कल्पः/श्रौतसूत्राणि/वैखानस-श्रौतसूत्रम्/प्रश्नः १३
प्रवर्ग्येण चरिष्यन्नमावास्यायां पौर्णमास्यां शुक्लपक्षे पुण्येऽहनि वा संभाराहर्तुर्नमो वाच इत्यनुवाकेन शान्तिं कृत्वा वैकङ्कतीं खादिरीं वैणवीं वा समिधमाधाय युञ्जते मन इति चतुर्गृहीतं जुहोति न दीक्षितस्य जुहुयात् काण्टकीमेवैतया समिधमादध्यादेतां वा जपेद्देवस्य त्वेति खादिरीमौदुम्बरीं वैकङ्कतीं वैणवीं वा व्यायाममात्रीमरत्निमात्रीं वा कल्माषीमुभयतः क्ष्णूमभ्रिमादायाभ्रिरसि नारिरसीत्यभिमन्त्र्योत्थायोत्तिष्ठ ब्रह्मणस्पत इति ब्रह्माणमामन्त्रयते ब्रह्मोपोत्तिष्ठत्युभावुपप्रयन्त्वित्युत्तरमर्धर्चं जपत आददते कृष्णाजिनं यतः कुतश्चिन्मृदं खनित्वाहरन्ति तत्र प्रैतु ब्रह्मणस्पतिरित्यश्वप्रथमाः प्राञ्चो यन्त्यपि वात्रैते संभाराः परिश्रिते भवन्ति पुरस्तादाहवनीयान्मृत्खनः पूर्वः पूर्व उत्तरोत्तरो भवत्युत्तरेण मृत्खनं प्राचीनाग्रेषु दर्भेषु कृष्णाजिनं प्राचीन ग्रीवमुत्तरलोमोपस्तृणाति देवी द्यावापृथिवी इति द्यावापृथिवी उपस्थाय ऋध्यासमद्येत्यभ्रिया मृत्खने प्रहृत्य मखस्य शिर इत्यपादाय मखाय त्वेति हृत्वा मखस्य त्वा शीर्ष्ण इति कृष्णाजिने निवपत्येवं द्वितीयं तृतीयं च हृत्वा निवपति तूष्णीं चतुर्थमपरिमितं वा यावत्यो मृदः प्रवर्ग्यपात्रेभ्य आप्ताः स्युः प्रायश्चित्ताय परिशिनष्टि शेषमेवमितरेषां संभाराणाम १
इयत्यग्र आसीरिति वराहविहतमुपतिष्ठते देवीर्वम्रीरिति वल्मीकवपामिन्द्रस्यौजोऽसीति पूतिकानग्निजा असि प्रजापते रेत इत्यजलोमसंसृष्टानि कृष्णाजिनलोमानि पृथगुपस्थाय प्रहृत्योपगृह्य कृष्णाजिने निवपति पञ्च संभारानायुर्धेहि प्राणं धेहीत्यश्वेनावघ्राप्य मधु त्वा मधुला करोत्विति न्युप्तेषु संभारेष्वेकामजां पुंवत्सामभितो दोग्ध्यृत्विजः सर्वे प्रवर्ग्यमाददत उत्तरेण विहारं परिश्रित उद्धत्यावोक्ष्य सिकता न्युप्य तान्निदधति गार्हपत्ये मदन्तीः पूर्वमधिश्रित्य मधु त्वा मधुला करोत्विति ताभिरेनमुपसृजति २
यान्यप्यन्यान्युखासंसर्जनान्यर्मकलालानि शर्करावाञ्जनपिष्टादीनि दृढार्थं तैश्चोपसृजत्यस्मिन्प्रवर्ग्ये यत्किञ्चोदककृत्यं तथाधिश्रित्य मदन्तीभिः क्रियते नैनं स्त्री प्रेक्षते न शूद्रो न पात्राणि कुर्वन्नभिप्राण्यादपहाय मुखमनभिप्राणन्वेणुना करोति न प्रवर्ग्यं चादित्यं चान्तरा व्यवेयाद्यत्र क्व च प्रवर्ग्ये प्रक्रान्त आदित्योऽस्तमियात्तद्विरम्य तच्छिष्टं श्वो भूते समापयति ता मृदः संप्रक्षुद्य मखस्य शिरोऽसीति पिण्डं कृत्वाङ्गुष्ठाभ्यां यथार्थाभ्यामङ्गुलीभ्यां च यज्ञस्य पदे स्थ इति निगृह्य तत्त्रिधावच्छिद्य त्रीन्पिण्डान् कृत्वा गायत्रोऽसीति प्रथमं कर्त्रे प्रयच्छति त्रैष्टुभोऽसीति द्वितीयं जागतोऽसीति तृतीयं च गायत्रेण त्वा छन्दसा करोमीति त्रिभिश्छन्दोभिस्त्रीन्महावीरान्वायव्यप्रकारांस्त्र्युद्धीन्पञ्चोद्धीनपरिमितोद्धीन्वा प्रादेशमात्रानूर्ध्वसानूनासेचनवदुपरिभागान्मध्ये संनतान् करोति मखस्य रास्नासीत्युपबिलं रास्नां कृत्वादितिस्ते बिलं गृह्णात्विति वेणुपर्वणा बिलं करोति ३
यावता बिलेन दैवताय सौविष्टकृतायाग्निहोत्राय भक्षेभ्योऽलं मन्यते तानुत्तरतः सिकतासु प्रतिष्ठाप्य सूर्यस्य हरसा श्रायेत्यातपेन प्रत्येकमभितपति मखोऽसीत्यनुवीक्षते तूष्णीमितराण्यासेचनवन्ति हस्त्योष्ठ्यास्ये द्वे दोग्ध्रे मृदैतया करोति यथा स्रुगदण्डैवं वर्षीय आध्वर्यवं दोग्ध्रं प्रतिप्रस्थानादाज्यस्थालीं दधिस्थालीं द्वे परिमण्डले रौहिणकपाले यदि क्रतुः साग्निचित्यो घर्मेष्टकां कुलायिनीं च शिष्टया मृदा प्रलिप्य तान्युपवातयत्युपवातेषु श्लक्ष्णीकरणैः श्लक्ष्णीकुर्वन्ति गार्हपत्ये वृषाश्वशकृदादीन्प्रदीप्य वृष्णो अश्वस्य निष्पदसीति प्रथमं महावीरं शफाभ्यां गृहीत्वान्तर्बहिर्धूपयत्येवमितरौ तूष्णीमितराण्यतः प्रभृति शफाभ्यामेव महावीरानादद्यात् ४
गार्हपत्यस्य पुरस्तादवटं खनति तस्मिन् लोहितपचनात्संभारानवकीर्य देव पुरश्चर सघ्यासं त्वेति महावीरान् क्रमेण प्राचो वोदीचो वोपावहरति पुरस्ताद्दोग्ध्रेऽपरस्ताद्रौहिणकपाले चाज्यदधिस्थाल्या उपरिष्टान्निधाय तैः पचनैः संप्रच्छाद्य मृदावलिम्पति प्रतिदिशमुपोषणाय चतुरङ्गलं विशिनष्टि गार्हपत्ये मुञ्जप्रलवानादीप्यार्चिषे त्वेत्याद्यैः प्रतिमन्त्रं प्रतिदिशमुपोषत्यपि वा सर्वैः सर्वतस्तान्यहनि रात्रौ वा पच्यन्ते यदि सायमुपोषति प्रातरुपैति यदि प्रातः सायमभीमं महिनेति मैत्रीभ्यां पच्यमानान्युपचरति पक्वेषु सिद्ध्यै त्वेति धृष्टी आदाय ताभ्यामङ्गारानपोहति देवस्त्वा सवितोद्वपत्विति प्रथमं महावीरं शफाभ्यामुद्वासयत्यपद्यमानः पृथिव्यामाशा दिश आपृणेत्युत्तरतः सिकतासु प्रतिष्ठापयत्येवमितरौ तूष्णीमितराणि सूर्यस्य त्वा चक्षुषान्वीक्ष इत्यनुवीक्षते ५
ब्राह्मणस्यैतानीदमहममुमामुष्यायणं ब्रह्मवर्चसेन पर्यूहामीति सिकताभिः प्रदक्षिणं पर्यूहति विशा पर्यूहामीति संनमति राजन्यस्य पशुभिरिति वैश्यस्यैकैकं महावीरं शफाभ्यां गृहीत्वा सतेऽवधाय गायत्रेण त्वा छन्दसाच्छृणद्मीत्येतैस्त्रिभिः प्रति मन्त्रं प्रभूतेनाजापयसाच्छृणत्त्यन्तरतो बाह्यतश्च स्वाच्छृण्णं गोपयसाभिविष्यन्दयति तूष्णीं दोग्ध्रे रौहिणकपाले चाज्यदधिस्थाल्यौ च यदि विधुः प्रदरो वा जायते शिष्टेभ्यः किंचिदादाय चूर्णयित्वाजापयसि प्रकीर्य तेनात्र प्रलिप्य विधुं दद्राणं यदृते चिदभिश्रिष इति द्वाभ्यामुपोषयति यद्यु वै सर्वश एव भिद्यते तानि कपालानि पिष्ट्वा शिष्टया मृदा संसृज्य तथा कृत्वोपोषति प्रवर्ग्यपात्राणि कृष्णाजिनेनोपनह्योत्तरेण शालां देव पुरश्चर सघ्यासं त्वेति शिक्य आसज्य तद्यथा पत्नी न पश्यत्या प्रयोगात्तथा निदधाति शं नो वात इत्युत्तरां शान्तिमुपयन्ति ६
प्रचरणकाले प्रवर्ग्येण प्रचर्योपसदा प्रचरन्त्युपसदा वा प्रचर्य प्रवर्ग्येण तेन चरिष्यन्तः संवृण्वन्ति द्वाराणि स्त्रियो यथा न पश्यन्ति परिश्रयन्ति पत्नीसंचारान् पुरस्तादध्वर्युः पश्चाद्धोतोपविशति दक्षिणतः पश्चात्प्रस्तोता दक्षिणतो ब्रह्मा यजमानश्चोत्तरतः प्रतिप्रस्थाताग्नीध्रश्चाप उपस्पृश्य मदन्तीर्नमो वाच इति शान्तिं जपित्वा पुरस्ताद्गार्हपत्यस्य मुञ्जप्रलवान्संस्तीर्य तेषु देव पुरश्चर सघ्यासं त्वेति प्रथमं महावीरमुपावहरत्येवमितरौ तूष्णीमितराण्यत्रैव प्रवर्यार्थान्संभारान्संसादयति सोमासन्दीप्रकारा वर्षीयसी सम्राडासन्दी ह्रसीयसी वा चतस्रः स्रुचस्तासु द्वे रौहिणहवन्यावनिम्ने इतरे द्वे सनिम्ने तयोर्वर्षीयस्युपयमनी प्रोक्षणीधानी ह्रसीयसी द्वौ स्रुवौ द्वे धृष्टी च महावीरसंमितौ पार्श्वतश्छिन्नावन्यतरतः संतृण्णौ संदंशौ शफावित्याचक्षते स्थूलशङ्कुर्घर्मदुघार्थस्त्रयोऽस्थूलशङ्कवो वत्साद्यर्था अमी अवत्सशङ्करिति पदंदिनां षट्छकलाश्चैतान्यौदुम्बराणि वैकङ्कती समित्परिधयो वैकङ्कतास्त्रयोदशेन्धनानि पालाशानि वैणवानि वैकङ्कतानि खादिराण्यर्काण्यौदुम्बराणि शमीमयानि वा शुक्लकृष्णरोमाणि कार्ष्णाजिनानि धवित्राणि त्रीणि बाहुप्रमाणदण्डानि वैणवा औदुम्बरा वा दण्डाः शतमानं रजतं सुवर्णं च साग्रश्छिन्नाग्रश्च द्वौ वेदावभिधानी द्वे निदाने त्रीणि विशाखदामान्येतानि मौञ्जान्यफलीकृतानि रौहिणयोः पिष्टानि प्रभूता मुञ्जप्रलवाः खरेभ्यः सिकता मौञ्जे पवित्रे दर्भमये वोत्तरेण गार्हपत्यं स्फ्येनोद्धत्यावोक्ष्य सिकता न्युप्य प्रादेशमात्रं परिमण्डलं प्रवृञ्जनीयमुत्तरेणाहवनीयं तथोद्वासनीयमुत्तरेण शालां चतुरश्रं निष्यन्दवन्तमुच्छिष्टखरमेवं त्रीन् खरान्कृत्वा शिष्टाः सिकता उत्तरार्धे निधेयाः स्युरथ प्रोक्षणीः संस्कृत्य ब्रह्मन्प्रवर्ग्येण प्रचरिष्यामो होतर्घर्ममभिष्टुह्यग्नीद्रौहिणौ पुरोडाशावधिश्रय प्रतिप्रस्थातः प्रवर्ग्यं विहर प्रस्तोतः सामानि गायेति ब्रह्मादीन्संप्रेष्यति ७
अथ ब्रह्मा यजुर्युक्तमित्युपांश्वनुद्रुत्योमिन्द्रवन्तः प्रचरतेत्युच्चैः प्रसौत्यध्वर्युः प्रसूतो मदन्तीभिर्यमाय त्वा मखाय त्वेति सर्वान्प्रवर्ग्यसंभारांस्त्रिस्त्रिः प्रोक्षति यथा परान्संभारानभिप्राप्नुयात्प्रोक्षितानि व्यायातयति प्रेषितो होता ब्रह्म जज्ञानमिति प्रतिपद्याभिष्टुयादृगावानं प्रणुत्य व्यवस्येदाग्नीध्रो रौहिणौ पुरोडाशावधिश्रयति प्रतिप्रस्थाता दर्विहोमवदाज्यं संस्कृत्य दध्यधिश्रयत्यग्रेणाहवनीयं सम्राडासन्दीं पर्याहृत्य राजासन्द्याः पुरस्तादुत्तरतो वा निदधाति तस्यां प्राग्ग्रीवं कृष्णाजिनमूर्ध्वलोमास्तृणाति तस्मिंस्तथोत्तरौ महावीरावुपशयौ निदधाति तावप्रचरणीयौ स्थलशङ्कुं वत्सशङ्कून्विशाखदामानीत्यादायाग्रेण होतारं दक्षिणातिक्रम्य दक्षिणया द्वारोपहृत्य दक्षिणेन दक्षिणं द्वारं होतुः समीक्षायां मातुः शङ्कुं निहन्ति पूर्वस्या एव द्वार्याया दक्षिणतो घर्मदुहो वत्सस्यापरस्या एव दक्षिणतोऽजाया अभ्यन्तरमुत्तरतो बर्करस्य शङ्कुं निहत्य तत्र विशाखदामानि व्यायातयत्योद्वासनादत्र काले बद्ध्वा दुहन्ति खरांस्त्रीन्न्युप्योत्तरेणाहवनीयं शृतं दधि शकलानुपसादयति वैकङ्कतीं च समिधम् ८
अथाध्वर्युर्देव पुरश्चर सघ्यासं त्वेति प्रचरणीयं महावीरं संदंशाभ्यां परिगृह्य सव्ये पाणौ कृत्वा तमुपरिष्टात्साग्रेण परिमार्याट्प्ज्यस्थाल्याः स्रुवेण सकृदुपहतेनाज्येन गार्हपत्येऽनवानं संततं प्राणाय स्वाहेति सप्त प्राणाहुतीर्जुहोत्येकादश वाथैनं महावीरं देवस्त्वा सविता मध्वानक्त्वित्युत्तमस्य शेषेणाज्येन स्रुवेणानक्ति पृथिवीं तपसस्त्रायस्वेत्येतस्मिन् काले प्रतिप्रस्थाता राजतं शतमानं प्रवृञ्जनीये खर उपगूहति मुञ्जप्रलवानादायार्चिरसीति दक्षिणेषामग्राणि गार्हपत्य आदीपयति शोचिरसीति तेषामग्रैरुत्तरेषां मूलानि ज्योतिरसीति तेषां मूलैर्दक्षिणेषां मूलानि तपोऽसीति तेषां मूलैरुत्तरेषामग्राणि तान्व्यतिषक्तानुपरि शतमाने निधाय तेषु सँसीदस्वेति महावीरं सादयत्यञ्जन्ति यमित्येनमाज्येनाभिपूरयत्यनाधृष्या पुरस्तादित्येतैर्यथालिङ्गं महावीरमसंस्पृशन्यजमानः प्रादेशेन दिशो व्यवस्थापयति मनोरश्वासि भूरिपुत्रेत्युत्तरतः पृथिवीमभिमृशति सिद्ध्यै त्वेति धृष्टी श्रादायाध्वर्युः प्रतिप्रस्थाता च तपो ष्वग्न इति गार्हपत्यादुदीचोऽङ्गारान्निरूह्य चितः स्थ परिचित इत्येनं प्रदक्षिणं न्युप्य त्रयोदश परिधीन्परिधत्तः ९
मा असीति प्राञ्चावध्वर्युः परिदधाति प्रमा असीत्युदञ्चौ प्रतिप्रस्थातैवं द्वौ द्वौ पूर्वेण पूर्वेण मन्त्रेणाध्वर्युरुत्तरेणोत्तरेण प्रतिप्रस्थातान्तरिक्षस्यान्तर्धिरसीत्यध्वर्युरेव त्रयोदशं दक्षिणतः परिदधाति दिवं तपसस्त्रायस्वेत्युपरिष्टात्सौवर्णेन रुक्मेनापिधायाभिर्गीर्भिरिति तिसृभिरुपतिष्ठते गायत्रमसीत्येतैरेकैकं धवित्राण्यादत्ते पश्चात्प्राङ् जान्वाच्य तैरेनं मधु मध्विति त्रिरूर्ध्वमभिधूनोति तेषां प्रथमं स्वयं गृहीत्वा मध्यमं प्रतिप्रस्थात्रे प्रयच्छतीतरदाग्नीध्राय मधु मध्वित्याग्नीध्राग्रा ऊर्ध्वं धून्वन्तस्त्रिः प्रदक्षिणं महावीरं परियन्ति प्रणवेन संराधयन्ति यथावकाशमुपविश्य महावीरं समञ्जन्तो वाग्यता इन्धाना आसते प्रज्वलिते सुवर्णं शतमानमपादत्ते याभिर्वर्तिकां ग्रसिताममुञ्चतमिति होतुरभिज्ञाय दश प्राचीर्दश भासि दक्षिणेत्यनुवाकेनाध्वर्युर्महावीरमभिमन्त्रयतेऽप्नस्वतीमश्विना वाचमस्मे इत्यभिज्ञाय धवित्राण्युपोद्यच्छन्तेऽरूरुचदुषसः पृश्निरग्रिय इत्यभिज्ञाय रुचितो घर्म इत्युक्त्वा यथेतं त्रिः पुनः प्रतिपरियन्ति धवित्राणि प्रत्यादायाध्वर्युरग्रेणाहवनीयं पर्याहृत्य स्वाहा त्वा सूर्यस्य रश्मिभ्य इति प्रातः सम्राडासन्द्यां सादयति स्वाहा त्वा नक्षत्रेभ्य इति सायं यथास्थानमवस्थायापश्यं गोपामिति सर्व ऋत्विजो यजमानश्चाधीयन्तो महावीरमवेक्षन्ते त्वमग्ने गृहपतिरित्यध्वर्युर्गार्हपत्यमुपतिष्ठतेऽन्तर्हिते प्रतिप्रस्थाता त्वष्टीमती ते सपेयेति पत्नीं वाचयत्यग्नीद्रौहिणौ पुरोडाशावासादयेति संप्रेष्यति १०
अनिम्नयोराग्नीध्र उपस्तीर्णाभिघारितौ रौहिणौ पुरोडाशौ पूर्वाह्ने प्राच्यौ स्रुचौ दक्षिणोत्तरपरिधिसंधी अन्वासादयति प्रतीच्यावपराह्न इत्येके देवस्य त्वेति रशनामादायादित्यै रास्नासीति रशनामभिमन्त्र्य पूर्वद्वारोपनिष्क्रम्याध्वर्युरिड एह्यदित एहि सरस्वत्येहीति घर्मदुघमाह्वयति त्रिरुपांश्वसावेह्यसावेहीति त्रिरुच्चैर्यथानाम प्रत्येत्याभिधानीं निदाने दोग्ध्रे चादायाध्वर्युराग्नीध्रः प्रतिप्रस्थाता च दक्षिणया द्वारोपनिर्हृत्यादित्या उष्णीषमसीति घर्मदुघमध्वर्युरभिधान्या कण्ठे बध्नाति वायुरस्थैड इति वत्सं पूषा त्वोपावसृजत्विति वत्समुपावसृजति यस्ते स्तनः शशय इत्यध्वर्युर्घर्मदुघमभिमन्त्र्योस्त्र घर्मꣳ शिꣳषेति वत्समादाय नियुज्य बृहस्पतिस्त्वोपसीदत्वित्युपसीदति दानवः स्थ पेरव इति स्तनान्संमृशत्या दशभिर्विवस्वत इत्यभिज्ञाय स्तनानश्विभ्यां पिन्वस्वेत्येतैर्वर्षीयसि दोग्ध्रे पिन्वयत्येतस्मिन् काले प्रतिप्रस्थाता तूष्णीमजां ह्रसीयस्यग्नीधे पयसी प्रदाय यथेतं प्रत्येत्य गायत्रोऽसि त्रैष्टुभोऽसीति शफावध्वर्युरादत्ते जागतमसीति प्रतिप्रस्थातोपयमनमुपद्रव पयसा गोधुगित्यभिज्ञायाग्नीध्रः प्रतिपद्यते सहोर्जो भागेनोप मेहीत्याह्रियमाणं पयोऽध्वर्युः प्रतीक्षते ११
इन्द्राश्विनेति महावीरे गोपय आनयति स्वाहा त्वा सूर्यस्य रश्मय इत्युद्यन्तमूष्माणमुपतिष्ठते मधु हविरसीत्यजापयः प्रतिप्रस्थाता सूर्यस्य तपस्तपेत्युद्यन्तमूष्माणमुपतिष्ठते द्यावापृथिवीभ्यां त्वा परिगृह्णामीत्यध्वर्युः संदंशनेन महावीरं परिगृह्णाती वेदेन प्रमृज्यान्तरिक्षेण त्वोपयच्छामीत्युपयमनेन प्रतिप्रस्थातोपयच्छति देवानां त्वेत्यादायोत्तिष्ठति तेजोऽसि तेजोऽनुप्रेहीति प्रागाहरत्यग्निर्मा पृथिव्याः पातु वायुरन्तरिक्षात्सूर्यो दिव इति दिविस्पृङ् मा मा हिꣳसीरिति जपित्वा समुद्राय त्वा वाताय स्वाहेति पञ्च वातनामानि गच्छन्नेवानवानं व्याचष्टे सप्त वापान्याग्नये त्वा वसुमते स्वाहेति पञ्चोत्तराण्यवशिष्टानि शिष्टा विकल्पार्थमेतस्मिन् काले प्रतिप्रस्थाता दक्षिणमहर्ज्योतिः केतुनेति प्रातर्जुहोति रात्रिरिति सायमपरेणाहवनीयं दक्षिणातिक्रम्य विश्वा आशा दक्षिणसदिति ब्रह्माणमभिसमीक्ष्य विश्वान्देवानयाडिहेति पश्चादासीनं होतारं स्वाहाकृतस्य घर्मस्येति घर्ममभिसमीक्ष्याश्राव्य प्रत्याश्राविते घर्मस्य यजेति संप्रेष्यत्युत्तमया वाचा प्रचरत्यश्विना घर्मं पातमिति वषट्कृते जुहोति स्वाहेन्द्रावडित्यनुवषट्कृते घर्ममपातमश्विनेति हुतं घर्ममुपतिष्ठते नमो दिवे नमः पृथिव्या इत्यनुवाकशेषेणोपर्याहवनीये धार्यमाणं महावीरं यजमान उपतिष्ठते तं प्रतिप्रस्थाता शृतदध्नाभिपूरयति १२
इषे पीपिहीहि विक्षरन्तं यजमानोऽनुमन्त्रयते मह्यमित्युपांशु वाथैनं दिशोऽनु प्रहावयति त्विष्यै त्वेति पूर्वस्यां द्युम्नाय त्वेति दक्षिणस्यामिन्द्रियाय त्वेति प्रतीच्यां भूत्यै त्वेत्युदीच्यां प्रत्याक्रम्योपयमने महावीरपयःशेषमानीयोद्वासनीये खरे राजतं शतमानं निधाय घर्मासीति तस्मिन्महावीरं निदधाति नेत्त्वा वात स्कन्दयादित्यभिचरतोऽप उपस्पृश्योदुम्बरशकलान् षडादाय तेषामेकैकेनोपयमनद्रव्यस्योपघातेन पूष्णे शरसे स्वाहेति पूर्वार्ध आहवनीयस्य तत्पश्चोत्यैनमन्तराञ्जनं मध्यमे परिधौ संस्पृष्टं सादयत्येवं द्वितीयशकलेन ग्रावभ्यः स्वाहेति प्रश्चोतयत्येनं पूर्ववत्सादयति तथा तृतीयेन मध्यतः प्रतिरेभ्यः स्वाहेति चतुर्थेन द्यावापृथिवीभ्याꣳ स्वाहेत्यपरतोऽथैनमूर्ध्वाञ्जनं भस्मान्त उपगूहत्येवं पञ्चमेन दक्षिणार्धे पितृभ्यो घर्मपेभ्यः स्वाहेत्येनं बहिरञ्जनं दक्षिणे परिधौ संस्पृष्टं सादयत्यथ षष्ठं सर्वेषु लेपेषु समज्योपयमनादन्तत उपहत्योत्तरार्धे रुद्राय रुद्रहोत्रे स्वाहेत्यथैनमुत्तरेण शालाया अतीकाशेनानन्वीक्षमाणोऽमुना सह निरर्थं गच्छेति निरस्याप उपस्पश्यातिशिष्टाञ्छकलानद्भिः संस्पृश्याहवनीयेऽनुप्रहरति प्रतिप्रस्थाता पूर्ववदुत्तरं रौहिणं जुहोत्यपीपरो मा रात्र्या अह्नो मा पाहीत्यध्वर्युर्वैकङ्कतीं समिधं प्रातरादध्यादपीपरो माह्नो रात्र्यै मा पाहीति सायम् १३
शेषादुपयमनेनाग्निहोत्रं जुहोत्यग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति सायं सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति प्रातर्व्याहृत्या वोभयत्र तूष्णीं वा शेषं समुपहूय हुतꣳ हविर्मधु हविरिति यजमान एव प्रत्यक्षं भक्षयति होत्रादयोऽवघ्रेणाग्नीध्र उपयमनमुच्छिष्टखरे मार्जयित्वान्तर्वेदि प्राचीनबिलं सादयति तस्मिन्सुवर्णरजतौ शतमानौ प्रास्य मदन्तीर्निनीय हिरण्यवतीभिस्ताभिर्यजमानषष्ठा हिरण्यवर्णाः शुचय इति चतसृभिर्मार्जयन्त आज्यस्थाल्या स्रुवेणाज्यमादाय प्राणाय स्वाहा पूष्णे स्वाहेत्येताभ्यामनुवाकाभ्यां प्रवर्ग्यप्रायश्चित्तानि हुत्वोपयमनादपो निःसार्य तस्मिन्सर्वं घर्मपात्रं समवधाय तत्समवमृशन् घर्माय सꣳसाद्यमानायानुब्रूहीति संप्रेष्यत्या यस्मिन्सप्त वासवा इत्यभिज्ञाय तदेतदुपयमनमग्रेणाहवनीयं पर्याहृत्य दक्षिणतः सम्राडासन्द्यां कृष्णाजिने प्राचीनबिलं स्वाहा त्वा सूर्यस्य रश्मिभ्य इति प्रातः संसादयति स्वाहा त्वा नक्षत्रेभ्य इति सायं प्रतीचीनबिलमद्धि तृणमघ्न्ये विश्वदानीमित्यभिज्ञाय घर्मदुघमुत्सृज्यैतस्मिन् काले शं नो वातः पवतामित्युत्तमेनानुवाकेन शान्तिमुपयन्त्येवं त्रिरात्रं षड्रात्रं द्वादशरात्रं वा सायंप्रातः प्रवर्ग्योपसद्भ्यां प्रचरन्ति १४
प्रवर्ग्यं भक्षयित्वा न मांसमश्नीयात्संवत्सरं चतुरो वा मासान्न राममुपेयान्न मृन्मयेन पिबेन्नास्य राम उच्छिष्टं पिबेत् तेज एव तत्संश्यतीति ब्राह्मणमग्निष्टोमे प्रवृणक्ति नोक्थ्ये प्रवृञ्ज्याद्विश्वजिति सर्वपृष्ठे प्रवृणक्ति न प्रथमयज्ञे प्रवृञ्ज्यात्प्रवृञ्ज्याद्वा श्रोत्रियानूचानस्य प्रवृञ्ज्याद्दुर्ब्राह्मणस्य च ब्रह्मवर्चसकामस्य च प्रवृञ्ज्यात् प्रवर्ग्यमुद्वासयिष्यन्नजामग्नीधे ददाति पष्ठौहीं ब्रह्मणे घर्मदुघं होत्रे शतमानावध्वर्यवेऽथ पूर्वशान्तिमुपेत्य तृणानि संस्तीर्याग्रेणाहवनीयं सर्वं परिघर्म्यं सम्राडासन्द्यां सादयत्यथाग्नीध्रः प्रवृञ्जनीयोद्वासनीयौ खरौ सते समोप्योत्तरतः सम्राडासन्द्यां सादयत्युच्छिष्टखरमन्यस्मिन्सते समोप्य दक्षिणया द्वारोपनिर्हृत्य मार्जालीयदेशे निदधाति यथेतमेत्योदग्दशेन वाससा पत्न्याश्चक्षुः प्रोर्णोति प्रतिप्रस्थाता गार्हपत्य प्राज्यं विलाप्योत्पूयौदुम्बर्यां स्रुचि चतुर्गृहीतं गृहीत्वा त्रीन् संनखाञ्छलाकामुष्टीनादाय तेषामेकमाहवनीय आदीप्यास्यदघ्ने धारयति तस्मिन्नध्वर्युर्घर्म या ते दिवि शुगिति प्रथमामाहुतिं जुहोति तस्मिन्नपरमादीप्याहवनीये पूर्वं प्रहृत्य घर्म या तेऽन्तरिक्ष इति नाभिदघ्ने द्वितीयामाहुतिं तथापरमादीप्य जानुदघ्ने घर्म या ते पृथिव्यामिति तृतीयामपि वा मुष्टीन्विहाय यथाप्रदेशमाहवनीये तिस्र आहुतीर्जुहाति संवृत्य द्वाराणि प्रवर्ग्यमादायानु नोऽद्यानुमतिरन्विदनुमते त्वमिति द्वाभ्यां पूर्वया द्वारा निष्क्रामन्ति प्रतिप्रस्थाता वाससा पत्नीं नयति महावेदिमाक्रम्य प्रस्तोतः साम गायेति संप्रेष्यति १५
सह पत्न्या यजमानः सर्वर्त्विजस्त्रिः साम्नो निधनमुपयन्ति पुरुषः पुरुषः निधनमुपैतीति विज्ञायते दिवस्त्वा परस्पाया इति प्रथमं प्राप्य मध्यदेशे द्वितीयं निधनं प्राञ्चोऽतिक्रामन्ति ब्रह्मणस्त्वा परस्पाया इति द्वितीयमभिक्रामन्त्युपरवदेशं प्राप्य तृतीयं निधनमुपयन्ति प्राणस्य त्वा परस्पाया इति तृतीयमभिक्रामन्त्युद्वासनदेशमुत्तरेणोत्तरवेदिं प्राप्य सम्राडासन्दी प्रतिष्ठाप्य प्रस्तोतर्वार्षाहरं साम गायेष्टाहोत्रीयं साम गायेति संप्रेष्यतीष्टाहोत्रीयस्य पूर्ववन्निधनमुपयन्ति न वार्षाहरस्योदकुम्भमादायानेन संततधारया वल्गुरसीति सर्वं परिघर्म्यमुत्तरवेदिं परिषिञ्चन्पर्येति निधाय कुम्भं शं च वक्षीति त्रिरपरिषिञ्चन्प्रतिपर्येति चतुस्रक्तिर्नाभिर्ऋतस्येत्युत्तरनाभिमभिमृशति सदो विश्वायुरित्युत्तरेण नाभिं खरावुपनिवपत्यप द्वेषो अप हर इति मार्जालीय उच्छिष्टखरं पाणी प्रक्षाल्योत्तरवेद्यां कृष्णाजिनमास्तीर्य तस्मिन् हिरण्यं निधाय रौहिणपिष्टान्मुञ्जप्रलवान्सिकताश्चानुप्रकीर्य देव पुरश्चर सघ्यासं त्वेति प्रचरणीयं महावीरमुपावहरत्येनं महीनां पयोऽसीति दध्ना मधुमिश्रेण पूरयत्येवमेतरौ पूर्वापरौ दक्षिणोत्तरौ वा तूष्णीमितराण्यादित्यस्येव मण्डलं भवत्यपि वा महीनां पयोऽसीति प्रचरणीय आज्यं ज्योतिर्भा असि वनस्पतिनामोषधीनाꣳ रस इति मधु वाजिनं त्वा वाजिनोऽवनयाम इति दध्येवमितरयोरपि वाज्यमेव प्रथमे मधु द्वितीये दधि तृतीये घर्मैतत्तेऽन्नमेतत्पुरीषमिति यान्यासेचनवन्ति तानि दध्ना मधुमिश्रेण पूरयत्यरिक्तताया इति विज्ञायते १६
अपि वा पुरुषाकृतिं कुर्यात्तां चिकीर्षन्समानमा प्रचरणीयोपावहरणात्तच्छिरो भवत्युपरिष्टात्साग्रं वेदं प्राञ्चं निदधाति सा शिखा शिरोऽभितो दोग्ध्रे कर्णौ प्रोक्षणीधानी मुखं स्रुवौ नासिके अभितः स्रुवौ हिरण्यशकलावक्षिणी आज्यस्थाली ग्रीवा धृष्टी जत्रूण्यभितः शफावंसौ रौहिणहवन्यौ बाहू प्राची मेथी पृष्टयोऽभितो द्वे धवित्रे पार्श्वे तृतीयधवित्रमुरो मध्य उपयमनमुदरोऽभितोऽभ्रिः श्रोणी अभितः शङ्कू सक्थिनी मध्ये तृतीयं मेढ्रमभितो रौहिणकपाले पार्ष्णी तस्मिन्सर्वं रज्जुमयं दधाति तान्यन्त्राणि रौहिणपिष्टानि सर्वतः प्रध्वंसयति तानि मज्जा वेदं विसृज्यानुप्रकिरति स स्नायवोऽवकाभिस्तृणैः प्रच्छादयति सिरा घर्मैतत्तेऽन्नमेतत्पुरीषमित्यतिशिष्टं दध्ना मधुमिश्रेण संमृज्यान्तरेण सक्थिनी निवपति तन्मांसं दध्ना मधुमिश्रेण सर्वतोऽवोक्षति तल्लोहितं प्राचीन ग्रीवेणोत्तरलोम्ना कृष्णाजिनेन प्रोर्णुते त्वग्लोमानि च सम्राडासन्दीं विस्रस्योपरिष्टान्निदधाति साम्राज्यं भवति १७
उत्तरवेद्यां नित्यं कल्पं ब्रुवत उत्तरवेद्यामुद्वासयेत्तेजस्कामस्येति ब्राह्मणोक्ताणि यथाकामं नैनमुद्वासितं वयांसि पर्यासीरन्नाग्निप्रणयनादत्रोदकुम्भपरिषेचनमेके समामनन्ति रन्तिर्नामासि दिव्यो गन्धर्व इत्येनमुपतिष्ठतेऽचिक्रदद्वृषा हरिरिति यजमानोऽध्वर्युरेतत्त्वं देव घर्मेत्यभिमन्त्र्येदमहं मनुष्यो मनुष्यानिति प्रदक्षिणमावृत्योच्छिष्टखरे मार्जयित्वानवेक्षमाणः प्रत्येत्योद्वयं तमस इत्यादित्यमुपस्थायोदु त्यं चित्रमिति द्वाभ्यां गार्हपत्ये जुहोत्युपतिष्ठत इत्येक इममू षु त्यमित्याहवनीयमुपतिष्ठते गार्हपत्यं वा शं नो वातः पवतामित्युत्तरां शान्तिमुपयन्त्युपयन्ति १८
इति त्रयोदशः प्रश्नः