सामग्री पर जाएँ

कर्मनिर्णयः

विकिस्रोतः तः
कर्मनिर्णयः
[[लेखकः :|]]

॥ श्रीः ॥

श्रीमदानन्दतीर्थभगवत्पादप्रणीतसर्वमूलग्रन्थाः
-----------------------------

कर्मनिर्णयः
॥ श्रीमद्धनुमद्भिममध्वान्तर्हतरामकृष्णवेदव्यासात्मकश्रीलक्ष्मिहयग्रीवाय नमः ॥

(1)य इज्यते विधीशानशक्रपूर्वैः सदा मरवैः ।
रमाप्रणयिने तस्मै सर्वयज्ञभुजे नमः ॥

महानाम्नीनामुपरर्गानुपसृजत्ययं वै लोकः प्रथमा महानाम्न्यन्तरिक्षलोको द्वितीयाऽलौ लोकस्तृतीया सर्वेभ्यो वा एष लोकभ्यस्सन्निर्मितो यत्षोळशी तद्यन्महानाम्नीनामुपसर्गानुपसृजति सर्वेभ्य एवैनं तल्लोकेभ्यस्सन्निर्मिमीते सर्वेभ्यो लोकेभ्यस्सन्निर्मितेन षोळशिना राध्नोति य एवं वेद ।
-(ऐतरेयब्राह्मणम्. 2/16/4)

(2)महानाम्नीनामृचामुपसर्गा ये उपसर्जनभूतास्तानुपसृजति सेयोजयति। महन्नाम यास्वृक्षु विद्यते ता महानाम्न्यः। परस्य ब्रह्मणो यन्नामेन्द्रादिकं तन्महार्थत्वान्महत्। महद्धि तत्परं ब्रह्म। (3)अशेषगुणपूर्तेः ।

(4)तत्रैक आहुरगुणं ब्रह्मेति। न तद्युक्तम्। श्रुतियुक्तिविरोधात्। तथाहि श्रुतिः ।

`सत्यं ज्ञानमनन्तं ब्रह्म'। `विज्ञानमानन्दं ब्रह्म'।
`यः सर्वज्ञः स सर्वविद्यस्य ज्ञानमयं तपः'।
`तस्मादेतद्ब्रह्म नामरूपमन्नं च जायते' ।
`दिव्यो ह्यमूर्तः परुषः सबाह्याभ्यन्तरो ह्यजः ।
अप्राणो ह्यमनाः (5)शुभ्रोऽह्यक्षरात्परतः परः' ।
`एतावानस्य महिमा ततो ज्यायांश्च पुरुषः'।
`यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा'।
`पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते'।
`सर्वनामा सर्वकर्मा(6) सर्वगन्धः सर्वरसः
सर्वमिदमभ्यात्तोऽवाक्यनादरः'।
`विष्णोर्नु कं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजांसन ।
परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति।
न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप' इत्यादिका ।

युक्तिश्च। बुद्धिपूर्वं सर्वकर्तृत्वात्(7)सर्वज्ञत्वादयो युक्ताः ।
`कर्तृत्वात्सगुणं ब्रह्म पुरुषं पुरुशर्षभम्' (8)इति भागवते(9)।

न च,

`एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा।
कर्माध्यक्षः सर्वभीताधिवासः साक्षी चेता केवलो निर्गुणश्च'
(10)इत्यादिविरोधः ।

सत्त्वादिगुणाभावोक्तेस्तत्र। अन्यथा एको देवः सर्वभूतेषु गूढः इत्यादीनामपि गुणत्वास्त्वोक्तिविरोधः ।

न च निर्विशेषं नाम किञ्चिदस्ति, निर्विशेषत्वोक्तेरेव व्याहतत्वात्। निर्विशेषत्वेन विशेष्टं तन्न वेत्युक्ते (11)यद्यविशिष्टं तर्हि न विशेषनिराकरणम्। विशेषवत्त्वमेव भवति। यदि तेन विशिष्टं स एव विशेष इति ।

न च निर्विशेषत्वे किञ्चिन्मानम्। अशेषविशेशवचनानुभवयुक्तिविरोधश्च। न च मिथ्याविशेषवत। व्याहतेः । मिथ्याविशेष इत्युक्तेः ह्यसद्विशेष इत्येव भवति। तथा च (12)विशेषविशिष्टपक्षोक्तदोष एव। न चा निर्वचनीयविशेष इति भवति। (13)अनिर्वचनीयासिद्धेः। न हि तत्र प्रत्यक्षमस्ति। (14)मिथ्याशब्दस्त्वभाववाच्येव । तदन्यत्र प्रमाणाभावात् । न चान्यत्प्रमाणम्। प्रतिज्ञाव्यवहतेः। न हि सदन्तरादसतश्चान्यत्सदसद्विलक्षणं प्रसिद्धम् । असन्न (15)भवतीत्युक्ते द्वौ नञौ प्रकृतमर्थं सातिशयं (16)गमयतः इति सदेव भवति। असदन्तरं वा विशेषविवक्षायाम् ।

किञ्चैतद्वैलक्षण्यम् भेदोऽभेदो (17)भेदाभेदो वा। न तावद्भेदः अनङ्गीकारात्। व्यावहारिकभेदश्चानिर्वाच्यसिद्धौ वक्तव्यः । न चा व्यवहारिकं किञ्चित्। न चाशेषव्यवहारनिवृत्तौ किञ्चिन्मानम् । न च (18)मिथ्यातथ्ययोः सामान्यं व्यावहारिकत्वं धूमबाष्पयोर्धूमत्ववत्।

न चाभेदोऽनङ्गीकारादेव। तथैवोभयम्। अभेदे चानिर्वाच्यब्रह्मणोस्तच्छब्दयोः पर्यायत्वम्। न च वयावर्त्यविशेषेणापर्यायत्वं क्वचित्। व्यावर्त्यविशेषस्तद्व्यावृते ब्रह्मणि विशेषमापादयति चेद्विशिष्टवाक्यार्थता। न चेन्न (19)ब्रह्मज्ञानार्थिनः पदान्तरं वाच्यम्। असङ्गतत्वात्। मिथ्याविशेषस्य चासिद्धिरुक्ता। (20)अतोऽन्योन्याश्रयताऽनवस्थितिश्चक्रकं वा। भेदाभेदविलक्षमप्युक्तरीत्यैवापाकृतम्।

रिञ्चासद्विलक्षणमित्यत्राभावान्य(21)विरोधिनां मध्ये नञः कोऽर्थः?। यद्यभावो न। असद्विलक्षणत्वं भावत्वमेव जगतः स्यात्। न च सतोऽन्यस्मादसतो विलक्षणं जगत्। असतोऽन्यत्वादिधर्मानङ्गीकारात्। ब्रह्मणश्च। असतोऽनिर्वचनयत्वङ्गीकाराच्च न वैलक्षण्यं ततोऽनि र्वाच्यस्य। तथापि चेद् (22)वैलक्षण्यं नानिर्वाच्यत्वं जगतः। न च (23)विरोधि। (24)विरोधिनोरन्यतरनिषेधेऽन्यत्वानुभवात्। अविद्यमानं न भवतीत्यक्ते विद्यमानमित्येव हि सर्वलोकानुभवः। अतोऽनन्तुगुणो भगवान्नारायण इति सिद्धम् ॥

न च सिद्धेऽर्थे वाक्यस्य प्रामाण्याभावादीश्वराद्यसिद्धिः। सिद्धातिरिक्तकार्याभावात्। लिङ्द्यर्थस्त्विष्ट(25)साधनत्वमेव। न हि कर्तव्यत्वं नामेष्टसाधनत्वादन्यत्किञ्चित्तन्मानाभावात्। शब्दस्तु न तद्वक्तीत्युक्तम्। लिङादेरिष्ट(26)साधनार्थत्वेनैव कृतार्थत्वे तदन्यकार्यकल्पने कल्पनागौरवम्। न च तत्कल्पकं किञ्चित्। विप्रतिपत्तौ चान्यन्मानं वक्तव्यं तद्भावे। न चानुमा। अप्रसिद्धविशेषणत्वात्। न चार्थापत्तिः । अनुपपत्त्यभावात्। कार्याभावादेव कार्यान्वयिनि व्युत्पत्तिरिति (27)दूरतो निरस्तम्। कार्यान्विते व्युत्पत्तिरिति वदतोऽकार्यान्विते व्युत्पत्तिरित्युक्ते किमुत्तरम्। अध्याहार इत्युक्ते लोप इत्युत्तरम्। अशेषसिद्धपदानामर्थ(28) लोपा(29)ल्लिङाद्यर्थमात्रलोप एव (30)वरीयान्। हससि हसामीत्यादिसिद्धार्थ एव बालानां व्युत्पत्तेः। प्रथमप्राप्तत्वाच्च न्न तत्त्यागे कारणम्। तथैव व्युत्पत्तिदर्शनाच्च।

अतः सिद्धार्थे (31)प्रामाण्यसिद्धेश्च सिद्धं (32)महागुणवत्त्वं विष्णोः॥

विदा मघवन्विदा गातुमनुशंसिषो दिशः।
शिक्षा शचीनां पते पूर्वीणां पुरुवसो ॥ 1 ॥

ताश्च विदा मघवननित्याद्याः ।

हे मघवन् (33)यशस्विन् धनवन् इति वा ।
`तं वा एतं (34)मखवन्तं सन्तं मघवानित्याचक्षते परोक्षेण।
(35)परोक्षप्रिया इव देवाः प्रत्यक्षद्विषः' ।

`तेभिरिन्द्रं चोदय दातवे मघम्'। `तन्न आयातु (36)मघाय'। `यशो वावमघम्'। `मघमनु प्रापत्सि। आ मामेतु मघम्' । `मघमनु प्रापत्सि। धनं वाव मघम्' इत्यादिश्रुतिभ्यः ॥

गातुं त्वां स्तोतुम्। विद वेदयेति सामान्यतोऽपेक्षिताशेषवेदनमुक्त्वा (37)तात्कालिकापेक्षितार्थं प्रार्थयति। गातुं विदेति। त्वमेवानुशंसिषोः दिशः मार्गान्। आत्मनः स्तुतुप्रकारान् (38)त्मनेवोपदिशेत्यर्थः। पूर्विणां भगवत्सम्प्रदा.यागतानां परमविद्यानामर्थे शिक्ष। शचीनां विद्यानां पते, वाचां पते इति वा। पुरुवसो बहुवित्त, बहुज्ञानेति वा। बहुषु वसति, बहूनामावास (39)इति च ॥ 1 ॥

आभिष्ट्वमभिष्टिभिः प्रचेतन प्रचेतय ।
इनद्र द्युम्नाय न इष एवा हि शक्रः ॥ 2 ॥

आभिः, अभिष्टिभिः एवंभूतैस्त्वत्पर्येषणैस्त्वत्प्रार्थनैस्त्वं किञ्चिन्मदादिकं प्रचेतय प्रबोधय। प्रकृष्टचेतन सर्वज्ञ परमात्मन्। द्युम्नाय ज्ञानाय। वित्ताय यशसे वा। इषे (40)अन्नाय नः प्रबोधय। एतादृशो हि शक्रः। शक्र एवेति वा। शक्तिरतिरूपत्वाच्छक्रः ॥ 2 ॥

राये वाजाय वज्रिवः शविष्ठ वज्रिन्नृञ्जसें ।
मंहिष्ठ वाज्रिन्नृञ्जस आ याहि पिब मत्स्व ॥ 3 ॥

राये वित्ताय (41)वाजाय अन्नाय। वज्रिणं इन्द्रं वर्तयतीति (42)वज्रिवाः(43)। नियामकत्वेन गच्छतीति वा। शविष्ठि बलवत्तम् सुखवत्तमेति वा। ऋञ्जसे प्रेरयसि सर्वान्। मंहिष्ठ वज्रिन्नृञ्जस इत्यभ्यासस्तात्पर्यार्थः। मत्स्व मदं कुरु ॥ 3 ॥

विदा रायः सुवीर्यं भुवो वाजानां पतिर्वशाँअनु ।
मंहिष्ठ वज्रिन्नृञ्जसे यः शविष्ठः शूराणाम् ॥ 4 ॥

विदा वदय लम्भय रायः सवीर्यं च । वाजानां प्रजानां परिर्भुवः अभवः। `प्रजा वै वाजः' (44)इत्यादि श्रुतेः । (45)वशाँअनु यथावशम्। वश इच्छायामिति धातोः। यथावशं यथेच्छम्। शूराणां सकाशाद्वलवत्तमः ॥ 4 ॥

यो मंहिष्ठो मघोनां चिकित्वो अभि नो नय।
इन्द्रो विदे तमु स्तुषे वशी हि शक्रः ॥ 5 ॥

मघोनां यशस्विनां महत्तमः। चिकित्वः ज्ञातः कर्तरीति वा। नः अभितः सर्वतो नय। इन्द्रो विदे समस्तं व्यजानात्। तमेव स्तुषे ॥ 5 ॥

तमूतये हवामहे देतारमपराजितम् ।
स नः पर्षदति द्विषः क्रतुश्छन्द ऋतं बृहत् ॥ 6 ॥

ऊतये रक्षायै अभिप्रायसिद्धये वा। स नो द्विषः शत्रूनतिपरयतु पापानि तमांसिवा। क्रतुः ज्ञानरूपः । छन्दः इच्छारूपः। छन्द्यत्वाच्छादनत्वाद्वा। ऋतं अशेषशास्त्रावगतम् ॥ 6 ॥

इन्द्रं धनस्य सातयं हवामहे जेतारमपराजितम्।
स नः पर्षदतिद्विषः स नः पर्षदति स्रिधः ॥ 7 ॥

सातये लब्धये । स्रिधः (46)विनाशात् ॥ 7 ॥

पूर्वर्य यत्ते (47)अद्रिवः सुम्न आधेहि नो वसा ।
पूर्तिः शवष्ठ शस्यत ईशे हि शक्रः ॥ 8 ॥

पूर्वस्यानादेः (48)सतस्ते सकाशात्यत्सुम्नं सुखं तस्मिन्न आधेहि। तव पूर्तिः शस्यते ॥ 8 ॥

नूनं तं नव्यं सन्यसे प्रभो जनस्य वृत्रहन् ।
समन्येषु ब्रवावहै शूरो यो गोषु गच्छति सखा सुशेवो अद्वयाः ॥ 9 ॥

तन्नवंय स्तुत्यम्। ब्रह्म तत्सम्यग् हृदि (49)सन्यसे। जनस्योपदेशेन त्वत्स्वरूपेषु त्वं चाहं च सम्ब्रवावहै। गोषु ज्ञानेषु गच्छति ज्ञानविषयो भवति। सुशेवः सुसुखः। समाधिकरहितोऽद्वयः ॥ 9 ॥

एवा ह्येवैवाह्यग्नाँ3इ ॥ एवाह्येवैवाहींद्रँ॥ एवाह्येवैवाहि
विष्णाँ3उ ॥ एवा ह्येवैवाहि पूषन् ॥ एवा ह्येवैवाहि देवाः ॥
एवा हि शक्रो वशी हि शक्रो वशाँअनु ॥ ॥ 10 ॥

`एवाह्येवैवाहि' इत्यग्न्यादिदेवतानां संवादरूपेणोक्तमर्थमतिशयेनावधारयति । अभ्यासो हि तात्पर्यार्थः। (50)एवाहि एवमेव हीत्यर्थः।

`विनिश्चिते तु संवादे विभागो रङ्ग एव च' इति शब्दनिर्णये ।

अतोऽग्नाइ इत्यादि। एवमेव हि शक्रो वशाननु यथावशं स्वतन्त्रो वर्तत इत्यर्थः ।

आयो मन्याय मन्यव उपोमन्याय मन्यवे ॥
उपेहिं विश्वधा ॥ विदा मघवन्विदों3म् ॥ 11 ॥

(51)`अय पय गतौ' इति धातोः आयो इत्यायतिः। उपो इतिवदतिशयार्थ ओकारः। `ओ अतिशय' (52)इति च सूत्रम् । आयो जानातीत्यायोमन्यः । (53)समीपस्थमपि जानातीत्युपोमन्यः । अन्येषामिन्द्रियाणां पराङ्मुखत्वान्न ह्यान्तरं जानन्ति। अयं त्वान्तरमप्यापरोक्ष्येण पश्यति। अयनेन गमनेन प्राप्यं दूरस्थमायो (54)इति वा। `मनु अवबोधने' इति धातोर्मन्युरिति ज्ञानी । बाह्यज्ञाय ज्ञानिने आन्तरज्ञाय ज्ञानिन (55)इत्यभ्यासो(56) हि तात्पर्यार्थः। एवं विधं मद्गतं त्वामुद्दिश्यैवोपेहि। विश्वध विश्वधारक । समीपतो दीरतश्च त्वां मन्यमानाय मह्यं मन्यते ज्ञानाय मामुपेहीति वा ।

(57)समूपदूरतोऽभिज्ञं त्वामुद्दिश्यैव मद्गतम् ।
`एहि विष्णो न मे शक्तिस्त्वदाह्वाने हि मामुप ।
इति ब्रहामाऽस्तुवद्विष्णु तन्नाभ्युत्थितपद्मगः' इति पाद्मे ।

`समीपे दूरतश्चैव ध्यायन्तं त्वं सदा विभो ।
मामेहि ज्ञानदानायेत्याह (58)गाथिसुतो हरिम्' इति स्कान्दे ।

(59)`ओतमस्मिञ्जगद्यस्मादोमित्युक्तो हरिः सदा ।
(60)तमेतं जगदाधारं यतयः (61)समुपासते' इति मानसंहितायाम् ।

`इन्द्रो वा एताभिर्महानात्मानं निरमिमीत'(62) इत्यस्याप्युक्तो एवार्थः। निर्माणं नामात्मनस्तद्व्याख्यानेन स्थापनम् । न ह्यन्यथा तासां करणत्वं भवति।

`यस्तद्वेव स पितुष्पितासदि'ति श्रुतिः ।
`त्रीणि पदा निहिता गुहासु यस्तद्वेद स पितुष्पिताऽसत्'(63) ।

`स्त्रियः सतीस्ताँ उ मे पुंस आहुः पश्यदक्षण्वान्न विचेतदन्धः ।
कविर्यः पुत्रः स (64)इमा चिकेत यस्ता विजानात्सपितुष्पिताऽसत्' ।

इत्यादिश्रुतिभ्यो (65)विज्ञानमेव तन्निर्माणम् ।

`इन्द्र एकं सूर्य एकं जजान वेनादेकं स्वधया निष्टतक्षुः'(66)
इत्यादेर्विज्ञापनं वा ।

`प्रचेतन' `प्रचेतय'। `आयाहि पिब मत्स्व' `क्रतुश्छन्दऋतं बृह्त्' । `सुम्न आधेहि नो वसो' इत्युपसर्गाः । अंशा अप्यंश्यपेक्षयोपसर्गा भवन्ति। उपसृष्टत्वादुपसर्गाः ।

`अन्तर्गतं'(67)बहिर्गं च द्विधा स्यादुपसर्जनम् ।
हस्तबद्धेतिवच्चैव पदानां चोपसर्गवत्' इति शब्दनिर्णये ।

`अधत्तान्यं जठरे प्रेमरिच्यत प्रचेतन ॥
दाता राधः स्तुवते काम्यं वसु प्रचेतय ॥

अस्माकं बोधि (68)चोदिताऽऽयाहि पिब मत्स्व ॥
तं त्वा परिष्वजामहे क्रतुश्छन्द ऋतं बृहत् ॥

या ते रातिर्ददिर्वसुः सुम्न आधेहि नो वसो' इत्युपसृजति । अशेषमहानाम्न्यर्थ(69)संस्मरमपरिज्ञानपूर्वकमुपसर्गसंयोजनं कर्तव्यमित्येतदर्थत्वेन महानाम्नीप्रशंसा क्रियते। अन्यथा तावन्मात्रप्रशंसामृतेऽशेषमहानाम्नीप्रशंसाया व्यर्थत्वात्। (70)तृचविभागेन विदा मघवन्, समूतये, नूनमिति वा तिस्रो महानाम्न्यः ।

`प्रथमा या महानाम्नी तद्वाच्यः पार्थिवो हरिः ।
द्वितीयाया आन्तरिक्ष्यस्तृतीयाया द्युगः प्रभुः' इति ऋक्संहितायाम् ।
`तृचास्तिस्रो महानाम्न्यः पञ्चर्चा प्रथमा परा ।
(71)तृचा द्व्यृचा च निगदैस्तार्तीया (72)सप्तभिर्युता ।
(73)इति द्वेधा विभागः स्याज्जपध्यानादि कर्मसु'इति च ।
`त्रिलोकगेन हरिणा निर्मितः षोळशीक्रतुः ।
एवं ज्ञात्वा हरिं तं च कर्म कुर्वन्न जायते' इति प्रवृत्ते ।

एवैवाहीत्युपसर्गस्यार्थोऽप्युक्तावधारणरूपत्वात्पूर्वोक्तार्थपरिज्ञानं विना न स्मर्तुं शक्यते। एवं निर्मितेन(74)षोळशिनार्धो भवत्येवंवित् ।

(75)प्रप्र वस्त्रिष्टुभमिषं मन्दद्वीरायेन्दवे ।
धिया वो मेधसातये पुरन्ध्याऽऽविवासति ॥ 1 ॥ (ऋ.7.69.1)

प्रप्र वः - हे ऋत्विजः प्रदा वना वस्तिरष्टुभमिषं त्रिष्टुभाख्यमन्नमिन्द्रः परमेश्वरः सोमाय आविवासति। पुरन्ध्या धिया अशेषप्राणिदेहाश्रयया स्वबुद्ध्या प्रप्र प्रकर्षेण प्रकर्षेण अतितरां (76)शंस्यमान त्रिष्टुप् प्रीतिं करोति । सोमपानार्थमित्यर्थः । मन्दद्विराय तस्य वीरस्य परमेश्वरस्य (77)मन्दं प्रीतिं करोतीतिमन्दद्वीरः सोमः। न त्वात्मप्रयोजनाय प्रीतिं करोति कि तर्हि वो मेधसातये वो (78)यज्ञप्रसिद्ध्यर्थम्। व इति गुरुत्वादीश्वरं प्रत्येव वा बहुवचनम्। तदा वोऽन्नं त्रिष्टुभं वो मेधसातये भवद्दैवत्ययज्ञसिद्ध्यर्थं भवान् प्रप्राऽविवासतीत्यर्थः ॥ 1 ॥

नदं व ओदतीनां नदं योयुवतीनाम् ।
पति वो अघ्न्यानां धेनूनामषुध्यसि ॥ 2 ॥ (ऋ.8.39.2)

ओदतीनां उन्दनकर्त्रीणां वः अपां भवतीयानां पतिं वः पुरुषं प्रामं (79)नदं नदनकर्तारं प्रति इषुध्यसि पतिर्भवसि । सृष्टौसृष्टौ योयः पराणस्ततं प्रति पतिर्भवसीति नदमिति पुनर्वचनम्। योयुवतीनां गमनशीलानामाकाशे पोप्लूयमानानामघ्न्यानां धूमरूपेणादाह्यानां रेतोरूपेणाजराणां वा धेनूनां (80)जगतः पोषकाणाम्। धिनु पुष्टौ' इति धातोः। `ता नदेन विहरति' इत्यादिश्रुतेः पयसा सेचकानां देशाद्देशान्तरगमनशीलानामघ्न्यानां हन्तुमयोग्यानां धेनूनां गवां पतिं वायुं प्रति इषुध्यसीति वा। `वायुर्वाव गावां पतिः' इति श्रुतिः(81)। धेनुशब्दाच्च। ओदतीनां बक्त्या सेचकानाम्। योयुवतीनामतिशयेनात्मनत्त्वावगमकानामन्घ्यानां नित्यानां धेनूनां (82)धर्मार्थकामपोषकाणां वाचां पतिं वायुं प्रति पतिर्भवसीति वा ।

`वाचं धेनुमुपासीत तत्साश्चत्वारः स्तनाः स्वाहाकारो वष्ट्कारो हन्तकारः स्वधाकार इति। (83)तस्यौ द्वौ स्तनौ देवा उपजीवन्ति स्वाहाकारं च वषट्कारं च हन्तकारं मनुष्याः स्वधाराकं पितरस्तस्याः प्राम ऋषभो मनो वत्सः' इत्यादिश्रुतिभ्यः ॥ 2 ॥

ता अस्य सूददोहसः सोमं श्रीणन्ति पृश्नयः ।
जन्मन्देवानां विशस्त्रिष्वा रोचने दिवः ॥ 3 ॥ (ऋ.8.69.3)

ताः पृश्नयः आपो गावो वाचो वा। अस्य सूददोहसः प्राणस्य वायुस्थस्य परमेश्वरस्य सोमं श्रीणन्ति। अद्भिर्हि संसृष्टो भवति। सोमः पय आदिना वा (84)श्रितो भवति। मन्त्रैर्वा गृह्यते। `अथ सूददोहाः प्राणो वै सूददोहाः' (85)इति श्रुतेश्च। शोभनमुदं कर्मज्ञानं वा दोग्धीति सूददोहाः। उदेत्युच्चो भवत्यनेन पुरुष इत्युदं ज्ञानादि मनो वाव सोमः (86)तद्वाचः श्रीणन्ति स्वार्थैः प्रश्नयोग्यत्वात्पृश्नयो वाचः। प्रशंसनरूपत्वात्प्रशंसनीयत्वाद्वा। प्रशंसनीयत्वमेव अपां गवां च। देवानां जन्मनि यज्ञे। तत्र हि तेषामभिव्यक्तिः पूर्वं ज्ञाने वा। विशः प्रजाश्च श्रीणन्ति। मुख्यतः ता एव श्रीणन्तीति चशब्दवर्जनम्। दिवस्त्रिष्वारोचनेषु। आदित्यचन्द्रविद्युत्पर्यन्तं स्थितानां देवानां जन्मनि यज्ञे। यज्ञो वै देवजन्म। तत्र हि देवाः प्रादुर्भवन्ति।

`आसूर्याचन्द्रमसावाविद्युतं ते वै लोकानधिश्रिताः' (87)इत्यादिश्रुतेः ।
(88)`द्यौर्वव विद्युत्तत्पतिं वायुमुपगम्य तेनैव परमुपगच्छति।
सैषा ब्रह्मलोके विराजते' (89)इत्यादिश्रुतेद्यौरेव विद्युत् ॥ 3 ॥

अर्चत प्रार्चत प्रियमेधासो अर्चत ।
अर्चन्तु पुत्रका उत पुरं न धृष्ण्वर्चत ॥ 4 ॥ (ऋ.8.69.8)

अर्चनं यज्ञादि। प्रार्चनं ज्ञानध्यानादि ।
`श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप'(90) इति भगवद्वचनात्।

प्रिययज्ञा अर्चत। प्रियज्ञानाः प्रार्चत। पुत्रकाः (91)अल्पका अप्यर्चत।

(92)`न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम्।
जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन्' इति च ।

उतशब्दाज्ज्ञानिनामप्यर्चनं युक्तं स्वाश्रमानुसारेणेति ।
`अधा ते विष्णो विदुषा चिदर्ध्यस्स्तोमो यज्ञश्च राध्यो हविष्मता'
इति श्रुतेः ।

किं तदर्चनीयम्। धृष्णु धृष्टं परब्रह्मं वासुदेवाख्यम् । पुरं देहं नार्चत ।
`प्रत्युद्गमप्रश्रयणाभिवादनं विधीयते साधु मिथः सुमध्यमे ।
प्रज्ञैः परस्मै परुषाय चेतसा गुहाशयायैव न देहमानिने'
इति भागवते(93) ।

`सदेहमानिहरये प्रणमेत्केवलाय वा ।
न देहाय न तन्मानपराय च कथञ्चन' इति व्यासस्मृतौ ।

पुनरर्चतेति तात्पर्यार्थः ॥ 1 ॥

अव स्वराति गर्गरो गोधा परीं सनिष्वणत्।
पिङ्गा परि चनिष्कददिन्द्राय ब्रह्मोद्यतम् ॥ 5 ॥ (ऋ.8.39.9)

(94)गर्गरगोधापिङ्गादीनां घोषा अपि (95)नादमात्रव्यञ्जकत्वेन भगवद्वाचका एवेत्याह। अव स्वराति गर्गर इत्यादिना। एतत्समस्तमिन्द्रायैवेत्यर्थः । ब्रह्म वेदो वविशिषत इन्द्रायैवोद्यतः। गर्गर इति पादभूषणमहामत्रकदधिपात्रहस्तिहस्तानां नाम। पिङ्गा चकोरी। अवपरीत्यल्पाधिक्यादिविशेषोऽपि तद्वाचक एवेति ज्ञापनाय। (96)चनिष्कददित्यनुकारशब्दः । सनिष्वणदित्यतिशयार्थे ।

`ता वा एताः सर्वा ऋचः सर्वे वेदाः सर्वे घोषा एकैव व्याहृतिः प्राण एव प्राण ऋच इत्येव विद्यात्' (97)इति च श्रुतिः ।

`दध्नो मथनशब्दश्चाप्यन्तर्नादस्वरूपतः ।
भीषकत्वं हरेर्ब्रूयादन्तर्नादो हि भीषणे।
गजबृंहितमप्येवं धिक्कारसहितं वदेत्।
स्वरितेन समायोगाद्धिक्कृतौ स्वरितो यतः ।
महामन्त्रं जलाद्यैश्च युक्तमेतादृशं वदेत् ।
पादभूषा च धिक्कारं तत्कृतं (98)स्वरितं वदेत् ।
अद्भपतत्वं हरेर्वक्ति पिङ्गाकण्ठगशब्दवत् ।
तामेवाद्भुततां वक्ति गृहगोधा पराऽपि च' इति शब्दतत्त्वे ॥ 2 ॥

आयत्पतन्त्येस्सुदुघा अनपस्फुरः ।
अपस्फुरं गृभायत सोममिन्द्राय पातवे ॥ 6 ॥ (ऋ.8.39.10 ॥)

यच्चैन्यो नद्य आपतन्ति तद्धोषश्चेन्द्रवाचकः ।

`नदीसमुद्रघोषाश्च नादत्वाच्छ्रैष्ठ्यवाचकाः।
नादो हि श्रैष्ठ्यवाची स्यादेवं घोषाः परेऽपि च' इति।

तदर्थं च नद्य आपतन्ति।

`भूतादिभूतोऽम्बुनिधानमध्ये भूत्वा हरिः सर्वहरोऽतिधान्मा ।
अदाधमम्भो विदधाति भस्म यो वाडवाग्निर्नृहरिर्विचन्त्यः'
इति वैहायससंहितायाम्।

सुदुधाः सुष्टु अपां दोहनकर्त्र्यः। स्फुरणापगमनमासां नास्तीत्यनपरस्फुरः। नित्यचलनस्वभावाः । अपगतस्फुरणत्वेन सोमं गृभायत। अचलत्वेन मनो वा ॥ 3 ॥

यो व्यतीरँफामयत्सुयुक्ताँ उप दाशुषे ।
तक्को नेता तदिद्वपुरुपमा यो अमुच्यत ॥ 7 ॥ (ऋ.8.39.13)

व्यतीन् विशेषेणाधिकान् देवान्। अफाणयद्विस्तारयामास। दाशुषे यजमानाय। तत्समीपे। `फण विस्तारे' इति धातोः। सुयुक्तान्सुयोगरतान् ।

`विशेषेणाधिकत्वेन व्यतयो देवताः स्मृताः ।
नित्ययोगरताश्चैव नारायणपरायणाः ।
त एव चेन्द्रियात्मानस्तान्विस्तारयतीश्वरः ।
मनआदीन्द्रियाणां तु शक्तिविस्तार (99)एव तु ।
विस्तारो देवतानां स्याद्भक्तेषु हरिणा कृतः'
इति प्रकाशसंहितायाम्।

`चतुर्भिः साकं नवतिं च नामभिश्चक्रं न वृत्तं व्यतीरवीविपत्'
इति च श्रुतिः ।

`स मेनद्रो मेधया स्पृणोतु। अमृतस्य देव धारणो भूयासम्। शरीरं मे विचर्षणम्। जिह्वा मे मधुमत्तमा। कर्णाभ्यां भूरि विश्रुवम्' इति च ।

`न देवा यष्टिमादाय रक्षन्ति पशुपालवत्।
यं तु रक्षितुमिच्छन्ति बुद्ध्या संयोजयन्ति तम्' (100)इति भारते(101) ।
तक्वो जगत्कर्ता। `तक निर्माणे' इतिधातोः ।
न वर्तवे प्रसवः (102)सर्गतक्तः (103)इत्यादि प्रयोगाच्च ।
(104)नेता चाशेषस्य। तदेव वपुः सः। यत्तज्जगत्कर्तृनेतृरूपम् ।

`देहदेहिविभागश्च न क्वचित्परमेश्वरे ।
गुणतद्वद्विभागो वा नेह नानेति हि (105)श्रुतिः' इति पाद्मे ।

`तद्विज्ञानेन परिपश्यनति धीराः आनन्दरूपममृतं यद्विभाति' ।

`हद्देहः सुखगन्धश्च ज्ञानभाः सत्पराक्रमः ।
ज्ञानज्ञानः सुखसुखः स विष्णुः (106)परमोऽक्षर' (107)इत्यादि श्रुतेश्च ।

`विशुद्धविज्ञानमरूचिमालया (108)सचित्ररत्नप्रकरप्रकाशया ।

प्रकाशिताशेषजगत्स्वरूपया प्रभुः सदा ह्लादतनुर्विभूषितः'
इति पुरुषोत्तमसंहितायाम् ।

उपमा उपमायाम्। उपमाविषये अमुच्यत त्यक्तोऽभवत्। निरुपम् इत्यर्थः ।

`अल्पाक्षरेण शक्येऽपि वक्तु बह्वक्षरं यदि ।
उक्तस्याधिक्यमेवात्र निषेधेऽशेषतो भवेत्' इति शब्दनिर्णये(109) ॥ 1 ॥

अतीदु शक्र ओहत इन्द्रो विश्वा अति द्विषः ।
भिनत्कनिन ओदनं पच्यमानं परो गिरा ॥ 8 ॥ (ऋ.8.39.14)

(110)विश्वान् द्विषोऽज्ञानपापादीनतीत्य (111)शक्रो विष्णुः स्वभक्तानतिवहत्येव हि ।

`यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्' ।

`तेषामहं समुद्धर्ता मृत्युसंसारसागरत् ।
भवामि न चिरात्पार्थं मय्यावेशितचेतसाम्'
(112)इत्यादि प्रसिद्धमुशब्देनाह ।

द्विषोऽतीत्यातिशयेनात्मानं (113)प्रत्योहत इत्यतिशब्दद्वयार्थः । ओदनं उदन्तेः (114)कर्म बन्धनमभिनद्भगवान् ।

कानीनो बादरायणः। परः (115)परमात्मा । गिरैव पच्यमानं परिपाककाले ।

`संश्लेषादोदनं कर्म पच्यमानं गिरैव हि ।
अभिनद्भगवान्व्यासः स्वभक्तानामशेषतः'
इति वयाससंहितायाम् ॥ 2 ॥

अर्भको न कुमारकोऽधि तिष्ठन्नवं रथम् ।
सपक्षन्महिषं मृगं पित्रे मात्रे विभुक्रतुम् ॥ 9 ॥ (ऋ.8.39.15)

अर्भक इव स्थितः । नवं रथमध्यतिष्ठत्। कुमारः कुत्सितमारकः । अर्भक इव सूक्ष्मदेहः। पूर्वं पूर्वं देहं परित्यज्य नवं नवं देहमध्यतिष्ठज्जीवमादाय ।

`जीवदेहं परित्यज्य सह जीवेन चेश्वरः ।
जीवस्यानयशरीरं च समुत्पाद्य विशत्यजः' इति मान्यसंहितायाम् ।

कुमार इवार्भकः सूक्ष्मदेह इति वा। अर्भकः सूक्ष्मदेहोऽपि न (116)कुमारक इति वा । सपक्षत् (117)परिपक्वज्ञानादिगुणमकरोत्। महिषं महानतं ब्रह्माणं (118)मृगं मृगयन्तं स्वात्मानं पित्रे स्वस्मै मात्रे लक्ष्म्यै च (119)विभुक्रतम् पूर्णज्ञानम् पितृमातृविषये पूर्मज्ञानं पुनः पूरयामासेत्यर्थः(120) ।

`ज्ञानपूर्णं विधातारं मोक्षदानेन केशवः ।
स्वपुत्रं पूरयामास महिषं महतां महान्' इति प्रवृत्ते ॥ 3 ॥

यथास्थिताः प्रज्ञाताः। इतस्ततः संयोजनं विना यथास्थितशंसनं पथः प्राप्तिः ।

स यो व्याप्तो गतश्रीरिव मन्येताविहृतं षोळशिनं शंसयेन्नेच्छन्दसां कृच्छ्रादवपद्य इत्यथ यः पाप्मानमपजिघांसुः स्याद् विगृहं षोळशिनं शंसयेद् व्यतिषक्त इव वै पुरुषः पाप्मना व्यतिषक्तमेवास्मै तत् पाप्मानं शमलमप हन्त्यप पाप्मानं हते य एवं वेद ।
(ऐ.ब्रा.4.2)

व्याप्तो विशेषेणापन्नः। अविहृतमसंसृष्टम्। (121)कृच्छ्रादयथास्थितशंसननिमित्ताद्दुःखादवाग्गतिं गतश्रीकतामेव न (122)प्राप्नुयाम् ।

`विलोमः शत्रुजयकृत्संसर्गः पापनाशनः ।
यथास्थितः श्रीकरः स्यात्स्वाध्यायः शंसनेऽपि च' इति प्रवृत्ते ।

`गतश्रियः श्रियो हानिं पापहानिं परस्य च ।
संसर्गश्छन्दसां कुर्याच्छ्रियो वृद्धिं यथास्थितः' इति स्वाध्यायतत्त्वे ।

`किञ्चत्त्वे चोभयत्वे च संशये सदृशे तथा ।
इवशब्दः प्रयुज्येत न्यक्कारेऽपि च पण्डितैः' इति शब्दनिर्णये(123) ।

अतो गतश्रीत्वसंशयेऽपीत्यर्थः। इतस्ततो विशेषेण (124)संहृतं संयोजितं विहृतम् ।

`पापनां (125)व्यतिषिक्तत्वाद्व्यतिषक्तं विनाशकम् ।
धनस्यावयतिषङ्गेण वयतिषङ्गोऽविनाशकः ।
सदृशं सदृशस्यैव यतः स्यात्प्रविनाशकम् ।
तथात्पप्राप्तनाशस्य धनस्य बलवत्त्वतः ।
शक्नुयान्न विनाशाय पापस्येच्छासमेधितम् ।
संसृष्टं स्याद्विनाशाय न हीच्छा धनसंक्षये' इति स्वाध्यायतत्त्वे ।

अव्यतिषक्तत्वं च मोक्षे वर्तत इत्यत्रोभायार्थ इवशब्दः। एवंभूतेन शंसनेन पाप्मानमपहन्ति। शमलं रागादिकं च। पापस्य पृथगुक्तेः ।

`शमलं पापमुद्दिष्टं रागद्वेषादिकं तथा ।
अपराधश्च शमलं मलं च शमलं विदुः' इति शब्दनिर्णये ।

य एवमुपास्ते सोऽपरि पाप्मानमपहनति ।

`ऋक्षु संसृज्यमानासु प्रोच्यमानं जनार्दनम् ।
पुंसंसृष्टस्य पापस्य निहन्तारं विशेषतः ।
तत्प्रसादेन मुक्तस्य पापासंसृष्टतामपि ।
ध्यायन्कर्माणि कृत्वाऽपि मुच्यते सर्वपातकैः' इति प्रवृत्ते ॥ छ ॥

न चैवमादिवाक्यानां स्वार्थे प्रमाण्याभावः । सिद्धार्थे प्रामाण्य्स्य सादितत्वात्। अविरोधाच्च। न च बह्वर्थेषु तात्पर्यकल्पने कल्पनागौरवम्। वचनेनैव प्रतीयमानत्वादर्थस्य कल्पनाभावात्। न च वाचनिकार्थस्तात्पर्यार्थ इति विशेषः। तन्मानाभावात्। यत्र (126)वाचनिकार्थादन्यस्तात्पर्यार्थः प्रतीयते लौकिकवाक्येषु न तत्र साक्षाद्वचनं बोधकम्। वचनलिङ्गकानुमा हि सा । विरोधादमुख्यवृत्तिर्वा आप्तत्वनिश्चये । आप्तत्वानिश्चये (127)प्रमाण्यमेव न भवति। (128)वेदवाक्यस्य तु वाचनिकार्थं विना नैवान्यो युज्यते। वाचनिकानां तु बहूनामप्यविरोधे स्वीकार्यता ॥

`स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि' (129)इति सूत्रम्(130) ।

`वानात्सूतेर्देवनाद्वासुदेवो वासाद्द्युतेश्छादनात्क्रीडया वा(131) ।
बलादसुत्वाद्दातृतो वर्तनाच्च तं (132)वासुदेवं प्रवदन्ति वेदाः'
इति च सौकरायणश्रुतिः ।

मोक्षोऽपि सुप्तिरस्तीत्याशङ्कानिवृत्त्यर्थमेवान्यतरपदम् ।

`रूढियोगौ विना कश्चिन्नैवार्थौ वेदगो भवेत् ।
तत्रापु यौगिको मुख्यः सर्वत्रास्ति स वैदिके ।
अनवस्थानिवृत्त्यर्थं यौगिके रूढकल्पना ।
ज्ञाते विशेषविज्ञानं व्यवहारोऽपि रूढितः' इति ब्रह्मतर्के ॥

वाचनिकमर्थं परित्यज्य नियोगार्थकल्पने श्रुतहानिरश्रुतकल्पनेति सर्वदोषाधिकौ तस्य (133)व्यर्थमाप्येते। एवं च वदतो विधिशब्दा निरर्थकाः सिद्धार्था वा (134)सिद्धशब्दाः स्वार्थे प्रमाणभूता इत्युक्ते किमुत्तरम्। न च कारणं किञ्चिद्वाचनिकानां बहूनामप्यर्थानां त्यागे। प्रतीयमाने तु विरोधे तदन्योऽर्थः स्वीकार्यो वाचनिक एव। सोऽपि वाचनिक एवेत्यपि तत एव सिद्ध्यति ।

`मुख्यार्थानां च सर्वेषां तारतम्यं (135)तु विद्यते ।
तत्रापि परमो मुख्यो वाच्योऽशेषरवैर्हरिः ।
(136)तत्तन्मुख्याविरोधेन तदनयार्थस्य सङ्ग्रहः ।
स्वतो मुख्यविरोधे तु त्याज्योऽन्योऽर्थोऽखिलेष्वपि ।
इति सर्वत्र नियमः शब्दार्थज्ञानभूमिषु' इति च ।

न च क्रियायामेव प्रयोजनं न सिद्ध इति युक्तम्। ज्ञानमात्रेऽपि (137)महाप्रयोजनदर्शनात्पितृजीवनादिवाक्ये। आह च स्वयं भगवान् ।

`द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ।
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ।
यस्मात्क्षरमतीतोऽहमक्षरादपिचोत्तमः ॥
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ।
यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् ।
स सर्वविद्भजति मां सर्वभावेन भारत ।
इति गुह्यतमं शास्त्रमिदमुक्तमं मयाऽनघ ।
एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत' इति ।
`श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परंतप' इति च ॥
(138)`ध्यानं त्वखिलकर्मभ्यो धायानाच्च ज्ञानमुत्तमम् ।
न ज्ञानसदृशं किञ्चित्पुरुषार्थप्रसिद्धये' इति प्रवृत्ते ।
`दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय' इति च ।
`अशेषकर्मपूगोऽपि न विष्णुध्यानलेशभाक् ।
तच्च ध्यानं हरेर्ज्ञानकोट्यंशाय न पूर्यते' इति कर्मविवेके ।
`तमेव विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते'
इति च श्रुतिः ।

न च कर्ममात्रे पर्यवसितिर्वेदस्य। सुखज्ञानस्यैव प्रयोजनत्वात्। अतः सिद्धस्यैव प्रयोजनत्वम्। प्रशंसादीनां च तात्पर्यं वाचनिकार्थात्यागेनैव कथितं स्वयं भगवता ॥

(139)`भाक्तं वाऽनात्मवित्त्वात्तथाहि दर्शयति' इति ।

तस्माद्विरूद्धवत्प्रतीयमानानि प्रशंसादीनि ज्ञानसहकार्यपेक्षया (140)योजनीयानि(141) । पुराणादीनां तु श्रुत्यादिविरोधे गौणोऽप्यर्थो युज्यते ।

`कुहकं चेन्द्रजालं च विरुद्धाचरणानि च ।
दर्शयित्वा जनं सर्वं मोहयाशु महेश्वर' (142)इत्यादि वाराहे ॥ छ ॥

उद्यद् ब्रध्नस्य विष्टपं गृहमिन्द्रश्च गन्वहि ।
मध्वः पीत्वा सचेवहि त्रिः सप्त सख्युः पदे ॥ 1 ॥ (ऋ.8.69.7)

ब्रन्धस्य सूर्यस्य विष्टपं स्वर्गमुद्गन्वहीन्द्रोऽहं च यत्तदिन्द्रिगृहं ब्रन्धं विष्टपं मध्मः पीत्वा तत्र सचेवहि सुखमनुभवाव । सख्युरिन्द्रस्य त्रिस्यप्तस्थानेषु ।

एकविंशतिदिव्यानि स्थानानि दिवि चक्रिणः ।
वज्रिणो वाष़पि तद्भक्तैर्भुज्यन्ते तानि याज्ञिकैः' इति प्रवृत्ते ।

अपाः पूर्वेषां (143)हरिवः सुतानामथो इदं सवनं केवलं ते ॥
ममद्धि सोमं मधुमन्तमिन्द्र सत्रा वृषन्जठर आ वृशस्व ॥ 2 ॥
(ऋ.10.96.13)

पूर्वान्सुतान्प्रातः सवनगानसोमानपाः । हरीनिन्द्रियाणि वर्तयतीति हरिवः । हरिभिर्वर्तत इति वा। इदं माध्यन्दिनं (144)सवनं ते केवलं। अथो इत्यर्थान्तरम्। मधुिमन्तं सोमं जठरे (145)आवृषस्व सिञ्च ममद्धि च सत्रा अस्मत्त्राणेन सह। (146)पीतशब्दवत् । अपूर्वपानत्वात्तदेव पानं (147)मुख्यत इति पीतशब्दः । इन्द्रस्य केवलत्वात्केवलं माध्यन्दिनं सवनम्। ममद्धिति (148)तृतीयसवनम् । तत्र हि मदो विशेषतो भवति पूर्तेः । इति सवनत्रयरूपता षोळशिनः । वृषण्वत् वृष्णः इन्द्रस्य विशेषतः प्रियत्वात्। एं चतूरूपता षोळशिनः । राध्नोति ऋद्धो भवति ।

विहृतपक्षे तु - पादान्व्यवधायार्धर्चशः शंसेत्। पूर्वासां पर्वाणि पदानि। (149)गायत्र्यः पङ्क्तिभिः पङक्तीनां तु द्वे द्वे पदे शिष्येते ताभ्यां प्रणुयात्। उष्णिहो बृहतीभिरुष्णिहां तूत्तमान्पादान्द्वौ द्वौ कुर्यात्। चतुरक्षरमाद्यम्। द्विपदाश्चतुर्धा कृत्वा प्रथमां त्रिष्टुभोत्तरा जगतीभिरुत्तमायाश्चतुर्थमक्षरमन्त्यं पूर्वस्याद्यमुत्तरस्यानुष्टुभमतछन्दस्स्ववदध्यात्। द्वितीयतृतीययोस्तृतीययोः पादयोरवसानत उपदध्यात्। प्रचोतनेति पूर्वस्याम् । प्रचेतयेत्युत्तरस्याम् उत्तरास्वितरान्पाद्न्पादान्षष्ठान्कृत्वा अनुष्टुप्कारं शंसेत् ।

महानाम्नीनां पञ्चाक्षरानुपसर्गानुपसृजत्येकादशाक्षरेषु पादेषु सर्वेभ्यो वा एष च्छन्दोभ्यः सन्निर्मितो यत् षोळशी तद्यन्महानाम्नीनां पञ्चक्षरानुपसर्गानुपसृजत्येकादशाक्षरेषु पादेषु सर्वेभ्य एवैनं तच्छन्दोभ्यः सननिर्मिमीते सर्वेभ्यश्छन्दोभ्यः सन्निर्मितेन षोळशिना राध्नोति य एवं वेद ॥ 3 ॥
(ऐ.ब्रा.4.1.4.5)

महानाम्नीनां पञ्चाक्षरानुपसर्गानुपसृजत्येकादशाक्षरेषु पादेषु । `एवाह्येवा अपाः पूर्वोषां हरिवः सुतानां एवैहीन्द्रं अथो इदं सवनं केवलं ते । एवाहि शक्रो ममद्धि सोमं मधुमन्तमिन्द्र वशी हि शक्रः सत्रा वृषञ्जठर आवृषस्वेति' ॥

भगवद्भक्तिज्ञानवैराग्यपूर्वकं च कर्म कर्तव्यम् ।

`इष्टापूर्तं मन्यमानां वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः ।
नाकस्य पृष्ठे सुकृते तेऽनुभूत्वा इमं लोकं हीनतकं वा विशान्ति' ।

`नैष्कर्म्यमप्यच्युतभाववर्जित न शोभते ज्ञानमलं निरञ्जनम् ।
कुतः पुनः शश्वदभद्रमीश्वरे न चार्पितं कर्म यदप्यकारणम्' ।

`यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् ।
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः' ।

`त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ।
ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान्दिवि देवभोगान्' ।

`मयि सर्वाणि कर्माणि संनयस्याध्यात्मचेतसा ।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ।
ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः ।
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ।
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः' ।

(150)`तपस्विनो दानपरा यशस्विनो मनस्विनो मन्त्रविदः सुमङ्गलाः ।

क्षेमं न विन्दन्ति विना यदर्पणां तस्मै सुभद्रश्रवसे नमो नमः' ।

`एष उ एव दाश्वान् य एवं वेद'(151) ।

`यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति' ।

`परं भावमजानन्तो मम भूतमहेश्वरम् ।
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः' ।

`सर्वगुह्यतमं भूयः शृणु मे परमं वचः ।
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ।
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे' ।

`विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम् ।
तिष्ठमानस्य तद्विदः' .....इत्यादि श्रुतिस्मृतिभ्यः ॥

(152)नमो नारायणायाजभवशक्रोष्णरुङ्मुखैः ।
सदा वन्दितपादाय श्रिपाय प्रेयसेऽधिकम् ॥

॥ इति श्रीमदानन्दतीर्थभवगत्पादाचार्यविरचितः (153)कर्मनिर्णयः समाप्तः ॥

॥ इति कर्मनिर्णयः ॥

॥ श्रीकृष्णार्पणमस्तु ॥

समपुतं मया भवेत्सुमध्वनुत्तवाणिना ।
रमारमेशपादयोः प्रभञ्जनाभिधायुजा ॥

"https://sa.wikisource.org/w/index.php?title=कर्मनिर्णयः&oldid=399821" इत्यस्माद् प्रतिप्राप्तम्