कथासरित्सागरः/लम्बकः ९/तरङ्गः ४

विकिस्रोतः तः
Jump to navigation Jump to search

एवं स निवसंस्तत्र वत्सेशस्य पितुर्गृहे ।
गोमुखाद्यैः स्वसचिवैः सेव्यमानोऽनुरागिभिः ।। १
विहरंश्चाप्यलंकारवत्या देव्यानुरक्तया ।
मानविघ्नासहोद्गाढतत्प्रेममुषितेर्ष्यया ।। २
नरवाहनदत्तोऽथ कदाचिन्मृगकाननम् ।
जगाम रथमारुह्य पश्चादारूढगोमुखः ।। ३
प्रलम्बबाहौ तस्मिंश्च विप्रवीरेऽग्रयायिनि ।
चकाराखेटकक्रीडां स तत्र सहितोऽनुगैः ।। ४
सर्वप्राणेन धावत्सु रथाश्वेष्वपि तस्य सः ।
प्रलम्बबाहुस्तद्वेगं विजित्य पुरतो ययौ ।। ५
सोऽवधीत्सायकैः सिंहव्याघ्रादीन्स्यन्दने स्थितः ।
प्रलम्बबाहुस्त्वसिना पादचारी जघान तान् ।। ६
अहो शौर्यमहो जङ्घाजवोऽस्येति विसिस्मिये ।
नरवाहनदत्तश्च दृष्ट्वा दृष्ट्वा स तं द्विजम् ।। ७
कृताखेटः परिश्रान्तः स ससारथिगोमुखः । मृगया एवं रूपसिद्ध्यादि उपरि टिप्पणी
प्रलम्बबाहौ सुभटे तस्मिन्नग्रसरे ततः ।। ८
रथारूढस्तृषाक्रान्तः सलिलान्वेषणक्रमात् ।
वत्सेश्वरात्मजो दूरं विवेशान्यन्महावनम् ।। ९
तत्रोत्फुल्लहिरण्याब्जं दिव्यं प्राप महत्सरः ।
द्वितीयमिव बह्वर्कबिम्बं भूमिगतं नभः ।। १०
तत्र स स्नातपीताम्भाः कृतस्नानादिसानुगः ।
तदेकदेशे चतुरो दूरादैक्षत पूरुषान् ।। ११
दिव्याकृतीन्दिव्यवस्त्रान्दिव्याभरणभूषितान् ।
हेमाम्बुजानि सरसस्तस्मादुच्चित्य गृह्णतः ।। १२
उपागात्कौतुकात्तांश्च पृष्टः कोऽसीति तैरपि ।
अन्वयं नाम वृत्तान्तं निजं तेभ्यः शशंस सः ।। १३
तेऽप्येवं दर्शनप्रीताः पृष्टवन्तं तमब्रुवन् ।
अस्ति मध्ये महाम्भोधेः श्रीमद्द्वीपवरं महत् ।। १४
यन्नारिकेलद्वीपाख्यं ख्यातं जगति सुन्दरम् ।
तत्र सन्ति च चत्वारः पर्वता दिव्यभूमयः ।। १५
मैनाको वृषभश्चक्रो बलाहक इति स्मृताः ।
चतुर्षु तेषु चत्वारो निवसाम इमे वयम् ।। १६
एकोऽस्माकं रूपसिद्धिर्नाम्ना विविधरूपधृत् ।
प्रमाणसिद्धिरपरो बृहत्सूक्ष्मप्रमाणदृक् ।। १७
ज्ञानसिद्धिस्तृतीयश्च भविष्यद्भूतभाव्यवित् ।
देवसिद्धिश्चतुर्थोऽपि सर्वदैवतसिद्धिभृत् ।। १८
ते वयं हेमकमलान्येतान्यादाय सांप्रतम् ।
देवं पूजयितुं यामः श्वेतद्वीपे श्रियः पतिम् ।। १९
तद्भक्ता हि वयं सर्वे तत्प्रसादेन चाद्रिषु ।
तेषु स्वेष्वाधिपत्यं नः सिद्धियुक्ताश्च संपदः ।। २०
तदेहि दर्शयामस्ते श्वेतद्वीपे हरिं प्रभुम् ।
नयामस्त्वन्तरिक्षेण यदि ते रोचते सखे ।। २१
इत्युक्तवद्भिस्तैः साकं देवपुत्रैस्तथेति सन् ।
नरवाहनदत्तोऽत्र स्वाधीनाम्बुफलादिके ।। २२
गोमुखादीनवस्थाप्य श्वेतद्वीपं विहायसा ।
ययौ गृहीतः स्वोत्सङ्गे तन्मध्याद्देवसिद्धिना ।। २३
तत्रावतीर्य गगनाद्दूरादेवोपसृत्य च ।
पार्श्वस्थिताब्धितनयं पादान्तस्थवसुंधरम् ।। २४
शङ्खचक्रगदापद्मैः सेव्यमानं सविग्रहैः ।
भक्त्योपगीयमानं च गन्धर्वैर्नारदादिभिः ।। २५
प्रणम्यमानं देवैश्च सिद्धैर्विद्याधरैस्तथा ।
अग्रोपविष्टगरुडं शेषशय्यागतं हरिम ।। २६
स ददर्श चतुर्भिस्तैः प्रापितो देवपुत्रकैः ।
कस्य नाभ्युदये हेतुर्भवेत्साधुसमागमः ।। २७
ततोऽर्चितं देवपुत्रैः कश्यपाद्यैश्च संस्तुतम् ।
नरवाहनदत्तस्तमस्तौषीत्प्राञ्जलिः प्रभुम् ।। २८
नमोऽस्तु तुभ्यं भगवन्भक्तकल्पमहीरुह ।
लक्ष्मीकल्पलताश्लिष्टवपुषेऽभीष्टदायिने ।। २९
नमस्ते दिव्यहंसाय सन्मानसनिवासिने ।
सततोदितनादाय पराकाशविहारिणे ।। ३०
तुभ्यं नमोऽतिसर्वाय सर्वाभ्यन्तरवर्तिने ।
गुणातिक्रान्तरूपाय पूर्णषाड्गुण्यमूर्तये ।। ३१
ब्रह्मा ते नाभिकमले स्वाध्यायोद्यन्मृदुध्वनिः ।
तद्भूतानेकचरणोऽप्येष षटचरणायते ।। ३२
भूमिपादो द्युमूर्धा त्वं दिक्श्रोत्रोऽर्केन्दुलोचनः ।
ब्रह्माण्डजठरः कोऽपि पुरुषो गीयसे बुधैः ।। ३३
त्वत्तो धामनिधेश्चासौ भूतग्रामो विजृम्भते ।
नाथ स्फुलिङ्गसंघात इव प्रज्वलतोऽनलात् ।। ३४
पुनश्च प्रविशत्येष त्वामेव प्रलयागमे ।
दिनान्ते विग्रहव्रात इव वासमहाद्रुमम् ।। ३५
सृजस्युल्लसितः स्वांशांस्त्वमेतान्भुवनेश्वरान् ।
अनन्तवेलाक्षुभितस्तरङ्गानिव वारिधिः ।। ३६
विश्वरूपोऽप्यरूपस्त्वं विश्वकर्मापि चाक्रियः ।
विश्वाधारोऽप्यनाधारः कः स तत्त्वमवैति ते ।। ३७
तां तामृद्धिं सुराः प्राप्तास्त्वत्प्रसन्नेक्षणेक्षिताः ।
तत्प्रसीद प्रपन्नं मां पश्य पश्यार्द्रया दृशा ।। ३८
एवं कृतस्तुतिं दृष्ट्वा सप्रसादेन चक्षुषा ।
नरवाहनदत्तं तं हरिर्नारदमभ्यधात् ।। ३९
गच्छ क्षीरोदसंभूता या वराप्सरसः पुरा ।
न्यासीकृत्य मया हस्ते शक्रस्य स्थापिताः स्वकाः ।। ४०
तास्तस्मान्मम वाक्येन मृगयित्वा महामुने ।
आरोप्य तद्रथे सर्वाः सत्वरं त्वमिहानय ।। ४१
इत्युक्तो हरिणा गत्वा नारदः स तथेति ताः ।
आनिन्येऽप्सरसः शक्रात्तद्रथेन समातलिः ।। ४२
तेन तासूपनीतासु प्रणतेनाप्सरःस्वथ ।
वत्सराजतनूजं तं भगवानादिदेश सः ।। ४३
नरवाहनदत्तैतास्तुभ्यमप्सरसो मया ।
दत्ता विद्याधरेन्द्राणां भविष्यच्चक्रवर्तिने ।। ४४
त्वमासामुचितो भर्ता भार्याश्चैतास्तवोचिताः ।
कामदेवावतारो हि निर्मितस्त्वं पुरारिणा ।। ४५
तच्छ्रुत्वा पादपतिते तस्मिन्वत्सेश्वरात्मजे ।
लब्धप्रसादमुदिते हरिर्मातलिमादिशत् ।। ४६
नरवाहनदत्तोऽसावप्सरःसहितस्त्वया ।
प्राप्यतां स्वगृहं यावत्पथा येनायमिच्छति ।। ४७
एवं भगवतादिष्टे साप्सरस्कः प्रणम्य तम् ।
नरवाहनदत्तः स रथं मातलिसारथिम् ।। ४८
आरुह्य देवपुत्रैस्तैः साकं कृतनिमन्त्रणैः ।
नारिकेलमगाद्द्वीपं देवैश्चैव कृतस्पृहः ।। ४९
तत्र तैरर्चितो रूपसिद्धिप्रभृतिभिः कृती ।
चतुर्भिर्दिव्यपुरुषैः शक्रसारथिना युतः ।। ५०
मैनाकवृषभाद्येषु तन्निवासाद्रिषु क्रमात् ।
अप्सरोभिः समं ताभिः स्वर्गस्पर्धिष्वरंस्त सः ।। ५१
मधुमासागमोत्फुल्लनानातरुवनासु च ।
विजहार तदुद्यानवनभूमिषु कौतुकी ।। ५२
पश्यैतास्तरुमञ्जर्यः पृथुपुष्पविलोचनैः ।
कान्तं वसन्तमायान्तं पश्यन्तीव विकस्वरैः ।। ५३
जन्मक्षेत्रेऽत्र मा भून्न संतापोऽर्ककरोष्मजः ।
इतीवाच्छादितं पश्य फुल्लैः सरसिजैः सरः ।। ५४
पश्योज्ज्वलं कर्णिकारमुपेत्यापि विसौरभम् ।
विमुञ्चन्त्यलयो नीचं श्रीमन्तमिव साधवः ।। ५५
पश्येह किंनरीगीतैः कोकिलानां च कूजितैः ।
रुतैरलीनां संगीतमृतुराजस्य तन्यते ।। ५६
इत्यादि देवपुत्रास्ते ब्रुवाणास्तामदर्शयन् ।
नरवाहनदत्ताय तस्मै स्वोपवनावलीम् ।। ५७
तत्पुरेष्वपि चिक्रीड पश्यन्वत्सेश्वरात्मजः ।
स वसन्तोत्सवोद्दामप्रनृत्यत्पौरचर्चरीः ।। ५८
बुभुजे साप्सरस्कश्च भोगानत्रामरोचितान् ।
सुकृतो यत्र गच्छन्ति तत्रैषामृद्धयोऽग्रतः ।। ५९
एवं स्थित्वा त्रिचतुरान्दिवसान्देवपुत्रकान् ।
नरवाहनदत्तस्तान्सुहृदो निजगाद सः ।। ६०
गच्छाम्यहं स्वनगरीं तातसंदर्शनोत्सुकः ।
तद्यूयं तां पुरीमेत्य कृतार्थयत पश्यत ।। ६१
तच्छ्रुत्वा तेऽब्रुऽवन्दृष्टः सारस्तस्याः पुरो भवान् ।
किमन्यत्प्राप्तविद्येन स्मर्तव्यास्तु वयं त्वया ।। ६२
इत्युक्त्वा प्रतिमुक्तस्तैरुपनीतेन्द्रसद्रथम् ।
नरवाहनदत्तोऽसौ मातलिं तमभाषत ।। ६३
यत्र दिव्यसरस्तीरे स्थिता मे गोमुखादयः ।
तेन मार्गेण कौशाम्बीं पुरीं प्रापय मामिति ।। ६४
ततस्तथेति तेनोक्तः साप्सरस्कः स तद्रथे ।
आरुह्य तत्सरः प्राप गोमुखादीन्ददर्श च ।। ६५
आयात स्वपथा शीघ्रं सर्वं वक्ष्यामि वो गृहे ।
इत्युक्त्वा तांश्च कौशाम्बीं ययौ शक्ररथेन सः ।। ६६
तत्रावतीर्य नभसः पूजितं प्रेष्य मातलिम् ।
अप्सरोभिर्युतस्ताभिः स विवेश स्वमन्दिरम् ।। ६७
स्थापयित्वा च तास्तत्र गत्वा वत्सेश्वरस्य सः ।
तदागमनहृष्टस्य ववन्दे चरणौ पितुः ।। ६८
मातुर्वासवदत्तायाः पद्मावत्यास्तथैव च ।
अभ्यनन्दंश्च तेऽप्येनं दर्शनातृप्तचक्षुषः ।। ६९
तावच्च स रथारूढो गोमुखोऽत्र ससारथिः ।
प्रलम्बबाहुना तेन विप्रेण सममाययौ ।। ७०
अथ स्थिते मन्त्रिवर्गे पित्रा पृष्टः शशंस सः ।
नरवाहनदत्तस्तं स्ववृत्तान्तं महाद्भुतम् ।। ७१
ददाति तस्य कल्याणमित्रसंयोगमीश्वरः ।
इच्छत्यनुग्रहं यस्य कर्तुं सुकृतकर्मणः ।। ७२
इति शंसत्सु सर्वेषु राजा वत्सेश्वरोऽथ सः ।
चकार तुष्टस्तनयस्याच्युतानुग्रहोत्सवम् ।। ७३
ददर्श पादपतनायानीता गोमुखेन च ।
हरिप्रसादलब्धास्ताः सदारोऽप्सरसः स्नुषाः ।। ७४
देवरूपा देवरतिं देवमालां तथैव च ।
देवप्रियां चतुर्थीं च चेटीभिः पृष्टनामकाः ।। ७५
क्वाहं क्व मय्यप्सरसो दिष्ट्याहं राजसूनुना ।
नरवाहनदत्तेन भुवि स्वर्नगरी कृता ।। ७६
इतीवावकिरन्ती सा सिन्दूरं विततोत्सवा ।
चलद्रक्तपताकाभिः कौशाम्बी ददृशे तदा ।। ७७
नरवाहनदत्तश्च पित्रोर्दत्तोत्सवो दृशोः ।
अन्याः संभावयामास भार्या मार्गोन्मुखीर्निजाः ।। ७८
ताश्चतुर्भिर्दिनैर्वर्षैरिव तं च कृशीकृताः ।
अनन्दयन्वर्णयन्त्यस्तां तां विरहवेदनाम् ।। ७९
गोमुखो वनवासे च रक्षतो रथवाजिनः ।
प्रलम्बबाहोः सिंहादिवधशौर्यमवर्णयत् ।। ८०
एवं श्रुतिसुखाञ्शृण्वन्कथालापानयन्त्रणान् ।
निर्वर्णयंश्च कान्तानां रूपं स नयनामृतम् ।। ८१
कुर्वंश्चाटूनि च पिबन्मधूनि सचिवैर्युतः ।
नरवाहनदत्तोऽत्र तं कालमवसत्सुखी ।। ८२
एकदान्तरलंकारवतीवासगृहे स्थितः ।
सवयस्यः स शुश्राव तूर्यकोलाहलं बहिः ।। ८३
ततो हरिशिखं सेनापतिं निजमुवाच सः ।
अकस्मात्कुत एतत्स्यात्तूर्यनादो महानिह ।। ८४
एतच्छ्रुत्वैव निर्गत्य प्रविश्य च स त क्षणात् ।
व्यजिज्ञपद्धरिशिखो वत्सराजसुतं प्रभुम् ।। ८५
रुद्रो नाम वणिग्देव नगर्यामिह विद्यते ।
इतः सुवर्णद्वीपं च स जगाम वणिज्यया ।। ८६
आगच्छतो निजस्तस्य संप्राप्तोऽप्यर्थसंचयः ।
अब्धौ वहनभङ्गेन निमग्नो नाशमागतः ।। ८७
उत्तीर्णश्चात्मनैवैको देव जीवन्स वारिधेः ।
प्राप्तश्चाद्य दिनं षष्ठमिहापन्नो निजं गृहम् ।। ८८
दिनानि कतिचिद्यावदिह तिष्ठति दुःखितः ।
तावत्स्वारामतो दैवात्प्राप्तस्तेन निधिर्महान् ।। ८९
तद्गोत्रजानां च मुखाज्ज्ञातं वत्सेश्वरेण तत् ।
ततोऽद्यागत्य तेनासौ विज्ञप्तो वणिजा प्रभुः ।। ९०
सरत्नौघा मया लब्धाश्चतस्रो हेमकोटयः ।
तदादिशति देवश्चेदर्पयिष्यामि ता इति ।। ९१
जलाशयेन मुषितं दीनं दृष्ट्वैव वेधसा ।
कृपया संविभक्तं त्वां को मुष्णात्यजडाशयः ।। ९२
गच्छ भुङ्क्ष्व यथाकामं धनै प्राप्तं स्वभूमितः ।
इति वत्सेश्वरेणापि व्यादिष्टोऽसौ वणिक्ततः ।। ९३
स एष पादयो राज्ञः पतित्वा हर्षनिर्भरः ।
तूर्याणि वादयन्याति स्वगृहं सानुगो वणिक् ।। ९४
एवं हरिशिखेनोक्तं श्रुत्वा धार्मिकतां पितुः ।
नरवाहनदत्तः स्वान्सचिवान्विस्मितोऽब्रवीत् ।। ९५
यदि तावद्धरत्यऽर्थांस्तदन्वेव ददाति किम् ।
चित्रमुच्छ्रायपाताभ्यां क्रीडतीव विधिर्नृणाम् ।। ९६
तच्छ्रुत्वा गोमुखोऽवादीदीदृश्येव गतिर्विधेः ।
समुद्रशूरस्य कथा तथा चात्र निशम्यताम् ।। ९७
बभूव नगरं पूर्वं नृपतेर्हर्षवर्मणः ।
स्फीतं हर्षपुरं नाम सौराज्यसुखितप्रजम् ।। ९८
तस्मिन्समुद्रशूराख्यो नगरेऽभून्महावणिक् ।
कुलजो धार्मिको धीरसत्त्वो बहुधनेश्वरः ।। ९९
स वणिज्यावशाद्गच्छन्सुवर्णद्वीपमेकदा ।
आरुरोह प्रवहणं तटं प्राप्य महाम्बुधेः ।। १००
गच्छतस्तस्य तेनाब्धौ किंचिच्छेषे तदध्वनि ।
घोरः समुदभून्मेघो वायुश्च क्षोभितार्णवः ।। १०१
तेनोर्मिवेगविक्षिप्ते वहने मकराहते ।
भग्ने परिकरं बद्ध्वा सोऽम्बुधावपतद्वणिक् ।। १०२
यावच्च बाहुविक्षेपैर्वीरोऽत्र तरति क्षणम् ।
तावच्चिरमृतं प्राप पुरुषं पवनेरितम् ।। १०३
तदारूढश्च बाहुभ्यां क्षिप्ताम्बुर्विधिनैव सः ।
नीतः सुवर्णद्वीपं तदनुकूलेन वायुना ।। १०४
तत्रावतीर्णः पुलिने स तस्मान्मृतमानुषात् ।
कटीनिबद्धं सग्रन्थिं तस्यावैक्षत शाटकम् ।। १०५
उन्मुच्य वीक्षते यावच्छाटकं कटितोऽस्य तत् ।
तावत्तदन्तराद्दिव्यं रत्नाढ्यं प्राप कण्ठकम् ।। १०६
तं दृष्ट्वानर्घमादाय कृतस्नानस्तुतोष सः ।
मन्वानोऽब्धौ विनष्टं तद्धनं तस्याग्रतस्तृणम् ।। १०७
ततो गत्वात्र कलशपुराख्यं नगरं क्रमात् ।
हस्तस्थकण्ठको देवकुलमेकं विवेश सः ।। १०८
तत्र छायोपविष्टः स वारिव्यायामतो भृशम् ।
परिश्रान्तः शनैर्निद्रां ययौ विधिविमोहितः ।। १०९
सुप्तस्य तत्र चाकस्मादागताः पुररक्षिणः ।
ददृशुस्तस्य हस्तस्थं कण्ठकं तमसंवृतम् ।। ११०
अयं स कण्ठको राजसुताया इह कण्ठतः ।
हारितश्चक्रसेनाया ध्रुवं चौरोऽयमेव सः ।। १११
इत्युक्त्वा तैः प्रबोध्यासौ निन्ये राजकुलं वणिक् ।
तत्र पृष्टः स्वयं राज्ञा स यथावृत्तमभ्यधात् ।। ११२
मिथ्या वक्त्येष चौरोऽयमिमं पश्यत कण्ठकम् ।
इति प्रसार्य तं राजा यावत्सभ्यान्ब्रवीति सः ।। ११३
तावत्प्रभास्वरं दृष्ट्वा निपत्य नभसो जवात् ।
गृध्रस्तं कण्ठकं हृत्वा जगाम क्वाप्यदर्शनम् ।। ११४
अथात्यार्तस्य वणिजः क्रन्दतः शरणं शिवम् ।
वधे राज्ञा क्रुधादिष्टे शुश्रुवे भारती दिवः ।। ११५
मा स्म राजन्वधीरेनमसौ हर्षपुराद्वणिक् ।
साधुः समुद्रशूराख्यो विषयेऽभ्यागतस्तव ।। ११६
कण्ठको येन नीतोऽभूत्स चौरः पुररक्षिणाम् ।
भयेन विह्वलो नश्यन्निपत्याब्धौ मृतो निशि ।। ११७
अयं तु तस्य चौरस्य कायं प्राप्याधिरुह्य च ।
वणिग्भग्नप्रवहणस्तीर्त्वाम्भोधिमिहागतः ।। ११८
तदा च तत्कटीधद्धशाटकग्रन्थितोऽमुना ।
वणिजा कण्ठकः प्राप्तो न नीतोऽनेन वो गृहात् ।। ११९
तदचौरमिमं राजन्वणिजं मुञ्च धार्मिकम् ।
संमान्य प्रहिणुष्वैनमित्युक्त्वा विरराम वाक् ।। १२०
एतच्छ्रुत्वा स संतुष्य मुक्त्वा तं वणिजं वधात् ।
समुद्रशूरं संमान्य धनै राजा विसृष्टवान् ।। १२१
स च प्राप्तधनः क्रीतभाण्डो भूयो भयंकरम् ।
स्वदेशमेष्यन्वहनेनोत्तताराम्बुधिं वणिक् ।। १२२
तीर्णाब्धिश्च ततो गत्वा सार्थेन सह स क्रमात् ।
अटवीं प्रापदेकस्मिन्वासरे दिवसात्यये ।। १२३
तस्यामावसिते सार्थे रात्रौ तस्मिंश्च जाग्रति ।
समुद्रशूरे न्यपतच्चौरसेनात्र दुर्जया ।। १२४
हन्यमाने तया सार्थे भाण्डांस्त्यक्त्वा पलाय्य सः ।
समूद्रशूरो न्यग्रोधमारूढोऽभूदलक्षितः ।। १२५
हृताशेषधने याते चौरसैन्ये भयाकुलः ।
तत्रैव तां तरौ रात्रिं दुःखार्तश्च निनाय सः ।। १२६
प्रातस्तस्य तरोः पृष्ठे गतदृष्टिः स दैवतः ।
दीपप्रभामिवापश्यत्स्फुरन्तीं पत्रमध्यगाम् ।। १२७
विस्मयात्तत्र चारूढो गृध्रनीडमवैक्षत ।
अन्तःस्थभास्वरानर्घरत्नाभरणसंचयम् ।। १२८
जग्राह तस्मात्सर्वं तत्तन्मध्ये प्राप कण्ठकम् ।
तं स यं प्राप्तवान्स्वर्णद्वीपे गृध्रोऽहरच्च यम् ।। १२९
ततः प्राप्तामितधनो न्यग्रोधादवरुह्य सः ।
हृष्टो गच्छन्क्रमात्प्राप निजं हर्षपुरं पुरम् ।। १३०
तत्र तस्थौ वणिक्सोऽथ वीतान्यद्रविणस्पृहः ।
समुद्रशूरः स्वजनैः सह नन्दन्यथेच्छया ।। १३१
अब्धौ तत्पतनं सोऽर्थनाशस्तत्तरणं ततः ।
सा कण्ठकस्य च प्राप्तिस्तस्यैवापगमः स च ।। १३२
सा निष्कारणनिग्राह्यदशावाप्तिः स तत्क्षणम् ।
तुष्टाद्द्वीपेश्वराल्लाभस्तदब्धेस्तरणं पुनः ।। १३३
सोऽथ सर्वापहारश्च पथिः चौरैः समागमात् ।
पर्यन्ते तस्य वणिजस्तरुपृष्ठाद्धनागमः ।। १३४
तदेवमीदृशं देव विचित्रं चेष्टितं विधेः ।
सुकृती चानुभूयैव दुःखमप्यश्नुते सुखम् ।। १३५
इति गोमुखतः श्रुत्वा श्रद्धायोत्थाय च् व्यधात् ।
नरवाहनदत्तोऽत्र स्नानादिदिवसक्रियाम् ।। १३६
अन्येद्युरेत्य चास्थानगतं तं बालसेवकः ।
शूरः समरतुङ्गाख्यो राजपुत्रो व्यजिज्ञपत् ।। १३७
देव सङ्ग्रामवर्षेण नाशितो गोत्रजेन मे ।
देशश्चतुर्भिर्युक्तेन पुत्रैर्वीरजितादिभिः ।। १३८
तदेष गत्वा पञ्चापि बद्ध्वा तानानयाम्यहम् ।
प्रभोर्विदितमस्त्वेतदित्युक्त्वा तत्र सोऽगमत् ।। १३९
तमल्पसैन्यं तानन्यान्भूरिसैन्यानवेत्य स ।
वत्सेश्वरसुतस्तस्य दिदेशानु बलं निजम् ।। १४०
सोऽगृहीत्वैव तन्मानी गत्वा पञ्चापि तान्रिपून् ।
स्वबाहुभ्यां रणे जित्वा संयम्यानीतवान्समम् ।। १४१
तथा जयिनमायान्तं वीरं संमान्य स प्रभुः ।
नरवाहनदत्तस्तं प्रशशंस स्वसेवकम् ।। १४२
चित्रमाक्रान्तविषयान्सबलानिन्द्रियोपमान् ।
जित्वानेन रिपून्पञ्च पुरुषार्थः प्रसाधितः ।। १४३
तच्छ्रुत्वा गोमुखोऽवादीच्छ्रुता चेद्देव नेदृशी ।
राज्ञश्चमरवालस्य कथा तच्छृणु वच्मि ताम् ।। १४४
हस्तिनापुरमित्यस्ति नगरं तत्र चाभवत् ।
राजा चामरवालाख्यः कोषदुर्गबलान्वितः ।। १४५
बभूवुस्तस्य समरबलाद्या भूम्यनन्तराः ।
राजानो गोत्रजास्ते च संभूयैवमचिन्तयन् ।। १४६
अयं चमरवालोऽस्मानेकैकं बाधते सदा ।
तदेते मिलिताः सर्वे विदध्मोऽस्य पराभवम् ।। १४७
इति संमन्त्र्य पञ्चैते तज्जयाय यियासवः ।
प्रस्थानलग्नं क्षितिपाः पप्रच्छुर्गणकं रहः ।। १४८
अपश्यन्स शुभं लग्नं पश्यन्नशकुनानि च ।
जगाद गणको नास्ति लग्नं संवत्सरेऽत्र वः ।। १४९
यथा तथा च यातानां न युष्माकं भवेज्जयः ।
किं चात्र वोऽनुबन्धेन समृद्धिं तस्य पश्यताम् ।। १५०
भोगो नाम फलं लक्ष्म्याः स तस्मादधिकोऽस्ति वः ।
न चेच्छ्रुता श्रूयतां तत्कथात्र वणिजोर्द्वयोः ।। १५१
बभूव कौतुकपुरं नामेह नगरं पुरा ।
तस्मिन्नन्वर्थनामाभूद्राजा बहुसुवर्णकः ।। १५२
यशोवर्मेति तस्यासीत्सेवकः क्षत्रियो युवा ।
तस्मै दातापि स नृपो नादात्किंचित्कदाचन ।। १५३
यदा यदा च नृपतिस्तेनार्त्या याच्यते स्म सः ।
आदित्यं दर्शयन्नेवं तमुवाच तदा तदा ।। १५४
अहमिच्छामि ते दातुं किं पुनर्भगवानयम् ।
तुभ्यं नेच्छति मे दातुं किं करोंम्युच्यतामिति ।। १५५
ततः सोऽवसरं चिन्वन्यावत्तिष्ठति दुःखितः ।
सूर्योपरागसमयस्तावदत्रागतोऽभवत् ।। १५६
तत्कालं स यशोवर्मा गत्वा सततसेवकः ।
नृपं भूरिमहादानप्रवृत्तं तं व्यजिज्ञपत् ।। १५७
यो ददाति न ते तुभ्यं दातुं सैष रविः प्रभो ।
ग्रस्तोऽद्य वैरिणा यावत्तावत्किंचित्प्रयच्छ मे ।। १५८
तच्छ्रुत्वा स हसित्वा च दत्तदानो महीपतिः ।
ददौ वस्त्रहिरण्यादि तस्मै बहुसुवर्णकम् ।। १५९
क्रमात्तस्मिन्धने भुक्ते खिन्नः सोऽददति प्रभौ ।
मृतजानिर्यशोवर्मा प्रययौ विन्ध्यवासिनीम् ।। १६०
किं निरर्थेन देहेन जीवतापि मृतेन मे ।
त्यक्ष्याम्येतं पुरो देव्या वरं प्राप्स्यामि वेप्सितम् ।। १६१
इत्यग्रे विन्ध्यवासिन्याः संविष्टो दर्भसंस्तरे ।
तन्मनाः स निराहारस्तपो महदतप्यत ।। १६२
आदिशत्तं च सा स्वप्ने देवी तुष्टास्मि पुत्र ते ।
ददाम्यर्थश्रियं किं ते किं वा भोगश्रियं वद ।। १६३
तच्छ्रुत्वा स यशोवर्मा देवीं तां प्रत्यभाषत ।
एतयोर्निपुणं वेद्मि नाहं भेदं श्रियोरिति ।। १६४
ततस्तमवदद्देवी स्वदेशे तर्हि यौ तव ।
भोगवर्मार्थवर्माणौ विद्येते वणिजावुभौ ।। १६५
तयोर्गत्वा श्रियं पश्य ततो यत्सदृशी च ते ।
रोचिष्यते तत्सदृशी त्वयागत्यार्थ्यतामिति ।। १६६
एतच्छ्रुत्वा प्रबुध्यैव स प्रातः कृतपारणः ।
स्वदेशं कौतुकपुरं यशोवर्मा ततो ययौ ।। १६७
तत्रागात्प्रथमं तावत्स गृहानर्थवर्मणः ।
असंख्यहेमरत्नादिव्यवहारार्जितश्रियः ।। १६८
पश्यंस्तां संपदं तस्य यथावत्तमुपाययौ ।
कृतातिथ्यश्च तेनासौ भोजनाय न्यमन्त्रयत ।। १६९
ततोऽत्राभुङ्क्त सघृतं समांसव्यञ्जनं च सः ।
प्राघुणोचितमाहारं पार्श्वे तस्यार्थवर्मणः ।। १७०
अर्थवर्मा तु भुङ्क्ते स्म घृतार्धपलसंयुतान् ।
सक्तून्भक्तमपि स्तोकं मांसव्यञ्जनमल्पकम् ।। १७१
सार्थवाह किमेतावदश्नासीति सकौतुकम् ।
स यशोवर्मणा पृष्टो वणिगेवमभाषत ।। १२
अद्य त्वदुपरोधेन समांसव्यञ्जनं मया ।
भुक्तं स्तोकं घृतस्यार्धपलं भुक्तं च सक्तवः ।। १७३
सदा तु घृतकर्षं च सक्तूंश्चाश्नामि केवलान् ।
अतोऽधिकं मे मन्दाग्नेरुदरे नैव जीर्यते ।। १७४
तच्छ्रुत्वा स यशोवर्मा विचिकित्सन्निनिन्द ताम् ।
हृदयेन श्रियं तस्य विफलामर्थवर्मणः ।। १७५
ततो निशागमे भक्तं क्षीरं चानाययत्पुनः ।
अर्थवर्मा वणिक्तस्य स यशोवर्मणः कृते ।। १७६
यशोवर्मा च भूयस्तद्यथाकाममभुङ्क्त सः ।
अर्थवर्मापि स तदा क्षीरस्येकं पलं पपौ ।। १७७
तत्रैव चैकस्थाने तावास्तीर्णशयनावुभौ ।
यशोवर्मार्थवर्माणौ शनैर्निद्रामुपेयतुः ।। १७८
निशीथे च यशोवर्मा स्वप्नेऽपश्यदशङ्कितम् ।
प्रविष्टानत्र पुरुषान्दण्डहस्तान्भयंकरान् ।। १७९
धिगल्पाभ्यधिकः कर्षो घृतस्य किमिति त्वया ।
मांसौदनश्च भुक्तोऽद्य पीतं च पयसः पलम् ।। १८०
इति क्रोधाद्ब्रुवाणैस्तैराकृष्यैवाथ पादतः ।
पुरुषैरर्थवर्मा स लगुडैः पर्यताड्यत ।। १८१
घृतकर्षपयोमांसभक्तमभ्यधिकं च यत् ।
भुक्तं तत्सर्वमुदरादाचकर्षुश्च तस्य ते ।। १८२
तद्दृष्ट्वा स यशोवर्मा प्रबुद्धो यावदीक्षते ।
तावत्तस्याययौ शूलं विबुद्धस्यार्थवर्मणः ।। १८३
ततः क्रन्दन्परिजनैर्मर्द्यमानोदरश्च सः ।
वमति स्मार्थवर्मा तदधिकं यत्स भुक्तवान् ।। १८४
शान्तशूले ततस्तस्मिन्यशोवर्मा व्यचिन्तयत् ।
धिग्धिगर्थश्रियमिमां यस्या भोगोऽयमीदृशः ।। १८५
खलीकृतेयमीदृश्या भूयादभवनिः श्रियः ।
इत्यन्तश्चिन्तयन्सोऽत्र रात्रिं तामत्यवाहयत् ।। १८६
प्रातस्तमर्थवर्माणमामन्त्र्य स ययौ ततः ।
यशोवर्मा गृहं तस्य वणिजो भोगवर्मणः ।। १८७
तत्राभ्यागाद्यथावत्तं तेनापि च कृतादरः ।
निमन्त्रितोऽभूद्वणिजा तदहर्भोजनाय सः ।। १८८
न चास्य वणिजोऽपश्यत्स कांचिद्धनसंपदम् ।
अपश्यत्तु शुभं वेश्म वासांस्याभरणानि च ।। १८९
ततः स्थिते यशोवर्मण्यस्मिन्प्रावर्ततात्र सः ।
भोगवर्मा वणिक्कर्तुं व्यवहारं निजोचितम् ।। १९०
अन्यस्माद्भाण्डमादाय ददावन्यस्य तत्क्षणम् ।
विनैव स्वधनं मध्याद्दीनारानुदपादयत् ।। १९१
त्वरितं तान्स दीनारान्भृत्यहस्ते विसृष्टवान् ।
स्वभार्यायै विचित्रान्नपानसंपादनाय च ।। १९२
क्षणाच्च सुहृदेकस्तमिच्छाभरणनामकः ।
उपागत्यैव रभसाद्भोगवर्माणमभ्यधात् ।। १९३
सिद्धं भोजनमस्माकमुत्तिष्ठागच्छ भुञ्ज्महे ।
सुहृदो मिलिता ह्यन्ये त्वत्प्रतीक्षाः स्थिता इति ।। १९४
अद्याहं नागमिष्यामि प्राघुणोऽयं स्थितो हि मे ।
इति ब्रुवाणं पुनरप्येनं स सुहृदब्रवीत् ।। १९५
भवता सममायातु तर्हि प्राघुणिकोऽप्ययम् ।
एषोऽपि न किमस्माकं मित्त्रमुत्तिष्ठ सत्वरम् ।। १९६
इत्याग्रहाद्भोगवर्मा नीतो मित्रेण तेन सः ।
यशोवर्मयुतो गत्वा भुङ्क्ते स्माहारमुत्तमम् ।। १९७
पीत्वा च पानमागत्य सायं स स्वगृहे पुनः ।
सयशोवर्मको भेजे विचित्रं पानभोजनम् ।। १९८
प्राप्तायां निशि पप्रच्छ निजं परिजनं च सः ।
 किमद्य रात्रिपर्याप्तमस्ति नः सरकं न वा ।। १९९
स्वामिन्नास्तीति तेनोक्तः स भेजे शयनं वणिक् ।
पास्यामोऽपररात्रेऽद्य कथं जलमिति ब्रुवन् ।। २००
यशोवर्माथ तत्पार्श्वे सुप्तः स्वप्नेऽत्र दृष्टवान् ।
प्रविष्टान्पुरुषान्द्वित्रानन्यांस्तेषां च पृष्ठतः ।। २०१
कस्मादपररात्रार्थं सरकं भोगवर्मणः ।
चिन्तितं नाद्य युष्माभिः क्व भवद्भिः स्थितं शठाः ।। २०२
इति पश्चात्प्रविष्टास्ते पुरुषा दण्डपाणयः ।
पूर्वप्रविष्टान्क्रोधात्तान्दण्डाघातैरताडयन् ।। २०३
अपराधोऽयमेको नः क्षम्यतामिति वादिनः ।
दण्डाहतास्ते पुरुषास्ते चान्ये निरगुस्ततः ।। २०४
यशोवर्माथ तद्दृष्ट्वा प्रबुद्धः समचिन्तयत् ।
अचिन्त्योपनतिः श्लाघ्या भोगश्रीर्भोगवर्मणः ।। २०५
भोगहीना समृद्धापि नार्थश्रीरर्थवर्मणः ।
इति चिन्तयतस्तस्य सातिचक्राम यामिनी ।। २०६
प्रातश्च स यशोवर्मा तमामन्त्र्य वणिग्वरम् ।
जगाम विन्ध्यवासिन्याः पादमूलं पुनस्ततः ।। २०७
तपःस्थः स्वप्नदृष्टायास्तस्याः पूर्वोक्तयोर्द्वयोः ।
श्रियोर्भोगश्रियं तत्र वव्रे सास्मै ददौ च ताम् ।। २००
अथागत्य यशोवर्मा गृहं देवीप्रसादतः ।
अचिन्तितोपगामिन्या तस्थौ भोगश्रिया सुखम् ।। २०९
तदेवं भोगसंपन्ना श्रीरप्यल्पतरा वरम् ।
न पुनर्भोगरहिता सुविस्तीर्णाप्यपार्थका ।। २१०
तत्किं चमरवालस्य राज्ञः कार्पण्यसंपदा ।
तप्यध्वे दानभोगाढ्यां वीक्षध्वं स्यां श्रियं न किम् ।। २११
अतस्तं प्रति युष्माकमवस्कन्दो न भद्रकः ।
यात्रालग्नश्च नास्त्येव नापि वा दृश्यते जयः ।। २१२
इत्युक्ता अपि ते तेन पञ्च ज्योतिर्विदा नृपाः ।
ययुश्चमरवालं तं नृपं प्रत्यसहिष्णवः ।। २१३
सीमाप्राप्तांश्च तान्बुद्ध्वा निर्यास्यन्समराय सः ।
राजा चमरवालः प्राक्स्नात्वा हरमपूजयत् ।। २१४
अष्टषष्ट्युत्तमस्थाननियतैर्नामभिः शुभैः ।
यथावत्तं च तुष्टाव पापघ्नैः सर्वकामदैः ।। २१५
राजन्युध्यस्व निःशङ्कं शत्रूञ्जेष्यसि संगरे ।
इत्युद्गतां च गगनात्सोऽथ शुश्राव भारतीम् ।। २१६
ततः प्रहृष्टः संनह्य तेषां निजबलान्वितः ।
राजा चमरवालोऽग्रे युद्धाय निरगाद्द्विषाम् ।। २१७
त्रिंशद्गजसहस्राणि त्रीणि लक्षाणि वाजिनाम् ।
कोटिः पादभटानां च तस्यासीद्वैरिणां बले ।। २१८
स्वबले च पदातीनां तस्य लक्षाणि विंशतिः ।
दश दन्तिसहस्राणि हयानां लक्षमप्यभूत् ।। २१९
प्रवृत्ते तु महायुद्धे तयोरुभयसेनयोः ।
यथार्थनाम्नि वीराख्ये प्रतीहारेऽग्रयायिनि ।। २२०
स्वयं चमरवालोऽसौ राजा तत्समराङ्गणम् ।
महावराहो भगवान्महार्णवमिवाविशत् ।। २२१
ममर्द चाल्पसैन्योऽपि परसैन्यं महत्तथा ।
यथाश्वगजपत्तीनां हयानां राशयोऽभवन् ।। २२२
धावित्वा चात्र समरबलं तं संमुखागतम् ।
आहत्य शक्त्या राजानं पाशेनाकृष्य बद्धवान् ।। २२३
ततः समरशूरं च हृदि बाणाहतं नृपम् ।
द्वितीयं तद्वदाकृष्य पाशेनैव बबन्ध सः ।। २२४
तृतीयं चात्र समरजितं नाम महीपतिम् ।
वीराख्यस्तत्प्रतीहारो बद्ध्वा तत्पार्श्वमानयत् ।। २२५
सेनापतिर्देवबलस्तस्यानीय समर्पयत् ।
नृपं प्रतापचन्द्राख्यं चतुर्थं सायकाहतम् ।। २२६
ततः प्रतापसेनाख्यस्तद्दृष्ट्वा पञ्चमो नृपः ।
क्रोधाच्चमरवालं तं भूपमभ्यपतद्रणे ।। २२७
स तु निर्धूय तद्बाणान्स्वशरौघेण विद्धवान् ।
राजा चमरवालस्तं ललाटे त्रिभिराशुगैः ।। २२८
कण्ठक्षिप्तेन पाशेन तं च काल इवाथ सः ।
आकृष्य स्ववशे चक्रे शराघातविघूर्णितम् ।। २२९
एवं राजसु बद्धेषु तेषु पञ्चस्वपि क्रमात् ।
हतशेषाणि सैन्यानि दिशस्तेषां प्रदुद्रुवुः ।। २३०
अमितं हेमरत्नादि बहून्यन्तःपुराणि च ।
राज्ञा चमरवालेन प्राप्तान्येषां महीभुजाम् ।। २३१
तन्मध्ये च महादेवी यशोलेखेति विश्रुता ।
राज्ञः प्रतापसेनस्य प्राप्ता तेनाङ्गनोत्तमा ।। २३२
ततः प्रविश्य नगरं वीरदेवबलौ च सः ।
क्षत्तृसेनापती पट्टं बद्ध्वा रत्नैरपूरयत् ।। २३३
प्रतापसेनमहिषीं क्षत्त्रधर्मजितेति ताम् ।
यशोलेखां स नृपतिः स्वावरोधवधूं व्यधात् ।। २३४
भुजार्जिताहमस्येति सेहे सा चपलापि तम् ।
काममोहप्रवृत्तानां शबला धर्मवासना ।। २३५
दिनैश्चाभ्यर्थितो राज्ञ्या स यशोलेखया तया ।
राजा चमरवालस्तान्बद्धान्पञ्चापि भूपतीन् ।। २३६
प्रतापसेनप्रभृतीन्गृहीतविनयान्नतान् ।
मुमोच निजराज्येषु सत्कृत्य विससर्ज च ।। २३७
ततः स तदकण्टकं विजितशत्रु राज्यं निजं
समृद्धमशिषच्चिरं चमरवालपृथ्वीपतिः ।
अरंस्त च वराप्सरोभ्यधिकरूपलावण्यया
द्विषज्जयपताकया सह तया यशोलेखया ।। २३८
एवं बहूनपि रिपून्रभसप्रवृत्तान्द्वेषाकुलानगणितस्वपरस्वरूपान् ।
एकोऽप्यनन्यसमपौरुषभग्नसारदर्पज्वराञ्जयति संयुगमूर्ध्नि धीरः ।। २३९
इति गोमुखेन कथितामर्थ्यां श्रुत्वा कथां कृतश्लाघः ।
अकरोदथ नरवाहनदत्तः स्नानादि दिनकार्यम् ।। २४०
निनाय संगीतरसाच्च तां तथा निशां स गायन्स्वयमङ्गनासखः ।
सरस्वती तस्य नभःस्थिता यथा ददौ प्रियाभिश्चिरसंस्तवं वरम् ।। २४१
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरेऽलंकारवतीलम्बके चतुर्थस्तरङ्गः ।