कल्पः/श्रौतसूत्राणि/क्षुद्रकल्पसूत्रम्/अध्यायः ४

विकिस्रोतः तः

अथ चतुर्थोऽध्यायः
द्वितीये प्रपाठके दशमः खण्डः

श्रीकल्पसूत्रोपग्रन्थकृतो गुरुवरान् भजे ।
श्रीगार्ग्यमशकद्राह्यायणकात्यायनाह्वयान् ॥
अत्र क्षुद्रकल्पसूत्रे पूर्वत्रिकेण प्रतिपदादिभिः सर्वप्रकतिभूत ज्योतिष्टोमविचारानुक्त्वा अतः परमुत्तरत्रिकेणाहर्गणप्रकतिभूत द्वादशाहविचारान् विवक्षुर्भगवान् गार्ग्यमशकाचार्यो द्वादशाहान्तर्गत पृष्ठ्यषडहस्य द्वाविंशतिधा भिन्नान् विचारान् शाखान्तरीयब्राह्मणानुसारेण वक्तुमारभते --
अथातः षडहस्य पृष्ठतो विचाराः ॥१॥
अथ सर्वप्रकृतिभूतज्योतिर्विचारानन्तरम् । अतः ज्योतिर्विचारस्य वृत्तत्वात् हेतोः षडहस्य पृष्ठतो विचाराः आरभ्यन्त इति शेषः । पृष्ठेष्वेव सामभेदेन विविधकल्पनाविचारः । तदुक्तं निदाने-अथ पृष्ठानामनुकल्प (उ० ग्र० सू० २.९) इति ब्राह्मणोक्तस्य--पृष्ठ्यषडहानन्तरं प्रवृत्तत्वादेतेषामनुकल्पत्वम्। न तु व्रीहिनीवारवत् प्रतिनिधित्वम् । विचारशब्देनैव विविधकल्पस्योक्तत्वात् तेन प्राकृतषडहेन सहैते षडहविचाराः व्रीहियववत् विकल्पन्ते । ते च द्वाविंशतिः । आद्यः पृष्ठय्स्तोमः। द्वितीयो नानापृष्ठ्यः । प्राकृतः परोक्षपृष्ठ्यस्तृतीयः। सर्वपरोक्षपृष्य््श्चतुर्थः । उभय परोक्षपृष्ठ्यः पञ्चमः। उपाङ्क्यपृष्ठ्यः षष्ठः। अन्वाहार्यपृष्ठ्यः सप्तमः। धर्मभेदेनोपाङ्क्यपृष्ठान्वाहार्यपृष्ठावष्टमनवमौ। पुरस्ताज्ज्योतिःषडहो दशमः । उपरिष्टाज्ज्योतिःषडह एकादशः । बृहद्रथन्तरपुरस्ताज्ज्योतिःषडहो द्वादशाहः। बृहद्रथन्तरोपरिष्टाज्ज्योतिः षडहस्त्रयोदशः । परोक्षापर्क्यपृष्ठ्यश्चतुर्दशः । प्रत्यक्षापर्क्यपृष्ठ्यः पञ्चदशः । परोक्षप्राक्यपृष्ठ्यः षोडशः । प्रत्यक्षप्राङ्क्यपृष्ठ्यः सप्तदशः । बृहद्रथन्तरपृष्ठ्योऽनुगृहीतपृष्ठ्योऽष्टादशः । बृहद्रथन्तरपृष्ठ्योऽनु
गृहीतपरोक्षपृष्ठ्य एकान्नविंशः। नानापृष्ठ्योऽनुगृहीतबृहद्रथन्तरो विंशः । नानापृष्ठ्योऽनुगृहीतबृहद्रन्तरपरोक्षतर एकविंशः । ब्रह्मसामपृष्ठ्यो द्वाविंशः ॥१॥
[पृष्ठयस्तोमः ]
तत्र प्रथमस्वरूपमाह--
बृहद्रथन्तरपृष्ठः षडहः समूढः ॥२॥ इति । षट्स्वप्यहःसु रथन्तरबृहती एव व्यत्यासेन पृष्ठे यस्य षडहस्य स तथोक्तः । ब्राह्मणे व्यूढस्यैवोक्तत्वात् तद्विकृतित्वादेतस्यापि व्यूढत्वप्राप्तावाह समूढ इति ॥२॥
पृष्ठ्यस्तोमसप्तरात्रवत् क्लृप्तिमाह--
तस्य कल्पो यथा पृष्ठ्यस्तोमस्य यद्याहीनिकः ॥३॥
इति । गतम् ॥३॥
द्वादशाहस्याहीनसत्रोभयात्मकत्वात् तदङ्गत्वात् पृष्ठ्यषडहस्य तत्र तत्र भूते विशेषमाह--

चतुर्थोऽध्यायः-पृष्ठ्यषडहानुकल्पाः [प्र. २, ख. १०]
१४७

अथ यदि सात्रिकः स एव सन् गौरीवितस्वरः ॥४॥
इति । स्पष्टम् । अत्र चतुर्थेऽहनि कल्पकारमतान्नानदस्तोत्रीये गौरीवितं षोडशिसाम कार्यम् । यद्वा । इन्द्रं जुषस्वेति स्वराट्सु गौरीवितं षोडशिसाम । तदुक्तं निदाने--अथ बृहद्रथन्तरपृष्ठे द्वादशाह इत्युपक्रम्य खण्डान्ते एते न मन्यन्ते स्वराज एवेह प्रत्येतव्याः । एता हि प्राकृताश्च भवन्ति । न्यायतराश्चैताश्चैवानादेशे सर्वत्र क्रतुषु प्रतियन्त्येतेनाविच्छिन्नस्य बृहद्रथन्तरपृष्ठः षडहस्य षोडशिस्तोत्रीयो व्याख्यातो यश्चैव षडहविचारेषु यश्च संसत्स्विति यश्च संसत्स्विति (उ० ग्र० सू० ३. ७) इति । स्पष्टम् ॥४॥
[ नानापृष्ठयः ]
द्वितीयस्वरूपमाह--
अथातो नानापृष्ठ्यः षडहः ॥५॥
इति । नानाविधानि नानापृष्ठानि। तेषां समूहः नानापृष्ठ्यः । पृष्ठादुपसंख्यानम् ( पा० वा० ४. २. ४२) इति यन् प्रत्ययः । रथन्तरबृहद्वैरूपवैराजशाक्वररैवतानि पृष्ठानि ॥५॥
समूढो वा व्यूढो वा ॥६॥
इति । शाखान्तरीयमतात् ॥६॥
अस्मद्ब्राह्मणरीत्या च समूढव्यूढयोः अनियममुद्भाव्य नियममाह--
समूढस्त्वेव ॥७॥
इति । तु-शब्दः पक्षान्तरव्यावृत्त्यर्थः। एवकारोऽवधारणार्थः । एतस्य षडहस्य षड्भिरहोभिनिर्वर्त्यमानत्वात् नवरात्रापूर्तेर्विच्छिन्नत्वात् त्रिष्टुपच्छन्दसो व्यूढाभावाच्च समूढ एव ज्यायान् । यत्र सछन्दोमः पृष्ठ्यः षडहस्तत्र व्यूढसमूढयोर्विकल्पः । यत्र विच्छन्दोमस्तत्र समूढ एवेत्याचार्यस्याशयः । तदुक्तं निदाने-तदप्येवमिव ब्राह्मणं भवति । नर्ते छन्दोमेभ्यः पृष्ठ्यो व्यूहमानशः (नि० सू० ५.६) इति ॥७॥
क्लृप्तिमाह--
तस्य कल्पो यथर्तूनां षडहस्य यद्याहीनिकः ॥८॥
इति । स्पष्टम् ॥८॥
अथ यदि सात्रिकः स एव सन् गौरीवितस्वरः ॥९॥
इति । गतम् ॥९॥
[ परोक्षपृष्ठयः ]
तृतीयस्वरूपमाह--
अथातः परोक्षपृष्ठः षडहः ॥१०॥
इति । परोक्षे बृहद्रथन्तरे पृष्ठे यस्य स तथोक्तः ॥१०॥
क्लृप्तिमाह--
तस्य कल्पः । प्रथमस्याह्नोऽभि त्वा शूर नोनुम (सा० ६८०-१) इति कण्वरथन्तरं पृष्ठम् । द्वितीयस्याह्नः - त्वामिद्धि हवामह

चतुर्थोऽध्यायः-पृष्ठयषडहानुकल्पाः [प्र. २, ख. १०]
१४९

(सा० ८०९-१०) इति बृहन्निधनं वार्कजम्भम् । कण्वबृहद्वा । आ त्वा सहस्रमाशतम् (सा० १३९१-३) इत्येतेषां द्वितीयम् । प्रज्ञातपृष्ठ उत्तरश्चतुरहः ॥११॥
इति । आ त्वा सहस्र-(सा० १३९१-३)मिति वचनं कण्वबृहतो योनित्वप्रदर्शनार्थम् । न त्वत्र स्तोत्रीयार्थम् । प्रज्ञातपृष्ठ इति वैरूपवैराजशाक्वरवारवन्तीयानि प्रज्ञातानि प्रत्यक्षाणि यस्मिन् तृतीयादिचतुरहे स तथोक्तः ॥११॥
[ सर्वपरोक्षपृष्ठ्यः ]
चतुर्थस्वरूपमाह--
अथातः सर्वपरोक्षपृष्ठः षडहः ॥१२॥
इति । सर्वाणि रथन्तरबृहद्वैरूपवैराजशाक्वररैवतानि परोक्षाणि पृष्ठानि यस्य स तथोक्तः ॥१२॥
षण्णां पृष्ठानां परोक्षसामान्याह--
तस्य कल्पः । एते एव प्रथमद्वितीययोरह्नोः
पृष्ठे ॥१३॥
इति । कण्वरथन्तरकण्वबृहती कण्वरथन्तरबृहन्निधनवार्कजम्भे वा ॥१३॥
तृतीयस्याह्नो-यद्याव इन्द्र ते शतम् ( ८६२-३ ) इति ह्रस्वाबृहदोपशा । अन्तरिक्षं वा ॥१४॥
इति । स्पष्टम् ॥१४॥
अन्तरिक्षस्य लोकेऽञ्जोवैरूपमनु कल्पयेत् ॥१५॥
इति । माध्यंदिनपवमाने अभि सोमास (सा० ८५६-८) इति तृचेऽन्तरिक्षस्य स्थानेऽञ्जोवैरूपं गायेदित्यर्थः ॥१५॥
पृष्ठस्थाने पक्षान्तरेण सामान्तरमाह
महावैष्टम्भं वा ॥१६॥
इति । यद् द्याव (सा० ८६२-३) इति तृच एव ॥१६॥ संचारदोषपरिहारार्थं ब्रह्मणः पृष्ठे सामान्तरं विधत्ते--
महावैष्टम्भस्य लोकेऽभिनिधनं काण्वम् ॥१७॥ ।
इति । वयं घ त्वेति तृच एव ॥१७॥
चतुर्थस्याह्नः - पिबा सोममिन्द्र मन्दतु त्वे- ( सा० ९२७-६) त्यृषभोवैराजः सहोदैर्घ
तमसं वा हाउ पिबेत्येतत् ॥१८॥
इति । योनौ सहोदैर्घतमसद्वये द्वितीयं गेयमित्यर्थः ॥१८॥
सामान्तरमाह--
वसिष्ठस्य वा वैराजम्-अग्निं नर (सा. १३७३-५) इत्येतयोरुत्तरम् ॥१९॥
इति । स्पष्टम् ॥१६॥
पञ्चमस्याह्नस्-त्रिकद्रुकेषु महिषो यवाशिरम् (सा० १४८६-८) इति नित्यवत्साः ॥२०॥
इति । स्पष्टम् । एतासु शक्वरीस्थप्रचेतनप्रचेतययोः प्रत्यक्षपदयोनिधनात् नात्यन्तपरोक्षं नित्यवत्सानामिति ॥२०॥


चतुर्थोध्यायः-पृष्ठयषडहानुकल्पा: [प्र. २, ख. १०]
१५१

सामान्तरमाह
अतीषङ्गाणां वा प्रथमम् - इन्द्रायाहि चित्रभानो (सा० ११४६-८) यदिन्द्रचित्रम इह ने-(सा० ११७२-४)त्येतासु गायत्रीषु चानुष्टुप्सु च ॥२१॥
इति । गतम् । गायत्र्यनुष्टुभोर्मेलनात् सप्तपदात्वेन शक्वरीत्वात् सिमानां पारोक्ष्यमेतेषां सुसंगतम् । विदा मघवन्नि-(सा० ९४१-९४९)त्येतासु प्रत्यक्षास्वृक्षु अन्यस्य साम्नोऽभावात् ऋगन्तरेषु सामान्तरं कल्पितमाचार्येण । तदुक्तं निदाने-न तु पञ्चमे भेदान्न हि महानाम्नीष्वन्यद् (उ०ग्र०सू० २. १०) इति । सूत्रे च--न ह्येतास्वन्यत् सामापद्यतेऽपि हवा पृष्ठस्तोत्रीयेषु परोक्षाणि कुर्वन्नैतासु नित्यवत्साः करोति (ला० श्रौ० १०. २. २-३) इति ॥२१॥
षष्ठस्याह्रो वारवन्तीयं पृष्ठम् ॥२२॥
इति । गतम् ॥२२॥
ननु प्राकृतषडहे वारवन्तीयस्यैव प्रत्यक्षपृष्ठत्वात् अत्र परोक्षपृष्ठत्वविधानं कथमिति चेत् । मैवम् । सर्वत्र रेवतीनामेव प्रत्यक्षत्वात् । तैत्तिरीयादिशाखास्वपि षट्पृष्ठग्रहणे रेवतीनामेव ग्रहणात् वारवन्तीयस्य रेवतीर्ण (सा० १०८४-६) इति तृचे पारोक्ष्यमेव । अत एव माध्यंदिनपवमाने रेवतीनां प्रत्यक्षत्वात् तत्स्थाने परोक्षं सामान्तरमाह--
रेवतीनां लोके दार्ढच्युतम् ॥२३॥
इति । गतम् । दार्ढच्युतस्य निधनत्वात् प्राकृतवत् जामिदोषाभावात् ॥२३॥
ऐडेन बृहतीमारभन्ते (तां० ब्रा० ७.३.१४) इति श्रुत्यनुग्रहार्थमौक्ष्णोरन्ध्रयोर्व्यत्यासमाह--
विपरिहरत्यौक्ष्णोरन्ध्रे ॥२४॥
इति ॥२४॥
इति द्वितीये प्रापठके दशमः खण्डः ॥ ०॥
एकादशः खण्डः
[ उभयपरोक्षपृष्ठ्यः ]
पञ्चमस्वरूपमाह—
अथात उभयतः परोक्षपृष्ठः षडहः ॥१॥
इति ॥१॥
उभयशब्दं स्वयमेव व्याचष्टे--
ऋक्तश्चैव सामतश्च ॥२॥
इति ॥२॥
क्लृप्तिमाह--
तस्य कल्पः । प्रथमस्याह्नो-ऽभित्वा पूर्वपीतये (सा० १५७३-४) इति कण्वरथन्तरं पृष्ठम् ॥३॥
द्वितीयस्याह्नस्-- त्वं ह्येहि चेरव (सा० १५८१-२) इति बृहन्निधनं वार्कजम्भम् । कण्वबृहद्वा ।

चतुर्थोऽध्यायः-पृष्ठ्यषडहानुकल्पा: [प्र. २, ख. ११]
१५३

आ त्वा सहस्रमाशतम् (सा० १३९१-३) इत्येतेषां द्वितीयम् ॥४॥
तृतीयस्याह्नो-यदिन्द्र यावतस्त्वम् (सा० १७९६-७) इति ह्रस्वा बृहदोपशा । अन्तरिक्षं वा ॥५॥
अन्तरिक्षस्य लोकेऽञ्जोवैरूपमनुकल्पयेत् । । महावैष्टम्भं वा ॥६॥
महावैष्टम्भस्य लोकेऽभिनिधनं काण्वम् ॥७॥
चतुर्थस्याह्नः - श्रुधी हवं विपिपानस्याद्रेर् (सा० ८८३-५) इत्यृषभोवैराजः सहोदैर्घतमसं वा हाउ पिबेत्येतत् ॥८॥
वसिष्ठस्य वा वैराजम्-अग्निं नर (सा० १३७३-५) इत्येतयोरुत्तरम् ॥९॥ पञ्चमस्याह्नः-प्रोष्वस्मै पुरोरथम् (सा० १८०१-३) इति नित्यवत्साः ॥१०॥ अतीषङ्गाणां वा प्रथमम्-इन्द्रायाहि चित्रभानो (सा० ११४६-८) यदिन्द्र चित्रम इह ने-(सा० ११७२-४)त्येतासु गायत्रीष्वनुष्टुप्सु च ॥११॥
षष्ठस्थाह्नो-रेवाँ इद्रेवत स्तोते-(सा० १८०४-६)ति वारवन्तीयं पृष्ठम् ॥१२॥
रेवतीनां लोके दार्ढच्युतम् ॥१३॥ विपरिहरत्यौक्ष्णोरन्ध्रे ॥१४॥
इति । पूर्ववद् व्याख्येयम् । प्रोष्वस्मा इति तृचस्य स्वत एव सप्तपदात्वात् शक्वरीपारोक्ष्यं संगतमेव ॥१४॥
इति द्वितीये प्रपाठके एकादशः खण्डः ॥१५॥


द्वादशः खण्डः
[ उपाङ्यपृष्ठ्यान्वाहार्यपृष्ठ्यौ ]
षष्ठसप्तमयोः स्वरूपमाह----
अथात उपाङ्क्यपृष्ठश्चान्वाहार्यपृष्ठश्च षडहौ ॥१॥
इति । अङ्कशब्दः स्थानवाची । उप पृष्ठस्य समीपे माध्यंदिनपवमाने अङ्कं स्थानमर्हन्तीति उपाङ्क्यानि । तानि पृष्ठानि यस्मिन् स तथोक्तः । अनु होतुः पृष्ठस्य पश्चात् आर्भवे आहार्याणि कल्प्यानि पृष्ठानि यस्मिन् स तथोक्तः ॥१॥ क्लृप्तिमाह--
तयोः कल्पः । प्रत्यक्षाणि पृष्ठानि प्रत्यक्षेषु पृष्ठस्तोत्रीयेषु परोक्षाणि माध्यंदिनेषु । बृहतीषु पञ्चानामह्नाम् । गायत्रीषु षष्ठस्य। स उपाङ्क्यपृष्ठः षडहः ॥२॥
इति । स्पष्टम् । अस्य क्लृप्तिः । अत्र निदानम्--अथ पृष्ठानामनुकल्पः। प्रथमेऽहनि रथन्तरपरोक्षे त्रिणिधनमध्येनिधनयोः स्थाने तृचस्थे स्याताम् । प्रतिष्ठोक्तोहगीति

चतुर्थोऽध्यायः-पृष्ठ्यषडहानुकल्पाः [प्र. २, ख. १२]
१५५

ब्रह्मरहस्यापचितिं तस्मात् बृहद्रथन्तर एकर्च्चे न कुर्वन्ति (उ० ग्र० सू० २. ९) इति । प्रथमस्याह्नः--प्र सोमासो विपश्चित इति गायत्राश्वसोमसामानि सामतृचः । प्र सोम देववीतय इति कण्वरथन्तरं तिसृषु । प्र तु द्रवेत्यौशनमन्त्यं तिसृषु । अथवा अत्र निदानसूत्रम्-नित्यैर्वा सह एकर्च्चाः। यज्ञगौङ्गवमध्यो वा बृहत्यां सामतृचः (उ०ग्र०सू० २.९) इति । प्र सोमासो विपश्चित इति गायत्राश्वसोमसामानि सामतृचः। प्र सोम देव-इति कण्वरथन्तरपज्रयौधाजयानि सामतृचः । कण्वरथन्तरगौङ्गवयौधाजयानि वा । औशनमन्त्यं तिसृषु । समानमितरत् प्रथमेन । एवं सत्राहीनभूते द्वादशाहे गवामयने च। अभीवर्तकालेयानुकल्पे तु अत्र निदानम् -प्रथमेऽहनि रथन्तराभीवर्तयौधाजयानि सामतृच: । अर्थाज्जामिव्रतगर्भिवद् (उ० ग्र० सू० २. १०) इति । माध्यंदिने बृहत्यां प्र सोम देवेति कण्वरथन्तराभीवर्तयौधाजयानि सामतृच इति विशेषः । यद्वा अत्र निदानम्--सर्वे वैकर्च्चाः । नव च बृहत्यां पज्रगौङ्गवाभ्यां व्यवधाय त्रीन् प्रथमायामेवे-(उ० ग्र० सू० २.१०)ति । प्र सोम देववीतय (सा० ७६७-८) इति कण्वरथन्तरपज्रे प्रथमायाम् । अभीवर्तगौङ्गवयौधाजयानि सामतृचः । औशनमन्त्यमेकस्याम् । इति विशेषः । अत्र माध्यंदिनपवमानेऽपि पृष्ठधर्माः कार्याः। तदुक्तं निदाने-कर्तव्या इत्याचार्या: संप्रयोगाद्ध्येषामेते धर्मा भवन्तीत्यथापि स्थानादपेतनां क्रियमाणान् पश्यामः (उ० ग्र० सू० ३. ५) इति ॥
द्वितीयस्याह्नः । अत्र निदानम्-आगन्तूनि प्रत्यहं दैर्घश्रवसमैधातिथपूर्वाभिशवहारायणकौल्मलबर्हिषाणि (उ० ग्र० सू० २. ९) इति । माध्यंदिने बृहत्यां पुनानः सोमेति
ऐडमायास्यत्रिणिधनमायास्यदैर्घश्रवसानि सामतृचः । कण्वबृहत्तिसृषु । बृहन्निधनवार्कजम्भं वा । समानमितरत् द्वितीयेन ।
अभीवर्तकालेयानुकल्पे तु अत्र निदानम्-द्वितीये तदादिबार्हताद्यादाभीवर्तकालेये। यथा जानामि (उ० ग्र० सू० २. १०) इति । अस्यार्थः । द्वितीयेऽहनि तदादि आगन्त्वादि बृहदादि सामतृच इत्यर्थः । बार्हताद्यादिति । बृहत्यामुत्पन्नं साम बार्हतम् । बार्हताद्यात् ऐडमायास्याभीवर्तकालेयानि सामतृच इत्यर्थः । यथा जानामीति । गवामयने प्राकृतषडहे ऐडमायास्याभीवर्तकालेयानि सामतृचो यथा कल्पकारेण क्लृप्तस्तथा जानामीति । बृहत्यां पुनानः सोमेति ऐडमायास्याभीवर्त
कालेयानि सामतृचः। कण्वबृहद्दैर्घश्रवसत्रिणिधनमायास्यानि सामतृचः । बृहन्निधनवार्कजम्भदैर्घश्रवसत्रिणिधनमायास्यानि वा । इति विशेषः । अत्र माध्यंदिनपवमानेऽपि पृष्ठधर्माः कार्याः ॥
तृतीयास्याह्नः । अत्र निदानम्--आगन्तु पृष्ठं चान्त (उ० ग्र० सू० २. ९) इति । अभि सोमे-(सा० ८५६-८)ति पौरुमद्गं प्रथमायाम् । गौतमाञ्जोवैरूपमैधातिथानि सामतृचः । अन्तरिक्षं तिसृषु । आष्कारणिधनमध्यास्यायाम् इति । यद्वा बृहत्यामभि सोमेति पौरुमद्गं प्रथमायाम् । गौतमान्तरिक्षमैधातिथानि सामतृचः। ह्रस्वा बृहदोपशा तिसृषु । आष्कारणिधनमध्यास्यायामिति । यद्वा अत्र निदानम्-निधनवच्चेत्पृष्ठं तृतीये

चतुर्थोऽध्यायः-पृष्ठ्यषडहानुकल्पाः [प्र. २, ख. १२]
१५७

बृहत्यामाद्याद्विपरीते (उ० ग्र० सू० २. ९) इति । अभि सोमेति पौरुमद्गं प्रथमायाम् । महावैष्टम्भं तिसृषु । मैधातिथान्तरिक्षगौतमानि सामतृचः । आष्कारणिधनमध्यास्यायाम् । वयं घ त्वे-(सा० ८६४-६ )ति अभिनिधनं काण्वं ब्रह्मणः। समानमितरत् तृतीयेन । अभीवर्तकालेयानुकल्पे तु अत्र निदानम्--ततो अनिधनवत् पृष्ठं तृतीयपञ्चमयोर्गायत्रमेकस्याम् । द्वितीय-तृतीययोरह्नोर् (उ० ग्र० सू० २.१०) इति । अस्यार्थः । तृतीयपञ्चमयोरह्नोरनिधनवत् निधनरहितमैडं साम पृष्ठं चेत् बृहत्यां द्वितीयतृतीययोः साम्नोरेकर्चकरणं कार्यमिति । उच्चा त इति गायत्रमेकस्याम् । क्षुल्लकवैष्टम्भं तिसृषु । अभि सोमेति पौरुमद्गगौतमान्तरिक्षाणि सामतृचः। तस्मिन्नेव तचे अभीवर्तकालेयमैधातिथानि सामतृचः। ह्रस्वा च बृहदोपशा तिसृषु । आष्कारणिधनमध्यास्यायाम् । यद्वा अन्तरिक्षस्य स्थाने अञ्जोवैरूपम् । ह्रस्वाबृहदोपशायाः स्थाने अन्तरिक्षमिति विशेषः। यद्वा उच्चा त इति गायत्रक्षुल्लकवैष्टम्भे तृचयोः। अभि सोमेति पौरुमद्गं प्रथमायाम् । महावैष्टम्भमैधातिथान्तरिक्षाणि सामतृचः । तस्मिन्नेव तृचे अभीवर्तकालेयगौतमानि सामतृचः। आष्कारणिधनमध्यास्यायाम् । इति विशेषः । अत्र माध्यंदिनपवमानेऽपि पृष्ठधर्माः कार्याः ॥
चतुर्थस्याह्नः । बृहत्यां तवाहं सोमे-(सा० ९२२-३)ति आष्टादंष्ट्राभीशवस्वःपृष्ठाङ्गिरसानि सामतृचः । आभीशवाद्यं तिसृषु । ऋषभोवैराजस्तिसृषु । सहोदैर्घतमसं वा । वसिष्ठस्य वैराजं वा। समानमितरत् चतुर्थेन । अभीवर्तकालेयानुकल्पे तु बृहत्यामाष्टदंष्ट्राभीवर्तकालेयानि सामतृचः । तस्मिन्नेव तृचे आभीशवोत्तरस्वःपृष्ठाङ्गिरसाभीशवाद्यानि सामतृचः । ऋषभो
वैराजस्तिसृषु । वसिष्ठस्य वैराजं वा सहोदैर्घतमसं वा । इति विशेषः । अत्र माध्यंदिनपवमानेऽपि पृष्ठधर्माः कार्याः ॥
पञ्चमस्याह्नः । अत्र निदानम्-पञ्चमे चान्त्ये व्यतिहृत्य न्यायः समागन्तु (उ० ग्र० सू० २.९ ) इति । बृहत्यां सोम उष्वे-(सा० ९९७-८)ति मानवानूपाग्नेस्त्रिणिधनानि सामतृचः। वाम्रहारायणनित्यवत्सास्तृचेषु । अतीषङ्गाणां प्रथमं वा । यद्वा । सोमे उष्वेति मानवानूपवाम्राणि सामतृचः । अग्नेस्त्रिणिधनहारायणे तृचयोः । नित्यवत्सास्तिसृषु । अतीषङ्गाणां प्रथमं वा । समानमितरत् पञ्चमेन । अभीवर्तकालेयानुकल्पे तु अर्षा सोमे-(सा० ९९४-६)ति गायत्रमेकस्याम् । यण्वशाकलवार्शानि तृचेषु । सोमे उष्वेति मानवं तिसृषु । आनूपं प्रथमायाम् । अग्नेस्त्रिणिधनं तिसृषु । वाम्राभीवर्तकालेयानि सामतृचः । हारायणमेकस्याम् । नित्यवत्सास्तिसृषु । अतीषङ्गाणां प्रथमं वा । यद्वा । अर्षा सोमेति गायत्र
मेकस्याम् । यण्वशाकलवार्शानि तृचेषु । सोम उष्वेति मानवं तिसृषु। आनूपमेकस्याम् । वाम्राभीवर्तकालेयानि सामतृचः ।

चतुर्थोऽध्यायः-पृष्ठ्यषडहानुकल्पा: [प्र. २, ख. १२]
१५९

अग्नेस्त्रिणिधनं तिसृषु । हारायणमेकस्याम् । नित्यवत्सास्तिसृषु । अतीषङ्गाणां प्रथमं वा। इति विशेषः । अत्र माध्यंदिनपवमानेऽपि पृष्ठधर्माः कार्याः ॥
षष्ठस्याह्नः । अत्र निदानम्-षष्ठे द्विपृष्ठाभिमानित्वात् पुरस्तादुपरिष्टादित्युभयोः स्यात् । उपाङ्क्यपृष्ठान्वाहार्यपृष्ठयोश्चैवम् (उ० ग्र० सू० २. १०) इति । इन्द्रायेन्दविति गायत्रेषोवृधीयक्रौञ्चवाजदावर्यरैवतदार्ढच्युतानि तृचेषु । मृज्यमान इति स्वारमौक्ष्णोरन्ध्रैडमौक्ष्णोरन्ध्रवरुणसामानि सामतृचः। वाजजित्कौल्मलबर्हिषगोष्ठास्तृचेषु । समानमितरत् षष्ठेन । अभीवर्तकालेयानुकल्पे तु बृहत्यां मृज्यमान इति स्वारमौक्ष्णोरन्ध्रं तिसृषु । ऐडमौक्ष्णोरन्ध्राभीवर्तकालेयानि सामतृचः । कौल्मलबर्हिषं तिसृषु । वाजजिद्वरुणसामगोष्ठाः सामतृच इति विशेषः । अत्र माध्यंदिनपवमानेऽपि पृष्ठधर्माः कार्याः ॥२॥

द्वितीयमाह--
तान्येवोपरिष्टादार्भवेष्वनुष्टुप्सु पञ्चानामह्नाम् । गायत्रीषु षष्ठस्य । सोऽन्वाहार्यपृष्ठः षडहः ॥३॥
इति । स्पष्टम् । अस्य क्लृप्तिः। अत्र निदानम्--अथ पृष्ठानामनुकल्पः । प्रथमेऽहनि रथन्तरपरोक्षे त्रिणिधनमध्येनिधनयोः स्थाने तृचस्थे स्याताम् । प्रतिष्ठोक्तोहगीतिब्रह्मरहस्यापचितिं तस्मात् बृहद्रथन्तरे एकर्चे न कुर्वन्ति (उ० ग्र० सू० २. ९) इति । ऐडं कावमन्त्यमेकस्याम् । वैखानसं वा । इडानुग्रहदृष्टान्तात् स्तोमासंभवान् उद्भिदेकत्रिकदर्शनैरिति । आर्भवे प्र सोमासो मदच्युत इति गायत्रसंहिते प्रथमायाम् । अया पवस्व-पवते हर्यत इति सफाक्षारे एकर्च्चयोः । प्र सुन्वान इति गौरीवितमेकस्याम् । कण्वरथन्तरं तिसृषु । अभिप्रियाणीति ऐडं कावमन्त्यमेकस्याम् । वैखानसं वा। यद्वा । अत्र निदानम्-नित्यैर्वा सहैकर्च्चाः । नित्येऽन्तरानुष्टुभि पृष्ठौदलौ प्रथमायां वा। सर्वं एकर्च्चाः । त्रिणिधनमध्ये निधनानुग्रहवृत्तेः स्वरान्तं न्यायदृष्टेर्विशालार्थोहगीतिर् (उ० ग्र० सू० २.९) इति । प्र सोमासो मदच्युत इति गायत्रसंहिते। अया पवस्व पवत इति सफाक्षारे प्र सुन्वान इति गौरीवितकण्वरथन्तरौदलगौतमानि प्रथमायामेव । अभि प्रियाणीति स्वारंकावमन्त्यमेकस्याम् । समानमितरत् प्रथमेन । अत्र आर्भवपवमानेऽपि पृष्ठधर्माः कार्याः ॥
द्वितीयस्याह्नः। अत्र निदानम्-आनुष्टुभान्यनुरूपाग्निष्टोमसाम्न आहीनिके स्वारे द्वितीयपञ्चमयोः (उ० ग्र० सू० २.९) इति ।
आगन्तुसंयोगे नैकर्च्चाः नित्यानुग्रहस्तोमोपपत्तेः तृचाः कार्याः (उ०ग्र०सू० २.९) इति । यस्ते मद इति गायत्रहाविष्मते प्रथमायाम् । पवस्वेन्द्रमच्छेति शङ्कुसुज्ञाने एकर्च्चयोः । अयं पूषेति गौरीवितमैडक्रौञ्चे प्रथमायाम् । स्वारं क्रौञ्चं तिसृषु । कण्वबृहत्तिसृषु । बृहन्निधनवार्कजम्भं वा। समानमितरत् द्वितीयेन । अत्र आर्भवपवमानेऽपि पृष्ठधर्माः कार्याः ॥

तृतीयस्याह्नः। अत्र निदानम्-तृतीयस्यार्भवे गायत्रमेकस्याम् । अर्थादनुष्टुभ्यावापसंक्रमोऽभिषेचनीयवत् । तथोत्तरयोर्

चतुर्थोऽध्याय:-पृष्ठ्यषडहानुकल्पाः [प्र. २, ख. १२]
१६१

(उ० ग्र० सू० २.१०) इति । आर्भवे अन्तरिक्षपक्षे माध्यंदिने उच्चा त इति गायत्रक्षुल्लकवैष्टम्भे । अभि सोमेति पौरुमद्गं प्रथमायाम् । . उभयतस्तोभगौतमाअञ्जोवैरूपे तृचयोः । आष्कारणिधनमध्यास्याम् ।
आर्भवे महावैष्टम्भपक्षे वैरूपवामदेव्याभिनिधनकाण्वरौरवाणि पृष्ठानि । तिस्रो वाच इति गायत्रमेकस्याम् । पाष्ठौहं तिसृषु । आसो-सखाय इति वाचःसामशौक्ते एकर्च्चयोः। सुतासो मेति गौरीवितत्रिणिधनत्वाष्ट्रीसामनी प्रथमायाम् । अन्तरिक्षस्वारंवाष्ट्रीसामनी तृचयोः । पवित्रं त इत्यरिष्टमन्त्यम् ॥
यद्वा। सुतासो मेति गौरीवितत्रिणिधनत्वाष्ट्रीसामनी प्रथमायाम् । ह्रस्वा च बृहदोपशा स्वारं त्वाष्ट्रीसामनी तृचयोः । पवित्रं त इत्यरिष्टमन्त्यम् । यद्वा । अत्र निदानम्-तृतीयेऽनुष्टुबन्त्ये वागन्तु (उ० ग्र० सू० २.९) इति । सुतासो मेति गौरीवितत्रिणिधनत्वाष्ट्रीसामनी प्रथमायाम् । स्वारंत्वाष्ट्रीसाममहावैष्टम्भे तृचयोः । समानमितरत् तृतीयेन। अत्र आर्भवपवमानेऽपि पृष्ठधर्माः कार्याः ॥
 
चतुर्थस्याह्नः । अत्र निदानम् -आर्भवे गायत्रमेकस्याम् । अर्थादनुष्टुभ्यावापसक्रमोऽभिषेचनीयवत् । तथोत्तरयोर्जामि चेदन्त्ये नित्ययोः । मध्ये विपरीते व्यत्यासमेकचं तृच (उ० ग्र० सू० २.१०) इति । तथोत्तरयोरित्यस्यार्थः । चतुर्थपञ्चमयोरह्नोरिति । परि प्रिया दिवः कविरिति गायत्रमेकस्याम् । और्णायवं तिसृषु । त्वं ह्यङ्ग दैव्य-सोमः पुतान ऊर्मिणा (सा. ९३८-४०) इति बृहत्कातीषादीये तृचयोः। पुरोजितीति नानदमेकस्याम् । ऋषभवैराजस्तिसृषु । सहोदैर्घतमसं वा । वसिष्ठस्य वैराजं वा। श्यावाश्वमेकस्याम् । आन्धीगवं तिसृषु । यद्वा । अत्र निदानम्-चतुर्थे वा ककुबादयस्त्रय एकर्च्चाः । तृचस्थानीतराणि (उ० ग्र० सू० २.१०) इति । परि प्रिया दिवः कवि-(सा० ९३५-७)रिति गायत्रौर्णायवे तृचयोः । त्वं ह्यङ्गदैव्य-सोमः पुनान ऊर्मिणे-(सा० ९३८-४२)ति बृहत्कातीषादीये एकर्चयोः । पुरोजितीति नानदमेकस्याम् । वृषभवैराजस्तिसृषु । सहोदैर्घतमसं वा। वसिष्ठस्य वैराजं वा । श्यावाश्वान्धीगवे तृचयोः । समानमितरत् चतुर्थेन । समूढे तु उष्णिक्ककुभावेकर्चयोः । पुरोजितीति नानदमेकस्याम् । अन्धीगवश्यावाश्वे तृचयोः । ऋषभवैराजस्तिसृषु । सहोदैर्घतमसं वा। वसिष्ठस्य वैराजं वा । प्र त आश्विनी-(सा० ८८६-८)रिति लौशमन्त्यम् इति विशेषः । अत्र आर्भवपवमानेऽपि पृष्ठधर्माः कार्याः ॥
पञ्चमस्याह्नः । आर्भवे असाव्यंशुर्मदाये-(सा० १००८-१०)ति गायत्रमेकस्याम् । सन्तनि तिसृषु । अभि द्युम्नं-प्राणा शिशु (सा० १०११-३)रिति च्यावनक्रोशे एकर्चयोः । पवस्व वाजसातये (सा० १०१६-८) इति गोरीवितऋषभःशाक्वरपार्थाष्टेडपदस्तोभात्रेयानि तृचेषु । नित्यवत्सास्तिसृषु । अतीषङ्गाणां प्रथमं वा । समूढे तु अत्र निदानम्-शुद्धाशुद्धीयं समूढे प्रावृषाभिनिधनवच्चेत् ( उ० ग्र० सू० २.९ ) इति । पवस्व वाजसातये (सा० १०१६-८) इति गौरीवितनित्यवत्साशुद्धाशुद्धीयऋषभशाक्वराकूपाराष्टेडपदस्तोभास्तृचेषु । यद्वा । नित्यवत्सानां स्थाने अतीषङ्गाणां प्रथमं वा । समानमितरत् पञ्चमेन । अत्र आर्भवपवमानेऽपि पृष्ठधर्माः कार्याः ॥

चतुर्थोऽध्यायः- पृष्ठ्यषडहानुकल्पाः [प्र. २, ख. १२]
१६३

अथ षष्ठस्याह्नः । अत्र निदानम्-षष्ठे द्विपृष्ठाभिमानितत्वात् पुरस्तादुपरिष्टादित्युभयोः स्यादुपाङ्क्यपृष्ठान्वाहार्यपृष्ठयोश्चैवम् (उ० ग्र० सू० २.१०) इति । आगन्तुपृष्ठं चान्त (उ० ग्र० सू० २.९) इति च ॥
परिस्वानो गिरिष्ठाः (सा० १०९३-५) इति गायत्रवैदन्वताद्य- वैदन्वतचतुर्थवैदन्वतदार्ढच्युतानि । स सुतं वः सखे-(सा० १०९६-११००)ति दीर्घकार्णश्रवसे तृचयोः। सोमाः पवन्त इन्दव (सा० ११०१-३) इति गौरीवितमधुश्चुन्निधनाकूपाराणि सामतृचः । वाङ्निधनक्रौञ्चैडंक्रौञ्चे तृचयोः । यद्वा । दीर्घकार्णश्रवसे एकर्चयोः। गौरीवितमेकस्याम् । मधुश्चुन्निधनवाङ्निधनंक्रौञ्चा- कूपारैडंक्रौञ्चानि तृचेषु । समानमितरत् षष्ठेन । अत्र आर्भवपवमानेऽपि पृष्ठधर्माः कार्याः ॥३॥

[ उपाङ्क्यपृष्ठान्वाहार्यपृष्ठौ ]
प्रकारभेदेन उपाङ्क्यपृष्ठान्वाहार्यपृष्ठ्योरष्टमनवमयोः स्वरूपमाह--
अथात उपाङ्क्पृष्ठश्चैवान्वाहार्यपृष्ठश्च षडहौ ॥४॥
तयोः कल्पो विपर्यासं बृहद्रथन्तरे पृष्ठे ॥५॥
इति । षण्णामप्यह्नां पृष्ठ्यस्तोमषडहवत् रथन्तरबृहती एव व्यत्यस्ते कार्ये इत्यर्थः ॥५॥
उत्तरस्य चतुरहस्य ॥६॥
इति । तृतीयादिचतुरहस्येत्यर्थः। आद्यद्वितीये प्रकृतिवत् कार्ये ॥६॥
परोक्षाणि माध्यंदिनेषु । बृहतीषु त्रयाणामह्नाम्।
गायत्रीषु षष्ठस्य । स उपाङ्क्यपृष्ठः षडहः ॥७॥
इति । गतम् । अस्य क्लृप्तिः षण्णामह्नां पृष्ठ्यस्तोमषडहवत् कार्या । उत्तरस्य चतुरहस्य उपाङ्क्यपृष्ठषडहवन्माध्यंदिनपवमानः कार्यः । षष्ठे रैवतस्य स्थाने वारवन्तीयमिति विशेषः ॥७॥
तान्येवोपरिष्टादार्भवेषु । अनुष्टुप्सु त्रयाणामह्नाम् । गायत्रीषु षष्ठस्य । सोऽन्वाहार्य पृष्ठः षडहः ॥८॥
इति । स्पष्टम् । षण्णामह्नां पृष्ठ्यस्तोमषडहवत् क्लृप्तिः कार्या । उत्तरस्य चतुरहस्यान्वाहार्यपृष्ठषडहवदार्भवपवमानः कार्यः । षष्ठे परिस्वान इति गायत्रतृतीयवैदन्वताद्यवैदन्वतचतुर्थवैदन्वतानीति विशेषः ॥८॥
. [ पुरस्ताज्ज्योतिरुपरिष्टाज्ज्योतिषौ ]
दशमैकादशयोः स्वरूपमाह--
अथातः . पुरस्ताज्ज्योतिश्चोपरिष्टाज्ज्योतिश्च षडहौ ॥६॥
इति । षट्स्वप्यहःसु पृष्ठानां पुरस्तात् माध्यंदिनपवमानेषु ज्योतींषि रथन्तरबृहद्वैरूपवैराजशाक्वररैवतरूपाणि यस्य स तथोक्तः ।

चतुर्थोऽध्यायः-पृष्ठ्यषडहानुकल्पाः [प्र. २, स. १२]
१६५

पृष्ठानामुपरिष्टादार्भवेषु रथन्तरबृहद्वैरूपवैराजशाक्वररैवतरूपाणि ज्योतींषि यस्य स तथोक्तः । अयं वै लोको ज्योतिः (ऐ० ब्रा० ४.१५)। इयं वै रथन्तरम् । (तां० ब्रा० १६.१०.८) इति श्रुत्या पृथिवीरथन्तरयोरभेदात् रथन्तरस्य ज्योतिष्ट्वम् । तत्पुत्रत्वात् वैरूपशाक्करयोश्च । स्वर्गो वै लोको ज्योतिः । (तै. ब्रा० १.२.२.२)। असौ वै बृहत् (तै० सं० ७.१.४.३) इति श्रुत्या बृहत्स्वर्गयोरभेदात् बृहतो ज्योतिष्ट्वम् । तत्पुत्रत्वात् वैराजरैवतयोरपि । रथन्तरबृहतोः अस हस् इति निधनाभ्यामहोरूपत्वात् अह्नः अर्चिरादिमार्गान्तर्गतत्वाच्चोभयोर्ज्योतिष्ट्वम् । वैरूपे दिशं विशं हस् वैराजे ज्योतिर्हा उद्दधे इति शक्वरीणां स्वत एव बृहत्त्वेन परंज्योतिष्ट्वात् । स्वर्णांशः अंशुर्न शोचिः अंशुर्मदायेति ज्योतिःपर्यायशब्दस्य विद्यमानत्वाच्च । रेवतीनां गोरूपत्वात् गौर्वे ज्योतिरिति गवां ज्योतिःस्वरूपत्वात् । ओजो वै वीर्यं पृष्ठानीति सर्वपृष्ठेष्टिप्रकरणे । यदिन्द्राय राथन्तराय निर्वपति यदेवाग्नेस्तेजस्तदेवावरुन्धे यदिन्द्राय बार्हताय यदेवेन्द्रस्य तेजस्तदेवावरुन्धे । यदिन्द्राय वैरूपाय यदेव सवितुस्तेजस्तदेवावरुन्धे । यदिन्द्राय वैराजाय यदेव धातुस्तेजस्तदेवावरुन्धे । यदिन्द्राय शाक्वराय यदेव मरुतां तेजस्तदेवावरुन्धे। यदिन्द्राय रैवताय यदेव बृहस्पतेस्तेजस्तदेवावरुन्धे (तै० सं० २.३. ७. २-३) इति च तैत्तिरीयश्रुतेः ज्योतिःपर्यायौजस्तेजोभ्यां सह पृष्ठानामभेदोपदेशाच्च एतेषां षण्णां पृष्ठानां ज्योतिष्ट्वम् । अपि च रथन्तरं भवति। ब्रह्म वै रथन्तरम् (तांब्रा० ११.४.६) इति श्रुतेः। रथन्तरं साम भवति। ब्रह्मवर्चसं वै रथन्तरम् (तै० ब्रा० २.७.१.१) इति तैत्तिरीयश्रुतेः । ब्रह्म ज्योतिर्ब्रह्म पत्नीषु गर्भम् इति च श्रुतेर्ब्रह्मणो ज्योतिष्ट्वम् । परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते (छां० उ० ८.३.४)। नारायणपरो ज्योतिः (महाना० उ० ११.४)। ओमापो ज्योती रसोऽमृतं ब्रह्मेति । तद् ब्रह्म तदाप पापो ज्योती रस: (महाना० उ० १५.२ )। शुक्रेण ज्योतींषि समनुप्रविष्ट: (महाना० उ० १.१) । अथ यदतः परो दिवो ज्योतिर्दीप्यते । इदं वाव तद्यदिदमस्मिन्नन्तःपुरुषे ज्योतिर् (छां० उ० ३.१३.७) इत्यादिभिर्ब्रह्मणो ज्योतिःस्वरूपत्वात् रथन्तरस्य ज्योतिष्ट्वम् । किंच । भात्यग्निर्भाति चन्द्रमा भाति सूर्यो भान्ति ज्योतींषि भाति रथन्तरम् इति भकाराणामेव दीप्तिं दर्शयति (सं० उ० ब्रा० २.२२ ) इति श्रुत्या स्वरूपत एव ज्योतिष्ट्वं सिद्धम् ॥
बृहत्त्वात् बृह्मणत्वाच्च तस्माद् ब्रह्मेति शब्दितः ।
बृहद् ब्रह्म महच्चेति शब्दाः पर्यायवाचकाः ॥
बृहत्साम तथा साम्नाम् (गीता १०.३५) अब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् (महाना० उ० ९.३) । अपरिमितं बृहत् । नमो ब्रह्मणे बृहते करोमि इत्यादि-श्रुतिस्मृतिभिर्नाम्नैव बृहतो ब्रह्मत्वम् । मनो वै बृहत् (जै० ब्रा० ३.१२)। मन इव
हि प्रजापतिः (जै० ब्रा० २.७७)। मनो ब्रह्म (बृ०उ० ४.१.६) इति वचनाद् मनो ब्रह्मेत्युपासीत (छां० उ० ३. १८. १) । स क्रतुं कुर्वीत । मनोमयः प्राणशरीरः (छां० उ० ३.१४.१-२) मनोज्योतिर्जुषतामाज्यम् (आ० श्रौ० २.५.१४) इति श्रुतिभिः मनसः परं ज्योतिःस्वरूपत्वात् तद्रूपत्वाद् बृहतो ज्योतिःस्वरूपत्वम् । किं च ।

चतुर्थोध्याय:- पृष्ठ्यषडहानुकल्पा: [प्र. २, ख. १२]
१६७

महस्तवानो अद्रिवः (सा० ८१०) मह इति । ब्रह्मणि ब्रह्मणे त्वा महस ओमित्यात्मानं युञ्जीत (महाना० उ० २४.२)। महाव्याहृत्यां च । ओं महः । ओजश्चेति महश्चेत्युपासीत (छां० उ० ३. १३.५) इति ज्योतिःपर्यायस्य महःशब्दस्य त्वामिद्धीति तृचे प्रगाथे विद्यमानत्वात् स्वरूपत एव ज्योतिष्ट्वम् । वाग्वै रूपम् (तां० ब्रा० १६.५.१६)। वाग्वै ब्रह्म च सुब्रह्म च (ऐ० ब्रा० ६.३) इति । प्रजापतिर्हि वाक (तै० ब्रा० १.३.४.५) इति वाग्रूपत्वात् वैरूपस्य ब्रह्मत्वम् । न त्वा वज्रिन् सहस्रं सूर्या इति । एतयैवावृता सहस्रसूर्यतया इति वैशम्पायनः। तस्यैषा भवति । यद्याव इन्द्र ते .....अनु न जातमष्ट रोदसी (तै० आ० १.७.५) इति श्रुत्या सूर्यस्य ब्रह्मस्वरूपस्य सर्वोपनिषत्सिद्धत्वात् सूर्यो ज्योतिर्ज्योतिः सूर्य (सा० १८३१) इति श्रुतेः सूर्य स्वरूपत्वादेव वैरूपस्य स्वत एव ज्योतिष्ट्वं सिद्धम् । प्रजापतेर्वैराजम् (तांब्रा० १६.५.१७)। ब्रह्म वै प्रजापतिः (माश० १३.६.२.८)। इमा ब्रह्म सधमादे जुषस्व (सा० ९२९) इति ब्रह्मस्वरूपत्वात् वैराजस्य विराट्संबन्धित्वात् ज्योतिर्विराट- छन्दसां ज्यातिर्विराड्वा च इति । ज्योतिर्हा उद्दधे इति श्रुत्या च नाम्ना स्वरूपतश्च ज्योतिष्ट्वं सिद्धम् । ब्रह्म शक्वर्यः क्रतुच्छन्द ऋतं बृहत् । इन्द्राय साम गायत विप्राय बृहते बृहत् । ब्रह्मकृते विपश्चिते पनस्यवे (सा० ३८८) इति बृहत इन्द्रस्य क्रतुच्छन्दऋतंबृहद्रूपत्वाद् इन्द्रो ब्रह्मेन्द्र ऋषिः । तस्मात् ...इदन्द्रं सन्तम् इन्द्र इत्याचक्षते परोक्षण (ऐ० आ० २. ४.३) इति ब्रह्मत्वात् , प्रतर्दनविद्यायां च-प्राणस्तथानुगमात् । न वक्तुरात्मोपदेशादिति चेदध्यात्मसंबन्धभूमा ह्यस्मिन् । शास्त्रदृष्ट्या तूपदेशो वामदेववत् । जीवमुख्यप्राणलिङ्गान्नेति चेत् । न । उपासात्रैविध्यादाश्रितत्वादिह तद्योगात् (ब्र०सू० १.१.२८-३१) इति चतुर्भिर्ब्रह्मसूत्रैः ब्रह्मस्वरूपस्य सिद्धान्तितत्वात् । ऐन्द्र्यो महानाम्न्यः प्रजापतेर्वा विष्णोर्वा विश्वामित्रस्य वा सिमा वा मड्या वा अध्वरमा वा शक्वर्यो वा शक्वर्यो वा (आ० ब्रा० ६. ४. २. १५) इति महानाम्नीनामैन्द्रप्राजापत्यवैष्णवादिभिर्नामकरणात् प्रजापतिविष्णुसिमादिसाहचर्यात् इन्द्रस्यापि ब्रह्मत्वात् इन्द्रो ज्योतिर्ज्योतिरिन्द्रः (सा० १८३१) । इन्द्रो ज्योतिर्भुवो ज्योतिरिन्द्रोम् (आ० श्रौ० ५.६.११) स्वर्णांशुर् (सा० ६४२) अशुनशोचिः (सा. ६४५) अंशुर्मदाय (सा. ६४८) इति महानाम्नीनां
नाम्ना स्वरूपतश्च ज्योतिष्ट्वं सिद्धम् । पापो वै रेवत्यः (तां० ब्रा० ७.९.२०)। अपां वा एष रसो यद्रेवत्यः (तां० ब्रा० १३.१०.५)। आपो रेवतीः क्षयथा हि वस्वः (ऋ० १०.३०.१२)। आपो वै ब्रह्मेत्याचक्षते । आपो वा इदं सर्वम् । विराडापः । अमृतं वा आपः (महाना. उ. १४.१) इत्यादिभिरद्भिः स्तोत्रोपकरणाच्च रेवतीनाम्नामपां बृहत्त्वात् छन्दांस्यापो ज्योतींष्यापः (महाना. उ. १४.१)। अप्सु ज्योतिः प्रतिष्ठितम् । ज्योतिष्यापः प्रतिष्ठिताः (तै० उ० ३. ८.१)। हिरण्यज्योतिः सरिरस्य मध्ये (तै ०आ० ३.११.८) इत्यादिश्रुतिभिः अब्रूपरेवतीनां नाम्ना स्वरूपतश्च ज्योतिष्ट्वं सिद्धम् । एवं षण्णां पृष्ठानां ब्रह्मस्वरूपत्वात् ब्रह्मरहस्यापचितत्वात् अरण्येगेयत्वाच्च ज्योतिष्ट्वं प्रसिद्धम् ॥९॥
क्लृप्तिमाह—
तयोः कल्पः । परोक्षाणि पृष्ठानि प्रत्यक्षेषु

चतुर्थोऽध्यायः-पृष्ठ्यषडहानुकल्पाः [प्र. २, ख. १२]
१६९

पृष्ठस्तोत्रीयेषु प्रत्यक्षाणि माध्यंदिनेषु। बृहतीषु पञ्चानामह्नाम् । गायत्रीषु षष्ठस्य । स पुरस्ताज्ज्योतिः षडहः ॥१०॥
इति । स्पष्टम् । अस्य क्लृप्तिः । प्रथमद्वितीययोरह्नोरुपाङ्क्यपृष्ट्यषडहवत् क्लृप्तिः कार्या । प्रथमस्याह्नः माध्यंदिने कण्वरथन्तरस्य स्थाने रथन्तरम् । कण्वरथन्तरं होतुः पृष्ठम् । अत्र उभयत्र पृष्ठधर्माः कार्याः ॥
द्वितीयमाध्यंदिने कण्वबृहतः स्थाने बृहत् । बृहन्निधनवार्कजम्भं वा कण्वबृहद्वा होतुः पृष्ठम् । अत्र उभयत्र पृष्ठधर्माः कार्याः॥
तृतीयस्याह्नः माध्यंदिने बृहत्याम् अभि सोमे-(सा० ८५६- ८)ति पौरुमद्गं प्रथमायाम् । उभयतस्तोभगौतमान्तरिक्षमैधातिथानि सामतृचः । वैरूपं तिसृषु । आष्कारणिधनमध्यास्यायाम् । यद्द्याव (सा० ८६२-३) इति ह्रस्वाबृहदोपशा होतुः पृष्ठम् । यद्वा । अभि सोमेति पौरुमद्गं प्रथमायाम् । गौतमाञ्जोवैरूपमैधातिथानि सामतृचः । वैरूपं तिसृषु । आष्कारणिधनमध्यास्यायाम् । यद्द्याव इति अन्तरिक्षं होतुः पृष्ठम् । यद्वा । यद्द्याव इति महावैष्टम्भं होतुः पृष्ठम् । वयं घ त्वे-(सा० ८६४-६)ति अभिनिधनं काण्वं ब्रह्मणः। समानमितरत् तृतीयेन । अभीवर्तकालेयानुकल्पे तु उच्चा त इति गायत्रमेकस्याम् । क्षुल्लकवैष्टम्भं तिसृषु । अभि सोमेति पौरुमद्गगौतमान्तरिक्षाणि सामतृचः । तस्मिन्नेव तृचे अभीवर्तकालयमैधातिथानि सामतृचः । वैरूपं तिसृषु । आष्कारणिधनमध्यास्यायाम् । यद्द्याव इति ह्रस्वाबृहदोपशा होतुः पृष्ठम् । महावैष्टम्भं वा । वयं घ त्वेति अभिनिधनं काण्वं ब्रह्मणः। यद्वा । उच्चा त इति गायत्रमेकस्याम् । क्षुल्लकवैष्टम्भं तिसृषु । अभि सोमेति पौरुमद्गगौतमाञ्जोवैरूपाणि
सामतृचः। अभीवर्तकालेयमैधातिथानि सामतृचः । वैरूपं तिसृषु । आष्कारणिधनमध्यास्यायाम् । यद्द्याव इति अन्तरिक्षं होतुः
पृष्ठम् । इति विशेषः । अत्रोभयत्र पृष्ठधर्माः कार्याः । उत्तरत्र्यहस्य उपाङ्क्यपृष्ठ्यषडहवत् क्लृप्तिः कार्या ॥
चतुर्थेऽहनि माध्यंदिने ऋषभवैराजस्य स्थाने महावैराजम् । ऋषभवैराजं होतुः पृष्ठम् । सहोदैर्घतमसं वा । वसिष्ठस्य वैराजं वा । अत्रोभयत्र पृष्ठधर्माः कार्याः॥
 पञ्चमेऽहनि माध्यंदिने नित्यवत्सानां स्थाने सिमाः। त्रिकद्रुकेष्विति नित्यवत्सा होतुः पृष्ठम् । इन्द्रायाहि (सा० ११४६-८) यदिन्द्र चित्रमे-(सा० ११७२-४)ति अतीषङ्गाणां प्रथमं वा । अत्रोभयत्र पृष्ठधर्माः कार्याः॥
षष्ठे वाजदावर्यरैवतयोर्मध्ये दार्ढच्युतमिति विशेषः । अत्रोभयत्र पृष्ठधर्माः कार्याः ॥१०॥
द्वितीयमाह—
तान्येवोपरिष्टादार्भवेषु । अनुष्टुप्सु पञ्चानामह्नाम्। गायत्रीषु षष्ठस्य । स उपरिष्टाज्ज्योतिः षडहः॥११॥

चतुर्थोऽध्यायः-पृष्ठ्यषडहानुकल्पाः [प्र. २, ख. १२)
१७१

इति । स्पष्टम् । अस्य क्लृप्तिः। षण्णामह्नां सर्वपरोक्षपृष्ठषडहवत् कार्या । षण्णामह्नामन्वाहार्यपृष्ठषडहवदार्भवपवमानः कार्यः । षण्णामह्नामार्भवपवमानेष्वपि पृष्ठधर्माः कार्याः । प्रथमेऽहनि आर्भवे कण्वरथन्तरस्य स्थाने रथन्तरम् । द्वितीये कण्वबृहत्स्थाने बृहत् । तृतीये ह्रस्वाबृहदोपशास्थाने पञ्चनिधनं वैरूपम्। चतुर्थे ऋषभवैराजस्थाने महावैराजम् । पञ्चमेऽहनि नित्यवत्सानां स्थाने सिमाः। षष्ठे अत्र निदानम्-पुरस्तादुपरिष्टादित्युभयो: स्यात् (उ० ग्र० सू० २.१०) इति । परिस्वानायां च प्रागन्त्यादिति त्रिषामणि चेदैडं चेदन्त्यं प्राक् साम स्यात् (उ० ग्र० सू० २.९) इति च । अस्यार्थः। सर्वत्रागन्तुपृष्ठस्यान्ते निवेशो न्यायः । प्रकृतौ परिस्वानो गिरिष्ठा (सा० १०९३-५) इति गायत्रतृतीयाद्यचतुर्थवैदन्वतानीत्यध्ययनक्रमः। अत्र ब्राह्मणे वैदन्वतानि भवन्ति (तां० ब्रा० १३.११.६) इत्यविशेषोक्तेरजामिक्रमेण क्लृप्तौ कार्यायां षडहविचारेष्वध्ययनक्रमक्लृप्तावैडयोश्चतुर्थवैदन्वतरैवत्ययोः संनिपाते जामि स्यादित्यत आह–प्रागन्त्यादिति । अन्त्यात् आद्यवैदन्वतात् प्राक् अतित्रिषामणि चतुर्थवैदन्वते कृते आगन्तुपृष्ठस्यैडस्य रैवत्यस्य वारवन्तीयस्य अन्ते निवेशो युक्त इति भावः । अध्ययनक्रमस्य बलवत्त्वात् तदनुसारेण पक्षान्तरमाह--ऐडं चेदन्त्यम् इति । चतुर्थवैदन्वतमित्यर्थः। सामभ्यामाद्यचतुर्थवैदन्वताभ्यां प्राक् पूर्वोक्तागन्तुपृष्ठस्य निवेशः। परिस्वान इति गायत्रतृतीयवैदन्वतरैवताद्य- वैदन्वतचतुर्थवैदन्वतानि । यद्वा । गायत्रतृतीयवैदन्वतचतुर्थवैदन्वताद्यवैदन्वतरैवतानि इति विशेषः ॥११॥

 [ बृहद्रथन्तरपुरस्तात्-बृहद्रथन्तरोपरिष्टात्-ज्योतिषौ ]
द्वादशत्रयोदशयोः स्वरूपमाह—
अथातो बृहद्रथन्तरपुरस्ताज्ज्योतिश्च बृहद्रथन्तरोपरिष्टाज्ज्योतिश्च षडहौ ॥१२॥
इति । बृहद्रथन्तरयोः ज्योतिष्ट्वं पूर्ववद्व्याख्येयम् ॥१२॥
क्लृप्तिमाह—
तयोः कल्पः। परोक्षाणि पृष्ठानि परोक्षेषु पृष्ठस्तोत्रीयेषु बृहद्रथन्तरे मध्यंदिनेषु बृहतीषु विपर्यासम् ।
स बृहद्रथन्तरपुरस्ताज्ज्योतिः षडहः ॥१३॥
इति । स्पष्टम् । षण्णामह्नामुभयपरोक्षपृष्ठषडहवत् क्लृप्तिः कार्या। प्रथमद्वितीययोरह्नोः पुरस्ताज्ज्योतिः षडहवत् माध्यंदिनः पवमानः कार्यः । तृतीयस्याह्नः बृहत्याम् अभि सोमे-(सा० ८५६-८)ति पौरुमद्गं प्रथमायाम् । रथन्तरं तिसृषु । गौतमान्तरिक्षमैधातिथानि सामतृचः । आष्कारणिधनमध्यास्यायाम् । यदिन्द्र यावतस्त्व-(सा० १७९६-७)मिति ह्रस्वाबृहदोपशा होतुः
पृष्ठम् । यद्वा । यदिन्द्र यावतस्त्वमिति महावैष्टम्भं होतुः पृष्ठम् । वयं घ त्वे-(सा० ८६४-६)ति अभिनिधनं काण्वं ब्रह्मणः । यद्वा । माध्यंदिने अन्तरिक्षस्य स्थाने अञ्जोवैरूपम् । यदिन्द्र यावतस्त्वमिति अन्तरिक्षं होतुः पृष्ठम् । समानमितरत् तृतीयेन । अभीवर्तकालेयानुकल्पे तु बृहत्याम् अभि सोमेति पौरुमद्गं
प्रथमायाम् । रथन्तरमैधातिथान्तरिक्षाणि सामतृचः। अभीवर्तकालेयगौतमानि सामतृचः । आष्कारणिधनमध्यास्यायाम् । यदिन्द्र यावतस्त्वमिति ह्रस्वाबृहदोपशा होतुः पृष्ठम् । यद्वा । यदिन्द्र यावतस्त्वमिति महावैष्टम्भं होतुः पृष्ठम् । वयं घ त्वेति

चतुर्थोऽध्यायः-पृष्ठ्यषडहानुकल्पाः [प्र. २, ख. १२]
१७३

अभिनिधनं काण्वं ब्रह्मणः। यद्वा । अभि सोमे-(सा० ८५६-८)ति पौरुमद्गं प्रथमायाम् । रथन्तरमैधातिथाञ्जोवैरूपाणि सामतृचः । अभीवर्तकालेयगौतमानि सामतृचः । आष्कारणिधनमध्यास्यायाम् । यदिन्द्र यावतस्त्वमिति अन्तरिक्षं होतुः पृष्ठम् । इति विशेषः ॥
चतुर्थस्याह्नः पुरस्ताज्ज्योतिःषडहवत् मध्यंदिनः पवमानः कार्यः । मध्यंदिने वैराजस्य स्थाने बृहदिति विशेषः ॥
पञ्चमस्याह्नः बृहत्यां सोम उ ष्वे-(सा० ९९७-८)ति आकूपाररथन्तरे तृचयोः। हारायणमानववाम्राणि सामतृचः । अग्नेस्त्रिणिधनं तिसृषु । इति विशेषः । अभीवर्तकालेये तु बृहत्यां सोम उ ष्वेति आनूपं प्रथमायाम् । रथन्तरं तिसृषु । हारायणमानवे प्रथमायाम् । वाम्राभीवर्तकालेयानि सामतृचः। अग्नेस्त्रिणिधनं तिसृषु इति विशेषः । षष्ठे बृहत्यां मृज्यमान इति स्वारमौक्ष्णोरन्ध्रैडमौक्ष्णोरन्ध्रवाजिजितः सामतृचः। वरुणसामगोष्ठकौल्मलबर्हिषबृहन्ति तृचेषु । अभीवर्तकालेयानुकल्पे तु अत्र निदानम् --षष्ठे तु बृहच्चेत् स सामतृचः (उ० ग्र० सू० २.१०) इति । मृज्यमान इति ऐडमौक्ष्णोरन्ध्राभीवर्तकालेयानि सामतृचः । स्वारमौक्ष्णोरन्ध्रं तिसृषु । वाजजित्कौल्मलबर्हिषबृहन्ति सामतृचः। वरुणसामगोष्ठौ तृचयोः । इति विशेषः ॥१३॥
द्वितीयस्वरूपमाह—
त एवोपरिष्टादार्भवेष्वनुष्टुप्सु विपर्यासम् । स बृहद्रथन्तरोपरिष्टाज्ज्योतिः षडहः ॥१४॥
इति । स्पष्टम् । अस्य क्लृप्तिः। षण्णामह्नामुभयपरोक्षपृष्ठषडहवत् क्लृप्तिः कार्या। आदितः पञ्चानामह्नामुपरिष्टाज्ज्योतिः-
षडहवदार्भवपवमानः कार्यः । तृतीयेऽहनि आर्भवे सुतासो मे(सा० ८७२-४)ति गौरी वितत्रिणिधनत्वाष्ट्रीसामनी प्रथमायाम् । स्वारंत्वाष्ट्रीसामरथन्तरे तृचयोः । चतुर्थेऽहनि वैराजस्य स्थाने बृहत्पञ्चमे । गौरीवितऋषभशाक्वरपार्थाष्टेडपदस्तोभरथन्तरात्रेयाणि । अत्र शक्वरीवदागन्तुपृष्ठस्यान्त्यं चेद् दाशस्पत्येन सह जामि स्यात् । तन्निवृत्त्यर्थम् उपान्त्यत्वकल्पनम् । समूढे तु पवस्व वाजसातय (सा० १०१६-८) इति गौरीवितपदनिधनशुद्धाशुद्धीयऋषभशाक्वराकूपाराष्टेडपदस्तोभरथन्तराणीति विशेषः ।
षष्ठस्याह्नः। अत्र निदानम्--बृहतीषष्ठे गौरीवितात् विपरीते व्यूढे (उ० ग्र० सू० २. ९) इति । अत्र सूत्रं च--मधुश्चुन्निधनादाकूपारम् (ला० श्रौ० ४. ६. ३) इति । षष्ठे च बृहतो व्यूढ इति च बृहत उत्तरे त्रय एकर्चाः इत्यर्थः । आर्भवे अनुष्टुभि सोमाः पवन्त (सा० ११०१-३) इति गौरीवितबृहती तृचयोः ।
आकूपारमधुश्चुन्निधनवाङ्निधनक्रौञ्चानि सामतृचः । वाङ्निधन क्रौञ्चमधुश्चुन्निधनाकूपाराणि वा । ऐडं क्रौञ्चं तिसृषु । इति विशेषः ॥
समूढे तु अत्र सूत्रम्--उपोत्तमं समूढ (ला० श्रौ० ४.६. ४) इति । सोमाः पवन्त इति गौरीवितमधुश्चुन्निधने तृचयोः ।
वाङ्निधनक्रौञ्चैडंक्रौञ्चाकूपाराणि सामतृचः । बृहत्तिसृषु इति विशेषः ॥१४॥
इति द्वितीये प्रपाठके द्वादशः खण्डः ॥१२॥

चतुर्थोऽध्यायः- पृष्ठ्यषडहानुकल्पाः [प्र. २, ख. १३]
१७५

त्रयोदशः खण्डः
[ परोक्षापर्क्य प्रत्यक्षापर्क्यपृष्ठौ ]
चतुर्दशपञ्चदशयोः स्वरूपमाह--
अथात आपर्क्यपृष्ठौ षडहो ।
इति । आङ्पुर्वात पृचि संपर्क इति धातोश्छान्दसो ण्यत्प्रत्ययः। ईषदर्थे आङ् । आ ईषत् पर्क्यः आपर्क्यः । मध्यमपर्याये परोक्षप्रत्यक्षरूपेण ईषत्संबन्धात् पृष्ठानामापर्क्यत्वम् । आपवर्याणि पृष्ठानि ययोस्तौ तथोक्तौ ॥ . उभयोर्धर्मभेदेन संज्ञामाह--
परोक्षापर्क्यपृष्ठश्च प्रत्यक्षापर्क्यपृष्ठश्च ॥१॥
इति ॥१॥
क्लृप्तिमाह—
तयोः कल्पः। प्रत्यक्षस्य प्रथमोत्तमौ पर्यायौ । परोक्षस्य मध्यमः । स परोक्षापर्क्यपृष्ठः षडहः ॥२॥
इति । स्पष्टम् । प्रथमस्याह्नः अभि त्वा शुरे-(सा० ६८०-१)ति रथन्तरस्य प्रथमोत्तमौ पर्यायौ। तस्मिन्नेव तृचे कण्वरथन्तरस्य मध्यम इति होतुः पृष्ठम् । समानमितरत् प्रथमेन ॥
द्वितीयस्याह्नः। त्वामिद्धि हवामहे (सा० ८०९-१०) इति बृहतः प्रथमोत्तमौ पर्यायौ। तस्मिन्नेव तृचे बृहनिधनस्य वार्कजम्भस्य वा कण्वबृहतो वा मध्यमः । इति होतुः पृष्ठम् । समानमितरत् द्वितीयेन ॥

तृतीयस्याह्नः-यद् द्याव (सा० ८६२-३) इति वैरूपस्य प्रथमोत्तमौ पर्यायौ। तस्मिन्नेव तृचे ह्रस्वाबृहदोपशायाः अन्तरिक्षस्य वा महावैष्टम्भस्य वा मध्यमः पर्यायः । इति होतुः पृष्ठम् अन्तरिक्षपक्षे । मध्यंदिने अन्तरिक्षस्य स्थाने अञ्जोवै रूपं महावैष्टम्भपक्षे । वयं घ त्वे-(सा० ८६४-६)ति अभिनिधनं काण्वं ब्रह्मणः। समानमितरत् तृतीयेन ॥
चतुर्थस्याह्नः-पिबा सोम-(सा० ९२७-९)मिति महावैराजस्य प्रथमोत्तमौ पर्यायौ। तस्मिन्नेव तृचे ऋषभस्य वैराजस्य वा सहोदैर्घतमसस्य वा वसिष्ठस्य वैराजस्य वा मध्यमः। इति होतुः पृष्ठम् । समानमितरत् चतुर्थेन ॥
पञ्चमस्याह्नः। अत्र निदानम् - न तु पञ्चमे भेदात् न महानाम्नीष्वन्यत् (उ० ग्र० सू० २.१०) इति । विदा मघवन्निति एतासु महानाम्नीनां प्रथमोत्तमौ पर्यायौ। त्रिकद्रुकेष्विति नित्यवत्सानां मध्यमः। अतीषङ्गाणां प्रथमस्य वा। इन्द्रायाहि-यदिन्द्र चित्रम-इत्येतासु गायत्रीषु चानुष्टुप्सु च । इति होतुः पृष्ठम् । समानमितरत् पञ्चमेन ॥
षष्ठस्याह्नः। अत्र निदानम् -प्राङ्क्यादिषु द्विषामत्वात् छन्दस्यं वारवन्तीयं स्यात् । उभयोः पवमानानुकल्पः पृष्ठानुपूर्वेण । स्तोत्रीयनानात्वाद्वा । प्रत्यक्षपरोक्षाप्तिः समानादेशाच्च । उभे पावमानिके रेवतीसंयोगाद्वारवन्तीयेन प्रत्यक्षार्थे । दार्ढच्युतेन परोक्षार्थे । प्रत्यक्षाणीति प्रकृतिपृष्ठात् परोक्षाणीत्युभयतः पारोक्ष्यात् प्रत्यक्षकार्त्स्न्यात् गर्भिदर्शनाच्च । एकतृचे वा प्रत्यक्षेषु विष्टुतीनां तृचाधिकारत्वादुभयेषां च दर्शनात् । न तु पञ्चमे भेदात् । न महानाम्नीष्वन्यत् (उ० ग्र० सू० २.१०) इति । अत्र

चतुर्थोऽध्यायः-पृष्ठ्यषडहानुकल्पाः [प्र. २, ख. १३]
१७७

प्राङ्क्यादिष्वित्यारभ्य पृष्ठानुपूर्वेणेत्यन्तमेकं सूत्रम् । आदिशब्देन प्रत्यक्षपरोक्षप्राङ्क्यप्रत्यक्षपरोक्षापर्क्याणां ग्रहणम् । द्विषामत्वादिति । प्राङ्क्यादिषडहेषु प्रत्यहं पृष्ठानां कल्पकारेण प्रत्यक्षपरोक्षसाम्नां निधानात् द्विषामत्वम् । षष्ठस्याह्नः द्विपृष्ठत्वेन पूर्वं स्वेनैवोक्तत्वात् , अत्र पवमानपृष्ठयोः उभयत्र सामद्वयेन स्तोतव्यत्वात् । अत्र होतुः पृष्ठे सामद्वयप्राप्तावेकमेव सामेत्याह--छन्दस्यं वेति । वा-शब्द एवकारार्थः । रेवतीर्णेति तृच एव प्रत्यक्षपरोक्षात्मकत्वम् । वारवन्तीयमेकमेव सामेत्यर्थः । उक्तं च स्वेनैव पूर्वनिदानसूत्रे--अथ षष्ठेऽहनि रेवतीषु वारवन्तीयं पृष्ठं भवति । तदेके प्रत्यक्षं ब्रुवते (नि० सू० ४.४ ) इति । वारवन्तीयस्य पारोक्ष्यं तदेतद्रेवतीपरोक्षमेव भवतीति च। अत्र उत्तरनिदानसूत्रे च उत्तरत्र वक्ष्यति-अथ यत्र परोक्षाणीति तत्र वारवन्तीयम् (उ० ग्र० सू० ३.४) इति । एतेन मन्यन्ते उभे एवैते प्रत्यक्षे भवत इति तयोस्त्वन्यतरदितरेषां पृष्ठानामनुधर्मं करोति । अत्र न परोक्षपृष्ठयोः रेवतीरनुधर्मं करोतीति च । कल्पकारेणापि प्रत्यक्षे प्राकृते षडहे सर्व- परोक्षोभयपरोक्षषडहयोरनुगृहीतपरोक्षे च वारवन्तीयस्यैव प्रत्यक्षपरोक्षाकारत्वेन कल्पितत्वात् उभयात्मकत्वं सिद्धम् । तस्मात् पञ्चाहवत् षष्ठेऽह्नि प्रत्यक्षपरोक्षसामद्वयार्थे रेवतीर्ण इति तृच एव वारवन्तीयमेकमेव साम कार्यमित्याशयः। पृष्ठवत् पवमानेऽप्येकस्यैव रैवतस्योभयात्मकत्वभ्रान्त्या कल्पनं स्यादित्यत आह--उभयोः पवमानानुकल्प इति । रैवतदार्ढच्युतयोरित्यर्थः। पृष्ठानुपूर्वेणेति कल्पकारक्लृप्तिः। प्रत्यक्षपरोक्षपर्यायानुगुण्येन अनयोः पौर्वापर्यं कल्प्यमित्यर्थः। पक्षान्तरमाह--स्तोत्रीयनानात्वाद्वेति । रेवतीर्णोरेवाँ इन्द्र इति तृचभेदात् पूर्वतृचे न प्रत्यक्षत्वम् । उत्तरतृचे न परोक्षत्वमित्यर्थः । पृष्ठवत् पवमाने स्तोत्रीयनानात्वप्राप्तावेकतृच एव सामद्वयं कार्यमित्याह--समानादेशाच्चोभे पावमानिक इति । समाने एकस्मिंस्तृचे आदेशात् कल्पकारेण विधानात् उभे प्रत्यक्षपरोक्षरूपे रैवतदार्ढच्युते पावमानिके एवेति पृष्ठे स्तोत्रीयनानात्वपक्षेऽपि पूर्ववत् प्रत्यक्षपरोक्षार्थे वारवन्तीयमेकमेव स्यादित्यत आह-रेवतीसंयोगादिति । अस्मिन् पक्षे उपपत्तिमाह-प्रत्यक्षाणीति । प्रकृतिपृष्ठ्यादिति । प्राकृतानां प्रत्यक्षाणां पार्ष्ठिकानां साम्नामेवात्र षडहेऽपि पृष्ठ्यत्वेन कल्पनात् प्रत्यक्षाणीति बहुवचननिर्देश इति भावः । उभयतः पारोक्ष्यादिति । ऋक्तः सामतश्च दार्ढच्युतस्येत्यर्थः । प्रत्यक्षकार्त्स्न्यादिति । वारवन्तीयस्य ऋक्तः सामतश्च सर्वत्र प्रत्यक्षत्वेन विधावात् । गर्भिदर्शनाच्चेति । अप्तोर्यामे पृष्ठे तृचद्वये सामद्वयदर्शनात् अष्टौ गर्भिण इत्यादिष्वपि तथा दर्शनात् । अत्र प्राङ्क्यादिषु पूर्वेष्वहःसु एकतृच एव प्रत्यक्षपरोक्षसामद्वयदर्शनात् । अत्र षष्ठेऽहनि तृचद्वये सामद्वयकल्पनमयुक्तमित्यस्वरसात् । पक्षान्तरमाह --एकतृचे वेति । रेवतीर्ण इति तृच एव वारवन्तीयदार्ढच्युते कार्ये । तत्र हेतुमाह--प्रत्यक्षेष्विति । अभि त्वा शूरेत्यादिप्रत्यक्षेषु तृचेषु विष्टुतीनाम् आवृत्तिस्तोत्राणां तृचाधिकारात् एकतृच एव प्रकृतत्वात् उभयेषां

चतुर्थोऽध्यायः- पृष्ठ्यषडहानुकल्पाः [प्र. २, ख. १३]
१७९

रथन्तरकण्वरथन्तरादीनामेकतृच एव दर्शनात् । अत्रापि रेवतीर्ण (सा० १०८४-६) इति तृच एव वारवन्तीयदार्ढच्युते कल्प्ये इति भावः । एवं पञ्चमेऽहनि अपि एकतृचे सामद्वयप्राप्तावाह--न तु पञ्चम इति । भेदादिति । पूर्वेभ्योऽहोभ्यो भेदादित्यर्थः। तमेवोपपादयति न महानाम्नीष्वन्यदिति । महानाम्नीषु विदामघवन्नित्यादिषु अन्यस्य साम्नः श्रुतावदर्शनात् तृचद्वये सामद्वयं नियतमिति भावः। अस्य क्लृप्तिः। इन्द्रायेन्दविति गायत्रेषोवृधीयक्रौञ्चवाजदावर्यरैवतदार्ढच्युतानि । मृज्यमान (सा० १०७९-८०) इति स्वारमौक्ष्णोरन्ध्रैडमौक्ष्णोरन्ध्रे तृचयोः। ऐडमौक्ष्णोरन्ध्रस्वारमौक्ष्णोरन्ध्रे वा । कौल्मलबर्हिषवाजजिद्वरुण सामानि सामतृचः । गोष्ठस्तिसृषु । एतमुत्यमिति इहवद्वामदेव्यमन्त्यम् । रेवतीर्णेति वारवन्तीयं होतुः पृष्ठम् । यद्वा । रेवतीर्ण इति वारवन्तीयस्य प्रथमोत्तमौ पर्यायौ। रेवाँ इन्द्रे वेति दार्ढच्युतस्य मध्यमः । अथवा रेवतीर्णेति वारवन्तीयस्य प्रथमोत्तमौ पर्यायौ । तस्मिन्नेव तृचे दार्ढच्युतस्य मध्यमः । समानमितरत् षष्ठेन ॥२॥
द्वितीयमाह--
परोक्षस्य प्रथमोत्तमौ पर्यायौ । प्रत्यक्षस्य मध्यमः । स प्रत्यक्षापर्क्यपृष्ठः षडहः ॥३॥
इति । स्पष्टम् । प्रथमस्याह्नः। अभि त्वा शूरेति कण्वरथन्तरस्य प्रथमोत्तमौ पर्यायौ । तस्मिन्नेव तृचे रथन्तरस्य मध्यमः । इति होतुः पृष्ठम् । समानमितरत् प्रथमेन ॥
द्वितीयस्याह्नः । त्वामिद्धीति कण्वबृहतो वा बृहन्निधनवार्कजम्भस्य वा प्रथमोत्तमौ पर्यायौ। तस्मिन्नेव तृचे बृहतो मध्यम इति होतुः पृष्ठम् । समानमितरत् द्वितीयेन ॥
तृतीयस्याह्नः। यद्द्याव इति ह्रस्वाबृहदोपशायाः प्रथमोत्तमौ पर्यायौ। अन्तरिक्षस्य महावैष्टम्भस्य वा। तस्मिन्नेव तृचे वैरूपस्य मध्यमः । इति होतुः पृष्ठम् । अन्तरिक्षपक्षे मध्यंदिने अन्तरिक्षस्य स्थाने अञ्जोवैरूपम् । महावैष्टम्भपक्षे वयं घ त्वेति अभिनिधनं काण्वं ब्रह्मणः । इति विशेषः । समानमितरत् तृतीयेन ॥
चतुर्थस्याह्नः। पिबा सोम-(सा० ९२७-९)मिति ऋषभस्य वैराजस्य वा सहोदैर्घतमसस्य वा वसिष्ठस्य वैराजस्य वा प्रथमोत्तमौ पर्यायौ । तस्मिन्नेव तृचे महावैराजस्य मध्यम इति होतुः पृष्ठम् । समानमितरत् चतुर्थेन ॥
पञ्चमस्याह्नः। त्रिकद्रुकेष्विति नित्यवत्सानां प्रथमोत्तमौ पर्यायौ । इन्द्रायाहि-यदिन्द्र चित्रम इत्येतासु अतीषङ्गाणां प्रथमस्य वा। विदामघवन्नित्येतासु महानाम्नीनां मध्यमः। इति होतुः पृष्ठम् । समानमितरत् पञ्चमेन ॥
षष्ठस्याह्नः । इन्द्रायेन्दवि-(सा० १०७६-८)ति गायत्रेषोवृधीयक्रौञ्चवाजदावर्यदार्ढच्युतरैवतानि । मृज्यमान (सा० १०७९-८०) इति स्वारमौक्ष्णोरन्ध्रैडमौक्ष्णोरन्ध्रे तृचयोः । कौल्मलबर्हिषवाजजिद्वरुणसामानि सामतृचः । गोष्ठस्तिसृषु । एतमु त्यमि(सा० १०८१-३)ति इहवद्वामदेव्यमन्त्यम् । रेवतीर्णे-(सा० १०८४-६)ति वारवन्तीयं होतुः पृष्ठम् । यद्वा । रेवाँ इद्रेवे(सा० १८०४-६)ति दार्ढच्युतस्य प्रथमोत्तमौ पर्यायौ। रेवतीर्णेति वारवन्तीयस्य मध्यमः । अथवा । रेवतीर्णेति दार्ढच्युतस्य प्रथमोत्तमौ पर्यायौ । तस्मिन्नेव तृचे वारवन्तीयस्य मध्यमः। समानमितरत् षष्ठेन ॥३॥

[ परोक्षप्राङ्क्य-प्रत्यक्षप्राङ्क्यपृष्ठौ ]
षोडशसप्तदशयोः स्वरूपमाह--
अथातः प्राङ्क्यपृष्ठौ षडहौ ॥

चतुर्थोऽध्यायः-पृष्ठ्यषडहानुकल्पा: [प्र. १, ख. १३]
१८१

इति । अङ्कं स्थानमर्हतीति अङ्क्यम् । प्रत्यक्षाणां पृष्ठानाम् उभयत्र स्थानात् किंचित्प्रच्युतत्वात् प्राङ्क्यत्वम् । प्राङ्क्यानि पृष्ठानि ययोस्तो तथोक्तौ ॥ उभयोर्धर्मभेदेन संज्ञामाह--
परोक्षप्राङ्क्य पृष्ठश्च प्रत्यक्षप्राङ्क्यपृष्ठश्च ॥४॥
इति ॥४॥
क्लृप्तिमाह--
तयोः कल्पः । परोक्षस्य प्रथमः पर्यायः । प्रत्यक्षस्योत्तरौ । स परोक्षप्राङ्क्यपृष्ठः षडहः ॥५॥
इति । स्पष्टम् । प्रथमस्याह्नः अभि त्वा शूरे-(सा० ६८०-१)ति कण्वरथन्तरस्य प्रथमः पर्यायः । तस्मिन्नेव तृचे रथन्तरस्योत्तरौ । इति होतुः पृष्ठम् । समानमितरत् प्रथमेन ॥
 द्वितीयस्याह्नः। त्वामिद्धी-(सा० ८०९-१०)ति कण्वबृहतः प्रथमः पर्यायः । बृहन्निधनस्य वार्कजम्भस्य वा। तस्मिन्नेव तृचे बृहत उत्तरौ । इति होतुः पृष्ठम् । समानमितरत् द्वितीयेन ॥
तृतीयस्याह्नः। यद्द्याव (सा० ८६२-३) इति ह्रस्वाबृहदोपशायाः अन्तरिक्षस्य वा महावैष्टम्भस्य वा प्रथमः पर्यायः । तस्मिन्नेव तृचे वैरूपस्योत्तरौ । इति होतुः पृष्ठम् । अन्तरिक्षपक्षे मध्यंदिने अन्तरिक्षस्य स्थाने अञ्जोवैरूपम् । महावैष्टम्भपक्षे वयं घ त्वेति अभिनिधनं काण्वं ब्रह्मणः । इति होतुः पृष्ठम् । अन्यत् सर्वं तृतीयाहवत् ॥
चतुर्थस्याह्नः । पिबा सोमे-(सा० ९२७-९) ति ऋषभस्य वैराजस्य वा सहोदैर्घतमसस्य वा वसिष्ठस्य वैराजस्य बा प्रथमः पर्यायः। महावैराजस्योत्तराविति होतुः पृष्ठम्। समानमितरत् चतुर्थेन ॥
पञ्चमस्याह्नः । त्रिकद्रुकेष्वि-(सा० १४८६-८)ति नित्यवत्सानां प्रथमः पर्यायः । इन्द्रायाहि-(सा० ११४६-८)-यदिन्द्र चित्रमे-( सा० ११७२-४ )त्येतासु अतीषङ्गाणां प्रथमस्य वा । विदामघवन्निति एतासु महानाम्नीनामुत्तरौ इति । इति होतुः पृष्ठम् । समानमितरत् पञ्चमेन ॥
षष्ठस्याह्नः। रेवतीर्ण इति वारवन्तीयं होतुः पृष्ठम् । यद्वा । रेवाँ इद्रेति दार्ढच्युतस्य प्रथमः पर्यायः। रेवतीर्णेति वारवन्तीयस्योत्तरौ। अथवा । रेवतीर्णेति दार्ढच्युतस्य प्रथमः पर्यायः । तस्मिन्नेव तृचे वारवन्तीयस्योत्तरौ। अन्यत् सर्वं प्रत्यक्षापर्क्यपृष्ठषडहषष्ठाहवत् ॥५॥
द्वितीयमाह—
प्रत्यक्षस्य प्रथमः पर्यायः । परोक्षस्योत्तरौ । स प्रत्यक्षप्राङ्क्यपृष्ठः षडहः ॥६॥ इति ॥६॥

चतुर्थोऽध्याय:-पृष्ठ्यषडहानुकल्पा: [प्र. २, ख. १३]
१८३

[ परोक्षापाङ्क्य-प्रत्यक्षोपाङ्यपृष्ठौ ]
अथात उपाङ्क्यपृष्ठौ षडहौ । परोक्षोपाङ्क्यपृष्ठश्च प्रत्यक्षोपाङ्क्यपृष्ठश्च ॥७॥
[ क्लृप्तिमाह] --
तयोः कल्पः । प्रत्यक्षस्य पूर्वौ पर्यायौ । परोक्षस्योत्तमः । स परोक्षोपाङ्क्यपृष्ठः षडहः ॥८॥
[द्वितीयमाह]--
परोक्षस्य पूर्वौ पर्यायौ प्रत्यक्षस्योत्तमः । स प्रत्यक्षोपाङ्कङ्कपृष्ठः षडहः ॥९॥
इति । स्पष्टम् । प्रथमस्याह्नः। अभि त्वा शूरे-(सा० ६८०- १)ति करवरथन्तरस्य पूर्वौ पर्यायौ । तस्मिन्नेव तृचे रथन्तरस्योत्तमः। इति होतुः पृष्ठम् । समानमितरत् प्रथमेन ॥
द्वितीयस्याह्नः । त्वामिद्धीति बृहन्निधनवार्कजम्भस्य वा कण्वबृहतो वा पूर्वौ पर्यायौ । तस्मिन्नेव तृचे बृहत उत्तमः । इति होतुः पृष्ठम् । समानमितरत् द्वितीयेन ॥
तृतीयस्याह्नः -- यद् द्याव ( सा० ८६२-३ ) इति ह्रस्वाबृहदोपशायाः अन्तरिक्षस्य वा महावैष्टम्भस्य वा पूर्वौ पर्यायौ । वैरूपस्योत्तमः। इति होतुः पृष्ठम् । अन्तरिक्षपक्षे मध्यंदिने अन्तरिक्षस्य स्थाने अञ्जोवैरूपम् । महावैष्टम्भपक्षे वयं घ त्वेति अभिनिधनं काण्वं ब्रह्मणः । समानमितरत् तृतीयेन ॥
चतुर्थस्याह्नः । पिबा सोम-( सा० ९२७-९ )मिति ऋषभस्य वैराजस्य वा सहोदैर्घतमसस्य वा वसिष्ठस्य वैराजस्य वा पूर्वौ पर्यायौ। महावैराजस्योत्तमः । इति होतुः पृष्ठम् । समानमितरच्चतुर्थेन ॥
पञ्चमस्याह्नः। त्रिकद्रुकेष्वि(सा०१४८६-८)ति नित्यवत्सानां पूर्वौ पर्यायौ । इन्द्रायाहि-यदिन्द्रचित्रमेति एतासु अतीषङ्गाणां प्रथमस्य वा । विदामघवन्निति एतासु महानाम्नीनामुत्तमः । इति होतुः पृष्ठम् । समानमितरत् पञ्चमेन ॥
पष्ठस्याह्नः- रेवतीर्ण इति वारवन्तीयं होतुः पृष्ठम् । यद्वा । रेवाँ इन्द्रे-(सा० १८०४-६)ति दार्ढच्युतस्य पूर्वौ पर्यायौ । रेवतीर्णेति
वारवन्तीयस्योत्तमः । अथवा । रेवतीर्णेति दार्ढच्युतस्य पूर्वौ पर्यायौ । तस्मिन्नेव तृचे वारवन्तीयस्योत्तमः । अन्यत् सर्वं परोक्षप्राङ्क्यषडहषष्ठाहवत् ॥
ननु उत्तरपक्षद्वये माध्यंदिनपवमानहोतुःपृष्ठ्योरुभयत्र दार्ढच्युतस्य करणे संचारदोष इति चेत् । मैवम् । निदानकारेण विधानात् न दोषः। यथा आपर्क्यादिविश्वजित्सु प्रथमोक्तयोः स्तोत्रीययोः रथन्तरस्य मध्ये कण्वरथन्तरस्य विधानेऽपि संचारस्य दोषत्वं नाङ्गीकृतं निदानकारेण । यथा वा अनुरूपाग्निष्टोमसाम द्वादशाहे षष्ठेऽहनि वारवन्तीयस्य होतुः पृष्ठे अग्निष्टोमसाम्नि च विधानेऽपि कल्पकारेण संचारस्य दोषत्वं नाङ्गीकृतम् । तद्वदत्रापीति निदानकारस्याशयः । यद्वा । जैमिनिकल्पसूत्रे संसदामयनमध्यगतपृष्ठस्तोमषडहे षष्ठेऽहनि रेवतीनामायतने आमहीयवं वा दार्ढच्युतं वा इति विधानात् अत्रापर्क्यादिषु माध्यंदिनपवमाने आमहीयवरैवतयोः होतुः पृष्ठे च होतुः पृष्ठपर्यायानुपूर्वेण