कल्पः/श्रौतसूत्राणि/द्राह्यायणश्रौतसूत्रम्/पटलः १३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← पटलः १२ द्राह्यायणश्रौतसूत्रम्
पटलः १३
द्राह्यायणः
पटलः १४ →

13.1 पञ्चमः प्रपाठकः । त्रयोदशः पटलः । प्रथमः खण्डः
चातुर्मास्येषु वरुणप्रघासानाᳪस्तम्बयजुर्हरिष्यत्सु यजुषोपविशेत् १ विलिखिते चात्वालेऽध्वर्युणा सह प्रत्याव्रज्याहवनीयमुपविशेत् २ अग्नी प्रणीयमानौ यथैतमनुगच्छेत् ३ अध्वर्युश्चेद्ब्रूयाद्ब्रह्मन्नेकस्य्ीयोपसंभिन्धीति स्फ्येनाहवनीयात्पाᳪसूनुपहत्योत्तरस्या वेदेर्द्दक्षिणादन्तात्कर्षन्नियात् ४ आवेदिमध्यादेका चेत् ५ प्रोह्य स्फ्यं पश्चिमेन वेदिं गत्वा निधीयमानयोरग्न्योस्तूष्णीमुपविशेत् ६ एतत्कर्माग्निप्रणयनेषु सर्वेषु ७ अवभृथन्यङ्गं गच्छत्सु पूर्वेणाग्नी चात्वालं च गच्छेत् ८ पश्चिमेन वेदी चात्वालं च स्वे यज्ञे ९ हविर्यज्ञेष्वेष संचर उत्तरेण विहारं कर्मभ्यः १० यथा चात्वाले तथा यूपे शामित्रे च पशौ ११ अवभृथन्यङ्गं प्राप्याभ्युक्षणप्रभृति सौत्यं कर्म समापयेयुः १२ साकमेधेषु क्षीरोदनस्य यथार्थं प्राश्नीयात् १३ यजमानं ब्रूयात्प्रभूतमन्नं कारय सुहिता अलंकृता भवतेत्यमत्यान् ब्रूहि । वत्सांश्च मातृभिः सह वासयेत १४ पूर्वाह्णेऽध्वर्युः क्षीरौदनमृषभस्य रवथे जुहोति ब्रह्माणमुपवेश्य १५ ऋषभेऽरुवति ब्रह्मैव ब्रूयाज्जुहुधीति १६ तृष्णीं पैतृकयज्ञिकायाᳪसर्वं कुर्यात् १७ ओमित्येवानुमन्त्रयेत् १५ यज्ञोपवीतप्राचीनावीतयोरध्वर्युमनुविदधीत १६ तस्या हवीᳪषि निर्वप्स्यत्सु दक्षिणया द्वारा प्रपद्य पश्चात्प्राङ्मुख उपविशेत् २० एवमेव वेदिं गत्वा स्तम्बयजुर्हरिष्यत्सु २१ आज्यभागयोर्ह॒तयोर्दक्षिणेनाग्निं परिक्रम्य पुरस्तात् प्रत्यङ्मुख उपविशेद्यजमानश्च २२
इति द्राह्यायणश्रौतसूत्रे त्रयोदशे पटले प्रथमः खण्डः १

13.2 द्वितीयः खण्डः
हुते स्विष्टकृति यथेतं प्रत्याव्रज्योपविशेताम् १ प्राशित्रमाहृतमुपघ्रायापविध्येत् २ आज्यं चेत् प्राशित्रभागान् विध्येयुस्तदुपघ्रायाप उपस्पृशेत् ३ इडां च प्रतिगृह्य प्रतिप्रयच्छेत ४ अध्वर्युणा परिषिच्यमाने व्युत्क्रम्य परिषिक्त आहवनीयमुपतिष्ठेरन् ५ दक्षिणेन दक्षिणाग्निमुत्तरेण दक्षिणाग्निᳪस्वे यज्ञे ६ अक्षन्नमीमदन्त हीति प्रथमा । सुसंदृशं त्वा वयं मघवन्मन्दिषीमहि । प्रनूनं पूर्णवन्धुरः स्तुतो यासि वशाᳪअनुयोजा न्विन्द्र ते हरी इति द्वितीया उपोषु शृणुही गिरः इति तृतीया ७ तत एवेक्षमाणा गार्हपत्यम् मनोन्वा हुवामहे नाराशᳪसेन सोमेन । पितॄणां च मन्मभिः । पुनर्नः पितरो मनो ददातु दैव्यो जनः । जीवं व्रतᳪसचेमहि । आ न ए तुमनः पुनः क्रत्वे दक्षाय जीवसे । ज्योक्च सूर्यं दृशेयमिति ८ कया नश्चित्र आभुवद् इत्येकया दक्षिणाग्निम् ६ त्रैयम्बकानामापूपा भवन्त्येककपालाः । तेषां यमध्वर्युराखूत्कर उपवपेत्तस्मिन्नप उपस्पृशेयुः शिवा नः शन्तमा भव सुमृडीका सरस्वति । मा ते व्योम संदृशि इति १० आसीतेतरेषाᳪहूयमान इति धानंजय्यः ११ तिष्ठेदिति शाण्डिल्यः १२ हुते तिष्ठन्तो जपेयुः अवाम्ब रुद्रमयक्ष्मह्यव देवं त्र्यम्बकम । यथा नः श्रेयसस्करद्यथा नो वसीयसस्करद्यथा नः पशुमतस्करद्यथा नो व्यवसाययात् । भेषजमसि भेषजं गवेऽश्वाय पुरुषाय भेषजᳪ सुगं मेषाय मेष्यै सुभेषजं यथासदिति १३
इति द्राह्यायणश्रौतसूत्रे त्रयोदशे पटले द्वितीयः खण्डः २

13.3 तृतीयः खण्डः
यजमानस्यामात्या एकैकमपूपमादाय त्रिःप्रदक्षिणमग्निं परीयुः १ तत्र ब्रह्मा परियञ्जपेदिति धानंजय्यः २ तिष्ठन्निति शाण्डिल्यः ३ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिवबन्धनान्मृत्योर्मुक्षीयमामृतात् इति ॥ जामी कुमारी वा या स्यात् पतिकामा सापि परीयात् । त्र्यम्बकं यजामहे सुगन्धिं पतिवेदनम् । उर्वारुकमिव बन्धनादितोमुक्षीय इति ज्ञातीनभिसंकल्पयेत् ४ मामुत इतीष्टमभिनिर्दिशेदमुष्य गृहादिति ५ एवं त्रिः परीत्योदस्येयुः ६ तेषां ब्रह्मैकं लिप्सित्वा यस्य स स्यात्तस्मै प्रयच्छेत् ७ तस्य वौवसन्तं पाणावालभेत ८ तथैव त्रिः प्रतिपरीयुः ६ यत्रैनानध्वर्युरासजेत्तत्रोपतिष्ठेरन्नेष ते रुद्र भागस्तेनावसेन परो मूजवतोऽतीहि कृत्तिवासाः पिनाकहस्तोऽवततधन्वोमिति १० आतमितो जपेयुः ११ शं नो देवीरित्यप उपस्पृश्यानपेक्षं प्रत्याव्रजेयुः १२ वरुणप्रघासैर्व्याख्यातं ब्रह्मत्वं हविर्यज्ञेषु १३ पशूनां यूपाहुतिᳪ होष्यत्सु तूष्णीमुपविशेत् १४ हुतायां यथार्थं स्यात् १५ वपायाᳪहुतायामिदमाप इति चात्वाले मार्जयित्वा पशूनां यथार्थᳪ स्यात् १६ पुरोडाशेन चरिष्यत्सु तूष्णीमुपविशेत् १७ आहृतं पुरोडाशमालभ्य ब्रूयात् प्राश्नन्तु ये प्राशिष्यन्त इति १८ अनुव्रजेत्सर्वपशूनां पत्नीसंयाजानिति गौतमः १६ सवनीयस्यैवेति धानंजय्यः २० न सवनीयस्य च नेति शाण्डिल्यः २१ हृदयशूलोऽत्रावभृथन्यङ्गस्थाने भवति २२ तस्मिन्नप उपस्पृशेयुः धाम्नो धाम्नो राजᳪस्ततो वरुण नो मुञ्च । यदापो अघ्न्या वरुणेति शपामहे ततो वरुण नो मुञ्च । सुमित्रिया न आप ओषधयः सन्तु दुर्मित्रियास्तस्मै सन्तु योऽस्मान् द्वेष्टि यं च द्विष्मः इति २३
इति द्राह्यायणश्रौतसूत्रे त्रयोदशे पटले तृतीयः खण्डः

13.4 चतुर्थः खण्डः
अभ्युक्षणप्रभृत्यत ऊर्ध्वम् १ आदित्यं नोपतिष्ठेरन् २ पूर्णाहुतौ हूयमानायामासित्वा हुतायां यथार्थᳪ स्यात् ३ सक्तुहोमाᳪश्चेज्जुहुयुरासीता तेषाᳪहोमात् ४ सौत्रामण्याᳪ सुराकर्मस्वाव्राजमासीत ५ तत्र द्वावमी अतिप्रणयन्ति तयोर्दक्षिणत आसीत् ६ दक्षिणमध्यधि कुम्भ्यामासक्तायां शतातृण्णायाᳪसुराशेषेष्वासिच्यमानेषूपतिष्ठेरन्
यत्ते पवित्रमर्चिष्यग्ने विततमन्तरा । ब्रह्म तेन पुनीहि मे इति ७ अश्विनोर्ग्रहस्य भक्षयेद्यमश्विनानमुचेरासुरादधि सरस्वत्यसुनोदिन्द्रियेण । इमं तᳪशुक्रं मधुमन्तमिन्दुᳪ सोमᳪराजानमिह भक्षयामि इति ८ यजमानं चेद्वसातिशेषेणाभिषिञ्चेयुरुपोत्थायान्तरेणाग्नी गत्वाध्वर्युणोक्तः सᳪशानानि गायेत् ६ पदाय पदाय स्तोभेत् १० निधनान्युपयन्तो यजमानस्य मूर्धानमालभेरन् ११ सं त्वा हिन्वन्तीत्येतेषां पूर्वः पूर्वः स्तोभ उत्तरमुत्तरं निधनम् १२ श्रवस इति स्थाने जित्या इति क्षत्रियस्य पुष्ट्या इति वैश्यस्ये त्येके १३ द्वे सौत्रामण्यौ कौकिली चरकसौत्रामणी च १४ कौकिल्यां सामगानं नेतरस्याᳪसंशानानि गायेदिति ह स्माह कौत्सः १५ सप्त हविर्यज्ञस्य संस्था अग्न्याधेयमग्निहोत्रं दर्शपूर्णमासावाग्रयणं चातुर्मास्यानि निरूढपशुबन्धः सौत्रमणी चेति १६ सप्त सोमसंस्था अग्निष्टोमोऽत्यग्निष्टोम उक्थ्यः षोडशी वाजपेयोऽतिरात्रोऽप्तोर्याम इत्यप्तोर्याम इति
इति द्राह्यायणश्रौतसूत्रे त्रयोदशे पटले चतुर्थः खण्डः ४