कलिविडम्बनम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
कलिविडम्बनम्
नीलकण्ठदीक्षितः
१९३७

श्रीनीलकण्ठदीक्षितविरचितं

कलिविडम्वनम् ।


मैतव्य न बोद्धव्यं न श्राव्यं वादिनो वचः
झटिति प्रतिवक्तव्यं सभासु विजिगीषुभिः ॥ १ ॥
असंभ्रमो बिलज्जत्वमवज्ञा प्रतिवादिनि ।
हासो राज्ञः स्तवश्चेति पञ्चैते जयंहेतवः ॥ २ ॥

उच्चैरु[१]द्धोध्य जेतव्य मध्यस्थश्चेदपण्डितः ।
 पण्डितो यदि तत्रैव पक्षपातोऽधिरोप्यताम् ॥ ३॥
लामो हेतुर्वने साध्यं दृष्टान्तस्तु पुरोहितः ।
 अस्मोकों निगमनमनुमानेष्वयं विधिः ॥ ४ ॥
[२] अलभ्यं लप्स्यमानेन तत्त्वं जिज्ञासुना चिरम् ।
 जिगीषुणा ह्वियं त्यक्त्वा कार्यः कोलाहलो महान् ॥ ५ ॥
पाठनम्रन्थनिर्माण प्रतिष्ठा तावदाप्यते ।
 [३] वं च तथ्यव्युत्पचिरायुषोऽन्ते भवेन्न वा ॥ ६ ॥
स्तोतारः के भविष्यन्ति मूर्खस्य जगतीतले ।
 न तौति चेत्खयं च वं कदा तस्यास्तु नितिः ॥ ७ ॥
वाच्यता समयोऽतीतः स्पष्टमने भविष्यति
 इति पाठयतां अन्धे काठिन्यं कुन व[४] र्तते ॥ ८ ॥
अगतित्वमतिश्रद्धा ज्ञानाभासेन तृसता ।
 जयः शिष्यगुणा लेते मूर्खाचार्थस्य [५] भावजाः ॥ ९ ॥
यदि न छापि विद्यायां सर्वथा कमते मतिः
  मात्रिकास्तु भविष्यामो योगिनो यतयोऽपि वा ॥ १० ॥
 [६]अविलम्बे कृत्यसिद्धौ मात्रिकैराप्यते यशः ।
 बिलम्बे कर्मबाहुल्यं विख्याप्यावाच्यते धनम् ॥ ११ ॥
सुखं सुखिषु [७]दुःखं च जीवन दुःखशालिषु ।
 अनुग्रहायते येषां ते धन्याः खलु मात्रिकाः ॥ १२ ॥


यावदज्ञानतो मौनमाचारों वा विलक्षणः ।
 लानमाहाल्यरूपेण पर्यवस्यति मात्रिके ॥ १३ ॥
चारान्विचार्य देववतन्य भू[८]भुजा फलम् ।
 प्रचारपरिज्ञानं तेषानावश्यकं यतः ॥ १४ ॥
पुत्र इत्येव पितरि कन्यकेत्येव मातरि ।
 गर्भप्रश्नेषु कथयन्दैवज्ञो विजयी भवेत् ॥ १५ ॥
आयुःप्रश्ने दीर्घमायुर्वाच्य मौहतिकैजनैः
 जीवन्तो बहु मन्यन्ते मृताः प्रक्ष्यन्ति कं पुनः ॥ १६ ॥
सर्व कोटियोपेतं सर्व कालद्वयावधि ।
 सर्व व्यामिश्रमिव च वक्तव्यं देवचिन्तकः ॥ १७॥
निर्धनानां धनावा धनिनामधिकं धनम् ।
 बुदाणाः स[९] र्वथा ग्राह्या लोकज्योतिषिका जनाः ॥ १८ ॥
शतस्य लामैं ताम्बूलं सहलस्य तु भोजनम् ।
 दैवज्ञानामुपालम्भों नि[१०]त्यः कार्यविपर्यये ॥ १९ ॥
अपि सागरपर्यन्ता विचेतव्यावसुंधरा
 देशो [११]रिलिमानोऽपि नास्ति दैवज्ञवर्जितः ॥ २० ॥
बारान्केचिद्रहान्केचित्केचिहक्षाणि जानते।
 त्रितयं ये विजानन्ति ते वाचस्पतयः खयम् ॥ २१ ॥
मैमित्तिकाः स्वमहशो देवतोपासका इति ।
 निसर्गशत्रवः सृष्टा दैवज्ञानाममी ञयः ॥ २२ ॥
खरसाध्योगैश्व जन्तुमिनास्ति किंचन ।
 कातरा दीघरोगाच भिषजा भाग्यहेतवः ॥ २३ ॥


नातिधैर्य प्रदातव्यं नातिनीतिश्च [१२]रोगिणे ।
नैश्चिन्त्यानादिमे दानं नैराश्यादेव नान्तिमे ॥ २४ ॥
मैष [१३] ज्यं तु यथाकामं पश्यं तु कठिन वदेत् ।
आरोग्य वैद्यमाहात्म्यादन्यथात्व[१४]मपथ्यतः ॥ २५ ॥
निदानं रोगनामानि साम्यासात्म्ये चिकित्सितम् ।
सर्वमप्युपदेक्ष्यन्ति रोगिणः सहने स्त्रियः ॥ २६ ॥
जुम्भमाणेषु रोगेषु प्रियमाणेषु जन्तुषु ।
रोगतत्त्वेषु शनकैयुत्पद्यन्ते चिकित्सकाः ॥ २७ ॥
प्रवर्तनार्थमारम्भे मध्ये त्वौषधहेतवे ।
बहुमानार्थमन्ते च जिहीपन्ति चिकित्सकाः ॥ २८ ॥
लि[१५]समानेषु वैयेषु चिरादासाद्य रोगिणम्
दायादाः संप्ररोहन्ति दैवज्ञा मात्रिका अपि ॥ २९ ॥
रोगस्योपक्रमे सान्त्वं मध्ये किंचिद्धनव्ययः ।
शनैरनादरः भान्तौ स्नातो वैद्यं न पश्यति ॥ ३० ॥
दैवज्ञत्वं मात्रिकता भैषज्यं चाटुकौशलम् ।
एकैकमर्थलाभाय द्वित्रियोगस्तु दुर्लभः ॥ ३१ ॥
अनृतं चाटुवाबश्च धनयोगो महानयम् ।
सत्यं वैदुष्यमित्येष योगो दारिद्रयकारकः ॥ ३२ ॥
कातयं बुर्विनीतत्वं कार्पण्यमविवेकता ।
सर्व मार्जन्ति कवयः शा[१६]लीना मुष्टिकिंकराः ॥ ३३ ॥


न कारणमपेक्षन्ते कवयः स्तोतुमुधताः ।
किंचिदस्तुवतां तेषां जिह्वा फु[१७] रफुरायते ॥ ३४ ॥
स्तुतं स्तुवन्ति कवयो न खत्तो गुणदर्शिनः ।
कीटः कश्चिदलिन म क्रियती सत्र वर्णनाः ॥ ३५ ॥
एकैव कविता पुंसां प्रामायाश्वाय हस्तिने ।
अन्ततोऽन्नाय वस्त्राय ताम्बूलाय च कल्पते ॥ ३६ ॥
शब्दात्यमपरं ब्रह्म संदर्भण परिष्कृतम् ।
विक्रीयते कतिपयैथान्यैर्विनियुज्यते ॥ ३७ ॥
वर्णवन्ति नराभासावाणी लब्ध्वापि ये जनाः।
लब्ध्वापि कामधेनुं ते लाङ्गले विनियुञ्जते ॥ ३८ ॥
प्रशंसन्तो नरामासान्प्रलपन्तोऽन्यथान्यथा ।
कथं तरन्तु कवयः कामपारम्यवादिनः ॥ ३९ ॥
वत्संदर्भ यदुल्लेखे यव्यङ्गये निभृतं मनः ।
समाधेरपि तज्यायः शंकरो यदि वयते ॥ ४० ॥
गृहिणी भगिनी तस्याः श्वशुरौ श्याल इत्यपि ।
प्राणिनां कलिना सृष्टाः पञ्च प्राणा इमेऽपरे ॥ ४१ ॥
जामातरो भागिनेया मातुला दारबान्धवाः ।
अज्ञाता एव गृहिणां भक्षयन्त्याखुवहे ॥ ४२ ॥
मातुलस्य बलं माता जामातुर्दुहिता बलम्
श्वशुरस्य बले भार्या स्वयमेवातिथेबेलम् ॥ ४३ ॥
जामातुर्वक्रता तावद्यावच्छयालस्य बालता ।
प्र[१८]बुद्धमात्रे सारल्य प्रबुद्धेऽसिन्पलायनम् ॥ ४४ ॥


भायो ज्येष्ठा शिशुः श्यालः क्ष्वक्ष्रः स्वातन्यवर्तिनी।
श्वशुरस्तु प्र[१९]वासी च जामानुर्भाग्य [२०] कारणम् ॥ ४५ ॥
मूषणैर्वसनैः पान्नैः पुत्राणामुपलालनैः ।
सकृदागत्य गच्छन्ती कन्या निष्टि मन्दिरम् ॥ ४६॥
गृहिणी खुजन बक्ति शुष्काहारं मिताशनम् ।
पतिपक्ष्यांस्तु बहाशान्क्षीरपस्तिस्करानपि ॥ ४७ ॥
भार्ये द्वे पुत्रशालिन्यौ भगिनी पतिवर्जिता ।
अशान्तकलहो नाम योगोऽयं गृहमेधिनाम् ॥ ४८ ॥
भार्ये द्वे बहवः पुत्रा दारिद्यं रोगसंभवः ।
जीर्णोच मातापितराचेकैकं नरकाधिकार ॥ ४९ ॥
स्मृते सीदन्ति गात्राणि दृष्टे प्रज्ञा । विनश्यति ।
अहो महदिदं भूतमुत्तमभिशब्दितम् ॥ ५० ॥
अन्तकोऽपि हि जन्तूनामन्तकालमपेक्षते ।
न कालनियमः कश्चिदुत्तमर्णस्य विद्यते ॥ ५१ः ।।
न पश्यामो मुखे दंष्ट्रां न पाश वा कराञ्चले
उत्तमर्णमवेक्ष्यैव तथाप्युद्विजते मनः ॥ ५२ ॥
शत्रौ सान्त्वं प्रतीकारः सर्वरोगेषु भेषजम् ।
मृत्योमृत्युंजयध्यानं दारिद्रये तु न किंचन ॥ ५३ ॥
शक्ति करोति संचारे शीतोष्णे मर्षयत्यति ।
दीपयत्युदरे बहिं दारिद्यं परमौषधम् ॥ ५४ ॥
गिरं स्खलन्ती मीलन्ती दृष्टिं पादौ विसंस्फुलौ
प्रोत्साहयति याच्मायाँ राजाज्ञेव दरिद्रता ॥ ५५ ॥


जीयन्ति राजविद्वेषा.जीर्यन्त्यविहितान्यपि ।
आकिंचन्यबलाढ्यानामन्ततोऽस्मापि जातिः ॥ ५६ ॥
नास्य चोरा न पिशुना न दायादा न पार्थिवाः ।
दैन्य राज्यादपि ज्यायो यदि तत्व प्र[२१]बुद्धयते ॥ ५७ ॥
प्रकाशयत्यहंकार प्रवर्तयति तस्करान् ।
प्रोत्साहयति दायादालक्ष्मीः विचिदुपस्थिता ॥ ५८ ॥
विडम्बयन्ति ये नित्यं विदग्धान्धनिनो अनान् ।
त एव तु विडम्व्यन्ते श्रिया किंचिदुपेक्षिताः ॥ ५९ ॥
प्रामाण्यबुद्धिः स्तोत्रेषु देवताबुद्धिरामनि !
कीबुद्धिर्मनुष्येषु नूतनायाः श्रियः फलम् ॥ ६० ॥
शृण्वन्त एवं पृच्छन्ति पश्यन्तोऽपि न जानते।
विडम्वनानि धनिकाः स्तोत्राप्रीत्येव मन्यते ॥ ६१ ॥
आवृत्य श्रीमदेनाधानन्योन्यकृतसंविदा ।
स्वैर हसन्ति पावस्था बालोन्मत्तपिशाचवत ॥ ६२ ॥
स्तोतव्यैः स्तूयते नित्यं सेवनीयैश्च सेव्यते
न बिभेति न जिहेति तथापि धनिको जनः ॥ ६३ ॥
क्षणमात्र प्रहावेशो याममात्रं सुरामदः ।
लक्ष्मीनदस्तु मूर्खाणामा देहमनुवर्तते ॥ ६४ ॥
श्री समर्थमार्स वा चेधित्वा विनिवर्तते
विकारस्तु स्वारब्धो नित्यं लशुनगन्धवत् ॥ ६५ ॥
कण्ठे महा कोरबजो हृदि ताम्बूलजो मदः ।
लक्ष्मीमदस्तु सर्वाङ्ग पुत्रदारमुखेण्यापि ॥ ६६ ॥


यत्रासीदस्ति मा लक्ष्मीस्तरोन्मादः प्रवर्ततान् ।
कुलेऽप्यवतरत्येक कुष्ठापमारवत्कथम् ॥ ६७ ॥
अध्यापयन्ति शास्त्राणि तृणौकुर्वन्ति पण्डितान
विस्मारयन्ति जाति खां वराटाः पञ्चषाः करे ॥ ६८ ॥
बिभर्तु भूत्यान्धनिको दत्ता वा देयमर्थिषु ।
यावद्याचकसाधन्य तावल्लोको न मृष्यति ॥ ६९ ॥
धनमारों हि लोकस्य पिशुनैरेव धार्यते।
कथं ते तं लबूकतु यतन्तेऽपरथा स्वतः ॥ ७० ॥
श्रमानुरूपं पिशुने किमुपक्रियते नृपैः ।
द्विगुणं त्रिगुण चैवं कृतान्तो लालयिष्यति ॥ ७१ ॥
गोकर्णे मद्रकणे च जपो दुष्कर्मनाशनः
राजकणे जपः सद्यः सर्वकर्मविनाशनः ॥ ७२ ॥
न स्वार्थ किंचिदिच्छन्ति न प्रेयन्ते च केनचित् ।
परार्थेषु प्रवर्तन्ते शठाः सन्तश्च तुल्यवत् ॥ ७३ ॥
कालान्तरे अनय गृनो गेहोपरि स्थित
खेलो गृहसमीपस्थः सद्योऽनीय देहिनाम् ॥ ७४ ॥
शुष्कोपवासी धर्मेषु[२२] भैषज्येषु च लङ्घनम्
जपयज्ञश्च यज्ञेषु रोचते लोगशालिन्नम् ॥ ७५ ॥
किं वक्ष्यतीति [२३]धनिको यावदुद्विजते मनः ।
किं प्रक्ष्यतीति लुब्धोऽपि तावदुद्विजते सतः ॥ ७६ ॥
सर्वमातिथ्यशास्त्रार्थ साक्षात्कुर्वन्ति लोभिन ।
मिक्षाकवलमेकैक ये हि पश्यन्ति मेरुवत् ॥ ७७ ॥


धनपालः पिशाचो हि दवे स्वामिन्यु[२४] पस्थिते ।
धनलुब्धः पिचाचस्तु न कस्मैचन दित्सति ॥ ७८ ॥
दातारोऽर्थिभिरर्थ्यन्ते दातृभिः पुनरर्थिनः ।
कर्तृकर्मन्यतीहारादहो निनोन्नतं कियत् ॥ ७९ ॥
स्वस्सिन्नसति नार्थस्य रक्षक संभवेदिति
निश्चित्यैव स्वयमपि मुझे लुब्धः कथंचन ॥ ८० ॥
प्रे[२५] स्थास्यमानः प्रविशेप्रतिष्ठेत्तु दिने दिने
विचित्रानुलिखेद्विघ्नांस्तिष्ठासुरतिथिश्विरम् ॥ ८१ ॥
प्रदीयते विदुष्येक कवी दश नटे शतम् ।
सहस्र दाम्भिके लोके श्रोत्रिये तु न किंचन ॥ ८२ ॥
घटकं सम्यगाराध्य वैराग्यं परमं बहेत् ।
यावदाः प्रसिद्धयन्ति यावच्चापलमावृतम् ॥ ८३ ॥
एकतः सर्वशास्त्राणि तुलसीकालमेकतः ।
वक्तव्यं किंचिदित्युक्तं वस्तुतस्तुलसी वराः ॥ ८४ ॥
विस्मृतं [२६]वाहटेनेदं तुलस्याः पठता गुणान् ।
विश्वसंमोहिनी वित्तदायिनीति गुणद्वयम् ॥ ८५ ॥
कौपीनं भसितालेपो दर्भा. रुद्राक्षमालिका ।
मौनसेकासन चेति मूर्खसंजीवनानि षट् ॥ ८६ ॥
वासः पुण्येषु तीर्थेषु प्रसिद्धश्च भृतो गुरुः ।
अध्यापनावृत्तयश्च कीर्तनीया धनार्थिभिः ॥ ८७ ॥
मन्त्रनो संप्रदायः प्रयोगश्श्युतसंस्कृतौ ।
देशधर्मरखनाचारे पृच्छतां सिद्धमुत्तरम् ॥ ८८ ॥


यथा जानन्ति बहवो यथा वक्ष्यन्ति दातरि ।
तथा धर्म चरेत्सर्वं न पृथा धर्ममाचरेत् ॥ ८९ ॥
सदा ज[२७] पपटो हस्ते मध्ये मध्येऽक्षिमीलनम् ।
सर्व ब्रह्मति बादश्च सद्यः प्रत्ययहेतवः ॥ ९० ॥
आ मध्याह नदीबास समाजे देवतार्चनम् ।
सततं शुचिवेषश्चेत्येतद्दम्भस्य जीवितम् ॥ ९१ ॥
ताबद्दीघ नित्यकर्म यावत्स्यादृष्टमेलनम् ।
तावत्संक्षिष्यते सर्व यावष्टा न विद्यते ॥ ९२ ॥
आनन्दबाष्परोमाञ्चौ यस्य खेच्छावशंबदौ ।
किं तस्य साधनैरन्यैः किराः सर्वपार्थिवाः ॥ ९३ ॥
दण्ड्यमाना विकुर्वन्ति लाल्यमानास्ततस्तराम् ।
दुर्जनानामतो न्याय्यं दूरादेव विसर्जनम् ॥ ९४ ॥
अदानमीपदानं च किंचित्कोपाय दुर्धियाम् ।
संपूर्णदानं प्रकृतिविरामो वैरकारणम् ॥ ९५ ॥
ज्यायानसंस्तवो दुष्टैरीाय संस्तवः कि[२८] ल ।
अपत्यसंबन्धविधिस्त्वनायैव केवलम् ॥ ९६ ॥
ज्ञातेय ज्ञानहीनत्वं पिशुनत्वं दरिद्रता ।
मिलन्ति यदि चत्वारि तदिशेऽपि नमो नमः ॥ ९७ ॥
परच्छिद्रेषु हृदयं परवार्तासु च श्रवः ।
परम[२९]र्मणि वाचं च खलानामसूजद्विधिः ॥ ९८ ॥
विषेण पुच्छलनेन वृश्चिकः प्राणिनामिव ।
कलिना दशमांशेन सर्वः कालोऽपि दारुणः ॥ ९९ ॥


यत्र भागिरो वेदा यत्र धर्मोऽर्थसाधनम् ।
यत्र स्वप्रतिमा मानं तस्मै श्रीकलये नमः ॥ १०० ॥
काममस्तु जगत्सर्वं कालस्यास्य वशंक्दम् ।
का[३०] लकालप्रपन्नानां कालः किं नः करिष्यति ॥ १०१ ॥
कविना नीलकण्ठेन कलेरेतद्विडम्बनम् ।
रचितं विदुषां प्रीत्यै राजास्थानानुमोदनम् ॥ १०२ ॥

 इति श्रीनीलकन्यदीक्षितविरचितं कलिखिडस्थानम् ।


  1. उद्बुध्य' इति पाठ:
  2. 'अभ्यास्यं लप्स्यमानेन' इति, अलभ्यं लज्जमानेन' इति च पाठः
  3. एवं सतस्तुः इति पाठः
  4. 'वर्तताम्' इति पाठ्ः
  5. 'भारवृतः' इति पाठः
  6. 'अविलम्बन संतिद्धौ इति पाठः
  7. 'दुःखेऽपि इंति पाठः
  8. भूमृता इति पाठः
  9. सर्वदा' इति पाठः
  10. मित्ंय इति पाठः
  11. प्रादेशभात्रोऽपि' इति पाठः
  12. रोगिणि' इति पाठः,
  13. "भिषज्य तु इति पाठः
  14. त्वनपथ्यतः
    इंति पाठः
  15. लुप्यमानेषु ' इति पाठः,
  16. शाकिनीमुष्टि- इति पाठः
  17. धुरुधुरायते' इति पाठः
  18. प्रबुध्यमान इति पाठ:
  19. 'प्रवासीति इति पाठः
  20. 'भाग्यधोरणी' इति पाठः
  21. विबुध्यते इति पार
  22. पाधि इति पाठः
  23. निकात्' इति पाठः
  24. 'पाग इति पाठः
  25. 'प्रस्थाप्यमानः' इति पाठः
  26. वाहठो
    पानभरः अध्याहृदयकर्ता.
  27. 'जपत्रम्घस्ते च' इति पाठः.
  28. पुनः इति पाठः.
  29. "मर्मसु इति पाठः
  30. कालकालः शिवः
"https://sa.wikisource.org/w/index.php?title=कलिविडम्बनम्&oldid=290892" इत्यस्माद् प्रतिप्राप्तम्