कल्पः/श्रौतसूत्राणि/मानव-श्रौतसूत्रम्/कल्पः १३

विकिस्रोतः तः
← कल्पः १२ मानव-श्रौतसूत्रम्
कल्पः १३
[[लेखकः :|]]
कल्पः १४ →

अथातः प्रतिग्रहकल्पँ व्याख्यास्यामः १ दक्षिणां प्रतिगृह्णीयाद्नावेदविन्ना-शुचिर्नायज्ञोपवीती न मुक्तशिखो नार्तश्च नानुदके न चाकाले २ सावित्रः पुरस्तात्क इदमिति पश्चात् ३ प्रजापतये त्वेति पुरुषीं प्रतिगृह्णीयाद्धस्तिनं पुरुषं भूमिं प्राणि चान्यत्सर्वं जीवमनूर्वरां चन्द्रा य त्वेति शिरो यमाय त्वेत्येकशफँ रुद्रा य त्वेति गामग्नये त्वेति हिरण्यं त्रपु सीसमयो लोहं च ग्नास्त्वा-कृन्तन्नपसोऽतन्वत धियोऽवयन्बृहस्पतये त्वेति वास उत्तानाय त्वेत्यप्राण-द्विश्वेभ्यो देवेभ्यस्त्वेति छत्त्रं गृहं ग्रामं च श्रीकामाय त्वेति शय्यामिन्द्रा ग्निभ्यां त्वेति छागं मेषं महिषं च वरुणाय त्वेत्युदकुम्भं कूपं तडागं च समुद्रा य त्वेति करकशङ्खशुक्तिप्रवालानि यच्चान्यत्किंचित्सामुद्रं त्वष्ट्र इत्युष्ट्रान्सोमाय रसान्द्र वान्गन्धस्रजो वनस्पती ँ! श्च वैश्वानराय त्वेति रथान् ४ यद्यासंभृता नानादक्षिणास्तां दक्षिणां प्रतिगृह्णीयात्
पृथिव्यां पुण्यं च पापं च कस्ते प्रतिपश्यति ।
इष्टपुण्यं च पापं च आदित्यः प्रतिपश्यति ॥
यदा दाता प्रमीयेत यस्मै दत्तँ स जीवति ।
अन्तरावर्तमानाभ्यां दक्षिणा कस्य तिष्ठति ॥
वरुणो दक्षिणाः प्रतिगृह्य विष्णवे प्रयछति ।
स दाता सर्वसत्यानां जन्मकाले पुनःपुनः ॥
इति ५ १

पुरुषी ँ! हस्ते गृहीत्वा प्रसारे वीरं बाहुभ्यां बाहुकारीमभिरुह्य हस्तिनं पुरुषं भूमिं पृष्ठेऽश्वं गां पुछे हिरण्यं गृहीत्वा वासः परिधायाक्रम्याप्राणं छत्त्रं दण्डे रथमीषायां ग्रामं मध्ये गृहं प्रविश्य शय्यामारुह्याजं कर्णे मेषमूर्णायां महिषँ शृङ्ग उदकुम्भं गृहीत्वा कूपमवलोक्य तडागमवतीर्य करकशङ्खशुक्तिप्रवालानि गृहीत्वा यच्चान्यत्किंचित्सामुद्र ँ! शङ्कुना चोष्ट्रान्प्रतोदेन खरानश्वतरानुत्क्षिप्य रसाननुलिह्य गन्धान्स्रग्दामानि चारुह्य वनस्पतीनन्नं गृहीत्वा १ श्राव्यमन्त्रो ब्राह्मणस्य जपमन्त्रो राजन्यस्योपाँ शुमन्त्रो वैश्यस्य शूद्र स्य गृहान्निष्क्रम्य बहिरुपस्पृश्य मनसा मन्त्रमावर्तयेत् २ य एवँ विद्वान्प्रतिगृह्णाति पुनाति दातारं पुनाति चात्मानं पुनाति दक्षिणा देवेषु वेत्ताहमिति ३ २
इति प्रतिग्रहकल्पः

अथातो मूलजातस्य विधिँ व्याख्यास्यामः १ मूलस्य प्रथमेऽँ! शे पितुर्नेष्टो द्वितीये मातुस्तृतीये धनस्य चतुर्थे कुलशोकावह आत्मनो वा पुण्यभागी भवति २ तत्रोदकुम्भं कुर्यात्तस्मिन्रुद्रा ञ्जपित्वाप्रतिरथँ रक्षोघ्नँ सूक्तं च ३ द्विती-योदकुम्भश्चतुःप्रस्रवणसँ युक्तस्तस्मिन्मूलानि धारयेद्वँ शयात्राकृतानि ४ तेषां प्रधानानि मूलानि वक्ष्यामि । प्रथमाः काश्मर्यः सहदेवी अपराजिता अधः-पुष्पी शङ्खपुष्पी बला पाटला मयूरशिखा मधुपुष्पिका चक्राङ्किता काकजङ्घा कुमारी द्वितीया वैजयन्ती अपामार्गो भृङ्गरजो लक्ष्मणा जाती व्याघ्रः पत्त्रकः चक्रमर्दः कपिलेश्वरा अश्वत्थः सहः पलाश उदुम्बरः प्लक्षः शमी अर्को रो-हितको बिल्व इत्येवमादीनि मूलशः पूरयित्वा मध्ये मूलँ हेममयं च कुर्यात्सप्तधान्यसँ युक्तम् ५ तेषां निषिद्धानि मूलानि वक्ष्यामि । तिल्वको धवो निम्बः शाल्मली राजवृक्षः श्लेष्मन्तकः सर्वकण्टकिवर्जम् ६ तत्राभि-षेकं कुर्वीत पितुः शिशोर्जनन्या देवरस्याकृत्यासन्द्यामासीनानाँ संपातेनाभि-षिञ्चति शिरसोऽध्या मुखात् ७ शिरो मे श्रीर्यश इति यथालिङ्गमङ्गानि संमृशति ८ स्नातानामुपरिष्टान्नैरृतं पयसि स्थालीपाकँ श्रपयित्वा काश्म-र्यमयं परिधिमिध्मँ स्रुक्स्रुवँ संमृज्याघारावाज्यभागौ हुत्वासुन्वन्तमयजमान-मिति चतस्रः स्थालीपाकस्य हुत्वा कया शुभा सवयस इति पञ्चदशाज्या-हुतीर्जुहुयान्मा नस्तोक इति या ते रुद्र शिवा तनूरिति पञ्च ९ अग्ने रक्षा सीसेन तन्त्रमिति द्वाभ्याँ स्विष्टकृते हुत्वा समाप्ते कृष्णा गौः कृष्णाश्च नीला हेममयं मूलँ सप्तधान्यं चाचार्याय दद्याद्ब्रह्मणे कृष्णोऽनड्वान्यथाशक्त्या ब्राह्मणेभ्यः सुवर्णं दद्यात् १० ब्राह्मणान्भोजयेत्कृसरपायसान्नमाज्यसँ युक्तम् ११ सर्व ँ! शोभनं क्षेममारोग्यँ सर्वाशिषः संपदा सर्वमङ्गलसंपदा च १२ एवं नैरृतदेवते गरयोगे च विधिर्मनुनादिष्टः । शान्तिकराक्षे मकरी शुभकरा धनधान्य ऋद्धिकरी सर्वकुलरक्षणी भयशोकापहारिणी बलभाग्ये शुभकारेति १३
इति मानवसूत्रे मूलादिजातशान्तिविधिः २

अथ यमलशान्तिः १ अस्य यमलौ पुत्रौ गावौ वडवे वायायाताम् २ सँ वत्सरे पूर्णे द्वादशवत्सरे वा द्वादशरात्रे वा सप्त कर्षायानाहरेदश्वत्थमुदुम्बरँ विकङ्कतं न्यग्रोधप्लक्षशमीशमकप्रियङ्गुगौरसर्षपाँ श्च ३ यदि तान्न विन्देद्धिरण्यस्नानँ ॥ हिरण्यवर्णाः शुचय इति चतसृभिश्चतुष्पादे भद्र पीठे प्राङ्मुखानुपवेश्य मृन्मयेन शतधारेण बैजलँ सहस्रधारमन्तर्धाय या ओषधयः समन्या यन्तीत्यनुवाकाभ्यां चतस्रो विधवाः स्नापयेयुश्चत्वारो वा ब्रह्मचारिणः ४ स्नातावलंकृतौ दम्पती प्रदक्षिणमग्निं परिणयेत् ५ पश्चादग्नेर्दर्भेषूपविश्य मारुतस्य स्थालीपाकस्य प्रियवतीभ्याँ सप्त कृत्वोऽवद्यञ्जुहोति ६ ऋषभैका गावो दक्षिणा ७ पुरस्तादग्नेः सप्त कर्षून्खात्वा तान्गन्धोदकेन पूरयित्वा जयप्रभृतिभिश्चाज्यस्य पुरस्तात्स्विष्टकृतो हिरण्यगर्भ इत्यष्टाभिः प्रत्यृचमति-क्रामेदष्टमीं जपेत् ८ आहिताग्नेश्चोदनेन विधिना व्याख्यास्यामः ९ मारुतं त्रयोदशकपालं निर्वपेत् १० तस्य गौर्धेनुर्दक्षिणा ११ यदि तां न विन्देत्सुक्षेत्रँ सुसमृद्धं दद्याद्यवक्षेत्रं तिलक्षेत्रँ वा १२ यदि तानि न विन्देल्लोमवस्त्रत्वग-वछन्नो वाडवाग्निं प्रविशेत्स एतस्यानुग्रहः १३
इति यमलजातिशान्तिः

अथात आश्लेषाविधिँ व्याख्यास्यामः १ प्रथमे पादे मातृनाशश्चतुर्थे पितु-र्विनाशः २ तत्र मूलविधानोक्तौषधिशतं गृहीत्वा ताम्रपात्रे परिवँ शपात्रे नि-धाय तण्डुलान्परिष्ठाप्य तस्योपरि हेम निष्कप्रमाणँ सर्पमधोमुखं प्रतिष्ठाप्य पञ्चगव्येन स्नपनं कृत्वा वस्त्रयुग्मेन वेष्टयेद्यज्ञोपवीतेन सुगन्धैः पञ्चवर्ण-पुष्पैर्धूपदीपैर्नानाभक्षभोज्योपहारैस्ताम्बूलादिभिर्नानाविधफलैश्च ३ नमो अस्तु सर्पेभ्य इति सुवर्णसर्पं पूजयेत् ४ ततश्चतुरः कुम्भान्प्रतिष्ठाप्य प्रथमं नि-र्झरोदकेनेतरानपि संपूर्य तत्र प्रथमे सप्त मृत्तिका द्वितीये देवदारु मुस्तां च सिद्धार्थोत्पलहरिद्रा गुडूचीचन्दनं तृतीये सर्वौषध्यश्चतुर्थे सर्वमिदं कृत्वा समुद्रं गछेति चतुर्भिर्मन्त्रैरभिमन्त्र्! य गन्धपुष्पादिभिरर्चयित्वा शुभेऽह्नि शुभनक्षत्रे शुभ-लग्ने शुभवेलायाँ यजमानः शुचिर्भूत्वाहते वाससी परिधाय गन्धाद्यैर-लंकृतमाचार्यं नमस्कृत्यर्त्विग्भिः सह पुण्याहवाचनं कृत्वा कलशेषु मध्ये स्थण्डिलं कृत्वाग्नं प्रतिष्ठाप्य स्थालीपाकँ श्रपयित्वाघारावाज्यभागाभ्याँ हुत्वा ततः सावित्र्! या सवित्रे वयँ सोमेति सोमाया सुन्वन्तमयजमानमिति निरृतये सहस्रशीर्षेति विष्णवे पृथगष्टोत्तरशतं जुहुयात् ५ नमो अस्तु सर्पेभ्य इति समिच्चरुतिलाज्यैर्जूहुयात् ६ स्विष्टकृतं प्रायश्चित्ताहुतीर्हुत्वा पूर्णाहुतिँ हुत्वा-चार्यः शिशुं मातरं पितरँ सर्वौषधितिलसर्षपसँ युक्तमुदकं कलशादुद्धृत्य-र्त्विग्भिः सह चतुर्भिः कलशैरभिषिञ्चेत् ७ पूर्ववद्दक्षिणेति शेषो व्याख्यातः ८
इति मानवसूत्रे आश्लेषाविधिः

शंकर उवाच
दन्तजन्मनि बालानाँ लक्षणं तन्निबोधये ।
उपरि प्रथमँ यस्य जायन्ते च शिशोर्द्विजाः ।
दन्तैर्वा सह यस्य स्याज्जन्म भार्गव सत्तम ।
मातरं पितरं चाथ खादेदात्मानमेव वा १
तत्र शान्तिं प्रवक्ष्यामि तां मे निगदतः शृणु ।
गजपृष्ठगतं बालं नौस्थँ वा स्थापयेद्द्विजः ।
तदभावेन धर्मज्ञः काञ्चने च वरासने २
सर्वौषधैः सर्वगन्धैः बीजैः पुष्पैः फलैस्तथा ।
पञ्चगव्येन रत्नैश्च पताकाभिश्च भार्गव ।
स्थालीपाकेन धातारं पूजयेत्तदनन्तरम् ३
सप्ताहं चात्र कर्तव्यं तथा ब्राह्मणभोजनम्
अष्टमेऽहनि विप्राणां तथा देया च दक्षिणा ।
काञ्चनँ रजतं चात्र भुवमात्मानमेव च ४
दन्तजन्मनि सामान्ये शृणु स्नानमतः परम् ५
भद्रा सने निवेश्यैनं मृद्भिर्मूलैः फलैस्तथा ।
सर्वौषधैः सबीजैश्च सर्वगन्धैस्तथैव च ।
स्नापयेत्पूजयँ श्चात्र वह्निसोमँ समीरणम् ।
प्रथमँ स्थापयेत्तत्र देवदेवं च केशवम् ६
तेषामेव तु जुहुयाद्घृतमग्नौ यथाविधि ।
ब्राह्मणानां च दातव्या ततः पूजा च दक्षिणा ७
भासन्तं छत्त्रमूर्धानं बीजैः सुस्नापयेत्ततः ।
सुस्निग्धैर्बालकानां च तैश्च कार्यं प्रपूजनम् ८
पूज्याश्चाविधवा नार्यो ब्राह्मणाः सुहृदस्तथा ९
इति विष्णुधर्मोक्ता दन्ताप्त्यतिशान्तिः

अकालप्रसवा नार्यः कालातीतप्रजास्तथा ।
अमानुषा अभण्डाश्च अजातव्यंजनास्तथा ।
हीनाङ्गा अधिकाङ्गाश्च जायन्ते यदि वा स्त्रियः ।
पशवः पक्षिणश्चैव तथैव च सरीसृपाः ।
विनाशं तस्य देशस्य कुलस्य च विनिर्दिशेत् १
निर्वासयेत्तान्नृपतिः स्वराष्ट्रात्स्त्रियश्च पूज्याश्च ततो द्विजेन्द्रा ः! २
फलादिकैर्ब्राह्मणतर्पणं च लोके ततः शान्तिमुपैति प्राप्तः ३
इति प्रसवेकृतशान्तिः

अथातो रुद्र जपस्य विधानकल्पँ व्याख्यास्यामः १ उत्तरतो ग्रामस्य पुरस्ताद्वा शुचौ देशे नदीषु देवखातेषु तडागे वा मलापकर्षणं कृत्वा प्राणायामत्रयं कुर्यात् २ रुद्र स्नानां कुर्वीत ३ नमः शंभवे चेति स्नात्वासंख्याता सहस्राणीति दशभिर्मार्जनमुत्तीर्य वस्त्रे च परिधायाचम्य रुद्रं न्यसेद्या ते रुद्रे ति शिखायाँ ये अस्मिन्महत्यर्णव इति शिरस्य संख्याता इति ललाटे नमो नीलकपर्दायेति चक्षुषोर्नमः श्रुताय च श्रुतसेनाय चेति कर्णयोरवतत्य धनुष्ट्वमिति मुखे नमो नीलग्रीवायेति कण्ठे नमस्ता आयुधायानाततायेति बाह्वोर्नमो गिरिकेभ्य इति हृदये हिरण्यगर्भ इति नाभ्यां नमो गणेभ्य इति पुष्टौ नमो मीढुष्टराय चेति कट्यामिमा रुद्रा य तवस इति गुह्ये मा नो महान्तमित्यूर्वोर्ये पथां पथिरक्षय इति पादयोरध्यवोचदिति कवचं नमो बिल्मिने चेत्युपकवचं प्रमुञ्च धन्वन इत्यस्त्रम् ४ य एतावन्त इति दिग्बन्धः ५ ॐ नमो भगवते रुद्रा येति विन्यसेत् ॐकारं मूर्ध्नि विन्यस्य नकारं नासिके तथा ।
मोकारं तु ललाटे वै भकारं मुखमध्यतः ।
गकारं कण्ठदेशे तु वकारँ हृदये न्यसेत् ।
तेकारं दक्षिणे हस्ते रुकारँ वामतो न्यसेत् ।
द्रा कारं नाभिमध्ये तु यकारं पादयोस्तथा ६
त्रातारमिन्द्रं प्राचीदिगधिपतय इन्द्रा य नमः ॥ त्वं नो अग्न आग्नेयदिगधि-पतयेऽग्नये नमः ॥ सुगं नु पन्थां दक्षिणादिगधिपतये यमाय नमः ॥ असुन्व-न्तमयजमानं नैरृत्यदिगधिपतये निरॄतये नमः ॥ तत्त्वा यामि पश्चिम-दिगधिपतये वरुणाय नमः ॥ आ नो नियुद्भिर्वायव्यदिगधिपतये वायवे नमः ॥ त्वँ सोम क्रतुभिरुदग्दिगधिपतये कुबेराय नमः ॥ तमीशानमीशान-दिगधिपतय ईशानाय नमः ॥ इमा रुद्रा य तवस ऊर्ध्वादिगधिपतये ब्रह्मणे नमः ॥ स्योना पृथिव्यधोदिगधिपतयेऽनन्ताय नम इत्येतद्दिक्संपुटम् ७ एव-मेवात्मनि रौद्री करणं कृत्वा त्वगस्थिगतैः पापैः प्रमुच्यते ८ अनेन विधिना न ग्रामे न स्त्रीस्रवणे न श्राद्ध आमन्त्रिते न पशुसंनिधौ यक्षराक्षसभूत-प्रेतपिशाचयमदूतशाकिनीतस्कराद्युपघाताः ९ सर्वे ते ज्वलन्तं पश्यन्ति १० आत्मानँ रुद्र रूपं ध्यायेत् ११ त्रिनेत्रं पञ्चवक्त्रं दशभुजँ सौम्यँ सर्वाभरणभूषितं नीलग्रीवँ शशाङ्कचिह्नँ शुद्धस्फटिकसंकाशं नागयज्ञोपवीतिनँ व्याघ्रच-र्मोत्तरीयकं कमण्डल्वक्षसूत्रहस्तमभयप्रदं त्रिशूलहस्तं पिनावपाणिनँ वृषभ-स्कन्धसमारूढमुमादेहार्धधारिणं ज्वलन्तं कपिलजटं जटामुकुटसँ युक्तँ शि-खामुद्द्योतकारिणममृतेनाप्लुतँ हृष्टँ सुरासुरैर्नमस्कृतं दिग्देवतैः समायुक्तं नित्यं च शाश्वतँ शिवं ध्रुवमक्षयमव्ययँ सर्वव्यापिनिरञ्जनमीशानँ रुद्र ँ! विश्व-रूपिणमेवं ध्यात्वा द्विजः सम्यक्ततो जपमारभेत् १२ सुगुप्तदेशे गोचर्म-मात्रेऽस्थन्स्वनुलिप्ते वा लिङ्गपद्माकृतिं प्रकल्प्य प्रोक्ष्य मा नो महान्तमिति स्थापयेद्नमः शंभवे चेत्यर्चयेत् १३ सद्यवामाघोरतत्पुरुषेशानेति रुद्र स्या-वाहनँ ॥ सद्यो जात इत्यस्य सद्योजात ऋषिर्ब्रह्मा देवता त्रिष्टुप्छन्दः हँ सवाहनः पश्चिमवक्त्रः पृथिवीतत्त्वः ब्रह्मरूपाय ह्रां पश्चिमवक्त्रावाहने विनियोगः सद्यो जातः पश्चिमवक्त्राय नम आ वाहयामि ॥ वाममद्य सवितरित्यस्य वामदेव ऋषिः विष्णुर्देवता त्रिष्टुप्छन्दो गरुडवाहन उत्तरवक्त्र आपस्तत्त्वो विष्णुरूपाय ह्रीमुत्तरवक्त्रावाहने विनियोगो वाममद्य सवितरुत्तरवक्त्राय नम आ वाहयामि ॥ अघोरेभ्य इत्यस्याघोर ऋषी रुद्रो देवता बृहतीछन्दो वृषभवाहनो दक्षिणवक्त्रस्तेजस्तत्त्वो रुद्र रूपाय ह्रूं दक्षिणवक्त्रावाहने विनियोगो अघोरेभ्यो दक्षिणवक्त्राय नम आ वाहयामि ॥ तत्पुरुषायेत्यस्य तत्पुरुष ऋषिः सूर्यो देवता गायत्रीछन्दोऽश्ववाहनः पूर्ववक्त्रो वायुस्तत्त्वः सूर्यरूपाय ह्रैं पूर्ववक्त्रा-वाहने विनियोगस्तत्पुरुषाय पूर्ववक्त्राय नम अ वाहयामि ॥ तमी-शानमित्यस्येशान ऋषिः शब्दो देवता बृहतीछन्दः कूर्मवाहन ऊर्ध्ववक्त्र आकाशतत्त्वः श्वेतरूपाय ह्रौमूर्ध्ववक्त्रावाहने विनियोगस्तमीशानमूर्ध्व-वक्त्राय नम आ वाहयामि ॥ आ त्वा वहन्त्विति रुद्र गायत्रीमष्टौ कृत्वः प्रयुञ्जीत १४ रुद्रं ध्यायेत् १५ नीलकण्ठं महादेवं कैलासस्थँ सहोमया त्रिनेत्रमीश्वरं चैव ध्यात्वा सिद्धिमवाप्नुयात् १६ ततो जपमारभेद्नमस्ते रुद्र मन्यव इति प्रभृतिभिरष्टाभिरनुवाकैः १७ प्रथमानुवाके गायत्री छन्दस्तिस्र-स्त्रिष्टुभस्तिस्रः पङ्क्तयः सप्तानुष्टुभोऽन्त्यानुवाके प्रथमा बृहती द्वे त्रिष्टुभौ द्वादशानुष्टुभो द्वे जगत्यौ १८ शेषानां नानाछन्दसाँ रुद्रा नाँ रुद्रो देवताघोर ऋषिः १९ शतरुद्रि यायाँ सँ हितायाँ सर्वपापक्षयार्थे जपे विनियोगः २० नमस्ते रुद्र मन्यव इत्यादिरष्टानुवाकाः २१ असंख्याता सहस्राणीति यथा-लिङ्गँ स्थापनं ध्यात्वा नमो अस्तु रुद्रे भ्यो ये दिवीत्यँ सदघ्ने ध्यायेद्नमो अस्तु रुद्रे भ्यो ये अन्तरिक्ष इति नाभिदघ्ने नमो अस्तु रुद्रे भ्यो ये पृथिव्यामिति जानुदघ्ने ध्यायेत् २२ अघोरेभ्य इति जपित्वा यः पथ इति विसर्जयेत् २३ अप्रतिरथं जपन्गृहमाव्रजेत् २४ तेनोदकेनात्मानमभिषिञ्चेत् २५ द्विपदश्चतुष्पदश्चेत-न्नित्यजपस्य विधानम् २६
इति मानवगृह्यपरिशिष्टे नित्यजपविधानम् १

नैमित्तिकस्य पुनर्वक्ष्यामि १ पूर्वोक्तेन विधिना स्नात्वा न्यासं कृत्वा शङ्ख उदकं गृहीत्वा यथालाभे पात्रे वा दूर्वापुष्पा एकोदकमक्षतमीशानाभिमुखं प्रक्षिपेत् २ यमुद्दिश्य जपेत्तस्य चैवमेव धीरेकावर्तं द्विरावर्तं त्रिरावर्त ँ! सप्ता-वर्त ँ! यद्यारोग्यार्थमष्टावर्तमेकत्रस्थे त्रिरावर्तं नित्ये नैमित्तिकेऽपरिमितम् ३ यदि रुद्र ः! प्रजा अभिशामयेतोत्तरपूर्वस्यां दिशि शतरुद्रि यं जपँ श्चङ्क्रममाणो जपेत् ४ एकाहे जप्ते रोगपापैः प्रमुच्येत ५ त्र्! यहजप्तेन ब्रह्महत्यादिपापैः कुष्ठादिभ्यः प्रमुच्येत ६ अनेन विधिना न ग्रामे न स्त्रीस्रवणे न श्राद्ध आमन्त्रितो न पशुसंनिधौ न पूर्वापराँ रात्रीं ब्रह्मचारी नान्त्यजदर्शने न रजस्वलादर्शने न व्यायामं कुर्वीत ७ समाप्तेषु यथाकामं प्रार्थयित्वाघोरेभ्य इति जपित्वा यः पथ इति विसर्जयेत् ८ तेनोदकेन यजमानमभिषिञ्चेत् ९ अप्रतिरथं जपन्गृहमावर्तयेत् १० ब्राह्मणे यो जपेत्स सर्वान्कामानवाप्नुयात् ११ विधिहीने विपरीतँ स्याद्ब्राह्मणस्य यजमानस्य च १२ २

शुचिस्नातो जितेन्द्रि यो लब्धाशीरृषिछन्दोदेवताविनियोगो न्यासपूर्वकँ रुद्रं जपेत् १ अघोर ऋषी रुद्रो देवता बृहती छन्दः सर्वकर्मणि न्यासे विनियोग आखुं ते रुद्र पशुं करोमीत्यान्तादनुवाकस्येति हृदयमिदँ विष्णुर्विचक्रम इत्यान्तादनुवाकस्येति शिरो ब्रह्मणस्पत इति षडृचं ब्रह्म जज्ञानं ब्रह्मा देवानामिति शिखामप्रतिरथमिति कवचमादित्यानामवसा नूतनेनेति द्वे षडृचौ चक्षुषी शतरुद्रि यमित्यस्त्रम् २ एवं न्यासमावाहनविसर्जनान्तम् ३ प्रणम्य जपं निवेदयेत् ४ पालाशसमिध आज्यप्लुतास्तिलाहुतिभिर्नमः शंभवे चेति तिसृभिः षड्द्वादश वा जुहुयात् ५ स्नानतर्पणजपहोमार्चनरतो यः सँ वत्सरे जपेत्
स दशाफलमाप्नोति ब्रह्मघ्नोऽतिविशुध्यति ।
सुरापः सुवर्णहर्ता गोघ्नो वा वृषलीपतिः ।
मुच्यते सर्वपापेभ्यो रुद्र लोकं स गछति ६
रुद्र जापीहतं दत्तमनन्त्याय कल्पते ७ ३
इति मानवगृह्यपरिशिष्टे रुद्र जपविधानँ समाप्तम्

अथातः प्रवराध्यायँ व्याख्यास्यामः १ तदेतद्ब्राह्मणं भवत्यार्षेयँ वृणीते बन्धोरेव नैत्यथो संतत्या इति २ एकँ वृणीते द्वौ वृणीते त्रीन्वृणीते न चतुरो वृणीते न पञ्चातिप्रवृणीते वा ३ इहैके मनुवदित्येवैकार्षेयँ सार्ववर्णिकं प्रदिशन्ति । कस्यो हेतोरिति । मानव्यो हि प्रजा इति ४ न देवैर्न मनु-ष्यैरार्षेयँ वृणीत । ऋषिभिरेवार्षेयँ वृणीते ५ यः परार्षेयँ वृणीते परँ यज्ञस्याशीर्गछेदिति श्रुतिरावृश्च्यते वा एष ओषधीभ्यः पशुभ्यः पितृभ्यो यश्च परप्रवरान्प्रवृणीते ६ तदेतदन्यत्र ब्राह्मणक्षत्रियाभ्यामितरासां प्रजानामुक्तं भवति ७ इत एवोर्ध्वानध्वर्युर्वृणीते पूर्ववदमुतश्चामुतोऽर्वाचो होता तद्धित-वदामन्त्रितवच्च ८ भृगूनेवाग्रे व्याख्यास्यामः ९ जामदग्न्या १० वात्स्या आनुशातकि वैहति पैल शौनकायनि जीवन्ति काम्बलोदरि वैहीनरि वैरोहित्य ळेख्यायनि वैशाकि वैश्वानर वैरूपाक्षि पौकाशेरळानां पार्णिलि वृकाश्वकानामुच्चैर्मन्यु सावर्णि वाल्मीकिशेरलानाँ वैष्टपुरेय पालाक्षि तौलकेशिनाम समृतभागार्तभाग मार्कण्डेय मण्डु माण्डव्य विभाण्डक माण्डूकेयार्वनानाँ स्फेनमद्भूती स्थौलपिण्डि शैषापत्य शार्कराक्ष देवमतीना मायणार्चायनाह्वायन गाङ्गायन वैशम्पायन वायव्यायनौदुन्त्यायन सौरयी दार्भि मालायन शार्ङ्गरव गालव चाणूकेय वैकर्णिः शौनकर्णिः शौण्डकर्णिः सांकृत्यैतिशायनानाँ याज्ञेय भ्राष्ट्रेय क्ष्माला अण्ड पारिमण्डलायनालुन्धिः क्रौष्टि सौधकीनां पैङ्गलायन सात्यकायन कौचहस्ति कोवह्नण्डि सांख्यमित्र चान्द्र मित्र चान्द्र मस्यानुलोमि कौटिल्य शौनकायनि काँ स्य शारद्वत मौद्गल्यो वाद्याळेह्रेयि निमिथि शाकल्योष्ट्राक्षि वाकायन्यनुमति जैह्म्याशम शोकजिह्वात्मदमनि वाटार किराणि माजानाति काशकृत्स्नौषु स्रुचतो त्रान वैहीकारि शौक्रायणाः शाकृणिः शाकटायना गोष्ठायना गोलायना डाकव्यायना इत्येतेषामविवाहः ११ तेषां पञ्चार्षेयः प्रवरो भवति । भार्गव च्यावनाप्नवानौर्व जामदग्न्येति होता जमदग्निवदूर्ववदप्नवानवच्च्यवनव-द्भृगुवदित्यध्वर्युः १२ वैदा निमथितास्तेषां पञ्चार्षेः प्रवरो भवति । भार्गव च्यावनाप्नवान वैद नैमथितेति होता निमथितवद्विदवदप्नवानवच्च्यवनव-द्भृगुवदित्यध्वर्युः १३ आवध्यायना मौञ्जायनास्तेषाँ त्र्! यार्षेयः प्रवरो भवति
। भार्गव च्यावनावध्येति होतावध्यवच्च्यवनवद्भृगुवदित्यध्वर्युः १४ १

अथ जमदग्नीनाम् १ विदाः प्राचीनयोग्याः पुलस्त्या वैदभृताः क्रौञ्चायनाभय-जातास्तौगायना आवटाः शाकर्णिना भाल्वशयो भार्गवा इत्येतेषामविवाहः २ तेषां त्र्! यार्षेयः प्रवरो भवति । भार्गव च्यावनाप्नवानेति होता-प्नवानवच्च्यवनवद्भृगुवदित्यध्वर्युः ३ ब्रौधेया मार्गपथा ग्राम्यायणिरथ नैकसी आपस्तम्बिर्विभील्लि कार्णि कार्दमिरार्ष्टिषेण गर्दभ शातपथि इत्येते-षामविवाहः ४ तेषां पञ्चार्षेयः प्रवरो भवति । भार्गव च्यावनाप्नवाना-र्ष्टिषेणानूपेति होतानूपवदृष्टिषेणवदप्नवानवच्च्यवनवद्भृगुवदित्यध्वर्युः ५ आपिशायनाः कापिशायनाः द्रौ णायनाः खालायनाः अविचक्षा मैत्रेया अथ इय आमोदायना आपिशला इत्येतेषामविवाहः ६ तेषां त्र्! यार्षेयः प्रवरो भवति । भार्गव वाध्र्यश्व दैवोदासेति होता दिवोदासवद्वध्र्यश्ववद्भृगुवदित्यध्वर्युः ७ वैतहव्य यास्क माधून मौक जीवन्त्यायनो अथ भागलेय भागविज्ञेय कौशाम्बेय वृकाश्वकि मादाहि गौरिक्षित दैर्घ्यचित वालेय पाञ्चधना पौष्णावता इत्येतेषामविवाहः ८ तेषां त्र्! यार्षेयः प्रवरो भवति । भार्गव वैतहव्य सावेदसेति होता सवेदोवद्वीतहव्यवद्भृगुवदित्यध्वर्युः ९ वत्सपुरो-धसानां त्र्! यार्षेयः प्रवरो भवति । भार्गव वात्स पौरोधसेति होता पुरो-धसवद्वत्सवद्भृगुवदित्यध्वर्युः १० वेदविश्वज्योतिषास्तेषां त्र्! यार्षेयः प्रवरो भवति । भार्गव वेद विश्वज्योतिषेति होता विश्वज्योतिषवद्वेदवद्भृगुवदि-त्यध्वर्युः ११ पार्थवैन्यानां त्र्! यार्षेयः प्रवरो भवति । भार्गव वैन्य पार्थेति होता पृथुवद्वेनवद्भृगुवदित्यध्वर्युः १२ गार्त्समदाः शुनका १३ यज्ञवचा सौकरिः कार्दमायना राजबाधव्याश्चौक्षाश्चोराः श्रोत्रियाः प्रत्यरा शुनका इत्येतेषाम-विवाहः १४ तेषामेकार्षेयः प्रवरो भवति । गार्त्समदेति होता गृत्समद-वदित्यध्वर्युर्यदि वा द्व्यार्षेयो भार्गव गार्त्समदेति होता गृत्समदवद्भृगु-वदित्यध्वर्युः १५ २

अङ्गिरसो व्याख्यास्यामः १ औचथ्या गौतमाः तौडेया अभिजित वोघाय नैकाक्ष राहूगण्याः क्षैरकटैकस्तमराणां कैराति सारलोपानाँ करोति काशपारीणां पौष्पिण्ड भागल वडौडवानामुपबिन्दु मान्थरेषाणाँ रौहिणायना अमलका क्रोलयिमाः क्रौंचाः क्रोष्टा आरुणयः पार्थिवा सौदामिनि काचाक्ष कौरल्या अक्ष अपादपक्ष वासमूलि वँ शमुल्मिँ शपितृ वासपुष्पिः सौष्य सौक्ष्मायण कौडल्या इत्येतेषामविवाहः ३ तेषां पञ्चार्षेयः प्रवरो भवत्या-ङ्गिरसौचथ्य गौतमौशिज काक्षीवतेति होता कक्षीवद्वदुशिजवद्गोतमव-दुचथ्यवदङ्गिरोवदित्यध्वर्युः ४ आयास्यानां त्र्! यार्षेयः प्रवरो भवत्याङ्गिर-सायास्य गौतमेति होता गोतमवदयास्यवदङ्गिरोवदित्यध्वर्युः ५ अथा-त्रेयायणि माधूकर्णि वाल्कलि सौपिष्ट्याग्निवेश्यानाँ शालाथल वाराह शौङ्ग कृपणपर्ण प्रावाहणेयानां माश्लाय व्यायोगिछंदात खारिग्रीवीणामैषुमति शाद्य कावकिकाविकायनानां नैतुन्दि लिर वैधंकीनां वैधकीकया चरातकि मन-हालानां सौवस्तम्बि तौल्वलि पौषुयावद्दिशीनाँ शाल वाळौह देवमत हरिकर्ण द्रा ङ्गव चौचेय कौमुदगन्धि खारिणादि राजस्तम्बि सामस्तम्बि सोमस्तम्बि औदमेघि गाण्डकि लौहितकि काण्डक धाना कुलक सात्यमुग्रि शैवयथ भारद्वाज इत्येतेषामविवाहः ६ तेषां त्र्! यार्षेयः प्रवरो भवत्याङ्गिरस बार्हस्पत्य भारद्वाजेति होता भरद्वाजवद्बृहस्पतिवदङ्गिरोवदित्यध्वर्युः ७ काणायणाः कैवलयोऽथ वत्सतरायणाः क्रौण्डायना वार्द्धनयोऽथो वाँ शा-यनाश्च ये भ्राष्ट्रकृद्भ्राष्ट्रबिन्दुश्चैन्द्रा लि सायकायनः कोली च क्रीका नी-सांत्वकृत्स्नापुरावट लावकि भालूविरुपमर्कटि प्रोत्सङ्गिः श्यामायन पैङ्ग-लायन सांभरभामत् इत्येतेषामविवाहः ८ तेषां पञ्चार्षेयः प्रवरो भवत्याङ्गिरस बार्हस्पत्य भारद्वाज शैन्य गार्ग्येति होता गर्गवच्छिनिवद्भरद्वाजवद्बृहस्पति-वदङ्गिरोवदित्यध्वर्युः ९ तेतिररि कविभूमो गर्गा इत्येतेषामविवाहः १० तेषां त्र्! यार्षेयः प्रवरो भवत्याङ्गिरस शैन्य गार्ग्येति होता गर्गवच्छिनिवद-ङ्गिरोवदित्यध्वर्युः ११ ३

कपिस्तरः स्वस्तितरो बिन्दुर्दण्डिः शक्तिः पतञ्जलिर्भोजव ज्ररुधुश्चैवद्विशाली शीतकिः अर्द्धं राजकेशो चौच्चुटी शांशापि कलशीकण्ठः कारीरयो वान्यायना वामध्यायनाः काप्याः कवय इत्येतेषामविवाहः १ तेषां त्र्! यार्षेयः प्रवरो भवत्याङ्गिरसामहीयौरुक्षयेति होतोरुक्षयवदमहीयवदङ्गिरोवदित्यध्वर्युः २ संकृति पौतिमाषि तण्डि शम्भुः शेवपायनानां जानकि तेतैल्वकाद्व्यला-तव्यार्षभि लांगंधिचारायणी इत्येतेषामविवाहः ३ तेषां त्र्! यार्षेयः प्रवरो भवत्याङ्गिरस सांकृत्य गौरिवीतेति होता गौरिवीतिवत्संकृतिवदङ्गिरो-वदित्यध्वर्युः ४ हरितः कौत्स शङ्ख दर्भ पैङ्ग भैमगव माद्र कारि गाणकारि हास्तिदासि लावेरणि कालशीते इत्येतेषामविवाहः ५ तेषां त्र्! यार्षेयः प्रवरो भवत्याङ्गिरसाम्बरीष यौवनाश्वेति होता युवनाश्ववदम्बरीषवदङ्गिरोवदि-त्यध्वर्युः ६ रुरुंगाक्यायना डश्च तृतीयः शाकटायनः चतुर्थो गर्दभो नारी ततः प्राकार सौवार मर्कटो रमणः शणः कण्वा मार्कटयो रामणेयाः शाणायना इत्येतेषामविवाहः ७ तेषां त्र्! यार्षेयः प्रवरो भवत्याङ्गिरसाजमीढ काण्वेति होता कण्ववदजमीढवदङ्गिरोवदित्यध्वर्युः ८ अथ वैष्णुवृद्धि शठमर्षण छतृण पोतृण गोतृण बादरायणा इत्येतेषामविवाहः ९ तेषां त्र्! यार्षेयः प्रवरो भवत्याङ्गिरस पौरुकुत्स त्रासदस्यवेति होता त्रसदस्युवत्पुरुकुत्सवद-ङ्गिरोवदित्यध्वर्युः १० रथीतराणां त्र्! यार्षेयः प्रवरो भवत्याङ्गिरस वैरूप पार्षदश्वेति होता पृषदश्ववद्विरूपवदङ्गिरोवदित्यध्वर्युः ११ रषाभगानां त्र्! यार्षेयः प्रवरो भवत्याङ्गिरस वामदेव्य गौतमेति होता गोतमवद्वामदेववदङ्गिरो-वदित्यध्वर्युः १२ हिरण्यगर्भ छत्रकयो मुद्गला इत्येतेषामविवाहः १३ तेषां त्र्! यार्षेयः प्रवरो भवत्याङ्गिरस भार्म्यश्व मौद्गल्येति होता मुद्गलवद्भृम्यश्वव-दङ्गिरोवदित्यध्वर्युः १४ ऋक्षभरद्वाजानां पञ्चार्षेयः प्रवरो भवत्याङ्गिरस बार्हस्पत्य भारद्वाज वान्दन मातवचसेति होता मतवचोवद्वन्दवद्भरद्वाज-वद्बृहस्पतिवदङ्गिरोवदित्यध्वर्युः १५ अथ यान्येतानि द्व्यामुष्यायणानि कुलानि भवन्ति यथैतच्छौङ्गशैशिरयोर्भरद्वाजाः शौङ्गाः कताः शैशिरय इत्येते-षामविवाहः १६ तेषां पञ्चार्षेयः प्रवरो भवत्याङ्गिरस बार्हस्पत्य भारद्वाज शौङ्ग शैशिरेति होता शिशिरवच्छुङ्गवद्भरद्वाजवद्बृहस्पतिवदङ्गरोवदित्यध्वर्युः १७ ४

विश्वामित्रान्व्याख्यास्यामः १ वैश्वामित्रा देवराताश्चैकित गालव वारतन्तवाः कुशिका वातण्डश्च शलङ्का आश्वावतायनाः श्यामायना याज्ञवल्क्या जाबा-लाः सैन्धवायना बाभ्रव्या यश्च वार्षीय सासित्या अथ सौश्रुता औधेप्राः सौरथायः काजालियाजय आर्जुनाक्षि पार्योदरि सुमन्तु जैमिनि खरवाखलि इत्येतेषामविवाहः २ तेषां त्र्! यार्षेयः प्रवरो भवति । वैश्वामित्र दैवरातौदलेति होतोदलवद्देवरातवद्विश्वामित्रवदित्यध्वर्युः ३ देवश्रवसा देवतरसा श्रौमत कामकायना इत्येतेषामविवाहः ४ तेषां त्र्! यार्षेयः प्रवरो भवति । वैश्वामित्र दैवश्रवस दैवतरसेति होता देवतरोवद्देवश्रवोवद्विश्वामित्रवदित्यध्वर्युः ५ त्रीण्येतानि रैणवानि कुलानि भवन्ति कथ्यका श्वोदूरण श्वोदूहयश्चेये-त्तेषामविवाहः ६ तेषां त्र्! यार्षेयः प्रवरो भवति । वैश्वामित्र काथक काथ्यकेति होता कथ्यकवत्काथवद्विश्वामित्रवदित्यध्वर्युः ७ अथ कमन्दक धनंजय पिळकट पार्थिव बन्धल पाणिनानामित्येतेषामविवाहः ८ तेषां त्र्! यार्षेयः प्रवरो भवति । वैश्वामित्र माधुछन्दसाघमर्षणेति होताघमर्षणवन्मधुछन्दो-वद्विश्वामित्रवदित्यध्वर्युः ९ अजा माधुछन्दसा मार्गमित्रा इत्येतेषामविवाहः १० तेषां त्र्! यार्षेयः प्रवरो भवति । वैश्वामित्र माधुछन्दसाज्येति होता-जवन्मधुछन्दोवद्विश्वामित्रवदित्यध्वर्युः ११ आश्मरथ्याः कामलायतिनो बन्धुल कौशिकेतिहोता इत्येतेषामविवाहः १२ तेषां द्व्यार्षेयः प्रवरो भवति । वैश्वामित्राष्टकेति होताष्टकवाद्वेश्वामित्रवदित्यध्वर्युः १३ पूरणा वारि-धापयन्ता इत्येतेषामविवाहः १४ तेषां द्व्यार्षेयः प्रवरो भवति । वैश्वामित्र पौरणेति होता पूरणवद्विश्वामित्रवदित्यध्वर्युः १५ गाथिनो रैणवास्तेषां त्र्! यार्षेयः प्रवरो भवति । वैश्वामित्र गाथिन रैणवेति होता रेणुवद्गाथिवद्विश्वामित्रव-दित्यध्वर्युः १६ हिरण्यरेतसानां त्र्! यार्षेयः प्रवरो भवति । वैश्वामित्र हिरण्य रेतसेति होता रेतसवद्धिरण्यवद्विश्वामित्रवदित्यध्वर्युः १७ सुवर्णरेतसानां त्र्! यार्षेयः प्रवरो भवति । वैश्वामित्र सौवर्ण रेतसेति होता रेतसवत्सुवर्णव-द्विश्वामित्रवदित्यध्वर्युः १८ कपोतरेतसानां त्रार्षेयः प्रवरो भवति । वैश्वामित्र कापोत रेतसेति होता रेतसवत्कपोतवद्विश्वामित्रवदित्यध्वर्युः १९ घृतकौशि-कानां त्र्! यार्षेयः प्रवरो भवति । वैश्वामित्र घार्त कौशिकेति होता कुशि-कवद्घृतवद्विश्वामित्रवदित्यध्वर्युः २० शाठरमाठराणां त्र्! यार्षेयः प्रवरो भवति । वैश्वामित्र शाठर माठरेति होता मठरवच्छठरवद्विश्वामित्रवदित्यध्वर्युः २१ अथ साहुल माहुल उहल कोहल जंविल शाविल शातिल फाहुल यामिल यादधि शादधि इत्येतेषामविवाहः २२ तेषां त्र्! यार्षेयः प्रवरो भवति । वैश्वा-मित्र साहुल माहुलेति होता माहुलवत्साहुलवद्विश्वामित्रवदित्यध्वर्युः २३ अथोदुम्बरायणिः शैशिर तैकायन्ति तारुक्ष्यायणि वेलायन वेदायन मौदायन चौदायन गङ्गायन कात्यायन कात्यात्कील कारी लाचकीत्येतेषामविवाहः २४ तेषां त्र्! यार्षेयः प्रवरो भवति । वैश्वामित्र कात्यात्कीलेति होतात्कील-वत्कतवद्विश्वामित्रवदित्यध्वर्युः २५ ५

वसिष्ठान्व्याख्यास्यामः १ वसिष्ठानामेकार्षेयः प्रवरो भवति येऽन्य उप-मन्युपराशरेभ्यः कुण्डिनेभ्यश्च २ वैद्याघ्रपद्या औपगवा वैग्रयः सासा-मलायनाः कपिष्ठला औडुलोमाश्वलायना वैटारका गोपायना बौधाय-नाश्चूडाकव्यायना अथ वाह्याकी जातूकर्ण्या हरितयोऽथो वाकुरयश्च ये आयःस्थूणाः शुचिवृक्षा लौमायन्य बह्मवादि बह्मकृदेय बह्मविदेय बह्मविलेयः स्वस्तिकरः काण्ठेविद्धि मण्डि चौलि चौलिका कालोहली सौमनसायणिरावणि चौलि गौरिश्रवसार्जुनाक्षा इत्येतेषामविवाहः ३ तेषा-मेकार्षेयः प्रवरो भवति । वासिष्ठेति होता वसिष्ठवदित्यध्वर्युः ४ उप-मन्यून्व्याख्यास्यामः ५ शैलालयो महाकर्णाः कौरव्या अथ त्रैवर्णाः कपिञ्जला दावलशिखी भागवित्तायनाश्च ये डोकव्यायना ॐपालखी वावाल्कलयः शान्तातपाः कार्डुरिराकत्मावेया अथो लवयश्च ये योर्थ अथ सछाग्यायन आलव्यायना कौमारायणाः कौलोदकिरौद्गाहमानयः एवाकरि लाक्ष्मणेयाः गाण्डूलवोद्धकि सांख्यायना औपमन्यवाः कौण्डोदरि कैदर्भि नाहकि बाहवि धौमावत मौञ्जायन शशकायना इत्येतेषामविवाहः ६ तेषां
त्र्! यार्षेयः प्रवरो भवति । वासिष्ठाभरद्वसवैन्द्र प्रमदेति होतेन्द्र प्रमदवदाभरद्वसुवद्वसिष्ठवदित्यध्वर्युः ७
प्रारोहयो वैकलयः प्लाक्षयः कौमुदादयः ।
हार्यश्विरेषां पञ्चम एते रक्ताः पराशराः ॥
काण्डूशयो वाहतया जांजयो मैमनायनाः ।
गोपालिरेषां पञ्चम एते नीलाः पराशराः ॥
कार्ष्णाजिनाः कपिश्रोढाः कार्कयः शान्तातपाः ।
पुष्करसादिरेषां पञ्चम एते कृष्णाः पराशराः ॥
आविष्टायना वार्ष्णायना श्मामेय लोकायश्च ।
वैक्षिरेषां पञ्चम एते गौराः पराशराः ॥
खाल्लायना वार्षायणि पूर्णयो बिल्वयूपयः ।
नार्णिरेषां पञ्चम एते शुक्लाः पराशराः ॥
एते त्रिँ शत्पराशरा इत्येतेषामविवाहः ८ तेषां त्र्! यार्षेयः प्रवरो भवति । वासिष्ठ शाक्त्य पाराशर्येति होता पराशरवच्छक्तिवद्वसिष्ठवदित्यध्वर्युः ९ औप-स्वस्तिः स्वस्तयश्चालोहायनाश्च ये माध्यंदिना आक्षितयः पैप्पलादि दिवंकर्षी कुण्डिनो मित्रावरुणा इत्येतेषामविवाहः १० तेषां त्र्! यार्षेयः प्रवरो भवति । वासिष्ठ कौण्डिन्य मैत्रावरुणेति होता मित्रावरुणवत्कुण्डिनवद्वसिष्ठव-दित्यध्वर्युः ११ ६

कश्यपान्व्याख्यास्यामः १ आग्रायणाश्चाग्रायणा ग्रैवायणा वृषगणा सोमभूता शोनव्या मौषकिरितिकायना औदव्रजिर्माठरश्च कैजालि अथ लाक्ष्मणयो वैधकयः श्लोकत्या यश्च भौमनि देवतया गोमेयादा अथोत्थास्वयंस्वाप धूम्रायणाः सुबभ्रुश्चाथोर्ष्यायणा कार्ष्यायणा स्वारोयणा डाकवायणाः शत्रुभयो भिर्योगादिः शरकाः काष्टायणाः शाकादः शालिहोत्राश्चायमाजाननाथाः कुव-मिमाः चक्रिदाः दाक्षपाणयो मारीचयो माषशराविरग्निशर्मायणश्च ये हास्ति-दासि यैलमैलितान्यकृति कौषीतकी सौमिश्री काण्डा वायनि वारुणि वैवरी शैवरयो जिघान हस्तिकाश्यप पैठीनस कैकसेय प्रतिषेय सौश्यवसमोय सर्याग्ना वसमोप दार्भः पालशायिनः कदुक भैक्षि इत्येतेषामविवाहः २ तेषां त्र्! यार्षेयः प्रवरो भवति । काश्यपावत्सार नैध्रुवेति होता निध्रुववदवत्सारव-त्कश्यपवदित्यध्वर्युः ३ आनष्टयो भागुरयः श्येनपोऽथाजापालयः शैरीषि-रौदवाही च शैरंघ्रि औपशवीयः सौम्यकृकोयुषी कालाशि लौकाक्ष इदंध इत्येतेषामविवाहः ४ तेषां त्र्! यार्षेयः प्रवरो भवति । काव्यपावत्सार वासिष्ठेति होता वसिष्ठवदवत्सारवत्कश्यपवदित्यध्वर्युः ५ शंभुजा जलि-भ्रश्वोभौ भूपपुरोध जलंधर मुजो मयूरः पर्यगोष्ठो गर्दभीमुखो हिरण्यवा-हुरादित्यवर्णः सौदामिलुभो शौशिल गोभिलो कुहलो वृकखण्डश्चेत्येते गुकुरण्टयः उत्तरः शान्तिकेतुश्चेत्येते देवजातयः वेदायन जाङ्घरायण शत्रूहायन औदमेघास्तृणवस्त शण्डिलो महाका भल्लकश्च वायुकीस्तार्कलिस्तेत्रृचोद्वुदि सौष्मिणेया इत्येतेषामविवाहः ६ तेषां त्र्! यार्षेयः प्रवरो भवति । काश्यपासित दैवलेति होता शाण्डिलासित दैवलेति वा देवलवदसितवत्कश्यपवदित्य-ध्वर्युर्देवलवदसितवच्छण्डिलवदिति वा ७ ७

अत्रीन्व्याख्यास्यामः १ कार्मर्यायणि शंकिलयंश्चाद्यो शाखारथयश्च ये आघ्रा-यणा वामरथ्या गोपवनास्तार्णबिन्दव औद्दालकी शौनकर्ण्यथो वालूतपयश्च ये गौरग्रीविः कैरन्दिश्च चैत्रायणाश्च ये नाकर्ष्ययंति पौरिंद्यथो वत्साथपाश्च ये गलि छागलि भागलि वाहुदन्त्येन्द्रे य दौछायात्रेयः सौद्धूतकी वर्षाणकि कृष्ण छन्दोगीत्येतेषामविवाहः २ तेषां त्र्! यार्षेयः प्रवरो भवत्यात्रेयार्चनानस श्या-वाश्वेति होता श्यावाश्ववदर्चनानसवदत्रिवदित्यध्वर्युः ३ प्लाक्षिर्दाक्षि-र्व्यालिः पौर्णविरौर्णवापि शिलंविनो मौञ्जकेशी भलन्दनो वैजवापि शिरीषश्च मैयण्यो दूतिः सौपुष्पिः सामपुष्पिः सोमपुष्पिः हिरण्यपुष्पिश्चन्द्रि कर्द्र कि काकशीर्षि काकालशीत्येतेषामविवाहः ४ तेषां त्र्! यार्षेयः प्रवरो भवत्यात्रेय गाविष्ठिर पौर्वातिथेति होता पूर्वातिथिवद्गविष्ठिरवदत्रिवदित्यध्वर्युः ५ पुत्रिकापुत्रान्व्याख्यास्यामः ६ हालेया वालेया दौभेया शौभ्रेया कौभ्रेया वामरथ्य गोपवन विष्टिर पुत्रिकापुत्रा इत्येतेषामविवाहः ७ तेषां त्र्! यार्षेयः प्रवरो भवत्यात्रेय गाविष्ठिर पौत्रिकेति होता पुत्रिकावद्गविष्ठिरवदत्रिवदित्य-ध्वर्युः ८ ८

अगस्तीन्व्याख्यास्यामः १ कुकूल उपक बलका लांवकायन शालंकायन धारिणि धौरणी सौधन्वा सौकृत्य कल्माषदण्डिरपौतुरौतुरायणानाँ शौर्भ्यांयना गोव्याधिला शिलाद्य शैवपथार्बुदानामैदिलमा एवयायदूता---इत्येतेषा-मविवाहः २ तेषां त्र्! यार्षेयः प्रवरो भवत्यागस्त्य दार्ढच्युतैध्मवाहेति हातेध्म-वाहवद्दृढच्युतवदगस्तिवदित्यध्वर्युः ३ अक्र शक्र शुक्र जात्ये हैमौद-कीत्येतेषामविवाहः ४ तेषां त्र्! यार्षेयः प्रवरो भवत्यागस्त्य माहेन्द्र मायोभुवेति होता मयोभुववन्महेन्द्र वदगस्तिवदित्यध्वर्युः ५ प्राचीनप्रवणाः कायेयाः अक्र शुक्र शुद्ध हँ स चाष भाष हैमवर्च हिमोदकाः इत्येतेषामविवाहः ६ तेषां त्र्! यार्षेयः प्रवरो भवत्यागस्त्य हैमवर्च हैमोदकेति होता हिमोदकवद्धिमव-र्चवदगस्तिवदित्यध्वर्युः ७ अक्रि चक्रि अर्चि चर्चि हिमोदकि पारिणका इत्येतेषामविवाहः ८ तेषां त्र्! यार्षेयः प्रवरो भवत्यागस्त्य पिनायक पारिणकेति होता पारिणकवत्पिनायकवदगस्तिवदित्यध्वर्युः ९ नंदि विमलि धिमलि मिमीतकि पिनायकि सायकि इत्येतेषामविवाहः १० तेषां त्र्! यार्षेयः प्रवरो भवत्यागस्त्य पिनायक सायकेति होता सायकवत्पिनायकवदगस्तिव-दित्यध्वर्युः ११ मध्यमपूरणास्तेषां त्र्! यार्षेयः प्रवरो भवत्यागस्त्य माध्यम पौरणेति होता पूरणवन्मध्यमवदगस्तिवदित्यध्वर्युः १२ ९
व्याख्याताः प्रवराः । वैकृतानि व्याख्यास्यामः १ अथ द्वितय्यो ब्राह्मणानाँ समुत्पत्तयो भवन्ति । तेषाँ समुत्पत्तिं प्रतिपत्तिं च व्याख्यास्यामः २ येषां पुरुषतः प्रजोत्पत्तिरविछिन्ना भवति ते सँ हितकुलीनाः ३ ये सप्त भूयः पञ्चपुरुषँ वा योनिश्रुतिवृत्तशीलसंपन्ना ऋतवतामृतवन्तस्ते पितृमन्तः पैतृमत्यार्षेया भवन्त्यार्त्विजीनाम् ४ अथ दत्तकक्रीतककृतिमपुत्रिकापुत्राः परपरिग्रहेण नानार्षेया ये जाता द्व्यामुष्यायणा भवन्ति यथैतच्छौङ्गशैशिरीणां भरद्वाजौ-दमेघीनाँ लौकाक्षीनां च यानि चान्यान्येवँ समुत्पत्तीनि कुलानि भवन्ति । तेषां तथैव प्रवराः स्युः ५ द्विप्रवरसंनिपाते पूर्वः प्रवर उत्पादयितुरुत्तरः परिग्रहीतुः ६ अपि वा त्रयोऽन्ये त्रयोऽन्ये । तन्न तथा कुर्यात्तस्मात्त्रीनेव पञ्च वा प्रवृणीते ७ अथ यदि पितृव्येण ज्ञातिनैकार्षेयेण ये जाताः सँ हितकुलीनाः तेषां परिग्रहीतुरेव भवति ८ अथ यद्येषाँ स्वासु भार्यास्वपत्यं न स्याद्रि क्थँ हरेयुः पिण्डं चैभ्यस्त्रिपुरुषं दद्युर्यदि स्यादुभाभ्यामेव दद्युरित्याचार्यवचनम् ९ द्वे कुर्यादेकश्राद्धे कुर्याद्वा पृथगनुदिश्यैकपिण्डे द्वावनुकीर्तयेत्परिग्रहीतारं चोत्पादयितारं चा तृतीयात्पुरुषात् १० आर्षेयस्यापरिज्ञानादेतेषामेव प्रवरा-णामाद्यं प्रवरं प्रवृणीते । परिप्रश्नेन वा यँ यस्योपपन्नं मन्येत तं तस्य कुर्यात् ११ पुरोहितप्रवरो वा स्यादाचार्यप्रवरो वा राजन्य । एतेनैव तु प्रवरेण वैश्यप्रवरो व्याख्यातः १२ यदि सार्ष्टिं प्रवृणीते मानवैड पौरूरवसेति होता पुरूरवोवदिडावन्मनुवदित्यध्वर्युः १३ सार्ष्टिं प्रवृणीयुः --- १४ पुरो-हितप्रवरावेव राजन्यवैश्यौ स्याताम् १५ धनँ यशस्यमायुष्यमृषीणां कीर्तनँ शुभम् १६ दिव्यँ वर्षसहस्रमेकैकस्यर्षेरातिथ्यं कृतं भवति यः प्रव-राध्यायमधीते १७ मैथुनगोत्रालाभ ऋष्यन्तराणामविरोधीति १८ एष महाञ्शकुनिः समाप्तो वेदानां मूलं धर्मस्य चाग्रँ रुद्रै ः! समधिकँ वृद्धँ वृद्धैः १९ नापुत्राय नाशिष्याय नासँ वत्सरोषिताय दद्यात् २० सर्वेषां पङ्क्तिपावनाना-मुपरिष्टाद्भवति यः प्रवराध्यायमधीते यः प्रवराध्यायमधीत इति २१ १०
इति मैत्रायणीशाखायां प्रवराध्यायः समाप्तः

अथातः श्राद्धकल्पँ व्याख्यास्यामः १ अग्निमुपसमाधाय निर्मन्थ्य चासगोत्रा-नयुग्मानप्रदक्षिणमामन्त्र्! य ब्राह्मणान्पूर्वेद्युर्ये मातृतः पितृतश्च दशपुरुषँ सम-नुस्थिता विद्यातपोभ्यां कल्याणकर्मणः शुचयः शुक्लवाससोऽपराह्णे प्राची-नाववीतिकृतमण्डलोपरिपच्छौचानाचान्तान्प्राङ्मुखान्पितॄनुदङ्मुखान्विश्वेदेवा-न्भोजयेत् २ अर्घ्यपात्राण्युपकल्पयेद्द्वौ दैवे त्रीन्पित्र्! य एकैकमुभयत्र वा ३ समन्या यन्तीत्यप आसिच्य सुमनसश्चोत्पूय यवान्प्रक्षिप्य विश्वान्देवा-नावाहयिष्यामीत्युक्त्वा ब्राह्मणैरनुज्ञातो विश्वे देवा ऋतावृधो विश्वे देवासो अस्रिध इति यवान्प्रदक्षिणं प्रकिरेत् ४ पवित्रे पाणौ प्रदाय हिरण्यवर्णाः शुचय इत्युक्त्वा विश्वे देवा एष वो अर्घ्यः ॥ पितॄन्पितामहान्प्रपितामहानावा-हयिष्यामीत्युक्त्व ब्राह्मणैरनुज्ञात उशन्तस्त्वा हवामहे परेतन पितरः सोम्यास इति तिलान्प्रदक्षिणं प्रकिरेत् ५ पवित्रे पाणौ प्रदाय नामगोत्रे समुच्चार्य मम पितरेष तेऽर्घ्यः पितामह प्रपितामहेति । गन्धपुष्पधूपदीपाछादनान्तैरर्चयित्वा घृताक्तमन्नमादाय मेक्षणपाणिरग्नौकरणं करिष्यामीत्युक्त्वा ब्राह्मणैरनुज्ञातः सोमाय पितृमते स्वधा नम इति जुहोति ६ यमायाङ्गिरस्वते पितृमते स्वधा नम इति द्वितीयामग्नये कव्यवाहनाय स्वधा नम इत्यसँ सक्तान्दक्षिणार्धपूर्वार्धे तृतीयाँ हुत्वोच्छिष्टं ब्राह्मणेभ्यः प्रदाय शेषं पिण्डपितृयज्ञवन्निदध्यात् ७ १

अपि नः स्वकुले भूयाद्यो नो दद्यात्त्रयोदशीम् ।
पायसं मधुसर्पिर्भ्या ँ! वर्षासु च मघासु च १
सौवर्णेषु च पात्रेषु राजतौदुम्बरेषु च ।
दत्तमक्षय्यताँ याति खड्गेनार्यकृतेन च २
पयः पृथिव्यामिति पायसं दद्यान्मधु वाता ऋतायत इति मध्वायुर्देति घृतं दद्यात् ३ सत्यं त्वर्तेन परिषिञ्चामीति परिषिच्य तूष्णी ँ! वा पृथिवी ते पात्रमिति पात्राभिमन्त्रणम् ४ ब्राह्मणाङ्गुष्ठमादाय विष्णो हव्यँ रक्षस्वेति विश्वेदेवान्विष्णो कव्यँ रक्षस्वेति पितॄनुदकं पाणौ प्रदाय ॐ भूर्भुवः स्वरिति त्रिरुक्त्वा मधु वाता ऋतायत इति त्र्! यृचं प्रीयन्तां पितरः प्रीयन्तां पितामहाः प्रीयन्तां प्रपितामहा इति वाग्यतस्तृप्यन्त्वितीष्टतमान्यन्नानि दद्यात् ५ त्रिः सावित्रीमधीते त्री ँ! श्चा-दितोऽनुवाकान् ६ अत्र पितरो मादयध्वं प्रजाः सृष्ट्वाँ होऽवयज्यो शन्तस्त्वा हवामहेऽत्र पितरो मादयध्वमित्युक्त्वा परायन्ति ७ कृणुष्व पाजा इति पञ्च स ते जानात्या नो अग्ने पुनन्तु मा पितर इति पितॄनश्नत्सु जपेत् ८ तृप्ताः स्थ इति पृछेत्तृप्ताः स्म इति प्रत्याहुः ९ सकृदाचान्तेष्वग्निदग्धा इति भूमौ विकिरं निनयेत् १०
अग्निदग्धास्तु ये जीवा येऽप्यदग्धाः कुले मम ।
भूमौ दत्तेन तोयेन तृप्ता यान्तु परां गतिम् ॥
इत्युदकं निनीय पिण्डपितृयज्ञवत्पिण्डान्निदध्यात् ११ अथाग्रभूमिमासिच्य सुप्रोक्षितमस्त्वित्यक्षय्यमुत्तिष्ठेत्युपोत्थाप्य वाजे वाज इत्यभिप्रव्रज्या मा वाजस्येति प्रदक्षिणं कुर्याद्र जतं दद्यात्पूर्णपात्रँ वा १२
दश पूर्वान्दशापरानात्मानं चैकविँ शकम् ।
श्राद्धकृन्मोचयेत्पापान्महतोऽप्येनसः पितॄन् १३
श्राद्धं च यो न दद्यात्पितृभ्यश्च कदाचन ।
षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः १४
यदेव तर्पयत्यद्भिः पितॄञ्श्राद्धे समाहितः ।
तेनैव सर्वमाप्नोति पितृयज्ञक्रियाफलम् ॥
पितृयज्ञक्रियाफलमिति १५ २
इति मानवश्राद्धकल्पः समाप्तः

अथ वृद्धिश्राद्धकल्पँ व्याख्यास्यामः १
अथ चाभ्युदये प्राप्ते देवतास्थापनँ स्मृतम् ।
जातिधर्मकुलाम्नातँ लोकानाँ वृद्धिकारणम् २
कर्मादिषु च सर्वेषु मातरः सगणाधिपाः ।
पूजनीयाः प्रयत्नेन पूजिताः पूजयन्ति ताः ३
ब्रह्माण्याद्याः स्मृताः सप्त दुर्गाक्षेत्राधिपस्तथा ।
वृद्धौवृद्धौ सदा पूज्याः पश्चान्नान्दीमुखान्पितॄन् ४
तिस्रः पूज्याः पितुः पक्षे तिस्रो मातामहे तथा ।
इत्येता मातरः प्रोक्ता पितृमातृष्वसाष्टमी ५
प्रतिमासु च श्रुभ्रासु लिखित्वा वा पटादिषु ।
अपि वाक्षतपुञ्जेषु नैवेद्यैश्च पृथक्पृथक् ।
कुड्यलग्नाँ वसोर्धारां घृतेनैव तु कारयेत् ।
कारयेत्सप्त वा पञ्च नातिनीचां च नोच्छ्रिताम् ६
आयुष्याणि च शान्त्यर्थं जपेतत्र समाहितः ।
माङ्गल्यैर्गीतवादित्रैर्मातॄणां पूजनँ स्मृतम् ७
असकृद्यानि कर्माणि क्रियेरन्कर्मकारिभिः ।
प्रतिप्रयोगं नैताः स्युर्मातरः श्राद्धमेव च ८
गणशः क्रियमाणेषु मातृभ्यः पूजनँ सकृत् ।
सकृदेव भवेच्छ्राद्धँ होममन्त्राः पृथक्पृथक् ९
अतः परं प्रवक्ष्यामि विशेष इह यो भवेत् १०
प्रातरामन्त्रितान्विप्रान्युग्मानुभयतस्तथा ।
उपवेश्य कुशान्दद्यादृजुनैव हि पाणिना ११
हरिता यज्ञिया दर्भाः पीतकाः पाकयज्ञिकाः ।
समूलाः पितृदैवत्याः कल्माषा वैश्वदेविकाः ।
द्वादशाङ्गुलप्रमाणेन पितृतीर्थेन सँ स्कृताः १२
सदा परिचरेद्भक्त्या पितॄनप्यत्र देववत् १३
पितृभ्य इति दत्तेषु उपवेश्य कुशेषु तान् ।
गोत्रनामानि वर्जन्ति पितृभ्योऽर्घ्यं प्रदापयेत् १४
नात्रापसव्यकरणं न पित्र्! यं तीर्थमिष्यते ।
पात्राणां पूरणादीनि देवतीर्थेन कारयेत् १५
ज्येष्ठोत्तरकरान्युग्मान्कराग्राग्रपवित्रकान् ।
कृत्वार्घ्य ँ! संप्रदातव्यं नैकैकस्यात्र दीयते १६
मधु मध्विति यस्तत्र त्रिर्जपोऽशितुमिछताम् ।
गायत्र्! यनन्तरँ सोऽत्र मधुमन्त्रविवर्जितः १७
न चाश्नत्सु जपेदत्र कदाचित्पितृसँ हिताम् ।
अन्य एव जपः कार्यो राक्षोघ्नः सुरदेववत् १८
संपन्नमिति तृप्ताः स्थ प्रश्नस्थाने विधीयते ।
सुसंपन्नमिति प्रोक्ते शेषमन्नं निवेदयेत् १९
ब्रूयात्तृप्तेषु संपन्नमिति तृप्ताः स्थ पार्वणे ।
विकिरं च तथा दद्याज्जुहुयाच्च ॠचाँ विना २०
असोमपाश्च ये देवा यज्ञभागबहिष्कृताः ।
तेषामन्नं प्रदातव्यँ विकिरँ वैश्वदेविकम् २१
नवावरान्भोजयेद्युग्मान्वृद्धिषु प्रदक्षिणमुपचारो यवैस्तिलार्थान्कुर्वन्ति २२ दध्यक्षतबदरमिश्रान्पिण्डान्निदध्यात् २३ नान्दीमुखान्पितॄन्प्रीणन्ति २४
नान्दीमुखाः पितर इति कुर्यादावाहनादिकम् ।
प्रीयन्तामिनि च ब्रूयुः पिण्डान्स्वाहेति निक्षिपेत् २५
मातृपूर्वान्पितॄन्पूज्य ततो मातामहाँ स्तथा ।
मातामहीस्तथा केचिद्युग्माँ श्च भोजयेद्द्विजान् २६
द्वौद्वावभ्युदये पिण्डावेकैकस्य पितुःपितुः ।
पार्वणे पिण्डमेकैकं त्रयाणां च पृथक्पृथक् २७
त्रयाणामुदकं कार्यं त्रिषु पिण्डः प्रवर्तते ।
ऊर्ध्वं नान्दीमुखं प्रोक्तं नामगोत्रापहरकम् २८
स्वपितृभ्यः पिता दद्यात्सुतसँ स्कारकर्मसु ।
विवाहादौ स्वपितृभ्यः पुत्रो दद्यात्सदैव हि २९
नानिष्ट्वा तु पितॄञ्श्राद्धे वैदिकं कर्म आरभेत् ।
तेभ्योऽपि पूर्वेद्युः पूर्वं पश्चान्नान्दीमुखान्पितॄन् ३०
आधाने होमयोश्चैव वैश्वदेवे तथैव च ।
बलिकर्मणि दर्शे च पौर्णमासे तथैव च ।
आग्रायण्यां पाकयज्ञे वदन्त्येवं मनीषिणः ।
एकमेव भवेच्छ्राद्धमेतेषु न पृथक्पृथक् ३१
अथाग्रभूमिमासिच्य सुप्रोक्षितमस्त्विति शिवा आपः सन्त्विति युग्मानेवो-दकेन च सौमनस्यमस्त्विति च पुष्पमक्षतं चारिष्टं चास्त्वित्यक्षतान्प्रतिपादयेत् ३२
अक्षयोदकदानं च त्वर्घ्यदानवदिष्यते ।
षष्ठ्यैव नित्यं तत्कुर्यान्न चतुर्थ्या कदाचन ३३
प्रार्थनासु प्रतिप्रोक्ते सर्वास्वेव द्विजोत्तमैः
युग्मानेव स्वस्तिवाच्य अङ्गुष्ठाग्रग्रहँ सदा ।
कृत्वा धुर्यस्य विप्रस्य प्रणम्यानुव्रजेत्ततः ३४ ३
इति मानवसूत्र आभ्युदयिकश्राद्धम्

अथ परिशिष्टम् १ सँ वत्सरः प्रजापतिस्तस्य यदुदगयनँ शुक्लोऽहः पूर्वाह्ण-स्तद्देवानां मध्यंदिनो मनुष्याणामपराह्णस्तत्पितॄणामथ यथोभयत इज्यते २
कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन वा ।
पयोमूलफलैर्वापि पितृभ्यः प्रीतिमाहरेत् ३
अष्टकापार्वणश्राद्धं कृष्णपक्षोऽयनद्वयम् ।
द्र व्यब्राह्मणसंपत्तिः श्राद्धकालाः प्रकीर्तिताः ४
उद्वाहे पुत्रजनने पित्र्! येष्ट्याँ सौमिके मखे ।
तीर्थे ब्राह्मण आयाते षडेते जीवतः पितुः ५
अन्वष्टक्यं गयाप्राप्तौ सत्याँ यच्च मृतेऽहनि ।
मातुः श्राद्धँ सुतः कुर्यात्पितर्यपि च जीवति ६
कन्यागते सवितरि यान्यहानि च षोडश ।
क्रतुभिस्तानि तुल्यानि । पितॄणां दत्तमक्षयम् ७
पञ्चमीप्रभृत्यपरपक्षस्य । पञ्चमीं पुत्रकामः षष्ठीं धनकामः सप्तमीं पशुकामो-ऽष्टमीमारोग्यकामो नवमीं तेजस्कामो दशमीमन्नाद्यकाम एकादशीमृद्धिकामो द्वादशी ँ! वृद्धिकामस्त्रयोदशीँ यशस्कामश्चतुर्दशी ँ! शस्त्रहतस्यारोग्यकामो-ऽमावास्यायाँ सर्वकामः ८ तिलैः श्राद्धं पुष्टिकामः कुर्यादपूपैरृद्धिकामो घृतगुडतिलैस्तेजस्कामः स्वस्तिकामः सौभाग्यकाम आरोग्यकामो वा परमान्नकृसरान्नमाषदधियवागूभिः सर्वकामः ९
पूर्वेद्युरामन्त्रितैर्विप्रैः पितरः सँ विशन्ति वै ।
यजमानश्च ताँ रात्रिँ वसेयुर्ब्रह्मचारिणः १०
श्राद्धं दत्त्वा च भुक्त्वा च अध्वानँ योऽधिगछति ।
तं मासं तस्य पितरो भुञ्जते पाँ शुभोजनाः ११
श्राद्धं दत्त्वा च भुक्त्वा च मैथुनँ योऽधिगछति ।
तं मासं तस्य पितरो भुञ्जते रेतभोजनाः १२
श्राद्धमध्वा भवेदश्वः पुनर्भुङ्क्ते तु वायसः ।
कर्मकृज्जायते दासः स्त्रीगम्यो ग्रामशूकरः १३
द्वौ दैवे त्रीन्पित्र्! य एकैकमुभयत्र वा ।
भोजयेत्सुसमृद्धोऽपि न प्रसज्जेत विस्तरम् १४
सत्क्रियां देशकालौ च द्र व्यं ब्राह्मणसंपदः ।
पञ्चैतान्विस्तरो हन्ति तस्यान्नेहतु विस्तरम् १५
यत्नेन भोजयेच्छ्राद्धे बह्वृचँ वेदपारगम् ।
शाखान्तगमथाध्वर्युं छन्दोगँ वा समाप्तिगम् १६
पञ्चाग्निस्त्रिसुपर्णश्च त्रिणाचिकेतः षडङ्गवित् ।
ब्रह्मदेयानुसंतानो ज्येष्ठसामग एव च १७
मातामहं मातुलं च स्वस्रीयँ श्वशुरं गुरुम् ।
दौहित्रँ विट्पतिं बन्धुमृत्विग्याज्यौ च भोजयेत् १८
यस्य श्राद्धे न भुञ्जन्ति ब्रह्मणा वेदपारगाः ।
अकृतं तद्भवेच्छ्राद्धं पितॄणां नोपतिष्ठति १९
यस्य श्राद्धे न भुञ्जन्ते ब्राह्मणाः स्वशाखिनः ।
आसुरं तद्भवेच्छ्राद्धं पितॄणां नोपतिष्ठति २०
वेदार्थवित्प्रवक्ता च ब्रह्मचारी सदा स्थितः ।
शतायुश्चैव विज्ञेया ब्राह्मणाः पङ्क्तिपावनाः २१
एषामन्यतमो यस्य भुञ्जीत श्राद्धमर्चितः ।
पितॄणां तस्य तृप्तिः स्याच्छाश्वती साप्तपौरुषी २२
तिला रक्षन्तु दैतेयान्दर्भा रक्षन्तु राक्षसान् ।
तस्माद्दानेषु दातव्या आत्मनो भूतिमिछता २३ ४
इति श्राद्धपरिशिष्टँ समाप्तम्












Reference: Van Gelder, J.M., ed., The MŒnava êrautasªtra belonging to the MaitrŒyaö´ SaµhitŒ, Delhi: Sri Satguru Publications, 1985, vol. 2.