर्तयतीत्यनुवर्तते । पर्वतित्त्वित्यन्तः।

अꣳशवः स्थ मधुमन्त इति तण्डुलानवेक्षते ।

भवनत ईक्षते शूर्पस्थितान् ।

देवस्य त्वेति दृषदि तण्डुलानधिवपति ।

अधिवपामीति मन्त्रान्तः ।

त्रिर्यजुषा तूष्णीं चतुर्थम् ।

गतार्थम् ।

प्राणाय त्वाऽपानाय त्वा व्यानाय त्वेति पिनष्टि ।

सर्वमन्त्रपाठो विकल्पनिराकरणार्थः । सकृन्मत्रस्ततो यथार्थ पिनष्टि ।

. १३३ सत्यापाठविरचितं श्रौतसूत्र- [१प्रथमप्रश्ने

अपि वा प्राणाय त्वेति प्राची प्रोहत्यपानाय त्वेति प्रतीचीं व्यानाय त्वेति मध्यदेशे व्यवधारयति ।

प्राचीमुपलामीपन्नयति । तथैव प्रतीची मध्यदेशे दृषदः स्थितां करोति तृतीयन मण।

दीर्घामन्विति प्राचीमन्ततः ।

धामित्यन्तः । मध्यदेशात्प्राचीमुपला प्रोहतीति योग्यत्वाद्विप्रकृष्टमप्यनुकृष्यते ।

यथामुखमत ऊर्ध्वꣳ संततं पिनष्टि ।

पूर्वोक्तनियमामावेनैवातः परं मध्ये त्वविरमन् ।

देवो व इति कृष्णाजिने पिष्टानि प्रस्कन्दयति ।

पातयति दृषदः सकाशादुपलयैवेति वक्तुं प्रस्कन्दयतीत्युक्तम् । गृह्णात्विति मन्त्रान्तः।

अदब्धेन वश्चक्षुषाऽवेक्ष इत्यवेक्षते ।

अवनम्येक्षते पिष्टानि कृष्णाजिनस्थानि यानि प्रस्कन्दितानि ।

अव्यवकिरन्ती पिꣳषाणूनि कुरुतादिति संप्रेष्यति ।

असंवपन्तीत्यनेन विकल्पते मनः। प्रेष्यामाइ-

पत्नी पिनष्टि दासी वा ।

'उतार्थम् ।

सैतत्सर्वं करोति ।

यत्प्रेषेणोक्तं विशिष्टमव्यवकिरन्तीत्यादि तदृष्टार्थ प्रेषितम् । पिष्टानि पदः सकाशात्कृष्णाजिनाद्वा न व्यवकिरन्ती बहिविमनापादयन्ती तथा पिष्टानि सूक्ष्माणि कुर्विति यदुक्तं तत्सर्वं कुर्यात् । अनालम्भुकत्वादिना तयोरमावे प्रैषामावेऽप्यनोदेव वा कुर्यादेवेति नियम्यते । अध्वयोस्तस्मिन्काले कपालोपधाने त्याप्तत्वात् । प्रैपामावो लिङ्गविरोधात्प्रकृतावनूहांच।

अत्र मदन्तीरधिश्रयति ।। १८ ।।

इति हिरण्यकेशिसूत्रे प्रथमप्रश्ने पञ्चमः पटलः ।। ५

मदन्तीरपोऽधिश्रयति गार्हपत्य इति वैरवानसोक्तर्हिपत्ये मदन्तीरपः। संस्कार- निमित्तोऽयं शब्दः । तथाऽधिश्रयणेन संस्कारे सत्यनन्तरं भविष्यत्संज्ञया व्यवहरति । $ १. स. गच, विस्थापय क. स.ग. च. तत्सर्वे । १३३ १५०पटल:]:: महादेवकृतवैजयन्तीव्याख्यासमेतम् । प्रणीतामिः संयोतीति वचनमापस्तम्बे दृष्टमिति ताभ्य आनीय मदन्तीरधिश्रयतीति यदुच्यते सोऽर्थोऽस्मत्सूत्र एव स्फुटो भविष्यति । अत्र काले कल्पान्तरे तु कपालो- पधानानन्तरमधिश्रयणं दृष्टं तन्मा भूदित्यत्रेत्युक्तम् । अत्राग्नावधिश्रयणं यत्र हविः- श्रपणं तत्रैवेत्येके। इति सत्यापाढहिरण्यकेशिसूत्रव्याख्यायां प्रयोगवैजयन्त्यां महादेव- कृतायां प्रथमप्रश्ने पञ्चमः पटलः ॥५॥


1.6 अथ षष्ठः पटलः ।

आहवनीये गार्हपत्ये वा हवीꣳषि श्रप्यन्ते पश्चादग्नेः ।

सत्रेच्छया विकल्पः । तत्र वक्ष्यमाणं कपालोपधान कार्यम् । श्रप्यन्ते हवींषीति , बहुवचने श्रुत्यनुसारेण पर्वद्वयपुरोडाशापेक्षे । सानाय्यं तु गार्हपत्य एव वचनात् । अनेरायतनस्य पाश्चात्येऽर्धभागे श्रप्यन्त इति पूर्वेणान्वयः।

यथोक्तमुपवेषमादत्ते ।

धृष्टिरसीति पूर्वमुक्तं तत्स्मारयति यथेति । कालपृथक्त्वेन क्रियाभ्यासमन्त्रावृ. त्तिरे(त्ती ए)कद्रव्येऽपि दर्शितवान् । संनयतः प्रातरेख विकल्पेनाऽऽदाने मन्त्रान्तरमाह-

अभिहतꣳ रक्षो रक्षसः पाणिं दहाहिरसि बुध्निय इति वा तेन प्रत्यञ्चावङ्गारौ निर्वर्तयति।

तेनोपवेषेणानेः सकाशादायतन एव द्वावङ्गारौ पृथक्करोति । अर्थसिद्धे तेनेति तेनैवाङ्गारकृत्यं न तु सव्याङ्गुल्या कात्यायनोक्तया ।

अपाग्न इत्यन्यतरमुत्तरापरमवान्तरदेशं निरस्याप उपस्पृश्य ।

क्रव्यादर सेधेत्यन्तः । दक्षिणमङ्गारमिति वैखानसः । आयतनाबहिर्वायव्यदिशि निरस्य श्रौतमुपस्पर्शनम् ।

आ देवयजं वहेत्यवशिष्टमवस्थाप्य ।

यत्रं प्रदेशे कपालमुपधास्यति तत्रैव स्थापयित्वा । मन्त्रे बहुपदग्रहणेन मन्त्र- समाप्तिर्शिता । निर्दग्धमिति शाखान्तरीयस्य च ध्रुवमसीत्यनन्तरमपठितस्य विनियोग इति भ्रमः स्यात्तत आ देवयनमित्यस्य पाठानुसारेणारातय इत्यन्तः स्याद्धृवमसीत्यु- त्तरादिना स मा भूदिति अर्थक्रमेण पाठक्रमविच्छेदादित्यर्थः । १३४ सत्याषाढविरचितं मौतसूत्र- : [१प्रथमप्रश्न

ध्रुवमसीति तस्मिन्कपालमुपदधाति ।

अबस्थापितेऽङ्गार एक कपालं स्थापयति । पहेति मन्त्रान्तः ।

निर्दग्धमिति तस्मिन्नङ्गारमधिवर्तयति ।

उपहिते कपालेऽन्यम् ।

धर्त्रमसीति तस्मात्पूर्वम् ।

अत्रैवमित्यनभिधानादुपदधातीत्येवाऽऽकृष्यते न पूर्वस्य धर्मान्तरमपि । अयमाशयः- एकमने कपालमुपदधातीति श्रुतेस्तस्मिन्कपालमुपदधातीत्यत्र सूत्र एकवचन कपालमित्यु.. द्देश्यगतमपि विवक्षितं, तेन तस्मिन्नेकस्मिन्नेव प्रथममेकमेव कपालमुपदधातीति, तथा तस्मिन्नगारमधिवर्तयतीत्यत्रापि तस्मिन्नित्येकवचन विवक्षितं, तस्मिन्नेकस्मिन्नेव तस्मा. प्रथमात्पूर्व द्वितीयमुपदधाति ।

धरुणमसीति तस्मात्पूर्वम् ।

द्वितीयात् ।

अष्टाकपालस्य द्वे मध्ययाद्दक्षिणे त्रीण्युत्तराणि ।

स्पष्टम् ।

तयोर्धर्मासीति दक्षिणपूर्व मरुताꣳ शर्ध इति दक्षिणापरम् ।

तयोर्दक्षिणयोदक्षिणपूर्वमाग्नेयदिग्मागे दक्षिणापरं निप्रतिदिग्मागे ।

यवमस्याशा दृꣳह रयिं दृꣳह पोषं दृꣳह सजातानस्मै यजमानस्य पर्यूहेत्युत्तरापरम्।

वायव्ये।

विश्वाभ्यस्त्वाऽऽशाभ्योऽच्छिद्रꣳ सजातवनस्याया उपदधामीत्युत्तरपूर्वम् ।

ईशान्ये । इदं द्वयमुत्तरेषां त्रयाणां व्यवस्थार्थम् । मध्यमस्य तृतीयस्याऽऽह-

चिदसीत्यवशिष्टमुत्तरतः ।

मध्यमात् । एतानि कपालान्यष्टावाग्नेयस्य पुरोडाशस्याङ्गस्था विहितानि । तथा- यं संख्याऽप्यानेयार्थी कपालानि च. न तु कपालार्थी गुणानां तु परार्थत्वादसंबन्ध तु इति न्यायात् । तेन विकृती यत्राऽऽग्नेयविकारा एकादशद्वादशकमालास्तत्राइडो- योपधानधर्मेणैवोप्रधान न तु संख्यासाम्येनानीपोमायैकादशकपालवदैन्द्रामद्वादशा- कपालवद्वा। वायव्ये। १ 9 I 'पटलः महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

एकादशकपालस्य यथाऽष्टाकपालस्यैवं त्रीण्युपदधाति ।

अष्टाकपालयोगादुत्तरत एव । तदने स्पष्टयिष्यति। उपवेषादानं सर्वार्थमेव कृतम् । पूर्व मन्त्रेण द्रव्यपृथक्त्वार्थपृथक्त्वयोरभावात्सर्वकपालीपधानार्थत्वस्य, बुद्धिस्थत्वान्मध्ये त्यक्तस्य पुनरादाने प्राप्त मन्त्रस्यानावृत्तिः। अनारनिर्वर्तनाद्यावर्तते तस्योत्तरकपालयोगेऽ. नुपकारकत्वात् । एकादशकपाले द्वादशकपाले वैवमिति पूर्वातिदेशात्प्रथमस्य प्रथमत्वेन प्रथमधर्मप्राप्तः । नचाङ्गारनिरसनमदृष्टार्थ तन्त्रमिति वाच्यम् । द्वावङ्गारौ हि निव( 4 ). तनेन संहतौ संस्कृतौ तयोरेकस्य त्यागो वियोगकरणेन भवति । यस्माद्वियुक्तः सोऽस्य संस्कारं जनयति । ततस्तस्य त्यागः प्रतिपत्तिद्वितीयानिर्देशात् । दृष्टे संभवत्यदृष्टक पना न न्याय्येत्यावर्तते । तथैव ब्राह्मणे दृश्यते-'अपानेऽग्निमामादं जहि निष्क्रयादर सेधाऽऽ देवयजे वहेत्याह । य एवाऽऽमात्कव्यात् । तमपहत्य । मेध्येऽग्नौ कपालमुपद धाति । निर्दग्धर रक्षो निर्दम्वा अरातय इत्याह । रक्षारस्येव निर्दहति' इति । स्थित- स्याङ्गारस्य मेध्यत्वं संस्कारोऽन्याङ्गारनिरसनेन श्रूयते । तथा तस्य संस्कारस्य प्रतिप. त्याऽरुन रक्षोनिर्दहनमेव जातमिति यथाऽष्टाकपालस्येत्यनेन दर्शितम् । अत्रैवमि- त्यन्तमेकवाक्यं त्रीण्युपदधातीत्यपरं, तत्र यानीति पदमध्याहर्तव्यं तेषामित्यग्रिम सूत्रे दर्शनात् । एवं चैवमित्यतिदेशस्त्रीणीत्यनेन न संबध्यते कित्येकादशकपालस्येत्यने. नैव । अत्र पूर्वतनमुपदधातीत्यनुवर्तनीयम् । तत्र विशेषमाह-

तेषां वर्षिष्ठं मध्यमं द्वे मध्यमात्पूर्वे ।

त्रिषु यन्मध्यमं तर्षिष्ठं किंचिद्विस्तीर्ण तस्मान्मध्यन्मात्पूर्वमष्टाकपाल एकमेवात्र तु हूयम् । भत्रान्तिमे मन्त्रमाह-

तयोश्चिदसीति पूर्वम् ।

उपदधातीत्यनुकर्षः ।

यथोक्तमवान्तरदेशेषु ।

आग्नेयनैतवायव्येशानदिग्भागेषु पूर्ववत् ।

चितः स्थेत्यवशिष्टान्युत्तरतः ।

पहेत्यन्तः । उत्तरतो मध्यमात्प्राङ्न्यायम् । अत्र मन्त्रे बहुवचनेऽपि नैकेनैव मन्त्रेण त्रयाणामुपधानम् । एकादशकपालस्येत्यवान्तरसंख्यया द्रव्यपृथक्त्वान्मन्त्रावृत्तिः । बहुवचनमितरेतरसापेक्षमुखे उपदधामीति द्विवचनवत् । । १क.ब. ग. छ. ट. ट. ड. निवर्त' । २ क. ख. ग. च. छ. ट, ठ. ४. स्थेति सर्वाग्यव ३ क. ग. च छ. ट. ठ. ड. शिष्टमुत्त । । सत्यापाढविरचितं श्रौतसूत्र- [प्रथमप्रमे- ऐन्द्रामस्योपधानमाह-

द्वादशकपालस्य यथैकादशकपालस्यैवम् ।

द्वादशमपि कपालं पितः स्मेलनेनैव ।

भृगूणामङ्गिरसां तपसा तप्यध्वमिति वेदेन कपालेष्वङ्गारानध्यूहति ।

सर्वमनपाची मन्त्रसमाप्त्यर्थस्तेम यानि धर्म इति मन्त्रः पृथगेवोत्कृष्यते पाठात् । कपालविमोचने पिनियोक्ष्यमाणस्वात् । अन्यथाऽनेन सह पूर्व एक एव मन्त्रः स्यात् । बहुवचनं तप्यध्वमिति व्यक्त दर्शयितुं, तेन सर्वाण्यपि कपालान्यनेकयोगयुक्तानि सक- देव मन्त्रेण संस्कृर्यादित्युक्तम् । अझारग्रहण समर्थेन केनचित्पात्रेण गृहीत्वा तान्वे. देन कपालेषु यथाऽधितिधन्ति तथोहति प्रसारयतीति यावत् । अविदहन्वेदम् । तेनेतः पर योगप्रयुक्ता प्रतियोग मन्त्रावृत्तिः कार्येतः पूर्व तु नाऽऽवृत्तिः कपालत्योपाधिना द्रव्यपृथक्त्वाभावादिति । आचार्येणापि तथैवाभिप्रेत्य कपालेष्वध्यूहत्तीत्यन्तै कपालशब्द- प्रयोगेण व्यवहृतं दक्षिणमाकपालयोगादपोशोत्तरस्मादपोहंतीति योगशब्दयुक्तं व्यवहृतमतः परं दृश्यतेऽनेन तेषामितरेतरसंयोगविशिष्टानामेव देशवेन प्रधादव्यत्वा- व्यपृथक्त्वेऽम्यावर्तत इति न्यायाप्रतियोग मन्त्रावृत्तिरिति मूत्रकारमतं तदपि ब्राझ. णानुसारेण । त्रीण्यो कपालान्युपदधातीत्यादिनोपक्रम्याष्टाकपालपर्यन्तमुक्त्वा पुनरष्टौ नव दशैकादश द्वादशेति संख्ययैव विंशतिः पूरिता । तत्रावान्तरभेदाप्रतीतेरुपसंहारेऽपि देवतानामेनानि तपसा तपतीति बहुवचननैनानीत्यनेन चावान्तरभेदाभावो(व) दर्श- यितुं वदिष्यत्यनन्तरमेवमनुपूर्व कर्माणि करोतीति । ननु कुत इयं व्यवस्थेति चेत् । उच्यते-यावरपुरोडाशयो व्यं संसृष्टं तावत्पूरीडाशययोईन्यपृथक्त्वाभावात्तदहाभूते. ध्वपि कपालेषु योगयुक्त कार्य नो विभागेन नास्ति पिण्डविभागे प्रतिपिण्डैस्यैवा झवा- तत्प्रयुक्ता मन्त्रावृत्तिरित्याचार्याभिप्रायः । अत्र प्रातहिः । उपहितेषु कपालेषु प्रात. दोहमित्युक्तत्वायाख्यातस्तत्रैव ।

पात्रीं निष्टप्योपवातायाम् ।

निष्टपन बिलभागे प्रसिद्ध्या श्रपणानावेव निष्ट पनेनोपवातायामुपतप्तायाम् । सम्यक्तता कृत्येति व्याचक्षते तचिन्त्यम् । उपवातशब्दस्य शीतलीकरणे रूढत्वात् । भत्र प्रायोगिकाः पार्टी गार्हपत्येऽधिश्रित्य तस्यां समोप्य मर्नयन्ति । तदन्याश्यं विधा. नाभावांदनेने पाकस्य । अन्तर्वेधपरेण वा गाई पत्यमवस्थितायामिति कात्यायनोक्त- वास्माकं व्यवस्थया भपणानेस्तथा संभवात् । १ ख, छ, ट, नौ । २ ख, भयोगस्यै। C ६५० पटला ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । १३७

देवस्य त्वेति तिरःपवित्रं कृष्णाजिनात्पिष्टानि संवपति ।

संवपामीत्यन्तेन न देवतानिर्देशो यथादेवतमित्यविधानात् । पवित्र तिर्यगवधाय तस्मां पिष्टानि कृष्णाजिनादेव निक्षिपति ।

त्रिर्यजुषा तूष्णीं चतुर्थम् ।

देवस्य स्वेति मन्त्रोऽधिवपामीत्यन्तः संहितायां पठितः । स एवानुषक्तोऽत्र संव- पामीत्येतच्छेषत्वेन ब्राह्मणेन व्याख्यातः सानुषङ्गस्य संहितापठितत्वं मत्वाऽत्र प्रतीकेनो- पात्त उभयत्रापि देवतानिर्देशाभावेनैव पाठोऽतो यथादेवतमिति नोक्तम् । आपस्तम्बेन तु शाखान्तरीयमेव दृष्ट्वा यथादेवतमित्युक्तं तन्नेष्टमस्माकम् । यद्यपि ब्राह्मणे यथादे. वतमिति दृश्यते सा स्तुतिर्न विधिः । किं तु (कुतः ) प्रथमस्याग्नेमन्त्रब्राह्मणयोरनि. देशात् । यथाऽग्नये जुष्टमित्यत्र निर्देशस्तन्निर्दशे स एवमेवानुपूर्वमिति विधिः ।

संवपन्वाचं यच्छत्यभिवासयन्विसृजते ।

भामना पुरोडाशमभिवासयन् । अत्र भस्मनाऽध्यूहतीति वक्ष्यति तथाऽपि संहिता. ब्राह्मणयोर्वेदेनाभिवास यतीति प्रयोगादभिवाप्सयन्नित्युक्तम् ।

हर्योस्त्वा वाराभ्यामुत्पुनामीत्युदगग्राभ्यां पवित्राभ्यां पिष्टानि त्रिरुत्पुनाति ।

सन्मन्त्रः।

देवो व इति वा ।

इदं पच्छ इत्यायुक्तप्रकारेण ।

स्रुवेण प्रणीतानामादाय वेदेनोपयम्य समाप इति पिष्टेष्वानयति ।

अत्र प्रणीताभिर्हवी षि संयोतीति भरद्वाजेनोक्त्वाऽप आनयतीत्याधुक्तमतो हवि. पाकः प्रणीताभिरिति गम्यते । मीमांसका अपि प्रणीतानां दृष्टार्थत्वं वक्तुमिदमेव वाक्यं श्रुतिमुदाहरन्ति । प्रणीतानामिति प्रणीतानां संबन्धिनीरप इति संबन्धषष्ठयाऽप इति कर्मार्थप्राप्तं यथाविहितं धर्ममात्रमेतत् । सृज्यध्वमिति मन्त्रान्तः ।

यदि प्रणीता न विद्येरन्या एव काश्चापो यजुषोत्पूय ताभिः संनयेदित्यापदर्थवादः ।

यजुषा देवो व इति आपदर्थवादः । प्रणीताभिर्विकल्पे प्राप्त आपदि प्रणीतास्वप्रणी- सामु यथोपपन्नसहिते प्रधानमात्रेऽनुष्ठीयमानेऽपि तत्रापयर्थस्य वादोऽर्थस्य प्राप्तिवि. धिन प्रणीताभिर्विकल्प इत्यर्थः ।

अद्भ्यः परिप्रजाताः स्थेति तप्ता आनयति ।

पिष्टेषु तप्ता मदन्तीरित्यर्थः, आनयति । १८ १३८ सत्यापाढविरचितं श्रौतसूत्रं- [१प्रथमप्रश्ने-

समद्भिः पृच्यध्वमिति प्रदक्षिणमनुपरिप्लावयति ।

प्रदक्षिणमिति च पारिभाषिकमेवोक्तम् । समन्तत्वव्याख्यानाय परितः समन्तात्परितो बहिरेव स्यात्तदर्थमनुव्याप्येत्युक्तम् । समन्तालावयति यथा पिष्टान्याप्लवन्ति तथा. करोति मन्त्रलिङ्गादद्भिः पृच्यध्वमिति विपरिणतं तप्ता इति पदं तृतीयान्तं . तप्ताभिः सामर्थेन पिष्टानि कर्माणि । तदुक्तं भरद्वाजेन-तप्ताभिः पिष्ठानीति । सूत्रे संनयेदि- त्यतत्कर्मतया सप्तम्यन्तस्य द्वितीयान्ततया विपरिणामात्तप्ताः पिष्टान्यानयतीति द्विकर्म- कत्वेन संबन्धात्प्रकृते तान्येव ।।

जनयत्यै त्वा संयौमीति संयौति जनयीते त्वेति वा ।

संयौति मिश्री करोति पिष्टान्यपश्च मेक्षणेनाऽऽलोडयति, थथा पिष्टानां पाको मवे- प्रणीतामिर्हवीशपि सयौतीति श्रुतेः । अत एव मदन्तीरधिश्रयति प्रणीता एव, प्रणी- तानां श्रपणार्थत्वं यत्र पयानपणार्थे श्रूयत इति सूत्रे स्फुटी करिष्यतेऽनोऽत्र प्रणीय तप्ता मदन्तीरानयति ।

मखस्य शिरोऽसीति पिण्डं करोति ।

स्पष्टम् ।

यथाभागं व्यावर्तेथामिति विभजति ।। १९ ।।

पिण्डमित्यनुकर्षः । द्वेधा करोति । विभागे मन्त्रान्तरमाह-

देवो वाꣳ सविता विभजतु भगो वाꣳ सविता विभजतु पूषा वाꣳ सविता विभजतु वायुर्वाꣳ सविता विभजतु जनयत्यै त्वा विभजामीति वा ।

अत्र न्यायमते पञ्चैते मन्त्रास्तष्टमाचार्यस्येति गम्यतेऽन्त एवेतिकरणात् । एक- स्मिन्पुरोडाशेऽर्थलुप्तो विभागः ।

समौ पिण्डौ कृत्वेदमग्नय इत्याग्नेयमभिमृशतीदममुष्मा इति यथादेवतमुत्तरम् ।

समप्रमाणौ पिण्डौ कृत्वाऽऽदौ समावेव च्छित्वा पश्चात्तथैव मागी पिण्डरूपी कृत्वेति त्वाप्रत्ययेनेदमुक्तं यत्र विभागस्तत्रैवाभिमृशति केवलविभागाभावान्नामिमर्शनेन निर्देशो व्यावाभावात् । जनयत्यै त्वा संयोमीति बहुपाठेन मन्त्रसमाप्तिरुक्ता । तेना- ग्नये त्वाऽग्नीषोमाभ्यामिति न पूर्वमन्त्रशेपोऽपि तु मन्त्रान्तरं, तदिदममय इत्यनेन समानार्थ विकल्पते । उक्त बौधायनेन- अग्नये स्वाऽग्नीषोमाभ्यामिति । तत्रापि समानो मन्त्रो दर्शितोऽमुष्मा अमुष्मा इति । तेन दर्शनये चन्द्राग्निभ्यामिति नेयम् । १० पटलः]. महादेवकृतवैजयन्तीव्याख्यासमेतम् । .१३९

इदमहꣳ सेनाया अभीत्वर्यै मुखमपोहामीति वेदेन दक्षिणस्मात्कपालयोगादङ्गारानपोह्योत्तरस्मादपाहेति ।

कपालानां युक्तानामेककार्यसमवायिनां समुदायो योगस्तस्माद्दक्षिणस्मादादावपो- ह्योत्तरस्मात्पृथङ्मन्त्रेणापोहति निःसारयति । एतावत्पर्यन्तं तन्त्रेण कपालमात्रत्वो- पाधौ संस्कारानुक्त्वा भस्मापोहनप्रभृति दक्षिणोत्तरयोगत्वोपाधिना यत्कार्य पृथनिर्दिष्टं तत्रेदं मन्त्रलिङ्गमपि कारणं यन्मन्त्र सेना नानाव्यक्तिसमुदाय एकप्रयोजनको दृष्टस्त- सस्तु मन्त्रवर्णेनैव समुदायस्य प्रकाश्यत्वादक्षिणोत्तरविभागौ विना तदसिद्धराद्विभा- गोऽपि ज्ञात इति मत्वा तेनेदमुक्तं दक्षिणस्मादित्यादि ।

एवमनुपूर्वाण्येषां कर्माणि क्रियन्ते ।

यथा दक्षिणस्मात्कपालयोगादपोह्योत्तरस्मात्कपालयोगादपोहतीति देशभेदाव्यमेदे समश्रकर्मावृत्त्याऽऽनुपूर्वीक्रम उक्त एवं दक्षिणोत्तरदेशभेदभिन्नानां हविषामपि समन्त्रकर्मावृत्त्या क्रमेण कर्माणि क्रियन्ते न तु स्वेच्छया । वर्तमानतानिर्देशेन नेह विधिरपि तु न्यायप्राप्तमेवेत्युक्तम् । एषां पर्वद्वयसंबन्धिनां प्रकृतानां पुरोडाशानामेवेति माति तथाऽपि सांनाय्येऽप्यासादनप्रभृति दक्षिणोत्तरभावापन्नयोः शृतदनोः पृथग्द्रव्य- स्वप्रयुक्तमेव कार्य मा भेरिति यवदानं यदवदानानीति, तथाऽन्यान्यप्यग्रिमाणि कार्याणि तयोरप्यावृत्त्या दक्षिणोत्तरक्रमेण च स्युरन्यथा तन्त्रसंभव उत्पत्तिकमा वा केन निवारितौ स्याताम् । तस्मात्सर्वहविषां ग्रहणम् । एवं पदार्थानां क्रमेणैव संस्कार्यत्वमुक्तमिदानी तेषु प्रवृत्तानां सजातीयविजातीय- कर्मणामपि कि सर्वाण्यकत्र पदार्थे समाप्यान्यत्र पदार्थ समापनीयानि किंवा सर्व पदार्थेषु एकमेकमेव समाप्यैवं संदेह उभयत्वयोव्यवस्था दर्शयितुमुत्सर्गतस्तावत्पदार्थ- क्रमेणैकैककर्मण एव क्रममाहः

समानजातीयेनैकैकमनुसमेति कृत्स्नमेकैकमपवर्जयति ।

एकविधिविहितमेकप्रकारं कर्मैका कर्मव्यक्तिः समानार्थसंबन्धिनी क्रियमाणप्रकार- स्वात्समानजातीया व्यक्तिर्ननु सैव व्यक्तिर्नहि पूर्वपदार्थे कृता नष्टोत्तरत्र संबद्धा कर्तुं शक्या, तस्माद्व्यक्तिभेदे जातिरवश्य वाच्या, तस्यामभिव्यञ्जकं तु तत्तद्विधिविहि. तत्वमात्र, तेन संस्कार्येषु पदार्थेषु मध्य एकमेकमेव पदार्थमनुक्रमेण सनातीयेनकेनैव कर्मणाऽनुसमेत्यनन्तरं तथैव विजातीयेनापीति । समेति संबध्नाति । सोऽयं पदार्थानु- समय इति व्यपदिश्यते क्रमविशेषः । प्रथमप्रवृत्तं कर्म सकृच्छ्रुतसर्वपदार्थोदेशेन तस्यासमाप्तौ वाक्यार्थासमाप्तेन वाक्यान्तरविहितस्य विनातीयस्य प्राप्तिः । यद्यपि १ ट. नंतु सै। . - , १४०. सत्यापादविरचितं श्रौतसूत्रं- [१प्रथमप्रने वोद्देश्य एकत्वं श्रूयेत तथाऽपि न विवक्षितमित्येकस्मिन्वाक्य एव सर्वपदार्थ. संस्काराकरणे वाक्यार्थो न समाप्तः स्यात् । विजातीये मध्ये कृते तु वाक्यं पुनः पुनरावर्तनीयं स्यादिति भावः । तत्र पदार्थसमुदायापन्ने पदार्थे पुनस्तथैव संदेहः कि समुदायगतामेकैको व्यक्तिं मस्कृत्य तथैव द्वितीयामेवं क्रमोऽथ वा समुदायरूपं समाप्य पुनरन्यं तथैवेति । तत्राऽऽह-कृत्स्नमेकैकमपवर्जयति । अत्र सजातीर्थनानु. समय उक्त निर्वापे प्रथमस्यैकं मुष्टिं निरुप्य द्वितीयहविष एक तथैव द्वितीयमिति तथा कपालोपधानेऽपि प्राप्तमिदमुच्यते कृत्स्नं पदार्थमकैकमेवापवर्जयति समापयति कुतः, पदार्थासमाप्तौ पदार्थोद्देशेन विधीयमानं कर्म न समाप्तं चतुरो मुष्टीनिर्वपतीति कपालान्यष्टावुपदधातीति तत्रैको मुष्टिरेकं वा कपालं न पदार्थः पदार्थावयवः स तादर्थेन विधीयते । एकेन धर्मेणावच्छिन्नो योऽङ्गतां गत उद्देश्यतां वा स एक इत्युच्यते न तु व्यक्त्यैक्थेनैवैकत्वं, तथा चतुर्मुष्टिपरिमित एवाझं निवर्वापो निर्वपतिना परिच्छिन्न इत्येक एव पदार्थस्तस्मिन्नव्याप्तेन तत्पदाहिशेन प्रवृत्ता क्रिया समाप्तेति न बहिरङ्ग पदार्थान्तरं गच्छति, तथैकस्मिन्योग आग्नेयोऽष्टाकपाल इति नानापदार्थात्मके सर्वमेकं पदार्थ समापयतीत्यर्थः । सनातीयविनातीयकर्मणामे- कपदार्थे करणं ततस्तथैव द्वितीयपदार्थ करणं काण्डानांततिः काण्डानुसमयो न च तथाऽयम् । एतदपवादेन काण्डानुसमयमाह-

संयुक्तानि त्वेकापवर्गाणि यथाऽवदानप्रदाने ।

संयुक्तानि नियतपौर्वापर्याणि सजातीयविजातीयानि तानि कर्मण्येकस्मिन्नेव पदार्थे समाप्तियोग्यानि । अत्र पदार्थानुसमये सति पौपियवेिदकप्रमाणबाधः स्यादन्ते कृच्छ्रेत (स्न) स्यापि प्रमाणानुरोधेनाऽऽवृत्तिलक्षणो वाक्यभेदोऽङ्गीकृत इति भावः । कुतः, यतोऽवदानप्रदाने संयुक्ते । तत्र केचिच्चतुरवत्तं जुहोतोति संयुक्तस्वपापकमाहुः । तत्रावदानप्रदानयोः संयुक्तत्वेनोदाहरणत्वं न स्ववदानहोमयोरिति । कात्यायनस्तु ग्रहणसादनावदानेषु तु वचनात् । तत्सूत्रव्याख्याने च ग्रहणं -साइनान्तमवदानं च- प्रदानान्तमिति शाखान्तरीयवचनादिति व्याख्यातम् । वचनं च न सार्वत्रिकमस्ति सामर्थेनापि संयुक्तत्वदर्शनाद्वचनादित्यव्यापकं मत्वाऽयं हेतु!क्त आचार्येण किंतु तुशब्देन पूर्वन्यायासंभव एवोक्तः । तत्र च हेतुः संयुक्तानीति, केनापि प्रमाणेन संयुक्तानि तानि सर्वाण्यप्येकापवर्गाणि प्रकृते तु वचनेन संयुक्तताऽन्यत्र यथासंभवे- न ह्यकृत्वा द्विरवदानं ह्यवदानं न संभवेत् , किंतु सर्वपुरोडाशस्याऽऽग्नेयोऽष्टाकपाल १८. "तीयम' । ३८. इ. "निजाती । ३ , 'ठस्तस्या । ६ष०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । १४१ इति योगेन देवतासंबन्धश्रवणात् । शृतस्य वेद्यां स्थितस्य च वषटकारेण प्रदानसंभ- वादित्येवमवचनेनैवात्र काण्डानुसमय इति व्याख्येयं सूचितवत्सूत्रकारेण यथाऽवदानप्र. दाने इति संयुक्तत्वे सामर्थ्य सिद्धत्वमदर्शयताऽग्रिमे चोदाहरणे प्रधानसनिकर्ष इत्या- दिना दर्शनाच्च । अर्थसिद्धसंयुक्तत्व उदाहरणमाह-

उद्वपनं निष्पवनं च सर्वत्र प्रधानसंनिपाते क्रियन्ते ।

चकारेणावहननप्रस्कन्दनादि गृह्यते तदपेक्षया क्रियन्त इति बहुवचनात्सर्वत्र विकृती सर्वेषु नानाबीजेषु प्रधानसंनिकर्षे प्रधानानां संस्कार्याणां बीजानां प्रत्येकं संनिकर्षे काण्डानुसमय इति यावत् । तस्मिन्सत्येवोद्वपनादीनि क्रियन्त इत्यर्थः। संस्कार्याणां मोजानामवघातादिना संस्कारो दृष्टतण्डुलीभावप्रयोजनकस्तत्रावघातमात्रे सति प्रयोज. नासिद्धेस्तदादि पूर्वपूर्वमुत्तरोत्तरस्य करणं स तण्डुलीभावप्रयोजनं साधयेन्नियतकाण्डानु. समय एवात्र न तु सजातीयमेकमवहननं सर्वबीजेषु, तत उद्वपनायेकैकं तथैवेति भावः । एवं च पदार्थानुसमय औत्सर्गिकस्तद्वाधकोऽन्य इति सिद्धम् ।

मखस्य शिरोऽसीति दक्षिणं पिण्डमादाय घर्मोऽसि विश्वायुरिति दक्षिणे कपालयोगेऽधिश्रयति ।

दक्षिणे कपालयोगे स्थापयितुं योग्यं दक्षिणमित्युक्तत्वात् । आग्नेयमिति नोक्तं देशभेदाप्रत्यायकत्वात् । तस्माद्देशभेदप्रत्यायिकया च माविन्या संशया व्यवहृतं, तेन विभवन्त्यपि कर्माणि देशभेदेन द्रव्यपृथक्त्वात्ममन्त्राण्यावर्तन्त इति पूर्वोक्त एवमेतेषा- मित्यादिन्याये हेतुरुक्तः । तथा च पिण्डपुरोडाशशब्दाभ्यां क्रोडीकारेण कर्मविधानेs- पि द्रव्यपृथक्त्वमस्त्येव यथाऽऽज्यत्वादिना क्रोडीकृतेऽवयवपृथक्त्वम् । अधिश्रयणे वैकल्पिकं मन्त्रान्तरमाह-

घर्मघर्मे श्रयस्वेति वा ।

अनेन वाऽधिश्रयति- उक्तं विध्यन्तं हविरन्तरेऽतिदिशति-

एवमुत्तरम् ।

पिण्डमित्यनुकर्षः । शेषं पूर्ववत्समन्त्रम् ।

अतुङ्गमनपूपाकृतिमश्वशफमात्रं कूर्मस्येव प्रतिकृतिं करोति ।

पिण्डमित्यनुकृष्यते । कमठस्येवेषत्प्रतिकृति प्रतिमां करोति। तत्रापि कश्चित्कूर्मस्तुङ्गः कश्चिदपूपाकृतिरपूपवन्निम्नस्तदुभयविलक्षणो नात्युच्चो नातिनीच इत्यर्थः । वैखानसो नोच्चमनतिनचिमित्याह । अश्वशफमात्रमिति तु परितो मानम् । १ क. ख. ग. च. निकर्षे कि । २ क, ख, ग, च, छ.ट. ठ. ण. धिक्षकग. च. छ. ट. ठ. ड.र्थः । नो'। 11 १४२ सत्यापादविरचितं श्रौतसूत्रं- [१प्रथमप्रश्न- सफः पादखुरः। एवं मानकरणेनार्धात्प्रथनमुक्तं शाखान्तरे तत्रैव मन्त्रमाह-

उरु प्रथस्वेति प्रथयति ।

पिण्डमेव विस्तारयति पूर्वरूपे । प्रथतामित्यन्तः ।

सर्वाणि कपालान्यभिप्रथयति ।

प्रथयतीति पूर्वानुवादः । अश्वशफमात्रकरणेनैव । अत्र न च मुष्टिपरिमितेन सावा- पेन धान्येन पुरोडाशः क्रियते । अत्राश्वशफमात्रता त्वन्वावापपूर्त्या संपादनीया । कपालयोगोऽपि तावानेव यथा तथा कार्य किंचिदाकारं, तेन प्रथनमेवातुङ्गादिरूपेण कार्य न पृथक्कर्मान्तरम् । अत एवाऽऽस्तम्बेन व्यत्ययेन सूत्रद्वयं पठितम् ।

पात्र्यामप आनीय त्वचं गृह्णीष्वेति प्रदक्षिणमनतिक्षारयँल्लेपेनानुपरिमार्ष्टि ।

संयवनपाच्यामप आनीतिगुणप्रधानविपक्त्योरविवक्षा तप्ते पयसि दध्यानयतीति- पत्। नो चेदपामसंस्कार्याणामानयनमदृष्टार्थमेव स्यात् । तस्मादद्भिः पात्रीमाः कुर्याले. पादानार्थमित्यर्थः सिध्यति । तमाड़ लेपं गृहीत्वेत्यप्यत्राज्ञियमन्यथा लेपेनेत्यपि न संमतं स्यात् । तेन लेपेन लिम्पनेन पिण्डं सिद्धी करोति । प्रदक्षिणमिति समन्तता यक्तुम् । अतिक्षरणमङ्गानां लेपकरणेन यथा न भवति तथाऽनुपरिमाष्टोत्येवमर्थमनति - क्षारयन्नित्युक्तम् । प्रतिपिण्डं समन्त्रं पुनर्लेपग्रहणेनैव । अत्र पात्रीप्रक्षालनं विधेयमव. शिष्टलेपप्रतिपत्त्यर्थ प्रक्षालनं पाच्याः संस्कारार्थमुत्तरत्रोपयुक्ताया लिप्ताङ्गुलीप्रक्षालन- मपि तथैव कार्यमुभयप्रयोजनार्थ तयोर्लेपक्षालनयोरने प्रतिपत्तिदर्शनात् । तत्राङ्गुलिप. क्षाळनं कृत्वा निनयनमदृष्टायमेव स्यात् । तस्मात्पात्रीनिर्णेननसमभिव्याहारादपि दृष्टातैव ।

अन्तरितꣳ रक्ष इत्युल्मुकेन त्रिः पर्यग्नि करोति ।

अरातय इत्यन्तः । प्रत्येक पिण्डे मन्त्रावृत्तिः पूर्वोक्तन्यायेन । अग्निं परितोऽनिधी म्यते यस्यां क्रियायां तत्तथा । उस्मुकेन ज्वलता काष्ठेन परितः पिण्डस्याग्निज्वाला निर्धामयेदित्यर्थः । संस्कारोऽप्यदृष्टार्थः । सर्वाणि हवींषीत्यापस्तम्बवैखानसोक्तिवत्प्र. यत्नाधिक्याभावास्पिण्डमित्यनुवृत्तेश्च नास्मत्सूत्रकारास्मच्छाखामिमतम् । 'धर्मो वा एषोऽशान्तः । अर्धमासेऽर्धमासे प्रवृज्यते । यत्पुरोडाशः । इत्युपक्रम्याभ्यस्यार्थवादैः स्तुत्वा पुरोडाशमेवोपसंहरतोति ब्राह्मणविरोधाच शाखान्तरीयं नेष्टम् । मत्रान्तरमाह-

परिवाजपतिरिति वा ।

पाठामावादपि प्रतीकोपादानेनों ग्रहणम् । . ६ष०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । १४३

देवस्त्वा सविता श्रपयत्विति दर्भैरभिज्वलयति ।

अधिनाक इत्यन्तः । ज्वलद्भिर्दभैरमि उपरि वलयति ज्वालां करोति तत्पाकार्थम् । पूर्ववदेव रक्षतामपघातायेत्येव वाक्यशेषाद्धर्ममात्रं प्रतीयते तथाऽपि अपयत्विति मन्त्रलि. झाच्छूपयतीति वाक्यशेषाच दृष्टार्थता । तेन यथा श्रपणं स्यात्तथाऽभिज्वलयति ।

अग्निस्ते तनुवं माऽति धागित्युल्मुकैः परितपति ।

रक्षस्वेत्यन्तः । अनेकैरुल्मुकैः प्रतितपति प्रतितापयति । अन्तर्भूतणिनर्यः सकर्मको वा । मन्त्रः प्रतिपिण्डम् । प्रत्यभितोऽसंलग्नैस्तदभिमुखैरिति यावत् । माऽति धागने हव्य रक्षस्वेति मन्त्रलिङ्गाच्च ।

सं ब्रह्मणा पृच्यस्वेति वेदेन साङ्गारं भस्माभ्यूहति ।

पात्रेण गृहीत्वा वेदेन मस्माभिव्याप्य पिण्ड उहति प्रसारयति । प्रतितापो यथा न दहेत्तथा भस्मना साङ्गारेणाऽऽच्छादयतीत्यर्थः । एवं च दृष्टार्थता ।

ब्रह्म गृह्णीष्वेति वा ।

पूर्वेण विकल्पः ।

अविदहन्तः श्रपयतेति संप्रेष्यत्यत्र वाचं विसृजते ।

ब्राह्मणेऽविदहन्तः श्रपयतेति वाचं विसृनत इति दर्शनादयं वाग्विसर्गः प्रतिकरण: मित्यामाति, तन्न संभवति । नियमाभावो हि विसर्गस्तस्यामावरूपस्य विधातुमशक्य- स्वान्मन्त्रलिङ्गविरोधाश्च । तस्मादत्र क्रिया काचनाध्याहर्तव्या, मन्त्रलिङ्गाच प्रैषार्थताs. षगम्यते । न च प्रेष्याः प्रतीयन्ते, नाप्यन्येषामनन्तरं किंचित्पुरोडाशपाकानुगुणं कर्म विधीयते, नापि स्वस्य, तस्मादुच्चैरुच्चारणमात्रं प्रेष्यतीत्यनेनोच्यते । तस्माद्गां दोहपवित्रे रज्जु५ सर्वा पात्राणि शुन्धतेति संप्रेष्यतीतिवददृष्टार्थम् । आपस्तम्बेनाऽऽग्नीधो हवींषि सुशृतानि करोतीत्यभिधानात्तं प्रति प्रेषस्तन्मतेन संभाव्यते नात्र तथा बहुवचनानुप- पत्तश्च । वरमदृष्टार्थताऽत एव वैखानसो यथाब्राह्मणमेष विधत्ते तदपि प्रायेणाप्येत- द्यजुरुक्त्वा वाचं विसृजत इत्यर्थोऽवगम्यते । ब्राह्मणमपि सार्थवादं न दृष्टं फलं किंचिदाह यज्ञमेव हवी व्यभिव्याहृत्य प्रतनुते पुरोरुचमविदाहाय शृत्यै करोतीति । तस्माददृष्टार्थमेवोच्चारणं नियमनिवृत्तिप्राप्ताविदमुच्चैदेदिति । तत एवाभिवासयन्वाचं विसृजत इति यदुक्तं तदपि न विरुध्यते । तेनाभिवासनानन्तरमेवाविदहन्ते(न्त इ)त्यु. चारणमङ्गारान्सबुध्याप्रैषदर्शनात्साङ्गारमत्माभ्यूहनं प्रत्येवाङ्गमिति पूर्वमभिवासनशब्देन साङ्गमेव ग्रहणमतो न व्यवधायकमिति सर्व दर्शयितुमत्युक्तम् । योऽयमभिवाप्तनो- त्तरकालं विसर्ग उक्तः स एवास्मिन्काले पर्यवसन्न इत्यर्थः । तत्र भाष्यकारेणोक्तमवि. स्मरणायात्रेत्युक्तमिति तत्सूत्रकाराचातुरीसंपादकत्वादुपेक्ष्यम् । १४४ सत्यापाढविरचितं श्रौतसूत्रं-. [१प्रथमप्रश्ने-

अङ्गुलिप्रक्षालनं पात्रीनिर्णेजनं चोल्मुकेनाभिप्रतप्य ।

पात्री निर्णिज्यतेऽनेनेति तथाऽङ्गुलीप्रक्षालनं पृथक्पृथक्पात्रयोः स्थापिते पृथक्पृथ- कप्तताप्योल्मुकेन ज्वलता पात्रीनिर्णैजनमपि प्रक्षाल्य पात्री पात्रान्तर एत स्थितं मवति । प्रताप्य पृथक्त्वेति बौधायनोक्तेः पृथग्निमक्तिनिर्देशाच्चकाराच पृथक्त्रताप्य संसृज्ये. त्यर्थः । उल्मुकं तु श्रपणीयामेरेव ।

अपरेणाऽऽहवनीयमपरेण वा गार्हपत्यꣳ स्फ्येनोदीचीस्तिस्रो रेखाः कृत्वैकताय स्वाहेति पश्चात्पश्चादसꣳस्पन्दयꣳस्त्रिर्निनयति ।

अपणार्थत्वेन सत्येव विकल्पेऽपरेणामिमित्येव वाच्ये गौरवं व्यवस्थार्थ यत्रापरे । गाऽऽहवनीयं बहिस्तीर्ण तत्रापरेण गार्हपत्यं पशुपुरोडाशादौ मान्यत्रेति । उदीची- रंगायतास्तिस्रो रेखाः प्रागपवर्गरेखाणामदृष्टार्थता मा भूदिति कृत्वेति त्याप्रत्यये- नोत्तराङ्गतोक्ता तामिः संस्कृत एव स्थले निनयति सूत्रान्तरे स्पष्टमेवोक्तम् । एकस्यामे- कवारमेवं निर्भवति । कथं तत्राऽऽह पश्चात्पश्चादिति वीप्सया तिसूषु रेखासु त्रिनिन- यनाभ्यासोऽर्थात्स्यात्पश्चात्पश्चात्पश्चिमेन पश्चिमेन पूर्व पूर्व न मेलयन् । अत्र पश्चात्स्पन्दनं न प्रतिषिध्यते किं तु पाश्चात्यनिनयनेन पूर्वस्य मेलनं प्रतिषिध्यते । एवं च प्रासंस्थ- तोक्ता भवति, लेपस्य सर्वस्य प्रतिपत्तिः सकृन्मन्त्रेण द्विस्तूष्णीं च त्रित्वं तावतक चरितार्थत्वात् । अस्पन्दयन्निति पश्चात्पश्चानिनीतेनातः प्रागपवर्गताऽऽपस्तम्योक्ता सिद्धा भवति । अस्पन्दयन्नमिलयन्परस्परं निनयनम् । संनिधानादस्पन्दयन्नित्येवमुक्तम् । कात्यायनीये प्रत्यगसंस्पन्दमानमिति, ताड्यातं च कर्कोपाध्यायेन प्रत्यगिति प्रतिव. चनान्न प्रागुदवाऽस्पन्दमानमिति समुपसर्गनिर्देशादसंगच्छन्न स्पन्दनमात्रप्रतिषेध इति । वैखानसेनापि पश्चादसंसृष्टं निनयतीत्यु तम् । मत्रः सर्वोऽप्येक एवेतिकरणेनकैनैव निर्दे. शाप्रयत्नान्तराभावाचाऽऽपस्तम्बेन पृथक्प्रयत्नकरणात्तस्यैव तथेष्टं न । मन्त्रो हि निनयनाझं नाभ्यासाङ्गमतः सकदेव । न च यावन्निनीतं तावदेव संस्कृतं मन्त्रेणान्यनिनयनाथ भवितव्यमेव मन्त्रेणेति द्रव्यपृषक्त्वेऽल्यावर्तत इति श्रीण्यपि निनयनानि सकलमत्रसाध्यान्येवेति वाच्यम् । मुष्टिमानेनेव वर्हिषः स्त्रुवपूर- नेवाऽऽज्यस्यात्र पृथगर्थतासंपादकाभावादेकनेव द्रव्यमुपलक्षणम् । अथ देवताभेदात्स्वा- हाकारभेदाच यत्र मन्त्रगणेन कर्म चोद्यते प्रतिमन्नं तत्र जुहुयादिति कर्मभेद इति चेन्न । प्रतिपत्तिकर्मत्वान्न दविहोमधर्मः । नाप्येताप्तां हविर्भाक्त्वं ते देवा आप्येवमजतेति श्रुतेस्तासां न देवतात्वं विधिकरणमात्रं, निनयतिधातोरप्यदानार्थत्वान्मन्त्रे स्वाहा। सत्यापाठस्य । i ११०पटलः महादेवकृतवैजयन्तीव्याख्यासमेतम् । १४५ कारः प्रक्षेपमात्रार्थो न तु दानार्थोऽपि । अत्र भाष्यकारेण पश्चात्पश्चादिति पश्चादपव. र्गत्वेन व्याख्यातम् । अपवर्गवाची प्रतीचीनशब्दो न प्रयुक्तः पश्चाच्छब्दस्तु कथम- भ्यस्तोऽपवर्ग ब्रूयादपवर्गो हि त्रयाणामेकस्तत्र वीप्सा घसंबद्धैव। नच पश्चात्पश्चाद्भाग इति व्याख्येति प्रथमेनासंबंन्धात्किमपेक्षया प्रथमः पश्चाद्भवेत् । प्राचीनापवर्गताऽऽप- स्तम्बादिभिः साक्षादेवोक्ता, सूत्रान्तराण्येतत्समानार्थानि मदुक्तप्रकारेणैव व्याख्या- सानि, कथं भाष्यकारेण व्याख्यातं परिभाषाबाधेन सद्विचार्यम् । मन्त्रः सर्वोऽपि बौधायनेनैक एवाङ्गीकृतो देवताश्चोक्ताः कात्यायनेनापि देवतार्थत्वे तु शेषनाशे येन केनाप्युदकेन कार्य निनयनं देवतानिर्देशश्च प्रतिपत्तिमात्रत्वे तु न प्रतिनिधिर्निनयन- लोप एवेति ज्ञेयम् ।

निनीय वाऽभितपति ।

द्वयमेकत्र कृत्वा निनीय पश्चाद्भूमिगतमुल्मुकेनाभितपति । एकतादिदेवतास्तु बौधा. यनेन व्याख्यातास्तासां नानात्वेऽपि ते देवा आप्येष्वमृजतेति बहुवचनैनकशेषादुत्पन्नेन परस्परसापेक्षाणामेव देवतात्वं, तथा चैक एव मन्त्रस्तत्रापि पिता पितामहः प्रपिता. मह इत्येते त्रय इति पक्षेऽपि न प्राचीनावीतं तद्दर्शितमेव परिभाषायाम् । अथ वेदिकरणम् ।

अपरेणाऽऽहवनीयं यजमानमात्रीं वेदिं करोति ।

आहवनीयस्य पश्चिमरेखामारभ्य पश्चिमभागे वेदिं करोति । वेदिरिति संस्कारव. चनः शब्दस्तेन वक्ष्यमाणसंस्कारैः स्थलं यजमानमात्रं संस्कुर्यात्सा वेदिर्भवतीत्यर्थः । अरनिचतुष्टयं षण्णवत्यमुलानीति यावत् । शुल्बोक्तप्रकारेण ।

यावदर्थां तिरश्चीम् ।। २० ।।

करोतीत्यनुकर्षः । यावानर्थः प्रयोजनं यथा(या) सा यावर्था, तिरश्ची तिग्वि. स्तीर्णा यावता विस्तारेण हविषां सादनपर्याप्तं स्थलमपेक्षितं तावान्विस्तारः कार्यः । देयं तु यजमानपरिमाणमेव । इदं तस्मा इति याजमानम् । करणमन्त्रोऽयमनाशी. मन्त्रत्वात्तेन न जपधर्मो मन्त्रान्तेन कर्मसंनिपात एव ।

वेदेन वेदिं विविदुः पृथिवीशꣳ सा पप्रथे पृथिवी पार्थिवानि । गर्भं बिभर्ति भुवनेष्वन्तस्ततो यज्ञो जायते विश्वदा निरिति पुरस्तात्स्तम्बयजुषो वेदेन वेदिं त्रिः संमार्ष्टि ।

मन्त्रेणैकवारं सर्वा संमृज्य पुनस्तूष्णीं द्वितीयतृतीययोः पर्याययोः सर्वाभव यावता स्थलेन वेदिर्भवेत्तावत् स्थलं संमार्टीत्युक्तं वेदेरद्याप्यजातत्वात् । पुरस्तात्स्तम्ब १ ग, श्चात्पश्चाद्भा । २ ठ. ड गृहीत्वा । १९ १४६ सत्याषाढविरचितं श्रौतसूत्र- [१प्रथमप्रने बञ्ष इति श्राह्मणानुकरणे विकल्पनिरासाय, दृश्यते हि विकल्पः सूत्रान्तरे पुरस्ता- दुपरिष्टादेति । स्तम्बयनुः पुरस्तात्स्तम्बयनुष इति दर्शनारस्तम्बस्य यजुषा हरणं स्तम्बयजुः । अथवा स्तम्यस्य दीवयवस्य ह्रियमाणस्येयं संज्ञा । न चात्रावयवशो व्युत्पत्तिरपेक्षिता रूढस्वादश्ववालशब्दवत् । तत्र पुरस्तात्स्तम्बयजुष इति लक्षणया हरणं लक्ष्य, यथा बर्हिका पूर्णमासे व्रतमुपैतीति बहिराहरणं लक्ष्यते । चतुःशिख. पहेति याजमानम् ।

पूर्वार्धाद्वेदेर्वितृतीयदेशेस्तम्बयजुर्हरति ।

स्तम्नेन यजुषा च संयुक्तः पांसुस्तथोक्तस्तं हरति । स्थानविधिरयम् । तत्स्थानमाह- पूर्मादित्यादिना । करिष्यमाणा या वेदियविगृहीतं शौल्वमानेन स्थलं तन्मध्ये पूर्वाधीइष्टाचत्वारिंशदगुलपरिमिताद्वैदेवितृयीयदेशात्पूर्वार्धेऽपि वैदेविगतस्तृतीयों देशो भागः पौरस्त्यो द्वात्रिंशबङ्गुलानि यस्मात्स तथा । वेदेरित्येतत्पदं साकाङ्क्षमपि वितृतीयपदं नित्यमका हात्वात्समस्यते देशपदेन वेदिपदमुभय(?)पूर्व पश्चाच संबध्य- तेऽतो वेदेस्त्यक्तपौरस्त्यत्यकात्समीपे पूर्वार्धवेदितृतीयभागात्पूर्व धान्नतु पाश्चात्य त्यक्त. तृतीयभागात्पश्चात्ततु प्रोक्षण्यासादनस्थानं वक्ष्यते । द्वात्रिंशदकुलपरिमितास्तम्ब. यजुर्हरेदित्यर्थः । नेदं स्तम्बयजुर्हरणं प्रधानकर्म किंतु गुणकर्म ब्राह्मणे वेदिसंस्कारत्वा- वगमात् । वेथाः सकाशात्सतृणपासुहरणेन तस्याः क्रूरतापगमेन दृष्टः संस्कारो नायो । स्तम्बयजुर्हरणेन वेदि संस्कु,दिति वाक्यार्थो भवति ।

देवस्य त्वेति स्फ्यमादाय ।

आदद इति मन्त्रशेषस्य संहितायां पठितस्य पूर्वतनेनाधिवपनशेषेणेहानुषक्तेन सह बामणव्याख्यातपठितस्य विनियोगोऽयमिति ज्ञापयितुं प्रतीकोपादान एवं पूर्व संव- पामीत्यादावपि ज्ञेयम् ।

इन्द्रस्य बाहुरसीत्यभिमन्त्रयते ।

सष्टम् ।

सहस्रभृष्टिः शततेजा इति तस्य दर्भेणाग्रꣳ सꣳश्यति ।

तिग्मतेजा इत्यन्तः । स्पयस्याग्रप्रदेश सम्यक्प्रकारेण श्यति तन करोति तीक्ष्णी करोतीति यावत् । धर्ममात्रमिदं न तु दमण तीक्ष्णी भवति । तेन परितोऽन- भागमूर्ध्वमुन्मार्टीत्येतावदेवोक्तं मन्नब्राह्मणानुसारेण ।

पृथिव्यै वर्मासीति प्रागग्रमुदगग्रं वा दर्भं निदधाति ।

पूर्वप्रकृतमेव बौधायने दृष्टरवात् । वितृतीयभागे पूर्वी वेदेरित्यर्थः । १८. यजुषो । २ ज. झ, न. 'बर्षे दें। ३ क. ख. ग. च. "रसिदक्षिण इत्यभि- मन्त्र्यास्प। ६१० पटलः] .. . महादेवकृतवैजयन्तीव्याख्यासमेतमा १४७ :

पृथिवि देवयजनीति तस्मिन्स्फ्येन प्रहरति ।

तस्मिन्दर्मे यथा छिन्नो भवति स्फ्याग्रेणैव तस्यैव संरकुतत्वात् । मा.हिसिष.. मिति मन्त्रान्तः । यो मा हृदेति याजमानम् ।

अपहतोऽररुः पृथिव्या इति स्फ्येन स तृणान्पाꣳसूनपादत्तेऽपाररुं वध्यासमिति चा।।

अपहतोऽररुः पृथिव्या इत्येतावानेव मन्त्रः । तृणं छेदस्ते 'सह खातस्य पाली मृदं स्पयन स्वीकृत्य न हस्तेन, हस्तेन साहाय्यमात्रं कर्म शक्येऽ छकेवलेन स्पोन

व्रजं गच्छ गोस्थानमिति हरति।

स्पयेनैव वेदेवहिरुत्करमिति शेषः ।

वर्षतु ते द्यौरिति वेदिं प्रत्यवेक्षते वर्षतु ते पर्जन्य इति यजमानम्।

प्रतीक्षत इति पूर्वानुकर्षः।

नमो दिवे नमः पृथिव्या इत्युत्तरत उत्तानौ हस्तौ कृत्वाऽऽग्नीध्र उपविशति।

उत्करममिग्रहीतुमुत्तानौ करौ संहतप्रसारिताङ्गुलिकाविति यावत् ।

प्रक्रमे वेदेर्बधानेति तस्मा उपनिवपति ।

मामौगिति मन्त्रान्तः । उपनिवपत्यध्वर्युः । आग्नीध्रस्यानन्तरं पुनर्ग्रहणादस्मा इति निर्देशादनधिकारः । किमुपनिवपात प्रकृतमुपात्तं स्फ्येन सतूण पांसुमित्यनुकृष्यते सामर्थ्यात् । कुत्रेत्यपेक्षायामुक्तं प्रक्रमे वेदेः । वेदेरिति पञ्चमी, तस्या उत्तरत इत्या- कृष्यते पूर्वतनं कियत्यध्वनि प्रक्रमे पदद्वयेऽतीत इत्यर्थः । किमुक्तं भवति । एत- दुक्तं वेदेः पूर्वार्धाद्वितृतीयदेशात्स्तम्बयजुराहरणं कृतं तत उत्तरतों वेदेहिर्द्विपदम- तिक्रम्यावस्थिते स्थले निवपतीति । अयमेवार्थो विस्पष्टीकृत आपस्तम्बेन-'बधान देव सवितरित्युत्तरतः पुरस्ताद्वितृतीयदेश उदग्द्विपेदे परिमिते वा वेदेर्निवपति' इति । वेदेरुत्तरतः पुरस्ताद्भागे वितृतीयदेशे वेदेः सकाशाविपदे तत्समीपस्थल उदङ्मुखो भूत्वा निवपतीत्यन्वयेन व्याख्यातृभिर्दर्शितोऽर्थः । तस्मा आग्नीध्राय मन्त्रार्थमुपदिशन् । - १ के. ख. घ. च. तृणं पाश्सुमुपी । २ क. स. ग. च. छ. ट. ठ. ° कार्थम (म.) ।' ३ क. ख. ग. ग. ढ. प्रतीक्षक. ख. ग. च, करौ। ५ ट, पदप । १४८ सत्यापाढविरचितं श्रौतसूत्रं- [१प्रथमप्रभे- कस्मादेवमिति चेत् । उच्यते-बधान देव सवितरिति मध्यमपुरुषेणोपदिश्यमानस्य कर्ता संबोध्यमानमा( आ ? )मोनो यतोऽवबाढो दुरस्युरिति प्रतिवक्ता कर्तारमात्मानमावे. दयति । तस्मादवबाधनमस्मा उपदिशदुत्करे निवपति । नो चेत्तस्मा इत्यनर्थक स्यादपेति च ।

स उत्करो भवति ।

तत्स्थलमुत्करशब्दवाच्यं यत्र निवपति । उत्किरत्यस्मिन्सतृणं पांसुमित्युत्कर इत्यवयवानुसंधानक्रियानिमित्तत्वेऽपि रूट एवायं शब्द इति दर्शयितुं स इत्युक्तं स एवेत्यर्थः । अयमुत्करप्रदेशः सिद्धो मवति ।

अवबाडो दुरस्युरित्याग्नीध्र उत्करमभिगृह्णात्यञ्जलिना ।

उत्करदेशमभिगृह्णाति च्छादयति तमतो मामौगिति मन्त्रलिङ्गात् । व्याख्यातं च वामणेन-इत्याहानिनुक्त्या इति । यथोत्करे निहितो भ्रातृव्यो न मुच्यते तथा न्युने- नाञ्जलिना गृहातीति सिद्धोऽर्थः । अत्र भाष्यकृतोक्तमानीघस्याञ्जली निवपतीति तत्तु सूत्रान्तराभिप्रायेण वैखानसोये तथोक्तेः । परं तु ताहगर्थस्यास्मत्सूत्रादप्रतीतेः सूत्रासंगत. स्वादापस्तम्बेनापि कृतव्याख्यासमानार्थतया स्फुटतरमभिधानादुपेक्ष्यमिति मन्यन्तेऽन्ये । आपस्तम्बे हि निवपनपर्यन्तं पूर्वमानाधिस्याधिकार एव न दर्शितः 'न्युप्तमाग्नीध्रोऽज- लिनाऽभिगृह्णाति' इति। अस्मदाचार्यस्य तथैवेष्टम् । यत्पुनः पूर्वमेवोत्तानौ करौ कृत्वाऽऽग्नीध्र उपविशतीति तत्र नाञ्जलिकरणमुक्तमपि भ्रातृव्यस्याञ्जलिना करिष्यमा- नावबाधनाय । संनद्धेन स्थातव्यमञ्जलिकरणे थथा विलम्बो न मवेत्तथा सन्नद्धे सति भ्रातृव्यस्तम्बयजुषा न्युप्तमात्र एवानिमुक्तयेऽभिगृह्यत इति मन्त्रब्राह्मणार्थोऽभिप्रेत इति दर्शितम् । यः कश्चिदतकितो दुष्टं निरोद्भुमिच्छति स आयतनहस्त एवाऽऽदौ तिष्ठन्पश्चात्समीपस्थं गृह्णातीति प्रसिद्धिरनुगृहीता च भवति ।

परिगृह्याऽऽस्ते ।

अञ्जलिना त्यक्तामधसंधानेन हि परितो ग्रहणं नान्यथेति ।

एवं द्वितीयꣳ हरत्येवं तृतीयम् ।

अत्र प्रहरतीत्यनेन वेदिसंस्कारेण प्रधानभूतेनाऽऽदानादि पूर्वमङ्गं प्रति परिगृह्याऽऽस्त इत्यन्तमतिदिष्टमेवैवमेवमिति पुनः परस्परमन्त्रे लक्ष्यकथनार्थ, तेन नात्र प्रथम एव पर्याय(ये) मन्त्रोऽपि तु त्रिष्वपि त्रिर्यजुषेति श्रुतेः । विशेषमाह-

मा वः शिवा ओषधयो मूलꣳ हिꣳसिषमिति द्वितीयं प्रहरति ।

अत्र पृथिवि देवयजनीत्यस्य स्थानेऽयं मन्त्रः । पृथिव्यै वर्मासीति तन्त्रं विभुत्वात् । १क. ग.च. छ.ट. स्परे मन्त्र । छ. ड. स्परम । १५० पटलः महादेवकृतवैजयन्तीव्याख्यासमेतम् । १४९

अपहतोऽररुः पृथिव्पै देवयजन्या इति द्वितीयमपादत्ते ।

मनं गच्छेत्यादित्रयं पूर्ववत् । न पुनराग्नीध्रस्योपवेशनमुत्तानहस्तकरणं तयोः परि- ग्रहे व्यापृतत्वात् । बधानेति पूर्ववत् । अथाऽऽग्नीधः-

अवबाढा देवयजन्या यातुधाना इति द्वितीयमभि गृह्णाति ।

द्वितीयमिति क्रियाविशेषणं पूर्ववजलिना पुनः परिगृह्याऽऽस्त इति तु समानं चतुर्षपर्यन्तम् । अध्वर्यु:-

द्रप्सस्ते दिवं मा स्कानिति तृतीयं प्रहरति ।

स्पष्टम् ।

अपहतोऽररुः पृथिव्या अदेवयजन इति तृतीयमपादत्ते ।

व्रजं गच्छेति वर्षतु त इति द्वयं वधानेति पूर्ववत् । आग्नीधः-

अवबाढोऽघशꣳस इति तृतीयमभिगृह्णाति ।

उक्तम् । मध्वर्यु:-

तूष्णीं चतुर्थम् ।

अपादानहरणावेक्षणद्वयनिवपनानि तूष्णीमेव । मात्र प्रहरणमित्याह-

सर्वं दर्भꣳ हरति ।

अवशिष्टं सर्वम् । आग्नीध्रः-

अररुस्ते दिवं मा स्कानिति चतुर्थमभिगृह्णाति ।

नात्र परिग्रहः । आस्त इति निवर्तते । अग्रेऽभिग्रहणामावात् ।

स्फ्येन वेदि परिगृह्णाति ।

अध्वर्योरधिकारः । अग्रे करिष्यमाणस्य प्रतिज्ञामात्रं परिग्रह शब्दार्थप्रदर्शनार्थम् । अग्रिमेण कर्मणा वेदिदेशः परिगृहीतः । परितो गृहीतः परिच्छिन्नो दर्शपूर्णमासाङ्ग- स्वेन कृत इति यावत् ।

वसवस्त्वा परिगृह्णन्त्विति दक्षिणतः प्राचीं लेखां लिखति ।

स्फ्यैनेति पूर्ववत् । दक्षिणतो दक्षिणपाधै सनामानुसोरण प्राची दक्षिणां श्रोणिमा - १५० सत्याषाढविरचितं श्रौतसूत्र-. [प्रथमप्रश्ने- रम्य दक्षिणांसपर्यन्तं प्राक्समाप्ति रेखां करोति । प्राचीमित्यर्थसिद्धेऽपि वचनं पूर्व परिगृह्णातीत्युक्तं ततः सामन्तप्रतीत्या प्रदक्षिणमित्यापतति पारिमाषिकं तन्निवृत्त्यर्थम् । गायत्रेण छन्दसेति मन्त्रान्तः ।

रुद्रास्त्वेति पश्चादुदीचीम् ।

लेखा लिखतीति पूर्ववत् । त्रैष्टुमेन छन्दसेत्यन्तः । सर्वत्र मन्त्रानुसारेणोदीचीमिति स्पष्टार्थकथनं संधानकरणे दक्षिणापवर्गशतानिरासार्थम् ।

आदित्यास्त्वेत्युत्तरतः प्राचीम् ।

पूर्ववज्ञेयम् । रुद्रास्त्वेति क्रियमाणे याजमानं बृहस्पते परिगृहाणेति ।

प्राञ्चौ वेद्यꣳ सावुन्नयत्यभित आहवनीयं प्रतीची श्रोणी अभिगार्हपत्यं मध्ये संनता भवति ।।२ १।।

एतत्सर्व शुल्वे द्रष्टव्यं व्याख्यानम् । वेदि परिगृह्णातीति प्राप्त सामन्तेऽपि प्राञ्चौ पेसावुन्नयत्यभित आहवनीयमिति वाक्येऽतिस्पष्टा प्रागपवर्गाऽसयोरुका, तदर्थ मार्ची लेखां लिखति तया प्राची वेद्यसौ भवत इत्यर्थः । तथैव प्रतीची गाणी इत्य- स्यापि संपादनाय पश्चादुदीचीमित्युक्तमिति भावः । अत्रासयोरुनयनदर्शनान्मध्यादे- योन्नयनं कार्यमिति दक्षिणोत्तरपरिग्रहयोर्मध्यादारम्भ इति माष्यकृन्मतम् । तत्परितो. प्रहणविरोधि कथं युक्तम् । मध्ये संनता संकीर्णाम् ।

इमां नराः कुणुत वेदिमेत्य वसुमतीꣳ रुद्रवतीमादित्यवतीं वर्ष्मन्दिवो नाभा पृथिव्या यथाऽयं यजमानो न रिष्यादेत देवेभ्यो जुष्टामदित्या उपस्थ इमां देवा अजुषन्त सर्वे- रायस्पोषा यजमान विशन्त्विति संप्रेष्यति ।

अत्र प्रेष्यतीति बदति न च प्रेष्यं निर्दिशति तथाऽप्युक्तप्रकारेण कात्यायनमार- दामोक्तिभ्यामाननिषो वाऽऽत्मप्रेषो वेति वक्तुं शक्यं तथाऽपि किमत्र प्रेषितेन कार्यम् । इमां नराः कृणुत वेदिमेत्येत्येतावदेव शक्यार्थे प्रतीयतेऽन्यत्सर्वं स्तुति- मात्रं न नरैः कर्तुं शक्यमिति श्रेषकार्यानुपपत्तिरित्यदृष्टार्थे प्रैषधर्मेण मन्त्रजपमात्र कर्तव्यमित्येव युक्तम् । गां दोहपवित्रे इतिवत् । तथैवाऽऽहबौधायन:- अपतीमा नराः ' इत्यादि।

अपहतोऽररुः पृथिव्या आ देवयजं वहेति स्फ्येनोत्तमां त्वचमुद्धत्योत्करे निर्वपति ।

वेदेकार स्वयं मृदम् । ११० पटलः] 'महादेवकृतवैजयन्तीब्याख्यासमेतम् ।

देवस्य सवितुः सव इति खनति देवस्य सवितुः सघे कर्म कृण्वन्तो मानुषा मा वः शिवा ओषधयो मूलꣳ हिꣳसिषमिति वा ।

वेधस इति पूर्वस्यान्तः । प्रागपवर्गः स्स्येनैव ।

द्व्यङ्गुलां त्र्यङ्गुलां चतुरङ्गुलाꣳ सीतामात्रीꣳरप वर्त्ममात्रीं यावत्पार्ष्णियै श्वेतं तावतीं वा ।

खननपरिमाणं निम्नताया बङ्गुलादि । सीता सोरस्य खनिः, स्थस्य पक्रखनिवर्म । थावत्पाष्णिय षष्ठवर्षे चतुर्थी । पादस्य पश्चाद्भागः पाणिस्तस्या यावामागः, श्वेतस्त- लप्तमीपे श्वेतं गुणवचनत्वान्नपुंसकतथा(ता)तावर्ती वा । खनेदिति सर्वत्र संबध्यते ।

नैता मात्रा अतिखनति ।

ध्यालादिपरिमाणं मात्रा मानानि एता मात्रा अतिक्रम्य न खनेत्, अधिकं न खनेदित्यर्थः । ननु कुतोऽधिकताप्राप्तिः सत्सु विधिष्विति चेत् । सत्यं, न्यूनताया भप्यनुज्ञानार्थमिदमुच्यतेऽत एव ज्ञापकात्, एताभ्यो मात्राभ्यो न्यूनता वरं भवतु समता वा परं त्वधिकता मा भूदित्यर्थः ।

दक्षिणतो वर्षीयसीं पुरीषवतीं प्राचीमुदीचीं प्रवणां करोति ।

ब्राह्मणानुकरणमेतदर्थवादस्मरणाय । तत्र प्रतीचीनं दक्षिणामध्यमिति दिग्द्वयप्रव- णतानिन्दाप्रदर्शनार्थ तेन प्रयोजन वक्ष्यते । दक्षिणभागे किंचिदुन्नता, वृद्धस्य वर्षात्या- देशः, पुरीषवतीमुत्कीर्णा मृत्पुरीष तद्वती, खननेन मृयथोपर्यागच्छेत्तया खनेन्नतु स्थलस्य वेधमात्रेण खनेत् । प्राचीमुदीचीमीशानमागस्तेन प्रवणां निम्नां, प्रागुदक्प्रवणा- मिति वक्तव्ये गुरुनिर्देशेन प्रत्येकमप्यन्वयो यथा स्यात्तेन प्राची प्रवणामुदीची प्रवणां प्राचीमुदीची प्रवणामिति विकल्पत्रयं, तृवीयस्य संमवार्य वाशब्दो नोक्तो विरोधा- द्विकल्पः स्वयमेव भविष्यतीति दर्शयितुम् । अत एवाऽऽपस्तम्बः-'प्राक्प्रवणां प्रागु- दप्रवणां वा ' इति ।

यन्मूलमतिशेते स्फ्येन तच्छिनत्ति ।

मूलमोषधीनामतिरिच्यते तत्स्फ्येन च्छिन्नत्ति ।

यत्पुरीषमतिरिच्यत उत्करं तद्गमयति ।

प्रवणताकरणे समीकरणे च यत्पुरीषमतिरिक्त तन्न प्रदेशान्तरं नयेदपि तु तह. हिरुकर एव त्याज्यमित्यर्थः ।

आहार्यपुरीषां पशुकामस्य ।

पशून्कामयते यो यजमानस्तस्य दर्शपूर्णमासयोः सकृदाहायपुरोषां वेदिमध्वर्युः कुर्यात् । अन्यत्तो मृदमानीय वेदिमध्ये निनयेत्याऽऽहार्यपुरोपा । सत्याषाढविरचितं श्रीतसूत्र- -[१प्रथमप्रभे-

- तत्प्रकारमाह-

यत्प्राक्खननात्तत्कृत्वा मन्त्रेण पुरीषं खात्वा हरति ।

स्थलान्तरे देवस्य सपितुः सब इति खास्वा तत्पुरीषमखातायां वेद्यामाहरे दित्यर्थः । यममानेन पशुकामो वैदिमाहार्यपुरीपों करिष्य इति कृते संकल्पे खननेन पुरीषमाइ- स्याऽऽहार्यपुरीषां कुर्यात् ।

अत्र पौर्णमास्यां वेदिं करोति ।

सिद्धे सत्यारम्भो नियमायेति न्यायात्पौर्णमास्यामत्रैव वेदि करोत्यमावास्यायो त्वत्र पूर्वेचूर्वेति फलति । एतज्ज्ञापयितुमेव पूर्व नोक्तं वेरकरणानन्तरं बहिराहरणात्पूर्व वा सत्रामिधानेन तत्रैवामावास्यायो वेदिः स्यानात्रापि तदर्थमेवोक्तं तत्रैतत्कृत्वोपवास- स्यमावास्यायामितिकर्तव्यत्वेनोक्तमेव करवेति तत्र वेदिकरणस्यानभिधानात्तत्कार्यमिति तत्रैव विवृतं ज्ञेयम् । तावदेव कृत्वेत्यस्मिन्पक्षे सत्येवेदमारभ्यते ये()विकल्पद्वयम् ।

पूर्वेद्युरमावास्यायाम् ।

करोतीत्यनुवर्तते । तत्र वेदं कृत्वा वेदि करोतीति श्रुतेदेन विना वेदेः कर्तुमशक्य- स्वाद्ययास्थानस्थित वेदमपेक्ष्यानन्तरमेव करोति स्थानविशेषोऽत एव नोक्तोऽस्मिन्पक्षे सामर्थ्यादेव तसिद्धेरिति भावः । पक्षान्तरमाह-

पुरस्ताद्बर्हिष आहरणात् ।

अत्र पक्षे वेदं स्थानादपकृष्य सामर्थेन पूर्वे कृत्वा पश्चाद्वेदिं ततो यहिरिघमस्त- सोऽन्तदीत्यादिशाखापवित्रकरणादि पूर्ववत् । पक्षद्वयभेदकवाशब्दाभावेऽपि प्रमाणमु. पन्यस्तं न विस्मरणीयम् । पूर्वेयुर्वेदिकरण उत्तरपरिमाहे ब्रह्मण आमन्त्रणानुज्ञापक्षे कथं वेदिः स्यादत आहे-

यत्प्रागुत्तरस्मात्परिग्राहात्तत्पूर्वेद्युः करोति सह वोत्तरेण परिग्राहेण ।

अन्यदुत्तरपरिग्राहामृत्याप्यलेपनिनयनानन्तरं विकृतिविशेषे सद्यस्काले पूर्ववतब्रह्मके कर्मण्यामिक्षादौ सह वेत्ययं पक्षः । अथ वा विनवाऽऽमन्त्रणानुज्ञाभ्यामुत्तरपरिमाहः । प्रकृतमाह-

ब्रह्मन्नुत्तरं परिग्राहं परिग्रहीष्यामीत्यामन्त्र्य परिगृह्णाति ।

प्रणव उक्ते करोतीत्युक्तमेव ।

विपरीतमेके समामनन्ति मन्त्रैः पूर्वं परिग्राहं यजुर्भिरुत्तरम् ।

यमन्त्रैर्वसवस्त्वेत्यादिभिः पूर्वपरिग्राहोऽस्मच्छाखायामुक्तस्तैरुत्तरपरिमाहं समाम. नन्ति यजुतिमसीत्यादिभिरुत्तरपरिग्राहो वक्ष्यतेऽन्यः शाखिभिस्तैः पूर्वपरिग्राह १ क. ग. च. छ. स. ह. ड. ह-प्रागु । २ क. ग. च. उ. ड, 'न्य उत्त १०पटलः ] : महादेवकृतवैजयन्तीव्याख्यासमेतम् । १५३ इति विपरीतम् । यद्यप्युभये मन्त्रास्तथाऽपि पनुःशम्नोत्तरेषां व्यवहारो ब्राह्मणेऽस्ति यथायजुरिति, तेनैव शब्देनोक्तेषु यजषु कृतो मन्त्रशब्दः सामान्य वाच्यपि द्विपादबद्धत्वेन त्वृत्परतया वसवस्त्वेत्यारिषु प्रयुक्तो विशेष परः । अत्राऽऽरने विकृ. तिषु यत्राननावेव पूर्वपरिग्राहो गृह्यते तत्र तम्छारवयैव क्रमो माल इति । अन्यथा वसवस्त्वेत्यादिमन्त्रविनियोजकबाम गवाक्यशेषो विरुध्येत । तथाहि-तेऽग्नेना प्रायोऽनयन्वसुभिर्दक्षिणा रुदैः प्रत्यञ्च आदित्यैरुदश्च इति दिक्कमे मन्नसंबन्धार्थमयम- र्थवादः, पुरस्तादग्निनैव जय इत्युक्तं तदनियति विहारे पशुवरुणप्रासादौ विरुध्येतात उक्तं विपरीतमिति, यजुषां ब्राह्मणलिङ्गयोः पूर्वपरिमाहे विरोधेन शाखान्तरीयक्रमो ग्राह्य इत्यर्थः । अनेन मननत्राणधर्मत्वेन मन्त्रशन्दप्रयोजनमप्युक्तं ते वसवस्त्वेति दक्षिणतः पर्यगृह्णन्निति मन्त्ररेव भ्रातृव्यम्यस्त्राणस्य ब्राह्मणेऽभिधानाने यात्रा उत्तरपरिग्रहार्था अन्यशाखिनामिति । तदिदमसमञ्ज पम् । पूर्वपरिग्राहो हि पृथिव्या भ्रातृव्येभ्यः प्राप्तये जातो मत्रैस्तस्या अप्राप्तौ यजभिः परिच्छेदनमात्रामन्त्र कार्य कर्तुमशक्यमेवेति पुनर्विरोधस्तदनस्य इति नार्थवादेन विरोधः संपारनीयः । तस्मात्प्रकृतिषु समविकता एरोति युक्तं तथा विकृतिप्वपि ।

ऋतमसीति दक्षिणत ऋतसदनमसीति पश्चादृतश्रीरसीत्युत्तरतः ।

परिगृह्णातीत्या (त्यनु ) वर्तते । अयं स्वशाखाक्रमः । परिग्राहशब्दो यौगिक्यो सझे।

धा असि स्वधा असीति स्फ्येन प्रतीचीँ संमार्ष्टि ।

घासीत्यन्तः । दिमिति शेषः । प्रत्यगपत्रमा समी करोति । अत्र भूमि भूतेति घाममानम्।

पुरा क्रूरस्येत्यभिमन्त्र्य ।

बैलिमिति शेषः । यजन्त इति मन्मान्तः ।

पश्चार्धे वेदेर्वितृतीयदेशे स्फ्यं तिर्यञ्चꣳ स्तब्ध्वा प्रोक्षणीरासादयेध्माबर्हिरुपसादय स्रुवं च स्रुचश्च संमृड्ड्ढि पत्नीꣳ संनह्याऽऽज्येनोदेहीति संप्रेष्यति ।

पश्चाध पूर्वार्धन व्याख्यातम् । वितृनीयभागोऽपि न्यूनः पाश्चात्य एवं पश्चाधरंग कार्यः पश्चार्धशब्दसामर्थ्यात् । प्रथमे तृतीयभागानन्तरमेव स्यं मध्यमे भागे वा. स्थितमुदगग्रं हस्तेन स्थले स्थिर धुवा संप्रेष्यति । यजुर्वेदेनाध्वर्युरिति परिभाषितस्ती- सासारनादिकं सर्वध्वयगत कार्यम् । सपोऽति, न चान7 प्रेयस्य वचनमस्तिं -- । सत्यापादविरचितं श्रौतसूत्र- [१प्रथमप्रश्ने- येन वचनलक्षणा इतर इति प्राशुयात् । न हि निर्देशोऽस्ति लिङ्गेन ब्राह्मणेन वा यथाऽसीदग्नीन्विहरेति यथा- वाऽऽग्नीनं संप्रेष्यतीति । नापि संभवः प्राप्तकाल तयाऽऽत्मानं प्रत्येष औषण संस्कारजनकत्वसंभवात् । आत्मानं प्रत्येव प्रैपदर्शनं लिङ्गानि चोपपादितानि न विस्मर्तव्यानि । नाऽऽचार्यस्येष्टमन्येन. कार्यमित्यन्यसूत्रतः ।, दृष्ट्वा प्रायोगिका आहुरग्नोत्कर्मेति कौशलात् ॥ उपेक्ष्यमेतत्पूर्वोतन्यायैः सूत्रान्तरेस्तथा । विरोधादेवमन्यत्र ज्ञेयः प्रैषस्य निर्णयः ॥ इध्मावर्हिरितीक्ष्मस्य प्रथमनिर्देशोऽजाद्यदन्तरवेन क्रमनियमार्थो दक्षिणमिध्ममुत्तरं बहिरिति क्रमविधानात् । अनेकपत्निकस्यापि पत्नी संनो त्यविकृतम् । न हि प्रकृतावूहोऽस्तीति वक्ष्यत्याचार्यः । मन्त्रस्य सर्वप्रकृत्यर्थत्वेनाविशेषेण प्राप्तस्य 'पत्नीपदेन जात्याऽपि नानापत्नीप्रत्यायनसंभवान्न बाधोऽपि प्रातिपदिकमविरुद्ध सेक वचनमुद्देश्यगतमविवक्षितं च । तत्र प्रोक्षण्यासादनप्रकारमाह-

अग्निहोत्रहवण्यां पवित्रान्तर्हितायामप आनीयोदञ्चꣳ स्फ्यमपकृष्यान्तर्वेदि धारयन्स्फ्यस्य वर्त्मन्नुपनिनीयर्तसधः स्थेति स्फ्यपदे सादयति ।

यत्राशिहोत्रहह्वणी तिष्ठत्यत्रैव तस्यां पतित्रे अन्तीयाप आनीय तत्र गमनाय स्फ्यं स्तव्धस्थाने विहायाप आनायोदगपवर्ग तिर्यश्चमेव स्फ्यमपकृष्य वर्त्म कुर्वन्निवो- तरतः किंचिदपनीय तं वामहस्तेन धारयन्नन्तवेद्यां दक्षिणेनाग्निहोत्रहवीमादाय तद्भता अपः किंचित्पूर्वकृते स्फ्यवमनि निनीय नावयित्वाऽस्पृष्टा उपनिनीयेत्या. पस्तम्बोक्तेः स्फ्येनासंस्पृष्टा निनीय प्रैषावसरे तिर्यक्स्फ्यस्तम्भनस्थानं स्फ्यस्य पदं तत्राऽऽसादयति मन्त्रण।

यं द्विष्यात्तं ध्यायेत् ।

यं यजमानो द्वेष्टि तमध्वयुायेत्तस्य स्वरूपेण तच्छब्देन वा मनप्ता ध्यान कुर्यादारादुपकारकमिदम् । यद्यपि यं द्विव्यात्तं ध्यायेदिति ब्राह्मणे शुचैवैनमर्पयतीति वाक्यशेषस्तथाऽपि सा (सोऽर्थवाद एवं नत्वाभिचारिकत्वमाहेत्येवं तस्यार्थ- वादस्यापाठेन दर्शितम् । यथा कामपदाभावे फलपरामर्थवाद एवमभिचरन्निति- पदाभावेऽपि चैरिप्रतिकूलार्थप्रत्यागकपदमप्यर्थवाद एवं न तु वैर्यनिष्टप्रयो नन- १ क. ट. "संसृष्टा । २ क. संसृश्ना । १५५ कर्षति । ६५०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । स्वायेति सर्वत्र ज्ञेयम् । शत्रोरमावे पाप्नैव शत्रुः प्रतिकूलत्वात्पाप्मानमेव भ्रातृव्यमा पहन्तीति लिङ्गाच्च ।

शतभृष्टिरसि वानस्पत्यो द्विषतो वध इत्युत्करे स्फ्यमुदस्यति ।

उत्करप्रदेशे स्पयं सनति किंचिदूरत एवोध मुञ्चति यथा मुक्त उत्करे पतति तथोदस्यति।

पुरस्तात्प्रत्ययञ्चꣳ स्थविमत उपोहति ।

स्फ्पमुक्करे निरस्तमादायोत्करस्य पूर्वदिश्यत्कराभिमुख स्थूलप्रदेशान्मुचिभदेशे धृत्वा

नानवनिज्य हस्तौ पात्राणि पराहण्यान्न वेदिं परिमृशत्यास्तरणात् ।

हस्तावप्रक्षाल्य पात्राणि न संस्पृशेन च वेदिमास्तरणात्प्रक्षाल्यापि हस्तौ स्तरणा- त्पूर्व वेदिं न स्पृशेविति सामर्थ्यात् । अन्यथा स्तरणात्पूर्वमेव प्रक्षालनं विधायानेकानि कर्माणि विहितानि वेदिस्तरणमिति का प्रसङ्गोऽप्रक्षालितहस्तस्य स्तरणात्पूर्व वेदिसंस्पर्शे।

हस्ताववनेनिक्ते स्फ्यं प्रक्षालयति नाग्रं परिमृशति ।

पूर्व धातुद्वयमेकार्थ तथाऽपि मिनगौ श्रुत्यनुकरणार्थो स्फ्षप्रक्षालनसमये नाम- भार्ग हस्तेन स्पृशति प्रक्षालनप्रतिषेधो नाग्रस्य किंतु स्पर्शनमावप्रतिषेधः । अन्यथाs- ग्रवन स्फ्यं प्रक्षालयतीत्येव लाघवेन ब्रूयात् । अनेनेतरमागप्रक्षालनं नोदकधारामा- त्रेण कार्यमपि तु हस्तेनापि मलापकर्षणमपि कार्यामित्यर्थः ।

उत्तरेण प्रणीता इध्माबर्हिरुपसादयति दक्षिणमिध्ममुत्तरं बर्हिः ।। २२ ।।

इति हिरण्यकेशिसूत्रे प्रथमपश्ने षष्ठः पटलः ॥ ६ ॥

प्रथमममिध्मावहिरिति समस्तग्रहणं सहोमे आनीय दक्षिणोत्तरभावेन हस्तद्वये. नाऽऽसादयात सहैवेति गम्यते । इति सत्यापादहिरण्यकशिसूत्रव्याख्यायां प्रयोगवैजयन्त्यां महादेवन कुतायां प्रथमप्रश्ने षष्ठः पटला ॥६॥ १ख. "नि तत्र का सत्यापादविरचितं श्रौतसूत्र-. [प्रथमप्रश्ने-

1.7 अध सप्तमः पटलः।

वेदप्रान्तैः स्रुवꣳ स्रुचश्च सह संमार्ष्टि ।

वेदस्य परिवासिता अग्रभागाः प्रान्तास्तैबौधायनोक्तपक्षानङ्गीकार उक्तस्तत्रैकै. कपदार्थस्य संमार्गप्रोक्षणनिष्टपनादिना काण्डानुपमय उक्तः । वयं तु पदार्थानुसमर्थ दर्शयितुं सहेत्याह । प्राशिवसहभावोऽपि प्रत्यक्तः । न ह्येषां सह संमार्गः संभ. 'वति प्रातिस्विकनियतधर्मत्वात् । वक्ष्यमाणस्य प्रतिज्ञेय, समार्गस्य प्रकरणे यावदुक्तं तावत्तदङ्गमिति ज्ञापनेन यत्र संमार्गस्तत्रैते धर्मा इति नियम उक्तः ।

प्रतिविभज्याप्रतिविभज्य वा ।

वेदप्रान्तानिति द्वितीयान्तरवेन परिणतमनुवर्तनीयम् । यावन्ति पात्राणि संमार्जनी. यानि तावतो विभागाकृत्वा तेनैकैकेन समार्ग एकैकस्य सहाग्नौ प्रहरणमन्ते सर्वेषां पशुबन्धेऽयमेव पक्षः प्रहरणं स्वनेकश इति विशेषः । अविभज्य वेति समुदितैः संमार्ग इत्यर्थः।

उत्तानास्तिरश्चीर्वाऽपि वा द्वे उत्ताने उपभृतं तिरश्चीम् ।

सुचामेवायं धर्मः समार्गसमय उत्तानास्तिस्त्रः पार्थविला वा जुधुवे उत्ताने । अपि वेति समुदायो वार्थे।

अनिशिताः स्थ सपत्नक्षयणीरित्यभिमन्त्र्य ।

नुवादिचतुष्टयं, खुचां भूयस्त्वात्स्त्रीलिङ्गेन मनिर्देशः । सकृन्मन्त्रः ।

घृताचीरेताग्निर्वो ह्वयति देवयज्याया इत्यादाय ।

चतुष्टयं तन्त्रेण संभवाद्धस्तद्वयेन । बौधायनवैखानसोक्ता दक्षिणेन वं जुहूपमतो सव्येन धुवामिति व्यवस्था न विरुध्यते ।

प्रत्युष्टमित्याहवनीये गार्हपत्ये वा निष्टपति ।

निष्टपामीत्यन्तः । तत्रेण न्यधीयुजास्तपति, सकर्मकस्य रूपं किंचितप्ताः करो. तीत्यर्थः ।

गोष्ठं मा निर्मृक्षमिति स्रुवमग्रैरन्तरतोऽभ्या कारꣳ सर्वतो बिलमभि संमार्ष्टि मूलैर्दण्डम् ।

संमामीति मत्रान्तः । युवं संमाष्टीत्यन्धयः । अत्रैरन्तरतः परिवासनदर्याणां प्रेधाऽवयवा अग्रमध्यमूलानि । नुवे तु मध्यवन विनियोगः । अन्तरतः सप्तम्यर्थे तसिल । बिलावकाश उत्कीर्गेऽः । कथमभ्याकारम् । भाभीक्ष्ण्ये णमूल् । पुनःपुन- रित्यर्थः । पुनरौः, कुत्र, सर्वतो विलममि । सर्वतो बिलस्य बहिर्मागेषु विलमभिमुख "क, कच.द.ठ इ. भृति ति। ७ स० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । पार्श्वभागे संमार्गमेकैकमारम्प बिलावकाश एव समाप्तिः कार्येति भावः । बिलावकाश- मेव पुनः पुनरन्यत्र सकृदेव समाष्टिं । यदीष्टं सर्वत्रापि पौनापुन्यं भवेत्तदा स्नुवमभ्या- कारमिति पठेदविशेषेण वसंबन्धार्थम् । तस्मादन्तरत इत्येव संबन्धोऽभ्याकारमित्ये. तस्य । एवं च दृष्टार्थताऽम्यासस्य स्यादन्तरतो रजोनिर्मार्जन पौनःपुन्येनैव नान्यथा भवति तत्र न संपानियमोऽपि विवक्षितः । अष्टार्थत्ते तू त्रित्वविवक्षा स्यात्तद। त्रिरित्येव ब्रूपाल्लाघवादतो दृष्टप्रयोजनोऽम्यासोऽवकाशसंमार्ग इति स्थितमन्यत्र सकृ. देव । दृष्टार्थत्वाच सर्वावयवव्याप्त्यर्थमभ्यासः कार्य एव नत्वेकत्रेति च सिद्धम् । मूलदण्डं त्रुवस्य दण्डं पारिवासनमूलैः प्रागपवर्ग मूलमारभ्य कण्ठपर्यन्तं सकृत्समाष्टि विलस्य तु मध्ये बहिश्च पूर्वमेव जातत्वात्। अत्र खुवमेकमेव दव्यं प्रकृत्य विहिते समार्गे प्रथमतः सकृदेव मन्त्रो यौकस्मिन्द्रव्ये विचेष्टापृथक्त्वेनाओं निष्पद्यते सकृदेवतित्र] मन्त्र ब्यादिति परिभाषितत्वात् । न च तदपवादो द्रव्यपृथक्त्वेऽम्यावर्तत इति प्रव- सते, सुवस्य संसर्गिद्रव्यत्वाभावात् । संसगिद्रव्यं हि बहिराज्यादि जात्या कोडीकारे- गैकद्रव्यत्वाद्याख्यातं तत्रैवात्राविस्मरणाय विवृतं पुनः । सुचामपि मूलमारभ्यैव दण्डस्य पात्रपर्यन्तं प्रागपवर्ग मंमार्गः कार्यः सर्वसूत्रेषु प्रकारान्तरस्यादृष्टचरत्वात् । यदपि केचन व्याख्यातारो ब्राह्मणे लिङ्गप्रदर्शनेन दण्डमधस्तात्प्रत्यगपवर्गमुपरिष्टात्माग- पवर्ग संमार्टीति व्याचक्षते तदन्ये नात्यन्तमनुमन्यन्ते, प्राङ्न्यायोदङ्न्याययोर्बाधकस्य प्रमाणस्याभावात् । यदपि ब्राह्मगं तस्मादानी प्राञ्च्युपरिष्टालोमानि प्रत्यञ्चयधस्ता- दिति लिङ्गमुपपादयन्ति तदपि न, यतोऽयं जुह्समार्गे पात्रस्योपरिष्टादधस्ताच्च संमा! क्रमेण प्राचीमम्याकारमिति तथाऽपस्तात्प्रतीचीमिति प्रागपवर्गप्रत्यगपवर्गों विहिता- विति तयोस्तपात्वोपपादनाथार्थवादो न तु मुन्दण्डेषु प्रत्यगपवर्गपागपवर्गताप्रति- पादनायार्थवादस्तत्वकारस्याविधानात्, अन्यार्थादर्थवादादन्यत्र विधिकल्पने प्रमाणा- भावाश्यायविरोधाचेत्यास्तां तावत् । अरन्युपमानेन दण्डे प्राप्तिरित्यपि न । बाहुमा- घोषु श्रुक्षु त्वरस्नेः पात्रस्थानत्वात् । अरनिमात्रत्वेऽपि पात्रमरत्नरुत्तरार्धमात्रमिति संभवत्येव । प्राग्लोमप्रत्यम्लोमारनिसाम्यं पात्रस्यापोत्यलमतिप्रयासेन । भाष्येऽप्ये प्रागपवर्गता न बाधितव ।

वाचं प्राणमिति जुहूं प्राचीमग्रैरन्तरतोऽभ्याकारं प्रतीचीं मध्यैर्बाह्यतो मूलैर्दण्डम् ।

अत्र मन्त्रवाक्ये क्रियापदाभावादिषे त्यादिमन्त्रवास्किया लक्षणीयाऽथवाऽनुषको वा कार्यः । तत्रानुषङ्गस्य श्रौतत्वात्स एव युक्तः । तत्र पूर्वतनस्यायोग्यत्वादग्रिम एवानुकृप्यते स्त्रीलिङ्गकर्मकः । स च मा निर्मक्षं वाजिर्नी त्वा सपत्नसाहीर संमा- उमीति । चक्षुः श्रोत्रमित्यत्राप्ययमेव ज्ञेयः। संमार्टीति पूर्वस्मादनुवृत्तेन जुहू मित्यन्वयः । १५८ सत्याषाढविरचितं श्रौतसूत्र-- [१प्रथमप्रश्ने- अन्तरतः प्राचीमभ्याकारमप्रैः प्रागपवर्गा बिलमारभ्याग्रपर्यन्तं व्याख्यातमन्यत् प्रतीची बाह्यतो मध्यैः पात्रमेव बाह्यतस्तस्यैवान्तरत इति प्रकृतत्वात् । समार्गदर्भ मध्यभागः प्रतीचीमग्रादारभ्य पात्रदण्डसंधिपर्यन्तं मूलदण्डमिति प्राग्वत्प्रागपवर्गमेवे ।

चक्षुः श्रोत्रमित्युपभृतं प्रतीचीमग्रैरन्तरतोऽभ्याकारं प्राचीं मध्यैर्बाह्यतो मूलैर्दण्डम् ।

अनादारभ्य प्रतीची संधिमारभ्यामपर्यन्तं प्राची व्याख्यातमन्यत् ।

प्रजां योनिमिति ध्रुवां यथा स्रुवम् ।

संमार्गाग्रेविलान्तरतोऽगैरेव बहिरपि दण्डसंधिमारभ्य पृष्ठतोऽनपर्यन्तमानीय प्रणा- ल्याऽऽनीय विल एवापवर्गः । एवं दक्षिणपार्वोत्तरपार्श्वयोरपि विल एवापवर्गः, मूलैर्दण्ड पूर्ववत् । नात्र दर्भमध्यविनियोगः । एवं च बिले सर्वत्राम्यासो नियतोऽन्यत्र धर्ममात्र सकृन्मन्त्रः प्रतिपात्रमिति संक्षेपः।

न संमृष्टां चासंमृष्टां च सꣳसृजति ।

अत्र मात्रे संमृष्टासंमृष्टसंसर्गप्रतिषेधेऽपि सर्वपात्रविषयत्वेनाऽऽपस्तम्बेनोक्तेन संमृष्टान्यसंमृष्टैरिति विधानात्तथाऽस्माकमपि ज्ञेयम् । सप्सर्गे पुनर्निष्टपन समार्ग इति कल्पान्तरेषु सर्वप्रायश्चित्तं स्वसूत्रे ।

निष्टपति यथा पुरस्तात् ।

निष्टपनस्याऽऽदानपूर्वकत्वाद्वताचीरतेत्यादाय प्रत्युष्टमिति निष्टपति ।

अन्नाद्यं प्रजां पुष्टिं मा निर्मृक्षं वाजि त्वा सपत्नसाहꣳ संमार्ज्मीति प्राशित्रहरणꣳ सर्वतो बिलमभि संमार्ष्टि मूलैर्दण्डम् ।

तूष्णीके आदाननिष्टपने मन्त्रलिङ्गस्य बहुवचनस्य विरोधात् । यत्र यत्र पात्रसं. मार्गस्तत्र तत्र पूर्वपश्चिमाङ्गानीति दर्शितं मन्त्रमात्रसाध्यमभिमन्त्रणं निवर्ततेऽभिवर्ज लिङ्गविरोधात् । अप्रैरन्तरतोऽभ्याकारमिति पूर्ववदनुक्तत्वानास्त्येव । यदि तथा स्यात्तदा त्रुववदिति लाघवेन वदेत् । तस्मादप्रैः पृष्ठत आनीय बिलेऽपवर्गः, पार्श्वयो. रपि धुवावदेवान्तरतोऽभ्याकारमितिवर्नम् । मूलैर्दण्डं पूर्ववत् । अत्राऽऽपस्तम्बोक्तो विशेषो ग्राह्योऽस्मत्सूत्रेऽनभिधानात्प्रोक्ष्यानेणोत्करं दर्भेषु सादयति जघनेन वेति । बौधायनेनाप्यनेणोत्करं तृणेषु सादयित्वेत्युक्तं, खुचः प्राशित्रहरणं निष्टप्योत्तरतो वेदिश्रीण्यां निदधातीति वैखानसेनोक्तं, ततस्तु प्रोक्षणं कृताकृतं काप्यासादनं त्ववश्यमावि । १स, ते निवर्तलि। " - .. ७० पटलः ] महादेवकृतवेजयन्तीव्याख्यासमेतम् । १५९

दिवः शिल्पमवततं पृथिव्याः ककुभिः श्रितम् । तेन वयꣳ सहस्रवल्शेन सपत्नं नाशयामसि स्वाहेति संमार्गानभ्युक्ष्याग्नावादधाति यतरस्मिन्संमार्ष्टि ।

संमार्जनानीत्येव विशेषोपादानं कृतं तथाऽपि विभक्तानि नुवप्राशित्रसंमान- नान्येकीकृत्याऽऽदधाति । विभागामाचे तु तच्छब्दोपलक्षितानि सर्वाण्यपि अभ्युक्ष्या. तु दिर्यत्राशी संमार्गस्तत्राऽऽदधाति । यतरस्मिन्निति सामीप्यसप्तमी नह्यग्नौ पात्रम- मार्गोऽस्ति । तूष्णीमभ्यूक्ष्म मन्त्रेणाऽऽदधाति प्रधानार्थत्वान्मन्त्रम्य । प्राजापत्य- यति ब्राह्मणेन विधानात्माजापत्यो वै वेद इत्यर्थवादाच्च प्रजापतय इदमिति याज- मानमिति, तन्न, प्रनापतेर्मन्त्रलिङ्गादप्रतीतेनात्र देवतानिर्देशः प्रतिपत्तिधर्मत्वाच्च । अत्र बौधायन:-अर्थतां. पत्नीमन्तरेण वैद्युत्करमभि प्रपाद्येति प्रविष्टा पत्नी । आपस्तम्बः- अपरेण गार्हपत्यमूर्ध्वमित्यादि । बौधायनो जघनेन दक्षिणेन गार्हपत्यमुपवेश्येति । तस्मात्क्रमविरोधि मह्यम् ।

आशासाना सौमनसमिति मौञ्जेन योक्त्रेणान्यतरतः- पाशेन पत्नीꣳ संनह्यत्यूर्ध्वज्ञुरासीना तिष्ठन्ती वा ।

सुकृतायकमिति मन्त्रान्तः । मुञ्जतृणैनिर्मित मौज़, योज्यते नो येन रज्जविशे- षेण मूलेऽने वा कृतपाशेन पत्ती सन हते. बध्यते, उर्वे जानुनी यस्याः सोपविष्टति विशिष्ट एकः पक्षो द्वितीयस्तु स्थिताइनुपविष्टैव । अत्र पत्नीति प्रथमा कर्तरि तदा संनयत इत्यात्मनेपदं कर्तवं, कर्म त्वध्याहार्वमात्मानमिति, तदा पत्नी संन ह्य ह्यतीति परस्मैपदं पत्नीमिति द्वितीयाविभक्तिश्च विरुष्यते । अथ संनह्यत इति कर्मणि प्रत्यय- स्तदाऽऽशासनित्यादिसमानाधिकरण उत्तमपुरुषो विरुध्येत । आध्वयंव. त्वनुगृहीतं, लिङ्गं तु — आशासाना सौमनसमित्याह । मध्यामतैना केवली कृत्वा । आशिषा समर्धयति । इति ब्राह्मणं, मन्त्रार्थभूतफलसंपादनमुस्विकार्यमवेति गमयति ब्राह्मणे । तदर्थमुत्तमपुरुषा- नुगुण्याय मन्त्रपयोगः पल्ल्या ऋत्विक विनिर्वाहाय प्रयोनककर्तृत्वमृत्विन इति । तदेवं न्यायेन सिध्यतीति मत्वाऽनेन ब्राह्मणानुकरणेन सूत्रं रचितमाचार्येण ।. आपस्त- म्बस्तु वाचयतीत्येकेपामित्यु क्तवान् । भाष्यकृता तु मन्त्रपाठः पन्या उक्तः सनहनम. विजा तदाऽपि समर्धयतीति न समझमम् । अन्यः कोऽन्येन करणमन्त्रोच्चारण- मित्यपि न समञ्ज पम् । तस्मादापतन्त्रोक्त शाखान्तरीयों विशेषविधिरेव य को पाचयतीति । ऋत्विमन्त्रेण वाचनद्वारा मनह्यति मन्त्रेण वाचितेनं करणभूनन स्मृतिम्तया सनहन साक्षादनेनविना सना सुकृतायेति पत्न्यु तेनत्विपत्नी मनहनतबन्धप्रतिपाद- १ क. स. ग. च. छ. ट. द. ग. "ति सुसमाजमान्यभ्यं । सत्यापाढविरचितं श्रीतसूत्र- [१प्रथमप्रश्ने नात् । पस्नीमपि तेनेष प्रयत्नेन वाचरति, तेन न सूत्रबामणे विरुध्येते अपि तूपस्कृते इत्यलं पक्षान्तरैः।

न वासोऽभि संनह्येत् ।

वस्त्रममिलक्षीकृत्योपरि न संनोत् । स्त्रीसनहनं यद्यपि परिहितवस्त्रस्योपरि न प्राशोत्येव तथाऽपि शाखान्तरीयविशेषविधिना प्राप्तप्रतिषेधाद्विकल्पः । आपस्तम्बेन तु विकल्प एवं दर्शितः । संमोदिति परस्मैपदं प्रयोजककर्तृसापेक्षम् ।

पूषा ते ग्रन्थिं ग्रध्नात्वित्युत्तरतो नाभे- र्निष्टर्क्यं ग्रन्थिं कृत्वा स ते मा स्थादिति दक्षिणतो नाभेः परिकर्षति ।

पूर्वति नाभेरुत्तरमागे ग्रन्थि कृत्वा, निष्टायमिति व्याख्यातं शिखाग्रन्थिकरण. सन्न विस्मरणीयम् । तं प्रन्धि स त इति नार्दक्षिणभागे परिकर्षणेनाऽऽनयति । पत्नीसंस्कारवादनेकाहिताग्निपत्नीः प्रत्यावर्तते संनतनमेकत्वस्याविवक्षितत्वात्प्रतिप्र- धानमावर्तते ।

अग्ने गृहपत उप मा ह्वयस्वेति ।।२३।। तिष्ठन्ती गार्हपत्यमुपतिष्ठते ।

पदाऽऽसीना संनद्धा तदोत्यायोपतिष्ठते । न चोपतिष्ठत इत्यत एवोत्थानं सिद्धमिति बाच्यम् । उपान्मन्त्रकरण इत्यात्मनेपदविधानानात्रोपोत्थानं धातुप्रत्यययोरर्थः कि तु मन्त्रकरणमञ्जलिकरणपूर्वक विनयेनाऽऽशीर्याचा । तदुक्तमाहिताग्नेराशीयर मिमुप- तिष्ठत इति । तस्मादुपस्थानादन्यदुल्लानं विधत्ते । यथोत्तरामाहुतिमुपोत्थाय कवाति- थैडिवाऽऽहवनीयमुपतिष्ठत इत्यस्त्यासीनाया अप्युपस्थितिः । इदमारानुपकारक कर्मापि प्रतिपल्यावर्तते । परार्थान्येकेन क्रियेरनिति न प्रवर्तते तस्य न्यायस्य परार्थ- कविषयत्वात् । अथ प्रकृस्कृतमपूर्वमुत्पादयेरिति न प्रतिपल्यावृत्तिरिति तथाऽप्युप. स्थान कामनाप्रार्थनं तद्भोत्कृसंस्कारस्वेन प्रतिपल्याशीमन्ना आवर्तन्त इत्यपि सिद्धम् ।

देवानां पत्नीरुप मा ह्वयध्वमित्यपरेण गार्हपत्यं देवपत्नीः ।

उपतिष्ठत इत्यनुवृत्तिः । गार्हपत्यस्यापरदेशपस्थिता देवपत्नी रित्यनुसंधायोपति- छत इत्यर्थः । देवपत्नीनां तत्स्थानमिति ब्राह्मणे दर्शनात् । इनमपि प्रतिपनि ।

पत्नि पत्न्येष ते लोको नमस्ते अस्तु मा मा हिꣳसीरिति तमेव देशं प्रेक्षते ।

गार्हपत्यापरदेशमेव प्रेक्षते न तु पूर्व, मन्त्रशेषोऽयं करूपान्तरोतवदिवमपि प्रधा. नकर्म, द्वितीयाविभक्तिस्तु श्रूयमाणा तथायुक्तं चानीप्सितमिति सूत्रेण विहिता, तेन संस्कार्यत्व बोधयति कर्तुः क्रिययाऽऽप्तभिष्टतमस्वाभावात् । एवमुपस्थाना सर्वत्र 1 ७१० पटलः]] महादेवकृतवैजयन्तीव्याख्यासमेतम् । द्वितीयामात्रेण न संस्कारकर्मत्वावगतिः । देशप्रेक्षणेनाऽऽत्मनेऽनिष्ट परिहारमर्थयतेऽतः प्रतिपत्नि।

इन्द्राणीवाविधवा भूयासमदितिरिव सुपुत्रा । अस्थूरि त्वा गार्हपत्योपनिषदे सुप्रजास्त्वायेति दक्षिणतःपश्चाद्गार्हपत्यस्योदीच्युपविशति ।

गार्हपत्यस्य दक्षिणपश्चाद्भागयोरन्तराले नै त्यां दिशि उदमख्युपविशति । यथाप्रदेश मुख्यपत्ल्यूपवेशनम् । समीप इतरासां सामेव दिशमवलम्ब्य व्यवधानेनाऽऽ. त्यसंस्कारोऽयमाशीमन्नत्वात् ।

एवꣳ संनद्धाऽऽविमोक्षादन्वास्ते ।

एवंप्रकारेण संनद्भवाऽऽस्ते सनहनविमोक्षपर्यन्तं विमोक्षमभिध्यायेत्यर्थः ।

सुप्रजसस्त्वा वयमित्यासीना जपति ।

अदाम्पमिति मन्त्रान्तः ।

मम पुत्राः शत्रुहणोऽथो मे दुहिता विराट् । उताहमस्मि संजया पत्युर्मे श्लोक उत्तम इति च ।

अपतौति संबध्यते । चकारः समुच्चयार्थः । आस्त इत्यनेनैवोपविष्टा अपनीति सिद्धेऽपि पदासीनेत्याह तज्ज्ञायते मन्में गोपविश्यानुवना मूत्वाऽऽस्त इति नोपवेशननियमोऽर्य किं स्वनुवतभवननियमेन संततवृत्तिमात्रमात इत्यस्यार्थ इति सेन निरुद्धोत्थायापि विहारे यथासुखं तिष्ठतीत्याप लभ्यते । उपवेशनं जराङ्गमवश्यं कार्य जपारपूर्वमामा संस्कारो नपस्त्वाशीमन्त्रोच्चारणं जप आरादुपकारक इत्यावर्तन्ते त्रयोऽपि प्रतिषस्ति । एते मन्त्रा आधानात्पूर्व पितुः पत्युर्या सकाशारधीय प्रयोज्याः ।

पूषा ते बिलं विष्यत्विति सर्पिर्धानस्य गर्गरस्य बिलं विष्यति पूषाऽसीति वा ।

पत्न्यधिकारी निवृत्तः । स्त्रीलिङ्गपरसममिव्याहारेण निर्देशादन्य इति व्यायेन बाधितोऽध्वर्युकर्तृत्वोत्सर्गस्ताहपदाभावादनबनते पुनः । सपियोऽवस्थाप्यते यस्मिन्स सपिनिस्तत्पात्र गर्गरशब्दवाच्यं विशिष्यते तस्य मुखं पूर्वमेव वनादिना पिधाय विहारं प्रयानीय स्थापयति । तदैत्र वा पिधानेन संस्कारः सपियः कार्योऽन्यथोद्ध द. मलक्षणसंस्कारासंभवप्रसङ्गात् । रिलं पात्रमुखं विष्यत्युद्धाटयतीति यावत् ।

अन्यस्मिन्पात्रे निषिच्य यावनिर्वप्स्यन्भवति ।

अत्र समासान्तर्गतोऽपि सर्पिःशब्द उत्कृप्यानुवर्तनीयोऽध्याहारस्य लाक्षणिकस्वेन मधन्यत्वात् । गारन्यत्र पात्रे मानिक्षिप्य यागपर्याप्ताकिंचितविक प्रभूनमिति के.ग.प. छ.ट.६.इ. म विरु। ११ १६२ सत्यापाढविरचितं श्रौतसूत्रं- [१प्रथमप्रश्ने- निर्वापे वक्ष्यमाणत्वात् । आज्यस्थास्यां यागाय पर्याप्त प्रमूतं निर्वीपेण ग्रहीष्यन्भवति तावदादावेव पात्रे तूष्णीं गृह्णातीत्यर्थः ।

इदं विष्णुर्विचक्रम इति दक्षिणाग्नावधिश्रित्य ।

स्पष्टम् ।

अदितिरस्यनाच्छिन्नपवित्रेत्याज्यस्थालीमादाय महीनां पयोऽसीति तस्यां पवित्रान्तर्हितायां प्रभूतमाज्यं निर्वपति ।

आप्तादनस्थानादादाय स्वीकृत्य तस्यां गृहीतायां पवित्रं तूष्णीमन्तर्धायानन्तरं तस्यामाज्यं प्रभूतं निर्वपति निर्वाण कर्मणा यागार्थ स्थी करोति । पूर्व सपिःशब्दन प्रस्तुतेष्वाज्यशब्दप्रयोगो जातिशब्दत्वल्यापनार्थः । तेन यदप्तर्पत्तत्सपिरभवदित्यादि. शब्दनिर्वचनं न यौगिकत्वख्यापनार्थमपि तु स्तुतिरित्युक्तं भवति । प्रभूतमधिकम् । महीनामित्यस्यान्तः संहितायां निपामोति । ब्राह्मणे देवयज्याया इत्यधिक पठितमतो मन्त्रद्वयं विकल्पेन ज्ञेयम् । पाठद्वयबलात्प्रत्यभिज्ञाविच्छेदः । समानार्थत्वात्प्रकरण.. स्थानसंज्ञाभिर्विना ब्राह्मणं संहितामन्त्रस्य विनियोगः । न च समानबलत्वाभावादति. कल्पः । आनर्थक्येन समानचलता 'ज्ञेया । अथवा ब्राह्मणान्तरे तावत एव विनियो. गात्समानवलता । महीनां पयोऽसीति संबुध्यमानमाज्यं गव्यमेवेति गम्यते । महीति- शब्दो गवीरितः । यथा गोः कणे नपे महि विश्रुत्येतानि ते अग्निये नामानीति मन्त्रे । तत्प्रतिनिधित्वेन माहिषमाजमन्यद्वा गृह्यते तदा नोह इति वक्ष्यते ।

इषे त्वेति दक्षिणार्धे गार्हपत्यस्याङ्गारेष्वधिश्रयति ।

आज्यामित्यनुवृत्तिः । तस्य दक्षिणेऽर्थेऽङ्गारेपु न भस्मनि न ज्वालासु । अधि उपरि स्थापनं विलापनार्थम् ।

ऊर्जे त्वेत्युपादाय वेदेनोपयम्य पत्न्या उपहरति ।

वेदेनाऽऽज्यस्थालोमुपयम्य वेदसहकृतेन हस्तेन धृत्वा तेन सहैवाऽऽज्यस्थाली पत्न्या हस्तयोनिदधाति । मन्त्रेणोपादानं त्वेति द्वितीयान्तेन कर्मपात्रप्रकाशनाद्वेदप- स्न्योरप्रकाशकत्वादङ्गमतेनोपादानकर्मणा संबध्यते मन्त्रो न प्रधानकर्मणोपहरणेना. योग्यत्वात् । वेदेनोपयमनमुपहरणाझं पत्न्यामनधिकारिण्यामुपहरणाभावान्नोपयमनम् ।

महीनां पयोऽसीति तत्सा निमील्यानुच्छ्वसन्त्यवेक्षते ।

सुप्रनास्त्वायेति मन्त्रान्तः । मन्त्रेणावेक्षणं तल्लिङ्गत्वादन्यतूष्णीं तदुपट्टतमेव मा यस्या उपहृतं सैव तथा चान्यस्यै पुनरुपहरति साऽपि तथैव । नन तदिति द्विती- १७. ज. स. अ. द. "विश्रयति । २ क. ग. च. म्। निवपामीति मश्रान्तः। ३८. इ. मितिमश्रान्तः। क. ग. च..छ. ज. प. अ. ट. उ. ४. द. "स्वाधि। ५ ख, आयतनस्य । (प., ज. स. न. इ. खेसपा । 3. भगात्र । घ. ङ, झ. . माल्यवानु । ७ - ७सपटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । १६३ यानिर्दिष्टमाज्यं संस्कार्य परार्थान्येकेनैव क्रियेरनिति कथमन्याऽप्यवेक्षत इति चेत् । उच्यते-द्वितीयेप्सितानीप्सितयोः समाना न निर्णयहेतुः । भूतभाव्युपयोगस्तु यथाऽऽज्य एवं पन्यामपि । तस्मादन लिङ्गः पत्न्या एवावेक्षणलक्षणः संस्कार इति । तथा हि मन्त्रे तावत्सुप्रनास्त्वायेति फलस्तुतेः पत्नीसंस्कारस्तथा मिथुनत्वा. येति च वाक्यशेषात् । अमेध्यं वा एतत्करोति यत्पत्न्यवेक्षते गार्हपत्येऽधिश्रयति मेध्यत्वायेति वाक्यशेषे कथं निन्दा स्याद्यद्याज्यावेक्षणमाज्यसंस्कारस्तस्मात्पत्नी- पंस्कारत्वात्सर्वाभिरवेक्षणम् । बौधायनेनाप्युक्तमर्थता आज्यमवेक्षयतीति । चक्षुषी निमीत्येति पत्नीसंस्कार एव निमीत्य पुनरुन्मील्यावेक्षतेऽन्यथा विरोधः स्यात् । वैखा- नसेन स्पष्टमुक्तं निमीत्य वीक्ष्यानुच्छसन्त्यवेक्षते । वीक्ष्येति चक्षुरुन्मीलनमविवक्षितम् । पत्नीसंस्कारत्वेन प्रतिपत्न्यावर्तते । अयं संस्कारः कर्तुर्नापि तु भोक्तुरतेनैतादृशाः संस्कारा अपि प्रधानस्याऽऽरादुपकारका एव पर्यवस्यन्ति दीक्षणीयावत् । अत एवं महापितृयज्ञेऽपि पत्नी गृहेष्वासीनैवाऽऽज्यमवेक्षत इत्येवं वदिष्यति । नान्वास्ते न संयाजयन्तीति कर्तृत्वप्रतिषेधात् । आरादुमकारकत्वाच्च वरुणप्रघासेषु कृत्स्नं तन्त्रमु. मयत्र विहारद्वयेऽप्याज्यमवेक्षते ।

तेजोऽसीति गार्हपत्येऽधिश्रयति ।

अत्र केचिदाहुः-यदाऽनालम्भुकत्वादिना पत्नी नावेक्षते तदा न गार्हपत्येऽधिश्रयणं, यतः पल्याडवेक्षितममेध्यं भवतीति मेध्यत्वाय गाई पत्येऽधिश्रयणमुक्तमिति ।

तेजसे त्वेत्युपादाय तेजोऽनु प्रेहीति हरति ।

आहवनीयेऽधिश्श्रयणार्थ हरति । उपादाय गार्हपत्यात् । अत्र माष्यकारेणोक्तं दक्षिणेनं ब्रह्मयजमानौ नीत्वा हरतीति । तत्रायमभिप्रायः-आज्येनोंदेहीति प्रैपदर्श नादाज्यनिर्वपणान्तं कर्मक सपिनिषेचनादि । तत्रोत्तरतउपचारो विहार इति चेदुत्त- रतो हरेत्तदाऽऽहवनीयादानीयाऽऽसादने प्रत्यगपवर्गता स्यात्सा मा भूदिति तयोकं तथा प्रादक्षिण्यं प्रागपवर्गता च परिभाषासिद्धे अबाधित स्याताम् ।

अग्निस्ते तेजो मा विनैदित्याहवनीयेऽधिश्रयत्यग्निस्ते तेजो मा विनैद्यज्ञे यज्ञꣳ सꣳसादयामि यज्ञे यज्ञः प्रतिष्ठित इति वा ।

स्पष्टार्थम् ।

अग्नेर्जिह्वाऽसीत्युत्तरेण प्रोक्षणीः स्फ्यस्य वर्त्मन्सादयति ।

मवेति मन्त्रान्तः । आहवनीयाद्ययेतं प्रत्येत्य सादयति, वर्मन्निति वर्मनीत्यर्थे सुपा सुलुगिति लुक्, प्रोक्षणीपात्रस्योत्तरतः। १५.ब.स. खेलपा । ३. ति। अपा'। '- सत्यापाढविरचितं श्रौतसूत्र- .[१प्रथमपने-

आज्यमसीत्याज्यमवेक्षते ।

अध्वर्युरेव । याजमानसूत्राद्यजमानोऽपि । भक्षीयेति मन्त्रान्तः ।

उपरिष्टाद्वोत्पवनात् ।

अवेक्षत इत्यनुवर्तते । उत्पूय पश्चाद्वा । अत्र ब्राह्मणे निमीत्यावेक्षतेति साथ- वादमुक्तं, तथैवाऽऽपस्तम्बादिभिरप्युक्तम् । आचार्येण तु पत्न्यवेक्षत इति व्याख्यातं तदत्रापि भविष्यतीति नोक्तं, तत्र तु शाखान्तरीयत्वायाख्यातं, तेन यत्र यत्राऽऽज्य- मवेक्षत इति तत्रैतौ धर्मों निमील्यानुच्छपन्निति शाखान्तरीयौ ज्ञेयौ । तेन यान मानेऽपि सिद्धिः । अयमाज्यसंस्कारो द्वितीयया भान्युपयोगादर्थवादाच । अर्थबातो. (३) हि 'ईश्वरो वा एषोऽन्धो भवितोः । यदाज्यमवेक्षते ' इति निन्दित्वा 'निमी. त्यावक्षेतं । दाधाराऽऽत्मन्चक्षुः । ' इति विहिताज्यसंस्कारार्थ चक्षुषो न्यापारेण व्ययो मवेदतो न्ययप्रतिसमाधान निमीलनेनोक्तम् । न हि यत्र संस्कारस्तत्र वैगुण्यं कुर्यादत एवात्राऽऽज्यावेक्षणेन पत्नीसंस्कारे जन्ये विषयमूतमाज्यममध्यमभूद्यतोऽन्यस्य मेध्यता संपादितवत् । अतः प्रवसति यजमानेऽध्वर्युणा पुनराज्यावेक्षणं कार्यमेव ।

शुक्रमसि ज्योतिरसि तेजोऽसीत्युदगग्राभ्यां पवित्राभ्यां पुनराहारमाज्यं त्रिरुत्पुनाति ।

सकलमत्रपाठस्तु समुच्चयार्थों ब्राह्मणे तथैव समुच्चयपाठप्रदर्शनात्तदनुसारिपाठेन' मतान्तरमपि निरस्तम् । यदाहाऽऽपस्तम्बः-शुक्रमीति प्रथमं ज्योतिरसीति द्वितीय तेजोऽसीति तृतीयमिति, तन्नेष्टम् । समुच्चयपक्षस्तु स्पष्टं वैखानसेनोक्तः । शुक्रमसीति त्रिमिरित्युक्तं न च प्रत्येकमित्युक्तम् । अत्र हि त्रिरुत्पवनं समन्त्रमेवेष्टं त्रिर्यजुषेति. ब्राह्मणे विधानात् । ननु स्खेनानुक्ते यत्रैकस्मिन्द्रव्ये विचेष्टापृथक्त्वेनाओं निष्पद्यते सकृदेव तत्र मन्त्रं भूयादिति प्राप्नुयादिति चेत् । न । तस्य न्यायस्यानन्तरिताम्यास- विषयत्वात् । अत्र तु पुनराहारेण विजातीयनान्तरितत्वात्पूर्वपठितमन्त्रेण अनितायाः, स्मृतेषिच्छेदात्पुनः पुनमन्त्रेण भाव्यमिति न्यायेन पूर्वन्यायाधो भविष्यति । ब्राह्मणं सु तस्यैव न्यायस्यानुवाद इति तदपि नोक्तम् । ब्राह्मणे समुच्चयस्तु 'शुक्रमसि ज्योतिरसि तेजोऽसीत्याह । रूपमेवास्यैतन्महिमानं व्याचष्टे । त्रिर्यजुषा । त्रय इमे लोकाः । एषां लोकानामाप्त्यै । त्रिः । व्यावृद्धि यज्ञः । अथो मेध्यत्वाय । ! इति । समुच्चयपाठोऽस्येति यजुषेत्येकवचने च समुच्चयं प्रतिपादयन्ति त्रियजषेत्य- नुवादोऽप्यर्थवादान्वयायार्थवादेन . चादृष्टसंस्कारत्वावमतिः प्रयोजनमन्यथाऽऽज्य- गतमलापकर्षणमात्रेण दृष्टे संभवत्यदृष्टकल्पना न न्याय्येति प्राप्नुयात्तन्मा भूदेषा । क.ग... तवान् । । २ ग. ह. दो यद्यपि य । ३ ख. 'नेन च । ७स०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । १६५ लोकानामाप्य मेध्यत्वायेति द्वाभ्यां प्रयोजनस्य दर्शितवाददृष्टसंस्कारताऽनुवाद- प्रयोजनमिति सर्वमवदातं, भाष्यमप्येवं योज्यम् । एतैः समुदितर्मन्त्रैः प्रतिमन्त्रं त्रयात्मकमिति पुनराहृत्याऽऽहत्योत्पुनाति । एवमत्र क्रमा-आन्यस्थाल्यां पवित्रे पश्चाद्भागमारभ्य प्राग्भाग: नीत्वा पुनः पश्चाद्भागमानीय ततो मन्त्र गोत्पुनाति । पुनाई- रेवमेव । न च प्रत्यगपवर्गत्वमन्याव्यमिति वाच्यम् । श्रुत्यैव प्रत्यगपवर्गता विहितोत्स- र्गस्य बाधिका भवेत् । ब्राह्मणे 'पुनराहारम् । एवमिव हि प्राणापानौ संचरतः' इति पवित्रयोः प्राणापानरूपयोः संचार उक्तः । प्राणो हि प्रागपवर्ग संचरति तस्य मुखनासिकनिरोधेन निरोधो यतोऽपानः प्रत्यंगपवर्ग तस्य निरोधोऽपानद्वारलिङ्ग- निरोधो यतो दृश्यते तस्मात्प्राणापानगतिभ्यां क्रमिकाभ्यां पुनराहारे प्रत्यगपवर्गता न निवार्येति । पुनराहारमिति णमुल्प्रत्ययान्तम् । पुनराहारोऽङ्गमुत्पवनस्य मन्त्रोऽपि तेन न पुनराहारे मन्त्रसंबन्धः । तूष्णीमेव कृत्वा मन्त्रणोत्पवनम् । उभयोत्पवन: संबन्धि याजमानमद्भिराज्यमित्यादि ।

देवो व इति त्रिः प्रोक्षणीः ।। २४ ।।

उत्पुनातीति संबध्यते । पच्छो गायत्रियेति ब्राह्मणे स्पष्टमुक्त ज्ञेयम् । पुनराहार- मिति नानुवर्तते त्रिरित्यनुवर्तयितुं शक्ये पुनस्त्रिरित्यभिधानात्रिरेव न पुनराहार- मित्यर्थः ।

आपो रेफतपिप्रीतमध्वासमङ्क्तानिष दस्थायामन्नहृणीयमाना इति वा ।

प्रोक्षण्युत्पवने वैकल्पिकः ।।

अन्तर्वेद्याज्यानि गृह्णाति ।

सुचं वेदिमध्ये धारयिस्वा गृह्णातीत्यर्थः । धर्मान्वक्तुं प्रतिज्ञामात्रम् ।

स्रुवेणानिष्कासिना ।

गृह्णातीत्यनुवृत्तिः । निष्कासः शेषोऽस्तीति निष्कासी तथा न भवति तेन पूनि- कासरहितनेत्यर्थः।

वेदेनोपयम्य ।

स्रुचमिति शेषः । वामेन सवेदां मुचं धारयन्दक्षिणेन खुवमित्यर्थप्राप्तम् । बौघाय- नेन तथोक्तं : वेदे प्रतिष्ठाप्य गृह्णीते ' इति ।

चतुः पञ्च वा जुह्वां गृह्णात्यष्टौ दश वोपभृति यथा जुह्वामेवं ध्रुवायाम् ।

व्यवस्थया पक्षद्वयमेव सर्वाणि चतुगृहीतान्येव पञ्चगृहीतान्येव वा । षोडशान्या- -५ १६६ सत्यापाढविरचितं श्रौतसूत्र-. [१प्रथमप्रश्ने- ज्यानि विशानि वा । षोडशानीति स्वयं वदति स्वनामणानुसारेण । दशगृहीतमुप- भृति पञ्चगृहीतमितरयोरित्येके समामनन्तीत्यापस्तम्बः ।

भूयो जुह्वामल्पिष्ठमुपभृति भूयिष्टं ध्रुवायाम् ।

गृह्णातीत्यनुवर्तते । भूयो भूयिधमिति समानार्थमतिशयेन बहित्यर्थः । अतिशयेना- रूपमल्पिष्ठम् । अस्पिष्ठमुपभृतीत्येतावताऽन्ययार्बहु सिध्यत्येवेतरयोर्वा भूयिष्ठमित्यपीष्ट- सिद्धौ गुरुनिर्देशस्तारतम्यस्यात्यन्तातिशयार्थम् ।

उपबिलꣳ स्थाल्या जुहूं धारयमाणो मध्यदेश उपभृति भूमौ प्रतिष्ठितायां ध्रुवायाꣳ षोडशान्याज्यानि गृह्णाति ।

आज्यस्थाल्या विलेन सममुपबिलं जुहूं धारयमाणो गृहति । जुहामिति विपरि- णामेन पूरणीयम् । स्थास्या मध्यदेशे धारयमाणं इति संबन्ध उपभृतमिति विपारे- णामः । भूम। प्रतिष्ठितायामत्र न विपरिणामापेक्षा । काम्यौ पक्षौ वक्तु मुक्तं षोडशा- नीति, नो चेद्विशपक्षेऽपि हासेन काम्थसप्तदशत्वस्य तम्मा भूदिति षोडशपक्षे काम्पैः कविंशत्वं विंशपक्षेऽपि नित्याबाधेकशित्वस्य काम्यस्य संमयोऽर्थादुक्तः ।

सप्तदशानि पशुकामः कुर्वीतैकविꣳशानि प्रतिष्ठाकामः ।

आग्यग्रहणकाळे पशुकामः सप्तदशान्याज्यानि करिष्ये तथा प्रतिष्ठाकाम एक. पिंशानि करिष्य इति कुतिति धातुप्रत्ययानुसारेण संकल्पे यजमानेन कृतेऽध्वर्यु- गुह्णाति । एवं परिभाष्य प्रयोगक्रममाह-

शुक्रं त्वा शुक्रायामित्येतैर्जुह्वां गृह्णाति पञ्चानां त्वा वातानामिति चोत्तरैरुपभृति ध्रुवायां च ।

शुक्रं त्वेति त्रिषु मध्यमे धाम्ने धान्न इत्यनुषङ्गः, संहितायामाचर्यवपठितात्रयः, यानमाने त्रयोदश, तेषां लिङ्गेनाऽऽध्वर्यवे विनियोगः समानः । यानमाने प्रथम- स्याऽऽवृत्तिः । याजमाने षोडशपले मन्त्रविभागोऽयम् । द्रव्यपृथक्त्वेऽभ्यावर्तत इत्य- त्राऽऽज्यान्युदाहृतानि, सर्वाणि ग्रहणानि समन्त्राण्येवेति स्थिते जुह्वां ग्रहणे शुक्र त्वेति मन्त्र इतिकरणेनाऽऽदिदिष्टः सर्वोऽपि यदैक एव तदा तस्य त्रिरावृत्तिः प्रसज्येत । तदर्थमुक्तमैतरिति बद्भुत्वम् । ननु तथाऽप्येकशेषादेकत्वमेवेति चेन्न । एतैरिति व्यर्थ स्यात् । आचार्यः पुनरेकमन्त्राणि कर्माणोति परिभाष्य कथं ब्रूयादेतैरिति बहुवचनं, यत्र मन्त्रसमुदायो मन्त्रो विवक्षितस्तत्र मन्त्रैकत्वमेव साधितं तदधिकप्रयत्नाद्बहुवचन- विरोधाच नानामन्त्रता । अत एव पूर्वमुपयत्र हेत्वभाव एकमन्त्रतैव व्याख्याता । कचित्तस्यैवाभ्यासोऽपि । तत्र तत्र यथाकथंचिद्भाष्यमप्यनुगुणीकृतं क्वचित्परिहृत

  • इदं सूत्र व्याख्यापुस्तकेषु न विद्यते । ७१० पटलः]] महादेवकृतवैजयन्तीव्याख्यासमेतम् । १६७

च । पश्चानां त्वा वातानामित्यस्मादुत्तरैः पश्चानां स्वर्तनामित्यादिमिरुपभृत्यष्टभिर्बुवायां चतुमिरधिकस्तस्यामेव सप्तदशव ज्ञेयः कामाय खेति काम्ये लिङ्गात् । आपस्त- बेनापि पशुकामस्य पश्चगृहीत धुवाषामित्युक्तम् । इवानी विशैकशियोः पक्षयोमन्त्र विभागमाह-

यद्यल्पीयाꣳसो मन्त्राः स्युस्तेषामर्धैरुपभृति गृह्णीयादर्धैरितरयोर्यदि भूयाꣳसोऽवशिष्टा विकल्पार्थाः ।

विशेषु तथैवैवविशेषु वाऽल्पायांसो मन्त्रास्तेषां चतुधी विभक्तानां मध्यमभागद्वय - मर्धास्तैरुपभृति ग्रहणमाद्यन्तमागद्वयमस्तैिः प्रथमभागस्थैर्नुहां चतुर्थभागस्थैर्बुवायां प्रथमप्रथमावृत्त्या संख्यापूरणम् । तथा च षोडशान्यपक्षे यस्यां ये विनियुक्तास्ते तथैव ग्राह्या इत्योः । वक्ष्यमाणमन्त्रनिमिः संख्यापूरणमिति पदिष्यति । तथा च शतिर्मन्त्राः । गेडशाज्यपक्षे कथं विनियोग इत्यत आह-अवशिष्टाश्चत्तारो रिकल्पेन पूर्वैः सा ग्राह्या इति भावः ।

शुक्रमसि ज्योतिरसि धामासि प्रियं देवानामनाधृष्टं देवयजनं देववीतये त्वा गृह्णामीति वा संख्याः पूरयति धामासीति वा सर्वासु ।

शुक्रमसीत्यादत्रयो मन्त्राः । प्रियं देवानामित्यायनुषङ्गः । प्रयाणां गृह्णामीत्यन्तः । षोडशपक्षे विकर्णा अपरत्र संख्यापूरणाय । धामासीत्यादिगृह्णामीत्यन्तो वैक एवं संख्यापूरणार्थः । यमर्थः-शुक्र वेति त्रिः पञ्चानामित्यकेन च जुह्वां चतुर्ग्रहीते शुक्र. मसि प्रियं गृह्णीति पञ्चानां स्वप्नां० पञ्चानां त्वा विश पञ्चानां स्वा पञ्चनना- नां• चरोस्त्वति चहीते ज्योतिरसि प्रियं गृहामीति पञ्चमम् । ब्रह्मणस्त्या तेजसे. ० क्षत्रस्वाशे त्या मुवीर्याय स्वा गृहामीति पुनरुपमृत्येव चतुर्गृहीत धामा- सि. प्रियं० मीति बमम् । उपभृति द्वे चतुर्गृहीते गृह्यते इति न्यायविसिद्धान्तस्त. दर्थ चतुगृहीतस्य प्रगृहीते क्रियमाणे संख्यापूरणं नत्वष्टगृहीतस्य । यत्त्वष्टौ दश वेति वचनं तत्फलतो प्रहमात्राझं न तु होमाङ्ग, चतुरवत्तं जुहातीति प्रधानसंख्या नुरोधा- येति साधितं तैरेष न विधिविधागतः । तथा धुवायां सुप्रनास्त्वायसरायस्योपा. ब्राह्म० भूर० गृह्णामति चतुर्ग्रहीते रित्येषु विशेषु धामासीत्यनेनैव पञ्चमं काम्पैकविशेषु कामाय स्वेति पञ्चमं मासीत्यादिना पम् । धामासीति वेतिपक्षे पूर्वयोर्विकल्पार्थस्य धामासीति गृह्णामीत्यनेन चतुर्गा चतुर्गुहेत्वना पञ्चमै पञ्चममनेश्व गृह्णाति । एकविशेष विशं कामाय स्वेत्यादेना धामासीत्येकशमिति सर्वव्यवस्था तेया । इयं च व्यव. स्थाऽधैरुपभृतीतिसूत्रनुरोधात्सर्वास्वित्येत्सूत्रपदाच सर्वासु खुक्षु संख्यापूरणमन्यथा कथं स्यात् । याजमानं तु पश्चानां त्व वातानामिति चनुरावर्तनीयः सप्तमशेषु(शसु) o o . O i

१६८ सत्यापाढविरचितं श्रौतसूत्र- [१प्रथमप्र- कामाय वेति विशेषु धामावृत्तिश्चरोस्त्वेति द्विः सुवीर्यायेति द्विः, भूरस्माकमिति द्विः, एकविशेषु कामाय स्वेत्यस्यैव द्विरावृत्तिन भूरस्माकमित्येतस्येति ज्ञेयम् ।

अन्यत्रोत्करादाज्यानि सादयित्वाऽपोद्धृत्याऽऽज्यस्थालीं प्रोक्षणीरभिमन्त्र्य ब्रह्माणमामन्त्र्य ।

वेदितः सकाशादाज्यरथाली सवेदामपोवृत्यान्यत्र स्थापयित्वा प्रोक्षणीरापो देवीरि. त्यभिमन्ध्य ब्रह्मन्प्रोक्षिप्यामोति ब्रह्माणमामन्त्र्य प्रसूते सति ।

कृष्णोऽसीति निधायेध्मं त्रिः प्रोक्षति ।

अग्नये त्वा स्वाहेत्यन्तः । विमुच्येष्म मन्त्रेण प्रोक्षति ।

वेदिरसीति वेदम् ।

प्रोक्षति त्रिरिति च।

बर्हिरसीति बर्हिः ।

स्वाहेत्युपयोरन्तः पूर्ववत् ।

त्रिरेकैकम् ।

पूर्वानुवृत्तौ सत्यां त्रिरकैकमित्युत्तरत्रानुवृत्तिर्मा भूदिति पुनर्वचनम् ।

अन्तर्वेदि पुरोग्रन्थि बर्हिरासाद्य दिवे त्वेत्यग्राणि प्रोक्षयन्तरिक्षाय त्वेति मध्यानि पृथिव्यै त्वेति मूलानि।

पुरोभागे पूर्व दिग्ग्रन्थिर्यस्य तर्हिः सन्नद्धमेव वेद्या मध्य ऊर्धामासाद्य तस्यान मध्यमूलानि क्रमेण सकृत्सकृत्तावद्भिरेव मन्त्रैः प्रोक्षति ।

स्रुच्यग्राण्युपपाय्य मूलान्युपपाययति ।

बर्हिष इत्यर्थात् । अग्निहोत्रहवण्या स्त्रुचि पूर्वावशिष्टोदका मग्रभागान्मूलमा- गांश्च क्रमेण तूष्णीमुप समीपं नीत्वोदकं पिबन्तीवेत्येवं संपादयति मूलामसंस्कारोऽयं द्वितीयानिर्देशात् । पाययतीति वचनात्सोदकायां, तत्तु पूर्वशेषमुदकशे मूलेधूपसिञ्चतीति कात्यायनः । तन्नाशेऽन्येनोदकेन ।

पोषाय व इति सहस्रुचा पुरस्तात्प्रत्यञ्चं ग्रन्थिं प्रत्क्षति ।

खुचाऽग्निहोत्रवण्या सोदकया सह वर्तत ही सहलग्यस्तस्ते हस्तेन पुरस्तात्पूर्व- भागे अन्येरेव विद्यमानेन प्रत्यगपवर्ग अन्थि इत्युक्षति समीपस्थेन हस्तेनोति प्रोक्ष- सांत्यर्थः । प्रन्थि प्रत्युपरिष्टास्त्रुच्यमावहतेन हस्तेनोदकमाल्यौः साक्यतीति फलितोऽर्थः। 7 १ न. ड, द. भिर । 9 ७० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

स्वधा पितृभ्य इति प्रोक्षण्यवशेषं निन यति दक्षिणस्याः श्रोणेः संततमोत्तरस्याः ।

गच्छतेति मन्त्रान्तः । दक्षिणस्या वेदिश्रोणेः सकाशमारम्योत्तरस्याः श्रोणेः पति प्रोक्षणीनामवशिष्टमुदकं पातयति। पितृभ्यो बहिषय इदमिति यानमान, स्मात उभयो- रुदकस्पर्शः । अवशेषमित्यनेनावशिष्टे स्कन्ने निनपनलोप इति न्यायविदः । सत्रोदकम- न्यस्प्रतिनिधित्वेन गृहीत्वा देवताम्यो निनयेविति सूत्रकृतां मतम् ।

पूषा ते ग्रन्थिं विष्यत्विति बर्हिषो ग्रन्थिं विष्यति ।

विष्यति मुश्चवि ।

विष्णोस्तूपोऽसीति पुरस्तात्प्रस्तरं गृह्णाति ।

प्रन्तरं पुरस्ताझामे बार्हपः सकाशानिर्गमयन्त्रस्तरं गृह्णाति हस्तेन । एतदेवाऽऽप. स्तम्बेन स्पष्ट मुक्तमाह्वनीयं प्रतिकचिवति ।

नावाञ्चं निरायच्छति ।

अवाञ्चं पश्चादपवर्ग न बार्हपः सकाशानिर्गमयति ।

नोर्ध्वमुद्यौति ।

ऊर्ध्व नोपयच्छति।

न विधुनोति ।

हस्तेन सह न विधुनोति ।

न विकम्पयति ।

कम्पन हस्ते स्थित एवं प्रस्तस्यैनम्न करोति ।

कर्षन्निवापयच्छति ।

बहिषः सकाशाच्छनैरेव वेद्यां कनिषन्पृशकरोति ।

यजमाने प्राणापानौ दधामीति प्रस्तरे पवित्रे अपिसृज्य ।

स्थापयित्वा।

प्राणापानाभ्यां त्वा सतनुं करोमीति ब्रह्मणे प्रयच्छति ।

अप्रेणा हवनीयं प्रयच्छति ।

ब्रह्मा यजमानाय ॥ २५ ॥

इति हिरण्यकेशिसूत्रे प्रथमप्रश्ने सप्तमः पटलः ॥ ७ ।।


क. ख, ग. छ.ट, निनीय । २ ख.ट. 'रस्य त। २२ १७० सत्यापाढविरचितं श्रौतसूत्रं- [१प्रथमप्रश्ने- प्रयच्छतीत्यनुवृत्तिः । यजमानो धारयन्नास्त इति याजमाने वक्ष्यति । इति सत्यापाढहिरण्यकेंशिसूत्रव्याख्यायां प्रयोगवैजयन्त्यां महादेव कृतायां प्रथमप्रश्ने सप्तमः पटलः ।।७।।

1.8 अथाष्टमः पटलः।

बर्हिषा वेदिꣳ स्तृणाति ।

वेदेहविराधारत्वेन श्रवणार्हिषस्तत्संस्कारार्थत्वेनोपादानान्मन्त्रस्य बहिरर्थत्वेन पर्यवसानाचेतः परं यदुच्यतेऽङ्गनातं तेनानुष्ठितेनार्थावदेः स्तरणमेव भवति, तत्तूष्णी. मेवेति वक्तुमिदं सूत्रम् । बर्हिःशब्दो यद्यपि न संस्कारवचनस्तथाऽपि संस्कृतस्या- न्यत्राविनियोगाइवसदनमारभ इत्यादिलिङ्गाच प्रकृतमेव बर्हिर्नापूर्वम् । तेन वेदि. माच्छादयति । कथमित्यपेक्षिते पूर्वाङ्गान्या (ण्या) ह-

तृणैरन्तर्धायाक्ष्णया शुल्बꣳ स्तृणाति ।

तृणैद भैरन्तर्हितां कृत्वा तस्यां शुल्वं बर्हिःसनहनं तस्यैव द्वितीयया प्रतिपाद्यत्वा- नापूर्वं कृत्वा स्तृणाति वितनोति । वैदेर्दक्षिणपार्श्वेऽक्ष्णया नितिदिशि मूलमीशान्येऽ. अम् । अनुवृत्तस्य स्तृणातेराच्छादनार्थत्वाच्छुत्वमित्यनेनासंबन्धमाशङ्कय पुनः स्तृणा- तीति धात्वन्तरमेव प्रयुक्तम् ।

दक्षिणं वेद्यन्तमित्येकेषाम् ।

तृणैरन्तर्धाय तत्र प्रागप्रमुदगनं वा शुल्वं स्तृणातीत्यन्वयः ।

देवबर्हिरूर्णाम्रदसं त्वा स्तृणामीत्यग्रैर्मूलान्याच्छाद- यन्बहुलमनतिदृश्नं प्रागपवर्गं वा त्रिधातु पञ्चधातु वा ।

स्तृणातीत्यनुवर्तते । बहिरिति विपरिणामेनाध्याहारेण च विशेष्यं ज्ञेयं मन्त्रे देवबाहरितिदर्शनाच्च । बर्हिः स्तृणाति प्रजा वा इति ब्राह्मणे च स्पष्टं द्वितीयान्तबार्ह:- शब्दस्य दृष्टत्वाच्च । त्रयो धातवो विभागा अवयवा यस्मिन्वहिपि तत्तथा । तथा पञ्च- धातु बहिनिधनरूपेण संनद्र, निधनानि त्रिप्रभृति विषमाणिं चतुष्प्रभृति समानि वा तर्ष बहियंदा स्तृणाति तानि यदि त्रीणि पञ्च वा स्युस्तदा तान्येव धातवो यदा चत्वारि स्युस्तदा चतुर्थ त्रिष्वेव मेलयित्वा त्रिधातु करोति । यदा षट्प्रभृति निधनानि १ क ख ग. च. छ. 2. उ. इ. 'गदिमन्त । २ प. ज. स. भ. इ. इ. "लान्य- भिच्छा। ८ अ०पटलः] महादेवकृतवैजयन्तीच्याख्यासमेतम् । १.७१ स्यस्तदाऽधि कानि त्रिषु पञ्चसु वा मेलयित्वा त्रिधातु पञ्चधातु वा करोति । तत्रैकै. कमेव धातुं बहिः स्तुणाति । वेदेः प्रत्यग्भागमारभ्य प्राग्भागपर्यन्तं विपरीतं वोभयत्रापि पुरोऽवस्थितानि मूलानि पश्चादवस्थितरर्धातूनामाच्छादयन्स्तृणातीत्यन्वयः । नाति- दृश्नमनातिहनं दृष्टं यथा भवति तथा स्तृणाति । तदेव पुनर्विशेषितं बहुलमितिनिधि डतरं स्तृणाति सर्वथा यथा वेदिर्ने दृश्यते । प्रागपवर्गमित्यनेनोदगपवर्गमात्रं व्यावर्तित प्रत्यगपवर्गता तु पूर्वमप्राप्ता विकल्पेन विधीयते ।

धातौ धातौ मन्त्रमावतर्यति ।

बर्हिषा वेदि स्तृणातीत्यधिकाराद्वेवरेकत्वादनावृत्तौ प्राप्तायाभिदमाह । तत्र वहिपः स्तीर्यमाणत्वेऽपि न तस्यैव सूत्रेण संस्कार इत्युक्तम् । तथा बर्हिषः संसृष्टव्य- स्यैकत्वेन द्रव्यपृथक्त्वेनाप्राप्तावपि निधनोपाधिना द्रव्यपृथक्त्वं मा भूपि तहि धातूपाधिनैवेति नियमार्थमुक्तं धातूपाधिना स्तीर्यमाणत्वादिति भावः । तथाचोर्णाम्र- दसमिति मन्त्रेण बहिरेव विस्तीर्ण करोति बाहः स्तृणातीति श्रुतेः । एवं चाहिषा स्तीर्यमाणेनापि वेदिराच्छादिता भवति तत्र न मन्त्रः । तदेवोक्तं बर्हिषा वेदि स्तृणा- तीति श्रुत्यन्तरेण । स्तृणात्योरर्थद्वयं याजमाने विस्पष्टयिष्यते । ऊर्णामृद्वित्यादिमन्त्रर्लिङ्ग- विनियुक्तैरनुमन्त्रयते बहिः स्तीर्यमाणं वेदिस्तीर्यमाणां स्तीर्णामिति निदेशेन । न ह्यसति तयोरर्थभेदे बर्हिः स्तीर्यमाणमिति संभवति तेन बहिस्तृष्णातीत्ययं वितननाथ इति दर्शयति । तथा वेदि स्तीर्यमाणां, स्तीर्णामिति तु बहिषा स्तृणातीत्ययमाच्छादयती- त्येवमर्थ इति दर्शयतीति निश्चिनुमः । ऊर्णामृद्वित्यादि याजमानम् ।

अनुयाजार्थे उल्मुके उदू(दु)ह्याऽऽहवनीयं कल्पयित्वा प्रत्यादाय प्रस्तरं परिधीन्परिदधाति ।

धारयन्प्रस्तरमिति वाक्यात् । त्वाप्रत्ययेन च परिधानाङ्गता । उल्मुके ज्वलन्ती पूर्वस्यां विश्यायतन एवान्यानार्थमिति संकल्प्य पृथक्कुर्यादित्यर्थः । प्राची उल्मुके इति वाजसनेयकविधानात् ।। काष्ठेराहवनीयं कल्पयित्वा समृद्धं कृत्वा यजमानहस्तात्प्रस्तरं प्रत्यादाय तं धारयन्नेव परिदधातीति यदुक्तं तदाह-

गन्धर्वोऽसीत्यपरेणाऽऽहवनीयं बर्हिष्युदगग्रं मध्यममि- न्द्रस्य बाहुरसीति दक्षिणार्ध्यꣳ सꣳस्पृष्टं मध्यमेनाभ्यग्रं मित्रावरुणौ त्वेत्युत्तरार्ध्यꣳ सꣳस्पृष्टं मध्यमेनाग्रम् ।

ईडित इति सर्वत्र मत्रान्तः । आहवनीयायतनसमोपे पश्चात्स्तीर्ण एव बहिषि परि. दधातीति पूर्वानुवृत्तिः । अम्यग्रमाहवनीयायतनादधिकाग्रमपि आहवनीयममि अभिमुख- १४. उ. 'न पृ । २ . छ. भूदिति त । ३ ख. 'तेर। १७२ सत्याषाविरचितं श्रौतसूत्र- [१प्रथमप्रश्ने- मम्यग्रं मध्यमेन परिधिना संस्पर्शमात्र कार्य नोत्तराधरभावनियमः । उत्तराध(ध्य)स्य तु परिधरवाग्रत्वमेव मतं, न्यूनत्वेन स्थितमाहवनीयायतनादन यस्य सोऽवाग्रस्तं तथा परिदधाति मूलं मध्यमपरिधिसंस्पृष्टं पश्चादेवाधिकमायतनात्कृत्वाऽयं तु यथाऽऽयतना. दवमं भवेत्तथा विधेयं स्पष्ट मन्यत् । भूवोऽसीत्यादि याजमानम् ।

सूर्यस्त्वा पुरस्तात्पात्वित्याहवनीयमभिमृश्य ।

अभिशस्त्या इति मन्त्रान्तः । अयं परिधिमहचरितो विधिर्वाक्यशेषाच्च परिध्यभा. वासु विकृतिषु नास्ति बौधायनेनोक्तं सूर्यन पुरस्तात्परिदधातीति ।

ऊर्ध्वे आधारसमिधावादधाति वीतिहोत्रं त्वा कव इति दक्षिणां तूष्णीमुत्तराꣳ समिदस्यायुषे त्वेति वा ।

अध्वर इत्यन्तः । उत्तरस्यामायुषे त्वेति तूष्णीमिति विकल्पः । तथैवाऽऽप. स्तम्बेऽपि ऊर्षे ऊर्वाग्रे आयतन एवाऽऽधारसमिधावाधारयोराधारभूते समिधौ यथाऽऽधारयोः क्रियमाणयोस्तयोः संपर्यो भवेदक्षिणोत्तरमावस्तु तयोरेव परस्परा. पेक्षया । अत्राऽऽधारयोर्विकल्पेन नानाप्रकारता तदनुसारेण यत्र कुत्रापि दक्षिणोत्तर- भावन स्थाप्यते समिधौ।

समावनन्तर्गर्भौ दर्भौ बर्हिषो विधृती करोति ।

बर्हिष इति पञ्चमी बहिषः सकाशाद्विधतिनामके(को) दर्भो करोति समी पूर्वमेव न च्छेदनेन, न विद्यतेऽन्तर्गों, गर्भभूता सूचियोस्तौ । मध्यमादृषि इति बौधायनों जैमिनिन्यायश्च ।

विशो यन्त्रे स्य इति मध्ये वेदेर्बर्हिष्युदीचीनाग्रे निदधाति ।

मध्ये वेदेरित्युक्ते साक्षाद्वेदिसंबन्ध इतिप्रतीतिनिवारणार्थ बर्हिषीत्युक्तम् । स्पष्ट- मन्यत् । विच्छिनीति याजमानम् ।

वसूनाꣳ रुद्राणामिति तयोः प्रस्तरꣳ सादयति ।

सदसि सीदेति मन्त्रान्तः । तयोचिधृत्योरयं प्रस्तर इत्यादि याजमानं सुवान्ते. प्वपि ज्ञेयम् ।

जुहूरसीति प्रस्तरे जुहूꣳ समं मूलैर्दण्डम् ।

अतीत्यनुषको ध्रुवाऽसत्यिस्माद्दर्शितो ब्राह्मणे, तथैव सूत्रेऽपि दर्शितः । प्रिये सदसि सोदेति मन्त्रान्तः । प्रस्तरस्य मूलैः समो यथा जुहा दण्डो भवति तथा मादयतीत्यर्थः। + सूत्र पुस्तकेषु ' अभिमन्न्य ' इति पाठः । १८. सूर्यस्वा पु। ८०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । १७३

उपभृदसीत्युत्तरामुपभृतमधस्ताद्विधृत्योः प्रतिकृष्टतराम् ।

पूर्ववदनुषङ्गः । प्रतीचीनं कृष्टं जुहूमूलान्मूलमतिशयेन यस्याः सा तादृशी साद. यति । स्पष्टमन्यत् ।

ध्रुवाऽसीत्युतरां ध्रुवामुपरिष्टाद्विधृत्योः प्रतिकृष्टतरामसꣳस्पृष्टाꣳ सादयति ।

उपभृता संसर्गरहितम् । सष्टम् ।

ऋषभोऽसि शाक्वरो वषट्कारस्य त्वा मात्रायाꣳ सादयामीति दक्षिणेन जुहूꣳ स्रुवꣳ सादयति ध्रुवां वोत्तरेणर्षभोऽसि शाक्वरो घृताचीनाꣳ सूनुः. प्रियेण नाम्ना प्रिपे सदसि सीदेति वा ।। २६ ।।

गतार्थम् । यथावकाशं स्थालीमपि सादयति ।

एता असदन्नित्यभिमन्त्रयते ।

सुचां प्रकृतत्वान्मत्रे स्त्रीलिङ्गत्वाच्च उचामभिमन्त्रणं सुववर्जानां कर्मकरणो मन्त्रः नुवर्षे च इत्यापस्तम्बेन स्पष्टमुक्तम् ।

विष्णूनि स्थ वैष्णवानि धामानि प्राजापत्यानीत्याज्यानि ।

अभिमन्त्रयत इति पूर्वस्मात् । उत्तरविध्यर्थं परिभाषामारचयति-

स्रुवेण गार्हपत्यदक्षिणाग्न्योराज्यार्थानाज्यस्याल्पाः करोति जुह्वा ध्रुवाया आहवनीये ।

करोतीति शेषः । गार्हपत्यदक्षिणाग्न्योः संबन्धेन यान्याज्येन प्रयोजनामि त आज्या. स्तानाज्यस्थाल्या एवाऽऽज्येन तथा खुवेण य आज्यास्तैिरपि चाऽऽज्यस्थालीगते. नैव करोतीति नियम्यते । आहवनीये जुह्वेति परिभाषितस्य विशिष्टस्यानुवादः । य आज्यार्थीस्तान्धुवाया एव सकाशाद्धौवमिति नियम्यते । अयमाशयः-सर्वस्मै वा एतद्यज्ञाय गृह्यते यद्धृवायामाज्यमिति वाक्यशेषादुत्सर्गे सति नान्तर्वेदिगृहीतस्य प्रतीचीनं हरतोति श्रुतिरापस्तम्बेन दर्शिता । ततस्तु दक्षिणाग्निगार्हपत्ययोधौवस्य नेतुमशक्यत्वात्स्थामा इत्युक्तमिति खूणेति मिन्नो नियमः । तेन द्वयोरन्यो)मा जुह्ना क्रियमाणा अपि स्थाल्या एव खुत्रेण हविष्प्रत्यभिधारणप्रस्तरवाह समञ्जनप्राशि- यजमानभागेडापर्वाञ्जनाज्येडापार्वणहोमसंबन्ध्याज्यमाज्यस्थाल्या एव । तत्र जुह्वाऽऽ. हवनीय आहुतयो हूयन्त इति परिभाषात एव सिद्ध, तत्सर्वार्धमुक्तं तन्त्रेण कचि. 1 १५. ङ. ज. स.न.ट. स्पृधाःसा। १७४ सत्याषाढविरचितं श्रौतसूत्रं- [१प्रथमप्रश्ने- व्यस्याऽऽहुतयः । अत्र दर्शपूर्णमासप्रकरणे तु तदर्थ धौवमाज्यं नियम्यतेऽर्थशब्देन चोपस्तरणादिकमपि ध्रुवाया नियम्यते । कात्यायनादयस्तूपस्तरणाभिधारणे आज्यस्याल्य एवेति वक्ष्यति(दन्ति) तन्नेष्टमाचार्यस्येत्युक्तम् । कुतः, यत उपस्तरणाभिधारणे जह्वाऽऽहवनीय एव प्रयोजनभाव भनेते अवदानाहुतेः पूर्व पश्चाचेति वक्ष्यति । प्रथमाधारे तु यद्यप्यनेन न प्राप्तिस्तथाऽपि वचनेन भविष्यति । एवमन्यदपि ज्ञेयम् । नैमित्तिकप्रायश्चित्तं तु गार्हपत्यदक्षिणान्योर्जुलैव समारूपया येषां खुवेणेति वचनं तेषामेव तथेति ज्ञेयम् । अत्र बौधायनः-प्रत्यादत्ते दक्षिणेनाऽऽज्यस्थाली सतुवां सव्येन पात्री वेदमिति ।

इदमहꣳ सेनाया अभीत्वर्यै मुखमपोहामीति वेदेन दक्षिणस्मात्पुरोडाशादङ्गारानपोह्योत्तरस्मादपोहति।

ल्यपा कम उक्तः सानाव्यनिवृत्त्ययस्तनाभिमन्त्रणोपस्तरणयोरपि ।

सूर्य ज्योतिर्विभाहि महत इन्द्रियायेत्यभिमन्त्रयते स्योनं ते सदनं करोमि घृतस्य धारया सुशेवं कल्पयामीति पात्र्यामुपस्तीर्याऽऽप्यायतां घृतयोनिरग्निर्हव्याऽनुमन्यताम् । खमङ्क्ष्व त्वचमङ्क्ष्व सुरूपं त्वा वसुविदं पशूनां तेजसाऽग्नये जुष्टमभिधारयामीत्याग्नेयमभिधारयति तूष्णीमुत्तरम् ।

पाच्यामिति सप्तम्याऽधिकरणत्वमात्रमुक्तं न संस्कार्यत्वं, तेन स्योनं त इत्येक वचनेनैकस्यैव पुरोडाशस्यार्थ उपस्तरणमुपस्तीर्येति ल्यपा प्रतिपुरोडाशम् । अग्नये जुष्टमिति लिङ्गादानेयमित्युक्तम् । प्रकृतावूहामावादभिधारणस्य सर्वहविरर्थत्वेन श्रूयमाणत्वाच्च तूष्णीमुत्तरमिति निर्देशात्पुरोडाशमेव । अत्र मन्त्रेण दक्षिणं तूष्णीमुत्त- रमिति वक्तव्येऽपि लिङ्गप्रदर्शनार्थमाग्नेयमित्युक्तम् । अनेन दक्षिणोत्तरदेशभेदः स्मारितः। द्वितीय सानाय्यं चेत्तत्राऽऽह-

यस्त आत्मा पशुषु प्रविष्टो देवानां विष्ठामनु यो वितस्थे । आत्मन्वान्सोम घृतवान्हि भूत्वा देवान्गच्छ सुवर्विन्द यजमानाय मह्यमिति शृतम्।

प्रानोहम् । सानाय्यधर्मेषक्तत्वात्प्राप्तिमन्त्रस्य । अभिधारयतीत्यनुवर्तते ।

आर्द्रः प्रथस्नुर्भुवनस्य गोपाः शृत उत्स्नाति जनिता मतीनामिति पुरोडाशमुद्वासयत्यभिन्दन्नपर्यावर्तयन् ।

मध्ये शृतमिति व्यवधानेऽनुवृत्त्यसमवात्पुरोडाशमित्युक्तम् । कपालयोगादुत्कृष्या- न्यत्र स्थापयति कस्मिंश्चित्पात्रे, दक्षिणेन हस्तेन भस्मपरिमार्जनं पुरोडाशस्य क्रियते (अ०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । १७५ यदा तदा तत्र स्थापनं न संमवति तस्मादादत्त इति नोक्तं, वामेन विना विधान मुतरां न संभवति । यथा न भिद्यते यथा च न पर्यावर्तते तथा संपादयन्नुदासयति ।

वेदेन भस्म परिमृज्य ।

पुरोडाशलग्नं भस्म परिमृज्य परितोऽपगमय्य ।

तस्मिन्सीदामृते प्रतितिष्ठ व्रीहीणां मेध सुमनस्यमान इत्युपस्तीर्णे पात्र्यां निदधाति ।

प्रकृतत्वात्पुरोडाशमेव । पायामुपस्तीर्णे घृतेऽदृष्टार्थत्वनिवारणायोपस्तीर्ण इत्युक्तं, सदनं धृतमेव स्योनं ते सदनं करोमीति मन्त्रलिङ्गात्तस्मिन्सीदेत्यत्रोलिङ्गनिर्देशाच्च न पाच्या अधिकरणता । अत एव न पात्रीसंस्कारार्थमुपस्तरणं किंतु पात्र्यां यदुपस्तीर्णमाज्य तत्र निदधाति स्थापयति । उद्वासनप्रभृतिकाण्डानुसमयेन कार्य तथैव द्वितीये ग्रहणं सादनान्तमिति कात्यायनेनोक्तं वचनादिति च । यवमयः पुरोडाशस्तदा वीहीणामिति लिङ्गविरोधान्न मन्त्रस्तूष्णीमेव निधानं तथा वैखानसेन स्पष्टमुक्तम् । बीहिप्रतिनिधियव. मयेऽस्त्येव मन्त्रः । एवं विकृतिष्वपि ज्ञेयम् । यदि द्वितीयं शतं तदा नोपस्तरण द्वितीयमभिधार्य हहत्युद्वासयति । सायंदोहेन सहैव व्याख्यातम् ।

इरा भूतिः पृथिव्यै रसो मोत्क्रमीदित्येकै- कशः कपालान्यभिघार्य संख्यायोद्वासयति ।

काण्डानुप्समयामकैकश इत्युक्तम् । संख्यायोद्वासयतीति श्रुतौ पौर्वापर्यमुक्त

स्वाप्रत्ययार्थेन ल्यपा । तत्रैव शाखान्तरीयमुपसंहृत ल्यपैवाभिघायेति । एकमभिधार्य में तदेव संख्यायोद्वासयतीत्येवमन्यत् | त्वाश्रुतिकृतः काण्डानुपमयो दर्शितः । अन्यथै- कैकश इत्यनर्थकं बहुवचनात्तेनैकप्रातिपदिकनैकद्रव्यता प्रतीयते । तथाऽपि कपालानां संख्यायोद्वासयतीति संख्यानेनोद्वासनमुक्तं संख्यापयतीत्येतस्य व्यपोद्धाटनं साधनमा- वोपधानात् । उद्वासनमन्त्रविधानार्थ संख्यायेत्युक्त संख्याशब्देन मन्त्रेण स. तु वैखा- नसेनोक्त एक द्वे त्रिणीत्यादिभिरिति । ततस्तु प्रत्येकमेव संख्यामन्त्रो भिन्नस्तेनोद्वासन चैकन च संख्याय सर्वाणि पश्चावासनं भवति, ल्यपोऽनर्थकत्वमापयेत तथैकैकश इति संख्यायोद्वासयतीत्यनेनापि संबध्यते न त्वेकमित्यदृष्टार्थ गणनं त्यपा संरूपायैकैकश उद्धासयतीति साधनतया दृष्टार्थत्वमा(त्वा)पादनात् । यद्यपि कपालानीत्येकद्रव्यत्वेन सकृन्मत्रो भवेत्तथाऽपि वचनादमिधारणमपि ल्यपोद्वाप्सनाङ्गमेवेत्युक्त्वैकैकश इत्यनेन यद्धास्यते कपालं तदेवाभिधायेंति संयुक्तत्वं प्रदर्शितम् । तथा च प्रथमस्योद्वासनेन 7. द्वितीयमभिधारणं व्यवहितमिति कृत्वा पुननिीयस्याभिधारणं मन्त्रेणैव कार्यमिति १५ ख. र. ज झ. स. ह. दस्त प्र । २. व । उदस्तरणस्रा'। ३ क. ग. च, छ. ठ. ड. शितं । क. ग च, छठ, ड,चनम् । तेन । १७६ सत्यापाढविरचितं श्रौतसूत्रं- [१प्रथमप्रश्ने- दर्शितम् । तथाचाभिधारणमुद्रासनं च प्रतिकपालं काण्डानुसमयेन । अत्र केचियाख्या- तारो वदन्ति-एक द्वे त्रीणीति संख्या न प्रत्येककपालनिष्ठेति प्रथम द्वितीयं तृतीय- मित्यादिप्रकारेण संख्योचारणमिति । तन्न ! प्रभमापेक्षया द्वितीये द्वित्वेऽपि यथैक- मिपे विष्णुस्त्वाऽन्वेत्वित्यादिमिद्वितीयादिष्वपि प्राधान्यमेवमत्रापि ।

देवस्त्वा सविता मध्वाऽनक्त्विति पुरोडाशमनक्ति ।

पुरोडाशग्रहणं सानाय्यनिवृत्त्यर्थमेकवचनं मन्त्रावृत्यर्थम् । अनक्ति स्निग्धी करोति । तथा चेदमञ्जनमलंकारशब्देनानुवदिष्यति । कथमनतात्यत्रैव विशिनष्टि-

स्वक्तमकूर्मपृषन्तमपरिवर्गमणिकाषमुपरि ष्टादभ्यज्य स्रुवेण हस्तेनाधस्तादुपानक्ति ।

पुरोडाशमित्यनुकृष्यते । स्त्रवेणेति सामर्थ्यसिद्धेऽपि हस्तेनेत्यस्योपरिष्टादम्य- ज्येत्यनेन संबन्धनिराकरणार्थ पुनरुक्तं सुवेणेत्यर्थः । उपरिष्टादिति अधस्ताछग्नं सलमागमात्रं विना सर्वमभ्यज्य स्त्रवदाज्येन सुवेण ब्रटं कृत्वा स्वक्तं सुष्ठ बहुघृतेना- क्तम् । अभ्यज्येत्येतत्प्रत्येकं संवध्यते । तत्र प्रकृत्यर्थोऽनुवादोऽणिकापमित्यन्तैरभ्य- जनस्य सिद्धत्वात्प्रकृत्यनुग्रहार्थ पाकं पचतीतिवत् । तेन कृत्वेत्यमुमर्थमाहाम्यज्येति पदं स्वक्तं कृत्वेत्ययमर्थः संपन्नोऽप्राप्तत्वाद्विधिरनमेयः । एवमनुक्ते स्वक्तादिपदानि प्राप्तानुवादीन्येव स्युः । न च पूर्वमनक्तीस्येतावनेतत्सर्व प्राप्नोति । ततस्तु प्राप्तत्वा. स्वक्ता विक्रिया भावनालक्षणेन प्रयत्नेन यथा संबध्येत तथा कृते विधिमात्रानुमान पवाद्भविष्यति । न चाम्यज्येत्येतहगवन्तं धात्वन्तरावरुद्धं स्वक्तादिपः क्रियोप. सर्जनद्रव्यवचनैरन्वेतुमर्हति । तस्मादम्यज्येति धातुः पूर्वानुवादीति सिद्धम् । अथवा स्वक्तमिति क्रियाविशेषणं सदनक्तीत्यनेन संबन्धनीयं, तेन सम्यगञ्जनं घृतधारया कृत्वा पश्चा म्रक्षण स्रवेण घर्षण तत्राकूर्मपृषन्तमित्यादि । पुनः पुरोडाशं कथं भूतं कृत्वत्यपेक्षायामपृषन्तमित्यादि पदत्रयं संबध्यते, न विद्यन्ते कूर्मस्येव पृषन्तो बिन्दवो यस्मिन्यथा कूर्मे विन्दवः सन्ति तथा स्त्रवेण स्वञ्ज ने क्रियमाणे प्रदेशे धृत. चिन्दवो यथा न भवन्ति तादृशमक्तं कृत्वाऽपरिवर्ग परिवर्गस्त्यागः प्रदेशे प्रदेशे तथा न समस्तमित्यर्थः । अथवाऽपरित्य जन्न परित्यजन्मित्यर्थः । मध्ये सुवस्य पुरोडा- शस्यं वियोगो न कार्यों यावदभ्यञ्जनक्षमाप्ति । तथाऽणिकाएं न विद्यते निकायो निकर्षणं घर्षणं स्रवेण यत्र, णमुलन्तेऽपि स एवार्यों नेणत्वं छान्दसम् । एवं प्रकारमा । अ०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । १७७ भ्यञ्जनमुपरिष्टास्नुषेण कृत्या पश्चात्य्वेण हस्त आज्यमानीयेति पैखानप्सवचमाद्धस्त आज्यं गृहीत्वाऽधस्ताद्भाग उपलिम्पति । अनक्तीत्युच्यमान आज्यपतनमात्रं स्यात्तन्न संभवत्यनुत्ताने पुरोडाशे, तस्मात्पुरोडाशस्याधस्तात्समीपं हस्तं नीत्वेति वक्तमुपेत्युक्त- मपर्यावर्तयनित्यर्थः । यदामेयोऽष्टाकपाल इत्यस्य संनिधौ श्रुतमुपरिष्वादभ्यज्याधस्ता- दुपानक्तीत्येतच्छाखान्तरेणोपबृंह्य तौ समानविधानावित्यनेन पुरोडाशान्तरेऽपि प्राप्त-- मिति पुरोडाशमित्युक्तमनुवर्तितं पुरोडाशब्राह्मणत्वात्सांनाय्ये न प्राप्तिरिति दर्शयि- तुम् । अतः परं पुरोडाशाद्यासादनमेवोच्यते । तत्तु न ज्ञायते पायां नीत्वा सादन- मथवा हविरेव गृहीत्वा नीत्वा सादनीयमिति, तदर्थमुक्त बौधायनवैखानसाम्यां पाच्या सर्वाणि हवीशषि संवृल्लेति, तदस्माकमप्यविरुद्धम् ।

प्रियेण नाम्ना प्रियꣳ सद आसीदतामित्यपरेण स्रुचः पुरोडाशावासादयति दक्षिणमाग्नेयमुत्तरमितरम् ।

सुचां पश्चाद्भागे बहिण्येवाऽऽसादयति । मन्त्रस्य लोटप्रथमपुरुषद्विवचनान्ते. नाऽऽसीदतामिति क्रियापदेन युक्तत्वासकृदेव मन्त्रः सहैवाऽऽसादनं हस्तद्वयेन । गृहीत्वा दक्षिणोत्तरभागयोरिति प्राप्नोति । तन्न । अनुपूर्वमेषां कर्माणीति परिभाषितत्वात् । किंच लाघवेन दक्षिणोत्तरौ पुरोडाशावासादयतीति वक्तव्ये गुरूपदेशेन दक्षिण- माग्नेयमासाद्य पश्चादितरमुत्तरमासादयतीति द्रव्यपृथक्त्वेऽम्यावर्तत इत्यावृत्तिर्म- न्त्रस्य दर्शिता देशभेदस्फुटीकरणेन । द्विवचनं तु परस्परापेक्षमुपधानमन्त्रवत् । सथैकस्मिन्पुरोडाशे न मन्त्रस्तूष्णीमेवाऽऽसादनं न प्रकृताव्हो विकृतावपि केवलैक- पुरोडाशायां न मन्त्रो नाप्यूहश्च । दक्षिणमुत्तरं चेत्येतावता सिद्धेऽप्याग्ने यमितरमिति च गुरुनिर्देशो देवतोपलक्षणेन यत्राऽऽमेयविकारा अनेके तत्रापीतरस्यानोपोम य- विकारस्यैन्द्रामस्य चाभावान्न मन्त्रः । तथा च नाप्नीषोमीयाणामैन्द्रानानां वा केवलानां नानादैवतपुरोडाशसंयुक्तत्वाभावेऽपि मन्त्र इति सूत्रकृतोऽभिमतं, ततस्तु नाना- दैवतविकारपुरोडाशासु विकृतिषु बहुवचनेनोहा भवति सीदन्विति । उत्तरविकारे वेकस्मिन्द्वयोर्वा यथार्थमूहः । यदपि पाच्या सहाऽऽसादनं कुर्वन्ति तत्तु विधानाभावा- न्यायविरोधालिङ्गविरोधाचोपेक्ष्यम् । तथा हि पुरोडाशावासादयतीति साक्षादा- सादनकर्मता पुरोडाशयोरेव श्रूयते तत्र लक्षणाश्रयणे प्रमाणामावाद्दक्षिणोत्तर- विधानं तु पूर्वापरभावश्च पाया॑ पूर्व निहितयोस्तया सहाऽऽसादनं कथं स्यात्, स्तीर्णाया वेदेरेव हविराधारत्वस्य न्यायसमयसिद्धत्वात् । न च पात्री प्रत्याधारत्वे हविराधारत्वं संभवति । सानाय्यादौनामगत्या व्यवधानेऽपि ये ननाव्यवधानं तेन व्यवहितेऽपि भवतीति न दोषः । देवसदनमारम इति तथोर्णामृदुप्रथमान५ स्योन १ ख. दर्शितम् । १ ख. ग. छ, ट. उ. मानामी । ३ क. ग. च.ट. ड. "ति दो। 3 । सत्याषाढविरचितं श्रौतसूत्र- [प्रथमप्र- देवेभ्यो जुष्टर सदनाय बहिरित्यपि लिङ्गं बहिष एवं सदनत्वं ब्रवीति । मृदुत्वं च कुत्रोपयुज्येत पात्री प्रत्याधारत्वे । न च स्योनं ते सदनमिति पायामुपस्तीर्णस्यापि सदनतेति वाच्यम् । निधानमात्र प्रत्येच सा सदनता संवपनार्थमुत्पन्नायाः पायाः प्रसङ्गेन । बहिषस्तु हविराधारत्वेनैवोत्पत्तेः साक्षादाश्रयतेत्यछमतिप्रसङ्गेन ।

मध्ये वेदेः सानाय्यकुम्भ्यौ संधाय व्यूहति दक्षिणस्याꣳ श्रोण्याꣳ शृतमुत्तरस्यां दधि ।

वेद्या द्वे कुम्म्यौ परस्परं पीयित्वा पश्चादेकैका क्रमेण न्यूहति पृथक्पृथक्स्थाप- यति, तदेवाऽऽमादनं शब्दान्तरेणोक्तम् । तथैवोक्तं स्पष्टमापस्तम्बेन । अन्यथा ह्यासन्नानीति याजमानेऽनुवादो न युक्तः स्यात् । यज्ञोऽसीत्यादि याजमानम् ।

अयं वेदः पृथिवीमन्वविन्दद्गुहा सतो गहने गह्वरेषु । स विन्दतु यजमानाय लोकमच्छिद्रं यज्ञं भूरिकर्मा करोत्वित्यग्रेण ध्रुवां वेदं निधाय ।

धुवामणेत्येनवन्यतरस्यामदूरेऽपञ्चम्या इत्यदूरेऽयात्पुरत एनपा द्वितीयेति द्वितीया ।

वेद्यन्तान्परिस्तीर्य ।

वेद्या अवयवान्प्रान्ते विद्यमानान्परितः परिभोननीयदर्भराच्छाच प्रदक्षिणमुद- 'गपवर्गम् ।

होतृषदनं कल्पयति कल्पयति ।। २७ ।।

इति हिरण्यकेशिसूत्रे प्रथमप्रश्नेऽष्टमः पटलः .।। ८ ।।

इति हिरण्यकेशिसूत्रे प्रथमः प्रश्नः ॥१॥

होता निषीदत्यस्मिंस्तद्धोतृषदनं दर्भमयमासनं तत्कल्पयति समर्थमासनयोग्यं करो- ति । होतृस्थानं वेद्या उत्तरश्रोणेरुत्तरतो होसृप्रत्ययं तत्र प्रागप्रमुदगर्ग वा करोती. त्यर्थः । द्विरुक्तिः प्रश्नसमाप्त्यर्था याज्ञिकप्रसिद्धया च प्रभपटलव्यवहारसिद्धयर्थी । होतरेहोत्यामनितो होतेति बाढच्ये दर्शनाद्वैखानसेन होतरेहोति होतारमामन्त्रयत इति मत्रितत्वाच कार्य स च यदि पृच्छेत्-अध्वर्यो देवता आचक्ष्व तोसामानुपूर्व्य- मुच्चैरुपांशुतां चेति । तस्येदं प्रतिवचनम्-पौर्णमास्वामानिरनीषोमौ, अग्नीषोमी च देवताः । अग्निविष्णुरग्नीषोमौ च देवता इति वा । अग्निः प्रजापतिरमिषोमौ च देवता इति वा । उपांशु प्रथमावग्नीपोमावुषांशु विष्णुः प्रजापतिरिति वा । असोमयाजिनो स्पष्टमन्यत् । १ ख. यणमित्य । (अ०पटलः महादेवकृतवैजयन्तीव्याख्यासमेतम् । १७९ ब्राह्मणस्य तृतीयस्य हविषो लोपः । तदनुरूपमानुपूर्यमुच्चैरुपांशुत्वं च । अमावास्याया- मग्निरिन्द्रश्च देवते अग्निर्महेन्द्रश्चेति वा । अग्निरिन्द्रानी च देवते त्य(अ)संनयत इति । इति सत्यापादहिरण्यकेशिसूत्रस्य व्याख्यायां प्रयोगवैजयन्त्यां महादेवकृतायां प्रथममश्रेऽष्टमः पटलः ।। ८ ।। सत्यापाढीयसूत्रस्य व्याख्यायां प्रथमोऽधुना । प्रश्नः समालो गूढार्थः परिभाषासमन्वितः॥१॥ इति हिरण्यकेशिसूत्रव्याख्यायां प्रथमः प्रश्नः ॥१॥

2.1 अथ द्वितीयप्रश्ने प्रथमः पटलः ।

अग्नये समिध्यमानायानुब्रूहीति संप्रेष्यति समिध्यमानायानुब्रूहीति चाऽग्नये देवेभ्यः समिध्यमानाय होतरनुब्रूहीति वा ।

त्रितयान्यतमेन प्रैषमन्त्रेण होतारं संप्रेष्यति । नात्राऽऽत्मसंस्कारार्थः श्रेषोऽनुवच- नस्य होतृकर्तृकत्वात् । होतरि प्रविश्य स्थिते वेदिओण्यां संप्रेषकालः । एका समिध. मादाय संप्रेष इति सूत्रान्तरे दर्शितमिति माध्यकृतोक्तम् । उक्तं च कात्यायनेनेमा- समिधमादाय संप्रेष्यतीति । सर्वथा तथैव युत्तामेतदन्यथा समिध्यमानायेति वर्तमानता व्यपदेशः कथं स्यात् । अत्र चित्तिः मुगित्यादि याजमानम् ।

आसीनः प्रणवे प्रणवे समिधमादधाति ।

अत्राऽऽसीनग्रहणादन्यत्रानियमो दर्शपूर्णमाप्तकर्मस्विति सिद्धम् ।होत्रा सामिधेनी- नामन्ते प्रणव उच्चार्थमाण एवैकैकां समिधमादधाति । आहवनीयानाविति सामा. दग्नये समिध्यमानायेति प्रेषेऽनेराहवनीयस्य ग्रहणं मुख्यत्वाच्च परिधिप्रधिमन्वव- हृत्येति सर्वाणीधमकाष्ठानि सस्पर्शयतीति लिङ्गाच्च । एवं चैकादशसु समित्सु निहितासु-

समिद्धो अग्न आहुतेत्यस्यामुत्तमायां वाऽनूयाजसमिधमवशिष्य सर्वमिध्ममादधाति ।

अत्रैकां समिधमन्यानार्थ प्रज्ञातां निधाय समिद्धो अग्न इत्यस्यामन्च्यमानाया. मृच्येव न प्रणवे सर्वमवशिष्टम् । अत एवोक्तमापस्तम्बेन सर्वमिध्मशेषमादधातीति । सर्वमिध्मं समिच्चतुष्टयम् । अथवोत्तमायामत्रापि पूर्ववत्समिञ्चतुष्टयम् । इति द्वौ पक्षौ । - १ ख. छ. द. दर्शनमि' । २ ख. ट. येत्यादि. ३ क. ग. च. छ. ट. छ. ति च लिं'। ४ घ, ङ, ज. श. म. द.तेखेतस्था।

  1. वाजसनेयि संहिता १.९