कल्पः/श्रौतसूत्राणि/मानव-श्रौतसूत्रम्/कल्पः ११

विकिस्रोतः तः
← कल्पः १० मानव-श्रौतसूत्रम्
कल्पः ११
[[लेखकः :|]]
कल्पः १२ →

अथात उत्तरेष्टकँ व्याख्यास्यामः १ ऊर्ध्वबाहुना यजमानेन वेणुँ विमिमीते २ तत्समोऽन्यतरः सारत्निर्द्वितीयस्तस्य पुरुषे लक्षणमरत्नि वितस्त्योश्चोभयो-रर्धपुरुषे ३ शिरसि परिश्रिते यूपायावशिष्य शेषमनुरज्जु पुरुषौ संधाय पञ्चाङ्ग्या शङ्कुँ विनिहन्ति तयोः संधावर्धयोश्च ४ यावभितो मध्यमँ शङ्कुं तयोर्वेणू निधाय दक्षिणतः पुरुषसंनिपाते तोदं करोति ५ मध्यमे शङ्कौ वेणुं निधा-याध्यधि तोदँ हृत्वा दक्षिणतः पुरुषे शङ्कुं निहन्ति ६ पूर्वे शङ्कौ वेणुं निधाय द्वितीयं दक्षिणतः पुरस्तात्पुरुषसंनिपाते शङ्कुं निहन्त्यर्धे चैवं पश्चात् ७ एतेनोत्तरार्धो व्याख्यातः ८ दक्षिणस्य वर्गस्य यावभितो मध्यमँ शङ्कुँ तयोर्वेणू निधाय दक्षिणतः पुरुषसंनिपाते तोदं करोति ९ मध्यमे शङ्कौ वेणुं निधाया-ध्यधि तोदँ हृत्वा दक्षिणतः सारत्नौ शङ्कुं निहन्ति १० यः सारत्निस्तं मध्यमस्य पूर्वे निधाय द्वितीयं दक्षिणतः पुरस्तात्सारत्निमर्धपुरुषेण संनिपात्य शङ्कुं निहन्त्येवं पश्चात् ११ एतेनैवोत्तरपक्षो व्याख्यातः १२ पुच्छँ । सवित-स्तिररत्निस्थाने १३ पूर्वस्य पुरस्तादर्धपुरुषेण पञ्चाङ्ग्या शिरो विमिमीते १४ 11.1.१

व्यायामस्याष्टममेकतस्तुरीयमेकत उभयतस्तुरीयं च ते गार्हपत्यचितेः करणे १ पुरुषस्य दशमेन भागेन प्रथमं चतुत्तंरं करणं कारयेद्दशममेकतोऽर्धमेकत-स्तद्द्वितीयं दशममेकतोऽध्यर्धमेकतस्तत्तृतीयमुभयतस्तुरीयं तच्चतुर्थम् २ तासामुत्सेधस्त्रिँ शत्पञ्चमभागेनान्यत्र नाकसद्भ्यश्च चूडाभ्य ऋतव्याभ्योऽथ मध्यमायां पञ्चमषष्ठीभ्यश्च वैश्वदेवीभ्यस्ता अर्धोत्सेधाः ३ पुरीषमन्तर्धायोत्तरा-मुपदध्याद्गणसँ सर्गायाविच्छेदाय ४ गर्तेषूपदध्याद्यदन्यदिष्टकाभ्यः ५ तत्र श्लोको भवति
उखायाः पशुशीर्षाणां कूर्मस्योलूखलस्य च
स्रुचोः कुम्भेष्टकानां च चरोश्चैवावटान्खनेत् ६
प्रतिदिशमुपदध्यादात्मनि मध्ये प्राचीः शिरसि पच्छे पक्षयोश्चात्मन्यप्यस्रयेउ! समँ विभज्योत्तरामुत्तरामप्ययसँ हितां पूर्वापरदक्षिणोत्तरा विषयवचनादन्यच्च-तस्रः पुरस्तात्पञ्चर्तव्याभ्यः पश्चाच्चोत्तरपूर्वे चार्धे गार्हपत्यस्य । शेषं चतुशराभिः ७ एता एव दक्षिणोत्तरा द्वितीयस्याँ । शेषं चतुस्रराभिः ८ यथा प्रथमैवं तृतीया पञ्चमी च यथा द्वितीयैवं चतुर्थ्ये तेन धर्मेण व्यत्यासं चिनुयात् ९ अथेतरानाग्नीध्रीयास्रदीवनव पदानि करोत्येकैकं मध्येऽश्मानमाग्नीध्रीये चत्वारि चत्वारि तुरीयाणि प्रतिदिशँ होत्रीये चतस्रोऽर्धाः कुष्ठासु ब्राह्यणाच्छँ स्य इतरेषां द्वे द्वे अध्यर्धे मध्ये प्राचीः षडेव मार्जालीये पन्नशुपणे च १० विँ शतिमध्यर्धाः प्राचीरँ सयोर्दद्याच्छ्रोण्योः पुच्छे च विँ शतिं द्वादश द्वादश पुरस्तात्पक्षयोः प्राचीः पश्चाच्च पञ्च पञ्च चोदीचीरभितः शिरसि । शेषं चतुश्रराभिः ११ विँ शतिँ श्रोण्यँ सपक्षेषूदीचीर्दक्षिणत-स्तथोत्तरतो द्वितीयस्यामेकादशैकादशाभितः पुच्छे पञ्च पञ्च प्राचीरभितः शिरसि । शेषं चतुस्रराभिः १२ यथा प्रथमैवं तृतीया पञ्चमी च यथा द्वितीयैवं चतुर्थ्येतेन धर्मेण व्यत्यासं चिनुयात् १३ त्रिरुपसत्सु द्वे पूर्वस्यां तिस्रो मध्यमायाँ षट्सु यथानुपूर्वेण द्वादशसु व्यत्यासं चितिपुरीषे करोति १४ एतेन धर्मेण सँ वत्सरात्समँ विभज्य जानुदघ्नेऽस्य द्विगुणं त्रिगुणमुत्तरेषां चैकामुत्तरामुद्धत्याभ्यायनँ वर्धायातिरिक्ता उपदध्यात् १५ मन्त्राद्यभिमर्शनान्तं तत्पुरुषस्य लक्षणम् १६ 11.1.२

दर्भस्तम्बं पुष्करपर्ण ँ! रुक्मपुरुषौ हिरण्येष्टकाँ शर्कराँ स्वयमातृण्णां दूर्वेष्टका नैवारमिति मध्यं आ पञ्चमाश्रँ स्वयमातृण्णाया अभितस्तां मध्यं । तस्मिन्कुम्भेष्टका या मध्ये दक्षिणोत्तरे च स्रुचावनूपमध्येषु शेषाः । पश्चात्स्वयमातृण्णायाः कुलायिनीं द्वियजुश्च वँ शयोः पार्श्वसँ हिते द्वियजुरुत्तरे पुरस्ताद्रे तःसिचौ द्वे दक्षिणे तस्मिन्वँ शे द्वितीयामृतव्यां च पुरस्ताच्चतुर्थे लोके रेतःसिचँ विश्वज्योतिषं मण्डलामृतव्यां घर्मेष्टकामषाढां कूर्म ँ! वृषभमिति प्राञ्चमुत्तरे वँ शे दक्षिणतः पुरस्तात्स्वयमातृण्णायाः प्राञ्च मुलूखलमुसलमुत्तर-पूर्व्ये चोखां मध्ये शिरसाँ शिरोभिः सँ हितामुपदधाति १ तस्याः पश्चात्पुरुषशिरसः पुरुषचितिमुपदधाति षट्त्रिँ शतं प्रतीचीस्त्रिवर्गेण श्रोण्याम् २ तत्र श्लोको भवति
तिस्रो ग्रीवाः षडँ सयोर्द्वे द्वे बाह्वोर्नवात्मनि
जङ्घयोरु पञ्च पश्चादेकैकं पाणिपादयोः
इति ३ अष्टावथापस्याः समँ विभज्य वँ शेषु नवमेनवमे प्राणभृतः पुरस्तादुत्तरे वँ शे प्रथमं पश्चाद्दक्षिणे दक्षिणतः पूर्व उत्तरतः पश्चाद्दक्षिणतः स्वयमातृण्णाया द्वितीये पञ्चममनूपेषु सँ यतो नवमेऽतिमात्रा यथा प्राणभृतः पुरस्ताद्दक्षिणे वँ शे प्रथमं पश्चादुत्तरे दक्षिणतः पश्चादुत्तरतः पूर्व उत्तरतः स्रस्वमातृण्णाया द्वितीये पञ्चमँ पश्चाद्दक्षिणतः उत्तरतः स्वयमातृण्णाया द्वितीये पञ्चमँ । वैश्वदेव्यश्चानूपेषु प्रतिदिशमुत्तरपूर्वेषु वँ शेष्वाद्या । दक्षिणोत्तरे च सँ यान्यावप्यये तयो-
र्व ँ! शयोराद्यात्पुरस्ताद्वाथर्वशिरः ४ समँ विभज्य वँ शेषु शिरः पक्षपुच्छानि प्रथमेषु वँ शेषु लोकान्विजानीयात् ५ शिरसि प्रथमे वँ श उत्तरामुत्तरामितरेषां पक्षपुच्छानां चतुर्थे पक्षयोः प्राचीः पुच्छे चोदीचीर्लोकेष्टका उपदध्याच्छेषाः पश्चात्स्वयमातृण्णाया एकैकां पूर्वा ँ! सँ हिताम् । दक्षिणे वँ शे वैश्वदेव्याद्य उत्तरे च पुरीषाद्यः ६ गायत्रं मध्ये शिरसि रथंतरं बृहद्यज्ञायज्ञियमिति यथाम्नातम् ७ 11.1.३

द्वितीयायां पुरस्तात्स्वयमातृण्णायाः प्रथमद्वितीयतृतीयेष्वृतव्या वायव्या अपस्या इति यथासंख्यम् । तिस्रस्तिस्रो दक्षिणेषु वँ शेषु दक्षिणोत्तरा द्वे द्वे उत्तरस्योत्तरयोर्नवमेऽभितः शेषा यथापस्याः १ तृतीयायां दश द्वादश नवमे-ऽभितो । ऽष्टमे सप्त पुरस्तात्पश्चाच्च समीचीरभितः स्वयमातृण्णाया अर्धो-त्सेधा अष्टौ नानामन्त्रा उत्तमायाँ वा २ चतुर्थ्यामेकैकां नवमेनवमेऽभितः पुरस्तादुत्तरस्य वँ शस्य मध्ये प्रथमाँ व्यत्यासमितरा । एवमेव स्पृतः पुरस्ता-द्दक्षिणस्य वँ शस्य मध्ये प्रथमाँ व्यत्यासमितराः । षट्सप्ताष्टमेषु दक्षिणतो युग्मायुग्मा उत्तरतस्त्रिवर्गान्कुर्यात्सप्तदश दक्षिणतः पञ्चदशोत्तरतः ३ पञ्चम्यामेकैकां प्राणभृदाधिषु शेषं छन्दसाँ विराजश्च यथातिमात्राः षट्सप्ताष्टमेष्वभितो यथासंख्यम् ४ अर्धेष्टकाभिः पूरयित्वा दक्षिणतः प्राचीः स्तोमभागाः पश्चिमाश्च युग्मा उत्तरतस्त्रिवर्गान्कुर्यादेकत्रिँ शतम् । पश्चात्प्रत्यञ्चं त्रिवर्गेण नाकसदं च पश्चात्पुरीषवत्या यवादिना सनाम्नीरुपशीवरीर्घृतप्लुता इति यथासंख्यम् । तुरीयाणि मध्ये यथा प्राणभृतोऽतिमात्रा मध्यमाँ स्वयमातृण्णासँ हितामुत्तरतस्तु विकर्णीम् ५ इति सुपर्णस्य ६ 11.1.४

यावती शोषपाकाभ्यामिष्टका ह्रसते कृता
तावत्समधिकं कार्यं करणँ सममिच्छत १
सदा च त्रिँ शकं भागमिष्टका ह्रसते कृता
तावत्समधिकं कार्यं करणँ सममिच्छत २
एकैकँ शतमध्यर्धं तदूतँ षभिरङ्गुलैः
इष्टकानां परिमाणँ वैकृतँ यदतोऽन्यथा ३
नवाङ्गुलसहस्राणि द्वे शते षोडशोत्तरे
अङ्गुलानां परिमाणँ व्यायामस्य तु निर्दिशेत् ४
इतरेषां तु धिष्ण्यानाँ सर्वेषामेव निश्चयः
एकैकस्य सहस्रँ स्याच्छते षण्णवतिः परा ५
एकादश सहस्राणि अङ्गुलानाँ शतानि षट्
शतं चैव सहस्राणां क्षेत्रमग्नेर्विधीयते ६
प्राकृतँ वैकृतँ वापि क्षेत्रमर्धाष्टमान्तरे
पञ्चविँ शँ शिरः कृत्वा ततः क्षेत्रे समावपेत् ७
शतान्यष्टौ पदोनानि पदानामिह कीर्त्यन्ते
साङ्गस्य सशिरस्कस्य क्षेत्रं क्षेत्रविदो विदुः ८
आत्मा चतुःशतः कार्यः पक्षौ त्रिँ शच्छतौ स्मृतौ
दश पुच्छे शतं चैव शिरः स्यात्पञ्चविँ शकम् ९
एकत्रिँ शस्त्रयस्त्रिँ शैर्वर्गैः पञ्चाशकैरपि
असंभवत्सु वर्गेषु द्विधा भिद्येत इष्टका १०
इष्टकाह्रासवृद्धिभ्यां दृढासु शतकेषु च
मतिमानिष्टका भागैर्मन्त्रात्संनाशयेदिति ११
चतुरे पृष्टौ वापि पक्षपुच्छशिरेष्टकाः
दिक्तोऽपधानँ लोकाच्च तथा लोकस्तु लुप्यते १२
अध्यात्मनि ह विज्ञेयमुपधानँ विजानता
रथंतरबृहल्लोकैरन्यं गायत्रयाज्ञियैः १३
यजुष्मतीनाँ संख्या तु सर्वासां चैव निश्चिता
एकैकस्यां चितौ वापि तां मे निगदतः शृणु १४
षडशीतिः शतं त्वाद्या द्वितीया दश सप्ततिः
त्रयोदश तृतीया स्याच्छतं चाहुर्मनीषिणः
चतुर्थी शतमेका स्यात्तिस्रश्चैवेष्टकाः स्मृताः
शतानि त्रीणि पञ्चाशत्षट्चैव चितिरुत्तमा १५
एताः सर्वा यजुष्मत्यो याभिरग्निः प्रसूयते
शेषँ लोकंपृणाभिस्तु चितीनामभिपूरयेत् १६
एताः सर्वा समाम्नाताः यजुर्यावत्प्रवर्तते
तदेतद्धि सहस्रँ स्याच्छर्कराभिः सहोच्यते १७
एता उपहिताः सम्यग्धेनवस्तु प्रजायन्ते
अमुष्मिन्यजमानाय कामान्दुह्यति सर्वशः १८
षष्टिं प्रजापतिँ वेद यो हि सँ वत्सरः स्मृतः
गच्छति ब्रह्मणो लोकं नाकं ब्रध्नस्य विष्टपम्
इति १९ 11.1.५
इत्युत्तरेष्टकँ समाप्तम्