कल्पः/श्रौतसूत्राणि/क्षुद्रकल्पसूत्रम्/अध्यायः ६
पञ्चदशः खण्डः
दशरात्रिकस्तोमानाश्रित्य द्वादशाहानाह-
अथापरे दश भवन्ति ।। १ ।।
इति ।।१ ।।
षष्ठाऽध्यायः-द्वादशाहविकल्पाः प्र, ३, ख. १५
२८९
[ त्रिवृत्स्तोमद्वादशाहः प्रथमः]
तत्र प्रथमं त्रिवृत्स्तोमद्वादशाहमाह-
यथास्तोमं प्रथममहस्तथास्तोमोऽयं सर्वो दशरात्रः स्यात् ।।२।।
इति । यच्छब्दे यथाशब्दः । यत्स्तोममित्यर्थः । एवं तथेत्यत्रापि सर्वो दशरात्रस्त्रिवृत्स्तोमः कार्य इत्यर्थः ।।२।।
अस्मिन्नधिकारिणमाह-
तेनैतेन तेजस्कामो ब्रह्मवर्चसकामो वा यजेत ।।।३ ।।
इति । स्पष्टम् । अस्य क्लृप्तिः । आदित्यानामयनीयव्यूढाग्निष्टोमदशरात्रवत् स्तोमानुगुण्येनावापोद्वापौ कार्यौ । प्रथममहर्द्वादशाहवदविकृतम् ।।
द्वितीयस्याह्नः-पवस्व वाचः-पवस्वेन्दो (सा- ७७५-८०) पवमानस्य ते वयम् ( सा० ७८७-९) इति बहिष्पवमानम् । माध्यंदिने वृषा पवस्वे-( सा० ८०३-५) ति गायत्रयौक्ताश्वस्वारं- सौपर्णानि सामतृचः । पुनानः सोमे-(सा० ६७५-६) ति ऐडमायास्य- दैर्घश्रवसत्रिणिधनायास्यानि सामतृचः । वृषा शोण इति वासिष्ठ- मन्त्यं तिसृषु । आर्भवे यस्ते मदो वरेण्य ( सा- ८१५-७) इति गायत्रहाविप्मते प्रथमायाम् । पवस्वे-( सा० ६९२ )न्द्रमच्छे- (सा- ६९४)ति शङ्कुसुज्ञाने एकर्चयोः । अयं पूषे-(सा० ८१८-२०) ति गौरीवितक्रौञ्चोत्तरे प्रथमायाम् । द्वौ तस्यामेवे- (ला० श्रौ० ६. ३. १३)ति वचनान् । वृषा मतीना- (सा- ८२१-३) मिति याममन्त्यं तिसृषु । अन्त्यवर्जमेकर्चाः । संभवति स्तोमेऽन्त्यं सर्वत्र तृच (ला० श्रौ० ६.४.२) इति वचनात् । अन्यत् सर्वं द्वितीयाहवत् । सर्वं त्रिवृत् ।।
तृतीयस्याह्नः-दविद्युतत्या रुचा ( सा० ६५४-६) एते असृग्रम् (सा- ८३०-२) इषे पवस्व धारये(सा० ८४१-३)ति बहिष्पवमानम् । उच्चा त ( सा० ६७२-४) इति गायत्र- क्षुल्लकवैष्टम्भे एकर्चयोः । अभि सोमे( सा० ८५६-८) ति पौरुमद्गगौतमान्तरिक्षाणि सामतृचः । आष्कारणिधनमध्यास्यायाम् । तिस्रो वाच ( सा० ८५९) इति अङ्गिरसांसंक्रोशोऽन्त्यः । आर्भवेऽन्त्यवर्जमेकर्चाः । अन्यत् सर्वं तृतीयाहवत् । सर्वं त्रिवृत् ।।
चतुर्थस्याह्नः-प्र ते पवमानो अजीजनत् ( सा० ८८६-९१) हिन्वन्ति सूरम् ( सा० ९०४ - ६) इति बहिष्पवमानम् । माध्यंदिनार्भवयोरन्त्यवर्जमेकर्चाः । अन्यत् सर्वं चतुर्थाहवत् । सर्वं त्रिवृत् । षोडशिसाम च ।।
पञ्चमस्याह्नः-गोवित्-विश्ववित् (सा० ९५५-६०) यास्ते धारे( सा० ९७९-१ )ति बहिष्पवमानम् । अर्षा सोमे- (सा- ९९४-६ )ति गायत्रमेकस्याम् । यण्वं तिसृषु । सोम उष्वे- (सा० ९९७-८)ति आनूपमेकस्याम् । तस्यामेवाग्नेस्त्रिणिधनम् । यत्सोम चित्रमुक्थ्यम ( सा० ९९९-१००१) इति शैशवं माध्यं- दिनान्त्यं तिसृषु । बार्हद्गिरस्यर्क्षु सन्तनि ब्रह्मसाम । असाव्यंशु- (सा- १००८-१०)रिति गायत्रगौषूक्ते । अभि द्युम्नं-प्राणा शिशु- (सा- १०११-१५ )रिति च्यावनक्रोशे । पवस्व वाजसातय (सा- १०१६-८) इति गौरीवितऋषभशाक्वरौ । इन्दुर्वाजी(१०९-२१) ति दाशस्पत्यमार्भवान्त्यम् । अन्त्यवर्जमेकर्चाः । अन्यत् सर्वं पञ्चमाहवत् । सर्वं त्रिवृत् ।।
षष्ठोऽध्यायःः-द्वादशाहविकल्पाः प्र. ३, ख. १५]
२९१
षष्ठस्याह्नः-ज्योतिरसृक्षत (सा- १०३१-६) एते सोमा अभि प्रियम् (सा- ११७८-८०) इति बहिष्पवमानम् । इन्द्रायेन्द-(सा- १०७६-८)विति गायत्रमेकस्याम् । रेवत्यस्तिसृषु । मृज्यमान (सा. १०७९-८०) इति स्वारमौक्ष्णोरन्ध्रमेकस्याम् । तस्यामेव गोष्ठः । एतमु त्य-(सा० १०८१-३)मिति इहवद्वामदेव्यं माध्यं- दिनान्त्यं तिसृषु । परिस्वानो गिरिष्ठा ( सा० १०९३-५) इति गायत्रतृतीयवैदन्वते । स सु तं वः सखाये-(सा० १०९६-११००)ति दीर्घकार्णश्रवसे । सोमाः पवन्त (सा- ११०१-३)
इति गौरीवितेडंक्रौञ्चे । अया पवा पवस्वे(सा० ११०४ ६)ति श्नौष्टमार्भवान्त्यम् । अन्त्यवर्जमेकर्च्चाः । अन्यत् सर्वं षष्ठाहवत् । सर्वं त्रिवृत् ।।
सप्तमस्याह्नः-प्रका प्र स्वा (सा- १११६-२१) आ ते दक्षम् (सा- ११३७-९) इति बहिष्पवमानम् । वृषा पवस्वे-(सा० ८०३-५)ति गायत्रैडंसौपर्णरोहितकूलीयानि सामतृचः । पुनानः सोमेति कण्वरथन्तरगौङ्गवसाप्तमिकमायास्यानि सामतृचः । प्रो अयासीदि- (सा- ११५२-४)ति प्रवद्भार्गवं माध्यंदिनान्त्यं तिसृषु । काण्व-
स्यर्क्षु संतनि ब्रह्मणः । आर्भवे यस्ते मद इति गायत्राग्नेरर्कौ । एष स्य ( सा० ५८४-५) सखाये- ( सा० ११५७-९) ति शार्करप्लवौ । पुरोजितीति गौरीवितकार्तयशे । ये सोमास (सा०११६३-५) इति जरावोधीयमार्भवान्त्यम् । अन्त्यवर्जमेकर्चाः । अन्यत् सर्वं सप्तमाहवत् । सर्वं त्रिवृत् ।।
अष्टमस्याह्नः-शिशुम-एते सोमाभि-( सा० ११७५-८६ )नवर्चे तृचः । अया पवस्वेति बहिष्पवमानम् । अध्वर्यो अद्रिभि (१२२५)रिति गायत्रविलम्बसौपर्णे । अभि सोमे- (सा- ८५६-८)ति द्विहिंकारंवामदेव्यगायत्रपार्श्वपौरुहन्मनानि सामतृचः । अच्छिद्र- मध्यास्यायाम् । धर्ता दिव (सा- १२२८-३०) इति उद्वद्भार्गवं माध्यंदिनान्त्यम् । अन्त्यवर्जमेकर्चाः । पवस्व देव आयुषगि - (सा- १२३५-७)ति गायत्रस्वाशिरामर्र्कौ । अभि द्युम्नं-प्राणा शिशु-(सा० १०१३-५)रिति ऐषिरत्रैते । अभी नो वाजसातम- (सा- १२३८-४०)मिति गौरीवितपदनिधनशुद्धाशुद्धीये । हिन्वन्ती- (सा- ९०४)ति इडानांसंक्षारोऽन्त्यः । अन्त्यवर्जमेकर्च्चाः । अन्यत् सर्वमष्टमाहवत् । सर्वं त्रिवृत् ।।
नवमस्याह्नः-अक्रान् (सा- १२५३-५) एष देवो अमर्त्य (सा- १२५६-६५) इति दशर्चे तृचः । पवमानस्य ते कव (सा- ६५७-९) इति बहिष्पवमानम् । पवमानस्य जिघ्नत (सा १३१०-२) इति गायत्रादारसृदौ प्रथमायाम् । परीतोषीति पृष्ठकौल्मलबर्हिषदेवस्थानानि सामतृचः । दीर्घतमसोऽर्कोऽध्यास्यायाम् । असावि सोम (सा- १३१६-८) इति सामराजम् । अन्त्यं तिसृषु । त्वं सोमे-(सा० १३२३- ५ )ति गायत्राश्वसूक्ते । त्वं ह्यङ्ग दैव्य( सा- ९३८-४०) पवस्व देव वीतये ( सा० १३२६-२८) सौपर्णवैश्वमनसे । परि त्यं हर्यतम् (सा० १३२९ - ३१) इति गौरीवितसंकृतिनी । उपोष्विति प्रतीचीनैडंकाशीतमार्भवान्त्यम् । अन्त्यवर्जमेकर्च्चाः । अन्यत् सर्वं नवमाहवत् । सर्वं त्रिवृत् ।।
)
दशमस्याह्नः-असृक्षत प्र वाजिनः ( सा० १०३४-६) पवभानस्य विश्ववित् (सा- ९५८-६०) पवमानो अजीजनत् (सा- ८८९-९१) इति त्रय एकर्चाः । एते असृग्रमिन्दवः (सा- ८३०-२) पवस्वेन्दो वृषा सुत (७७८-८०) इत्येतौ तृचाविति बहिष्पवमानम् ।
षष्ठोऽध्यायः-द्वादशाहविकल्पाः ( प्र. ३, ख. १५)
२९३
उच्चा त इति गायत्रामहीयवाभीकानि सामतृचः । पुनानः सोमेति उत्सेधगौरीवितनिषेधाः सामतृचः । आजागृवि-(सा० १३५७-९) रिति यज्ञायज्ञीयं माध्यंदिनान्त्यं तिसृषु । आर्भवे सौहविषस्योद्धारः । अन्त्यवर्जमेकर्चाः । समूढे तु माध्यंदिने गौरीवितस्य स्थाने मैधातिथम् । आर्भवे श्यावाश्वस्य स्थाने गौरीवितम् । अन्यत् सर्वं दशमाहवत् । समानसा दशधर्माः कर्तव्याः । सर्वं त्रिवृत् ।।३ ।।
[ पञ्चदशस्तोमद्वादशाहो द्वितीयः]
पञ्चदशस्तोमद्वादशाहमाह-
यथा द्वितीयम् ।।४।।।
इति । स्तोमशब्दोऽनुवर्तते । यथा स्तोमद्वितीयमहरिति । यत्स्तोमं द्वितीयमहस्तत्स्तोमः सर्वो दशरात्रः कार्य इत्यर्थः । एवमुत्तरेषु योज्यम् ।।४।।
अस्मिन्नधिकारिणमाह-
तेनौजस्कामो वीर्यकामो वा ।।५।।
इति । यजेतेत्यनुवर्तते । तत्र प्रथमस्याह्नः-अस्य प्रत्ना- (सा- ७५५-६३ )नवर्चं दवि पवेति बहिष्पवमानम् । आदित्याना- मयनीयच्छन्दोमदशरात्रवत् स्तोमानुगुण्येनावापोद्वापौ कार्यौ । प्र सोमासो विपश्चितः (सा- ७६४-६) इति गायत्राश्वसोमसामानि । प्र सोम देववीतय (सा- ७६७-८) इति यौधाजयम् । प्र तु द्रवे-( सा० ६७७-९ )त्यौशनमन्त्यम् । सर्वे तृचाः । आर्भवे स्वादिष्ठये-( सा० ३८९ ति गायत्रसंहिते । अया पवस्व पवत इति सफाक्षारे एकर्चयोः । प्रसुन्वान (सा० ७७४) इति गौरीवितमेकस्याम् । गौतमं तिसृषु । कावमन्त्यम् । अन्यत् सर्वं प्रथमाहवत् । सर्वं पञ्चदशम् । द्वितीयमहः प्रकृतिवत् ।।
तृतीयस्याह्नः-तन्त्वा नृम्णानि सा- ८३९ -८) पञ्चर्चे । अन्त्योपान्त्ययोरुद्धारः । स्तोमासंभवात् । अभिसोमे-(सा० ८३६-८)ति पौरुमद्गगौतमाष्कारणिधनकाण्वानि सामतृचः । अन्तरिक्षं तिसृषु । आर्भवे वाचःसामशौक्तगौरीवितान्येकर्चानि । अन्यत् सर्वं तृतीयाहवत् । सर्वं पञ्चदशम् ।।
चतुर्थस्याह्नः-प्रत-अजीजनत्-प्रयद्गा (सा- ८८६-९७) षडृचम् । हिन्वन्ति (सा- ९०४-६) बहिष्पवमानम् । माध्यंदिने बृहत्याम् आष्टादंष्ट्रोत्तराभीशवोत्तरस्वःपृष्ठाङ्गिरसानि सामतृचः । त्रीन् यतरस्यां संभवेयु-(ला० श्रौ० ६.३. १७)रिति वचनात् । आर्भवे बृहत्कातीषा- दीयनानदान्येकर्चानि । अन्यत् सर्वं चतुर्थाहवत् । सर्वं पञ्चदशं षोडशिसाम च ।।
पञ्चमस्याह्नः-गोविदविश्वविद् दधन्विषु (सा- ९५५-६३) सप्तर्चं । यास्ते धारे- (सा० ९७१ -८१ )ति बहिष्पवमानम् । सप्तर्चेऽन्त्याया उद्धारः । स्तोमासंभवात् । अर्षा सोमे(९९४ ६) ति गायत्रयण्वे तृचयोः । सोम उष्वे(सा० ९९७-८)ति मानवानूप- वाम्राणि सामतृचः । अग्नेस्त्रिणिधनं तिसृषु । यत्सोम चित्र- (सा- ९९९-१००१) मिति शैशवं माध्यदिनान्त्यं तिसृषु । आर्भवे असाव्यंशुर्मदाये-( सा० १००८ - १०) ति गायत्रसंतनिनी । अभि द्युम्नं प्राणा शिशु-(सा० १०११-५) रिति च्यावनक्रोशे एकर्चयोः । पवस्व वाजसातय (सा- १०१६-८) इति गौरीवितमेकस्याम् । ऋषभशाक्वरस्तिसृषु । इन्दुर्वाजी- ( सा० १०१९ -२१) ति दाशस्पत्यमार्भवान्त्यं तिसृषु । अन्यत् सर्वं पञ्चमाहवत् । सर्वं पञ्चदशम् ।।
षष्ठोऽध्यायः-द्वादशाहविकल्पाः [प्र ३, ख. १५ ]
२९५
षष्ठस्याह्नः-ज्योतिरसृक्षवीरति (सा- १०३१-४६) दशर्चे आदितः षडृचः एते सोमे(सा० १०६१-३)ति बहिष्पवमानम् । इन्द्रायेन्द(सा० १०७६-८)विति गायत्रमेकस्याम् । इषोवृधीयक्रौञ्च- वाजदावर्यः सामतृचः । रेवत्यस्तिसृषु । मृज्यमानः सुहस्त्ये- (सा- १०७९-८०)ति स्वारमौक्ष्णोरन्ध्रैडमौक्ष्णोरन्ध्रे प्रथमायाम् । वाजजिद्वरुणसामगोष्ठाः सामतृचः । एतमु त्य- (सा- १०८१-३) मितीहवद्वामदेव्यमन्त्यम् । आर्भवे ऐडंक्रौञ्चश्नौष्टे तृचयोः । इतरे एकर्चाः । अन्यत् सर्वं षष्ठाहवत् । सर्वं पञ्चदशम् ।।
सप्तमस्याह्नः-प्रका प्रस्वा- ( सा० १११६ - २४) नवर्चम् आते दक्ष-(सा० ११३७-९) मिति बहिष्पवमानम् । वृषा पवस्वे- (सा- ८०३-५) ति गायत्रसंतन्यैडंसौपर्णानि तृचेषु । पुनानः सोमेति कण्वरथन्तरगौङ्गवसाप्तमिकायास्यानि सामतृचः । प्रो अयासी( सा० ११५२-४ दिति प्रवद्भार्गवं माध्यंदिनान्त्यम् । आर्भवे गायत्राग्नेरर्काध्यर्धेडंसोमसामानि सामतृचः । एष स्य (सा- ५८४-५) सखाये(सा० ११५७-९ )ति शार्करप्लवौ एकर्चयोः । पुरोजितीति गौरीवितमेकस्याम् । कार्तयशं तिसृषु । प्रवाज्यक्षे- (सा- ११६०-२)ति सौहविषं तिसृषु । ये सोमास (सा- ११६३-५) इति जरावोधीयमार्भवान्त्यं तिसृषु । अन्यत् सर्वं सप्तमाहवत् । एवं पञ्चदशम् ।।
अष्टमस्याह्नः-शिशुमेते सोमाभि- (सा ११७५-८३ )नवर्चम् अया पवस्वे-(सा० ७७२-४)ति बहिष्पवमानम् । अध्वर्यो अद्रिभिः सुत-(सा० १२२५-२७)मिति गायत्रविलम्बसौपर्णे । अभि सोमेति द्विहिंकारवामदेव्याच्छिद्रे । धर्ता दिव (सा० १२२८-३०) इति उद्वद्भार्गवं माध्यंदिनान्त्यम् । आर्भवे पवस्व देव आनुषगिति गायत्र- स्वाशिरामर्कगायत्रीसामासितानि सामतृचः । अभि द्युम्नं-प्राणा शिशु-(सा० १०११-५) रिति ऐषिरत्रैते एकर्चयोः । अभी नो वाज- सातम-(सा० १२३८-४०)मिति गौरीवितमेकस्याम् । ऐडंकौत्सं तिसृषु । स्वासु धर्म तिसृषु । हिन्वन्ति सूर-(सा० ९०४) मिति विशोविशीयमार्भवान्त्यम् । अन्यत् सर्वमष्टमाहवत् । सर्वं पञ्चदशम् ।।
नवमस्याह्नः-अक्रान्-एष देवो (सा- १२५३-६४) नवर्चं पवमानस्य ते कव इति बहिष्पवमानम् । दशर्चेऽन्त्याया उद्धारः । पवमानस्य जिघ्नत (सा- १३१०-२) इति गात्रादारसृचौ । परीतोषी- (सा- १३२३ - ५) ति पृष्ठकौल्मलबर्हिषसंकृतीनि सामतृचः । देवस्थानं तिसृषु । असावि सोम (सा- १३१६-८) इति दीर्घतमसोऽर्कोऽन्त्यः । सामराजं वा । सामराजान्त्यपक्षे परीतोषीति पृष्ठदीर्घतमसोऽर्कमाण्डवानि सामतृचः । दैर्घश्रवस- संकृतिदेवस्थानानि सामतृचः । त्व सोमासि धारयु- (सा- १३२३ - ५) रिति गायत्राश्वसूक्तप्रतीचीनैडंकाशीतानि सामतृचः । त्वं ह्यङ्ग दैव्य (सा० ९३८-९) पवस्व देव वीतय (सा- १३२६-८) इति सौपर्णवैश्वमनसे एकर्चयोः । परि त्यं हर्यतं हरि-( सा० १३२९ - ३१) मिति गौरीवितमेकस्याम् । यद्वाहिष्ठीयं तिसृषु । स्वासु विधर्म तिसृषु । उपोष्वि- (सा- १३३५-७)ति श्रुध्यमार्भवान्त्यम् । अन्यत् सर्वं नवमाहवत् । सर्वं पञ्चदशम् ।।
दशमस्याह्नः-असृक्षत प्र वाजिनः (सा- १०३४) पवमानस्य विश्ववित् (सा- ९५८) पवमानो अजीजनत् (सा० ८८९) एते असृग्रमिन्दव (सा- ८३०) इत्येते एकर्चाः । पवस्वेन्दो वृषा सुत (सा- ७७८-८०) इति तृचः । अस्य प्रत्ना (७५५-६३) नवर्चमिति बहिष्पवमानम् । नवर्चे अन्त्याया उद्धारः । उच्चा त इति गायत्रामहीयवाभीकानि सामतृचः । पुनानः सोमेति
षष्ठाऽध्यायः-द्वादशाहविकल्पाः [ प्र. ३, खं १५]
२९७
उत्सेधयज्ञायज्ञीयनिषेधास्तृचेषु । आजागृवि- (१३५७-९) रिति गौरीवितं माध्यदिनान्त्यम् । आर्भवे स्वादिष्ठये(६८९-१ इति गायत्रसंहिते तृचयोः । पवस्वेन्द्रमच्छे(सा० ६९२-६) इति सफरोहित- कुवलीये एकर्चयोः । पर्युष्वि (साः १३६४-६)ति श्यावाश्वमेकस्याम् । आन्धीगवं तिसृषु । सूयवतीषु वाजजिदाभवान्त्यम् । अन्यत् सर्वं दशमाहवत् । सर्वं पञ्चदशम् । समनसा दशमधर्माः कर्तव्याः ।।५।।
[ सप्तदशस्तोमद्वादशाहस्तृतीयः]
सप्तदशस्तोमद्वादशाहमाह-
यथा तृतीयम् ।। ६ ।।
इति पूर्ववद्व्याख्येयम् ।।६।।
अधिकारिणमाह-
तेन प्रतिष्ठाकामः प्रजातिकामो वा ।।७।।
इति । यजेतेत्यनुवर्तते ।
तत्र प्रथमस्याहः-अस्य प्रत्ना- (सा- ७५५-६३) नवर्चः पवस्व(सा० ६९२-६ )पञ्चर्चं; पवमानस्य ते कव इति बहिष्पवमानम् । प्र सोमासो विपश्चित (सा- ७६४ ६) इति गायत्राश्वसोमसामानि तृचेषु । प्र सोम देववीतय (सा- ७६७) इति गौङ्गवमेकस्याम् । तस्यामेव पज्रम् । यौधाजयं तिसृषु । औशनमन्त्यं तिसृषु । आर्भवे स्वादिष्ठयेति गायत्रसंहिते तृचयोः । अया पवस्व (सा- ७७२) पवते हर्यते हरि(सा० ७७३)रिति सफाक्षारे एकर्चयोः । प्र सुन्वान (सा- ७७४) इति गौरीवितगौतमे तृचयोः । कावमन्त्यम् । अन्यत् सर्वं प्रथमाहवत् । सर्वं सप्तदशम् ।।
द्वितीयस्याह्नः-पवस्व वाचः-पवस्वेन्दो-वृषासोम ( सा० ७७५-८३) उत्ते शु- ( सा० १२०५-९) पञ्चर्चं; पवमानस्य ते कव इति बहिष्पवमानम् । वृषा पवस्वेति गायत्रयौक्ताश्वे । पुनानः सोमेति समन्तदैर्घश्रवसे प्रथमायाम् । ऐडमायास्यत्रिणिध- नायास्ये तृचयोः । वृषा शोण (सा- ८०३) इति वासिष्ठमन्त्यम् । एकमेकर्चं कुर्वन् प्रथमायामादितः कुर्यात् । द्वौ तस्यामेवे- (ला- श्रौ० ६.३.१३)ति वचनात् । आर्भवे पवस्वेन्द्रमच्छेति शङ्कुसुज्ञाने एकर्चयोः । इतरे तृचाः । अन्यत् सर्वं द्वितीयाहवत् ।।
तृतीयमहः प्रकृतिवत् ।।
चतुर्थस्याह्नः-प्रत अजीजनत् प्रयद्गा- ( सा० ८८६ - ९७) षडृचम्; आशुः (सा- ८९८-९०३) षडृचे; आद्यास्तृचः; हिन्वन्ति सूर-(सा० ९०४ ६) मिति बहिष्पवमानवम् । षडृचे अन्त्याया उद्धारः । स्तोमासंभवात् । माध्यंदिने बृहत्यां तवाहं सोमे- ( सा० ९२२-३) ति आष्टादंष्ट्रोत्तराभीशवोत्तरे प्रथमायाम् । स्वः- पृप्ठाङ्गिरसं तिसृषु । आर्भवे बृहत्कातीषादीये एकर्चयोः । अन्यत्सर्वं चतुर्थाहवत् । सर्वं सप्तदशम् । षोडशिसाम च ।।
पञ्चमस्याह्नः-गोविद्-विश्वविद्-अधन्विषु- (सा- ९५५-६३) सप्तर्चं; यवंयवम् नो यास्ते धारे(सा० ९७५-८१) ति बहिष्पवमानम् । यवंयवं चतुर्ऋचे अन्त्यानां त्रयाणामुद्धारः । औपशदे तथा दर्शनात् । स्तोमासंभवात् । अर्षासोमे( सा० ९९४-५) ति गायत्रयण्वे । सोम उष्वे-( सा० ९९७-८) ति मानवानूपे । आद्यायां वाम्रं तिसृषु । अग्नेस्त्रिणिधनं तिसृषु। यत्सोम चित्र- (सा- ९९८- १००१) मिति शैशवं माध्यंदिनान्त्यं तिसृषु । आर्भवे असाव्यं- शु (सा० १००८-१०) रिति गायत्रसंतनिनी तृचयोः । अभि- द्युम्नं प्राणा शिशु(सा० १०११-५)रिति च्यावनक्रोशे एकर्चयोः ।
षष्ठोऽयायः-द्वादशाहविकल्पाः [ प्र ३, ख. १५]
२९९
पवस्व वाजसातय (सा- १०१६-८) इति गौरीवितऋषभशाक्वर- पार्थानि सामतृचः । अष्टेडपदस्तोभस्तिसृषु । इन्दुर्वाजी(सा० १०१९-२१) इति दाशस्पत्यमार्भवान्त्यम् । अन्यत् सर्वं पञ्चमाहवत् । सर्वं सप्तदशम् ।।
षष्ठस्याह्नः-ज्योति रसृक्षत-वीरति ( सा० १०३१ - ४६) दशर्चम्ः एते सोमा(सा० ११७८-८० )-भिप्रिय(सा० ११२७)मिति बहिष्पवमानम् । दशर्चस्यान्त्योपान्त्योरुद्धारः । स्तोमासंभवात् । इन्द्रायेन्द(सा० १०७६-८)विति गायत्ररेवत्यौ तृचयोः । मृज्य- मानः( सा- १०७९ - ८१) इति स्वारमौक्ष्णोरन्ध्रैडमौक्ष्णोरन्ध्रे प्रथमायाम् । वाजजिद्गोष्ठौ तृचयोः । एतमु त्य(सा- १०८१-३) मितीहवद्वामदेव्यन्त्यम् । आर्भवे परिस्वान (सा० १०९३-५) इति गायत्रं तिसृषु । तृतीयं वैदन्वतं तिसृषु । स सुन्त वः सखे-(सा० १०९६-११०० ति दीर्घकार्णश्रवसे एकर्चयोः; सोमाः पवन्त (सा- ११०१-३) इति गौरीवितमधुश्चुन्निधनवाङ्निधनक्रौञ्चानि सामतृचः । ऐडक्रौञ्चं तिसृषु । अया पवा पवस्वे (सा ११०४- ६ )ति श्नौष्टमन्त्यं तिसृषु । अन्यत् सर्वं षष्ठाहवत् । सर्वं सप्तदशम् ।।
सप्तमस्याह्नः-प्रका-प्रस्वा-(सा० १११६-२) नवर्चम्; एते असृग्रम्; आ ते दक्षम् (सा- ११३७-९) हति बहिष्पवमानम् । नवर्चेऽन्त्याया उद्धारः । वृषा पवस्वेति गायत्र सन्तन्यैडंसौपर्णानि । पुनानः सोमेति कण्वरथन्तरं प्रथमायाम् । तस्यामेव गौङ्गवं द्विनिधनमायास्यं तिसृषु । प्रो अयासी-( सा० ११५२-४) दिति
प्रवद्भार्गवं माध्यंदिनान्त्यम् । यस्ते मद इति गायत्राग्नेरर्काध्य- र्धेडंसोमसामानि सामतृचः । एष स्य धारया (सा- ५८४-५) सखाय आनिषीदते(सा० ११५७-९)ति शार्करप्लवौ एकर्चयोः । पुरोजितीति गौरीवितकार्तयशे तृचयोः । प्रवाज्यक्षे-(सा० ११६०-२)ति सौहविषं तिसृषु । ये सोमास (सा० ११६३-५) इति जराबोधीयमार्भवान्त्यम् । अन्यत् सर्वं सप्तमाहवत् । सर्वं सप्तदशम् ।।
अष्टमस्याह्नः-शिशुमेते सोमाभि(सा० ११७५-८६) नवर्चम्; उत्तेश (सा १२०५-९) पञ्चर्चम्; अया पवस्व धारये-(सा० १२१६ ८) ति बहिष्पवमानम । नवर्चेऽन्त्यं तृचमुद्धरेत । माध्यंदिने अध्वर्यो अद्रिभि-(सा० १२२५-७)रिति गायत्रविलम्बसौपर्णे । अभि- सोमास आयव (सा० ८५६-८) इति द्विहिंकारं वामदेव्यं प्रथमायाम् । हारायणाच्छिद्रे तृचयोः । बार्हदुक्थमध्यास्यायाम् । धर्ता दिव (सा- १२२८-३०) इति उद्वद्भार्गवमन्त्यम् । आर्भवे पवस्व देव आयुष(सा० १२३५-७)गिति गायत्रं तिसृषु । स्वाशिरामर्क- काक्षीवतभासानि सामतृचः । अभि द्युम्नं प्राणा शिशु- (सा- १०११-५) रिति ऐषिरत्रैते एकर्चयोः । अभी नो वाजसातम- (सा- १२३८-४० मिति गौरीवितरयिष्ठौदलानि सामतृचः । स्वासु धर्म तिसृषु । हिन्वन्ति सूर(सा० ९०४-६) मिति विशोविशीय- मार्भवान्त्यम् । अन्यत् सर्वमष्टमाहवत् । सर्वं सप्तदशम् ।।
नवमस्याह्नः-अक्रान्-एष देवो (सा १२५३-६५) दशर्चम्; एष उ स्य वृषे-(सा० १२७४-९ ति एकर्चम्; पवमानस्य ते कव (सा- ६५७-९) इति बहिष्पवमानम् । पवमानस्य जिघ्नत (सा० १३१०-२) इति गायत्रादारसृदृषभपवमानाः सामतृचः । परीतोषी- (सा- १३१३-५) ति पृष्ठमेकस्याम् । संकृतिदेव- स्थानाभीशवाद्यानि तृचेषु । वासिष्ठमध्यास्यायाम् । असावि सोम (सा- १३१६-८) इति दीर्घतमसोऽर्कोऽन्त्यः । सामराजं वा । सामराजान्त्यपक्षे पृष्ठस्य स्थाने पृष्ठदीर्घतमसोऽर्कमाण्डवानि
षष्ठोऽध्यायः-द्वादशाहविकल्पाः [प्र. ३, ख. १५]
३०१
सामतृचः । आभीशवाद्यमेकस्याम् । देवस्थानं तिसृषु । संकृति तिसृषु । वासिष्ठमध्यास्यायाम् । आर्भवे त्वं सोमे-(सा० १३२३- ८)ति गायत्रं तिसृषु । आश्वसूक्तप्रतीचीनेडंकाशीतहाविष्कृतानि सामतृचः । त्वं ह्यङ्ग दैव्य (सा- ९३८-९) पवस्व देववीतय (सा- १३२६-८) इति सौपर्णवैश्वमनसे एकर्चयोः । परि त्यं हर्यतं हरि- (सा- १३२९-३१ मिति गौरीवितनिहवयद्वाहिष्ठीयानि सामतृचः । स्वासु विधर्म तिसृषु । उपोषु जात- (सा- १३३५-७) मिति श्रुध्यमार्भवान्त्यम् । अन्यत् सर्वं नवमाहवत् । सर्वं सप्तदशम् ।।
दशमस्याह्नः-असृक्षत प्र वाजिनः (सा० १०३४-७) पवमानस्य विश्ववित (सा- ९५८-६०) पवमानो अजीजनत् (सा- ८८९ -९२) एते ग्रसृग्रमिन्दवः (सा- ८३०-२) पवस्वेन्दो वृषा सुत (सा० ७७८-८०) इति पञ्च एकर्चाः । अस्य प्रत्ना (सा० ७७५-७) नवर्चम् । पवमानस्य ते कव (सा- ६५७-९) इति बहिष्पवमानम् । उच्चा ते जातमन्धस (सा- ६७२-४) इति गायत्रा- महीयवे तृचयोः । पुनानः सोमे-(सा० ६७५-९ )ति रौरवोत्सेधौ प्रथमायाम् । यज्ञीयज्ञीयनिषेधौ तृचयोः । आजागृवि-( सा- १३५७-९ )ति गौरीवितं माध्यंदिनान्त्यम् । आर्भवे स्वादिष्ठयेति गायत्रसंहिते तृचयोः । पवस्वेन्द्रमच्छे-(सा० ६९२-६) इति सफरोहित- कूलीये एकर्चयोः । पर्यूष्वि-(सा० १३६४-६ )ति श्यावाश्वौष्णिह- मोकोनिधनान्धीगवानि सामतृचः । परिप्रधन्वे-(सा० १३६७-९)ति सौहविषं तिसृषु । वाजजिदार्भवान्त्यम् । अन्यत् सर्वं दशमाहवत् । सर्वं सप्तदशम् । समानसा दशमधर्माः कर्तव्याः ।।७।।
[ एकविंशस्तोमद्वादशाहश्चतुर्थः]
एकविंशस्तोमद्वादशाहमाह-
यथा चतुर्थम् ।।८।।
इति । पूर्ववद्व्याख्येयम् ।।८।।
अधिकारिणमाह-
तेन प्रतिष्ठाकामः ।।९।।
इति । यजेतेत्यनुवर्तते । अस्य क्लृप्तिः ।
तत्र प्रथमस्याह्नः- ग्रस्य प्रत्ना (सा- ७५५-६३) नवर्चम्; एते सोमाभी- (सा० ११७८-८६) नवर्चम्, पवमानस्य ते कव इति बहिष्पव- मानम् । आदित्यानामयनीयच्छन्दोमदशरात्रवत् स्तोमानुगुण्येना- वोपोद्वापौ कार्यौ । माध्यंदिने प्रसोमासो विपश्चित (सा- ७६४-६) इति गायत्राश्वसोमसामानि । प्रसोम देववीतय (सा- ७६४-८) इति गौङ्गवपज्रयौधाजयानि । औशनमन्त्यम् । सर्वे तृचाः । आर्भवे स्वादिष्ठयेति गायत्रसंहिते । अया पवस्व-पवते हर्यतो हरि-(सा० ७७२-३) रिति सफाक्षारे एकर्चयोः । प्रसुन्वान ( सा० ७७४-६) इति गौरीवितमेकस्याम् । गौतमशुद्धाशुद्वीय- साध्राणि तृचेषु । कावमन्त्यम् । अन्यत् सर्वं प्रथमाहवत् । सर्वमेकविंशम् ।।
द्वितीयस्याह्नः-पवस्व वाचः-पवस्वेन्दो-वृषा सोम-वृषा ह्यसि (सा- ७७५-८६) एष उ- (सा- १२७४-९) षडृचम्; पवमानस्य ते कव (सा- ६५७-९) इति बहिष्पवमानम् । माध्यं- दिने वृषा पवस्व धारये- (सा- ९०३-५ ति गायत्रयौक्ताश्वस्वारं-
षष्ठोऽध्यायः-द्वादशहविकल्पाः [प्र. ३, ख. १५]
३०३
सौपर्णानि । पुनानः सोमे-(सा० ६७४-६ )ति ऐडमायास्यत्रिणिधन- मायास्यसमन्तानि । वृषा शोण (सा- ८०६-८) इति वासिष्ठ- मन्त्यम् । आर्भवे सर्वे तृचाः । अन्यत् सर्वं द्वितीयाहवत् । सर्वमेक- विंशम् ।।
तृतीयस्याह्नः-दविद्युतत्या-एते राजा-तन्त्वा नृम्णानि( सा० ८३६-४०) पञ्चर्चम्; यवं यवं (सा- ९७५-८) चतुर्ऋचम्; इषे(सा० ८४१-३ ति वहिष्पवमानम् । उच्चात इति गायत्रक्षुल्लक- वैष्टम्भौ । अभि सोमे( सा० ८५६-८) ति पौरुमद्गगौतमान्त- रिक्षाष्कारणिधनानि तृचेषु । तिस्रो वाच ( सा० ८५९-६१) इति अङ्गिरसांसंक्रोशोऽन्त्यः । आर्भवे सर्वे तृचाः । अन्यत् सर्वं तृतीयाहवत । सर्वमेकविंशम् ।।
चतुर्थंस्याह्नः प्रकृतिवत् ।।
पञ्चमस्याह्नः-गोविद् विश्वविद् दधधन्विषु- (सा- ९५५-६७) सप्तर्चम्; उत्ते शु (सा- १२०५-९) पञ्चर्चं; यास्त (सा- ९७९-८१) इति बहिष्पवमानम् । माध्यंदिने अर्षा सोमे- (सा- ९९४-६) ति गायत्रयण्वशाकलवार्शानि । सोम उष्वे (सा० ९९७ - ८)ति मानवानूपवाम्राणि सामतृचः । अग्नेस्त्रिणिधनं तिसृषु । यत् सोम वित्र-(सा० ९९९- १००१) मिति शैशवमन्त्यम् । आर्भवे असाव्यंशु-(सा० १००८-१०)रिति गायत्रसंतनिनी । अभि द्युम्नं प्राणा शिशु(सा० १०११-५ )रिति च्यावनक्रोशे एकर्चयोः । पवस्व वाजसातय (सा- १०१६-८) इति गौरीवितमेकस्याम् । ऋषभशाक्वरपार्थाष्टेडपदस्तोभास्तृचेषु । इन्दुर्वाजी(सा० १०१९- २१)ति दाशस्पत्यमन्त्यम् । अन्यत् सर्वं पञ्चमाहवत् । सर्वमेक- विंशम् ।।
षष्ठस्याह्नः-ज्योति-रसृक्षत-वीरति- (सा- १०३१ - ४६) दशर्चम्; तरत्सम- (सा- १०५७-६०) चतुर्ऋचम्; एते सोमे- - (सा० ६१-३ ति बहिष्पवमानम् । माध्यंदिने इन्दायेन्दवि- (सा- १०७६-८)ति गायत्ररैवते । मृज्यमानः (सा- १०७९-८०) इति स्वारमौक्ष्णोरन्ध्रवाजजिद्वरुणसामगोष्ठास्तृचेषु । एतमु त्य-(सा० १०८१-३) मिति इहवद्वामदेव्यमन्त्यम् । आर्भवे परिस्वान (सा- १०९३-५) इति गायत्रतृतीयाद्यचतुर्थवैदन्वतानि । स सु-तं वः सखाये(सा० १०९६-११००) ति दीर्घकार्णश्रवसे एकर्चयोः । सोमाः पवन्त (सा- ११०१ - ३) इति गौरीवितं प्रथमायाम् । मधुश्चु न्निधनवाङ्निधनक्रौञ्चैडक्रौञ्चानि सामतृचः । अया पवा पवेस्वे(सा० ११०४-६ ति श्नौष्टमन्त्यम् । अन्यत् सर्वं षष्ठाहवत् । सर्वमेकविंशम् ।।
सप्तमस्याह्नः--प्रका-प्रस्वा-( सा० १११६ २७) नवर्चम्; असृग्र (सा० ११२८-३६ )न्नवर्चम्; आ ते दक्षमि (सा० ११३७- ९)ति बहिष्पवमानम् । असृग्रन्नवर्चेऽन्त्यं तृचमुद्धरेत् । माध्यं- दिने रोहितकूलीयमुद्धरेत् । आर्भवे यस्ते मद (सा- ८१५ ७) इति गायत्रमौक्षसोमासामानि सामतृचः । अग्नेरर्कस्तिसृषु । यद्वा । गायत्रं तिसृषु । अग्नेरर्काध्यर्धेडंसामसाममौक्षाणि सामतृचः । एष स्य धारया-सखाये-( सा० ११५७ - ९) ति शार्करप्लवौ एकचयोः । पुरोजितीति गौरीवितमेकस्याम् । गौतमकार्तयशे तृचयोः । प्रवाज्यक्षे-(सा० ११६०-२ )ति सौहविषं तिसृषु । ये सोमे( सा० ११६३-५) ति जराबोधीयमन्त्यम् । अन्यत् सर्वं सप्तमाहवत् सर्वमेकविशम् ।।
अष्टमस्याह्नः-शिशुम्-एते सोमाभि- (सा- ११७५-८६) नवर्चम्; अयावीत्यपघ्नन्-अया पवस्व धारये-(सा० १२१०-८)
षष्ठोऽध्यायः-द्वादशाहविकल्पाः [प्र, ३, ख. १५]
३०५
८)ति बहिष्पवमानम् । माध्यंदिने अध्वर्यो अद्रिभि- (सा- १२२५-७)रिति गायत्रवैरूपाशुभार्गवाणि । अभि सोमेति द्विहिंकारवामदेव्यगायत्रपार्श्वपौरुहन्मनानि । धर्ता दिव (सा० १२२८ - ३०) इति उद्वद्भार्गवमन्त्यम् । सर्वे तृचाः । आर्भवे पवस्व देव आयुष(सा० १२३५-७)गिति गायत्रं तिसृषु । स्वाशिरामर्ककाक्षीवतभासानि सामतृचः । अभिद्युम्नं प्राणा- शिशु(सा० १०११-५) रिति ऐषिरत्रैते एकर्चयोः । अभी नो वाजसातम(सा १२३८-४०) मिति गौरीवितं प्रथमायाम् । ऐडंकौत्स- पदनिधनंशुद्धाशुद्धीयक्रौञ्चाद्यानि सामतृचः । रयिष्ठं तिसृषु । स्वासु धर्म तिसृषु । हिन्वन्ति विशोविशीयमन्त्यम् । अन्यत् सर्वमष्टमाहवत् सर्वमेकविंशम् ।।
नवमस्याह्नः-अक्रान्-एष देवो( सा- १२५३-६५) नवर्चम् । एष उ (सा- १२७४-९) षडृचम् । पवमानस्य ते कव इति बहिष्पवमानम् । दशर्चेऽन्त्याया उद्धारः । माध्यंदिने पवमानस्य जिघ्नत (सा- १३१०-२) इति गायत्रं तिसृषु । अदारसृदिडानां- संक्षारऋषभपवमानाः सामतृचः । परीतोषीति पृष्ठकौल्मल- बर्हिषसंकृतिदेवस्थानानि तृचेषु । जसावि सोमे-(सा० १३१६- ८)ति दीर्घतमसोऽर्कोऽन्त्यः । सामराजं वा । सामराजान्त्यपक्षे माध्यंदिने पृष्ठस्य स्थाने पृष्ठदीर्घतमसोऽर्कमाण्डवानि सामतृचः । आर्भवे त्वं सोमे(सा० १३२३-५) ति गायत्रं तिसृषु । आश्वसूक्त- प्रतीचीनेडंकाशीतहाविष्कृतानि सामतृचः । त्वं ह्यङ्ग दैव्य (सा- ९३८-९) पवस्व देववीतय (सा० १३२६-८) इति सौपर्ण- वैश्वमनसे एकर्चयोः । परि त्यं हर्यतं हरि- (सा- १३२९- ३ )मिति गौरीवितं प्रथमायाम् । निहवयद्वाहिष्ठीयासिताद्यानि सामतृचः । साध्रं तिसृषु । स्वासु विधर्म तिसृषु । उपोष्वि- ( सा० १३३५-७) ति श्रुध्यम् । अन्यत् सर्वं नवमाहवत् । सर्वमेकविंशम् ।।
दशमस्याह्नः-असृक्षत प्र वाजिनः ( सा० १०३४) पवमानस्य विश्ववित् ( सा० ९५८) पवमानो अजीजनत् ( सा० ८८९) इत्येते त्रय एकर्चाः । एते असृग्रम् ( सा० ८३०-२) पवस्वेन्दो वृषा सुत ( सा० ७७८-८०) इत्येतौ तृचौ । अस्य प्रत्ना- ( सा० ७५५-६३) नवर्चम् । पवमानस्य ते कव सा- ६५७-९) इति बहिष्पवमानम् । माध्यंदिने उच्चा त( सा- ६७२-४) इति गायत्रामहीयवाभीकानि । पुनानः सोमे-(सा० ६७५-६) ति उत्सेधयज्ञायज्ञीयनिषेधाः । आ जाग्रवि(सा० १३५७- ९ )रिति गौरीवितमन्त्यम् । आर्भवे स्वादिष्ठये( सा० ६८९- ९१ )ति गायत्रसंहिते । पवस्वेन्द्रमच्छे- (सा- ६९२-६) ति सफ- रोहितकूलीये । पर्यूष्वि(सा० १३६४-६)ति श्यावाश्वौष्णिहमोको- निधनान्धीगवानि सामतृचः । परि प्र धन्वे-(सा० १३६७-९)ति सौहविषं तिसृषु । सूर्यवतीषु वाजजिदन्त्यम् । अन्यत् सर्वं दशमाहवत् । सर्वमेकविंशम् । समानसा दशमधर्माः कार्याः ।।९।।
[ तृणवस्तोमद्वादशाहः पञ्चमः]
तृणवस्तोमद्वादशाहमाह-
यथा पञ्चमम् ।। १० ।।
इति । पूर्ववद्व्याख्येयम् ।।
अधिकारिणमाह-
तेन पुष्टिकामः परं वा जिघांसन् ।। ११ ।।
षष्ठोऽध्यायः-द्वावशाहविकल्पाः [प्र ३, ख. १५]
३०७
इति । स्पष्टम् । अस्य क्लृप्तिः-आदित्यानामयनीयच्छन्दोमदशरात्रवत् । स्तोमानुगुण्येनावापोद्वापौ कार्यौ ।
तत्र प्रथमस्याह्नः-अस्य प्रत्ना- (सा- ७५५-३) नवर्चम् । एते सोमा अभी- (सा- ११७८-८६) नवर्चम् । सोमः पुनानो- (सा- ९२४- ३२) नवर्चम् । इति बहिष्पवमानम् । माध्यंदिने प्र सोमासो विपश्चित (सा- ७६४-६) इति गायत्राश्वसोमसामाशुभार्गवाणि । प्रसोम देववीतय (सा- ७६७-८) इति पज्रद्वैगतगौङ्गवयौधाजयानि । औशनमन्त्यम् । सर्वे तृचाः । आर्भवे स्वादिष्ठये- ( सा० ६८९ )ति गायत्रसंहितजराबोधीयानि । अया पवस्व देवयु-(सा० ७७२)रिति पवत ( सा० ७७३) इति सफाक्षारे एकर्चयोः । प्र सुन्वान (सा- ७७४) इति गौरीवितमेकस्याम् । वैश्वामित्रपदनिधनशुद्धाशुद्धीयस्वारकौत्सगौतमानि । कावमन्त्यम् । अन्यत् सर्वं प्रथमाहवत् । सर्वं त्रिणवम् ।।
द्वितीयस्याह्नः-पवस्व वाचः-पवस्वेन्दो-वृषा सोम-वृषा ह्यसि (सा- ७७२-८६) एष उ (सा० १२७४-९) षडृचम् । एष वाजी (सा- १२८०-५) षडृचम् । पवमानस्य ते वयम् (सा- ७८७-९) इति बहिष्पवमानम् । माध्यंदिने वृषा पवस्वे-(सा० ९०३-५) ति गायत्रयौक्ताश्वसुरूपहरिश्रीनिधनानि । पुनानः सोमे-(सा० ६७५-६ )ति समन्तदैर्घश्रवसैडमायास्यत्रिणिधनमायास्यानि । वृषा शोण (सा- ८०६-८) इति वासिष्ठमन्त्यम् । सर्वे तृचाः । आर्भवे यस्ते मद (सा० ८१५-७) इति गायत्रहाविष्मते । पवस्वेन्द्रमच्छे- (सा- ६९२-६)ति शङ्कुसुज्ञाने । अय पूषे-(सा० ८१८-२०)ति गौरीवित- कौत्सभर्गक्रौञ्चानि । वृषा मतीनाम् ( सा० ८२१-३) इति याममन्त्यम् । सर्वे तृचाः । अन्यत् सर्वं द्वितीयाहवत् । सर्वं त्रिणवम् ।।
तृतीयस्याहनः-दविद्युतत्या - एते - राजा( सा० ६५४ - ६) तन्त्वानृ- (सा- ८३०-४०) पञ्चर्चम् । एष धिये-(सा० १२६६- ७३ )त्यष्टर्चम् । अपघ्न(सा० १२७३-५ )न्निषे पवस्वे-(सा० ८४१- ३)ति बहिष्पवमानम् । अष्टर्चेऽन्त्याया उद्धारः । माध्यंदिने उच्चा त इति गायत्रक्षुल्लकवैष्टम्भसौमित्रैटतानि । अभि सोमे-(सा० ८५६-८१)ति पौरुमद्गगौतमान्तरिक्षाष्कारणिधनकाण्वानि । तिस्रो वाच (सा- ८५९) इति अङ्गिरसांसंक्रोशोऽन्त्यः । आर्भवे तिस्रो वाच इति गायत्रपाष्ठौहैडंसैन्धुक्षितानि । आ सोता (सा- १३९४) सखाय (सा- ११५७) इति वाचःसामशौक्ते । सुतासोमे-(सा० ८७२-४)ति गौरीवितैडंत्वाष्ट्रीसामत्रिणिधनंत्वाष्ट्रीसामानि । पवित्रं त सा- ८७५) इत्यरिष्टमन्त्यम । अन्यत् सर्वं तृतीयाहवत् । सर्वं त्रिणवम् ।।
चतुर्थस्याह्नः-प्र त-अजीजनत प्र यद्गा- (सा० ८८६-९७) षडृचम् । आशुः-षडृचम् । हिन्वन्ति (सा- ९०४-६) इति बहिष्पव- मानम् । माध्यंदिने पवस्व दक्षसाधन (सा- ९१९-२१) इति गायत्राथर्वणनिधनकामानि । तवाहं सोमे( सा० ९२२-३) ति आष्टादंष्ट्रोत्तरार्कपुष्पाद्यबार्हदुऽक्थाभीशवाद्यस्वःपृष्ठाङ्गिरसानि । पुनान इति सत्रासाहीयमन्त्यम् । सर्वे तृचाः । आर्भवे परि प्रिया दिवः कवि (सा० ९३५-७ )रिति गायत्रौर्णायवबृहद्भारद्वाजेनिधनमार्गी- यवानि । त्वं ह्यङ्ग दैव्य-सोमः पुनान ऊर्मिणे-(सा० ९३८-४२)ति बृहत्कातीषादीये । पुरोजितीति नानदान्धीगवे । सोमः पवत (सा- ९४३-५) इति जनित्रमन्त्यम् । सर्वे तृचाः । अन्यत् सर्वं चतुर्थाहवत् । सर्वं त्रिणवम् । षोडशिसाम च ।।
पञ्चममहः प्रकृतिवत् ।।
षष्ठस्याह्नः-ज्योतिर्-असृक्षत-वीरति(सा० १०३१-४६) दशर्चम् । सना- (सा- १०४७-५६) दशर्चम् । एते सोमे (सा० १०६१-३)ति
षष्ठोऽध्यायः-द्वावशाहविकल्पाः[ प्र. ३, ख. १५]
३०९
बहिष्पवमानम् । वीरति-दशर्चेऽन्त्योपान्त्ययोरुद्धारः । माध्यंदिने मृज्यमान इति स्वारमौक्ष्णोरन्ध्रैडमौक्ष्णोरन्ध्रवाजजितः सामतृचः । इतरे तृचाः .। आर्भवे दीर्घकार्णश्रवसगौरीवितान्येकर्चानि । इतरे तृचाः । अन्यत् सर्वं षष्ठाहवत् । सर्वं त्रिणवम् ।।
सप्तमस्याह्नः-प्रका प्रस्वा नवर्चम् । असृग्रन्नवर्चम् । यवं यवं चतुर्ऋचम् । आ ते दक्षमिति बहिष्पवमानम् । चतुर्ऋचे- ऽन्त्याया उद्धारः । माध्यंदिने वृषा पवस्वेति गायत्रसन्तन्यैडंसौपर्ण- रोहितकूलीयानि । पुनानः सोमेति कण्वरथन्तरपौरुमद्गगौङ्गव- द्विनिधनमायास्यानि । प्रो आयासीदिति प्रवद्भार्गवमन्त्यम् । सर्वे तृचाः । आर्भवे कार्तयशादुत्तरं गौतमम् । अन्यत् सर्वं सप्तमाहवत् । सर्वं त्रिणवम् ।।
अष्टमस्याह्नः-शिशुम्-एते सोमाभि नवर्चम् । सोमः पुनानो- नवर्चम् । अपघ्नन्-अया पवस्व धारयेति बहिष्पवमानम् । माध्यंदिने अध्वर्यो अद्रिभिरिति गायत्रवैरूपाशुभार्गवविलम्ब- सौपर्णानि । अभि सोमेति द्विहिंकारवामदेव्यगायत्रपार्श्व- हारायणपौरुहन्मनानि । धर्ता दिव इति उद्वद्भार्गवमन्त्यम् । आर्भवे पवस्व देव आयुषगिति गायत्रं तिसृषु । स्वाशिरामर्क काक्षीवतभासानि सामतृचः । अभि द्युम्नं-प्राणा शिशुरिति ऐषिर- त्रैते । अभी नो वाजसातममिति गौरीवितैडंकौत्सौदलानि । स्वासु धर्म । हिन्वन्तीति विशोविशीयमन्त्यम् । अन्यत् सर्वमष्टमाहवत् । सर्वं त्रिणवम् ।।
नवमस्याह्नः-आक्रान्-एष देवो-दशर्चम् । एष धियेत्यष्टर्चम् । इषे पवस्व-पवमानस्य ते कव इति वहिष्पवमानम् । माध्यंदिने पवमानस्य जिघ्नत इति गायत्रादारसृगिडानांसंक्षार- ऋषभपवमानाः । परीतो षीति पृष्ठकौल्मलबर्हिषसंकृतिदेवस्थानानि ।
असावि सोमेति दीर्घतमसोऽर्कोऽन्त्यः । सामराजं वा । सामराजान्त्य- पक्षे माध्यंदिने पृष्ठस्य स्थाने पृष्ठदीर्घतमसोऽर्कमाण्डवानि सामतृचः । आर्भवे त्वं सोमेति गायत्राश्वसूक्तप्रतीचीनैडं- काशीतानि । त्वं ह्यङ्ग दैव्य-पवस्व देव वीतय इति सौपर्ण- वैश्वमनसे । परि त्यमिति गौरीवितसाध्रे । स्वासु विधर्म । उपोष्विति श्रुध्यमन्त्यम् । सर्वे तृचाः । अन्यत् सर्वं नवमाहवत् । सर्वं त्रिणवम् ।।
दशमस्याह्नः-असृक्षत प्रवाजिन-पवमानस्य विश्ववित्- पवमानो अजीजनत्-एते असृग्रमिन्दवः-पवस्वेन्दो वृषा सुतः- अस्य प्रत्ना नवर्चम् । पवमानस्य ते कव इति बहिष्पवमानम् । माध्यंदिने उच्चा त इति गायत्रामहीयवाजिगाभीकानि । पुनानः सोमेति रौरवोत्सेधयज्ञायज्ञीयनिषेधाः । आ जाग्रविरिति गौरी- वितमन्त्यम् । सर्वे तृचा । आर्भवे संहितादुत्तरं सुरूपम् । अन्यत् सर्वं दशमाहवत् । सर्वं त्रिणवम् । समानसा दशमधर्माः कर्तव्याः ।।१ १ ।।
[ त्रयास्त्रिंशस्तोमद्वादशाहः षष्ठः]
त्रयस्त्रिंशस्तोमद्वादशाहमाह-
यथा षष्ठम् ।। १ २।।
इति । पूर्ववद्व्याख्येयम् ।।१ २।।
अधिकारिणमाह-
तेन प्रतिष्ठाकामः ।। १ ३।।
इति । यजेतेत्यनुवर्तते । अस्य क्लृप्तिः-आदित्यानामय- नीयच्छन्दोमदशाहवत् । स्तोमानुगण्येन आवापोद्वापौ कार्यौ । तत्र प्रथमस्याह्नः-अस्य प्रत्ना-नवर्चम् । एते सोमाभी-नवर्चम् । सोमः पुनानो नवर्चम् । प्र ते धारा असश्चुतः-पवमानस्य ते
षष्ठोऽध्यायः-द्वादशाहविकल्पाः [प्र. ३, ख. १५]
३११
कव-इति बहिष्पवमानम् । चतुर्ऋचेऽन्त्याया उद्धारः । माध्यंदिने प्र सोमासो विपश्चित इति गायत्राश्वसोमसामाशुभार्गवाणि । प्र सोम देववीतय इति पज्रद्वैगतद्विहिंकारवामदेव्यगौङ्गवपौरुहन्मन- यौधाजयानि । स्वास्वौशनमन्त्यम् । आर्भवे स्वादिष्ठयेति गायत्रसंहितजराबोधीयानि । अया पवस्व-पवत-इति सफाक्षारे एकर्चयोः । प्र सुन्वान इति गौरीवितमेकस्याम् । वैश्वामित्रपदनि- धनशुद्धाशुद्धीयस्वारकौत्ससाध्राकूपारगौतमानि । कावमन्त्यम् । अन्यत् सर्वं प्रथमाहवत् । सर्वं त्रयस्त्रिंशम् ।।
द्वितीयस्याह्नः-पवस्व वाचः-पवस्वेन्दो- वृषा सोम-वृषा ह्यसि एष देवो-दशर्चम् । एष धियेत्यष्टर्चम् । पवमानस्य ते वयम् इति बहिष्पवमानम् । माध्यंदिने वृषा पवस्वेति गायत्रयौक्ताश्वसुरूपहरिश्रीनिधनानि । पुनानः सोमेति समन्त- दैर्घश्रवसपृष्ठकौल्मलबर्हिषैडमायास्यत्रिणिधनमायास्यानि । वृषा शोण इति वासिष्ठमन्त्यम् । सर्वे तृचाः । आर्भवे यस्ते मद इति गायत्रहाविष्मतशाम्मददावसुनिधनानि । पवस्वेन्द्रमच्छेति शङ्कु- सुज्ञाने । अयं पूषेति गौरीवितैडकौत्सश्यावाश्वगर्गाः । वृषा मतीनामिति याममन्त्यम् । सर्वे तृचाः । अन्यत् सर्वं द्वितीयाहवत् । सर्वं त्रयस्त्रिंशम् ।।
तृतीयस्याह्नः-दवि एते राजा तन्त्वानृम्णानि-पञ्चर्चम् । असृग्रन्नवर्चम् । यवंयव-चतुर्ऋचम् । अपघ्नन्-इषे पवस्वेति बहिष्पवमानम् । माध्यंदिने उच्चा त इति गायत्रक्षुल्लकवैष्टम्भ- सौमित्रैटतानि । अभि सोमेति पौरुमद्गसदोविशीयगौतमान्तरिक्ष- मैधातिथाष्कारणिधनकाण्वानि । तिस्रो वाच इति अङ्गिरसां- क्रोशोऽन्त्यः । सर्वे तृचाः । आर्भवे तिस्रो वाच इति गायत्रपाष्ठौ- हैडंसैन्धुक्षितानि । आसोता-सखाय इति वाचःसामशौक्ते । सुतासोमेति गौरीवितसाध्रस्वारंत्वाष्ट्रीसामत्रिणिधनत्वाष्ट्रीसामाभ्यासत्वाष्ट्री- सामानि । पवित्रन्त इत्यरिष्टमन्त्यम् । सर्वे तृचाः । अन्यत् सर्वं तृतीयाहवत् । सर्वं त्रयस्त्रिंशम् ।।
चतुर्थस्याह्नः-प्र त-अजीजनत् प्रयद्गा- षडृचम् । आशु- ष्षडृचम् । बभ्रुष्षडृचम् । प्रस्वा नवर्चम् । हिन्वन्तीति बहिष्पवमानम् । प्रस्वा-नवर्चे आन्त्यं तृचमुद्धरेत् । माध्यंदिने पवस्व दक्षेति गायत्राथर्वणनिधनकामादारसृजः । तवाहं सोमेति आशदंष्ट्रोत्तरार्कपुष्पाद्यबार्हदुक्थमाण्डवाभीशवाद्यस्वःपृष्ठाङ्गिरसानि । पुनान इति सत्रासाहीयमन्त्यम् । सर्वे तृचाः । आर्भवे परि प्रिया दिवः कविरिति गायत्रौर्णीयववृहद्भारद्वाजनिधनमार्गीयवाणि । त्वं ह्यङ्ग दैव्य-सोमः पुनान इति बृहत्कातीषादीये । पुरोजितीति नानदैडशुद्धाशुद्वीयाकूपारान्धीगवानि । सोमः पवत इति वात्सप्रमन्त्यम् । सर्वे तृचाः । अन्यत् सर्वं चतुर्थाहवत् । सर्वं त्रयस्त्रिंशम् । षोडशिसाम च ।।
पञ्चमस्याह्नः-गोविद्-विश्वविद्-दधन्विषु-सप्तर्चम् । प्रकविः सप्तर्चम् । यवंयव-चतुर्ऋचम् । अयावीति-अपघ्नन्-यास्ते धारेति बहिष्पवमानम् । माध्यंदिने अर्षा सोमेति गायत्रयण्वशाकलवार्शानि । सोम उष्वेति मानवानूपवैष्णवाद्ययौक्तस्रुचवाम्राग्नेस्त्रिणिधनानि । यत्सोमचित्रमिति शैशवमन्त्यम् । सर्वे तृचाः । आर्भवे असाव्यंशुरिति गायत्रसंतन्यध्यर्धेडंसोमसामगौषूक्तानि । अन्यत् सर्वं पञ्चमाहवत् । सर्वं त्रयस्त्रिंशम् ।।
षष्ठमहः प्रकृतिवद् ।।
षष्ठोऽध्यायः-द्वावशाहविकल्पाः[ प्र, ३, ख १५]
३१३
सप्तमस्याह्नः- प्रका-प्रस्वा-नवर्चम् । असृग्रन्नवर्चम् । प्रयद्गा-षडृचम् । यवंयवं चतुर्ऋचम् । आ ते दक्षमिति बहिष्पवमानम् । चतुर्ऋचेऽन्त्याया उद्धारः । माध्यंदिने वृषा पवस्वेति गायत्रसन्तन्यैडसौपर्णरोहितकूलीयगौषूक्तशाकलानि । पुनानः सोमेति पौरुमद्गकण्वरथन्तरगौङ्गवद्विनिधनमायास्यानि । प्रो आयासीदिति प्रवद्भार्गवमन्त्यम् । सर्वे तृचाः । आर्भवे कार्तयशादुत्तरं स्वारं- त्वाष्टीसामानिधनत्वाष्ट्रीसामगौतमानि आवपेत् । सर्वं त्रयस्त्रिंशम् ।।
अष्टमस्याह्नः-शिशुम्-एते सोमाभी-नवर्चम् । सोमः पुनानो- नवर्चम् । सोमा असृग्रन्नवर्चम् । अया पवस्व धारयेति बहिष्पव- मानम् । माध्यंदिने अध्वर्यो अद्रिभिस्सुतमिति गायत्रवैरूपाशु- भार्गवमार्गीयवसौमित्रसाकमश्वविलम्बसौपर्णानि । अभि सोमेति द्विहिंकारवामदेव्यगायत्रपार्श्वपौरुहन्मनानि । धर्ता दिव इति उद्वद्- भार्गवमन्त्यम् । आर्भवे पवस्व देव आयुषगिति गायत्रस्वाशिरामर्क- गायत्रसामासितानि । अभि द्युम्नं-प्राणाशिशुरिति ऐषिरत्रैते । अभी नो वाजसातममिति गौरीवितैडकौत्सौदलरयिष्ठानि स्वासु धर्म । हिन्वन्तीति विशोविशीयमन्त्यम । अन्यत् सर्वमष्टमाहवत् । सर्वं त्रयस्त्रिंशम् ।।
नवमस्याह्नः-अक्रान-एष देवो-दशर्चम् । एष उ षडृचम् । एष वाजी-षडृचम् । एष कविष्षडृचम् । पवमानस्य ते कव इति बहिष्पवमानम् । दशर्चेऽन्त्याया उद्धारः । माध्यंदिने पृष्ठस्य पवमानस्य जिघ्नत इति गायत्रादारसृगिडानांसंक्षारऋषभपवमानाः । परीतो षीति पृष्ठं तिसृषु । कौल्मलबर्हिषार्कपुष्पाद्यदैर्घ- श्रवसानि सामतृचः । देवस्थानसंस्कृतिवैयश्वाभीशवोत्तराणि तृचेषु । असावि सोमेति दीर्घतमसोऽर्कोऽन्त्यः । सामराजं वा । सामराजान्त्यपक्षे माध्यंदिने पृष्ठस्य स्थाने पृष्ठदीर्घतमसोऽर्कमाण्डवानि सामतृचः । आर्भवे त्व सोमेति गायत्रं तिसृषु । अश्वसूक्तप्रतीचीने- डंकाशीतहाविष्कृतानि । त्वं ह्यङ्ग दैव्य-पवस्व दैववीतय इति सौपर्णवैश्वमनसे एकर्चयोः । परि त्यमिति गौरीवितमेकस्याम् । निहवयद्वाहिष्ठीयासिताद्यसाध्राणि । स्वासु विधर्म । उपोष्विति श्रुध्यमन्त्यम् । अन्यत् सर्वं नवमाहवत् । सर्वं त्रयस्त्रिंशम् ।।
दशमस्याह्नः-असृक्षत प्र वाजिनः-पवमानस्य विश्ववित्- पवमानो अजीजनत्-एते असृग्रमिन्दवः पवस्वेन्दो वृषा सुतः- सोमः पुनानो-नवर्चम् । अस्य प्रत्ना-नवर्चम् । इति बहिष्पवमानम् । माध्यंदिने उच्चा ते गायत्रामहीयवाजिगाभीकानि । पुनानः सोमेति रौरवयौधाजयदैर्घश्रवसोत्सेधयज्ञायज्ञीयनिषेधाः । आजाग्रविरिति गौरीवितमन्त्यम् । सर्वे तृचा । आर्भवे स्वादिष्ठयेति गायत्रसंहित- काक्षीवतभासजराबोधीयानि । पवस्वेन्द्रमच्छेति सफरोहित- कूलीये । पर्यूष्विति श्यावाश्वान्धीगवे । परि प्र धन्वेति सौहविषम् । सृर्य्वतीषु वाजजिदन्त्यम् । सर्वे तृचाः । अन्यत् सर्वं दशमा- हवत् । सर्वं त्रयस्त्रिंशम् । समानसा दशमधर्माः कार्याः ।।१ ३।।
[ चत्वारिंशस्तोमद्वादशाहः सप्तमः]
अथ चत्वारिंशस्तोमद्वादशाहमाह-
यथा सप्तमम् ।। १ ४।।
अधिकारिणमाह-
तेन तेजस्कामो ब्रह्मवर्चसकामो वा ।। १ ५।।
३१५
इति । यजेतेत्यनुवर्तते । अस्य क्लृप्तिः-अङ्गिरसामयन- च्छन्दोमदशरात्रवत् । स्तोमानुगुण्येनावापोद्वापौ कार्यौ ।
तत्र प्रथमस्याह्नः-अस्य प्रत्ना-नवर्चम् । एते सोमा अभी नवर्चम् । अग्न आयूंषि-पवमानस्य ते कव इति बहिष्पवमानम् । माध्यंदिने प्र सोमासो विपश्चित इति गायत्राश्वसोमसामाशुभार्गवाणि । प्र सोम देववीतय इति पज्रगौङ्गवयौधाजयानि । स्वास्वौशनमन्त्यम् । आर्भवे स्वादिष्ठयेति गायत्रसंहिते । पवस्वेन्द्रमच्छेति सफाक्षारे । प्र सुन्वान इति गौरीवितगौतमपदनिधनशुद्धाशुद्धीयानि । काव- मन्त्यम् । सर्वे तृचा । अन्यत् सर्वं प्रथमाहवत् । सर्वं चतुर्विंशम् । अङ्गिरसामयनच्छन्दोमदशरात्रस्य प्रथमाहवदियं क्लृप्तिः ।।
द्वितीयस्याह्नः-पवस्व वाचः-पवस्वेन्दो वृषा सोम-वृषा- ह्यसि-एष उ षडृचम् । अया पवस्व-पवमानस्य ते वयम् इति बहिष्पवमानम् । माध्यंदिने वृषा पवस्वेति गायत्रयौक्ताश्वे । पुनानः सोमेति पृष्ठयशःकौल्मलबर्हिषैडमायास्यत्रिणिधनमायास्यानि । वृषा शोण इति वासिष्ठमन्त्यम् । आर्भवे यस्ते मद इति गायत्रहाविष्मते । पवस्वेन्द्रमच्छेति शङ्कुसुज्ञाने । अयं पूषेति गौरीवितभर्ग- क्रौञ्चोत्तराणि । वृषा मतीनामिति याममन्त्यम् । सर्वे तृचाः । अन्यत् सर्वं द्वितीयाहवत् । सर्वं चतुर्विंशम् ।।
तृतीयस्याह्नः-दवि-एते राजा तन्त्वानृ-पञ्चर्चम् । एष धियेति अष्टर्चम् । इषे पवस्व धारयेति बहिष्पवमानम् । अष्टर्चेऽन्त्याया उद्धारः । माध्यंदिने उच्चा त इति गायत्रक्षुल्लकवैष्टम्भसौमित्राणि । अभि सोमेति पौरुमद्गगौतमान्तरिक्षाष्कारणिधनकाण्वानि । तिस्रो वाच इत्यङ्गिरसांसंक्रोशोऽन्त्यः । सर्वे तृचाः । आर्भवे तिस्रो वाच इति गायत्रपाष्ठौहे । आसोता - सखाय इति वाचःसामशौक्ते । सुतासो मेति गौरीवितैडत्वाष्ट्रीसामत्रिणिधनत्वाष्ट्रीसामानि । पवित्रं त इत्यरिष्टमन्त्यम् । सर्वे तृचाः । अन्यत् सर्वं तुतीयाहवत् । सर्वं चतुर्विंशम् ।।
चतुर्थस्याह्नः-प्र त-अजीजनत्-प्रयद्गा-षडृचम् । आशु- ष्षडृचम् । बभ्रुष्षडृचे आद्यस्तृचः । हिन्वन्तीति बहिष्पवमानम् । माध्यंदिने पवस्व दक्षेति गायत्राथर्वणनिधनकामानि । तवाहं सोमेति आष्टादंष्ट्रोत्तरार्कपुष्पाभीशवाद्यस्वःपृष्ठाङ्गिरसानि । पुनानः इति सत्रासाहीयमन्त्यम् । सर्वे तृचाः । आर्भवे परि प्रिया दिवः कविरिति गायत्रौर्णायवबृहद्भारद्वाजानि । त्वं ह्यङ्ग दैव्य-सोमः पुनान ऊर्मिणेति बृहत्कातीषादीये । पुरोजितीति नानदान्धीगवे । सोमः पवत इति वात्सप्रमन्त्यम् । सर्वे तृचाः । अन्यत् सर्वं चतुर्थाहवत् । सर्वं चतुर्विंशम् । षोडशिसाम च ।।
पञ्चमस्याह्नः-गोविद् - विश्वविद् - अधन्विषुः - सप्तर्चम् । प्र कविः-सप्तर्चम् । यवं यवं चतुर्ऋचम् । यास्त इति बहिष्पवमानम् । प्रकविः सप्तर्चे अन्त्यं तृचमुद्धरेत् । माध्यंदिने अर्षा सोमेति गायत्रयण्वशाकलवार्शानि । सोम उ ष्वेति मानवानूपाग्नेस्त्रिणि- धनानि । यत्सोम चित्रमिति शैशवमन्त्यम् । सर्वे तृचाः । आर्भवे असाव्यंशुरिति गायत्रसन्तनिनी । अभि द्युम्नं प्राणा शिशुरिति च्यावनक्रोशे । पवस्व वाजसातय इति गौरीविताश्वत्रासदस्यवा- ष्टेडपदस्तोभास्तृचेषु । इन्दुर्वाजीति दाशस्पत्यमन्त्यम् । सर्वे तृचाः । अन्यत् सर्वं पञ्चमाहवत् । सर्वं चतुर्विंशम् ।।
षष्ठोऽध्यायः-द्वादशाहविकल्पाः [प्र. ३, ख. १५]
३१७
षष्ठस्याह्नः-ज्योतिर्-असृक्ष-वीरति-दशर्चम् । सनाच-सोमैकर्चम् । तरत्सम-चतुर्ऋचम् । एते सोमेति बहिष्पवमानम् । माध्यंदिने इन्द्रायेन्दविति गायत्रेषोवृधीयरेवत्यः । मृज्यमान इति स्वारमौक्ष्णो- रन्ध्रवाजजिद्वरुणसामगोष्ठाः । एतमु त्यमितीहवद्वामदेव्यमन्त्यम् । सर्वे तृचाः । आर्भवे परिस्वान इति गायत्रतृतीयवैदन्वते । स सु - तं वः सखेति दीर्घकार्णश्रवसे । सोमाः पवन्त इति गौरीवितमधुश्चु- न्निधनैडंक्रौञ्चानि । अया पवा पवस्वेति श्नौष्टमन्त्यम् । सर्वे तृचाः । अन्यत् सर्वं षष्ठाहवत् । सर्वं चतुर्विंशम् ।।
सस्तममहः प्रकृतिवत् ।।
अष्टमस्याह्नः-शिशुम्-एते सोमाभि-नवर्चम् । सोमः पुनानो- नवर्चम् । अया पवस्व धारयेति बहिष्पवमानम् । माध्यंदिने अध्वर्यो अद्रिभिः सुतमिति गायत्रवैरूपाशभार्गवमार्गीयवानि । अभि सोमेति द्विहिंकारवामदेव्यगायत्रपार्श्वपौरुहन्मनानि । धर्ता दिव इति उद्वद्- भार्गवमन्त्यम् । सर्वे तृचाः । आर्भवे पवस्व देव आयुषगिति गायत्रं तिसृषु । स्वाशिरामर्ककाक्षीवतभासानि सामतृचः । अभि द्युम्नं प्राणा शिशुरिति ऐषिरत्रैते । अभी नो वाजसातममिति गौरीवितैडंकौत्से । स्वासु धर्म । हिन्वन्तीति विशोविशीयमन्त्यम् । सर्वे तृचाः । अन्यत् सर्वमष्टमाहवत् । सर्वं चतुर्विंशम् ।।
नवमस्याह्नः-अक्रान्-एष देवो-दशर्चम् । एष धियेत्यष्टर्चम् । पवमानस्य ते कव इति बहिष्पवमानम् । माध्यंदिने पवमानस्य जिघ्नत इति गायत्रादारसृगृषभपवमानाः । परीतो षीति पृष्ठ- संकृतिदैर्घश्रवसदेवस्थानानि तृचेषु । असावि सोमेति दीर्घतमसो- ऽर्कोऽन्त्यः । सामराजं वा । सामराजान्त्यपक्षे पृष्ठस्य स्थाने
पृष्ठदीर्घतमसोऽर्कमाण्डवानि सामतृचः । आर्भवे त्वं सोमेति गायत्रं तिसृषु । आश्वसूक्तप्रतीचीनैडंकाशीतहाविष्मतानि सामतृचः । त्वं ह्यङ्ग दैव्य-पवस्व देववीतय इति सौपर्णवैश्वमनसे । परि त्यमिति गौरीवितसाध्रे । स्वासु धर्म । उपोषु जातमिति श्रुध्यमन्त्यम् । सर्वे तृचाः । अन्यत् सर्वं नवमाहवत् । सर्वं चतुर्विंशम् ।।
दशममहः प्रकृतिवत् ।। अग्निष्टोममपि चतुर्विंशम् ।।१ ५।।
[ चतुश्चत्वारिंशस्तोमद्वादशाहोऽष्टमः]
चतुश्चत्वारिंशस्तोमद्वादशाहमाह-
यथाष्टमम् ।। १६ ।।
इति । पूर्ववद्व्याख्येयम् ।। १६ ।।
अधिकारिणमाह-
तेनौजस्कामो वीर्यकामो वा ।। १७।।
इति । यजेतेत्यनुवर्तते । अस्य क्ल्रृप्तिः-आदित्यानामय- नीयच्छन्दोमदशरात्रवत् । स्तोमानुगुण्येनावापोद्वापौ कार्यौ ।
तत्र प्रथमस्याह्नः-अस्य प्रत्ना-नवर्चम् । एते सोमाभी-नवर्चम् । सोमः पुनानो-नवर्चम् । सोमा असृग्रन्नवर्चम् । पवस्ववृ-पञ्चर्चम् । पवमानस्य ते कव इति बहिष्पवमानम् । माध्यंदिने प्र सोमासो विपश्चित इति गायत्राश्वसोमसामाशुभार्गवमार्गीयवाभीकैडंसौपर्णं- रोहितकूलीयानि । प्र सोम देववीतय इति पज्रमेकस्याम् । तस्यामेव द्वैगतम् । पौरुहन्मनहारायणद्विहिंकारवामदेव्यगौङ्गवयौधाजयानि । स्वास्वौशनमन्त्यम् । आर्भवे स्वादिष्ठयेति गायत्रसंहितकाक्षीवत- भासशैशवजराबोधीयानि । पवस्वेन्द्रमच्छेति सफाक्षारे एकर्चयोः ।
षष्ठोऽध्यायः-द्वादशाहविकल्पाः [प्र, ३ ख. १५]
३१९
प्र सुन्वान इति गौरीवितवैश्वामित्रपदनिधनशुद्धाशुद्वीयस्वारकौत्सौ- रुक्षयौदलगौतमानि । कावमन्त्यम् । अन्यत् सर्वं प्रथमाहवत् । सर्वं चतुश्चत्वारिंशम् ।।
द्वितीयस्याह्नः- पवस्व वाचः-पवस्वेन्दो-वृषा सोम - वृषा ह्यसि एष देवो- दशर्चम् । एष उ षडृचम् । एष वाजी-षडृचम् । एष कविः-षडृचम् । उत्ते शुष्सासो अस्थू-चतुर्ऋचम् । पवमानस्य ते वयम् इति बहिष्पवमानम् । दशर्चस्यान्त्यं तृचमुद्धरेत् । माध्यं- दिने वृषा पवस्वेति गायत्रयौक्ताश्वसुरूपहरिश्रीनिधनाजिगस्वार- सौपर्णयौक्ताश्वऋषभपवमानाः । पुनानः सोमेति समन्तदैर्घश्रवसे प्रथमायाम् । पृष्ठयशःकौल्मलवर्हिषैडमायास्यत्रिणिधनमायास्यानि । वृषा शोण इति वासिष्ठमन्त्यम् । आर्भवे यस्ते मद इति गायत्र- हाविष्मतशाम्मददावसुनिधनाध्यर्धेडंसोमसामाश्वसूक्तानि । एष स्य धारया-पवस्व देववीतय इति शङ्कुसुज्ञाने एकर्चयोः । पवस्वेन्द्र- मच्छेति शङ्कुसुज्ञान इति वा । अयं पूषेति गौरीवितैडंकौत्सभर्गासित- यद्वाहिष्ठीयक्रौञ्चाद्यक्रौञ्चोत्तराणि । वृषा मतीनामिति याममन्त्यम् । अन्यत् सर्वं द्वितीयाहवत् । सर्वं चतुश्चत्वारिंशम् ।।
तृतीयस्याह्नः-दवि-एते राजा - तन्त्वानृम्णानि - पञ्चर्चम् । एष धियेत्यष्टर्चम् । असृग्रन्नवर्चम् । पवमाना असृक्षत-अपघ्नन्- प्र ते धाराश्चतुर्ऋचम् । इषेति बहिष्पवमानम् । माध्यंदिने उच्चा त इति गायत्रक्षुल्लकवैष्टम्भसौमित्रैटतसाकमश्वविलम्वसौपर्णाभीकानि । अभिसोमेति पौरुमद्गं प्रथमायाम् । सदोविशीयरौरवोभयतस्तोभ- गौतमान्तरिक्षाच्छिद्रमैधातिथानि । आष्कारणिधनमध्यास्यायाम् । तिस्रो वाच इति अङ्गिरसां संक्रोशोऽन्त्यः । आर्भवे तिस्रो वाच उदीरत इति गायत्रपाष्ठौहैडंसैन्धुक्षिताग्नेरर्कौशनसंहितानि । आ सोता सखाय इति वाचःसामशौक्ते एकर्चयोः । सुतासो मेति गौरीवित- साध्रश्यावाश्यैडंत्वाष्ट्रीसामस्वारंत्वाष्ट्रीसामत्रिणिधनत्वाष्ट्रीसामाभ्या- संत्वाष्ट्रीसामानि । पवित्रं त इत्यरिष्टमन्त्यम् । अन्यत् सर्वं तृतीयाहवत् । सर्वं चत्वारिंशम् ।।
चतुर्थस्याह्नः-प्र त-अजीजनत्-प्रयद्गा-षडृचम् । आशुष्षडृचम् । बभ्रुःषडृचम् । प्रस्वा-नवर्चम् । एष धियेत्यष्टर्चम् । हिन्वन्तीति बहिष्पवमानम् । माध्यंदिने पवस्व दक्षेति गायत्राथर्वणनिधन- कामादारसृचः । तवाह सोमेति आष्टादंष्ट्रोत्तरार्कपुष्पाद्ये प्रथमायाम् । पौरुहन्मनद्वैगतगौङ्गवबार्हदुक्थमाण्डवसमन्तयौधाजयाभीशवस्वःपृष्ठा - ङ्गिरसानि । पुनान इति सत्रासाहीयमन्त्यम् । आर्भवे परि प्रिया दिवः कविरिति गायत्रौर्णायवबृहद्भारद्वाजमार्गीयवानि । त्वं ह्यङ्ग दैव्य-सोमः पुनान ऊर्मिणेति वृहत्कातीषादीये एकर्चयोः । पुराजितीति नानदेडंशुद्धाशुद्धीयान्धीगववैतहव्यसोमसामक्रौञ्चाद्य- मधुश्चुन्निधनाकूपारबृहदाग्नेयानि । सोमः पवत इति वात्सप्रमन्त्यम् । अन्यत् सर्वं चतुर्थाहवत् । सर्वं चतुश्चत्वारिंशम् । षोडशिसाम च ।।
पञ्चमस्याह्नः-गोविद् -विश्वजिद्-अधन्विषुः - सप्तर्चम् । प्र कविः-सप्तर्चम् । यवं यवं-चतुर्ऋचम् । सोमा असृग्रन्नवर्चम् । उत्तेशु- पञ्चर्चम् । अयावीती-यास्ते धारेति बहिष्पवमानम् । माध्यंदिने अर्षा सोमेति गायत्रसंतनियण्वशाकलवार्शवार्षाहरापत्यानि । सोम उ ष्वेति वैष्णवोत्तरवैष्णवाद्ये प्रथमायाम् । मानवोत्तरानूपवाम्रयौक्त- स्रुचहारायणाग्नेस्त्रिणिधनानि । यत्साम चित्रमिति शैशवमन्त्यम् । आर्भवे असाव्यंशुरिति गायत्राध्यर्धेडंसोमसामगौषूक्तैडंसैन्धुक्षितानि ।
षष्ठोऽध्याय-द्वादशाहविकल्पाः [प्र, ३, ख. १५]
३२१
अभि द्युम्नं-प्राणा शिशुरिति च्यावनक्रोशे एकर्चयोः । पवस्व वाजसातय इति गौरीवितऋषभशाक्वरात्रेयरयिष्ठपार्थाश्वत्रासदस्यवा- न्धीगवश्यावाश्वाष्टेडपदस्तोभाः । इन्दुर्वाजीति दाशस्पत्यम् । अन्यत् सर्वं पञ्चमाहवत् । सर्वं चतुश्चत्वारिंशम् ।।
षष्ठस्याह्नः-ज्योतिर्-असृक्षत-वीरति- दशर्चम् । सना-दशर्चम् । तरत्सम- चतुर्ऋचम् । एष कविः-षडृचम् । ससुतः-षडृचम् । एते सोमेति बहिष्पवमानम् । ससुतः-षडृचे अन्त्याया उद्धारः । माध्यंदिने इन्द्रायेन्दविति गायत्रेषोवृधीयक्रौञ्चदार्ढ्यच्युतवाजदावर्य- रैवताश्वसूक्तानि । मृज्यमान इति ऐडमौक्ष्णोरन्ध्रस्वारमौक्ष्णोरन्ध्रे प्रथमायाम् । समन्तवाजजिद्वरुणसामार्कपुष्पोत्तरगोष्ठत्रिणिधन- मायास्यानि । एतमु त्यमिति इहवद्वामदेव्यमन्त्यम् । आर्भवे परिस्वान इति गायत्रतृतीयवैदन्वताद्यवैदन्वतहाविष्मतचतुर्थवैदन्वतेह- वदैध्मवाहप्रतीचीनेडंकाशीतपयांसि । स सु-तं वः सखेति दीर्घकार्ण- श्रवसे एकर्चयोः । सोमाः पवन्त इति गौरीवितमधुश्चुन्निधनान्धी- गववाङ्निधनक्रौञ्चैडंक्रौञ्चानि । अया पवा पवस्वेति श्नौष्टमन्त्यम् । अन्यत् सर्वं षष्ठाहवत् । सर्वं चतुश्चत्वारिंशम् ।।
सप्तमस्याह्वः-प्रका-प्रस्वा-नवर्चम् । असृग्रं-नवर्चम् । प्रयद्गा- षडृचम् । आशुः - षडृचम् । एष धियेत्यष्टर्चम् । आ ते दक्षमिति बहिष्पवमानम् । माध्यंदिने वृषा पवस्वेति गायत्रसंतन्यैडसौपर्ण- रोहितकूलीयगोषूक्तशाकलाजिगानि । पुनानः सोमेति गौङ्गव-पौरुमद्गे प्रथमायाम् । कण्वरथन्तरसोमसामद्विनिधनमायास्यैडमायास्य- वार्शभारद्वाजस्यपृश्नीनि । प्रो अयासीदिति प्रवद्भार्गवमन्त्यम् । आर्भवे यस्ते मद इति गायत्राग्नेरर्काध्यर्धेडंसोमसाममौक्षाणि । एष स्य धारया सखा-इति शार्करप्लवौ एकर्चयोः । पुरोजितीति गौरीवितकार्तयशक्षुल्लककालेयस्वारंत्वष्ट्रीसामानिधनत्वाष्ट्रीसामान्धी- गवक्रौञ्चाद्यगौतमानि । प्र वाज्यक्षेति सौहविषम् । ये सोमेति जरावोधीयमन्त्यम् । अन्यत् सर्वं सप्तमाहवत् । सर्वं चतुश्चत्वारिंशम् ।।
अष्टममहः प्रकृतिवत् ।।
नवमस्याह्नः-बहिष्पवमाने एष धियेत्यष्टर्चे उत्तरचतुर्ऋच- मुद्धरेत् । माध्यंदिने इडानांसंक्षारदैर्घश्रवसे उद्धरेत् । आर्भवे स्वारसौपर्णवैश्वमनसे एकर्चयोः । अन्यत् सर्वं नवमाहवत् । सर्वं चतुश्चत्वारिंशम् ।।
दशमस्याह्नः-असृक्षत प्रवाजिनः-पवमानस्य विश्ववित्- पवमानो धजीजनत्-एते असृग्रमिन्दवः-पवस्वेन्दो वृषा सुत- दधन्विषुः-सप्तर्चम् । प्र कविः-सप्तर्चम् । बभ्रुः-षडृचम् । अस्य प्रत्वा-नवर्चम् । इति बहिष्पवमानम् । माध्यंदिने उच्चा त इति गायत्रामहीयवाजिगाभीकगौषूक्तसत्रासाहीयवैरूपाणि । पुनानः सोमेति रौरवयौधाजये प्रथमायाम् । उभयतस्तोभगौतममहावैष्टम्भ- गौङ्गवोत्सेधयज्ञायज्ञीयनिषेधाः । आजाग्रविरिति गौरीवितमन्त्यम् । आर्भवे स्वादिष्ठयेति गायत्रसंहितजरावोधीयक्षुल्लकवैष्टम्भशैशव- मौक्षकाक्षीवतभासैडकौत्साग्नेरर्काः । पवस्वेन्द्रमच्छेति सफरोहितकूलीये एकर्चयोः । पर्यूष्विति श्यावाश्वान्धीगवे । परि प्रधन्वेति
षष्ठोऽध्यायः-द्वादशाहविकल्पाः [ प्र. ३, ख. १५]
३२३
सौहविषम् । सूर्यस्येति वाजजिदन्त्यम् । अन्यत् सर्वं दशमाहवत् । सर्वं चतुश्चत्वारिंशम् । समानसा दशमधर्माः कर्तव्याः ।।१७।।
[ अष्टाचत्वारिंशस्तोमद्वादशाहो नवमः]
अष्टाचत्वारिंशस्तोमद्वादशाहमाह-
यथा नवमम् । १ ८।।
इति । पूर्ववद्व्याख्येयम् ।।१ ८।।
अधिकारिणमाह-
तेन प्रतिष्ठाकामः प्रजतिकामो वा ।। १ ९।।
इति । यजेतेत्यनुवर्तते । अस्य क्लृप्तिः चतुश्चत्वारिंश- स्तोमद्वादशाहवत् कार्या ।
प्रथमस्याह्नः-बहिष्पवमाने पवमानस्य ते कव इति पर्यासस्य पुरस्तात् प्र ते धारा-चतुर्ऋचं निदध्यात् । माध्यंदिने पज्रद्वैगतयोस्तृचकरणम् । आर्भवे सफपौष्कलयोस्तृच- करणम् । सर्वमष्टाचत्वारिंशम् इति विशेषः ।
द्वितीयस्याह्नः-पवस्व वाचः-पवस्वेन्दो-वृषा सोम-वृषा ह्यसि- एष देवो-दशर्चम् । एष उ- षडृचम् । एष वाजी-षडृचम् । एष कविः-षडृचम् । उत्ते शु-पञ्चर्चम् । पवमानस्य ते कव इति बहिष्पवमानम् । माध्यंदिनार्भवयोः सर्वेषां तृचकरणमेव । सर्वमष्टा- चत्वारिंशमिति विशेषः ।।
तृतीयस्याह्नः-बहिष्पवमाने इषे पवस्वेति पर्यासस्य पुरस्तात् यवंयवं-चतुर्ऋचं निदध्यात् । माध्यंदिनार्भवयोः सर्वेषां तृचकरणमेव । सर्वमष्टाचत्वारिंशमिति विशेषः ।।
चतुर्थस्याह्नः-बहिष्पवमाने हिन्वन्तीति पर्यासस्य पुरस्तात् उत्ते शुष्मासो अस्थुश्- चतुर्ऋचं निदध्यात् । माध्यंदिनार्भवयोः सर्वेषां तृचकरणम् । सर्वमष्टाचत्वारिंशम् । षोडशिसाम च । इति विशेषः ।।
पञ्चमस्याह्नः-बहिष्पवमाने यास्ते धारेति पर्यासस्य पुरस्तात् प्र ते धाराश् -चतुर्ऋचं निदध्यात् । माध्यंदिने बृहत्यां सोम उ ष्वेति वैष्णवोत्तरमानवाद्यकालेयानि सामतृचः । हारायणमानवोत्तरानूप- वाम्राग्नेस्त्रिणिधनवैष्णवाद्ययौक्तस्रुचानि तृचेषु । आर्भवे उष्णिक्- ककुभोस्तृचकरणम् । सर्वमष्टाचत्वारिंशमिति विशेषः ।।
षष्ठस्याह्नः-ज्योतिर्-असृक्षत-वीरति-दशर्चम् । सना-दशर्चम् । तरत्सम-चतुर्ऋचम् । एष कविः-षडृचम् । ससुतः-षडृचम् । दवि-एते सोमेति बहिष्पवमानम् । माध्यंदिनार्भवयोस्तृचकरणम् । सर्वमष्टाचत्वारिंशम् इति विशेषः ।
सप्तमस्याह्नः-बहिष्पवमाने आ ते दक्षमिति पर्यासस्य पुरस्तात् उत्ते शुष्मासो अस्थुश्चतुर्ऋचं निदध्यात् । माध्यदिनार्भवयो- स्तृचकरणम् । सर्वमष्टाचत्वारिंशमिति विशेषः ।
अष्टमस्याह्नः-अया पवस्व धारयेति पर्यासस्य पुरस्तात् प्र ते धाराश्चतुर्ऋचं निदध्यात् । माध्यंदिनार्भवयोः सर्वेषां तृचकरणम् । सर्वमष्टाचत्वारिंशम् इति विशेषः ।।
नवममहः प्राकृतद्वादशाहवत् ।।
दशमस्याह्नः - असृक्षत-विश्ववित्-अजीजनत्-एते-पवस्वेन्दो- दधन्विषुः-सप्तर्चम् । प्र कविः-सप्तर्चम् । यवंयवं-चतुर्ऋचम् । अयावीती-अपघ्नन्-अस्य प्रत्ना-नवर्चमिति बहिष्पवमानम् । माध्यंदिनार्भवयोः सर्वेषां तृचकरणम् । सर्वमष्टाचत्वारिंशम् इति विशेषः ।।१९।।
षष्ठोऽध्यायः-द्वादशाहविकल्पाः [प्र. ३, ख. १५]
३२५
[ अविवाक्यद्वादशाहो दशमः]
अविवाक्यद्वादशाहमाह-
यथा दशमम् ।। २ ०।।।
इति । पूर्ववद्व्याख्येयम् ।।२०।।
अधिकारिणमाह-
तेन तेजस्कामो ब्रह्मवर्चसकामः प्रतिष्ठाकामः प्रजातिकामो वा । एवं प्राजापत्यं दशममहरिति हि भवतीति ।।२ १ ।।
स्पष्टम् । एतस्य प्रथमच्छन्दोमद्वादशाहक्लृप्तिरेव । दशस्वपि अहःसु अग्निष्टोमसामानि त्रयस्त्रिंशस्तोमान्येव कार्याणि । दशमेऽहन्येव मानसस्तोत्रम् । न त्वन्येषु अहःसु ।।२ १।।
इति तृतीये प्रपाठके पञ्चदशः खण्डः ।। १ ५।।
षोडशः खण्डः
बहुधा द्वादशाहभेदानुक्त्वा अतः परं न्यायेन द्वादशाहाना- मानन्त्यमाह अथातोऽनन्ता द्वादशाहा इति हि प्रतिदिशन्ति ।। इति । गतम् ।।१।।
आनन्त्यमेवोपपादयति-
यावन्त्यृवसामानि तावन्तो द्वादशाहास्ततो वा भूयांसः ।।२।।
इति । सामवेदस्य सहस्रशाखत्वात् तेषु ऋचां साम्नामनन्तत्वात् तानपेक्ष्य ततो वा भूयांस इत्युक्तिः । दश रात्रसंवत्सरैकाहिकाहीनसत्रक्षुद्रतन्त्रेष्वधीतेषु सामसु पावमानिकानि पवमानेषु, पार्ष्ठिकानि पृष्ठेषु, औक्थिकानि उक्थेषु, बहिष्पाव- मानिकानि बहिष्पवमानेषु यथायोग्यम् एकं साम दाशरात्रिक- स्यैकस्य साम्नः स्थाने निधाय स्तुते एको द्वादशाहः । एवमस्मच्छाखोक्तैर्ऋक्सामैरेव द्वादशाहानामानन्त्यं सिद्धमेव । पुनश्च भूयांस इति वचनात् सहस्रशाखागतसाम्नामपि निवेशनेना- प्यनन्तस्याप्यानन्त्यं सिद्धयति ।।२।।
एवमनन्तानां द्वादशाहानां क्लृप्तिप्रकारमाह-
तेषामाहारं कल्पयेत् । स यदा सर्वा ऋचः समियात् सर्वाणि सामानि सर्वान्त्स्तोमान् ।।३ ।।
इति । समियात् जानीयादित्यर्थः । त्रिवृदादिस्तोमैः पृथक्-पृथक्
षष्ठाऽध्यायः-द्वदशाहविकल्पाः [प्र. ३, ख. १६]
३२७
द्वादशाहस्योक्तत्वात् अत्र सर्वान् स्तोमान् इति वचनम् एकिप्रभृत्यष्टाचत्वारिंशस्तोमपर्यन्तग्रहणार्थम् ।।३।।
सर्वेषाम् ऋक्सामस्तोमानामेकत्र कल्पयितुमशक्यत्वात् ऋक्- सामस्तोमानां कथं कल्पनमित्यत्राह-
अप्येकतृचमाहृत्यान्यस्य स्थानेऽनुकल्पयेत् । तत एव सोऽन्यः कल्पो भवतीति ।।४।।
इति । अन्यस्य दाशरात्रिकतृचस्य स्थान इत्यर्थः । एवं साम्नां स्तोमानां च सोऽन्यः कल्पो भवतीति । कल्पो यज्ञः ।।४।।
उक्तार्थे दृष्टान्तमाह-
पश्यामो हि वयमेकतृचेनैवाप्यन्यं कल्पं भवन्तं
यथा भवति । एतस्यैव रेवतीषु वारवन्तीय-
मग्निष्टोमसाम कृत्वा पशुकामो यजेतेति ।। अपि वैकं स्तोममाहृत्यान्यस्य स्थानेऽनुकल्पयेत् । तत एव सोऽन्यः कल्पो भवतीति । पश्यामो हि वयमेकस्तोमेनैवाप्यन्यं कल्पं भवन्तं यथा भवति । एतस्यैवैकविंशमग्निष्टोमसाम कृत्वामयाविनं याजयेदिति ।।५।।
इति । स्पष्टम् ।।५।।
एवं वेदगतैर्ऋक्सामैरानन्त्यमुक्त्वा द्वादशाहिकरात्र एव न्यायेन आनन्त्यकल्पनमाह-
अपि वा प्रतिपदावेवान्योन्यस्य स्थानं व्यति-
हरेत् । स्तोमो वा कल्पौ वा तन्त्रे वा पृष्ठे वा
संस्थे वा सामनी वा तत एव सोऽन्यः कल्पो
भवति ।। ६ ।।
इति । प्रतिपदादीनामेकैकेनैकैको द्वादशाह इति तेषामानन्त्यम् ।
प्रथमस्याह्नः-अस्य प्रत्नामिति तृचस्थाने पवस्व वाचोऽग्र्य इति निदध्यात् ।।
द्वितीयस्याह्नः-पवस्व वाचोऽग्र्य इति प्रतिपदस्थाने अस्य प्रत्नामिति तृच निदध्यात् । एवं प्रतिपदव्यत्यासात् बहवः । प्रथमस्याह्नः-पञ्चदशस्तोमत्वम् ।
द्वितीयस्याह्नः स्त्रिवृत्स्तोमत्वम् । एवं स्तोमस्य व्यत्यासात् बहवः । प्रथमाहस्थाने द्वितीयमहः । द्वितीयाहस्थाने प्रथममहः । एवं कल्पभेदात् बहवः । प्रथमेऽहनि औशनस्य स्थाने वृषा शोण इति वासिष्ठं माध्यदिनान्त्यम् । द्वितीयेऽहनि वासिष्ठस्य स्थाने स्वास्वौशनम् । यद्वा ।
द्वितीयस्याह्नः-वृषा पवस्व धारयेति गायत्रस्य स्थाने उच्चा त इति गायत्रस्य निवेशः ।
तृतीयेऽह्नि उच्चा त इति गायत्रस्य स्थाने वृषा पवस्वेति । एवं तन्त्रव्यत्यासेन बहवो द्वादशाहाः । प्रथमस्य बृहत्पृष्ठत्वम् । द्वितीयस्य रथन्तरम् । एवं पञ्चमस्य
षष्ठाऽध्यायः-द्वादशाहविकल्पाः [ प्र. ३, ख. १६]
३२९
वारवन्तीयम् । षष्ठस्य शाक्वरम् । एवं पृष्ठस्य व्यत्यासात् बहवः । अत्र वैरूपवैराजयोर्व्यत्यासो न कार्यः । षोडश्यपाय- प्रसङ्गात् । विराडपाये स्वराजोऽपयन्तीति वचनात् । यद्वा । वैरूपवैराजयोर्व्यत्यासः कार्यः । विराडपायेऽपि निदानकारेण स्वराजां विधानादिति प्रथमस्याह्नः यज्ञायज्ञीयस्तोत्रीयानन्तरं साकमश्वामहीयवाष्टादंष्ट्रान्युक्थानि । द्वितीयमहरग्निष्टोमसंस्थम् । एवं संस्थाभेदाद् बहवः । द्वितीयस्याह्नः-पुनानः सोमेति ऐडमायास्यस्थाने पोरुमद्गस्य निवेशः ।।
तृतीयस्याह्नः-अभि सोमेति पौरुमद्गस्य स्थाने ऐडमायास्यस्य निवेशः । एवं ग्राम्याणां ग्राम्याणि सामानि । आरण्यानामारण्यानि । एवं सामव्यत्यासात् बहवः । यद्वा । दशरात्रे आश्वसोमसामादि- सर्वसाम्नां क्रमव्यत्यासादपि बहवः । एवं सूत्रोक्तन्यायेन अनन्ता द्वादशाहा ऊह्याः । ग्रन्थविस्तरभयान्न लिख्यत इति ।।६।।
एतेन प्रदेशेनापार एव द्वादशाहानां विद्यते न पार इति । न पार इति ।।७।।
इति । स्पष्टम् ।। सवप्रकृतिभूताग्निष्टोमस्य वाचस्तोमात्मकत्वे स्तोमानामनन्ततया आनन्त्यमुक्तम् । द्वादशाहस्य तु-प्रजापतिर्वा एष द्वादशधा विहितो यद् द्वादशरात्रः( तै० सं० ७.२.९.३) इति । ब्रह्म वै प्रजापतिः (माश० १३.६.२.८) इति च । यज्ञो वै प्रजापतिः ( तै. सं.० २.५.७.३) इति च । प्रजापतिर्वावैष सन् सद्ध वै सत्रेण स्पृणोती-(तै० सं० ७.२.९.३) त्यादितैत्तिरीयश्रुत्या प्रजापतिरकामयत । प्रजायेय भूयान् स्यामिति । स तपोऽतप्यत । स तपस्तप्त्वेमं द्वादशाहमपश्यत् । आत्मन एवाङ्गेषु च प्राणेषु च तमात्मन एवाङ्गेभ्यश्च प्राणेभ्यश्च द्वादशधा निरममीत । तमाहरत् तेनायजत (ऐ० ब्रा० ४.२३) इति । अन्यत्र च- स वा अयं प्रजापतिः संवत्सरः । ऋतुषु च मासेषु च प्रत्यतिष्ठन् । ते वा इम ऋतवश्च मासाश्च प्रजापतावेव संवत्सरे प्रत्यतिष्ठंस्त एतेऽन्योऽन्यस्मिन् प्रतिष्ठिता एवं ह वाव स ऋत्विजि प्रतितिष्ठति । यो द्वादशाहेन यजत (ऐ० ब्रा० ४.२५) इति । प्रजापतियज्ञो वा एष यद्द्वादशाहः (ऐ० ब्रा० ४.२५) इति च । द्वादश मासा संवत्सरः । संवत्सरः प्रजापतिः (ऐ० ब्रा० १.१३) इति च । द्वादशाहस्य द्वादशाना- मप्यह्नां प्रजापतेरन्नादा चान्नपत्नी च भद्रा च कल्याणी च निलया चानिलया चाप्तानाप्ता वानाप्या चानाधृष्या चाप्रतिधृष्या चापूर्वा चाभ्रातृव्या चेति तन्व इति द्वादशतन्वात्मकत्वात् प्रजापतिस्वरूपत्वम् (द्र. ऐ० ब्रा० ५.२५) । सवस्यापि यज्ञस्य दीक्षणीयाप्रायणीयातिथ्योपसत्त्त्रयाग्नीषोमीयसवनत्रयावभृथानुबन्ध्यानुरूपद्वादशतनु - कत्वाच्च प्रजापतिरूपत्वमिति । शुक्रेण ज्योतींषि समनुप्रविष्टः प्रजापतिश्चरति गर्भे अन्तः ( महाना० उ० १. १) इति । प्रजापतिश्चरति गर्भे अन्तरजायमानो बहुधा विजायते मा- सं- ३१. १९) इति । प्रजापतिः प्रथमजा ऋतस्यात्म- नात्मानमभिसंबभूवे- ( महाना० उ० २.७ )ति । अन्यत्र- आत्मनात्मानमभिसंविवेश( मा० सं० ३२.११) इति । स प्रजापतिरेकः पुष्करपर्णे समभवत् ( तै० आ०- १.२३. १) । सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् ( छां० उ० ६.२.१) इति । प्रजापतिर्वा इदमेक आसीत् (तै० सं० २.१.१ .४) इति । आत्मा
षष्ठोऽध्यायः-द्वादशाहविकल्पाः [प्र.३, ख. १६।
३३१
वा इदमेक एवाग्र आसीत (ऐ० उ० १ .१) । ब्रह्म ह वा इदमग्र आसीद् ( वृ० उ० १.४.१०) । प्रजापतिरिदं ब्रह्म वेदानां ससृजे रसम (ऐ० आ० ५ .३.२) । तत् सृष्ट्वा तदेवानुप्राविशत तै० उ० २.६.१।। । बहु स्यां प्रजायेय (तै० आ० ८.६. १) इति च । बह्वीभिः श्रुतिभिः प्रजापतेर्ब्रह्मत्वाद् द्वादशाहस्य तद्रूपत्वाच्च ब्रह्मवत् स्वरूपत एवानन्यमित्याचार्याणामाशयः । उक्तं च भगवताश्वलायनेन द्वादशाहप्ररणे-अथ सामान्यम । अपरिमित- त्वाद्धर्मस्य प्रदेशान् वक्ष्यामः यथा हि परिमिता वर्णा अपरिमितां वाचोगतिमाप्नुवन्त्येवमेव परिमितानामह्नामपरिमिताः संघाताः । सिद्धानि त्वहानि । तेषां यः कश्च समाहारः सिद्धमेव शस्यम (आ० श्रौ० १०. ५ .१४-१७) इति । एवं ब्रह्मवत द्वादशाहोऽप्यनन्तः । वाग्वै द्वादशाहः ( तै. सं० ७.४.५.३) । वाग्वा एषा वितता यद् द्वादशाहः ( तै० सं० ७.३.३.१-२) । प्रजापतिर्हिं वाक् (तै० ब्रा- १.३.४.५) । वाग्वै यज्ञः ( ऐ० ब्रा० ५. २४) । वाग्वै क्रतुः । यज्ञमुखं वाक् ( तै० सं० ५ .३. ३.५) प्रजापतिर्मा त्वा श्रियं गच्छतीत्यादिश्रुत्या श्रीवाग्रूपत्वं चेति सर्वं समञ्जसम् ।।७।। सहस्रधारः साहस्रः सहस्राक्षः सहस्रगः ।
सहस्रशाखसामात्मा सहस्रार्चिः सहस्रकः ।।१ ।।
श्लिष्टो लक्ष्म्या च साहस्र्या सहस्राक्षरया श्रिया ।
साहस्रासौ दक्षिणया प्रीयतां वेङ्कटाधिपः ।।२।।
सामगाचार्यकृपया ताताचार्यप्रसादतः ।
अनुग्रहाद् गुरूणां च ब्राह्मणानां कटाक्षतः ।।३।।
शतक्रतुचतुर्वेदिश्रीनिवासाख्ययज्वना ।
षष्ठोऽध्यायः क्षुद्रकल्पे व्याख्यायि प्रीतये हरेः ।।४।।
इति तृतीये प्रपाठके षोडशः खण्डः ।।१६।।
तृतीयः प्रपाठकः समाप्तः ।।३।।
इति श्रीमद्रामानुजसिद्धान्तस्थापनाचार्यशतक्रतुचतुर्वेदि- श्रीनिवासाचार्यविरचिते क्षुद्रकल्पसूत्रभाष्ये षष्ठोऽध्यायः ।।६ ।।
क्षुद्रकल्पसूत्रं समाप्तम् ।।