सामग्री पर जाएँ

कर्पूरादिस्तोत्रम्

विकिस्रोतः तः

.. कर्पूरादिस्तोत्रम्..
                 ॐ
श्रीगुरवे नमः . ॐ नमः परमदेवतायै ..
श्रीकर्पूरादिस्तोत्रम्
कर्पूरं मधमान्त्यस्वरपरिरहितं सेन्दुवामाक्षियुक्तं बीजं ते
मातरेतत्त्रिपुरहरवधु त्रिःकृतं ये जपन्ति .
तेषां गद्यानि पद्यानि च मुकुहुहरादुल्लसन्त्येव वाचः
स्वच्छन्दं
ध्वान्तधाराधरुरुचिरुचिरे सर्वसिद्धिं गतानाम्.. १..
ईशान् सेन्दुवामश्रवणपरिगतो बीजमन्यन्महेशि द्वन्द्वं ते
मन्दचेता यदि जपति जनो वारूमेकं कदाचित् .
जित्वा वाचामधीशं धनमपि चिरं मोहयन्नम्बुजाक्षीवृन्दं
चन्द्रार्धचूडे प्रभवति स महाघोरबालावतंसे.. २..
ईशो वैश्वानरस्थः शशधरविलसद् वामनेत्रेण युक्तो बीजं ते
द्वन्द्वमन्यद् विगलितचिकुरे कालिके ये जपन्ति .
द्वेष्टारं घ्नन्ति ते च त्रिभुवनमपि ते वश्यभावं नयन्ति
सृक्कद्वन्दास्रधाराद्वयधरवदने दक्षिणे त्र्यक्षरेति.. ३..
ऊर्ध्वे वामे कृपाणं करकमलतले छिन्नमुण्डं तथाधः सव्ये
चाभीर्वरं च त्रिजगदघहरे दक्षिणे कालिके च .
जप्त्वैतन्नाम ये वा तव मनुविभवं भावयन्त्येतदम्ब तेषामष्टौ
करस्था: प्रकटितरदने सिद्धयस्त्र्यम्बकस्य.. ४..
वर्गाद्यं वह्निसंस्थं विधुरतिललितं तत्त्रयं कूर्चयुग्मं
लज्जाद्वन्द्वं च पश्चात् स्मितमुखि तदधष्ठद्वयं योजयित्वा .
मातर्ये ये जपन्ति स्मरहरमहिले भावयन्तः स्वरूपं ते
लक्ष्मीलास्यलीलाकमलदलदृशः कामरूपा भवन्ति.. ५..
प्रत्येकं वा द्वयं वा त्रयमपि च परं बीजमत्यन्तगुह्यं
त्वन्नाम्ना
योजयित्वा सकलमपि सदा भावयन्तो जपन्ति .
तेषां नेत्रारविन्दे विहरति कमला वक्त्रशुभ्रांशुबिम्बे वाग्देवी
देवि मुण्डस्त्रगतिशयलसत्कण्ठि पीनस्तनाढ्ये.. ६..
गतासूनां बाहुप्रकरकृतकञ्चीपरिलसन्नितम्बां दिग्वस्त्रा.म्
त्रिभुवनविधात्रीं त्रिणयनां .
श्मशानस्ते तल्पे शवहृदि महाकालसुरतप्रयुक्तां त्वा.म्
ध्यायन् जननि जडचेता अपि कविः .. ७..
शिवाभिर्घोराभिः शवनिवहमुण्डास्थिकरैः परं स.म्कीर्णाया.म्
प्रकटितचितायां हरवधूम् .प्रविष्टां .
स.म्तुष्टामुपरिसुरतेनातियुवतीं सदा त्वां ध्यायन्ति क्वचिदपि

न तेषां परिभवः .. ८..
वदामस्ते किं वा जननि वयमुच्चैर्जडधियो न धाता नापीशो
हरिरपि न ते वेत्ति परमम् .
तथापि त्वद्भक्तिर्मुखरयति चास्माकममिते तदेतत्क्षन्तव्यं न
खलु
पशुरोषः समुचितः .. ९..
समन्तादापीनस्तनजघनधृघौवनवतीरतासक्तो नक्तं यदि
जपति
भक्तस्तव मनुम् .
विवासास्त्वां ध्यायन् गलितचिकुरस्तस्य वशगाः समस्ताः
सिद्धौघा भुवि चिरतरं जीवति कविः .. १०..
समाः सुस्थीभूतो जपति विपरीतां यदि सदा विचिन्त्य त्वा.म्
ध्यायन्नतिशयमहाकालसुरताम् .
तदा तस्य क्षोणीतलविहरमाणस्य विदुषः कराम्भोजे वश्या
पुरहस्वधू सिद्धिनिवहाः .. ११..
प्रसूते स.म्सारं जननि भवती पालयति च समस्तं क्षित्यादि
प्रलयसमये स.म्हरति च .
अतस्त्वं धातासि त्रिभुवनपतिः श्रीपतिरपि महेशोऽपि प्रायः
सकलमपि किं स्तौमि भवतीम् .. १२..
अनेके सेवन्ते भवदधिकगीवार्णनिवहान् विमूढास्ते मातः किमपि

हि जानन्ति परमम् .
समाराध्यामाद्यां हरिहरविरिञ्चादिविबुधैः प्रपन्नोऽस्मि
स्वैर.म्
रतिरससमहानन्दनिरताम् .. १३..
धरत्रि कीलालं शुचिरपि समीरोऽपि गगनं त्वमेका कल्याणी
गिरिशरमणी कालि सकलम् .
प्रसन्नां त्वं भूया भवमनु न भूयान्मम जनुः .. १४..
श्मशानस्थः सुस्थो गलितचिकुरो दिक्पटधरः सहस्रं त्वकार्णा.म्
निजगलितवीर्येण कुसुमम् .
जप.म्स्त्वत्प्रयेकं मनुमपि तव ध्याननिरतो महाकालि स्वैरं स
भवति धरित्रीपरिवृढः .. १५..
गृहे स.म्मार्ज्यन्या परिगलितविर्यं हि चिकुरं समूलं मध्याह्ने
वितरति चितायां कुजदिने .
समुच्चार्य प्रमेणा मनुमपि सकृत्कालि सततं गजारूढो याति
क्षितिपरिवृढः सत्कविवरः .. १६..
स्वपुष्पैराकीर्णं कुसुमधनुषो मन्दिरमहो पुरो ध्यायन्ध्यायन्
यदि जपति भक्तस्तव मनुम् .
स गन्धर्वश्रेणीपतिरपि कवित्वामृतनदीनदीनः पर्यन्ते
परमपदलीनः प्रभवति .. १७..
त्रिपञ्चारे पीठे शवशिवहृदि स्मेरवदना.म्
महाकालेनोच्चैर्मदनरसलावण्यनिरताम् .
समासक्तो नक्तं स्वयमपि रतानन्दनिरतो जनो यो ध्यायेत्त्वामयि
जननि स स्यात् स्मरहरः .. १८..
सलोमास्थि स्वैरं पललमपि मार्जारमसिते परं चोष्ट्त्र.म्
मैश.म्
नरमहिषयोश्छागमपि वा .
बलिम् ते पूजायामयि वितरतां मर्त्यवसतां सतां सिद्धिः
सर्वा
प्रतिपदमपूर्वा प्रभवति .. १९..
वशी लक्षं मन्त्रं प्रजपति हविष्याशनरतो दिवा
मातर्युष्मच्चरणयुगलध्याननिपुणः .
परं नक्तं नग्नो निधुवनविनोदेन च मनुं जपेल्लक्षं स स्यात्
स्मरहरसमानः क्षितितले .. २०..
इदं स्तोत्रं मातस्तव मनुसमुद्धारणजनुः स्वरूपाख्य.म्
पादाम्बुजयुगलपूजाविधियुतम् .
निशार्धं वा पूजासमयमधि वा यस्तु पठति प्रलापस्तस्यापि
प्रसरति कवित्वामृतरसः .. २१..
कुरङ्गाक्षीवृन्दं तमनुसरति प्रेमतरलं वशस्तस्य क्षोणीपतिरपि
कुबेरप्रतिनिधिः .
रिपुः कारागारं कलयति च तं केलिकलया चिरं जीवन्मुक्तः
प्रभवति स भक्तः प्रतिजनुः .. २२..

इति श्रीमन्महाकालिविरचितं श्रीमद्दक्षिणकालिकायाः
स्वरूपाख्यं स्तोत्रं समाप्तम्

"https://sa.wikisource.org/w/index.php?title=कर्पूरादिस्तोत्रम्&oldid=410796" इत्यस्माद् प्रतिप्राप्तम्