कथासरित्सागरः/लम्बकः ८/तरङ्गः ७

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

सप्तमस्तरङ्गः ।
ततः सूर्यप्रभः प्रातरुत्थाय सचिवैः सह ।
दानवादिबलैः सर्वैर्युतो युद्धभुवं ययौ ।। १
आययौ श्रुतशर्मा च विद्याधरबलैर्वृतः ।
आजग्मुश्च पुनर्द्रष्टुं सर्वे देवासुरादयः ।। २
सैन्ये द्वे अपि ते व्यूहावर्धचन्द्रौ च चक्रतुः ।
प्रावर्तत ततो युद्धं बलयोरुभयोस्तयोः ।। ३
सशब्दमभिधावन्तो निकृन्तन्तः परस्परम् ।
पत्त्रारूढाः प्रजविनो युद्ध्यन्ते स्म शरा अपि ।। ४
कोषाननाग्रनिर्याताः सुदीर्घाः पीतशोणिताः ।
लीलाः खड्गलता रेजु कृतान्तरसना इव ।। ५
शरोत्फुल्लमुखाम्भोजसंपतच्चक्रसंहति ।
राजहंसक्षयायासीत्तदाहवमहासरः ।। ६
उत्फलद्भिः पतद्भिश्च निर्लूनैः शूरमूर्धभिः ।
कृतान्तकन्दुकक्रीडासंनिभा समिदाबभौ ।। ७
क्षतजासेकनिर्धूतधूलिध्वान्ते रणाजिरे ।
महारथानामभवन्द्वन्द्वयुद्धान्यमर्षिणाम् ।। ८
आसीत्सूर्यप्रभस्यात्र सङ्ग्रामः श्रुतशर्मणा ।
दामोदरेण च समं प्रभासस्याहवोऽभवत् ।। ९
महोत्पात्तेन साकं च सिद्धार्थो युयुधे तदा ।
प्रहस्तो ब्रह्मगुप्तेन संगमेन च वीतभीः ।। 8.7.१०
प्रज्ञाढ्यश्चन्द्रगुप्तेनाप्यक्रमेण प्रियंकरः ।
युयुधे सर्वदमनः सहैवातिबलेन च ।। ११
धुरंधरेण युयुधे स कुञ्जरकुमारकः ।
अन्ये महारथाश्चान्यैरयुध्यन्त पृथक्पृथक् ।। १२
तत्र पूर्वं महोत्पातः प्रतिहत्य शरैः शरान् ।
सिद्धार्थस्य धनुश्छित्त्वा जघानाश्वान्ससारथीन् ।। १३
विरथः सोऽपि सिद्धार्थो धावित्वा तस्य तं क्रुधा ।
अयोदण्डेन महता साश्वं रथमचूर्णयत् ।। १४
ततस्तं पादचारी स सिद्धार्थः पादचारिणम् ।
बाहुयुद्धेन धरणौ महोत्पातमपातयत् ।। १५
यावच्चेच्छति निष्पेष्टुं स तं तावत्स खेचरः ।
भगेन रक्षितः पित्रा प्रोत्थाय प्रययौ रणात् ।। १६
प्रहस्तब्रह्मगुप्तौ चाप्यन्योन्यं विरथीकृतौ ।
करणैः खड्गयुद्धेन युध्येते स्म पृथग्विधैः ।। १७
प्रहस्तश्चासिनिर्लूनचर्माणं करणक्रमात् ।
युक्त्या तं पातयामास ब्रह्मगुप्तं भुवस्तले ।। १८
पतितस्य शिरस्तस्य स यावच्छेत्तुमिच्छति ।
तावन्निवारितो दूरात्पित्रास्य ब्रह्मणा स्वयम् ।। १९
सुतान्रक्षितुमायाता यूयं न प्रेक्षितुं रणम् ।
इत्युक्त्वा दानवा सर्वे देवान्विजहसुस्तदा ।। 8.7.२०
तावद्वीतभयश्छिन्नधन्वानं हतसारथिम् ।
जघान हृदये विद्ध्वा प्रद्युम्नास्त्रेण संक्रमम् ।। २१
प्रज्ञाढ्यश्चन्द्रगुप्तं च पदातिं रथयोः क्षयात् ।
पदातिः खड्गयुद्धेन न्यवधीत्कृत्तमस्तकम् ।। २२
ततः पुत्रवधक्रुद्धः स्वयमागत्य चन्द्रमाः ।
प्रज्ञाड्यं योधयामास युद्धं चासीत्तयोः समम् ।। २३
प्रियंकरश्च विरथो विरथं रथनाशतः ।
एकखङ्गप्रहारेण करोति स्माक्रमं द्विधा ।। २४
छिन्ने धनुषि निक्षिप्तेनाङ्कुशेन हृदि क्षतम् ।
हतवान्सर्वदमनो हेलयातिबलं रणे ।। २५
ततो धुरंधरं तं च स कुञ्जरकुमारकः ।
अस्त्रप्रत्यस्त्रयुद्धेन चकार विरथं मुहुः ।। २६
मुहुर्विक्रमशक्तिश्च तस्मै रथमढौकयत् ।
ररक्ष संकटे तं चाप्यस्त्रैरस्त्राणि वारयन् ।। २७
न कुञ्जरकुमारोऽथ धावित्वा महतीं शिलाम् ।
क्रुद्धो विक्रमशक्तेर्द्राक्चिक्षेप स्यन्दनोपरि ।। २८
गते विक्रमशक्तौ च चूर्णितस्यन्दने ततः ।
तयैव शिलया तं स धुरंधरमचूर्णयत् ।। २९
सूर्यप्रभः प्रयुद्धोऽपि सहात्र श्रुतशर्मणा ।
विरोचनवधक्रोधाज्जघानैकेषुणा दमम् ।। 8.7.३०
तत्कोधादश्विनौ देवौ युद्धायापतितौ शरैः ।
सुनीथः प्रतिजग्राह तेषां युद्धमभून्महत् ।। ३१
स्थिरबुद्धिश्च सङ्ग्रामे शक्त्या हत्वा पराक्रमम्
वसुभिस्तद्वधक्रुद्धैः सहाष्टाभिरयुध्यत ।। ३२
विरथीकृतभासं च प्रभासो वीक्ष्य मर्दनम् ।
दामोदररणासक्तोऽप्येकेनेवेषुणावधीत् ।। ३३
प्रकम्पनोऽस्त्रयुद्धेन हत्वा तेजःप्रभं युधि ।
युयुधे तद्वधक्रुद्धेनाग्निना सह दानवः ।। ३४
धूमकेतोश्च समरे यमदंष्ट्रं निजघ्नुषः ।
कुपितेन यमेनाभूत्सह युद्धं सुदारुणम् ।। ३५
चूर्णयित्वा स शिलया सिंहदंष्ट्रः सुरोषणम् ।
समं निर्ऋतिना युद्धे तद्वधामर्षशालिना ।। ३६
कालचक्रोऽपि चक्रेण चक्रे वायुबलं द्विधा ।
अयुध्यत च तत्कोपाद्ज्ज्वलता वायुना सह ।। ३७
रूपैर्नागाद्रिवृक्षाणां महामायो विमोहदम् ।
कुबेरदत्तं हतवांस्तार्क्ष्यवज्राग्निरूपधृत् ।। ३८
 ततः क्रुद्धः कुबेरोऽत्र तेन साकमयुध्यत ।
एबमन्येऽप्ययुध्यन्त सुराः स्वांशवधक्रुधा ।। ३९
निजघ्निरेऽत्र चान्येऽपि ते ते विद्याधराधिपाः ।
उत्पतद्भिः प्रतिपदं तैस्तैर्मनुजदानवैः ।। 8.7.४०
तावच्चात्र प्रभासस्य सह दामोदरेण तत् ।
परस्परास्त्रप्रत्यस्त्र भीमं युद्धमवर्तत ।। ४१
अथ दामोदरश्छिन्नधन्वा निहतसारथिः ।
आत्तान्यचापः संगृह्य स्वयं रश्मीनयुध्यत ।। ४२
साधुवादप्रदं चास्य पप्रच्छेन्द्रोऽम्बुजासनम् ।
हीयमानं प्रति कथं तुष्टोऽसि भगवन्निति ।। ४३
ततो ब्रह्मा जगादैनं कथं नैतस्य तुष्यते ।
इयच्चिरं प्रभासेन सह योऽनेन युध्यते ।। ४४
दामोदर हरेरंशं विना कुर्यादिदं हि कः ।
एकस्य हि प्रभासस्य सर्वेऽप्यल्पाः सुरा रणे ।। ४५
नमुचिर्नाम यो ह्यासीदसुरः सुरमर्दनः ।
प्रबलाख्यस्ततो जज्ञे सर्वरत्नमयश्च यः ।। ४६
सैष प्रभासो जातोऽद्य पुत्रो भासस्य दुर्जयः ।
भासोऽपि पूर्वमभवत्कालनेमिर्महासुरः ।। ४७
भूयो हिरण्यकशिपुस्ततो भूत्वा कपिञ्जलः ।
सुमुण्डीकोऽसुरो योऽभूत्सोऽयं सूर्यप्रभोऽद्य च ।। ४८
हिरण्याक्षश्च योऽभूत्प्राक्स सुनीथासुरोऽप्ययम् ।
प्रहस्ताद्याश्च येऽप्येते ते सर्वे दैत्यदानवाः ।। ४९
ये युष्माभिर्हतास्तेऽमी पुनर्जाता यतोऽसुराः ।
मयादयोऽत एवामी पक्षमेषामुपाश्रिताः ।। 8.7.५०
सूर्यप्रभादिभिः स्विष्टरुद्रयज्ञप्रभावतः ।
विस्रस्तबन्धनः पश्य बलिर्द्रष्टुमिहागतः ।। ५१
स्वं सत्यवचनं रक्षन्पातालेष्वेष तिष्ठति ।
त्वद्राज्यकालपर्यन्तं ततश्चेन्द्रो भविष्यति ।। ५२
एते परिगृहीताश्च सांप्रतं त्रिपुरारिणा ।
तन्नायं जयकालो वः संधिं कुरुत किं ग्रहैः ।। ५३
इति यावत्सुरपतिं ब्रवीति कमलासनः ।
तावत्प्रभासः प्रामुञ्चदस्त्रं पाशुपतं महत् ।। ५४
तद्दृष्ट्वा सर्वसंहारि रौद्रमस्त्रं विजृम्भितम् ।
प्रमुक्तं हरिणा चक्रं सुतस्नेहात्सुदर्शनम् ।। ५५
ततः सरूपयोरासीद्युद्धं दिव्यास्त्रयोस्तयोः ।
अकाण्डविश्वसंहारसंभ्रान्तभुवनत्रयम् ।। ५६
अस्त्रं स्वं संहरैतत्त्वं यावत्त्वं संहराम्यहम् ।
इत्युक्तो हरिणा सोऽथ प्रभासः प्रत्युवाच तम् ।। ५७
मुक्तमस्त्रं वृथा न स्यात्तत्प्रयातु पराङ्मुखः ।
दामोदरो रणं हित्वा ततोऽस्त्रं संहराम्यहम् ।। ५८
इत्युक्ते तेन भगवानवादीत्तर्हि मानय ।
चक्रं त्वमपि मे मा भूद्वैफल्यमुभयोरपि ।। ५९
एतच्छौरेर्वचः श्रुत्वा प्रभासः प्राह कालवित् ।
एवमस्तु रथं हन्तु मम चक्रमिदं तव ।। 8.7.६०
तथेति हरिणा दामोदरे व्यावर्तिते रणात् ।
प्रभासः संजहारास्त्रं चक्रं चास्यापतद्रथे ।। ६१
आरुह्यान्यं रथं सोऽथ ययौ सूर्यप्रभान्तिकम् ।
दामोदरोऽपि स प्रायाच्छ्रुतशर्मान्तिकं ततः ।। ६२
तावच्च वासवांशत्वदृप्तस्य क्षुतशर्मणः ।
सूर्यप्रभस्य च द्वन्द्वयुद्धं काष्ठां परामगात् ।। ६३
श्रुतशर्मा प्रयुङ्के स्म यद्यदस्त्रं प्रयत्नतः ।
प्रत्यस्त्रैः प्रतिहन्ति स्म तत्तत्सूर्यप्रभः क्षणात् ।। ६४
माया या या च तेनात्र प्रयुक्ता श्रुतशर्मणा ।
सूर्यप्रभेण सा सास्य निहता प्रतिमायया ।। ६५
ततो ब्रह्मास्त्रममुचच्छ्रुतशर्मातिकोपतः ।
सूर्यप्रभोऽपि प्रामुञ्चदस्त्रं पाशुपतं कृती ।। ६६
तेन रौद्रमहास्त्रेण ब्रह्मास्त्रं प्रतिहत्य तत् ।
यावत्स दुष्प्रधर्मेण श्रुतशर्माभिभूयते ।। ६७
तावदिन्द्रप्रभृतिभिर्लोकपालैः समन्ततः ।
वज्रादीनि प्रयुक्तानि परमास्त्राण्यमर्षिभिः ।। ६८
तत्तु पाशुपतं तानि जित्वा सर्वायुधान्यपि ।
जज्वाल सुतरामस्त्रं श्रुतशर्मजिघांसया ।। ६९
ततः सूर्यप्रभः स्तुत्वा महास्त्रं तद्व्यजिज्ञपत् ।
मा वधीः श्रुतशर्माणं बद्ध्वा त्वं तं समर्पय ।। 8.7.७०
ततः प्रसह्य निःशेषैः संनद्धमभवत्सुरैः ।
तज्जिगीषावशाच्चान्यैः प्रेक्षकैरसुरैरपि ।। ७१
तत्क्षणं वीरभद्राख्यः शंभुना प्रेरितो गणः ।
आगत्यैव तदादेशमिन्द्रादिभ्योऽब्रवीदिदम् ।। ७२
यूयं प्रेक्षितुमायातास्तद्योद्धुं वः क्रमोऽत्र कः ।
मर्यादालङ्घनाच्चान्यदपि स्यादसमञ्जसम् ।। ७३
एतच्छ्रुत्वाब्रुवन्देवा हन्यन्ते च हताश्च नः ।
सर्वेषामत्र तनयास्तन्न युध्यामहे कथम् ।। ७४
दुस्त्यजो हि सुतस्नेहस्तदवश्यं प्रतिक्रिया ।
तन्निहन्तृषु कर्तव्या यथाशक्त्यत्र कोऽक्रमः ।। ७५
इत्युक्तवत्सु देवेषु वीरभद्रे ततो गते ।
सुराणामसुराणां च प्रावर्तत महारणः ।। ७६
सुनीथः सममश्विभ्यां प्रज्ञाढ्यश्च सहेन्दुना ।
स्थिरबुद्धिश्च वसुभिः कालचक्रश्च वायुना ।। ७७
प्रकम्पनोऽग्निना सिंहदंष्ट्रो निर्ऋतिना तथा ।
वरुणेन प्रथमनो धूमकेतुर्यमेन च ।। ७८
महामायः स च तदा धनाधिपतिना सह ।
अयुध्यतास्त्रप्रत्यस्त्रैरन्योन्यैश्च समं सुरैः ।। ७९
पर्यन्ते परमास्त्रं च यो यो यद्यत्सुरोऽक्षिपत् ।
तस्य तस्य हरस्तत्तद्धुंकारेण व्यनाशयत् ।। 8.7.८०
धनदस्तूद्यतगदः साम्ना शर्वेण वारितः ।
भग्नास्त्राश्च सुरास्ते ते परित्यज्याहवं ययुः ।। ८१
ततः सूर्यप्रभं शक्रः स्वयं क्रोधादयोधयत् ।
शरौघममुचत्तस्मिंस्तानि तान्यायुधानि च ।। ८२
सूर्यप्रभश्च निर्धूय तदस्त्राण्यवहेलया ।
आकर्णाकृष्टनाराचशतेनेन्द्रमताडयत् ।। ८३
ततः क्रुद्धः स कुलिशं जग्राह च सुराधिपः ।
हुंकारं चाकरोदुद्रः कुलिशं च ननाश तत् ।। ८४
ततः पराङ्मुखे याते शक्रे नारायणः स्वयम् ।
प्रभासं योधयामास क्रोधात्कोटीमुखैः शरैः ।। ८५
अस्त्राण्यन्यानि चाप्यस्त्रैर्निष्कम्पो युयुधे समम् ।
हताश्वो विरथीभूतोऽप्यारुह्यान्यं रथं च सः ।। ८६
तेन दैत्यारिणा सार्धं निर्विशेषमयुध्यत ।
ततः प्रकुपितो देवो ज्वलच्चक्रं मुमोच सः ।। ८७
प्रभासोऽप्यभिमन्त्र्यैव दिव्यं खड्गं प्रमुक्तवान् ।
तयोरायुधयोर्युध्यमानयोर्वीक्ष्य चक्रतः ।। ८८
हीयमानं शनैः खड्गं हुंकारं कृतवान्हरः ।
तेन ते खड्गचक्रे द्वे अन्तर्धानमुपेयतुः ।। ८९
ततो ननन्दुरसुरा विषीदन्ति स्म चामराः ।
सूर्यप्रभे लब्धजये बद्धे च श्रुतशर्मणि ।। 8.7.९०
संस्तुत्याराधयामासुरथ देवा वृषध्वजम् ।
ततस्तुष्टः सुरानेवमादिदेशाम्बिकापतिः ।। ९१
सूर्यप्रभ प्रतिज्ञातं वर्जयित्वार्थ्यतां वरः ।
देव यत्ते प्रतिज्ञातं कः शक्तः कर्तुमन्यथा ।। ९२
किं त्वस्माभिः प्रतिज्ञातं यदस्य श्रुतशर्मणः ।
सत्यं तदप्यस्तु विभो मा भूद्वंशक्षयश्च नः ।। ९३
इत्युक्त्वा विरतान्देवान्भगवानेवमादिशत् ।
संधौ कृते भवत्येतत्संधिश्चैवमिहास्तु वः ।। ९४
सूर्यप्रभं प्रणमतु श्रुतशर्मा सहानुगः ।
ततस्तथा वदिष्यामो यथोभयहितं भवेत् ।। ९५
इतीश्वरवचो देवाः प्रतिपद्य तथेति च ।
सूर्यप्रभस्य विदधुः श्रुतशर्माणमानतम् ।। ९६
ततस्तयोर्मिथस्त्यक्तवैरयोः कण्ठलग्नयोः ।
संधिं देवासुराश्चक्रुः शान्तवैराः परस्परम् ।। ९७
अथ शृण्वत्सु निखिलेष्वसुरेषु सुरेषु च ।
उवाच भगवाञ्शंभुः सूर्यप्रभमिदं वचः ।। ९८
कुरु दक्षिणवेद्यर्धे चक्रवर्तित्वमात्मनः ।
उत्तरस्मिंस्तु वेद्यर्धे देहि तच्छ्रुतशर्मणे ।। ९९
प्राप्तव्यमचिरात्पुत्र त्वया हीतश्चतुर्गुणम् ।
साम्राज्यं किंनरादीनामशेषाणां द्युचारिणाम् ।। 8.7.१००
तस्मिन्प्राप्ते च दद्यास्त्वं वेद्यर्धमपि दक्षिणम् ।
तत्कुञ्जरकुमाराय सविशेषपदे स्थितः ।। १०१
ये चात्र निहता वीराः समित्युभयपक्षयोः ।
उत्तिष्ठन्त्यक्षतैरङ्गैर्जीवन्तः सर्व एव ते ।। १०२
इत्युक्त्वान्तर्दधे शंभुः सर्वे चोत्तस्थुरक्षताः ।
सुप्तप्रबुद्धा इव ते येऽत्राभूवन्रणे हताः ।। १०३
अथ सूर्यप्रभो मूर्ध्नि धृतशांभवशासनः ।
गत्वा विविक्तं विस्तीर्णं भूमिभागमरिंदमः ।। १०४
उपविष्टो महास्थाने श्रुतशर्माणमागतम् ।
निजसिंहासनार्धे तमुपावेशितवान्स्वयम् ।। १०५
तद्वयस्याः प्रभासाद्या वयस्याः श्रुतशर्मणः ।
दामोदराद्याश्च तयोः पार्श्वयोः समुपाविशन् ।। १०६
उपाविशत्सुनीथश्च मयश्चान्ये च दानवाः ।
आसनेषु यथार्हेषु तथा विद्याधरेश्वराः ।। १०७
ततस्तत्राययुः सप्तपातालपतयोऽखिलाः ।
प्रह्लादप्रमुखा दैत्यदानवेन्द्राः प्रहर्षतः ।। १०८
शक्रश्च लोकपालादियुतो गुरुपुरःसरः ।
विद्याधरः सुमेरुश्च स सुवासकुमारकः ।। १०९
दनुप्रभृतयः सर्वाश्चाययुः कश्यपाङ्गनाः ।
भूतासनविमानेन भार्याः सूर्यप्रभस्य च ।। 8.7.११०
सर्वेष्वेषु कृतान्योन्यप्रीत्याचारोपवेशिषु ।
सिद्धिर्नाम सखी दन्वास्तद्वाक्येनैवमभ्यधात् ।। १११
भो भोः सुरासुरा देवी दनुर्युष्मान्ब्रवीत्यसौ ।
अस्मिन्प्रीतिसमाजे यत्सौमनस्यं सुखं च नः ।। ११२
तद्ब्रूत यदि युष्माभिरनुभूतं कदाचन ।
तदन्योन्यं न कर्तव्यो विरोधो दुःखदारुणः ।। ११३
हिरण्याक्षादिभिर्ज्येष्ठैर्द्युराज्याय कृतः स यैः ।
ते गताः शक्र एवाद्य ज्येष्ठस्तत्का विरोधिता ।। ११४
निर्वैरसुखितास्तस्माद्वर्तध्वमितरेतरम् ।
अस्माकं येन संतोषः शिवं च जगतां भवेत् ।। ११५
इति सिद्धिमुखाच्छ्रुत्वा भगवत्या दनोर्वचः ।
शक्रेण वीक्षितमुखो बृहस्पतिरुवाच ताम् ।। ११६
नानुबन्धोऽस्ति देवानामसुरान्प्रति कश्चन ।
विकुर्वते न यद्येते मिथ्या देवानिमान्प्रति ।। ११७
इत्युक्ते देवगुरुणा दानवेन्द्रो मयोऽब्रवीत् ।
स्याद्विकारोऽसुराणां चेत्तद्दद्यान्नमुचिः कथम् ।। ११८
उच्चैःश्रवसमिन्द्राय मृतसंजीवनं हयम् ।
प्रबलश्च शरीरं स्वं सुरेभ्यः कथमर्पयेत् ।। ११९
त्रैलोक्यं हरये दत्त्वा विशेत्कारां कथं बलिः ।
अयोदेहः कथं देहं दद्याद्वा विश्वकर्मणे ।। 8.7.१२०
अधिकं वा कियद्वच्मि नित्यसंभाविनोऽसुराः ।
छद्मना चेन्न बाध्यन्ते तदेषां नास्ति विक्रिया ।। १२१
एवं मयासुरेणोक्ते सिद्ध्यावोचि तथा यथा ।
प्रीतिं देवासुराश्चकुर्मिथः कण्ठग्रहोत्तरम् ।। १२२
तावद्भवान्या प्रहिता प्रतीहारी जयाभिधा ।
अत्रागात्पूजिता सर्वैः सुमेरुमवदच्च सा ।। १२३
देव्याहं प्रेषिता त्वां प्रत्यादिष्टं च तया तव ।
अस्ति ते कन्यका नाम्ना कामचूडामणिः सुता ।। १२४
सूर्यप्रभाय तां देहि शीघ्रं भक्ता हि सा मम ।
इत्युक्तो जयया प्रह्वः सुमेरुः प्रत्युवाच ताम् ।। १२५
यदादिशति देवी मां परमोऽनुग्रहो ह्ययम् ।
दैवेनाप्ययमेवार्थः प्रागादिष्टो ममाभवत् ।। १२६
एवं सुमेरुणा प्रोक्ता प्राह सूर्यप्रभं जया ।
त्वयैषा सर्वभार्याणां कर्तव्योपरिवर्तिनी ।। १२७
सर्वाभ्योऽभिमतान्याभ्यस्तवाप्येषा भविष्यति ।
इत्यादिष्टं तवाप्यद्य देव्या गौर्या प्रसन्नया ।। १२८
इत्युक्त्वान्तर्दधे सूर्यप्रभेणाभ्यर्चिता जया ।
अत्रैवाह्नि सुमेरुश्च लग्नं निश्चितवान्द्रुतम् ।। १२९
वेदीमकारयत्सोऽत्र सद्रत्नस्तम्भकुट्टिमाम् ।
युक्तां तद्रश्मिजालेन पिहितेनेव वह्निना ।। 8.7.१३०
आनाययामास च तां कामचूडामणिं सुताम् ।
निपीयमानलावण्यां लोलैर्देवासुरेक्षणैः ।। १३१
उमा हिमवतो जाता जाता चेयं सुमेरुतः ।
इतीव तत्समानेन सौन्दर्येण समाश्रिताम् ।। १३२
ततो वेदीं समारोप्य कृतकौतुकशोभिताम् ।
प्रसाधिता सुमेरुस्तां ददौ सूर्यप्रभाय सः ।। १३३
सूर्यप्रभश्च जग्राह कामचूडामणेस्तदा ।
दनुप्रभृतिभिर्बद्धकङ्कणं पाणिपङ्कजम् ।। १३४
ददौ लाजविसर्गे च प्रथमे तत्क्षणागता ।
जया भवानीप्रहिता दिव्यां मालामनश्वरीम् ।। १३५
सुमेरुश्चाप्यनर्घाणि रत्नानि प्रददौ तदा ।
ऐरावणात्समुत्पन्नं दिव्यं च वरवारणम् ।। १३६
द्वितीये लाजमोक्षे च जया रत्नावलीमदात् ।
यया कण्ठस्थया मृत्युः क्षुत्तृष्णा च न बाधते ।। १३७
सुमेरुश्च ददाति स्म द्विगुणं रत्नसंचयम् ।
उच्चैःश्रवःप्रसूतं च हयरत्नमनुत्तमम् ।। १३८
लाजमोक्षे तृतीये च ददावेकावलीं जया ।
यौवनं क्षीयते नैव यया कण्ठावलग्नया ।। १३९
सुमेरुस्त्रिगुणं राशिं रत्नानां प्रवितीर्य च ।
दत्तवान्गुलिकां दिव्यां सर्वसिद्ध्युपयोगिनीम् ।। 8.7.१४०
ततो विवाहे निर्वृत्ते सुमेरुः ससुरासुरान् ।
विद्याधरान्देवमातः सर्वानेवं व्यजिज्ञपत् ।। १४१
भोक्तव्यमद्य युष्माभिः सर्वैरेव गृहे मम ।
अनुग्रहश्च कर्तव्यो बद्धो मूर्ध्नि मयाञ्जलिः ।। १४२
एवमभ्यर्थनां तस्य सुमेरोः सर्व एव ते ।
यावन्नेच्छन्ति तावच्च नन्दी तत्रागतोऽभवत् ।। १४३
स तानवादीत्प्रणतानादिष्टं वस्त्रिशूलिना ।
गृहे सुमेरोर्भोक्तव्यमेष ह्यस्मरपरिग्रहः ।। १४४
एतदन्नेषु भुक्तेषु तृप्तिः स्याच्छाश्वती च वः ।
इति नन्दिमुखाच्छ्रुत्वा सर्वे सत्प्रतिपेदिरे ।। १४५
ततोऽत्राजग्मुरमिताः शंकरप्रहिता गणाः ।
विनायकमहाकालवीरभद्राद्यधिष्ठिताः ।। १४६
ते च भोजनसज्जां तां वेदिं कृत्वा यथाक्रमम् ।
तानुपावेशयन्देवद्युचरासुरमानुषान् ।। १४७
उपाहरन्त तेभ्यश्च विद्याक्लृप्तान्सुमेरुणा ।
आहाराञ्शंकरादिष्टकामधेनूद्भवांस्तथा ।। १४८
एकैकस्य यथार्हं च तस्थुरिच्छाविधायिनः ।
वीरभद्रमहाकालभृङ्गिप्रभृतयः सुराः ।। १४९
पदे पदे च संतोषमिलद्दयुचरचारणम् ।
तदा संगीतकमभूद्दिव्यस्त्रीनृत्यसुन्दरम् ।। 8.7.१५०
आहारान्ते च सर्वेषां तेषां नन्दीश्वरादयः ।
ददुर्दिव्यानि माल्यानि वस्त्राण्याभरणानि च ।। १५१
एवं संमान्य देवादीन्नन्दिप्रभृतयोऽखिलाः ।
गणेश्वरा गणैः सर्वैः सह जग्मुर्यथागतम् ।। १५२
ततो देवासुराः सर्वे ताश्च तन्मातरो ययुः ।
श्रुतशर्मादयस्ते चाप्यामन्त्र्य स्वं स्वमास्पदम् ।। १५३
सूर्यप्रभः सभार्यश्च सवयस्यवधूयुतः ।
विमानेन ययावाद्यं तत्सुमेरुतपोवनम् ।। १५४
प्रेषयामास हर्षं च स्ववयस्यं महीभृताम् ।
रत्नप्रभस्य च भ्रातुराख्यातुमुदयं निजम् ।। १५५
दिनान्ते च स सद्रत्नपर्यङ्कं साधुनिर्मितम् ।
कामचूडामणेर्वध्वा वासवेश्म विवेश तत् ।। १५६
तत्रैतां च घनाश्लेषदशनच्छदखण्डनैः ।
त्याजयित्वा शनैर्लज्जां नवोढासुलभां क्रमात् ।। १५७
अनिर्वाच्यं नवं मुग्धविदग्धमधुरं रतम् ।
अनास्वादितमन्याभ्यः सिषेवे स तया सह ।। १५८
इदानीं बहिरन्यासां निवेशो हृदयेऽस्तु मे ।
अन्तः पुनस्तवैकस्या इति तां चान्वरञ्जयत् ।। १५९
ततो रतान्तसुप्तस्य प्रियाश्लेषसुखावहा ।
शनैः समाप्तिमगमन्निशा निद्रा च तस्य सा ।। 8.7.१६०
प्रभाते च स उत्थाय गत्वा सूर्यप्रभस्ततः ।
आद्यास्ता रञ्जयामास निजभार्याः सह स्थिताः ।। १६१
तास्तं नववधूरक्तं यावत्परिहसन्ति च ।
सनर्मवक्रमधुरस्निग्धमुग्धैर्वचःक्रमैः ।। १६२
द्वाःस्थेनावेदितस्तावदागत्य प्रणिपत्य च ।
विद्याधरः सुषेणाख्यः कृतिनं तं व्यजिज्ञपत् ।। १६३
देव त्रिकूटनाथाद्यैः सर्वैर्विद्याधरेश्वरैः ।
प्रेषितोऽहमिहैवं च देवं विज्ञापयन्ति ते ।। १६४
ऋषभाद्रौ तृतीयेऽह्नि ह्यभिषेकः शुभस्तव ।
संवाद्यतां तत्सर्वेषामुद्यमोऽत्र विधीयताम् ।। १६५
तच्छ्रुत्वा प्रत्यवोचत्तं दूतं सूर्यप्रभस्तदा ।
गच्छ त्रिकूटाधिपतिप्रभृतीन्ब्रूहि मद्गिरा ।। १६६
भवन्त एव कुर्वन्तु समारम्भं वदन्तु च ।
आत्मनैव परं सज्जा वयमेते स्थिताः पुनः ।। १६७
सवादनं तु सर्वेषां करिष्यामो यथायथम् ।
इत्यात्तप्रतिसंदेशः सुषेणः स ततो ययौ ।। १६८
सूर्यप्रभोऽपि चैकैकं प्रभासप्रभृतीन्सखीन् ।
देवानां याज्ञवल्क्यादिमुनीनां भूभृतां तथा ।। १६९
विद्याधरासुराणां च विससर्ज पृथक्पृथक् ।
निमन्त्रणाय सर्वेषां स्वाभिषेकमहोत्सवे ।। 8.7.१७०
स्वयं जगाम चैकाकी कैलासं पर्वतोत्तमम् ।
हरस्य चाम्बिकायाश्च निमन्त्रणकृतोद्यमः ।। १७१
आरोहंश्च तमद्राक्षीच्छुभ्रभूतिसितं गिरिम् ।
सेव्यं देवर्षिसिद्धानां द्वितीयमिव शंकरम् ।। १७२
अर्धादधिकमारुह्य दुरारोहं ततः परम् ।
स तं पश्यन्ददर्शात्र वैद्रुमं द्वारमेकतः ।। १७३
यदा प्रवेशं नैवात्र सिद्धिमानप्यवाप सः ।
तदैकाग्रेण मनसा स्तौति स्म शशिशेखरम् ।। १७४
ततस्तद्द्वारमुद्घाट्य पुमान्गजमुखोऽब्रवीत् ।
एहि प्रविश तुष्टस्ते हेरम्बो भगवानिति ।। १७५
ततः सूर्यप्रभस्तत्र प्रविश्यान्तः सविस्मयः ।
उपविष्टे महाभोगे ज्योतीरसशिलातले ।। १७६
द्वादशादित्यसंकाशमेकदंष्ट्रं गजाननम् ।
लम्बोदरं त्रिनेत्रं च ज्वलत्परशुमुद्गरम् ।। १७७
विनायकं परिवृतं नानाप्राणिमुखैर्गणैः ।
ददर्शाथ ववन्दे च पादयोः प्रणिपत्य तम् ।। १७८
सोऽपि तं विघ्नजित्प्रीतः पृष्ट्वागमनकारणम् ।
आरोहानेन मार्गेणेत्यवोचत्स्निग्धया गिरा ।। १७९
तेन सूर्यप्रभः सोऽन्यामारूढः पञ्चयोजनीम् ।
पद्मरागमयं द्वारमपश्यदपरं महत् ।। 8.7.१८०
अनवाप्तप्रवेशश्च तत्रापि स पिनाकिनम् ।
देवं नामसहस्रेण तुष्टावानन्यमानसः ।। १८१
ततः कुमारपुत्रेण स्वयं द्वारं विवृत्य तत् ।
उक्तात्मना विशाखाख्येनान्तः प्रावेश्यतात्र सः ।। १८२
प्रविष्टश्च ददर्शात्र स्कन्दं ज्वालानलद्युतिम् ।
युक्तं शाखविशाखाद्यैः सदृशैः पञ्चभिः सुतैः ।। १८३
स जातमात्रकप्रह्वैर्दुष्टग्रहशिशुग्रहैः ।
वृतं तं कोटिसंख्याकैर्गणेशैश्चरणानतैः ।। १८४
तेनापि परितुष्टेन पृष्ट्वा कारणमागमे ।
तस्मारोहणमार्गोऽत्र व्यादिष्टः शरजन्मना ।। १८५
एवं क्रमेण चान्यानि रत्नद्वाराणि पञ्च सः ।
सभैरवमहाकालवीरभद्रेण नन्दिना ।। १८६
भृङ्गिणा चानुगैः साकं निरुद्धानि यथाक्रमम् ।
अतीत्य प्राप पृष्ठेऽद्रेः स्फाटिकं द्वारमुत्तमम् ।। १८७
ततः स्तुवन्देवदेवं रुद्रेष्वेकेन सादरम् ।
प्रवेशितस्तदद्राक्षीच्छंभोः स्वर्गाधिकं पदम् ।। १८८
दिव्यगन्धवहद्वातं सदापुष्पफलद्रुमम् ।
गन्धर्वारब्धसंगीतमप्सरोनृत्तसोत्सवम् ।। १८९
तत्रैकदेशे स्फटिकमयसिंहासने स्थितम् ।
त्रिलोचनं शूलपाणिं स्वच्छस्फटिकसंनिभम् ।। 8.7.१९०
बद्धपिङ्गजटाजूटं चारुचन्द्रार्धशेखरम् ।
पार्श्वस्थया गिरिजया भगवत्योपसेवितम् ।। १९१
सूर्यप्रभः स सानन्दः पश्यति स्म महेश्वरम् ।
उपेत्य चापतत्तस्य सदेवीकस्य पादयोः ।। १९२
ततः पृष्ठे करं दत्त्वा तमुत्थाप्योपवेश्य च ।
किमर्थमागतोऽसीति पप्रच्छ भगवान्हरः ।। १९३
प्रत्यासन्नोऽभिषेको मे संनिधानं तदर्थये ।
प्रभोस्तत्रेति तं सूर्यप्रभः प्रत्यब्रवीच्च सः ।। १९४
ततः शंभुरुवाचैनमियान्क्लिष्टोऽसि तर्हि किम् ।
संनिधानाय किं पुत्र तत एवास्मि न स्मृतः ।। १९५
तदस्तु संनिधास्येऽहमित्युक्त्वा भक्तवत्सलः ।
सोऽन्तिकस्थितमाहूय गणमेकं समादिशत् ।। १९६
गच्छैतमभिषेकार्थमृषभं पर्वतं नय ।
महाभिषेकस्थानं हि तदेषां चक्रवर्तिनाम् ।। १९७
इत्यादिष्टो भगवता स तं सूर्यप्रभं गणः ।
प्रदक्षिणीकृतेशानमुत्सङ्गे प्रणतोऽग्रहीत् ।। १९८
नीत्वा संस्थापयामास तस्मिन्नृषभपर्वते ।
स्वसिद्ध्या तत्क्षणेनैव ययौ चादर्शनं ततः ।। १९९
सूर्यप्रभस्य चात्रस्थस्याययुः स्ववयस्यकाः ।
कामचूडामणिमुखा भार्या विद्याधराधिपाः ।। 8.7.२००
सेन्द्राश्च देवा असुराः समयाद्या महर्षयः ।
श्रुतशर्मा सुमेरुश्च स सुवासकुमारकः ।। २०१
सूर्यप्रभश्च सर्वांस्तान्यथोचितममानयत् ।
उक्तरुद्रादिवृत्तान्तमभ्यनन्दंश्च तेऽपि तम् ।। २०२
अथ विविधौषधिसहितं नदीनदाम्भोधितीर्थसंभूतम् ।
मणिकनकमयैः कुम्भैः स्वयमानिन्युर्जलं प्रभासाद्याः ।। २०३
तावद्गौरीसहितो भगवानत्राययौ पुरारातिः ।
देवासुरविद्याधरनृपतिमहर्षिप्रणम्यमानाङ्घ्रिः ।। २०४
सर्वेषु तेषु सुरदानवखेचरेषु पुण्याहघोषमुखरेष्वखिलैर्जलैस्ते ।
सूर्यप्रभं तमृषयो द्युचराधिराज्ये सिंहासने समुपवेशितमभ्यषिञ्चन् ।। २०५
बबन्ध पट्टं मुकुटं च तस्य स प्रहृष्य विज्ञानमयो मयासुरः ।
ननाद तूर्यैः सह देवदुन्दुभिर्वराप्सरोनृत्तपुरःसरो दिवि ।। २०६
तां च महर्षिसमूहः स कामचूडामणिं समभिषिच्य ।
सूर्यप्रभस्य विदधे तस्य समुचितां महादेवीम् ।। २०७
ततो गतेषु त्रिदशासुरेषु सूर्यप्रभो बन्धुसुहृद्वयस्यैः ।
सहात्र विद्याधरचक्रवर्ती महाभिषेकोत्सवमाततान ।। २०८
दिनैश्च वेद्यर्धकमुत्तरं तद्दत्त्वा हरोक्तं श्रुतशर्मणे सः ।
अन्याः प्रियाः प्राप्य समं वयस्यैर्भेजे चिरं खेचरराजलक्ष्मीम् ।। २०९
एवं हरप्रसादप्रभावतः प्रापि मानुषेणापि ।
सूर्यप्रभेण पूर्वं विद्याधरचक्रवर्तित्वम् ।। 8.7.२१०
इति विद्याधरधुर्यो व्याख्याय कथां स वत्सराजाग्रे ।
वज्रप्रभः प्रणम्य च नरवाहनदत्तमुद्ययौ गगनम् ।। २११
तस्मिन्गते च नरवाहनदत्तदेवो देव्या स्वया मदनमञ्चुकया समेतः ।
वत्सेश्वरस्य पितुरास्त गृहे स वीरो विद्याधरेन्द्रपदलाभमुदीक्षमाणः ।। २१२
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे सूर्यप्रभलम्बके सप्तमस्तरङ्गः ।
समाप्तश्चायं सूर्यप्रभलम्बकोऽष्टमः ।