सामग्री पर जाएँ

कल्किपुराणम्/तृतीय अंशः

विकिस्रोतः तः

तृतीय+अंशः) प्रथमो ऽध्यायः) सूत उवाच)

ततः कल्किर् म्लेच्छ-गणान् करवालेन कालितान्

बाणैः संताडितानन्य+अननयद् यम-सादनम्))1

विशाखयूपो ऽपि तथा कवि-प्राज्ञ-सुमन्त्रकाः (names)

गार्ग्य-भार्ग्य-विशाल+आद्या म्लेच्छान् निन्युर् यम-क्षयम्))2

कपोतरोमा काकाक्षः काककृष्ण+आदयो ऽपरे

बौद्धाः शौद्धोदना याता युयुधुः कल्कि-सैनिकैः))3

तेषां युद्धम् अभूद् घोरं भयदं सर्व-देहिनाम्

भूत्’एश+आनन्द-जनकं रुधिर+अरुण-कर्दमम्))4

गज+अश्व-रथ-संघानां पततां रुधिर-स्रवैः

स्रवन्ती केश-शैवाला वाजि-ग्राहा सुगाहिका))5(शैवाला= a nation's name)

धनुस्-तरङ्गा दुष्पारा गज-रोधः प्रवाहिणी

शिरः-कूर्मा रथ-तरिः पाणि-मीन+असृग् आपगा))6

प्रवृत्ता तत्र बहुधा हर्षयन्तो मनस्विनाम्

दुन्दुभेयरवा फेरु शकुना’नन्द-दायिनी))7

गजैर् गजा नरैर् अश्वाः खरैर् उष्त्रा रथै रथाः

निपेतुर् बाण-भिन्न+अङ्गाश् छिन्न-बाह्व्-अ,ङ्/घ्रि-कन्धराः))8

भस्मना गुण्थित-मुखा रक्तवस्त्रा निवारिताः

विकीर्ण-केशाः परितो यान्ति सन्न्यासिनो यथा))9

व्यग्राः के ऽपि पलायन्ते याचन्त्यन्ये जलं पुनः

कल्कि-सेना-शुगक्षुण्ना म्लेच्छा नो शर्म लेभिरे))10

तेषां स्त्रियो रथारूढा गजारूढा विहङ्गमान्

समारूढा हयारूढा खरोष्ट्रवृष-वाहनाः))11(ख्Άर= sharp / donkey)

योद्धुं समाययुस् त्यक्त्वा पत्यपत्य-सुखाश्रयान्

रूपवत्यो युवतिओ ऽति-बलवत्यः पतिव्रताः))12(युवत्Ί= girl, juvenis)

नाना-भरण-भूषाध्याः सन्नद्धा विशदप्रभाः

खड्ग-शक्ति-धनुर्-बाण-वलयाक्त-कर+अम्बुजाः))13

स्वैरिण्यो ऽप्य् अतिकामिन्यो पुंश्चल्यश् च पतिव्रताः([sv^airin] mfnं going where one likes , free , independent , unrestrained (espं said of unchaste women)[-iNI]) fं a bat

ययुर् योद्धुं कल्कि-सैन्यैः पतीनां निधनातुराः))14

मृद्-भस्म-काष्ठ-चित्राणां प्रभुताम्नायशासनात्

साक्षात् पतीनां निधनं किं युवत्यो ऽपि सेहिरे))15(amn'as mfnं unawares)

ताः स्त्रियः स्वपतीन् बाण-भिन्नान् व्याकुलिते’न्द्रियान्

कृत्वा पश्चाद् युयुधिरे कल्कि-सैन्यैर् धृता’युधाः))16

ताः स्त्रीर् उद्वीक्ष्य ते सर्वे विस्मय-स्मित-मानसाः

कल्किम् आगत्य ते योधाः कथयाम् आसुर् आदरात्))17

स्त्रीणाम् एव युयुत्सूनां कथाः श्रुत्वा महामतिः

कल्किः समुदितः प्रायात् स्वसैन्यैः स+अनुगो रथैः))18

ताः समालोक्य पद्मेशः सर्व-शस्त्र+अस्त्र-धारिणीः

नाना-वाहन-संरूढा कृत-व्यूहा उवाच सः))19 कल्किर् उवाच)

रे स्त्रियः शृणुत+अस्माकं वचनं पथ्यम् उत्तमम्

स्त्रिया युद्धेन किं पुंसां व्यवहारो ऽत्र विद्यते))20

मुखेषु चन्द्र-बिम्बेषु राजित+अलक-पंक्तिषु

प्रहरिष्यन्ति के तत्र नयन+आनन्द-दायिषु))21

विभ्रान्त-तार-भ्रमरं नव-कोकनद-प्रभम् (nं the flower of the red water-lily)

दीर्घ+अपाङ्गे’क्षणं यत्र तत्र कः प्रहरिष्यति))22

वक्षोज-शम्भू सत्तार-हारव्याल-विभूषितौ

कन्दर्प-दर्प-दलनौ तत्र कः प्रहरिष्यति))23

लोल-लील+अलक-व्रात-चकोरा-क्रान्त-चन्द्रिकम्

मुख-चन्द्रं चिह्नहीनं कस् तं हन्तुम् इह+अर्हति)24

स्तनुभार-भराक्रान्त-नितान्तक्षीण-मध्यमम्

तनु-लोम-लताबन्धं कः पुमान् प्रहरिष्यति))25

नेत्र+आनन्देन नेत्रेण समावृतमनिन्दितम्

जघनं सुघनं रम्यं बाणैः कः प्रहरिष्यति))26

इति कल्केर् वचः श्रुत्वा प्राहस्य प्राहुर् आदृताः

अस्माकं त्वं पतीन् हंसि तेन नष्टा वयं विभो!

हन्तुं गतानाम् अस्त्राणि कराण्य् एवा’गतान् युत))27

खड्ग-शक्ति-धनुर्-बाण-शूल-तोमर-यष्टयः

ताः प्राहुः पुरतो मूर्ताः कार्तस्वर्(ण्?)अ-विभूषणाः))28

शस्त्राण्य् ऊचुः)

यमासाद्य वयं नार्यो हिंसयामः स्वतेजसा

तम् आत्मान्तं सर्वमयं जानीत कृतनिश्चयाः))29

तम् ईशम् आत्मना नार्यः! चरामो यद् अनुज्ञया

यत् कृता नाम-रूप+आदि-भेदेन विदिता वयम्))30

रूप-गन्ध-रस-स्पर्श-शब्द_आद्या भूत-पञ्चकाः

चरन्ति यद् अधिष्थानात् सो ऽयं कल्किः परात्मकः))31

काल-स्वभाव-संस्कार-नाम+आद्या प्रकृतिः परा

यस्येच्छया सृजत्य् अण्दं महा+अहङ्कारक+आदिकान्))32

यन् मायया जगद्यात्रा सर्ग-स्थित्य्-अन्त-संज्ञिता

य एव +आद्यः स एव +अन्ते तस्यायः सो ऽयम् ईश्वरः))33

असौ पतिर् मे भार्या +अहम् अस्य पुत्राप्त-बान्धवाः

स्वप्नोपमास्तु तन्निष्था विविधाश् चै’न्द्रजालवत्))34

स्नेह-मोहनिबन्धानां यातायातदृशां मतम्

न कल्कि-सेविनां राग-द्वेष-विद्वेष-कारिणाम्))35

कुतः कालः कुतो मृत्युः क्व यमः क्व+अस्ति देवताः

स एव कल्किर् भगवान् मायया बहुली-कृतः))36

न शस्त्राणि वयं नार्यः संप्रहार्या न च क्वचित्

शस्त्र-प्रहर्तृ-भेदो ऽयम् अविवेकः परात्मनः))37

कल्कि-दासस्य+अपि वयं हन्तुं न+अर्हाः कथो’द्भुतम्

हनिष्यामो दैत्य-पतेः प्रह्लादस्य यथा हरिम्))38

इत्य् अस्त्राणां वचः श्रुत्वा स्त्रियो विस्मित-मानसाः

स्नेह-मोह-विनिर्मुक्तास् तं कल्किं शरणं ययुः))39

ताः समालोक्य पद्मेशः प्रणता ज्ञान-निष्ठया

प्रोवाच प्रहसन् भक्ति-योगं कल्मष-नाशनम्))40

कर्मयोगञ् च+आत्मनिष्थं ज्ञानयोगं भिधाश्रयम्

नैष्कर्म्यलक्षणं तासां कथयामास माधवः))41

ताः स्त्रियः कल्कि-गदित-ज्ञानेन विजिते’न्द्रियाः

भक्त्या परम-वापुस् तद् योगिनां दुर्लभं पदम्))42

दत्त्वा मोक्षं म्लेच्छ-बौद्ध-प्रियाणां) कृत्वा युद्धं भैरवं भीम-कर्मा)

हत्वा बौद्धान् म्लेच्छ-संघाश् च कल्किस्) तेषां ज्योतिः स्थानम् आपूर्य रेजे))43

– – – υ υ – | υ – υ υ υ – | – – υ – | – υ – metre follows) I correct from वदन्ती to वदन्ति)

ये शृण्वन्ति वदन्ति बौद्ध-निधनं म्लेच्छ-क्षयं सादराल्)

लोकाः शोकहरं सदा शुभकरं भक्ति-प्रदं माधवे)

तेषम् एव पुनर् न जन्म-मरणं सर्वार्थ-सम्पत्करं)

माया-मोह-विनाशनं प्रतिदिनं संसार-तापच्छिदम्))44

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे म्लेच्छ-निधनं नाम प्रथमो ऽध्यायः))1


तृतीय+अंशः) द्वितीयो ऽध्यायः)

ततो बौद्धन् म्लेच्छ-गणान् विजित्य सह सैनिकैः(«उग्रश्रवा बोले»)

धनान्य्-आदाय रत्नानि कीकटात् पुनर् आव्रजत्))1

कल्किः परमतेजस्वी धर्माणां परिरक्षकः

चक्रतीर्थं समागत्य स्नानं विधिवदाचरत्))2(स्नान तद्= washing, purification)

भ्रातृभिर् लोक-पालाभैर् बहुभिः स्व-जनैर् वृतः

समायातान् मुनींस् तत्र ददृशे दीन-मानसान्))3

समुद्भिया’गतांस् तत्र परिपाहि जगत्पते

इत्य् उक्तवन्तो बहुधा ये तान् आह हरिः परः))4

वालखिल्य+आदिकानल्प-कायाञ्चीरजटाधरान्(plं Nं of a class of ंRishis of the size of a thumb (sixty thousand were produced from Brahmaa's body and surround the chariot of the sun)

विनयावनतः कल्किस् तान् आह कृपणान् भययात्))5

कस्माद् यूयं समायाताः केन वा भीषिता बत (भीषित= ) बत= ! not बत्Ά=weakling)

तम् अहं निहनिष्यामि यदि वा स्यत् पुरन्दरः))6(«देवराज इन्द्रभी»)

इत्य् आश्रुत्य कल्कि-वाक्यं तेनो’ल्लासित-मानसाः

जगदुः पुण्डरीकाक्षं निकुम्भदुहितुः कथाः))7

मुनय ऊचुः)

शृणु विष्णुयशः-पुत्र! कुम्भकर्ण+आत्मज+आत्मजा

कुथोदरी+इति विख्याता गगनार्धसमुत्थिता))8

कालकञ्जस्य महिषी विकञ्जजननी च सा

हिमालये शिरः कृत्वा पादौ च निषधाचले(«this राक्षसी, कालकञ्ज named राक्षष wife is/ her son's name विकञ्ज is»)

शेते स्तनं पाययन्ती विकञ्जं प्रस्नुतस्तनी))9

तस्या निश्वासवातेन विवशा वयमागताः

दैवेनै’व समानीताः संप्राप्तास्त्वत्पदास्पदम्

मुनयो रक्षणीयास् ते रक्षः सुच विपत्सु च))10

इति तेषां वचः श्रुत्वा कल्किः पर-पुरञ्-जयः

सेना,गनैः परिवृतो जगाम हिमवद्-गिरिम्))11(«हिमालय»)

उपत्यकां समासाद्य निशामेकां निनाय सः

प्रातर्जिगमिषुः सैन्यैर् ददृशे क्षीरनिम्नगाम्))12

शंखे’न्दुधवलाकारां फेनिलां बृहतीं द्रुतम्

चलन्तीं विक्ष्यते सर्वे स्तम्भिता विस्मय+अन्विताः))13

सेना-गण-गज+अश्व+आदि-रथयोधैः समावृतः

कल्किस् तु भगवांस् तत्र ज्ञातार्थो ऽपि मुनीश्वरान्))14

पप्रच्छ का नदी चेयं कथं दुग्धवहाभवत् (प्रछ् fragen; forschen/ preces;)

ते कल्केस् तु वचः श्रुत्वा मुनयः प्राहुर् आदरात्))15

श्रुणु कल्के पयस्वत्याः प्रभवं हिमवद्-गिरौ(पयस्-वत्= )

समायाता कुथोदर्याः स्तन-प्रस्रवणाद् इह))16

घटिकासप्तकैश्चान्या पयो यास्यति वेगितम्

हीनसारा तटाकारा भविष्यति महामते))17(«हे महाबुद्धिमान्!»)

इति श्रुत्वा मुनीनान् तु वचनं सैनिकैः सह

अहो किम् अस्या राक्षस्याः स्तनादेका त्वियं नदी))18

एकं स्तनं पाययति विकञ्जं पुत्रम् आदरात्(पाययति= )

न जाने ऽस्याः शरीरस्य प्रमाणं कतिधा भवेत्))19 (प्रमाण तद्= )

बलं वास्या निशाचर्या इत्य् ऊचुर् विस्मय+अन्विताः

कल्किः परात्मा सन्नह्य सेनाभिः सहसा ययौ))20

मुनि-दर्शित-मार्गेण यत्रास्ते सा निशाचरी (यत्र= where)

पुत्रं स्तनं पाययन्ती गिरिमूर्ध्नि घनोपमा))21

श्वास-वातातिवातेन दूर-क्षिप्तवनद्विपाः

यस्याः कर्णबिलावासे प्रसुप्ताः सिंह-संकुलाः))22

पुत्रपौत्त्रैः परिवृता गिरिगह्वरविभ्रमाः

केशमूलम् उपालम्ब्य हरिणाः शेरते चिरम्))23

यूका इव न च व्यग्रा लुब्धजातङ्कया भृशम्

ताम् आलोक्य गिरेर् मूर्ध्नि गिरिवत्-परम+अद्भुताम्))24 (

कल्किः कमलपत्राक्षः सर्वांस् तान् आह सैनिकान्

भयोद्विग्नान् बुद्धि-हीनांस् त्यक्तोद्यमपरिच्छदान्))25 कल्किर् उवाच)

गिरिदुर्गे वह्निदुर्गं कृत्वा तिष्ठन्तु मामकाः

गज+अश्व-रथ-योधा ये समायान्तु मया सह))26

अहं स्वल्पेन सान्येन याम्य् अस्याः संमुखं शनैः

प्रहर्तुं बाण-सन्दोहैः खड्ग-शक्ति-परश्वधैः))27

इत्य् उक्त्वास्थाप्य पश्चात् तान् बाणैस् ताम् अहनद् बली

सा क्रुधो’त्थाय सहसा ननर्द परम+अद्भुतम्))28 (नर्द्= )

तेन नादेन महाता वित्रस्तास् च +अभवञ् जनाः

निपेतुः सैनिकाः सर्वे मूर्च्छिता धरणीतले))29

सा रथांश् च गजांश् च+अपि विवृतास्या भयानका

जघास प्रश्वास-वाताय्ः समानीय कुथोदरी))30

सेना-गणास् तद् उदरं प्रविष्ताः कल्किना सह

यथ+र्क्ष+मुख+वातेन प्रविशन्ति पिपीलिकाः))31

तद् दृष्ट्वा देव-गन्धर्वा हाहाकारं प्रचक्रिरे

तत्र-स्था मुनयः शेपुर्-जेपुश् च+अन्ये मह+र्षयः))32

निपेतुर् अन्ये दुःखर्ता ब्राह्मणा ब्रह्म-वादिनः (शिष्ट= )

रुरुदुः शिष्टयोधा ये जहृषुस् तन् निशाचराः))33 (निशाचर= )

जगतां कदनं दृष्ट्वा सस्मारात्मानमात्मना

कल्किः कमलपत्राक्षः सुरारातिनिषूदनः))34

बाणाग्निं चैल-चर्मभ्यां कर्मणे यानदारुभिः

प्रज्वाल्यो’दर-मध्ये तु करवालं समाददे))35

तेन खड्गेन महता कुक्षिं निर्भिद्य बन्धुभिः

बलिभिर् भ्रातृभिर् वाहैर् वृतः शस्त्र+अस्त्र-पाणिभिः))36

बहिर् बभूव सर्वेशः कल्किः कल्कविनाशनः

सहस्राक्षो यथा वृत्र-कुक्षिं दम्भोलि-नेमिना))37

योनि-रंध्राद् गज-रथास् तुरगाश् च+अभवन् बहिः

नासिका-कर्ण-विवरात् के ऽपि तस्या विनिर्गताः))38

ते निर्गतास् ततस् तस्याः सैनिका रुधिरोक्षिताः

तां विव्यदुर् निक्षिपन्तीं तरसा चरणौ कराव्))39 (विव्यदुर् (व्यध्)= )

ममार सा भिन्न-देहा भिन्न-कुक्षि-शिरोधरा (ममार(मॄ)= )

नादयन्ती दिशो द्योखं चूर्णयन्ती च पर्वतान्))40

करञ्जो ऽपि तथा वीक्ष्य मातरं कातरो ऽभवत् (कातर= )

स विकञ्जः क्रुधा+अधावत् सेना-मध्ये निरायुधः))41

गज-माला-कुलो वक्षो-वाजि-राजि-विभूषणः (मुद्रित= )

महा-सर्प-कृतोष्नीषः केसरी-मुद्रित+अङ्गुलिः))42

ममर्द कल्कि-सेनां तां मातुर् व्यसनकर्षितः (ममर्द(मृद्)= )

स कल्किस् तं ब्राह्मम् अस्त्रं राम+दत्तं जिघांसया))43

धनुषा पञ्चवर्सीयं राक्षसं शस्त्रम् आददे

तेना+अस्त्रेण शिरस् तस्य च्छित्वा भूमा+अव-पातयत्))44

रुधिराक्तं धातुचित्रं गिरि-शृङ्गम् इव+अद्भुतम्

सपुत्रां राक्षसीं हत्वा मुनीनां वचनाद् विभुः))45

गङ्गातीरे हरि-द्वारे निवासं समकल्पयत् («हरिद्वार-तीर्थ विशेष!»)

देवानां कुसुमा-सारैर् मुनि-स्तोत्रैः सुपूजितः))46

निनाय तां निशां तत्र कल्किः परिजनावृतः

प्रातर् ददर्श गङ्गायास् तीरे मुनि-गणान् बहून्)

तस्याः स्नान-व्याज-विष्णोर् आत्मनो दर्शनाकुलान्))47

υ – – – – – | υ υ υ υ υ – | – υ υ υ – | metre follows (seems 7/8)

हरिद्वारे गङ्गा-तट-निकट-पिण्दारक-वने (पिण्दारक तद्= a sacred place) तट स= ) नि-कट= )

वसन्तं श्रीमन्तं निज-गण-वृतं तं मुनि-गणाः

स्तवैः स्तुत्वा स्तुत्वा विधिवदुदितैर् जह्नु-तनयां (जह्नु-तनया«=गंगा»)

प्रपश्यन्तं कल्किं मुनि-जन-गणा द्रष्टुम् अगमन्))48

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

कुथोदरी-वधानन्तरं मुनि-दर्शनं नाम द्वितीयो ऽध्यायः))2


तृतीय+अंशः) तृतीयो ऽध्यायः) सूत उवाच)

सुस्वागतान् मुनीन् दृष्ट्वा कल्किः परम-धर्म-वित्

पूजयित्वा च विधिवत् सुखासीना’नुवाच तान्))1 कल्किर् उवाच)

के यूयं सूर्य-सङ्काशा मम भाग्यादुपस्थिताः

तीर्थाटनोत्सुका लोक-त्रयाणाम् उपकारकाः))2

वयं लोके पुण्यवन्तो भग्यवन्तो यशस्विनः

यतः कृपाकटाक्षेण युष्माभिर् अवलोकिताः))3

ततस् ते वामदेवो ऽत्रिर् वसिष्ठो गालवो भृगुः

पराशरो नारदो ऽश्वत्थामा रामः कृपस् त्रितः))4 («=परशुराम/ कृपाचार्य»)

दुर्वासा देवलः कण्वो वेदप्रमितिर् अङ्गिराः)

एते च+अन्ये च बहवो मुनयः शंसित-व्रताः))5

कृत्वाग्रे मरुदेवापी चन्द्र-सूर्य-कुलो’द्भवौ

राजानौ तौ महावीर्यौ तपस्या+अभिरतौ चिरम्))6

ऊचुः प्रहृष्टमनसः कल्किं कल्कविनाशनम्

महोदधेस् तीरगतं विष्णुं सुरगणा यथा))7 (तीर तद्= shore / bank)

मुनय ऊचुः)

जय+अशेष-जगन्नाथ! विदित+अखिल-मानस

सृष्टि-स्थिति-लयाध्यक्ष! परमात्मन् प्रसीद नः))8

काल-कर्म-गुणावास प्रसारित-निज-क्रिय!

ब्रह्मादिनुतपादाब्ज! पद्मानाथ प्रसीद नः))9

इति तेषां वचः श्रुत्वा कल्किः प्राह जगत्पतिः

कावेतौ भवतामग्रे महासत्त्वौ तपस्विनाव्))10

कथमत्रागतौ स्तुत्वा गङ्गां मुदितमानसौ

का वा स्तुतिस् तु जाह्नव्या युवयोर्नामनीचके))11

तयोर् मरुः प्रमुदितः कृताञ्जलि-पुटः कृती

आदाव् उवाच विनयी निज-वंशा’नुकीर्तनम्))12

मरुर् उवाच)

सर्वं वेत्सि परात्मापि अन्तर्यामिन् हृदि स्थितः

तवाज्ञया सर्वम् एतत् कथयामि शृणु प्रभो))13

तव नाभेर् अभूद् ब्रह्मा मरीचिस् तत् सुतो ऽभवत्

ततो मनुस् तत् सुतो ऽभूद् ईक्ष्वाकुः सत्य-विक्रमः))14

युवनाश्व इति ख्यातो मान्धाता तत् सुतो ऽभवत्

पुरुकुत्सस् तत् सुतो ऽभूद् अनरणिओ महामतिः)15

त्रसद्दस्युः पिता तस्माद् धर्यश्वस् तृय् अरुणस् ततः (हर्य्-अश्व)

त्रिशङ्कुस् तत् सुतो धीमान् हरिश् चन्द्रः प्रतापवान्))16

हरितस् तत् सुतस् तस्माद् भरुकस् तत् सुतो वृकः

तत् सुतः सगरस् तस्माद् असमञ्जास् ततो ऽंशुमान्))17

ततो दिलीपस् तत् पुत्रो भगीरथ इति स्मृतः

येनानीता जाह्नवीयं ख्याता भगीरथी भुवि)

स्तुता नुता पूजिते’यं तव पादम् उसद्भवा))18

भगीरथात् सुतस् तस्मान् नाभस् तस्माद् अभूद् बली

सिन्धुद्वीप-सुतस् तस्माद् आयुतायुस् ततो ऽभवत्))19

र्तुपर्णस् तत् सुतो ऽभूत् सुदासस् तत् सुतो ऽभवत्

सौदासस् तत् सुतो धीमान् अश्मकस् तत् सुतो मतः))20

मूलकात् स दसरथस् तस्माद् एडविडस् ततः

राजा विश्वसहस् तस्मात् खट्वाङ्गो दीर्घबाहुकः))21

ततो रघुर् अजस् तस्मात् सुतो दशरथः कृती

तस्माद् रामो हरिः साक्षाद् आविर्भूतो जगत्पतिः))22

रामावतारम् आकर्ण्य कल्किः परमहर्षितः

मरुं प्राह विस्तरेण श्रीरामचरितं वद))23 (विस्तर= )

(«मरुने कहाः»)सीता-पतेः कर्म वक्तुं कः समर्थो ऽस्ति भूतले

शेषः सहस्रवदनइर् अपि लालायितो भवेत्))24

तथापि शेमुषी मे ऽस्ति वर्णयामि तवा’ज्ञया

रामस्य चरितं पुण्यं पाप-ताप-प्रमोचनम्))25

υ – υ υ υ – |υ – υ υ υ – | υ – – υ – | (of dochmian metre sort) metre follows:

अजादिविबुधार्थितो ऽजनि चतुर्भिर् अंशौः कुले)

रवेर् अजसुताद् अजो जगति यातुधान-क्षयः)

शिशुः कुशिकजा-ध्वरक्षयकरक्षयो यो बलाद्) (कुशिक विश्वामित्र गधि) (शिशुः=) ध्वर्Άस् =) that ध् looks more like ष् (here text is blotted, hardly legible)

बली ललितकन्धरो जयति जानकी-वल्लभः))26

मुनेर् अनुसहा’नुजो निखिल-शस्त्र-विद्या’तिगो)

गयावति-वन-प्रभो जनक-राज-राजत्सभाम्) (गयावति word that ग hardly legible) गया sacred place name)

विधाय जनमोहनद्युतिमतीव कामद्रुहः)

प्रचणकरचण्दिमा भवनभञ्जने जन्मनः))27

तमः प्रतिम-तेजसं दशरथात्मजं स+अनुजं)

मुनेर् अनु यथा विधेः शशिवदादिदेवं परम्)

निरीक्ष्य जनको मुदा क्षिति-सुता-पतिं संमतं)

निजोचितपणक्षमं मनसि भर्त्सयन्न् आययौ))28

स भूप-परिपूजितो जनकजे’क्षितैर् अर्चितः)

करालकठिनं धनुः करसरोरुहे संहितं)

विभज्य बलवद् दृढं जय रघु+उद्वहे’त्य् उच्चकैर्) (उच्चकैर्=)

ध्वनिं त्रिजगतीगतं परिविधाय रामो बभौ))29

ततो जनक-भूपतिर् दशरथात्मजेभ्यो ददौ

चतस्र उषतीर् मुदा वरचतुर्भ्य उद्वाहने

स्वलंकृतनिजात्मजाः पथि ततो बलं भार्गवश्)

चकार उररीनिजं रघुपतौ महो’ग्रं त्यजन्))30

ततः स्वपुरम् आगतो दशरथस् तु सीतापतिं

नृपं सचिवसंयुतो निज-विचित्र-सिंहासने)

विधातुम् अमलप्रभं परिजनैः कृयाकारिभिः)

समुद्यतमतिं तदा द्रुतम् अवारयत् केकयी))31

ततो गुरुनिदेशतो जनक-राज-कन्यायुतः

प्रयाणमकरोत्सुधीर्यदनुगः सुमित्रासुतः)

वनं निजगणं त्यजन् गुह-गृहे वसन्नादरात्)

व्सृज्य नृपलाञ् छनं रघुपतिर् जटाचीरभृत्))32

प्रियानुजयुतस् ततो मुनिमतो वने पूजितः)

स पञ्चवटिकाश्रमे भरतम् आतुरं संगतम्) (आ-तुर= )

निवार्य मरणं पितुः सम्वधार्य दुःखातुरस्)

तपोवनगतो ऽउअसद् रघुपतिस् ततस् ताः समाः))33

दशाननसहोदरां विषम-बाण-वेध+आतुरां)

समीक्ष्य वररूपिणीं प्रहसतीं सतीं सुन्दरीम्)

निजाश्रयम् अभीप्सतीं जनकजापतिर् लक्ष्मणात्)

कराल-करवालतः समकरोद्विरूपां ततः))34

समाप्य पथि दानवं खरशरैः शनैर् नाशयन्

चतुर्दश-सहस्रकं समहनत् खरं स+अनुगम्

दशाननवशानुगं कनकचारुचञ्चन् मृगं)

प्रिय+अप्रियकरो वने समवधीद् बलाद् राक्षसम्))35

ततो दशमुखस् त्वरंस् तम् अभिवीक्ष्य रामं रुषा)

व्रजन्तम् अनुलक्ष्मणं जनकजा जहाराश्रमे)

ततो रघुपतिः प्रियां दलकुटीरसंस्थापितां)

न वीक्ष्य तु विमूर्छितो बहु विलप्य सीतेति ताम्))36

वने निज-गणाश्रमे नगतले जले पल्वले)

विचित्य पतितं खगं पथि ददर्श सौमित्रिणा) (पथ्Ίन्= ) पथ्Ί= )

जटायुवचनात् ततो दशमुखाहृतां जानकीं

विविच्य कृतवान् मृते पितरि वह्निकृत्यं प्रभुः))37

प्रिवा-विरह-कातरो ऽनुजपुरः सरो राघवो)

धनुर्धरधुरन्धरो हरिबलं नवालापिनम्)

ददर्श ऋषभाचलाद्रविजवालिराजानुज-)

प्रियं पवननन्दनं परिणतं हितं प्रेषितम्))38

ततस् तद् उदितम् मतं पवनपुत्रसुग्रीवयोस्)

तृणाधिपति-भेदनं निज-नृपासन-स्थापितम्)

विविच्य व्यवसायकैर् निजसखाप्रियं वालिनं)

निहत्य हरिभूपतिं निज-सखं स रामो ऽकरोत्))39

अथो’त्तरम् इमां हरिर् जनकजां समन्वेषयन्)

जटायुसहजोदितैर्जलनिधिं तरन्वायुजः)

दसनन-पुरं विशञ् जनकजां समानन्दयन्न्)

अशोकवनिकाश्रमे रघुपतिं पुनः प्राययाव्))40

ततो हनुमता बलाद् अमितरक्षसां नाशनं)

ज्वलज्ज्वलनसंकुलज्वलितदग्ध-लङ्का-पुरम्)

विविच्य रघुनायको जलनिधिं रुषा शोषयन्)

बबन्ध हरियूथपैः परिवृतो नगैर् ईश्वरः))

बभञ्ज पुर-पत्तनं विविधसर्गदुर्गक्षमं

निशाचरपतेः क्रुधा रघुपतिः कृती सद्गतिः))41

ततो ऽनुजयुतो युधि प्रबलचण्डकोदण्डभृत्)

शरैः खरतरैः कृधा गज-रथ+अश्व-हंसाकुले)

कराल-करवालतः प्रबलकालजिह्वाग्रतो

निहत्य वरराक्षसान् नरपतिर् बभौ स+अनुगः))42

ततो ऽतिबलवान् अरैर् गिरिमहीरुहो’द्यत्करैः)

करालतरताडनैर् जनकजारुषा नाशितान्)

निजघ्नुरमरार्दनानतिबलन्दशास्यानुगान्)

नलाङ्गदहरीश्वर ऽशुगसुतर्क्षराजादयः))43

ततो ऽतिबल-लक्ष्मणस् त्रिदसनाथसत्रुंरणे)

जघान घनघोषणानुगगणैर् असृक् प्राशनैः)

प्रहस्त विकटादिकानपि निशाचरान् सङ्गतान्)

निकुम्भमकराक्षकान्निशित-खड्ग-पातैः क्रुधा))44

ततो दशमुखो रणे गज-रथ+अश्वपत्तीश्वरैर्)

अलङ्/घ्यगणकोटिभिः परिवृतो युयोधायुधैः)

कपीश्वरचमूपतेः पतिमनन्तदिव्यायुधं)

रघूद्वहमनिन्दितं सपदि सङ्गतो दुर्जयः))45

दशाननम् अरिंततो विधिवरस्मयावर्धितं)

महाबलपराक्रमं गिरिम् इवाचलं संयुगे)

जघान रघुनायको निशितसायकैर् उद्धतं)

निशाचरचमूपतिं प्रबलकुम्भकर्णं ततः))46

तयोः खरतरैः शरैर् गगनमच्छमाच्छादितं)

बभौ घनघटासमं मुखरमत्तडिद्वह्निभिः)

धनुर्गुणमहाशनिध्वनिभिर् आवृतं भूतलं)

भयङ्कर-निरन्तरं रघुपतेश् च रक्षःपतेः))47

ततो धरणिजारुषा विविधरामबाणौजसा

पपात भुवि रावणस् त्रिदशनाथविद्रावणः)

ततो ऽतिकुतुकी हरिर् ज्वलनरक्षितां जानकीं)

समर्प्य रघुपुङ्गवे निजपुरीं ययौ हर्षितः))48

पुरन्दरकथादरः सपदि तत्र रक्षःपतिम्)

बिभीषणम् अभीषणं समकरोत् ततो राघवः))41

हरीश्वरगणावृतो ऽवनिसुतायुतः सानुजो)

रथे शिवसखेरिते सुविमले लसत्-पुष्पके)

मुनीश्वरगणार्चितो रघुपतिस् त्व् अयोध्यां ययौ)

विविच्य मुनिलाञ्छनं गुहगृहे ऽतिसख्यं स्मरन्))50

ततो निजगणावृतो भरतम् आतुरं सान्त्वयन्)

स्वमातृगणवाक्यतः पितृनिजासने भूपतिः)

वसिष्ठमुनिपुङ्गवाय्ः कृतनिज+अभिषेको विभुः)

समस्तजनपालकः सुरपतिर् यथा संबभौ))51

नरा बहुधनाकरा द्विजवरास् तपस् तत्पराः)

स्वधर्मकृतनिश्चयाः स्वजनसङ्गता निर्भयाः)

घनाः सुबहुवर्षिणो वसुमती सदा हर्षिता)

भवत्य् अतिबले नृपे रघुपताव् अभूत् सज्जगत्))52

गतायुतसमाः प्रियैर् निजगुणैः प्रजा रञ्जयन्)

निजां रघुपतिः प्रियां निज-मनोभवैर् मोहयन्)

मुनि+इन्द्र-गण-संयुतो ऽप्य् अयजद् आदि-देवान् मखैर्)

धनैर् विपुलदक्षिणैर् अतुल-वाजि-मेघैस् त्रिभिः))53

ततः किमपि कारणं मनसि भावयन् भूपतिर्)

जहौ जनकजां वने रघुवरस् तदा निर्घृणः)

ततो निजमतं स्मरन् समनयत् प्रचेतः सुतो)

निजाश्रमम् उदारधी रघुपतेः प्रियां दुःखिताम्))54

ततः कुश-लवौ सुतौ प्रसुषुवे धरित्री-सुता)

महाबल-पराक्रमौ रघुपतेर् यशोगायनौ)

स ताम् अपि सुतान्वितां मुनिवरस् तु रामा’न्तिके)

समर्पयद् अनिन्दितां सुरवरैः सदा वन्दिताम्))55

ततो रघुपतिस् तु तां सुतयुतां रुदन्तीं पुरो)

जगाद दहने पुनः प्रविश शोधनायात्मनः)

इति+इरितम् अवेक्ष्य सा रघुपतेः पदाब्जे नता)

विवेश जननीयुता मणिगणोज्ज्वलं भूतलम्))56

निरीक्ष्य रघुनायको जनकजाप्रयाणं स्मरन्)

वसिष्ठ-गुरु-योगतो ऽनुज-युतो ऽगमत् स्वं पदम्)

पुरः स्थितजनैः सुअकैः पशुभिर् ईश्वरः संस्पृशन्) (पुरः स्थिते=it being imminent) सुअक=

मुदा सरयुजीवनं रथ-वरैः परीतो विभुः))57 (सर्Άयु=mं air , wind/ f N of a well-known river (commonly called Surjoo) on which stood the ancient city अयोध्या)

– – – υ υ – | υ – υ υ υ – | – | – υ – | – υ – metre follows:

ये शृण्वन्ति रघूद्वहस्य चरितं कर्नामृतं सादरात्)

संसार+अर्णव-शोषणञ् च पठताम् आमोददं मोक्षदम्)

रोगाणाम् इह शान्तये धन-जन-स्वर्ग+आदि-सम्पत्तये)

वंशानाम् अपि वृद्धये प्रभवति श्रीशः परेशः प्रभुः))58

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

सूर्य-वंश+अनुवर्णने श्री-रामचन्द्र-चरितं नाम तृतीयो ऽध्यायः))3


तृतीयांशः) चतुर्थो ऽध्यायः)

रामात् कुसो ऽभूद् अतिथिस् ततो ऽभून् निषधान् नभः

तस्माद् अभूत् पुण्डरीकः क्षेमधान्व् ऽभवत् ततः))1

देवानीकस् ततो हीनः पारिपात्रो ऽथ हीनतः

बलाहकस् ततो ऽर्कश् च रजनाभस् ततो ऽभवत्))2

खाणाद् विधृतस् तस्माद् धिरण्यनाभ-सङितः (हिरण्य-नाभ)

ततः पुष्पाद् ध्रुवस् तस्मात् स्यन्दनो ऽथ+अग्निवर्णकः))3

तस्माच् छीघ्रो ऽभवत् पुत्रः पिता मे ऽतुल-विक्रमः

तस्मान् मरुं मां के ऽपि+इह बुधञ् च+अपि सुमित्रकम्))4

कलाप-ग्रामम् आसाद्य विद्धि सत्तपसि स्थितम् («कलाप-ग्राम: यह ग्राम हिमालय पर्वतके दक्षिणमें है) यदु-कुलका क्षय होनेपर श्री-कृष्णजीकी दूसरी रानी सत्यभामा तपकरनेको इसग्राममें गईथी»)

तव+अवतारं विज्ञाय व्यासात् सत्यवती-सुतात्))5

प्रतीक्ष्य कालं लक्षाब्दं कलेः प्राप्तस्तवान्तिकम्)

जन्म-कोट्यंहसां राशेर् नाशनं धर्म-शासनम्)

यशः-कीर्ति-करं सर्व-काम-पूरं परात्मनः))6

कल्किर् उवाच)

ज्ञातस् तव+अन्वयस् त्वञ् च सूर्य-वंश-समुद्भवः

द्वितीयः को ऽपरः श्रीमान्-महापुरुष-लक्षणः))7

इति कल्कि-वचः श्रुत्वा देवापिर् मधुराक्षराम्

वाणीं विनय-सम्पन्नः प्रवक्तुम् उपचक्रमे))8

देवापिर् उवाच)

प्रलयान्ते नाभि-पद्मात् तव+अभूच् चतुराननः

तद् ईय-तनयाद् अत्रेश् चन्द्रस् तस्मात् ततो बुधः))9

तस्मात् पुरूरउआ जज्ञे ययातिर् नहुषस् ततः

देवयान्यां ययातिस् तु यदुं तुर्वसुम् एव च))10

शर्मिष्थायां तथा द्रुह्युञ् च+अनुं पूरुञ् च सत्पते (सत्पते=«हे साधुपालक»)

जनयाम् आस भूत+आदिर् भूतानि+इव सिसृक्षया))11(ययाति 5 sons correspond to the 5 elements)

पूरोर् जन्मेजयस् तस्मात् प्रचिन्वान् अभवत् ततः

प्रवीरस् तन् मनस्युर् वैं तस्माच् च+अभयदो ऽभवत्))12

उरुक्षयाच् च तृयरुणिस् ततो ऽभूत् पुष्करारुणिः

बृहत्क्षेत्राद् अभूद् धस्ती यन् नाम्ना हस्तिनापुरम्))13

अजमीढो द्विमीढश् च पुरमीढस् तु तत् सुताः (= of हस्ति 3 sons)

अजमीढाद् अभूद् ऋक्षस् तस्मात् संवरणात् कुरुः))14

कुरोः परिक्षित् सुधनुर् जह्नुर् निषध एव च («परीक्षित्के पुत्र सुधनु, जह्नु और निषध हुए»)

सुहोत्रो ऽभूत् सुधनुषश् च्यवनाच् च ततः कृती))15 («सुहोत्रका पुत्र च्यवन»)

ततो बृहद्रथस् तस्मात् कुशाग्राद् ऋषबो ऽभवत्

ततः सत्यजितः पुत्रः पुष्पवान् नहुषस् ततः))16

बृहद्रथ+अन्य-भर्यायां जरासन्धः परन्तपः

सहदेवस् ततस् तस्मात् सोमापिर् यच् छ्रुतश्रवाः ))17

सुरथाद् विदूरथस् तस्मात् सार्वभौमो ऽभवत् ततः (metrically wrong, 5 syllables instead of 4, probably because it is proper names that could not change to fit)

जयसेनाद् रथानीको ऽभूद् युत+आयुश् च कोपनः))18 (युत=kept off/ removed/separate)

तस्माद् देवातिथिस् तस्माद् दृक्षस् तस्माद् दिलीपकः

तस्मात् प्रतीपकस् तस्य देवापिर् अहम् ईश्वर!))19

राज्यं शान्तनवे दत्त्वा तपस्य् एकधिया चिरम्

कलाप-ग्रामम् आसाद्य त्वां दिदृक्षुर् इह+अगतः))20

मरुणा ऽनेन मुनिबिर् एबिः प्राप्य पदाम्बुजम्

तव काल-कराल+अस्याद् यास्याम्य् आत्मवतां पदम्))21 (अस्याद्=from mouth)

तयोर् एवं वचः श्रुत्वा कल्किः कमल-लोचनः

प्रहस्य मरु-देवापि समाश्वास्य समब्रवीत्))22

कल्किर् उवाच)

युवां परम-धर्मज्ञौ राजानौ विदिताव् उभौ

मद् आदेश-करौ भूत्वा निज-राज्यं भरिष्यथः))23 (आदेश =)

मरो त्वाम् अभिषेक्ष्यामि निज+अयोध्या-पुरे ऽधुना

हत्वा म्लेच्छान् अधर्मिष्थान् प्रजा-भूत-विहिंसकान्))24

देवापे तव राज्ये त्वां हस्तिनापुरपत्तने

अभिषेक्ष्यामि राज+र्षे हत्वा पुक्कसकान् रणे))25

मथुरा+अयाम् अहं स्थित्वा हरिष्यामि तु वो भयम्

शय्याकर्णान् उष्ट्रमुखान् एक-जङ्/घान् विनोदरान्))26

हत्वा कृतं युगं कृत्वा पालयिष्याम्य् अहं प्रजाः

तपो-वेशं व्रतं त्यक्त्वा समारुह्य रथोत्तमम्))27

युवां शस्त्र+अस्त्र-कुशलौ सेना-गण-परिच्छदौ (परि-च्छद्=furnished or provided or adorned with (comp))

भूत्वा महारथौ लोके मया सह चरिष्यथः))28 (मया सह=)

विशाखयूप-भूपालस् तनयां विनयान्विताम्

विवाहे रुचिरापाङ्गीं सुन्दरीं त्वां प्रदास्यति))29

साधो भूपाल लोकानां स्वस्तये कुरु मे वचः («हे मरो!»)

रुचिराश्व-सुतां शान्तां देवापे त्वं समुद्वह))30 («शान्ता-नामक»)

इत्य् आश्वासकथाः कल्केः श्रुत्वा तौ मुनिभिः सह

विस्मया-विष्ट-हृदयौ मेनाते हरिम् ईश्वरम्))31

इति ब्रुवत्य् अभयदे आकाशात् सूर्य-सन्निभौ)

रथौ नाना-मणि-व्रात-घटितौ कामगौ पुरः)

समायातौ ज्वलद्-दिव्य-शस्त्र+अस्त्रैः परिवारितौ))32

ददृशुस् ते सदोमध्ये विश्व-कर्म-विनिर्मितौ

भूपा मुनि-गणाः सभ्याः सहर्षाः किम् इति+इरिताः))33

कल्किर् उवाच)

युवाम् आदित्य-सोमे’न्द्र-यमैवश्रवणाङ्गजौ

राजानौ लोक-रक्ष+अर्थम् आविर्भूतौ विदन्त्यमी))34 (आव्ίर्-भूत=become apparent , visible , manifest)

कालेनाच्छादिताकारौ मम सङ्गादिहोदितौ

युवां रथाव् आरुहतां शक्र-दत्तं मम+आज्ञया))35 (आ-रुह=leaping up , mounting , ascending)

एवं वदति विश्वे’शे पद्मनाथे सनातने

देवा ववर्षुः कुसुमैस्) तुष्टुवुर् मुनयो ऽग्रतः))36 (ऽग्रत्άः =in front, before/in the beginning, first RV/(with gen) before, in presence of)

गङ्गावारिपरिक्लिन्न-शिरोभूति-परागवान्

शनैः पर्वतजा-सङ्ग-शिववत् पवनो ववौ))37 (ववौ= blew) (शनैः=quiet , calm , soft)

– – – – | υ υ υ υ υ – | – υ – | – υ – | – metre follows)

तत्रायातः प्रमुदित-तनुस्-तप्त-चामीकर+आभो)

धर्मावासः सु-रुचिर-जटाचीरभृद्-दण्ड-हस्तः)

लोकातीतो निज-तनु-मरुन् नाशिता ऽधर्म-संघस्)

तेजोराशिः सनक-सदृशो मस्करी पुष्कराक्षः))38

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

चन्द्र-वंश+अनुकीर्तनं नाम चतुर्थो ऽध्यायः))4


तृतीय+अंशः) पञ्चमो ऽध्यायः) शुक उवाच)

अथ कल्किः समालोक्य सदसाम् पतिभिः सह

समुत्थाय ववन्दे तं पाद्य+अर्घ्य+आचमन+आदिभिः))1

वृद्धं संवेश्य तं भिक्षुं सर्वाश्रम-नमस्कृतम्

पप्रच्छ को भवानत्र मम भाग्याद् इहा’गतः))2

प्रायशो मानवा लोके लोकानां पारणेच्छया

चरन्ति सर्व-सुहृदः पूर्णा विगतकल्मषाः))3

मस्कर्य् उवाच)

अहं कृतयुगं श्रिश तव+आदेशकरं परम्

तव+आविर्-भाव-विभवम् ईक्षणार्थम् इहा’गतम्))4 (तद् ईक्षण=look, view, aspect sight)

निर्-उपाधिर् भवान् कालः सो’पाधित्वम् उपागतः

क्षण-दण्ड-लव+आद्य्-अङ्गैर् मायया रचितं स्वया))5

पक्ष+अहो’रात्र-मास+र्तु-संवत्सर-युग+आदयः

तवे’क्षया चरन्त्य् एते मनवश् च चतुर्दश))6 («40 मनु»)

स्वायम्भुवस् तु प्रथमस् ततः स्वारोचिषो मनुः

तृतीय उत्तमस् तस्माच् चतुर्थस् तामसः स्मृतः))7

पञ्चमो रैवतः षष्ठश् चक्षुषः परि-कीर्तितः

वैवस्वतः सप्तमो वै ततः सावर्णिर् अष्टमः))8

नवमो दक्षसावर्णिर् ब्रह्मसावर्णिकस् ततः

दशमो धर्मसावर्णिर् एकादशः स उच्यते))9

रुद्रसावर्णिकस् तत्र मनुर् वैं द्वादशः स्मृतः

त्रयोदश-मनुर् वेदसावर्णिर् लोक-विश्रुतः))10

चतुर्दशे’न्द्रसावर्णिर् एते तव विभूतयः

यान्त्यायान्ति प्रकाशन्ते नाम-रूप+आदि-भेदतः))11

द्वादशाब्दसहस्रण देवानाञ् च चतुर्-युगम्

चत्वारि त्रीणि द्वे चैकं सहस्रगणितं मतम्))12

तावच् छतानि चत्वारि त्रीणि द्वे चै’चम् एव हि

सन्ध्याक्रमेण तेषान् तु सन्ध्यांशो ऽपि तथाविधः))13

एक-सप्ततिकं तत्र युगं भुङ्क्ते मनुर् भुवि) (भुङ्क्त्έ (भुज्)= enjoy)

मनूनाम् अपि सर्वेषाम् एवं परिणातिर् भवेत्)

दिवा प्रजापतेस् तत् तु निशा सा परिकीर्तिता))14

अहो-रात्रञ् च पक्षस् ते मास-संवत्सरर् तवः

सद्-उपाधिकृतः कालो ब्रह्मणो जन्म-मृत्यु-कृत्))15

शत-संवत्सरे ब्रह्मा लयं प्राप्नोति हि त्वयि

लयान्ते त्वन् नाभि-मध्याद् उत्थितः सृजति प्रभुः))16

तत्र कृत-युग+अन्ते ऽहं कालं सद्-धर्म-पालकम्

कृतकृत्याः प्रजा यत्र तन् नाम्ना मां कृतं विदुः))17

इति तद् वच आश्रुत्य कल्किर् निज-जनावृतः

प्रहर्षम् अतुलं लब्धा श्रुत्वा तद् वचन+अमृतम्))18

अवहित्थाम् उपालक्ष्य युगस्याह जनान् हितान्

योद्धु-कामः कलेः पूर्यां हृष्तो विशसने प्रभुः))19

υ υ υ υ υ υ – | υ – υ – – || υ υ υ υ – υ υ – | υ – υ – – || metre follows:

गज-रथ-तुरगान् नरांश् च योधान्)

कनक-विचित्र-विभूषणाचिताङ्गान्))

धृत-विविध-वर+अस्त्र-शस्त्र-पूगान्)

युधि-निपुणान् गणयध्वम् आनयध्वम्))20

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

कृत-युग+आगमनं नाम पञ्चमो ऽध्यायः))5


तृतीय+अंशः) षष्ठो ऽध्यायः) सूत उवाच)

इति तौ मरु-देउआपी श्रुत्वा कल्केर् वचः पुरः

कृतो’द्वाहौ रथ+आरूढौ समायातौ महाभुजौ))1

नानायुधधरैः सैन्यैर् आवृतौ शूरमानिनौ

बद्ध-गोधाङ्गुलि-त्रणौ दंशितौ बद्ध-हस्तकौ))2

कार्ष्नायस-शिरस्-त्राणौ धनुर्-धर-धुरन्-धरौ)

अक्षौहिणीभिः षड्गभिस् तु कम्पयन्तौ भुवं भरैः))3(अक्षौहिणी one syllable is not counted in metre as in श्रीमद्-भगवतम्)

विशाखयूप-भूपस् तु गज-लक्षैः समावृतः

अश्वैः सहस्रनि-युतैः रथैः सप्त-सहस्रकैः))04

पदातिभिर् द्वि-लक्षैश् च सन्नद्धैर् धृतकार्मुकैः

वातोद्धूतो’त्तरोष्नीषैः सर्वतः परिवारितः))5

रुधिराश्वसहस्राणां पञ्चाशद्भिर् मगारथैः

गजैर् दशशतैर् मत्तैर् नव-लक्षैर् वृतो बभौ))6

अक्षौहिणीभिर् दशभिः कल्किः पर-पुरञ्-जयः

समावृतस् तथा देवैर् एवम् इन्द्रो दिवि स्वराट्))7

भ्रातृ-पुत्र-सुहृद्भिश् च मुदितः सैनिकैर् वृतः

ययौ दिग्-विजयाकाङ्क्षी जगताम् ईश्वरः प्रभुः))8

काले तस्मिन् द्विजो भूत्वा धर्मः परिजनैः सह

सम्-आ-जगाम कलिना बलिना+अपि निराकृतः))9

र्तं प्रसादम् अभयं सुखं मुदम् अथ स्वयम्

योगम् अर्थं ततो ऽदर्पं स्मृतिं क्षेमं प्रतिश्रयम्))10

नर-नारायणौ चो’भौ हरेर् अंशौ तपोव्रतौ

धर्मस् त्व् एतान् समादाय पुत्रान् स्त्रीश् चा’गतस् त्वरन्))11

श्रद्धा मैत्री दया शान्तिस् तुष्तिः पुष्तिः क्रिया+उन्नतिः

बुद्धिर् मेधा तितिक्षा च ह्रीर् मूर्तिर् धर्म-पालकाः))12

एतास् तेन सहायाता निज-बन्धु-गणैः सह

कल्किम् आलोकितुं तत्र निज-कार्यं निवेदितुम्))13

कल्किर् द्विजं समासाद्य पूजयित्वा यथाविधि

प्रोवाच विनयापन्नः कस् त्वं कस्माद् इहा’गतः))14

स्त्रीभिः पुत्रैश् च सहितः क्षीण-पुण्य इव ग्रहः

कस्य वा विषयाद् राज्नस् तत् तत् त्वं वद तावतः))

पुत्राः स्त्रियश् च ते दीना हीन-स्व्-अबल-पौरुषाः

वैष्णवाः साधवो यद्वत् पाखण्दैश् च तिरस्-कृताः))16

कल्केर् इति वचः श्रुत्वा धर्मः शर्म निजं स्मरन्

प्रोवच कमलानाथम् अनाथस् त्व् अति-कातरः))17

पुत्रैः स्त्रीभिर् निज-जनैः कृताञ्जलि-पुटैर् हरिम्

स्तुत्वा नत्वा पूजयित्वा मुदितं तं दयापरम्))18

धर्म उवाच)

शृणु कल्के मम+अख्यानं धर्मो ऽहं ब्रह्म-रूपिणः

तव वक्षः-स्थलाज् जातः कामदः सर्वदेहिनाम्))19

देवानाम् अग्रणीर् हव्य-कव्यानां काम-धुग् विभुः

तव+आज्ञया चराम्य् एव साधु-कीर्ति-कृद् अन्व् अहम्))20

सो ऽहं कालेन बलिना कलिना+अपि निराकृतः

शक-काम्बोज-शबरैः सर्वैर् आवासवासिना))21

अधुना ते ऽखिला-धार! पाद-मूलम् उपागताः

यथा संसार-काल+अग्नि-संतप्ताः साधवो ऽर्दिताः))22

इति वाग्भिर् अपूर्वाभिर् धर्मेण परितोषितः

कल्किः कल्क-हरः श्रीमान् आह संहर्षयञ् छनैः))23

धर्म! कृत-युगं पश्य मरुं चण्ड+अंशु-वंशजम्

मां जानासि यथा जातं धातृ-प्रार्थित-विग्रहम्))24

किटकैर् बौद्ध-दलनम् इति मत्वा सुखी भव (किटक/ see किटिक=a kind of weapon (?) Paa/n/ 2-4, 85 Vaartt/ 3 Pat)

अवैष्णवानाम् अन्येषां तवो’पद्रव-कारिणाम्)

जिघांसुर्यामि सेनाभिश् चर गां त्वं विनिर्भयः))25

का भीतिस् ते क्व मोहो ऽस्ति यज्ञ-दान-तपो-व्रतैः

सहितैः संचर विभो! मयि सत्ये व्युपस्थिते))26

अहं यामि त्वया गच्छ स्व-पुत्रैर् बान्धवैः सह

दिशां जयार्थं त्वं शत्रु-निग्रहार्थं जगत्-प्रिय))27

इति कल्केर् वचः श्रुत्वा धर्मः परमहर्षितः

गन्तुं कृतमतिस्तेन आधिपत्यममं स्मरन्))28

सिद्धाश्रमे निज-जनान् अवस्थाप्य स्त्रियश् च ताः))29

सन्नद्धः साधु-सत्कारैर् वेद-ब्रह्म-महारथः

नाना-शास्त्रान्वेषणेषु संकल्प-वरकार्मुकः))30

सप्त-स्वर+अश्वो भूदेव-सारथिर् वह्निर् आश्रयः

क्रियाभेदबलोपेतः प्रययौ धर्म-नायकः))31

यज्ञ-दान-तपः-पात्रैर् यमैश्च नियमैर् वृतः

खश-काम्बोजकान् सर्वाञ् छबरान् बर्बरान् अपि))32

जेतुं कल्किर् ययौ यत्र कलेर् आवासम् ईप्सितम्

भूतावासबलोपेतं सारमेयवराकुलम्))33

गोमांस-पूतिगन्धाध्यं काको’लूचशिवावृतम्

स्त्रीणां दुर्द्यूत-कलह-विवाद-व्यसन+आश्रयम्))34

घोरं जगद्-भयकरं कामिनी-स्वामिनं गृहम् (स्वामिन्= )

कलिः श्रुत्वोद्यमं कल्केः पुत्र-पौत्र-वृतः क्रुधा))35

पुराद् विशसनात् प्रायात् प्रेचकाक्ष-रथोपरि

भर्मः कलिं समालोक्य र्षिभिः परिवारितः))36

युयुधे तेन सहसा कल्कि-वाक्य-प्रचोदितः

र्तेन दम्भः संग्रामे प्रसादो लोभम् आह्वयत्))37 (आह्वयत्=)

समयाद् अभयं क्रोधो भयं सुखम् उपाययौ

निरयो मुदम् आसाद्य युयुधे विविध+आयुधैः))38

आधिर्-योगेन च व्याधिः क्षेमेण च बलीयसा

प्रश्रयेण तथा ग्लानिर् जरा स्मृतिम् उपाह्वयत्))39

एवं वृत्तो महाघोरो युद्धः परमदारुणः

तं द्रष्टुम् आगता देवा ब्रह्माद्याः खे विभूतिभिः))40

मरुः खशैश् च काम्बोजैर् युयुधे भीम-विक्रमैः

देवापिः समरे चौनैर् बर्बरैस् तद् गणैर् अपि))41 (in the dictionary there is no चौन nor चैन nor चुन) only चीन= Chinese people) so must be read चीनैर्, चौनैर् being printing error) of course can be read चौडैर्) the हिन्दि translation says «चीन (चोल) बर्बर»)

विशाखयूप-भूपालः पुलिन्दैः श्वपचैः सह

युयुधे विविधैः शस्त्रायृ अस्त्रैर् दिव्यैर् महाप्रभैः))42

कल्किः कोक-विकोकाभ्यां वाहिनीभिर् वरायुधैः

तौ तु कोक-विकोकौ च ब्रह्मणो वर-दर्पितौ))43

भ्रातरौ दानव-श्रेष्थौ मत्तउ युद्ध-विशारदौ

एक-रूपौ महासत्त्वौ देवानां भय-वर्धनौ))44

पदातिकौ गदाहस्तौ वज्राङ्गौ जयिनौ दिशाम्

शुम्भैः परिवृतौ मृत्यु-जिताव् एकत्र योधनात्))45

ताभ्यां स युयुधे कल्किः सेना-गण-समन्वितः

शुभानां कल्कि-सैन्यानां समरस् तुमुलो ऽभवत्))46

ह्रेषितैर् बृंहितैर् दन्त-शब्दैष् टङ्कार-नादितैः

शूरो’त्क्रुष्तैर् बाहु-वेगैः संशब्दस् तलताडनैः))47

संपूरिता दिशः सर्वा लोका नो शर्म लेभिरे

देवाश् च भय-संत्रस्ता दिवि व्यस्तपथा ययुः))48

– – – – | – υ – | – υ – – | metre follows)

exceptionally υ – – – | – υ – | – υ – – |

पाशैर् दण्दैः खड्ग-शक्त्य्-र्ष्ति-शूलैर्)

गदा-घातैर् बाण-पातैश् च घोरैः)

युद्धे शूरास् छिन्न-बाह्व्-अङ्/घ्रि-मध्याः)

पेतुः संख्ये शतशः कोटिशश् च))49

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

कल्कि-सेना-संग्रामो नाम षष्ठो ऽध्यायः)) (संग्रामः = multitude, army, combat)

तृतीय+अंशः) सप्तमो ऽध्यायः) सूत उवाच)

एवं प्रवृत्ते संग्रामे धर्मः परम-कोपनः

कृतेन सहितो घोरं युयुधे कलिना सह))1(कृतेन=«सत्ययुगके साथ»)

कलिर् दमित्र-बाणौघैर् धर्मस्य+अपि कृतस्य च

पराभूतः पुरीं प्रायात् त्यक्त्वा गर्दभ-वाहनम्))2 (गर्दभ्ά= )

विच्छिन्न-पेचक-रथः स्रवद्रक्ताङ्गसञ्चयः

छछुर्-गन्धः करालास्यः स्त्री-स्वामिकम् अगाद् गृहम्))3

दम्भः सम्भोग-रहितो’द्धृत-बाण-गणा-हतः (ύद्-धृत= )

व्याकुलः स्वकुलांगारो निःसारः प्राविशद् गृहम्))4

लोभः प्रसाद+अभिहतो गदया भिन्न-मस्तकः

सारमेय-रथं छिन्नं त्यक्त्वा+अगाद् रुधिरं वमन्))5 (वमन्= )

अभयेन जितः क्रोधः कषायिकृत-लोचनः

गन्धाखु-वाहं विच्छिन्नं त्यक्त्वा विशसनं गतः))6 (गन्धाखु स= the musk rat)

भयं सुखतलाघाताद् गतासुर् न्य्-अपतद् भ.्रुवि («पृथ्वीपर गिरपडा»)

निरयो मुद-मुष्टिभ्यां पीडिता यमम् आययौ))7 (मुष्ट्ί= )

आधि-व्याध्य्-आदयः सर्वे त्यक्त्वा वाहम् उपाद्रवन्

नाना-देशान् भयो’द्विग्नाः कृतबाण-प्रपीडिताः))8

धर्मः कृतेन सहितो गत्वा विशसनं कलेः

नगरं बाण-दहनैर् ददाह कलिना सह))9

कलिर् विप्लुष्ट-सर्व+अङ्गो मृत-दारो मृत-प्रजः

जगामैको रुदन्दीनो वर्ष+अन्तरम् अलक्षितः))10 (ά-लक्षितः=)

मरुस् तु शक-काम्बोजाञ् जघ्ने दिव्य+अस्त्र-तेजसा

देवापिः शबरांश् चोलान् बर्बरान्स् तद् गणान् अपि))11 (चोल/चोड=people in southern India on the Coromandel (= [चोल-मण्डल]) coast)

दिव्य+अस्त्र-शस्त्र-सम्पातैर् अर्दयाम् आस वीर्यवान्

विशाखयूप-भूपालः पुलिन्दान् पुक्कसान् अपि))12

जघान विमल-प्रज्ञः खड्गपातेन भूरिणा

नाना+अस्त्र-शस्त्र-वर्षैस् ते योधा नेशुर् अनेकधा))13 (नश्>ननाश>plural: नेशुर्)

कल्किः कोक-विकोकाभ्यां गदा-पाणिर् युधां पतिः

युयुधे विन्यासविज्ञो लोकानां जनयन् भयम्))14

वृकासुरस्य पुत्रौ तौ नप्तारौ शकुनेर् हरिः

तयोः कल्किः स युयुदे मधु-कैटभयोर् यथा))15

तयोर् गदा प्रहारेण चूर्नितांगस्य तत्-पतेः

कराच् च्युता’पतद् भूमौ दृष्त्वो’चुरित्यहो जनाः))16

ततः पुनः क्रुधा विष्णुर् जगज्-जिस्नुर् महाभुजः

भल्लकेन शिरस् तस्य विकोकस्य+अच्छिनत् प्रभुः))17 (भल्ल=a kind of arrow or missile with a point of a particurlar shape)

मृतो विकोकः कोकस्य दर्शनाद् उत्थितो बली

तद् दृष्टा विस्मिता देवाः कल्किश् च परवीरहा))18

प्रतिकर्तुर् गदापाणेः कोकस्य+अप्य् अच्छिनच् छिरः

मृतः कोको विकोकस्य दृष्टिपातात् समुत्थितः))19

पुनस् तौ मिलितौ तेन युयुधाते महाबलौ

काम-रूप-धरौ वीरौ काल-मृत्यू इवापरौ))20

खड्ग-चर्म-धरौ कल्किं प्रहरन्तौ पुनः पुनः

कल्किः क्रुधा तयोस् तद्वद् बाणेन शिरसी हते))21

पुनर् लग्ने समालोक्य हरिश् चिन्तापरो ऽभवत्

विसत्त्वत्वम् अथा’लोक्य तुरगस् तावताडयत्))22

काल-कल्पौ दुराधर्षौ तुरगेणार्दितौ भृशम्

कल्केस् तं जघ्नतुर् भाणैर् अमर्षात् ताम्र-लोचनौ))23 (ताम्र= (temir, metall)

तयोर् भुजान्तरन् सो ऽश्वः क्रुधा समदशद् भृशम्

तौ तु प्रभिन्नास्थिभुजाव् विशस्ताङ्गदकार्मुकौ

पुच्छं जगृहतुः सप्तेर् गो-पुच्छं बालकाव् इव))24 (पुच्छ= )

धृत-पुच्छौ मुर्छितौ तौ तत्-क्षणात् पुनर् उत्थितौ

पश्चात् पद्भ्यां दृढं जघ्ने तयोर् वक्षसि वज्रवत्))25

त्यक्त- पुच्छौ मुर्छितौ तौ तत्-क्षणात् पुनर् उत्थितौ

पुरतः कल्किम् आलोक्य बभाषाते स्फुटाक्षरौ))26 (स्फुट= )

ततो ब्रह्मा तमाभ्येत्य कृताञ्जलि-पुटः शनैः

प्रोवाच कल्किं नै’वाम् ऊ शस्त्र+अस्त्रैर् वधम् अर्हतः))27

कराघाताद् एककाले उभयोर् निर्मितो वधः

उभयोर् दर्शनाद् एव नो’भयोर् मरणं क्वचित्

विदित्वे’ति कुरुष्व्-आत्मन् युगपच् च+अनयोर् वधम्))28

इति ब्रह्मा-वचः श्रुत्वा त्यक्त-शस्त्र+अस्त्र-वाहनः

तयोः प्रहरतोः स्वैरं कल्किर् दानवयोः क्रुधा

मुष्टिभ्यां वज्र-कल्पाभ्यां बभञ्ज शिरसी तयोः))29

तौ तत्र भग्नमस्तिष्कौ भग्न-शृङ्गाव् अगाव् इव

पेततुर् दिवि देवानां भयदौ भुवि बाधकौ))30

तद् दृष्ट्वा महदाश्चर्यं गन्धर्व+अप्सरसां गणाः

ननृतुर् जगुस् तुष्टुवुश् च मुनयः सिद्ध-चारणाः

देवाश् च कुसुमा-सारैर् ववर्षुर् हर्ष-मानसाः))31

दिवि दुन्दुभयो नेदुः प्रसन्नाश् च+अभवन् दिशः)

तयोर् वध-प्रमुदितः कविर्-दश-सहस्रकान्)

स+अश्वान् महारथान् साक्षाद् अहनद् दिव्य-सायकैः))32 (सायक= )

प्राज्ञः शत-सहस्राणां योधानां रणमूर्धनि

क्षयं नित्ये सुमन्त्रस् तु रथिनां पञ्च-विशतिः))33

एवम् अन्ये गर्ग्य-भर्ग-विशाल+आद्या महारथान्

निजघ्नुः समरे क्रुद्धा निषादान् म्लेच्छ-बर्बरान्))34


एवं विजित्य तान् सर्वान् कल्किर् भूप-गणैः सह

शय्याकर्णैश् च भल्लाट-नगरञ् जेतुम् आययौ))35 (शय्या=)

– – – – | – υ – | – υ – – | metre follows)

नानावाद्यैर् लोकसंघैर् वरास्त्रैर्)

नानावस्त्रैर् भूषणैर् भूषित+अङ्गैः)

नानावाहैश् चामरैर् वीज्यमानैर्)

यातो योद्धुं कल्किर् अत्य्-उग्रसेनः))36

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

कोक-विकोक+आदीनां वधो नाम सप्तमो ऽध्यायः))7


तृतीय+अंशः) अष्टमो ऽध्यायः) सूत उवाच)

सेना-गणैः परिवृतः कल्किर् नारायणः प्रभुः)

भल्लाट-नगरं प्रायात् खड्ग-धृक् सप्ति-वाहनः))1 (भल्लाट)

स भल्लाटे’श्वरो योगी ज्ञात्वा विष्णुं जगत्-पतिम्

निज-सेना-गणैः पूर्णो योद्धु-कामो हरिं ययौ))2

स हर्षो’त्-पुलकः श्रीमान् दीर्घाङ्गः कृष्ण-भावनः) (भावनः=)

शशि-ध्वजो महातेजा गज+अयुत-बलः सुधीः))3 (सु-ध्ίίः=)

तस्य पत्नी महादेवी विष्णु-व्रत-परायणा

सुशान्ता स्वामिनं प्राह कल्किना योद्धुम् उद्यतम्))4

नाथ कान्तं जगन्-नाथं सर्वान्तर्यामिनं प्रभुम्

कल्किं नारायणं साक्षात् कथं त्वं प्रहरिष्यसि))5

शशिध्वज उवाच)

सुशान्ते परमो धर्मः प्रजापति-विनिर्मितः

युद्धे प्रहारः सर्वत्र गुरौ शिष्ये हरेर् इव))6

जीवतो राज-भोगः स्यान् मृतः स्वर्गे प्रमोदते

युद्धे जयो वा मृत्युर् वा क्षत्रियाणां सुखावहः))7

सुशान्तो’वाच)

देवत्वं भूपतित्वं वा विषयाविष्टका मिनाम् (विषय=)

उन्मदानां भवेद् एव न हरेः पाद-सेविनाम्))8

त्वं सेवकः स च+अपीसस् त्वं निष्कामः स चाप्रद्ः

युवयोर् युद्धमिलनं कथं मोहाद् भविष्यति))9

शशिध्वज उवाच)

द्वन्द्वातीते यदि द्वन्द्वम् ईश्वरे सेवके तथा

देहावेशाल् लीलयै’व सा सेवा स्यात् तथा मम))10

देहावेशाद् ईश्वरस्य कामाद्या दैहिका गुणाः

मायाङ्गा यदि जायन्ते विषयाश् च न किं तथा))11

ब्रह्मतो ब्रह्मतेशस्य शरीरित्वे शरीरिता

सेवकस्याभेददृशस् त्व् एवं जन्म-लयोदयाः))12

सेव्य-सेवकता विष्णोर् माया सेवेति कीर्तिता

द्वैत+अद्वैतस्य चेष्टा+एषा त्रिवर्ग-जनिका सताम्))13

अतो’ऽहं कल्किना योद्धुं यामि कान्ते स्वसेनया («हे कान्ते!»)

त्वं तं पूजय कान्ते’द्य कमलापतिम् ईश्वरम्))14

सुशान्ता+उवाच)

कृतार्था’हं त्वया विष्णु-सेवा-संमिलितात्मना

स्वामिन्न् इह परत्र+अपि वैष्णवी प्रथिता गतिः))15

इति तस्या वल्गु-वाग्भिः प्रणतायाः शशिध्वजः

आत्मानं वैष्णवं मेने साश्रु-नेत्रो हरिं स्मरन्))16

ताम् आलिङ्ग्य प्रमुदितः शूरैर् बहुभिर् आवृतः

वदन् नाम स्मरन् रूपं वैष्णवैर् योद्धुम् आययौ))17

गत्वा तु कल्कि-सेनायां विद्राव्य महतीं चमूम्

शय्याकर्ण-गणैर् वीरैः सन्नद्धैर् उद्यत+आयुधैः))18

शशिध्वज-सुतः श्रीमान् सूर्यकेतुर् महाबलः

मरु-भूपेन युयुधे वैस्णवो धन्विनां वरः))19

तस्य+अनुजो बृहत्केतुः कान्तः कोकिलनिस्वनः

देवापिना स युयुधे गदा+आयुद्ध-विशारदः))20

विशाखयुप-भूपस् तु शशिध्वज-नृपेण च

युयुधे विविधैः शस्त्रैः करिभिः परिवारितः))21

रुधिर+अश्वो धनुर्-धारी लघु-हस्तः प्रतापवान्

रजस्यनेन युयुधे भर्गः शान्तने धन्विना))22

शूलैः प्रासैर् गदाघातैर् बाण-शक्त्यष्टितोमरैः

भल्लैः खड्गैर् भुशुण्दीभिः कुन्तैः समभवद् रणः))23

पताकाभिर् ध्वजैश् चिह्नैस् तोमरैश् छत्र-चामरैः

प्रोद्धतधूलिपटलैर् अन्धकारो महान् अभूत्))24

गगने ऽनुघना देवाः के वा वासं न चक्रिरे

गन्धर्वैः साधु-सन्दर्भैर् गायनैर् अमृतायनैः))25

द्रष्तुं समागताः सर्वे लोकाः समरम् अद्भुतम्

शंख-दुन्दुभि-सन्नादैर् आस्फोटैर् बृंहितैर् अपि))26

ह्रेषितैर् योधनोत्क्रुष्तैर् लोका मूका इव+अभवन्

रथिनो रथिभिः साकं पदातिश् च पदातिभिः))27

हया हयैर् इभाश् चे’भैः समरो ऽमरदानवैः

यथ+अभवत् स तु घनो यमराष्ट्र-विवर्धनः))28

शशिध्वज-चमू-नाथैः कल्कि-सेना+अधिपैः सह (चमोύ सा=an army or division of an army (129 elephants , as many cars , 2187 horse , and 3645 foot) चमोύ-नाथ= army general)

निपेतुः सैनिका भूमौ छिन्न-बाह्व्-अङ्/घ्रि-कन्धराः))29

धावन्तो ऽतिब्रुवन्तश् च विकुर्वन्तो ऽसृग्-उक्षिताः

उपर्य्-उपरि संछन्ना गज+अश्व-रथमर्दिताः))30

निपेतुः प्रधने वीराः कोटि-कोटि-सहरशः

भूते सानन्द-सन्दोहाः स्रवन्तो रुधिरो’दकम्))31

उष्नीष-हंसाः संछिन्न-गजरोधोरथ-प्लवाः

करोरु-मीना-भरणम् असि-काञ्चन-वालुकाः))32 (वालुक= sand) (काञ्चन तद्)

एवं प्रवृत्ता संग्रामे नद्यः सदिओ ऽतिदारुणाः

सूर्यकेतुस् तु मरुणा सहितो युयुधे बली))33y

कालकल्पो दुराधर्षो मरुं बाणैर् अताडयत्

मरुस् तु तत्र दशभिर् मार्गणैर् आर्मूयद् भृशम्))34 (मार्गण= ) आर्मूयद् or आर्सूयद् or आस्रूयद् or आम्रूयद् or आमृयद् with all lengnths of syllables and with –त् not found in dictionary. metrically that –ऊ- is impossible) is printing error which i could not correct)

मरु-बाणा-हतो वीरः सूर्यकेतुर् अमर्षितः

जघान तुरगान् कोपात् पादोद्धातेन तद् रथम्))35

चूर्णयित्वा ऽथ तेन+अपि तस्य वक्षस्य् अताडयत्

गदाघातेन तेन+अपि मरुर् मूर्छाम् अवापह))36

सारथिस् तम् अपोवाह रथे नान्येन धर्मवित्

बृहत्केतुश् च देवापिं बाणैः प्राच्छादयद् बली))37

धनुर् विकृष्य तरसा नीहारेण यथा रविम्

स तु बाणमयं वर्षं परिवार्य निज+आयुधैः))38

बृहत्केतुं दृढं जघ्ने कङ्कपत्राः शिलाशितैः

भिन्नं शूलम् अथ+आलोक्य धनुर् गृह्य पतत् त्रिभिः))39

शितधारैः स्वर्ण-पुंखैर् गाद्ध्रपत्रैर् अयोमुखैः

देवापिम् आशुगैर् जघ्ने बृहत्केतुः स-सैनिकम्))40

देवापिस् तद् धनुर् दिव्यं चिच्छेद निशितैः शरैः

छिन्न-धन्वा बृहत्केतुः खड्ग-पाणिर् जिघांसया))41

देवापेः सारथिं स+अश्वं जघ्ने शूरो महामृधे

स देवापिर् धनुस् तिअक्त्वा तलेन+अहत्य तं रिपुम्))42

भुजयोर् अन्तरानीय निष्पिपेष स निर्दयः

तं द्व्य्-अष्ट-वर्षं निष्क्रान्तं मूर्छितं शत्रुण+अर्दितम्))43

अनुजं वीक्ष्य देवापिमूर्ध्नि सूर्यध्वजो ऽवधीत्

मुष्टिना वज्रपातेन सो ऽपतन् मूर्छितो भुवि

मूर्छितस्य रिपुः क्रोधात् सेना-गणम् अताडयत्))44

classic त्रिस्तुभ् metre follows)

शशिध्वजः सर्वजगन्-निवासं) कल्किं पुरस्तादभि-सूर्य-वर्चसम्)

श्यामं पिशङ्गाम्बरम् अम्बुजेक्षणं) बृहद्-भुजं चारु-किरीट-भूषणम्))45

नाना-मणि-व्रात-चित+अङ्ग-शोभया) निरास्तलोकेक्षणहृत्तमोमयम्)

विशाखयूप+आदिभिर् आवृतं प्रभुं) ददर्श धर्मेण कृतेन पूजितम्))46

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

शशिध्वज-कल्कि-सेनयोर् युद्धं नाम+अष्टमो ऽध्यायः))8


तृतीय+अंशः) नवमो ऽध्यायः) सूत उवाच)

हृदि-ध्यानास्-पदं रूपं कल्केर् दृष्ट्वा शशिध्वजः

पूर्णं खड्ग-धरं चारु-तुरग+आरूधम् अब्रवीत्))1

दनुर्-बाण-धरं चारु-विभूषण-वर+अङ्गकम्

पाप-ताप-विनाश+अर्थम् उद्यतं जगतां परम्))2

प्राह तं परमात्मानं हृष्टरोमा शशिध्वजः

एह्य् एहि पुण्डरीकाक्ष! प्रहारं कुरु मे हृदि))3

अथवा+आत्मन् बाणभिया तमो ऽन्धे हृदि मे विश

निर्गुणस्य गुणज्ञत्वम् अद्वैतस्य+अस्त्र-ताडनम्))4

निष्कामस्य जय+उद्योग-सहायं यस्य सैनिकम्

लोकाः पश्यन्तु युद्धे मे द्वैरथे परमात्मनः))5

परबुद्धिर् यदि दृढं प्रहर्ता विभवे त्वयि

शिव-विष्णोर् भेद-कृते लोकं यास्यामि संयुगे))6

इति राज्ञो वचः श्रुत्वा अक्रोधः क्रुद्धवद् विभुः

बाणैर् अताडयत् संख्ये धृतायुधम् अरीन् दमम्))7

शशिध्वजस् तत् प्रहारमगणय्य वरायुधैः

तं जघ्ने बाण-वर्षेण धाराभिर् इव पर्वतम्))8

तद् बाण-वर्ष-भिन्नान्तः कल्किः परम-कोपनः

दिव्यैः शस्त्र+अस्त्र-संघातैस् तयोर् युद्धम् अवर्तत))9

ब्रह्म+अस्त्रस्य च ब्रह्म+अस्त्रैर् वायव्यस्य च पार्वतैः

आग्नेयस्य च पार्जन्यैः पन्नगस्य च गारुडैः))10 (almost same श्लोक found in श्रीमद्-भगवतम् where कृष्न्ά शङ्कर 's weapons makes useless) there are many श्लोक in कल्कि-पुराणम् almost identical with those of श्रीमद्-भगवतम्)

एवं नाना-विधैर् अस्त्रैर् अन्योन्यम् अभि-जघ्नतुः

लोकाः सपालाः सन्त्रस्ता युगान्तम् इव मेनिरे))11

देवा बाण+अग्नि-सन्त्रस्ता अगमन् खगमाः किल

ततो ऽति-वितथ+उद्योगौ वासुदेव-शशिध्वजौ))12

निरस्त्रौ बाहु-युद्धेन युयुधाते परस्परम्

पदाघातैस् तलाघातैर् मुष्टि-प्रहरणैस् तथा))13

नियुद्ध-कुशलौ वीरौ मुमुदाते परस्परम्

वराह+उद्धृत-शब्देन तं तलेन+अहनद् धरिः))14

स मूर्छितो नृपः कोपात् समुत्थाय च तत्-क्षणात्

मुष्टिभ्यां वज्र-कल्पाभ्याम् अवधीत् कल्किम् ओजसा

स कल्किस् तत्-प्रहारेण पपात भुवि मूर्छितः))15

धर्मः कृतञ् च तं दृष्ट्वा मूर्छितं जगद्-ईश्वरम्

समागतौ तम् आनेतुं कक्षे तौ जगृहे नृपः))16

कल्किं वक्षस्य् उपादाय लब्ध+अर्थः प्रययौ गृहम्

युद्धे नृपाणाम् अन्येषां पुत्रौ दृष्ट्वा सुदुर्जयौ))17

– – υ – | υ υ υ – | υ υ – | υ – | – metre follows) 7/8 rythm)

कल्किं सुर+अधिप-पतिं प्रधने विजित्य)

धर्मं कृतञ् च निज-कक्ष-युगे निधाय)

हर्षो’ल्लसद् धृदय उत्पुलकः प्रमाथी)

गत्वा गृहं हरि-गृहे ददृशे सुशान्ताम्))18

– – – – | υ υ υ υ υ – | – υ – | – υ – | – metre follows) 7/8 seems)

दृष्ट्वा तस्याः सु-ललित-मुखं वैष्णवीनाञ् च मध्ये)

गायन्तीनां हरि-गुण-कथास् ताम् अथ प्राह राजा)

देव+आदीनां विनय-वचसा शम्भले जन्मना वा) («विमल वचन»)

विद्या-लाभं परिणयविधि-म्लेच्छ-पाषण्ड-नाशम्))19

कल्किः स्वयं हृदि समायम् इह+अगतो’द्धा)

मूर्छिच्-छलेन तव सेवनम् ईक्षण+अर्थम्)

धर्मं कृतञ् च मम कक्ष-युगे सुशान्ते!)

कान्ते विलोकय समर्चय संविधेहि))20 («हे कान्ते!»)

υ υ υ υ υ υ – | υ – υ – – || υ υ υ υ – υ υ – | υ – υ – – || metre follows:

इति नृप-वचसा विनोद-पूर्णा)

हरि-कृत-धर्म-युतं प्रणम्य नाथम्)

सह निज-सखिभिर् ननर्त रामा)

हरि-गुण-कीर्तनवर्तना विलज्जा))21

(नृत्य ताण्डव लास्य ताण्डव पेवलि बहुरूप लास्य छुरित यौवत terms about dance)

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

धर्म-कल्कि-कृतानाम् आनयनं नाम नवमो ऽध्यायः))9


तृतीय+अंशः) दशमो ऽध्यायः)

सुशान्ता+उवाच)

υ  υ υ – υ – | – υ – υ – | lively metre follows) 8/8 seems)

जय हरे ऽमर+अधीश-सेवितं) तव पदाम्बुजं भूरि-भूषणम्)) (भूरि= )

कुरु मम् आग्रतः साधु-सत्-कृतं) त्यज महामते! मोहम् आत्मनः))1

तव वपुर् जगद्-रूप-सम्पदा) विरचितं सतां मानसे स्थितम्))

रति-पतेर् मनो-मोह-दायकं) कुरु विचेष्टितं काम-लम्पटम्))2 (लम्पट=covetous, greedy, lustful, desirous of or addicted to (loc or comp))

तव यशो जगच्-छोक-नाशनं) मृदु-कथामृत-प्रीति-दायकम्))

स्मित-सुधो’क्षितं चन्द्रवन्-मुखं) तव करोत्व् अलं लोक-मङ्गलम्))3 (करोत्व्= ) άलम्= ) that second text has करोत्य् =maybe more correct)

मम पतिस् त्व् अयं सर्व-दुर्जयो) यदि तव+अप्रियं कर्मणा+अचरेत्)) (अयम्= )

जहि तद् आत्मनः शत्रुम् उद्यतं) कुरु कृपां न चेद् ईदृग्-ईश्वरः))4 (ईद्΄ऋश्=endowed with such qualities, such) (न चेद्= if not)

महद्-अहं-युतं पञ्च-मात्रया) प्रकृति-जायया निर्मितं वपुः)) («प्रकृति तुम्हारी भार्या है»)

तव निरीक्षणाल् लीलया जगत्- स्थिति-लयो’दयं ब्रह्म-कल्पितम्))5

भूवियन्मरुद्वारि-तेजसां राशिभिः शरीरे’न्द्रिया’श्रितैः)) – υ – υ – |– υ – υ – | here)

त्रिगुणया स्वया मायया विभो) कुरु कृपां भवत्-सेवन+अर्थिनाम्))6

तव गुणालयं नाम पावनं) कलि-मल+अपहं कीर्तयन्ति ये))

भव-भय-क्षयं ताप-तापिता) मुहुरहो जनाः संसरन्ति नो))7

तव जनुः सतां मान-वर्धनं) जिन-कुल-क्षयं देव-पालकम्)) that book writes जन्म then: υ υ – υ υ – | instead υ υ υ – υ – | metrically incorrect) I correct to जनुः based on that second text) with that same I correct that facilior lectio निज- to जिन-)

कृत-युग+अर्पकं धर्म-पूरकं) कलि-कुल+अन्तकं शं तनोतु मे))8 (श्άम्=auspiciously , fortunately , happily , well) that book writes शन्तनोतु = another writing of शं तनोतु)

मम गृहं पतिं पुत्र-नप्तृकं गज-रथैर् ध्वजाय्श् चामरैर् धनैः)) (in the book «पतिपुत्र-» metrically impossible, I correct to पतिं पुत्र-)

मणि-वर+आसनं सत्कृतिं विना) तव पद+अब्जयोः शोभयन्ति किम्))9

तव जगद्-वपुः सुन्दर-स्मितं) मुखम् अनिन्दितं सुन्दर-त्विषम्)) («हे जगद्-आत्मन्!») (अ-निन्दित=) (in the book: सुन्दरारव) आरव=) better is सुन्दर+त्विषम् as the second version)

यदि न मे प्रियं वल्गु-चेष्टिते) परि-करोत्य् अहो मृत्युर् अस्त्व् इह))10 (परि-करोति=to surround/to uphold) (चेष्टित= set in motion/ done / movement)


हयचर भयहर कर-हर-शरण खरतर वर-शर दशबल–दमन)) (खरतर=sharper , very sharp) ) दशबल=possessing 10 powers)

जय हत-पर-भर भव-वर-नशन शशधर-शत-सम रस-भर-वदन))11 also can be written शशधर-शत-सम-रस-भर-वदन, also शशधर-शत-सम-रस भर-वदन).



shriigaNeshaaya namaH ं

sushaantovaacha ं

jaya hareंamaraadhiishasevitaM tava padaaMbujaM bhuuribhuuShaNam ं

kuru mamaagrataH saadhusatkR^itaM tyaja mahaamate mohamaatmanaH ंं 1ंं

tava vapurjagadruupasaMpadaa virachitaM sataaM maanase sthitam ं

ratipatermano mohadaayakaM kuru vicheShTitaM kaamalaMpaTam ंं 2ंं

tava yashojagacह्ज्ह्okanaashakaM mR^idukathaamR^itaM priitidaayakam ं

smitasudhoxitaM chandravanmukhaM tava karotyalaM lokamaंNgalam ंं 3ंं

mama patistvayaM sarvadurjayo yadi tavaapriyaM karmaNaaंaंacharet ं

jahi tadaatmanaH shatrumudyataM kuru kR^ipaaM na chediidR^igiishvaraH ंं 4ंं

mahadahaंnyutaM paJNchamaatrayaa prakR^itijaayayaa nirmitaM vapuH ं

tava niriixaNaalliilayaa jagatsthitilayodayaM bramhakalpitam ंं 5ंं

bhuuviyanmarudvaaritejasaaM raashibhiH shariirendriyaashritaiH ं

triguNayaa svayaa maayayaa vibho kuru kR^ipaaM bhavatsevanaarthinaam ंं 6ंं

tava guNaalayaM naama paavanaM kalimalaapahaM kiirtayanti ye ं

bhavabhayaxayaM taapataapitaa muhuraho janaaH saंnsaranti no ंं 7ंं

tava januH sataaM maanavardhanaM jinakulaxayaM devapaalakam ं

kR^itayugaarpakaM dharmapuurakaM kalikulaantakaM shaM tanotu me ंं 8ंं

mama gR^ihaM patiputranaptR^ikaM gajarathairdhvajaishchaamarairdhanaiH ं

maNivaraasanaM satkR^itiM vinaa tava padaabjayoH shobhayanti kim ंं 9ंं

tava jagadvapuH sundarasmitaM mukhamaninditaM sundaratviSham ं

yadi na me priyaM valgucheShTitaM parikarotyaho mR^ityurastviha ंं 10ंं

hayavara bhayahara karaharasharaNakharataravarashara dashabaladamana ं (दमन= subduing)

jaya hataparabharabhavavaranaashana shashadhara shatasamarasabharamadana ंं 11ंं

iti shriikalkipuraaNe sushaantaakR^itaM kalkistotraM saMpuurNam ं

इति तस्याः सुशान्ताया गीतेन परितोषितः

उत्तस्थौ रण-शय्यायाः कल्किर् युद्ध-स्थ-वीरवत्))12

सुशान्तां पुरतो दृष्ट्वा कृतं वामे तु दक्षिणे

धर्मं शशिध्वजं पश्चात् प्राहे’ति व्रीडि ताननः))13

का त्वं पद्मपलाशाक्षि! मम सेवार्थमुद्यता)

कान्ते शशिध्वजः शूरो मम पश्चाद् उपस्थितः))14

हे धर्म! हे कृतयुग! कथम् अत्र+अगता वयम्)

रणाङ्गणं विहायास्याः शत्रोर् अन्तः पुरे वद))15

शत्रु-पत्न्यः कथं साधु सेवन्ते माम् अरिं मुदा

शशिध्वजः शूरमानी मूर्छितं हन्ति नो कथम्))16

शुशान्तो’वाच)

पाताले दिवि भूमौ वा नर-नाग-सुर+असुराः

नारायणस्य ते कल्के के वा सेवां न कुर्वते))17

यत् सेवकानां जगतां मित्राणां दर्शनाद् अपि

निवर्तन्ते शत्रु-भावस् तस्य साक्षात् कुतो रिपुः))18

त्वया सार्धं मम पतिः शत्रु-भावेन संयुगे

यदि योग्यस् तद् आनेतुं किं समर्थो निजालयम्))19

तव दसो मम स्वामी अहं दासी निजा तव)

आवयोः संप्रसादाय आगतो ऽसि महाभुज))20

धर्म उवाच)

अहं तवै’तयोर् भक्त्या नम-रूप+अनुकीर्तनात्)

कृतार्थो ऽस्मि कृतार्थो ऽस्मि कृतार्थो ऽस्मि कलि-क्षय))21

कृतयुग उवाच)

अधुना’हं कृतयुगं तव दासस्य दर्शनात्

तुअम् ईश्वरो जगत्-पूज्य-सेवकस्यास्य तेजसा))22

शशिध्वज उवाच)

दण्द्यं मां दण्डय विभो योद्धृत्वाद् उद्यत+अयुधम्

येन काम+आदि-रागेण तुअय्य् आत्मन्य् अपि वैरिता))23

इति कल्किर् वचस् तेषां निशम्य हसित+अननः

त्वयाजितो ऽस्मीति नृपं पुनः पुनर् उवाच ह))24


ततः शशिध्वजो राजा युद्धाद् आहूय पुत्रकान्

सुशान्ताया मतिं बुद्ध्वा रमां प्रादात् सकल्कये))25

तदैत्य मरु-देवापी शशिध्वज-समाहृतौ

विशाखयूप-भूपश् च रुधिराश्वश् च संयुगात्))26

शय्याकर्ण-नृपेण+अपि भल्लाटं पुरम् आययुः

सेना-गणैर् असंख्यातैः सा पुरी मर्दिता’भवत्))27

गज+अश्व-रथ-संबाधैः पत्तिच्छत्र-रथध्वजैः

कल्किना+अपि रमायाश् च विवाहो’त्सव-सम्पदाम्))28

द्रष्तुं समीयुस् त्वरिता हर्षात् सबल-वाहनाः

शंख-भेरी-मृदङ्गानां वादित्राणाञ् च निस्वनैः))29

नृत्य-गीत-विधानैश् च पुर-स्त्री-कृत-मङ्गलैः

विवाहो रमया कल्केर् अभूद् अतिसुखावहः))30

नृपा नानाविधैर्भोज्यैः पूजिता विविशुः सभाम्

ब्रह्मणाः क्षत्रिया वैश्याः शूद्राश् च+अवरजातयः))31 (άवर-ज+=of low birth)

विचित्र-भोगावरणाः कल्किं द्रष्टुम् उपाविशन्

तस्यां सभायां शुशुभे कल्किः कमल-लोचनः))32

नक्षत्र-गण-मध्य-स्थः पूर्णः शशदरो यथा

रेजे राज-गण+अधीशो लोकान् सर्वान् विमोहयन्))33

classic त्रिस्तुभ् metre (x – υ – | – υ υ – | υ – υ (-)) follows)

रमापतिं कल्किम् अवेक्ष्य भूपः) सभागतं पद्म-दलायते’क्षणम्)

जामातरं भक्ति-युतेन कर्मणा) विबुध्य मध्ये निषसाद तत्र ह))34

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

कल्किना रमा-विवाहो नाम दशमो ऽध्यायः))


तृतीय+अंशः) एकादशो ऽध्यायः)

सूत उवाच)

तत्र+अहुस् ते सभा-मध्ये वैष्णवं तं शशिध्वजम्

मुनिभिः कथित+अशेष-भक्ति-व्यासक्त-विग्रहम्))1

सु,शान्ताञ् च कृतेन+अपि धर्मेण विधिवद्युताम्))2

राजान ऊचुः)

युवां नारायणस्यास्य कल्केः श्वशुरतां गतौ)

वयं नृपा इमे लोका ,ऋषयो ब्राह्मणश् च ये))3

प्रेक्ष्य भक्तिवितानं वां हरौ विस्मित-मानसाः

पृच्छामस् त्वाम् इयं भक्तिः क्व लब्धा परमात्मनः))4

कस्य वा शिक्षिता राजन्! किं वा नैसर्गिकी तव)

श्रोतुम् इच्छामहे राजन्! त्रिजगज्-जन-पावनीम्)

कथां भागवतीं त्वत्तः संसाराश्रम-नाशिनीम्))5

शशिध्वज उवाच)

स्त्री-पुंसोरावयोस् तत् तच् छृणुत+अमोघ-विक्रमाः)

वृत्तं यज् जन्म-कर्म+आदि स्मृतिं तद् भक्ति-लक्षणाम्))6

पुरा युग-सहस्र+अन्ते गृध्रो ऽहं पूति-मांस-भुक्

गृध्रीयं मे प्रियारण्ये कृतनीडो वनस्पतौ))7

चचार कामं सर्वत्र वन+उपवन-संकुले

मृतानां पूति-मांसौघैः प्राणिनां वृत्ति-कल्पकौ))8

एकदा लुब्धकः क्रूरो लुलोभ पिशित+अशिनौ (लुब्धकः= ) पिशित+अशिन्= )

आवां वीक्ष्य गृहे पुष्तं गृध्रं तत्र+अप्य् अयोजयत्))9 (आवां= )

तं वीक्ष्य जातविश्रम्भौ क्षुधया परिपीडितौ

स्त्री-पुंसौ पतितौ तत्र मांस-लोभित-चेतसौ))10

बद्धव+आवां वीक्ष्य तदा हर्षाद् आगत्य लुब्धकः

जग्राह कण्थे तरसा चञ्च्वाग्राघात् अपीडितः))11

आवां गृहीत्वा गण्डक्याः शिलायां सलिलान्तिके)

मस्तिष्कं चूर्णयाम् आस लुब्धकः पिशित+अशनः))12

चक्राङ्कित-शिला-गङ्गा-मरणाद् अपि तत् क्षणात्) (तद् मरण= )

ज्योतिर्-मय-विमानेन सद्यो भूत्वा चतुर्-भुजाव्))13

प्राप्तौ वैकुण्थ-निलयं सर्व-लोक-नमस्-कृतम्

तत्र स्थित्वा युग-शतं ब्रह्मणो लोकम् आगतौ))14

ब्रह्म-लोके पञ्च-शतं युगानाम् उपभुज्य वै

देव-लोके काल-वशाद् गतं युग-चतुः-शतम्))15

ततो भुवि नृपास् तावद् बद्ध-सूनुर् अहं स्मरन् («हे राजाओ!»)

हरेर् अनुग्रहं लोके शालग्राम-शिला+आश्रमम्))16

जाति-स्मरत्वं गण्डक्याः किं तस्याः कथयाम्य् अहम्

यज् जल-स्पर्श-मात्रेण महात्म्यं माहद् अद्भुतम्))17

चक्र+अंकित-शिला-स्पर्श-मरणस्य+ईदृशं फलम्

न जाने वासुदेवस्य सेवया किं भविष्यति))18

इत्य् आवां हरि-पूजासु हर्ष-विह्वल-चेतसौ

नृत्यन्ताव् अनुगायन्तौ विलुठन्तौ स्थिताव् इह))19 (वि-लुठ्= )

कल्केर् नारायण+अंशस्य अवतारः कलिक्षयः

पुरा विदित-वीर्यस्य पृष्तो ब्रह्म-मुखाच् छ्रुतख्))20

इति राज-सभायां स श्रावायित्वा निजाः कथाः

ददौ गजानाम् अयुतम् अश्वानां लक्षम् आदरात्))21

रथानां षट्-सहस्रन् तु ददौ पूर्णस्य भक्तितः

दासीनां युवतीनाञ् च रमा-नाथाय षट्-शतम्))22

रत्नानि च महार्घाणि दत्त्वा राजा शशिध्वजः

मेने कृत+अर्थम् आत्मानं स्वजनैर् बान्धवैः सह))23

सभासद इति श्रुत्वा पूर्व-जन्मो’दिताः कथाः

विस्मइआविष्ट-मनसः पूर्णं तं मेनिरे नृपम्))24

कल्किं स्तुवन्तो ध्यायन्तः प्रशंसन्तो जगज्-जनाः (शंस्:censeo)

पुनस् तम् आहू राजानं लक्षणं भक्ति-भक्तयोः))25

नृपा ऊचुः)

भक्ति-काम्याद् भगवतः को वा भक्तो विधानवित्)

किं करोति किम् अश्नाति क्व वा वसति वक्ति किम्))26

एतान् वर्णय राजेन्द्र! सर्वं त्वं वेत्सि सादरात्

जाति-स्मरत्वात् कृष्णस्य जगतां पावने’च्छया))27

इति तेषां वचः श्रुत्वा प्रफुल्ल-वदनो नृपः

साधु-वादैः सम्-आमन्तृय तान् आह ब्रह्मणो’दितम्))28

शशिध्वज उवाच)

पुरा ब्रह्म-सभा-मध्ये महर्षि-गण-संकुले)

सनको नारदं प्राह भवद्भिर् यास् त्व् इहो’दिताः))29

तेषाम् अनुग्रहेण+अहं तत्रोषित्वा श्रुताः कथाः

यास् ताः संकथयामि+इह शृणुध्वं पाप-नाशनाः))30

सनक उवाच)

का भक्तिः संसृति-हरा हरौ लोक-नमस्कृता

तामादौ वर्णय मुने नारद+अवहिता वयम्))31 (अव-हित= )

नारद उवाच)

मनः षष्थानि+इन्द्रियाणि संयम्य परया धिया

गुराव् अपि न्यसेद् देहं लोकतन्त्र-विचक्षणः))32

गुरौ प्रसन्ने भगवान् प्रसीदति हरिः स्वयम्

प्रणव +अग्नि-प्रिया-मध्ये म-वर्णं तन्निदेशतः))33 («ॐ नमः स्वाहा»)

स्मरेद् अनन्यया बुद्ध्या देशिकः सुसमाहितः

पाद्य+अर्घ्य+आचमनीय+आद्यैः स्नान-वासो-विभूषणैः))34

पूजयित्वा वासुदेव-पाद-पद्मं समाहितः

सर्व+अङ्ग-सुन्दरं रम्यं स्मरेद् धृत्-पद्म-मध्यगम्))35

एवं ध्यात्वा वाक्य-मनो-बुद्धि+इन्द्रिय-गणैः सह

आत्मानम् अर्पयोद्विद्वान् हराव् एकान्त-भाव-वित्))36

अङ्गानि देवास् तेषान् तु नामानि विदितान्युत

विष्नोः कल्केर् अनन्तस्य तान्य् एवान् यन् न विद्यते))37

सेव्यः कृणः सेवको ऽहम् अन्ये तस्य+आत्म-मूर्तइअः

अविद्या+उपाधयो ज्ञानाद् वदन्ति प्रभव+आदयः))38

भक्तस्य+अपि हरौ द्वैतं सेव्य-सेवकवत् तदा

न+अन्यद् विना तम् इत्य् एव क्वच किञ्चन विद्यते))39

भक्तः स्मरति तं विष्णुं तन् नामानि च गायति

तत् कर्माणि करोत्य् एव तद् आनन्द-सुखो-दइअः))40

नृत्यत्य् उद्धतवद् रौति हसति प्रैति तन् मनाः

विलुंठत्य् आत्म-विस्मृत्या न वेत्ति कियद् अन्तरम्))41(क्ίयत्= how much)

एवंविधा भगवतो भक्तिर् अव्यभिचारिणी

पुनाति सहसा लोकान् स-देव+असुर-मानुषान्))42

भक्तिः सा प्रकृतिर् नित्या ब्रह्म-सम्पत्-प्रकाशिता

शिव-विष्णु-ब्रह्म-रूपा वेदाद्य् आनां वरा+अपि वा))43

भक्ताः सत्त्व-गुण+अध्यासाद् रजसे’न्द्रिय-लालसाः

तमसा घोर-संक्ल्पा भजन्ति द्वैत-दृग्-जनाः))44

सत्त्वान् निर्गुणताम् एति रजसा विषय-स्पृहाम्

तमसा नरकं यान्ति संसाराद्वैत-धर्मिणि))45

उच्छिष्टम् अवशिष्तं वा पथ्यं पूतम् अभीप्सितम्

भक्तानां भोजनं विष्णोर् नैवेद्यं सात्त्विकं मतम्))46

इन्द्रिय-प्रीति-जननं शुक्र-शोणित-वर्धनम्

भोजनं राजसं शुद्धम् आयुर्-आरोग्य-वर्धनम्))47

अतः परं तामसानां कट्व्-अम्लोष्ण-विदाहिकम्

पूति-पर्युषितं ज्ञेयं भोजनं तामस-प्रियम्))48 (पर्युषित= )

सात्त्विकानां वने वासो ग्रामे वासस् तु राजसः

तामसं द्यूत-मद्य+आदि-सदनं परिकीर्तितम्))49

न दाता स हरिः किञ्चित् सेवकस् तु न याचकः (याचक=a petitioner , asker , beggar)

तथापि परमा प्रीतिस् तयोः किम् इति शाश्वती))50 (शाश्वती= ) किम् इति=why?)

follows ) 2/4 and4/4 rhythm seems)

– – – υ υ | υ υ – υ – υ – – || υ υ υ υ – | υ υ – υ – υ – – |

υ υ υ υ | υ υ – υ – υ – – || υ υ – – | υ υ – υ – υ – – |

इत्य् एतद् भगवत ईश्वरस्य विष्णोर्) गुण-कथनं सनको विबुध्य भक्त्या)

स-विनय-वचनैः सुर+र्स्,इ-वर्यं) परि-णुत्वा+इन्द्रपुरं जगाम शुद्धः))51 (परि-णुत्वा= )

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

नृप-गण-शशिध्वज-संवादे जाति-स्मरत्व-कथनं नाम एकादशो ऽध्यायः))


तृतीय+अंशः) द्वादशो ऽध्यायः)

शशिध्वज उवाच)

एतद् वः कथितं भूपाः कथनीयो’रुकर्मणः

कथा भक्तस्य भच्तेश् च किम् अन्यत् कथयाम्य् अहम्))1

भूपा ऊचुः)

त्वं राजन् वैष्णव-श्रेष्थः सर्व-सत्त्व-हिते रतः

तवावेशः कथं युद्ध-रङ्गे हिंसा+आदि-कर्मणि))2

प्रायशः साधवो लोके जीवानां हित-कारिणः

प्राण-बुद्धि-धनैर् वाग्भिः सर्वेषां विषय+आत्मनाम्))3

शशिध्वज उवाच)

द्वैत-प्रकाशिनी या तु प्रकृतिः काम-रूपिणी

सा सूते त्रि-जगत्-कृत्-स्नं वेदांश् च त्रि-गुण+आत्मिका))4

ते वेदास् त्रिजगद्-धर्म-शासन+अधर्म-नाशनाः

भक्ति-प्रवर्तका लोके कामिनां विषयै’षिणाम्))5

वात्स्यायन+आदि-मुनयो मनवो वेद-पारगाः

वहन्ति बलिम् ईशस्य वेद-वाक्य+अनुशासिताः))6

वयं तद् अनुगाः कर्म-धर्म-निष्था रण-प्रियाः

जिघांसन्तं जिघांसामो वेद+अर्थ-कृत-निश्चयाः))7 (निश्चय )

अवध्यस्य वधे यावांस् तावान् वध्यस्य रक्षणे

इत्य् आह भगवान् व्यासः सर्व-वेद+अर्थ-तत्-परः))8

प्रायश्चित्तं न तत्र+अस्ति तत्र+अधर्मः प्रवर्तते

अतो ऽत्र वाहिनीं हत्वा भवतां युधि दुर्जयाम्))9

धर्मं कृतञ् च कल्किं तु समानीय+अगता वयम्

एषा भक्तिर् मम मता तव+अभिप्रेतम् ईरय))10 (अभिप्रेत= )

अहं तद् अनु-वक्ष्यामि वेद-वाक्य+अनुसारतः

यदि विष्नुः स सर्वत्र तदा कं हन्ति को हतः))11

हन्ता विष्णुर् हतो विष्णुर् वधः कस्य+अस्ति तत्र चेत्)

युद्ध-यज्ञ+आदिषु वधे न वधो वेद-शासनात्))12 (शासन= )

इति गायन्ति मुनयो मनवश् च चतुर्-दश

इत्थं युद्धैश् च यज्ञैश् च भजामो विष्णुम् ईश्वरम्))13

अतो भागवतीं मायाम् आश्रित्य विधिना यजन्

सेव्य-सेवक-भावेन सुखी भवति न+अन्यथा))14 (अन्य्ά-था= )

भूपा ऊचुः)

निमेर् भूपस्य भूपाल! गुरोः शापान् मृतस्य च

तादृशे भोगायतने विरागः कथम् उच्यताम्))15 (भोगायतन तद्=a place of enjoyments)

शिष्य-शापाद् वशिष्ठस्य देहावाप्तिर् मृतस्य च

श्रुयते किल मुक्तानां जन्म भक्त-विमुक्तता))16

अतो भागवती मया दुर्बोध्याविजितात्मनाम्

विमोहयति संसारे नानात्वाद् इन्द्रजालवत))17

इति तेषां वचो भूयः श्रुत्वा राजा शशिध्वजः

प्रोवाच वदतां श्रेष्ठो भक्ति-प्रवणया धिवा))18

शशिध्वज उवाच)

बहूनां जन्मनामन्ते तीर्थ-क्षेत्र+आदि-योगतः

दैवाद् भवेत् साधु-संगस् तस्माद् ईश्वर-दर्शनम्))19

ततः सालोक्यताम्प्राप्य भजन्त्य् आदृत-चेतसः

भुक्त्वा भोगान् अनुपमान् भक्तो भवति संसृतौ))20

रजोजुषः कर्म-पराः हरि-पूजापराः सदा

तन् नामानि प्र-गायन्ति तद् रूप-स्मरनोत्सुकाः))21 (उत्-सुक=ऽ ) उन्-मुख= )

अवतार+अनुकारण-पर्व-व्रत-महोत्सवाः

भगवद्-भक्ति-पूजाढ्याः परमानन्द-संप्लुताः))22

अतो मोक्षं न वाञ्छन्ति दृष्ट-मुक्ति-फल+उदयाः (उदय्ά स= )

मुक्त्वा लभन्ते जन्मानि हरि-भाव-प्रकाशकाः))23 (प्रकाशक= )

हरि-रूपाः क्षेत्र-तीर्थ-पावना धर्म-तत्-पराः

सार+असार-विदः सेव्य-सेवका द्वैत-विग्रहाः))24

यथा+अवतारः कृष्णस्य तथा तत् सेविनाम् इह

एवं निमेर् निमिषता लीला भक्तस्य लोचने))25

मुक्तस्य+अपि वसिष्ठस्य शरीर-भजनादरः

एतद् वः कथितं भूपा माहात्म्यं भक्ति-भक्तयोः))26

सद्यः पाप-हरं पुंसां हरि-भक्ति-विवर्धनम्)

सर्वे’न्द्रिय-स्थं देवानाम् आनन्द-सुख-सञ्चयम्) (in सर्वे’न्द्रिय-स्थ add that ं (अनुस्वर) )

काम-राग+आदि-दोष-घ्नं माया-मोह-निवारणम्))27

– – – υ υ – | υ – υ υ υ – | – | – υ – | – υ – metre follows:

नाना-शास्त्र-पुराण-वेद-विमल-व्याख्या+अमृत+अम्भो-निधिर्) (άम्भस् तद्= ) «-निर्धि» I correct to -निधिर्)

संमथ्य+अतिचिरं त्रिलोक-मुनयो व्यास+आदयो भावुकाः) (अतिचिरं= ) (भάवुक=having a taste for the beautiful or poetical/happy, well, auspicious, prosperous/a sister's husband)

कृष्ने भावम् अनन्यम् एवम् अमलं हैयङ्गवीनं नवं) हैयंगवीनं तद्=clarified butter prepared from yesterday's milking, fresh butter)

लब्ध्वा संमृति-नाशनं त्रिभुवने श्री-कृष्ण-तुल्यायते))28

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

भक्ति-भक्त-माहात्म्यं नाम द्वादशो ऽध्यायः))12


तृतीय+अंशः) त्रयोदशो ऽध्यायः) सूत उवाच)

इति भूपः सभायां स कथयित्वा निजाः कथाः

शशिध्वजः प्रीतमनाः प्राह कल्किं कृताञ्जलिः))1

शशिध्वज उवाच)

त्वं हि नाथ त्रिलोकेश एते भूपास् त्वद् आश्रयाः

मां तथा विद्धि राजानं त्वन् नि-देशकरं हरे))2

तपस् तप्तुं यामि कामं हरिध्वारं मुनिप्रियम्

एते मत् पुत्र-पौत्राश् च पालनीयास् त्वद् आश्रयाः))3

मम+अपि कामं जानासि पुरा जाम्बवतो यथा

निधनं द्विविदस्य+अपि तदा सर्वं सुरेश्वर))4

इत्य् उक्त्वा गन्तुम् उद्युक्तं भार्यया सइतं नृपम्

लज्जयाधोमुखं कल्किं प्राहुर् भूपाः किम् इत्य् उत))5 (लज्ज्= )

हे नाथ किम् अनेन+उक्तं यच् छ्रुत्वा त्वम् अधोमुखः (अधो-मुख=having the face downwards/also विष्णु name)

कथं तद् ब्रूहि कामं नः किं वा नः शाधि संशयात्))6

कल्किर् उवाच)

अमुं पृच्छत वो भूपा युष्माकं संशयच्छिदम्

शशिध्वजं महा-प्राज्ञं मद् भक्ति-कृत-निश्चयम्))7

इति कल्केर् वचः श्रुत्वा ते भूपाः प्रोक्त-कारिणः

राजानं तं पुनः प्राहुः संशय+आपन्न-मानसाः))8 (अά-पन्न entered, got in/ afflicted, unfortunate/ gained, obtained, acquired/ having gained or obtained or acquired)

नृपा ऊचुः)

किं त्वया कथितं राजञ् छशिध्वज महा-मते)

कथं कल्किस् तद्वद् इदं श्रुत्वा+एव+अभूद् अधोमुखः))9 (त्Άद्-वत्=like that)

शशिध्वज उवाच)

पुरा राम+अवतारेण लक्ष्मणाद् इन्द्रजिद्-वधम्

मोक्षञ् च+आलक्ष्य द्विविदो राक्षसत्वात् स दारुणात्))10 (आ-लक्ष्य=having observed or beheld) अ-लक्ष्य=) दΆरुण=rough, sharp, severe, cruel, pitiless) राक्षसत्वं neutre)

अग्न्यागारे ब्रह्म-वीर-वधेन+अइकाहिको ज्वरः (अग्न्य्-आगारः=house or place for keeping the sacred fire)

लक्ष्मणस्य शरीरेण प्रविष्तो मोह-कारकः))11

तं व्याकुलम् अभिप्रेक्ष्य द्विविदो भिषजां वरः

अश्वि-वंशेन संजातः ख्यापयाम् आस लक्ष्मणम्))12 (ख्यायते=to be named, be known) ख्यापयति=to make known)

लिखित्वा रामभद्रस्य संज्ञा-पत्रीम् अ-तन्द्रितः)

लक्ष्मणं दर्शयाम् आस ऊर्ध्व-तिष्ठन् महाभुजः))13

लक्ष्मणो वीक्ष्य तां पत्रीं वि-ज्वरो बलवान् अभूत्

स ततो द्विविदं प्राह वरं वरय वानर))14 (वानरः= )

द्विविदस् तद् वचः श्रुत्वा लक्ष्मणं प्राह हृष्टवत्

त्वत्तो मे मरणं प्रार्थ्यं वानरत्वाच् च मोचनम्))15 (त्वत्तस्= )

पुनस् तं लक्ष्मणः प्राह मम जन्म+अन्तरे तव

मोचनं भविता कीश बलराम-शरीरिणः))16 (कीशः= )

«समुद्रस्य+उत्तरे तीरे द्विविदो नाम वानरः»

ऐकाहिकं ज्वरं हन्ति लिखितं यस् तु पश्यति))17 (ऐकाहिक= quotidian)

इति मन्त्र+अक्षरं द्वारि लिखित्वा ताल-पत्रके

यस् तु पश्यति तस्य+अपि नश्यत्य् ऐकाहिक-ज्वरः))18

इति तस्य वरं लब्ध्वा चिर+आयुः सुस्थ-वानरः

बलराम+अस्त्र-भिन्न+आत्मा मोक्षम् आपाकुतोभयम्))19

तथा क्षेत्रे सूत-पुत्रो निहतो लोमहर्स्,अणः

बलराम+अस्त्र-युक्तामा नैमिषे ऽभूत् स्व-वाञ्छया))20

जाम्बवांश् च पुरा भूपा वामनत्वं गते हरौ (जाम्बवत्=N of a monkey-chief (son of Pitaa-maha), father of जाम्बवती)

तस्य+अप्य् ऊर्ध्व-गतं पादं तत्र चक्रे प्रदक्षिणम्))21

मनोजवं तं निरीक्ष्य वामनः प्राह विस्मितः

मत्तो वृणु वरं कामम् ऋक्ष+अधीश महा-बल))22

इति तं हृष्ट-वदनो ब्रह्म+अंशो जाम्बवान् मुदा

प्राह भो चक्र-दहनान् मम मृत्युर् भविष्यति))23

इत्य् उक्ते वामनः प्राह कृष्ण-जन्मनि मे तव

मोक्षश् चक्रेण संभिन्न-शिरसः संभविष्यति))24

मम कृषन्+अवतारे तु सूर्य-भक्तस्य भूपतेः

सत्राजितस् तु मण्य्-अर्थे दुर्वादः समजायत))25

प्रसेनस्य मम भ्रातुर् वधस् तु मणि-हेतुकः

सिंहात् तस्य+अपि मण्य्-अर्थे वधो जाम्बवता कृतः))26

दुर्वाद-भय-भीतस्य कृष्णस्य+अमिततेजसः

मण्य्-अन्वेषण-चित्तस्य र्क्षेण+अभूद् रणो बिले))27

स निज+ईशं परिज्ञाय तच् चक्र-ग्रस्त-बन्धनम्

मुक्तो बभूव सहसा कृषन्ं पश्यन् स-लक्ष्मणम्))28

नवदूर्वादल-श्यामं दृष्ट्वा प्रादान् निज+आत्मजाम्

तदा जाम्बवतीं कन्यां प्रगृह्य मणिना सह))29

द्वारकां पुरम् आगत्य सभायां माम् उप+अह्वयत्

आहूय मह्यं प्रददौ मणिं मुनि-गण+अर्चितम्))30

सो ऽहं तां लज्जया तेन मणिना कन्यकां स्वकाम्

विवाहेन ददाव् अस्मै लावण्याज् जगृहे मणिम्))31 (लावण्य= )

तां सत्यभामाम् आदाय मणिं मय्य् अर्प्य स प्रभुः

द्वारकाम् आगत्य पुनर् गजाह्वयम् अगाद् विभुः))32 (गजाह्वय=हस्तिना-पुर)

गते कृष्ने मां निहत्य शतधन्वा+अग्रहीन् मणिम्

अतो ऽहम् इह जानामि पूर्व-जन्मनि यत् कृतम्))33

मिथ्या+अभिशापात् कृष्णस्य न+एव+अभून् मोचनं मम) (मिथ्या= )

अतो ऽहं कल्कि-रूपाय कृष्नाय परमात्मने)

दत्त्वा रमां सत्यभामा-रूपिणीं यामि सद्गतिम्))34

सुदर्शन+अस्त्र-घातेन मरणं मम काङ्क्षितम्

मरणे ऽभूद् इति ज्ञात्वा रणे वाञ्छामि मोचनम्))35

इत्य् असौ जगताम् ईशः कल्किः श्वशुर-घातनम्

श्रुत्वा+एव+अधोमुखस् तस्थौ ह्रिया धर्म-भिया प्रभुः))36

– – – υ υ – | υ – υ υ υ – | – | – υ – | – υ – metre follows:

अत्य्-आश्चर्यम् अपूर्वम् उत्तमम् इदं श्रुत्वा नृपा विस्मिता)

लोकाः संसदि हर्षिता मुनि-गणाः कल्केर् गुण+आकर्षिताः)

आख्यानं परमादरेण सुखदं धन्यं यशस्यं परं (आ-दर= )

श्रीमद्-भूप-शशिध्वजे’रित-वचो मोक्ष-प्रदं च+अभवन्))37

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

शशिध्वजे’रित-चक्र-मरण+आख्यानं नाम त्रयोदशो ऽध्यायः))13


page298) तृतीय+अंशः) चतुर्दशो ऽध्यायः) सूत उवाच) («उग्रश्रवा बोले»)

ततः कल्किर् महातेजाः श्वशुरं तं शशिधुअजम्

सम्-आमन्तृय वचश्-चित्रैः सह भूपैर् ययौ हरिः))1

शशिध्वजो वरं लब्धा यथाकामं महेश्वरीम्

स्तुत्वा मायां त्यक्तमायः स-प्रियः प्रययौ वनम्))2

कल्किः सेना-गणैः सार्धं प्रययौ काञ्चनीं पुरीम्

गिर्-दुर्ग+आवृतां गुप्तां भोगिभिर् विष-वर्सिबिः))3

विदार्य दुर्गं सगणः कल्किः पर-पुरञ्-जयः

छित्त्वा विषायुधान् बाणैस् तां पुरीं ददृशे ऽच्युतः))4

मणि-काञ्चन-चित्राढ्यां नाग-कन्या-गण+आवृताम्

हरिचन्दन-वृक्षाढ्यां मनुजैः परि-वर्जिताम्))5

विलोक्य कल्किः प्रहसन् प्राह भूपान् किम् इत्य् अहो

सर्पस्ये’यं पुरी रम्या नराणां भय-दायिनी)

नाग-नारी-गणाकीर्णा किं यास्यामो वदन्त्व् इह))6

इति कर्तव्यताव्यग्रं रमानाथं हरिं प्रभुम्

भूपान्स् तद् अनुरूपांश् च खे वाग्-आह+अशरीरिणी))7

विलोक्य ने’मां सेनाभिः प्रवष्तुं भोस् त्वम् अर्हसि

त्वां विनान्ये मरिष्यन्ति विष-कन्या-दृशाद् अपि))8

आकाश-वाणीम् आकर्ण्य कल्किः शुकसहायकृत्

ययाव् एकः खड्ग-धरस् तुरगेण त्वर+अन्वितः))9

गत्वा तां ददृशे वीरो धीराणां धैर्य-नाशिनीम्

रूपेण+अलक्ष्य-लक्ष्मीशं प्राह प्रहसित+अनना))10

विषकन्या+उवाच)

– – – – | υ υ υ υ υ – | – υ – | – υ – | – metre follows)

संसारे ऽस्मिन् मम नयनयोर् वीक्षणक्षीणदेहा)

लोका भूपाः कति कति हता मृत्युम् अत्युग्रवीर्याः))

साहं दीन+असुर-सुर-नर-प्रेक्षण-प्रेमहीना)

ते नेत्र+अब्ज-द्वय-रस-सुधाप्लाविता त्वां नमामि))11

again अनुस्तुभ् metre follows)

क्वा+अहं विषे’क्षणा दीना क्वा+अमृतेक्षण-सङ्गमः)

भवे ऽस्मिन् भाग्य-हीनायाः केन+अहो तसा कृतः))12

कल्किर् उवाच)

का+असि कन्या+असि सु-श्रोणि कस्माद् एषा गतिस् तव)

ब्रूहि मां कर्मणा केन विष-नेत्रं तव+अभवत्))13

विषकन्या+उवाच)

चित्र-ग्रीवस्य भार्या+अहं गन्धर्वस्य महामते

सुलोचना+इति विख्याता पत्युर् अत्यन्त-कामदा))14

एकदाहं विमानेन पत्या पीठेन सङ्गता

गन्धमादन-कुञ्जेषु रेमे कामकलाकुला))15

तत्र यक्षमुनिं दृष्ट्वा विकृताकारम् आतुरम्

रूप-यौवन-गर्वेण कटाक्षेणा’ह संमदात्))16

सोपालम्भं मुनिः श्रुत्वा वचनं च ममाप्रियम्

शशाप मां क्रुधा तत्र तेन+अहं विष-दर्शना))17

निक्षिप्ता+अहं सर्प-पुरे काञ्चन्यां नागिनीगणे)

पति-हीना दैव-हीना चरामि विष-वर्षिणी))18

न जाने केन तपसा भवद् दृष्टि-पथं गता

त्यक्त-शाप+अमृताक्षा’हं पति-लोकं व्रजाम्य् अतः))19

अहो तेषाम् अस्तु शापः प्रसादो मा सताम् इह

पत्युः शापाद् र्षेर् मोक्षात् तव पादाब्ज-दर्शनम्))20

इत्य् उक्त्वा सा ययौ स्वर्गं विमानेन+अर्क-वर्चसा

कल्किस् तु तत् पुराधीशं नृपं चक्रे महामतिम्))21

अमर्षस् तत् सुतो धीमान् सहस्रो नाम तत् सुतः)

सहस्रतः सुतश् च +असीद् राजा विश्रुतवान् असिः))22

बृहन्-नलनां भूपानां संभूता यस्य वंशजाः

तं मनुं भूप-शार्दूलं नाना-मुनि-गणैर् वृतः))23

अयोध्यायां च+अभिषिच्य मथुराम् अगमद् धरिः

तस्यां भूपं सूर्यकेतुम् अभिषिच्य महाप्रभम्))24

भूपं चक्रे ततो गत्वा देवापिं वारणावते (वारणावतं=a town situated on the Ganges at a distance of 8 days' journey from HASTINAAPYRA) MBh)

अरिस्थलं वृकस्थलं माकन्दञ् च गजाह्वयम्))25

पञ्च-देश+ईश्वरं कृत्वा हरिः शम्भलम् आययौ

शौम्भं पौण्द्रं पुलिन्दञ् च सुराष्त्रं मगधं तथा

कवि-प्राज्ञ-सुमन्तेभ्यः प्रददौ भ्रातृ-वत्सलः))26

कीकटं मध्यकर्णाटम् अन्ध्रम् ओड्रं कलिङ्गकम्

अङ्गं वङ्गं स्वगोत्रेभ्यः प्रददौ जगद्-ईश्वरः))27 (गोत्रं= )

स्वयं शम्भल-मध्य-स्थः कङ्ककेन कलापकान्

देशं विशाखयूपाय प्रादात् कल्किः प्रतापवान्))28

चोल-बर्बर-कर्व+आख्यान् द्वारका-देश-मध्यगान्

पुत्रेभ्यः प्रददौ कल्किः कृत-वर्म-पुरस्-कृतान्))29

पित्रे धनानि रत्नानि ददौ परम-भक्तितः

प्रजाः समाश्वास्य हरिः शम्भल-ग्राम-वासिनः))30 (सम्-आ-श्वास्-य indeclinable participle: )

पद्मया रमया कल्किर् गृहस्थो मुमुदे भृशम्

धर्मश् चतुष्पाद् अभवत् कृत-पूर्णं जगत्-त्रयम्))31

देवा यथो’क्त-फल-दाश् चरन्ति भुवि सर्वतः)

सर्वशस्या वसुमती हृष्ट-पुष्ट-जन+आवृता)

शाठ्य-चौर्य+अनृतैर् हीना आधि-व्याधि-विवर्जिता))32

विप्रा वेदविदः सु-मङ्गल-युता नार्यस् तु चार्याव्रताः)

पूजा-होम-पराः पतिव्रत-धरा यागोद्यताः क्षत्रियाः)

वैश्या वस्तुषु धर्मतो विनिमयैः श्री-विष्णु-पूजा-पराः)

शूद्रास् तु द्विज-सेवनाद् धरि-कथा’लापाः सपर्या-पराः))33 (सपर्या= )

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

विषकन्या-मोक्ष-कृत-धर्म-प्रवृत्ति-कथनं नाम चतुर्दशो ऽध्यायः))14


तृतीय+अंशः) पञ्चदशो ऽध्यायः)

शौनक उवाच)

शशिध्वजो महाराजः स्तुत्वा मयां गतः कृतः)

का वा माया-स्तुतिः सूत वद तत्त्व-विदां वर)

या त्वत् कथा विष्णु-कथा वक्तव्या सा विशुद्धये))1

सूत उवाच)

शृणुध्वं मुनयः सर्वे मार्कण्देयाय पृच्छते)

शुकः प्राह विशुद्धात्मा माया-स्तवम् अनुत्तमम्))2

तच् छृणुष्व प्रवक्ष्यामि यथा+अधीतं यथा+आश्रुतम्

सर्व-काम-प्रदं नॄणां पाप-ताप-विनाशनम्))3

शुक उवाच)

भल्लाट-नगरं त्यक्त्वा विष्णु-भक्तः शशिध्वजः)

आत्म-संसार-मोक्षाय माया-स्तवम् अलं जगौ))4

शशिध्वज उवाच)

– – – – | – υ – | – υ – – | metre follows)

ॐ ह्रींकारां सत्त्व-सारां विशुद्धां)

ब्रह्म+आदीनां मातरं वेद-बोध्याम्)

तन्वीं स्वाहां भूततन्मात्रकक्षां)

वन्दे वन्द्यां देव-गन्धर्व-सिद्धैः))5

लोकातीतां द्वैत-भूतां समीडे)

भूतैर् भव्यां व्याससामासिकाद्यैः)

विद्वद्-गीतां कालकल्लोललोलां )

लीलापाङ्गक्षिप्तसंसारदुर्गाम्))6

पूर्णां प्राप्यां द्वैत-लभ्यां शरण्याम्)

आद्ये शेषे मध्यतो या विभाति)

नाना-रूपैर् देव-तिर्यङ् मनुष्यैस्)

ताम् आधारां ब्रह्म-रूपां नमाम्य्))7

यस्या भासा त्रिजगद्-भाति भूतैर्)

न भात्य् एतत् तदभावे विधातुः)

कालो दैवं कर्म च+उपाधयो ये)

तस्या भासा तां विशिष्तां नमामि))8

भूमौ गन्धो रासताप्सु प्रतिष्था) («रस» metrically impossible, I correct to रास-)

रूपं तेजस्व् एव वायौ स्पृशत्वम्)

खे शब्दो वा यच् चिदाभाति नाना)

ताम् अभ्येतां विश्व-रूपां नमामि))9

सावित्री त्वं ब्रह्म-रूपा भवानी)

भूतेशस्य श्री-पतेः श्री-स्वरूपा)

शची शक्रस्य+अपि नाकेश्वरस्य) (स नάक= )

पत्नी श्रेष्था भासि माये जगत्सु))10

बल्ये बाला युवती यौवने त्वं)

वार्धक्ये या स्थाविरा काल-कल्पा) (स्थाविर (more usual स्थविर)=) in the book: स्थविरा, I correct for metrical reasons)

नानाकारैर् याग-योगैर् उपास्या)

ज्ञानातीता काम-रूपा विभासि))11

वरेन्या त्वं वरदा लोक-सिद्ध्या)

साध्वी धन्या लोकमान्या सुकन्या)

चण्दी दुर्गा कालिका कालिकाख्या)

नाना-देशे रूप-वेषैर् विभासि))12

υ  υ υ υ υ υ – – | – υ – | – υ – | – | metre follows)

तव चरण-सरोजं देवि! देव+आदि-वन्द्यं)

यदि हृदय-सरोजे भावयन्ति+इह भक्त्या)) (शुक-कृतम् अभिशुद्धं हृत्-सरोजे स्मरन्ति other reading)

श्रुति-युग-कुहरे वा संश्रुतं धर्म-सम्पज्) («कर्णकुहरमें») (कुहरम्=)

जनयति जगद्-आद्ये सर्व-सिद्धिञ् च तेषाम्))13

again अनुस्तुभ् follows)

माया-स्तवम् इदं पुण्यं शुकदेवेन भाषितम्)

मार्कण्देयाद् अव+अप्य +अपि सिद्धिं लेभे शशिध्वजः))14 (अव+अप्य=)

कोका-मुखे तपस् तप्त्वा हरिं ध्यात्वा वन+अन्तरे)

सुदर्शनेन निहतो वैकुण्थं शरणं ययौ))15

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

माया-स्तवो नाम पञ्चदशो ऽध्यायः))15


तृतीय+अंशः) षोडशो ऽध्यायः) सूत उवाच)

एतद् वः कथितं विप्राः शशिध्वज-विमोक्षणम्)

कल्केः कथाम् अप्रतिमां शृण्वन्तु विबुध+र्ष्भाः))1

वेदो धर्मः कृत-युगं देवा लोकाश् चर+अचराः)

हृष्ताः पुष्ताः सुसंतुष्ताः कल्कौ राजनि च+अभवन्))2

नाना-देव+आदि-लिङ्गेषु भूषणैर् भूषितेषु च)

इन्द्रजालिकवद्वत्ति-कल्पकाः पूजका जनाः))3 (that द्व too small, maybe printing error) (इन्द्रजालिक/इन्द्रजालि= ) जाल्Άम्= net) कव= )

न सन्ति माया-मोहाढ्याः पाखण्दाः साधु-वञ्चकाः)

तिलक+आचित-सर्व+अङ्गाः कल्कौ राजनि कुत्र-चित्))4 (अάचित=inlaid, set)

शम्भले वसतस् तस्य पद्मया रमया सह)

प्राह विष्णुयशाः पुत्रं देवान् यष्तुं जगद्-धितान्))5 (=-हितान्) (यष्तुं verb यज्)

तच् छ्रुत्वा प्राह पितरं कल्किः परम-हर्षितः) («छुत्वा» I corrected)

विनया+अवनतो भूत्वा धर्म-काम+अर्थ-सिद्धये))6

राजसूयऽइर् वाज-पेयैर् अश्वमेधैर् महामखैः) (वाज स= food offered in sacrifice) पेय= drink)

नाना-यागैः कर्म-तन्त्रैर् ईजे क्रतु-पतिं हरिम्))7

कृप-राम-वसिष्ठ+आद्यैर् व्यास-धौम्य+अकृतव्रणैः) («कृपाचार्य, परशुराम»)

अश्वत्थाम-मधुच्छन्दो मन्दपालैर् महात्मनः))8

गंगा-यमुनयोर् मध्ये स्नात्वा+अवभृथम् आदरात्) (ava-bhRth'a] (अव-भृथ्ά mं carrying off, removing ', purification or ablution of the sacrificer and sacrificial vessels after a sacrifice)

दक्षिणाभिः सम्-अभ्य्-अर्च्य ब्राह्मणान् वेद-पारगान्))9

चर्व्यैश् चोष्यैश् च पेयैश् च पूग-शष्कुलि-यावकैः)

मधु-मांसैर् मूल-फलैर् अन्यैश् च विविधैर् द्विजान्))10

भोजयाम् आस विधिवत् सर्व-कर्म-समृद्धिभिः

यत्र वह्निर् वृतः पाके वरुणो जददो मरुत्))11

परिवेष्टा द्विजान् कामैः सद्-अन्न+आद्यैर् अतोषयत्

वाद्यैर् नृत्यैश् च गीतैश् च पितृ-यज्ञ-महोत्सवैः))12

कल्किः कमल-पत्र+अक्षः प्रहर्ष प्रददो वसु)

स्त्री-बाल-स्थविर+आदिभ्यः सर्वेभ्यश् च यथो’चितम्))13

रम्भा ताल-धरा नन्दी हूहूर् गायति नृत्यति) («रम्भा अप्सरा», «हूहू नामक गन्धर्वने») a poem in हिन्दि follows, supposed to be a song of: रम्भा, नन्दी, हूहू)

दत्त्वा दानानि पात्रेभ्यो ब्राह्मणेभ्यः स ईश्वरः))14

उवास तीरे गंगायाः पितृ-वाक्य+अनुमोदितः)

सभायां विष्णुयशसः पूर्व-राज-कथाः प्रियाः))15

कथयन्तो हसन्तश् च हर्षयन्तो द्विजा बुधाः)

तत्र+अगतस् तुम्बुरुणा नारदः सुर-पूजितः))16

तं पूजयाम् आस मुदा पित्रा सह यथाविधि)

ताव् संपूज्य विष्णुयशाः प्रोवाच विनय+अन्वितः)

नारदं वैष्णवं प्रीत्या वीणापाणिं महा-मुनिम्))17

विष्णुयशा उवाच)

अहो भाग्यम् अहो भाग्यं मम जन्म-शत+अर्जितम्) (अर्जित=)

भवद्-विधानां पूर्णानां यन् मे मोक्षाय दर्शनम्))18

अद्याग्नयश् च सुहुतास् तृप्ताश् च पितरः परम्

देवाश् च परि-सन्तुष्टास् तव+अवेक्षण-पूजनात्))19 (अवेक्षणम्= view, theory)

यत् पूजायां भवेत् पूज्यो विष्णुर् यन् मम दर्शनम्)

पाप-संघं स्पर्शनाच् च किम् अहो साधु-संगमः))20

साधूनां हृदयं धर्मो वाचो देवाः सनातनाः)

कर्म-क्षयाणि कर्माणि यतः साधुर् हरिः स्वयम्))21

मन्ये न भौतिको देहो वैष्णवस्य जगत्-त्रये)

यथा+अवतारे कृष्णस्य सतो दुष्ट-विनिग्रहे))22

पृच्छामि त्वाम् अतो ब्रह्मन् माया-संसारवारिधौ)

नौकायां विष्णु-भक्त्या च कर्णधारो ऽसि पारकृत्))23

केन+अहं यातनागारान् निर्वाण-पदम् उत्तमम्)

लप्स्यामि+इह जगद्-बन्धो कर्मणा शर्म तद् वद))24

नारद उवाच)

अहो बलवती माया सर्व+आश्चर्य-मयी शुभा)

पितरं मातरं विष्णुर् नैव मुञ्चति कर्हि-चित्))25

पूर्णो नारायणो यस्य सुतः कल्किर् जगत्-पतिः)

तं विहाय विष्णुयशा मत्तो मुक्तिम् अभिप्सति))26

विविच्ये’त्थं ब्रह्म-सुतः प्राह ब्रह्मयशः-सुतम्) (ब्रह्म-सुतः=नारदः, ब्रह्मयशः-सुतः= विष्णुयशाः)

विविक्ते विष्णुयशसं ब्रह्म-संपद्-विवर्धनम्))27

नारद उवाच)

देह+अवसाने जीवं सा दृष्ट्वा देह+अवलम्बनम्)

माया+आह कर्तुम् इच्छन्तं यन् मे तच् छृणु मोक्षदम्))28

विन्ध्य+अद्रौ रमणी भूत्वा माया+उवाच यथे’च्छया))29 (यथे’च्छया= )

माया+उवाच)

अहं माया मया त्यक्तः कथं जीवितुम् इच्छसि))30 (मया=with me)

जीव उवाच)

न+अहं जीवाम्य् अहं माये काये ऽस्मिञ् जीवन+आश्रये) (अस्मिन्= )

अहम् इत्य् अन्यथा बुद्धिर् विना देहं कथं भवेत्))31 (विना= )

माया+उवाच)

देह-बन्धे यथा+आश्लेषास् तथा बुद्धिः कथं तव) (आश्लेषस्= )

माया+अधीनां विना चेष्तां विशिष्तां ते कुतो वद))32

जीव उवाच)

मां विना प्राज्ञता माये प्रकाश-विषय-स्पृहा))33

माया+उवाच)

मायया जीवति नरश् चेष्टते हत-चेतनः)

निःसारः सारवद् भाति गज-भुक्त-कपित्थ-वत्))34

जीव उवाच)

मम संसर्ग-जाता त्वं नाना-नाम-स्वरूपिणी)

मां विनिन्दसि किं मूढे स्वैरिणी स्वामिनं यथा))35 (मूधा= )

मम+अभावे तव+अभावः प्रोद्यत् सूर्ये तमो यथा)

मामावर्य विभासि त्वं रविं नवघनो यथा))36

लीला-बीज-कुशूलासि मम माये जगन्-मये)

न+आद्य्-अन्ते मध्यतो भासि नानात्वाद् इन्द्रजाल-वत्))37

एवं निर्विषयं नित्यं मनो-व्यापार-वर्जितम्)

अभौतिकम् अजीवञ् च शरीरं वीक्ष्य सा ऽत्यजत्))38

त्यक्त्वा मां सा ददौ शापम् इति लोके तव+अप्रिय)

न स्थितिर् भविता काष्ठ-कुड्योपम कथञ्चन))39

सा माया तव पुत्रस्य कल्केर् विश्व+आत्मनः प्रभोः)

तां विज्ञाय यथा कामं चर गां हरि-भावनः))40

निराशो निर्ममः शान्तः सर्व-भोगेषु निस्पृहः)

विणौ जगद् इदं ज्ञात्वा विणुर् जगति वासकृत्)

आत्मनात्मानम् आवेश्य सर्वतो विरतो भव))41

एवं तं विष्णुयशसम् आमन्तृय च मुनीश्वरौ)

कल्किं प्रदक्षिणा-कृत्य जग्मतुः कपिल+आश्रमम्))42

नारदे’रितम् आकर्ण्य कल्किं सुतम् अनुत्तमम्)

नारायणं जगन्-नाथं वनं विष्णुयशा ययौ))43

गत्वा बदरिकारण्यं तपस् तप्त्वा सु-दारुणम्)

जीवं बृहति संयोज्य पूर्णस् तत्याज भौतिकम्))44

मृतं स्वामिनम् आलिङ्ग्य सुमतिः स्नेह-विक्लवा)

विवेश दहनं साध्वी सुवेशैर् दिवि संस्तुता))45

कल्किः श्रुत्वा मुनि-मुखात् पित्रोर् निर्याणम् ईश्वरः)

सबाष्प-नयनं स्नेहात् तयोः समकरोत्क्रियाम्))46

पद्मया रमया कल्किः शम्भले सुर-वाञ्छिते)

चकार राज्यं धर्मात्मा लोक-वेद-पुरस्कृतः))47

महेन्द्र-शिखराद् रामस् तीर्थ-पर्यटन+आदृतः) («परशुरामजी»)

प्रायात् कल्केर् दर्शन+अर्थं शम्भलं तीर्थ-तीर्थ-कृत्))48

तं दृष्ट्वा सहसो’त्थाय पद्मया रमया सह)

कल्किः प्रहर्षो विधिवत् पूजाञ् चक्रे विधान-वित्))49

नाना-रसैर् गुण-मयैर् भोजयित्वा विचित्रिते)

पर्यङ्के ऽनर्घ-वस्त्राढ्ये शाययित्वा मुदं ययौ))50

तं भुक्तवन्तं विश्रान्तं पादसंवाहनैर् गुरुम्)

संतोष्य विनय+आपन्नः कल्किर् मधुरम् अब्रवीत्))51

तव प्रसादात् सिद्धं मे गुरो त्रैवर्गिकञ् च यत्) (त्रैवर्गिकञ् means अर्थ, धर्म, काम)

शशिध्वज-सुतायास् तु शृणु राम निवेदितम्))52

υ  υ υ υ υ υ – | υ – υ – – || υ υ υ υ – υ υ – | υ – υ – – || metre follows:

इति पति-वचनं निशम्य रामा) निज-हृदये’प्सित-पुत्र-लाभम् इष्टम्)

व्रत-जप-नियमैर् यमैश् च कैर् वा) मम भवति+इह मुदा+अह जामदग्न्यम्))53

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

विष्णुयशसो मोक्षो राम-दर्शनं च नाम षोडशो ऽध्यायः))16


तृतीय+अंशः) सप्तदशो ऽध्यायः) सूत उवाच)

जामदग्न्यः समाकर्ण्य रमां तां पुत्रगर्धिनीम्)

कल्केर् अभिमतं बुद्ध्वा+अकारयद् रुक्मिणी-व्रतम्))1

व्रतेन तेन च रमा पुत्राढ्या सुभगा सती)

सर्व-भोगेन संयुक्ता बभूव स्थिर-यौवना))2

शौनक उवाच)

विधानं ब्रूहि मे सूत व्रतस्यास्य च यत् फलम्)

पुरा केन कृतं धर्म्यं रुक्मिणी-व्रतम् उत्तमम्))3

सूत उवाच)

शृणु ब्रह्मन् राज-पुत्री शर्मिष्था वार्षपर्वणी)

अवगाह्य सरोनीरं सोमं हरम् अपश्यत))4

सा सखीभिः परिवृता देवयान्या च संगता) (Nं of a daughter of उशनस् or शुक्राचार्य (wife of ययाति and mother of यदु and तुर्वसु)

शम्भु-भीत्या समुत्थाय पर्यधाद् वसनं द्रुतम्))5

तत्र शुक्रस्य कन्याया वस्त्र-व्य्-अत्य्-अ-यम+आत्मनः)

संलक्ष्य कुपिता प्राह वसनं त्यज भिक्षुकि))6

इति दानव-कन्या सा दासीभिः परिवारिता)

तां तस्या वाससा बद्ध्वा कूपे क्षिप्त्वा गता गृहम्))7

तां मग्नां रुदतीं कूपे जल+र्थी नहुष+आत्मजः)

करे स्पृश्य समुद्धृत्य प्राह का त्वं वरानने))8

सा शुक्र-पुत्री वसनं परिधाय ह्रिया भिया)

शर्मिष्ठया कृतं सर्वं प्राह राजानम् ईक्षती))9

ययातिस् तद् अभिप्रायं ज्ञात्वा+अनुव्रज्य शोभनम्)

आश्वास्य तां ययौ गृहं तस्याः परिणयादृतः))10

सा गत्वा भवनं शुक्रं प्राह शर्मिष्ठया कृतम्)

तच् छ्रुत्वा कुपितं विप्रं वृषपर्वा+अह सान्त्वयन्))11

दण्द्यं मां दण्डय विभो कोपो यद्य् अस्ति ते मयि)

शर्मिष्थां वा+अप्य् अप-कृतां कुरु यन् मनसे’प्सितम्))12

राजानं प्रणतं पादे पितुर् दृष्ट्वा रुषा+अब्रवीत्)

देवयानी त्व् इयं कन्या मम दासी भवत्व् इति))13

समानीय तदा राजा दास्ये तां विनियुज्य सः)

ययौ निज-गृहं ज्ञानी दैवं परमकं स्मरन्))14

ततः शुक्रस् तम् आनीय ययातिं प्रतिलोमकम्)

तस्मै ददौ तां विधिवद् देवयानीं तया सह))

दत्त्वा प्राह नृपं विप्रो ऽप्य् एनां राज-सुतां यदा) («याद» printing error, metrically impossible)

शयने ह्वयसे सद्यो जरा त्वाम् उप-भोक्ष्यति))16

श्व्क्रस्य+एतद् वचः श्रुत्वा राजा तां वर-वर्णिनीम्)

अदृश्यां स्थापयाम् आस देवयान्य्-अनुगां भिया))17 (I suspect printing error instead अनुजां)

सा शर्मिष्था राज-पुत्री दुःख-शोक-भय+आकुला)

नित्यं दासी-शत+आकीर्णा देवयानीं तु सेवते))18

एकदा सा वन-गता रुदती जाह्नवीतटे) («गंगाजीके तीरपर»)

विश्वामित्रं मुनिं सा तं ददृशे स्त्रीभिर् आवृतम्))19

व्रतिनं पुण्य-गन्धाभिः सु-रूपाभिः सु-वासितम्)

कारयन्तं व्रतं माल्य-धूप-दीप+उपहारकैः))20

निर्माय+अष्ट-दलं पद्मं वेदिकायां सुचिह्नितम्) (निर्-माय =powerless , weak)

रम्भापोतैश् चतुर्भिस् तु चतुष्-कोणं विराजितम्))21

वाससा निर्मित-गृहे स्वर्ण-पट्तैर् विचित्रिते)

निर्मितं श्री-वासुदेवं नाना-रत्न-विघट्टितम्))22

पौरुषेण च सूक्तेन नाना-गन्धोदकैः शुभै»ः)

पञ्च+अमृतैः पञ्च-गव्यैर् यथा मन्त्रैर् द्विजे’रितैः))23 (nं the 5 products of the cow (vizं milk, coagulated or sour milk, butter, and the liquid and solid excreta)

स्नापयित्वा भद्र-पीठे क,र्निकायां प्रपूजयेत्)

पञ्चभिर् दशभिर् वा+अपि षोडशैर् उपचारकैः))24

पाद्यम् अध्व-श्रम-हरं शीतलं सुमनोहरम्)

परम+आनन्द-जनकं गृहाण परमेश्वर))25

दूर्वा-चन्दन-गन्धाढ्यम् अर्घ्यं युक्तं प्र-यत्नतः)

गृहाण रुक्मिणी-नाथ प्रसन्नस्य मम प्रभो))26

नाना-तीर्थ+उद्भवं वारि सुगन्धि सुमनोहरम्)

गृहाण+आचमनीयं त्वं श्री-निवास श्रिया सह))27

नाना-कुसुम-गन्धाढ्यां सूत्र-ग्रथितम् उत्तमम्)

वक्षः-शोभा-करं चारु माल्यं नय सुरेश्वर))28

तन्तुसन्तान-सन्धान-रचितं बन्धनं हरे)

गृहाण+आवरणं शुद्धं निरावरण सप्रिय))29

यज्ञ-सूत्रम् इदं देव! प्रजापति-विनिर्मितम्)

गृहाण वासुदेव त्वं रुक्मिण्या रमया सह))30

नाना-रत्न-समायुक्तं स्वर्ण-मुक्ता-विघट्टितम्) (printing error द्रि instead ट्ट)

प्रियया सह देवेश गृहाण+आभरणं मम))31

दधि-क्षीर-गुड+अन्न+आदि-पूप-लड्दुक-खण्डकान्)

गृहाण रुक्मिणी-नाथ स-नाथं कुरु मां प्रभो))32

कर्पूर+अगुरु-गन्धाढ्यं परम+आनन्द-दायकम्)

धूपं गृहाण वरद वैदर्भ्या प्रियया सह))33

भक्तानां गेहशक्तानां संसार-ध्वान्त-नाशनम्) in my opinion must be corrected to गेह-सक्तानां or even गृह-सक्तानां)

दीपम् आलोकय विभो! जगद् आलोकन् आदर))34

श्यामसुन्दर! पद्माक्ष! पीताम्बर! चतुर्भुज!)

प्रपन्नं पाहि देवेश रुक्मिण्या सहित+अच्युत))35

इति तासां व्रतं दृष्ट्वा मुनिं नत्वा सुदुःखिता)

शर्मिष्था मिष्टवचना कृताञ्जलिर् उवाच ताः))36

शर्मिष्था+उवाच)

राज-पुत्रीं दुर्भगां मां स्वामिना परिवर्जिताम्)

त्रातुम् अर्हथ हे देव्यो व्रतेन+अनेन कर्मणा))37

श्रुत्वा तु ता वचस् तस्याः कारुण्याच् च कियत् किवत्)

पूजा+उपकरणं दत्त्वा कारयाम् आसुर् आदरात्))38

व्रतं कृत्वा तु शर्मिष्था लब्ध्वा स्वामिनम् ईश्वरम्)

सूत्वा पुत्रान् सु-सन्तुष्टा सम्-अभूत् स्थिर-यौवना))39

सीता च+अशोकवनिका-मध्ये सरमया सह)

व्रतं कृत्वा पतिं लेभे रामं राक्षस-नाशनम्))40

बृहदश्व-प्रसादेन कृत्वा+इमं द्रौपदी व्रतम्)

पति-युक्ता दुःख-मुक्ता बभूव स्थिर-यौवना))41

तथा रमा सिते पक्षे वैशाखे द्वादशी-दिने)

जामदग्न्याद् व्रतं चक्रे पूर्णं वर्ष-चतुष्-टयम्))42

पट्ट-सूत्रं करे बद्ध्वा भोजयित्वा द्विजान् बहून्)

भुक्त्वा हविष्यं क्षीराक्तं सुमृष्तं स्वामिना सह))43

बुभुजे पृथिवीं सर्वाम् अपूर्वां स्व-जनैर् वृता)

सा पुत्रौ सुषुवे साध्वी मेघमाल-बलाहकौ))44

देवानाम् उपकर्तारौ यज्ञ-दान-तपो-व्रतैः)

महोत्साहौ महावीर्यौ सुभगौ कल्कि-सम्पतौ))45

व्रत-वरम् इति कृत्वा सर्व-सम्पत्-समृद्ध्या)

भवति विदित-तत्त्वा पूजिता पूर्ण-कामा))

हरि-चरण-सरोज-द्वन्द्व-भक्त्यै’कताना)

व्रजति गतिम् अपूर्वां ब्रह्म-विज्ञैर् अगम्याम्))46

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

रुक्मिणी-व्रतं नाम सप्तदशो ऽध्यायः))17


तृतीय+अंशः) अष्टादशो ऽध्यायः) सूत उवाच)

एतद् वः कथितं विप्रा व्रतं त्रैलोक्य-विश्रुतम्)

अतः परं कल्कि-कृतं कर्म यच् छृणुत द्विजाः))1

शम्भले वसतस् तस्य सहस्र-परि-वत्सराः)

व्यतीता भ्रातृ-पुत्र-स्व-ज्ञाति-सम्बन्धिभिः सह))2

शम्भले शुशुभे श्रेणी सभापणकचत्वरैः)

पताका-ध्वजचित्राढ्यैर् यथे’न्द्रस्य+अमरावती))3

यत्र+अष्टषष्टि तीर्थानां सम्भवः शम्भले ऽभवत्)

मृत्योर् मोक्षः क्षितौ कल्केर् अकल्कस्य पदाश्रयात्))4

वन+उपवन-सन्तान-नाना-कुसुम-संकुलैः)

शोभितं शम्भलं ग्रामं मन्ये मोक्ष-पदं भुवि))5

तत्र कल्किः पुर-स्त्रीणां नयन+आनन्द-वर्धनः)

पद्मया रमया कामं रराम जगती-पतिः))6

सुराधिप-प्रदत्तेन कामगेन रथेन वै)

नदी-पर्वत-कुञ्जेषु द्वीपेषु परया मुदा))7

रममाणो विशन् पद्मा-रमा+आद्याभी रमा-पतिः)

दिवानिशं न बुबुधे स्त्रैणश् च काम-लम्पटः))8

classic त्रिस्तुभ् metre follows)

पद्मा-मुखामोद-सरोजशीधु) वासो’प-भोगी सुविलासवासः)

प्रभूत-नीले’न्द्र-मणि-प्रकाशे) गुहाविशेष प्रविवेश कल्किः))9

पद्मा तु पद्मा-शत-रूपरूपा) रमा च पीयूषकलाविलासा)

पतिं प्रविष्तं गिरिगह्वरे ते) नारी-सहस्राकुलिते त्व् अगाताम्))10

पद्मा पतिं प्रेक्ष्य गुहानिविष्तं) रन्तुं मनोज्ञा प्रविवेश पश्चात्)

रमाबलायूथ-समन्विता तत्) पश्चाद् गता कल्कि-महो’ग्र-कामा))11

तत्रे’न्द्रनीलो’त्पलगह्वरान्ते) कान्ताभिर् आत्म-प्रतिमाभिर् ईशम्)

कल्किञ् च दृष्ट्वा नवनीरदाभं) ततः स्थितं प्रस्तरवन् मुमोह))12

रमा सखीबिः प्रमदाभिर् आर्ता) विलोकयन्ती दिशमाकुलाक्षी)

पद्मा+अपि पद्मा-शत-शोभमाना) विषण्नचित्ता न बभौ स्म चार्ता))13

भूमौ लिखन्ती निज-कज्जलेन) कल्किं शुकं तं कुच-कुंकुमेन)

कस्तूरिकाभिस्तु तद् अग्रम् अग्रे) निर्माय च+आलिङ्ग्य ननाम भावात्))14

रमा कलालापपरा स्तुवन्ती) कामार्दिता तं हृदये निधाय)

ध्यात्वा निज+अलङ्करणैः प्रपूज्य) तस्थौ विषण्ना करुणावसन्ना))15

क्षणात् समुत्थाय रुरोद रामा) कलापिनः कण्थनिभं स्वनाथम्)

हृदोपगूढं न पुनः प्रलभ्य) कामार्दिता+इत्य् आह हरे प्रसीद))16

पद्मा+अपि निर्मुच्य निज+अङ्ग-भूषाश्) चकार धूलीपटले विलासम्) धूली-पटलम्=dust cloud)

कण्थञ् च कस्तूरिकयापि नीलं) कामं निहन्तुं शिवताम् उपेत्य))17

कलावतीनां कलयाकलय्य) क्षीणे’क्षणानां हरिर् आर्त-बन्धुः)

काम-प्रपूराय ससार मध्ये) कल्किः प्रियाणां सु-रतो’त्सवाय))18

ताः सादरेणात्म-पतिं मनोज्ञाः) करेणवो यूथपतिं यथे’युः)

सानन्दभावा विषदानुवृत्ताअ) वनेषु रामाः परि-पूर्ण-कामाः))19

वैभ्राजके चैत्ररथे सुपुष्पे) सुनन्दने मन्दरकन्दरान्ते) वैभ्राजकम्=Nं of a celestial grove (=वैभ्राजः)

रेमे स रामाभिर् उदार-तेजा) रथेन भास्वत्-खगमेन कल्किः))20

पद्मा-मुख+अब्ज+अमृत-पान-मत्तो) रमा-समालिङ्गनवासरङ्गी)

वरांगनानां कुच-कुंकुमाक्तो) रति-प्रसंगे विपरीत-युक्तः)

मुखे विदष्टा रसनावशिष्टा)-मोदः स कल्किर् न हि वेद देहम्))21

रमासमानाः पुरुषोत्तमं तं) वक्षोज-मध्ये विनिदाय धीराः)

परस्पराश्लेषणजात-हासा) रेमुर् मुकुन्दं विलसच् छरीराः))22

(looks like अनुस्तुभ्, but it is only υ – υ -) perfectly sung in ¾ rhythm)

ततः सरोवरं त्वरा स्त्रियो ययुः क्लमज्वराः)

प्रियेण तेन कल्किना वनान्तरे विहारिणा)

सरः प्रविश्य पद्मया विमोह-रूपया तया)

जलं ददुर् वराङ्गनाः करेणवो यथा गजम्))23

( υ υ υ υ υ υ – – | – υ – – υ – – metre follows)

इति ह युवति-लीला लोक-नाथख् स कल्किः)

प्रिय-युवति-परीतः पद्मया रामया+आद्यः)

निज-रमण-विनोदैः शिक्षयंल्-लोक-वर्गाञ्)

जयति विबुध-भर्ता शम्भले वासुदेवः))24

– – – υ υ – | υ – υ υ υ – | – – υ – | – υ – metre follows)

ये शृण्वन्ति वदन्ति भावचतुरा ध्यायन्ति सन्तः सदा)

कल्केः श्री-पुरुषोत्तमस्य चरितं कर्ण+अमृतं सादराः)

तेषां नो सुखयत्य् अयम् मुररिपोर् दास्याभिलाषं विना)

संसारः परि-मोचनञ् च परम+आनन्द+अमृत+अम्भो-निधेः))25

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

कल्कि-वर्णनं नाम+अष्टादशो ऽध्यायः))18


तृतीय+अंशः) ऊनविंशो ऽध्यायः) सूत उवाच)

ततो देवगणाः सर्वे ब्रह्मणा सहिता रथैः)

स्वैः स्वैर् गणैः परिवृता कल्किं द्रष्टुम् उपाययुः))1

महर्षयः स-गन्धर्वाः किन्नराश् च+अप्सरो-गणाः)

समाजग्मुः प्रमुदिताः शम्भलं सुर-पूजितम्))2

तत्र गत्वा सभा-मध्ये कल्किं कमल-लोचनम्)

तेजो-निधिं प्रपन्नानां जनानाम् अभयप्रदम्))3

नीलजीमूतसंकाशं दीर्घ-पीवर-बाहुकम्)

किरीटेन+अर्क-वर्णेन स्थिरविद्युन्निभेन तम्))4

शोभमानं द्युमणिना कुण्डलेन+अभिशोभिना)

सहर्षा’लप-विकसद्-वदनं स्मित-शोभितम्))5

कृपाकटाक्ष-विक्षेप-परिक्षिप्त-विपक्षकम्)

तार-हारो’ल्लसद्-वक्षश्-चन्द्र-कान्त-मणि-श्रिया))6

कुमुद्वती-मोद-वहं स्फुरच्-छका’युध+अम्बरम्)

सर्वद+आनन्द-सन्दोह-रसो’ल्लसित-विग्रहम्))7

नाना-मणि-गणोद्योत-दीपितं रूपम् अद्भुतम्)

ददृशुर् देव-गन्धर्वा ये च+अन्ये समुपागताः))8

भक्त्या परमया युक्ताः परम+आनन्द-विग्रहम्)

कल्किं कमल-पत्र+अक्षं तुष्टुवुः परमादरात्))9

देवा ऊचुः) follows metre υ – – (bacchics)

जय+अशेष-संक्लेश-कक्ष-प्रकीर्ण+अ)नलो’द्दाम-संकीर्णही’श देवेश विश्वेश भूतेश भावः)

तव+अनन्त च+अन्तः स्थितो’ऽङ्ग+अप्त-रत्न)-प्रभाभातपाद+अजित+अनन्त-शक्ते))10

प्रकाशीकृताशेषलोकत्रयात्र) वक्षःस्थले भास्वत् कौस्तुभ श्याम)

मेघौघराजच्छरीरद्विजाधीशपुञ्जानन त्राहि विष्णो स दारा) वयं त्वां प्रपन्नाः सशेषाः))11

यद्य् अस्त्य् अनुग्रहो ऽस्माकं व्रज वैकुण्थम् ईश्वर)

त्यक्त्वा शासित-भू-खण्दं सत्य-धर्म+अविरोधतः))12

कल्किस् तेषाम् इति वचः श्रुत्वा परम-हर्षितः)

पात्र-मित्रैः परिवृतश् चकार गमने मतिम्))13

पुत्रान् आहूय चतुरो महाबल-पराक्रमान्

रज्ये निक्षिप्य सहसा धर्मिष्थान् प्रकृति-प्रियान्))14

ततः प्रजाः समाहूय कथयित्वा निजाः कथाः)

प्राह तान् निज-निर्याणं देवानाम् उपरोधतः))15

तच् छ्रुत्वा ताः प्रजाः सर्वा रुरुदुर् विस्मयान्विताः)

तं प्राहुः प्रणताः पुत्रा यथा पितरम् ईश्वरम्))16

प्रजा ऊचुः)

भो नाथ सर्व-धर्म-ज्ञ न+अस्मांस् त्यक्तुम् इह+अर्हसि)

यत्र त्वम् तत्र तु वयं यामः प्रणत-वत्सल))17

प्रिया गृहा धनान् यत्र पुत्राः प्राणास् तव+अनुगाः)

परत्र+इह विशोकाय ज्ञात्वां त्वां यज्ञ-पूरुषम्))18

इति तद् वचनं श्रुत्वा सान्त्वयित्वा सदुक्तिभिः)

प्रययौ क्लिन्न-हृदयः पत्नीभ्यां सहितो वनम्))19

हिमालयं मुनि-गणैर् आकीर्णं जाह्नवी-जलैः)

परिपूर्णं देव-गणैः सेवितं मनसः प्रियम्))20

गत्वा विष्नुः सुर-गणैर् वृतश् चारु-चतुर्भुजः)

उषित्वा जाह्नवी-तीरे सस्मारात्मानम् आत्मना))21

पूर्ण-ज्योतिर्-मयः साक्षी परमात्मा पुरातनः)

बभौ सूर्य-सहस्राणां तेजोराशिसमद्युतिः))22

शंख-चक्र-गदा-पद्म-शार्ङ्ग+आद्यैः समभिष्टुतः)

नाना+अलङ्करणानाञ् च सम्-अलङ्करणा-कृतिः))23

ववृषुस् तं सुराः पुष्पैः कौस्तुभा-मुक्त-कन्धरम्)

सुगन्धि-कुसुमा-सारैर् देव-दुन्दुभि-निःस्वनैः))24

तुष्टुवुर् मुमुहुः सर्वे लोकाः सस्थाणु-जंगमाः) («तुष्ट्ववुर्» I corrected)

दृष्ट्वा रूपम् अरूपस्य निर्याणे वैष्णवं पदम्))25

तद् दृष्ट्वा महदाश्चर्यं पत्युः कल्केर् महात्मनः)

रमा पद्मा च दहनं प्रविश्य तम् अवापतुः))26

धर्मः कृत-युगं कल्केर् आज्ञया पृथिवीतले)

निःसपत्नौ सुसुखिनौ भूलोकं चेरतुश् चिरम्))27

देवापिश् च मरुः कामं कल्केर् आदेशकारिणौ)

प्रजाः संपालयन्तौ तु भुवं जुगुपतुः प्रभू))28

विशाखयूप-भूपालः कल्केर् निर्याणम् ईदृशम्)

श्रुत्वा स्व-पुत्रं विषये नृपं कृत्वा गतो वनम्))29

अन्ये नृ-पतयो ये च कल्केर् विरह-कर्षिताः)

तं ध्यायन्तो जपन्तश् च विरक्ताः स्युर् नृपासने))30

इति कल्केर् अनन्तस्य कथां भुवन-पावनीम्)

कथयित्वा शुकः प्रायान् नर-नारायणाश्रमम्))31ा

मार्कण्देय+आदयो ये च मुनयः प्रशमायनाः)

श्रुत्वा+अनुभावं कल्केस् ते तं ध्यायन्तो जगुर् यशः))32

यस्य+अनुशासनाद् भूमौ न+अधर्मिष्थाः प्रजाजनाः)

न+अल्पायुषो दरिदाश् च न पाखणा न हैतुकाः))33

न+आधयो व्याधयः क्लेशा देव-भूत+आत्म-सम्भवाः)

निर्मत्सराः सदानन्दा बभूवुर् जीवजातयः))34

इत्य् एतत् कथितं कल्केर् अवतारं महोदयम्)

धन्यं यशस्यम् आयुष्यं स्वर्ग्यं स्वस्त्ययनं परम्))35

शोक-सन्ताप-पाप-घ्नं कलि-व्याकुल-नाशनम्)

सुखदं मोक्षदं लोके वांछित+अर्थ-फल-प्रदम्))36

तावच् छास्त्र-प्रदीपानां प्रकाशो भुवि रोचते)

भाति भानुः पुराणाख्यो यावल् लोके ऽति कामधुक्))37

– – – υ υ – | υ – υ υ υ – | – – υ – | – υ – metre follows)

श्रुत्वै’तद् भृगु-वंश-जो मुनि-गणैः साकं सहर्षा वशी)

ज्ञात्वा सूतम् अमेय-बोध-विदितं श्री-लोमहर्ष+आत्मजम्)

श्री-कल्केर् अवतार-वाक्यम् अमलं भक्ति-प्रदं श्री-हरेः)

शुश्रूषुः पुनर् आह साधु-वचसा गंगा-स्तवं सत्-कृतः))38

इति श्री-कल्कि-पुराणे ऽनुभागवते तृतीय+अंशे

कल्कि-निर्याणो नाम+ऊनविंशतितमो ऽध्यायः))19 («इति श्री-कल्कि-पुराणे सानुवादे ऽनुभागवते भविष्ये तृतीय+अंशे कल्कि-निर्याणो नाम+ऊनविंशतितमो ऽध्यायः»)


तृतीय+अंशः) विंशो ऽध्यायः)

शौनक उवाच)

हे सूत! सर्व-धर्म-ज्ञ यत् त्वया कथितं पुरा)

गंगां स्तुत्वा सम्-आयाता मुनयः कल्कि-संनिधिम्))1

स्तवं तं वद गंगायाः सर्व-पाप-प्रणाशनम्)

मोक्षदं शुभदं भक्त्या शृण्वतां पठताम् इह))2

सूत उवाच)

श्रुणुध्वम् ऋषयः सर्वे गंगा-स्तवम् अनुत्तमम्)

शोक-मोह-हरं पुंसाम् र्षिभिः परि-कीर्तितम्))3

ऋषय ऊचुः)

υ  – υ υ υ – | υ  – υ υ υ – | υ – – υ – | (of dochmian metre sort) metre follows)

इयं सुरतरंगिणी भवनवारिधेस्तारिणी)

स्तुता हरि-पदाम्बुजाद् उपगता जगत्-संसदः)

सुमेरु-शिखर+अमर-प्रिय-जला मलक्षालनी)

प्रसन्नवदना शुभा भवभयस्य विद्राविणी))4

भगीरथमथानुगा सुरकरींद्र-दर्प+अपहा)

महेश-मुकुट-प्रभा गिरिशिरः-पताका सिता)

सुर+असुर-नरो’रगैर् अज-भव+अच्युतैः संस्तुता)

विमुक्ति-फल-शालिनी कलुष-नाशिनी राजते))5

पितामह-कमण्डलु-प्रभव-मुक्ति-बीजालता)

श्रुति-स्मृति-गण-स्तुता-द्विजकुल+आलवाल+आवृता)

सुमेरु-शिखराभिदा निपतिता त्रिलोक+आवृता)

सुधर्म-फलशालिनी सुखपलाशिनी राजते))6

चरद्विहगमालिनी सगर-वंश-मुक्ति-प्रदा)

मुनि+इंद्र-वर-नन्दिनी दिवि मता च मन्दाकिनी)

सदा दुरित-नाशिनी विमल-वारि-संदर्शन-

प्रणाम-गुण-कीर्तनादिषु जगत्सु संराजते))7

महाभिधसुताङ्गना हिम-गिरीशकूटस्तनी)

स-फेन-जल-हासिनीसितमरालसंचारिणी)

चलल्लहरिसत्करा वर-सरोज-मालाधरा)

रसोल्लसितगामिनी जलधिकामिनी राजते))8

क्वचित् कल-कल-स्वना क्वचिद् अधीर-यादो-गणा)

क्वचिन् मुनि-गणैः स्तुता क्वचिद् अनन्त-संपूजिता)

क्वचिद् रविकरोज्ज्वला क्वचिद् उदग्रपाताकुला)

क्वचिज् जन-विगाहिता जयति भीष्म-माता सती))9

स एव कुशलो जनः प्रणमतीह भगीरथीं)

स एव तपसां निधिर् जपति जाह्नवीमादरात्)

स एव पुरुषोत्तमः स्मरति साधु मन्दाकिनीं)

स एव विजयी प्रभुः सुर-तरंगिणीं सेवते))10

तव+अमल-जलाचितं खग-शृगाल-मीनक्षतं)

चलल् लहरिलोलितं रुचिर-तीर-जम्बालितम्)

कदा निज-वपुर् मुदा सुर-नरो’रगैः संस्तुतो’

ऽप्य् अहं त्रिपथगामिनि! प्रियमतीव पश्याम्य् अहो))11

– – – υ υ – | υ – υ υ υ – | – – υ – | – υ – with that previous cognate metre follows)

त्वत् तीरे वसतिं तव+अमल-जल-स्नानं तव प्रेक्षणं)

त्वन् नाम-स्मरणं तव+उदय-कथा-संलापनं पावनम्)

गंगे मे तव सेवनैकनिपुणो ऽप्यानन्दितश् च+आदृतः)

स्तुत्वा त्वद् गतपातचो भुवि कदा शान्तश् चरिष्याम्य् अहम्))12

ordinary अनुस्तुभ् follows)

इत्य् एतद् र्षिभिः प्रोक्तं गंगा-स्तवम् अनुत्तमम्) («गंतास्तवम्» I corrected)

स्वर्ग्यं यशस्यम् आयुष्यं पठनाच् छ्रवणाद् अपि))13

सर्व-पाप-हरं पुसां बलम् आयुर् विवर्धनम्)

प्रातर्-मध्याह्न-सायाह्ने गंगा-सान्निध्यता भवेत्))14 (translation «सन्ध्याके समय», that सायाह्ने probably printing error, also that सानिध्यता printing error seems)

इत्य् एतद् भार्गवाख्यानं शुकदेवान् मया श्रुतम्)

पठितं श्रावितं च+आतृ पुण्यं धन्यं यशस्करम्))15

अवतारं महाविष्नोः कल्केः परमम् अद्भुतम्)

पठतां शृण्वतां भक्त्या सर्व+अशुभ-विनाशनम्))16

इति- श्री-कल्कि-पु- भा- भवि- तृ- (:abbreviations meaning:) इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे)

गंगा-स्तवो नाम विंशतितमो ऽध्यायः))20

(«इति श्री-कल्कि-पुराणे सानुवादे ऽनुभागवते भविष्ये तृतीय+अंशे गंगा-स्तवो नाम विंशतितमो ऽध्यायः»)


तृतीय+अंशः) एकविंशो ऽध्यायः)

अत्र-अपि शुक-संवादो मार्कण्देयेन धीमता)

अधर्म-वंश-कथनं कलेर् विवरणं ततः))1

देवानां ब्रह्म-सदन-प्रयाणं गोभुवा सह) («गो-रूप-धारी पृथ्वीके साथ»)

ब्रह्मणो वचनाद् विष्णोर् जन्म विष्णुयशो-गृहे))2

सुमत्यां स्व+अंशकैर् भ्रातृ-चतुर्भिः शम्भले पुरे)

पितुः पुत्रेण संवादस् तथो’पनयनं हरेः))3

पुत्रेण सह संवासो वेद+अध्ययनम् उत्तमम्)

शस्त्र+अस्त्राणां परिज्ञानं शिव-संदर्शनं ततः))4

कल्केः स्तवं शिवपुरो वर-लाभः शुकापनम्)

शम्भलागमनं चक्रे ज्ञातिभ्यो वर-कीर्तनम्))5

विशाखयूप-भूपेन निज-सर्वात्म-वर्णनम्)

महाभाग्याद् ब्राह्मणानां शुकस्या’गमनं ततः))6

कल्किना शुक-संवादः सिंहलाख्यानम् उत्तमम्) शिव-दत्त-वरा पद्मा तस्या भूप-स्वयंवरे))7

दर्शनाद् भूप-संघानां स्त्री-भाव-परिकीर्तनम्)

तस्या विषादः कल्केस् तु विवाहार्थं समुद्यमः))8

शुक-प्रस्थापनं दौत्ये तया तस्यापि दर्शनम्)

शुक-पद्मा-परिचयः श्री-विष्णोः पूजनादिकम्))9

पादादि-देह-ध्यानञ् च केशान्तं परिवर्णितम्)

शुक-भूषण-दानञ् च पुनः शुक-समागमः))10

कल्केः पद्मा-विवाहार्थं गमनं दर्शनं तयोः)

जल-क्रीडा-प्रसङ्गेन विवाहस् तदनन्तरम्))11

पुंस्त्व-प्राप्तिश् च भूपानां कल्केर् दर्शनम् आत्रतः)

अनन्त+आगमनं राज्ञा संवादस् तेन संसदि))12

षण्धत्वाद् आत्मनो जन्म कर्म च+अत्र शिव-स्तवः)

मृते पितरि तद् विष्नोः क्षेत्रे मायाप्रदर्शनम्))13

अत्र+आख्यानम् अनन्तस्य ज्ञान-वैराग्य-वैभवम्)

राज्ञां प्रयाणं कल्केश् च पद्मया सह शम्भले))14

विश्वकर्म-विधानञ् च वसतिः पद्मया सह)

ज्ञाति-भ्रातृ-सुहृत्-पुत्रैः सेनाभिर् बुद्ध-निग्रहः))15 (wrong instead for बौद्ध-;)

कथितश् च+अत्र तेषाञ् च स्त्रीणां संयोधन+आश्रयः)

ततो ऽत्र वालखिल्यानां मुनीनां स्वनिवेदनम्))16

स-पुत्रायाः कुथोदर्या वधश् च+अत्र प्रकीर्तितः)

हरिद्वार-गतस्य+अपि कल्केर् मुनि-समागमः))17

सूर्य-वंशस्य कथनं सोमस्य च विधानतः)

श्री-राम-चरितं चारु सूर्य-वंश+अनुवर्णने))18

देवापेश् च मरोः संगो युद्धायात्र प्रकीर्तितः)

महाघोर-वने कोक-विकोक-विनिपातनम्))19

भल्लाट-गमनं तत्र शय्याकर्ण+आदिभिः सह)

युद्धं शशिध्वजेन+अत्र सुशान्ता-भक्ति-कीर्तनम्))20

युद्धे कल्केर् आनयनं धर्मस्य च कृतस्य च)

सुशान्तायाः स्तवस् तत्र रमा+उद्वाहस् तु कल्किना))21

सभायां पूर्वकथनं निजगृध्रत्वकारणम्)

मोक्षः शशिध्वजस्य+अत्र भक्ति-प्रार्थयितुर् विभोः))22

विषकन्यामोचनञ् च नृपाणामभिषेचनम्)

माया-स्तवः शम्भलेषु नाना-यज्ञादिसाधनम्))23

नारदाद् विष्णुयशसो मोक्षश् च+अत्र प्रकीर्तितः)

कृत-धर्म-प्रवृत्तिश् च रुक्मिणी व्रत-कीर्तनम्))24

ततो विहारः कल्केश् च पुत्र-पौत्र+आदि-सम्भवः)

कथितो देव-गन्धर्व-गण+आगमनम् अत्र हि))25

ततो वैकुण्थ-गमनं विष्नोः कल्केर् इह+उदितम्)

शुक-प्रस्थानम् उचितं कथयित्वा कथाः शुभाः))26

गंगा-स्तोत्रम् इह प्रोक्तं पुराणे मुनि-संमतम्)

जगताम् आनन्द-करं पुराणं पंच-लक्षणम्))27

स-कल्क-सिद्धि-दं लोकैः षट् सहस्रं शताधिकम्)

सर्व-शास्त्र+अर्थ-तत्त्वानां सारं श्रुति-मनोहरम्))28

चतुर्-वर्ग-प्रदं कल्कि-पुराणं परिकीर्तितम्)

प्रलय+अन्ते हरि-मुखान् निःसृतं लोक-विस्तृतम्))29

अहो व्यासेन कथितं द्विज-रूपेण भूतले)

विष्णोर् कल्केर् भगवतः प्रभावं परम+अद्भुतम्))30

– – – υ υ – | υ – υ υ υ – | – – υ – | – υ – metre follows)

ये भक्त्यात्र पुराण-सारम् अमलं श्री-विष्णु-भावाप्लुतं)

शृण्वन्ति+इह वदन्ति साधुसदसि क्षेत्रे सु-तीर्था’श्रमे)

दत्त्वा गां तुरगं गजं गज-वरं स्वर्णं द्विजायादरात्)

वस्त्र+अलघ्ग्करणैः प्रपूज्य विधिवन्-मुक्तास् तु एवो’त्तमाः))31

ordinary अनुस्तुभ् follows)

श्रुत्वा विधानं विधिवद्-ब्राह्मणो वेद-पारगः)

क्षत्रियो भूपतिर् वैश्यो धनी शूद्रो महान् भवेत्))32

पुत्र+अर्थी लभते पुत्रं धनार्थी लभते धनम्)

विद्यार्थी लभते विद्यां पठनाच् छ्रवणाद् अपि))33

इत्य् एतत् पुण्यम् आख्यानं लोमहर्षण-जो मुनिः)

श्रावयित्वा मुनीन् भक्त्या ययौ तीर्थ+अटन+आदृतः))34

शौनको मुनिभिः सार्धं सूतम् आमन्तृय धर्मवित्)

पुण्यारण्ये हरिं ध्यात्वा ब्रह्म प्राप सहर्षिभिः))35

लोमहर्षण-जं सर्व-पुराण-ज्ञं यतव्रतम्)

व्यास-शिष्यं मुनि-वरं तं सूतं प्रणमाम्य् अहम्))36

आलोक्य सर्व-शास्त्राणि विचार्य च पुनः पुनः)

इदम् एव सुनिष्पन्नं ध्येयो नारायणः सदा))37

वेदे रामायणे चैव पुराणे भारते तथा)

आदाव् अन्ते च मध्ये च हरिः सर्वत्र गीयतेए))38

υ υ υ υ υ υ –  – | – υ –  – υ –  – metre follows)

सजलजलददेहो वात-वेगै’क-वाहः)

कर-धृत-करवालः सर्व-लोकै’क-पालः)

कलि-कुलवन-हन्ता सत्य-धर्म-प्रणेता)

कलयतु कुशलं वः कल्कि-रूपः स भूपः))39

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

एकविंशो ऽध्यायः))19

(«इति श्री-सानुवादे कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

विषयसूची नाम एकविंशो ऽध्यायः»)