कल्किपुराणम्/अध्यायः २७
तृतीय+अंशः) त्रयोदशो ऽध्यायः) सूत उवाच)
इति भूपः सभायां स कथयित्वा निजाः कथाः
शशिध्वजः प्रीतमनाः प्राह कल्किं कृताञ्जलिः))1
शशिध्वज उवाच)
त्वं हि नाथ त्रिलोकेश एते भूपास् त्वद् आश्रयाः
मां तथा विद्धि राजानं त्वन् नि-देशकरं हरे))2
तपस् तप्तुं यामि कामं हरिध्वारं मुनिप्रियम्
एते मत् पुत्र-पौत्राश् च पालनीयास् त्वद् आश्रयाः))3
मम+अपि कामं जानासि पुरा जाम्बवतो यथा
निधनं द्विविदस्य+अपि तदा सर्वं सुरेश्वर))4
इत्य् उक्त्वा गन्तुम् उद्युक्तं भार्यया सइतं नृपम्
लज्जयाधोमुखं कल्किं प्राहुर् भूपाः किम् इत्य् उत))5 (लज्ज्= )
हे नाथ किम् अनेन+उक्तं यच् छ्रुत्वा त्वम् अधोमुखः (अधो-मुख=having the face downwards/also विष्णु name)
कथं तद् ब्रूहि कामं नः किं वा नः शाधि संशयात्))6
कल्किर् उवाच)
अमुं पृच्छत वो भूपा युष्माकं संशयच्छिदम्
शशिध्वजं महा-प्राज्ञं मद् भक्ति-कृत-निश्चयम्))7
इति कल्केर् वचः श्रुत्वा ते भूपाः प्रोक्त-कारिणः
राजानं तं पुनः प्राहुः संशय+आपन्न-मानसाः))8 (अά-पन्न entered, got in/ afflicted, unfortunate/ gained, obtained, acquired/ having gained or obtained or acquired)
नृपा ऊचुः)
किं त्वया कथितं राजञ् छशिध्वज महा-मते)
कथं कल्किस् तद्वद् इदं श्रुत्वा+एव+अभूद् अधोमुखः))9 (त्Άद्-वत्=like that)
शशिध्वज उवाच)
पुरा राम+अवतारेण लक्ष्मणाद् इन्द्रजिद्-वधम्
मोक्षञ् च+आलक्ष्य द्विविदो राक्षसत्वात् स दारुणात्))10 (आ-लक्ष्य=having observed or beheld) अ-लक्ष्य=) दΆरुण=rough, sharp, severe, cruel, pitiless) राक्षसत्वं neutre)
अग्न्यागारे ब्रह्म-वीर-वधेन+अइकाहिको ज्वरः (अग्न्य्-आगारः=house or place for keeping the sacred fire)
लक्ष्मणस्य शरीरेण प्रविष्तो मोह-कारकः))11
तं व्याकुलम् अभिप्रेक्ष्य द्विविदो भिषजां वरः
अश्वि-वंशेन संजातः ख्यापयाम् आस लक्ष्मणम्))12 (ख्यायते=to be named, be known) ख्यापयति=to make known)
लिखित्वा रामभद्रस्य संज्ञा-पत्रीम् अ-तन्द्रितः)
लक्ष्मणं दर्शयाम् आस ऊर्ध्व-तिष्ठन् महाभुजः))13
लक्ष्मणो वीक्ष्य तां पत्रीं वि-ज्वरो बलवान् अभूत्
स ततो द्विविदं प्राह वरं वरय वानर))14 (वानरः= )
द्विविदस् तद् वचः श्रुत्वा लक्ष्मणं प्राह हृष्टवत्
त्वत्तो मे मरणं प्रार्थ्यं वानरत्वाच् च मोचनम्))15 (त्वत्तस्= )
पुनस् तं लक्ष्मणः प्राह मम जन्म+अन्तरे तव
मोचनं भविता कीश बलराम-शरीरिणः))16 (कीशः= )
«समुद्रस्य+उत्तरे तीरे द्विविदो नाम वानरः»
ऐकाहिकं ज्वरं हन्ति लिखितं यस् तु पश्यति))17 (ऐकाहिक= quotidian)
इति मन्त्र+अक्षरं द्वारि लिखित्वा ताल-पत्रके
यस् तु पश्यति तस्य+अपि नश्यत्य् ऐकाहिक-ज्वरः))18
इति तस्य वरं लब्ध्वा चिर+आयुः सुस्थ-वानरः
बलराम+अस्त्र-भिन्न+आत्मा मोक्षम् आपाकुतोभयम्))19
तथा क्षेत्रे सूत-पुत्रो निहतो लोमहर्स्,अणः
बलराम+अस्त्र-युक्तामा नैमिषे ऽभूत् स्व-वाञ्छया))20
जाम्बवांश् च पुरा भूपा वामनत्वं गते हरौ (जाम्बवत्=N of a monkey-chief (son of Pitaa-maha), father of जाम्बवती)
तस्य+अप्य् ऊर्ध्व-गतं पादं तत्र चक्रे प्रदक्षिणम्))21
मनोजवं तं निरीक्ष्य वामनः प्राह विस्मितः
मत्तो वृणु वरं कामम् ऋक्ष+अधीश महा-बल))22
इति तं हृष्ट-वदनो ब्रह्म+अंशो जाम्बवान् मुदा
प्राह भो चक्र-दहनान् मम मृत्युर् भविष्यति))23
इत्य् उक्ते वामनः प्राह कृष्ण-जन्मनि मे तव
मोक्षश् चक्रेण संभिन्न-शिरसः संभविष्यति))24
मम कृषन्+अवतारे तु सूर्य-भक्तस्य भूपतेः
सत्राजितस् तु मण्य्-अर्थे दुर्वादः समजायत))25
प्रसेनस्य मम भ्रातुर् वधस् तु मणि-हेतुकः
सिंहात् तस्य+अपि मण्य्-अर्थे वधो जाम्बवता कृतः))26
दुर्वाद-भय-भीतस्य कृष्णस्य+अमिततेजसः
मण्य्-अन्वेषण-चित्तस्य र्क्षेण+अभूद् रणो बिले))27
स निज+ईशं परिज्ञाय तच् चक्र-ग्रस्त-बन्धनम्
मुक्तो बभूव सहसा कृषन्ं पश्यन् स-लक्ष्मणम्))28
नवदूर्वादल-श्यामं दृष्ट्वा प्रादान् निज+आत्मजाम्
तदा जाम्बवतीं कन्यां प्रगृह्य मणिना सह))29
द्वारकां पुरम् आगत्य सभायां माम् उप+अह्वयत्
आहूय मह्यं प्रददौ मणिं मुनि-गण+अर्चितम्))30
सो ऽहं तां लज्जया तेन मणिना कन्यकां स्वकाम्
विवाहेन ददाव् अस्मै लावण्याज् जगृहे मणिम्))31 (लावण्य= )
तां सत्यभामाम् आदाय मणिं मय्य् अर्प्य स प्रभुः
द्वारकाम् आगत्य पुनर् गजाह्वयम् अगाद् विभुः))32 (गजाह्वय=हस्तिना-पुर)
गते कृष्ने मां निहत्य शतधन्वा+अग्रहीन् मणिम्
अतो ऽहम् इह जानामि पूर्व-जन्मनि यत् कृतम्))33
मिथ्या+अभिशापात् कृष्णस्य न+एव+अभून् मोचनं मम) (मिथ्या= )
अतो ऽहं कल्कि-रूपाय कृष्नाय परमात्मने)
दत्त्वा रमां सत्यभामा-रूपिणीं यामि सद्गतिम्))34
सुदर्शन+अस्त्र-घातेन मरणं मम काङ्क्षितम्
मरणे ऽभूद् इति ज्ञात्वा रणे वाञ्छामि मोचनम्))35
इत्य् असौ जगताम् ईशः कल्किः श्वशुर-घातनम्
श्रुत्वा+एव+अधोमुखस् तस्थौ ह्रिया धर्म-भिया प्रभुः))36
– – – υ υ – | υ – υ υ υ – | – | – υ – | – υ – metre follows:
अत्य्-आश्चर्यम् अपूर्वम् उत्तमम् इदं श्रुत्वा नृपा विस्मिता)
लोकाः संसदि हर्षिता मुनि-गणाः कल्केर् गुण+आकर्षिताः)
आख्यानं परमादरेण सुखदं धन्यं यशस्यं परं (आ-दर= )
श्रीमद्-भूप-शशिध्वजे’रित-वचो मोक्ष-प्रदं च+अभवन्))37
इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे
शशिध्वजे’रित-चक्र-मरण+आख्यानं नाम त्रयोदशो ऽध्यायः))13
page298)