कल्पः/श्रौतसूत्राणि/भारद्वाज-श्रौतसूत्रम्/प्रश्नः १५

विकिस्रोतः तः
← प्रश्नः १४ कल्पः/श्रौतसूत्राणि/भारद्वाज-श्रौतसूत्रम्
प्रश्नः १५
भरद्वाजः
भारद्वाजपैतृमेधिकसूत्रम् →

अथ पञ्चदशः प्रश्नः
सोमे वासिष्ठो ब्रह्मा भवति १ अप्यवासिष्ठं कुर्वीत यः कश्च सोत्मभागान् विद्यादिति विज्ञायते २ राज्ञो मीयमानस्य क्रीयमाणस्येति दक्षिणत आस्ते ३ ओह्यमानस्य दक्षिनत एति ४ महावेद्या उत्तरवेद्या इति क्रियमाणाया दक्षिणत आस्ते ५ यत्र सदोहविर्धानानि संमास्यन्तो भवन्ति तदन्तरेण चात्वालोत्करावन्ववेत्योत्तरं वेद्यन्तमनुपरीत्य पूर्वया द्वारा प्राग्वँ शं प्रविश्या-परेणाहवनीयमतिक्रम्य पूर्वया द्वारोपनिष्क्रम्य दक्षिणं वेद्यन्तमनुपरीत्य दक्षिणेनोत्तरवेदिमुपविशेदित्याश्मरथ्यः । अन्तरेण चात्वालोत्करावन्व-वेत्यापरेणोत्तरवेदिमतिक्रम्य दक्षिणत उपविशेदित्यालेखनः ६ सोऽत्रैवास्त आ वैसर्जनानाँ होमात् ७ यत्र वैसर्जनानि होष्यन्तो भवन्ति दक्षिणेन हविर्धाने दक्षिणेन मार्जालीयं दक्षिणेन सदः परीत्य पूर्वया द्वारा प्राग्वँ शं प्रविश्याग्रेण शालामुखीयमतिक्रम्य दक्षिणत उपविशेदित्याश्मरथ्यः । अप्रेणोत्तरवेदिमतिक्रम्योत्तरेण हविर्धाने उत्तरेणाग्नीध्रीयमुत्तरेण सदः परीत्य पूर्वया द्वारा प्राग्वँ शं प्रविश्यापरेण शालामुखीयमतिक्रम्य दक्षिणत उपविशेदित्यालेखनः ८ १५.१

उपस्थे ब्रह्मा राजानं कुरुते १ हुते वैसर्जनेऽन्वङ्ङग्नेः प्रतिपद्यते २ आग्नीध्रीयं प्राप्य प्रतिप्रस्थात्रे राजानं प्रदाय यथेतं प्रतिपरीत्य पूर्वया द्वारोपनिष्क्रम्य दक्षिणेन सदो दक्षिणेन मार्जालीयं परीत्य दक्षिणेनाग्नीध्रीयमुपविशेदि-त्याश्मरथ्यः । एतमेवाग्निमुत्तरतः परीत्य दक्षिणत उपविशेदित्यालेखनः ३ उपस्थे ब्रह्मा राजानं कुरुते ४ हुते वैसर्जने पूर्वः प्रतिपद्यते ५ हविर्धाने प्राप्य प्रतिप्रस्थात्रे राजानं प्रदाय दक्षिणेन हविर्धाने परीत्य दक्षिणेनोत्तर-वेदिमुपविशेदित्याश्मरथ्यः । उत्तरेण हविर्धानेऽपरेणोत्तरवेदिमतिक्रम्य द-क्षिणत उपविशेदित्यालेखनः ६ सोऽत्रैवास्त आग्नीषोमीयस्य वपाया होमात् ७ हुतायां वपायां यत्र मार्जयन्ते तन्मार्जयते ८ १५.२

यत्र वसतीवरीर्गृहीष्यन्तो भवन्ति तद्दक्षिणत एति १ गृह्यमाणानां दक्षिणत आस्ते २ यत्र प्रातरनुवाकाय बुध्यन्ते तद् बुध्यते ३ तस्य स एव संचरो यः सदोहविर्धानानि संमास्यत्सु ४ प्रातरनुवाक उपाकृते वाचं यच्छत्या परिधानीयायाः ५ यत्र सवनीया अपो गृहीष्यन्तो भवन्ति तद्दक्षिणत एति ६ गृह्यमाणानां दक्षिणत आस्ते ७ आह्रियमाणानां दक्षिणत एति ८ यत्र राजा-नमभिषोष्यन्तो भवन्ति तत् पूर्वया द्वारा हविर्धानं प्रविश्याग्रेण खरमतिक्रम्य दक्षिणत उपविशति ९ राज्ञो मीयमानस्याभिषूयमाणस्येति दक्षिणत आस्ते १० ग्रहेषु गृह्यमाणेषु वाचं यच्छत्याग्रयणात् ११ एवमेव सवनेसवने राज्ञोऽभिषूयमाणस्य दक्षिणत आस्ते ग्रहेषु गृह्यमाणेषु वाचं यच्छति १२ यत्र बहिष्पवमानँ सर्पन्ति तत् समन्वारब्धः सर्पति १३ स्तोष्यमाणानां दक्षिणत उपविशति १४ १५.३

यत्रैनमामन्त्रयते ब्रह्म स्तोष्यामः प्रशास्तः इति तत् प्रसौति हिं देव सवितरेतत्ते प्राह तत् प्र च सुव प्र च यज बृहस्पतिर्ब्रह्मायुष्मत्या ऋचो मा गात तनूपात्साम्नः सत्या व आशिषः सन्तु सत्या आकूतय ऋतं च सत्यं च वदत स्तुत देवस्य सवितुः प्रसवे । रश्मिरसि क्षयाय त्वा क्षयं जिन्वो ँ! स्तुत इति १ एवमेव स्तोत्रेस्तोत्रे प्रसौति २ एवँ स्तोमभागानामुत्तरमुत्तरं दधाति ३ द्वादशाग्निष्टोमे । त्रयोदशात्यग्निष्टोमे । पञ्चदशोक्थ्ये । षोडशे षोडशिनि । सप्तदश वाजपेये । एकान्नत्रि ँ! शतमतिरात्रे । त्रयस्त्रि ँ! शतमप्तोर्याम इति विज्ञायते ४ स्तुते बहिष्पवमानेऽपरेणोत्तरवेदिमतिक्रम्य दक्षिणत उपविशति । सोऽत्रैवास्त आ सवनीयस्य वपाया होमात् ५ हुतायां वपायां यत्र मार्जयन्ते तन्मार्जयते ६ यत्र प्रातःसवनाय संप्रसर्पन्ति तद्दक्षिणेन हविर्धाने दक्षिणेन मार्जालीयं दक्षिणेन सदः परीत्यापरया द्वारा सदः प्रविश्यापरेण प्रशास्त्रीयमतिक्रम्य दक्षिणत उपविशेदित्याश्मरथ्यः । अपरेणोत्तरवेदिमतिक्रम्योत्तरेण हविर्धाने दक्षिणेन मार्जालीयं परीत्य पूर्वया द्वारा सदः प्रविश्याग्रेण प्रशास्त्रीयमतिक्रम्य दक्षिणत उपविशेदित्यालेखनः ७ १५.४
एतेनोत्तरयोः सवनयोः १
इति पञ्चदशः प्रश्नः