सामग्री पर जाएँ

कथासरित्सागरः/लम्बकः ७/तरङ्गः ८

विकिस्रोतः तः

ततोऽहनि परे प्राप्तः सोत्कां रत्नप्रभां प्रियाम् ।
शीघ्रं प्रत्यागमिष्यामीत्याश्वास्याखेटकाय सः ।। १
वत्सेशेन समं पित्रा वयस्यैश्चाटवीं ययौ ।
नरवाहनदत्तोऽश्वैर्गजैश्च परिवारितः ।। २
तत्र भिन्नेभकुम्भानां नखोदरपरिच्युतैः ।
सिंहानां हतसुप्तानामुप्तबीजेव मौक्तिकैः ।। ३
व्याघ्राणां भल्ललूनानां दंष्ट्राभिः साङ्कुरेव च ।
सपल्लवेव क्षतजैर्हरिणानां परिस्रुतैः ।। ४
निमग्नकङ्कपत्त्राङ्कैः क्रोडैः स्तबकितेव च ।
शरीरैः शरभाणां च पतितैः फलितेव च ।। ५
बभूव तस्य निपतद्धनशब्दशिलीमुखा ।
प्रीतये मृगयालीलालता शोभितकानना ।। ६
शनैः श्रान्तः स विश्रम्य प्रविवेश वनान्तरम् ।
हयारूढः सहैकेन गोमुखेनाश्वसादिना ।। ७
तत्रारेभे च गुलिकाक्रीडां कामपि तत्क्षणम् ।
तावच्च तापसी कापि पथा तेन किलाययौ ।। ८
तस्यास्तस्य कराद्भ्रष्टा गुलिका मूर्ध्नि चापतत् ।
ततो विहस्य किंचित्सा तापसी तमभाषत ।। ९
एवमेव मदोऽयं चेत्तव तद्यद्यवाप्स्यसि ।
जातु कर्पूरिकां भार्यां ततः कीदृग्भविष्यति ।। १०
एतच्छ्रुत्वावरुह्यैव तुरगाच्चरणानतः ।
नरवाहनदत्तस्तां तापसीं निजगाद सः ।। ११
त्वं न दृष्टा मया दैवाद्गुलिका चात्र मे गता ।
प्रसीद तद्भगवति क्षमस्व स्खलितं मम ।। १२
तच्छ्रुत्वा नास्ति मे पुत्र कोप इत्यभिधाय च ।
तापसी सा जितक्रोधा तमाशीर्भिरसान्त्वयत्।। १३
ततश्च वशिनी मत्वा प्रबुद्धां सत्यतापसीम् ।
नरवाहनदत्तस्तां पप्रच्छ विनयेन सः ।। १४
कैषा कर्पूरिका नाम भगवत्युदिता त्वया ।
एतदादिश तुष्टासि मयि चेत्कौतुकं हि मे ।। ३४
इत्युक्तवन्तं प्रणतं तापसी तं जगाद सा ।
अस्ति पारेम्बुधि परं नाम्ना कर्पूरसंभवम् ।। १६
अन्वर्थस्तत्र राजास्ति कर्पूरक इति श्रुतः ।
तस्य कर्पूरिका नाम सुतास्ति वरकन्यका ।। १७
एकां विलोक्य कमलां निर्मथ्यापहृतां सुरैः ।
या द्वितीयेव निक्षिप्य तत्र गोपायिताब्धिना ।। १८
पुरुषद्वेषिणी सा च विवाहं नाभिवाञ्छति ।
त्वय्युपेते यदि परं भविष्यति त्वदर्थिनी ।। १९
तत्तत्र गच्छ पुत्र त्वं तां च प्राप्स्यसि सुन्दरीम् ।
गच्छतश्चात्र तेऽटव्यां महाक्लेशो भविष्यति ।। २०
मोहस्तत्र न कार्यस्ते सर्वं स्वन्तं हि भावि तत् ।
इत्युक्त्वैव खमुत्पत्य तापसी सा तिरोदधे ।। २१
नरवाहनदत्तोऽथ तद्वाणीमदनाज्ञया ।
आकृष्टः स तमाह स्म गोमुखं पार्श्ववर्तिनम् ।। २२
एहि कर्पूरिकापार्श्वं पुरं कर्पूरसंभवम् ।
गच्छावस्तामदृष्ट्वा हि न क्षणं स्थातुऽमुत्सहे ।। २३
तच्छ्रुत्वा गोमुखोऽवादीद्देवालं साहसेन ते ।
क्व त्वं क्वाब्धिः पुरं तत्क क्व सोऽध्वा कन्यका क्व सा ।। २४
नाम्नि श्रुते किमेकाकी त्यक्तदिव्याङ्गनाजनः ।
निरभिप्रायसंदिग्धामभिधावसि मानुषीम् ।। २५
एवं स गोमुखेनोक्तो वत्सराजसुतस्तदा ।
अब्रवीत्सिद्धतापस्या न तस्या वचनं मृषा ।। २६
तन्मयावश्यगन्तव्यं प्राप्तुं तां राजकन्यकाम् ।
इत्युक्त्वा स हयारूढः प्रतस्थे तत्क्षणं ततः ।। २७
अन्वगात्स च तं तूष्णीमनिच्छन्नपि गोमुखः ।
अकुर्वन्वचनं भृत्यैरनुगम्यः परं प्रभुः ।। २८
तावद्वत्सेश्वरोऽप्यागात्कृताखेटो निजां पुरीम् ।
मन्वानः स तमायान्तं सुतं स्वबलमध्यगम् ।। २९
स्वबलं तच्च तस्यागान्मरुभूत्यादिभिः सह ।
पुरीं तामेव मत्वा तं सैन्यमध्यस्थितं प्रभुम् ।। ३०
तत्र प्राप्ता विचिन्वन्तस्ते बुद्ध्वा तमनागतम् ।
वत्सेश्वरादयो जग्मुः सर्वे रत्नप्रभान्तिकम् ।। ३१
सा चादौ तच्छ्रुतेनार्ता ध्यातया निजविद्यया ।
आख्यातदयितोदन्ता विग्नं श्वशुरमब्रवीत् ।। ३२
कर्पूरिकां राजसुतां तापस्या कथितां वने ।
आर्यपुत्रो गतः प्राप्तुं पुरं कर्पूरसंभवम् ।। ३३
शीघ्रं च कृतकार्यः सन्निहैष्यति सगोमुखः ।
तदलं चिन्तयैतद्धि विद्यातोऽधिगतं मया ।। ३४
इत्युक्त्वाश्वासयत्सा तं वत्सेशं सपरिच्छदम् ।
रत्नप्रभान्यां विद्यां च भर्तुः प्रायुङ्क्त तस्य सा ।। ३५
नरवाहनदत्तस्य पथि क्लेशोपशान्तये ।
नेर्ष्यां भर्तृहितैषिण्यो गणयन्ति हि सुस्त्रियः ।। ३६
तावच्च दूरमध्वानं स ययौ वाजिपृष्ठगः ।
नरवाहनदत्तोऽस्यामटव्यां गोमुखान्वितः ।। ३७
अथाकस्मादुपेत्यात्र कुमारी पथ्युवाच तम् ।
अहं मायावती नाम विद्या रत्नप्रभेरिता ।। ३८
रक्षाम्यदृश्या मार्गे त्वां निश्चिन्तस्तद्व्रजाधुना ।
इत्युक्त्वा रूपिणी विद्या तिरोऽभूत्सास्य पश्यतः ।। ३९
तत्प्रभावात्ततः शान्तक्षुत्तृष्णः पथि स व्रजन् ।
नरवाहनदत्तस्तां स्तुवन्रत्नप्रभां प्रियाम् ।। ४०
सायं स्वच्छसरः प्राप्य वनं स्वादुतरैः फलैः ।
जलैश्चाहारपानादि स्नातश्चक्रे सगोमुखः ।। ४१
नक्तं च तत्र संयम्य दत्तघासौ हयावधः ।
मन्त्रिद्वितीयो वासार्थमारुरोह महातरुम् ।। ४२
तस्योरुशाखासंविष्टो वित्रस्तहयहेषितैः ।
प्रबुद्धः सोऽन्तराधस्तादपश्यत्सिंहमागतम् ।। ४३
दृष्ट्वा चावतितीर्षुं तमश्वार्थे गोमुखोऽब्रवीत् ।
अहो देहानपेक्षः सन्नमन्त्रेणैव चेष्टसे ।। ४४
शरीरमूला हि नृपा मन्त्रमूला च राजता ।
युयुत्ससे तत्तिर्यग्भिर्नखदंष्ट्रायुधैः कथम् ।। ४५
एतद्रक्षार्थमेवावामिहारूढौ हि संप्रति ।
इति गोमुखवाग्रुद्धो युवराजः स तत्क्षणम् ।। ४६
सिंहं तं तुरगं घ्नन्तं दृष्ट्वा छुरिकया द्रुतम् ।
आजघान तरोः पृष्ठात्क्षिप्तया स निमग्नया ।। ४७
स तथा तेन विद्धोऽपि तं हत्वैव हयं बली ।
सिंहो व्यापादयामास द्वितीयमपि वाजिनम् ।। ४८
ततो वत्सेश्वरसुतः खड्गमादाय गोमुखात् ।
तेन क्षिप्तेन मध्ये तं सिंहं द्वेधा चकार सः ।। ४९
अवतीर्य च संगृह्य कृपाणीं सिंहदेहतः ।
खड्गं चारुह्य सोऽत्रैव वृक्षे रात्रिमुवास ताम् ।। ५०
प्रातस्ततोऽवतीर्णश्च प्रतस्थे गोमुखान्वितः ।
नरवाहनदत्तोऽतस्तां स कर्पूरिकां प्रति ।। ५१
अथ पद्भ्यां प्रयान्तं तं सिंहेन हतवाहनम् ।
दृष्ट्वा विनोदयन्नेवमुवाच पथि गोमुखः ।। ५२
देव प्रासङ्गिकीमेतां कथामाख्यामि ते शृणु ।
अस्तीहैरावती नाम नगरी विजितालका ।। ५३
तस्यामभूत्परित्यागसेनो नाम महीपतिः ।
बभूवतुश्च तस्य द्वे देव्यौ प्राणसमे प्रिये ।। ५४
एका स्वमन्त्रितनया नामतोऽधिकसंगमा ।
नाम्ना तु काव्यालंकारा द्वितीया राजवंशजा ।। ५५
ताभ्यां समं च सोऽपुत्रो राजा पुत्रार्थमम्बिकाम् ।
आराधयन्निराहारो दर्भशायी व्यधात्तपः ।। ५६
ततः सा तं तपस्तुष्टा स्वप्ने दत्त्वा फलद्वयम् ।
दिव्यं समादिशत्साक्षाद्भवानी भक्तवत्सला ।। ५७
उत्तिष्ठ देहि दारेभ्यो भक्ष्यमेतत्फलद्वयम् ।
ततो राजन्प्रवीरौ ते जनिष्येते सुतावुभौ ।। ५८
इत्युक्त्वान्तर्दधे गौरी प्रबुद्धः स च भूपतिः ।
ननन्द प्रातरुत्थाय हस्ते पश्यन्नुभे फले ।। ५९
स्वप्नेन तेन चानन्द्य वर्णितेन परिग्रहम् ।
स्नातो मृडानीमभ्यर्च्य चकार व्रतपारणम् ।। ६०
नक्तं चोपेत्य तां पूर्वं राज्ञीमधिकसंगमाम् ।
फलमेकं ददौ तस्यै सा च तद्बुभुजे तदा ।। ६१
ततस्तन्मन्दिरे तस्यामुवास स नृपो निशि ।
तत्पितुर्मन्त्रिमुख्यस्य निजस्य किल गौरवात् ।। ६२
तथात्र निदधे संप्रत्यात्मशय्याशिरोन्तिके ।
द्वितीयस्याः कृते देव्या द्वितीयं कल्पितं फलम् ।। ६३
सुप्तस्यात्र नृपस्याथ राज्ञी साधिकसंगमा ।
उत्थायात्मन एव द्वाविच्छन्ती सदृशौ सुतौ ।। ६४
शीर्षान्ताद्भक्षयामास द्वितीयमपि तत्फलम् ।
निसर्गसिद्धो नारीणां सपत्नीषु हि मत्सरः ।। ६५
प्रातश्चोत्थाय चिन्वानं तत्फलं तं महीपतिम् ।
मयैव तत्फलं भुक्तं द्वितीयमिति साब्रवीत् ।। ६६
ततः स राजा विमना निर्गत्यातीत्य वासरम् ।
नक्तं तस्या द्वितीयस्या देव्या वासगृहं ययौ ।। ६७
तत्र तत्फलमेकं तां याचमानां च सोऽब्रवीत् ।
सुप्तस्य मे तदप्यश्नात्सपत्नी ते छलादिति ।। ६८
ततः सा तनयोत्पत्तिहेतुमप्राप्य तत्फलम् ।
बभूव काव्यालंकारा राज्ञी तूष्णीं सुदुःखिता ।। ६९
गच्छत्स्वस्य दिनेष्वत्र राज्ञी साधिकसंगमा ।
सगर्भाभूदसूताथ काले द्वौ युगपत्सुतौ ।। ७०
राजापि स तदुत्पत्तिफलितस्वमनोरथः ।
नन्दति स्म परित्यागसेनः कृतमहोत्सवः ।। ७१
तयोश्च सुतयोर्ज्येष्ठमिन्दीवरनिभेक्षणम् ।
नाम्नेन्दीवरसेनं स नृपश्चक्रेऽद्भुताकृतिम् ।। ७२
विदधे च कनीयांसमनिच्छासेनमाख्यया ।
तज्जनन्या यतो भुक्तं फलं तत्तदनिच्छया ।। ७३
अथात्र तस्य राज्ञी सा द्वितीया भूमिपस्य तत् ।
आलोक्य काव्यालंकारा सामर्षा समचिन्तयत् ।। ७४
अहो अहं सुतप्राप्तेः सपत्न्या वञ्चितैतया ।
तदेतस्या मयावश्यं कार्या मन्युप्रतिक्रिया ।। ७५
विनाश्यौ तनयावेतावेतदीयौ स्वयुक्तितः ।
इति संचिन्त्य सा तस्थौ तदुपायं विचिन्वती ।। ७६
यथा यथा च तौ तत्र ववृधाते नृपात्मजौ ।
तथा तथास्या ववृधे हृदये वैरपादपः ।। ७७
क्रमेण यौवनस्थौ च तौ विज्ञापयतः स्म तम् ।
राजपुत्रौ स्वपितरं जिगीषू भुजशालिनौ ।। ७८
अस्त्रेषु शिक्षितौ तावदावां संप्राप्तयौवनौ ।
तद्भुजान्विफलानेतान्बिभ्रतौ कथमास्वहे ।। ७९
क्षत्रियस्याजिगीषस्य धिग्बाहू धिक्च यौवनम् ।
अतोऽनुजानीह्यधुना तात दिग्विजयाय नौ ।। ८०
इति सून्वोर्वचः श्रुत्वा राजा हृष्टोऽनुमन्य सः ।
यात्रारम्भं परित्यागसेनः संविदधे तयोः ।। ८१
यद्यत्र संकटं जातु युवयोः स्यात्तदाम्बिका ।
स्मर्तव्यार्तिहरा देवी तया दत्तौ हि मे युवाम् ।। ८२
इत्युक्त्वा च स तौ राजा यात्रायै प्राहिणोत्सुतौ ।
युक्तौ सैन्यैः ससामन्तेर्जनन्या कृतमङ्गलौ ।। ८३
निजं मन्त्रिप्रधानं च पश्चान्मातामहं तयोः ।
प्रज्ञासहायं व्यसृजन्नाम्ना प्रथमसंगमम् ।। ८४
अथ तौ राजपुत्रौ द्वौ सबलौ भ्रातरौ क्रमात् ।
गत्वा प्राचीं दिशं पूर्वं जिग्यतुः प्राज्यविक्रमौ ।। ८५
ततोऽप्रतिहतौ वीरौ मिलितानेकपार्थिवौ ।
जेतुं सिद्धप्रतापौ तौ जग्मतुर्दक्षिणां दिशम् ।। ८६
तां च वार्तां तयोः श्रुत्वा पितरौ तौ ननन्दतुः ।
जज्वालापरमाता तु सान्तर्विद्वेषवह्निना ।। ८७
एताभ्यां भुजदर्पेण पृथ्वीं जित्वा निहत्य माम् ।
राज्यं मदीयं स्वीकर्तुं मत्पुत्राभ्यां विचिन्तितम् ।। ८८
तद्यूयं मयि भक्ताश्चेत्तदेतावत्र मत्सुतौ ।
अविचार्यैव युष्माभिर्निहन्तव्यावुभावपि ।। ८३
इति तत्कटकस्थेभ्यः सामन्तेभ्यस्ततः शठा ।
राजादेशं तदा रात्री तन्नाम्नैवाभिलिख्य सा ।। ९०
संधिविग्रहकायस्थेनाहृतेनार्थसंचयैः ।
उपांशु काव्यालंकारा व्यसृजल्लेखहारकम् ।। ९१
स च गुप्तं तयोर्गत्वा कटकं राजपुत्रयोः ।
सामन्तेभ्यो ददौ तेभ्यस्ताँल्लेखाँल्लेखहारकः ।। ९२
ते वाचयित्वा तान्सर्वे राजनीतिं सुकर्कशाम् ।
विचिन्त्य तां प्रभोराज्ञामनुल्लङ्घ्यामवेत्य च ।। ९३
रात्रीं मिलित्वा संमन्त्र्य निहन्तु तौ नृपात्मजौ ।
विवशा निश्चयं चक्रुस्तद्गुणावर्जिता अपि ।। ९४
तच्च बुद्ध्वैव तन्मध्यादेकस्य सुहृदो मुखात् ।
तौ स मातामहो मन्त्री राजपुत्रौ सह स्थितः ।। ९५
बोधयित्वा यथातत्त्वमारोप्य वरवाजिनोः ।
अपसारितवान्गुप्तं तत्कालं कटकात्ततः ।। ९६
तेनापसारितौ तौ च व्रजन्तौ निशि तद्युतौ ।
विन्ध्याटवीं विविशतुर्मार्गाज्ञानान्नृपात्मजौ ।। ९७
तत्र रात्रावतीतायां क्रमात्प्रक्राम्यतोस्तयोः ।
मध्याहेऽतितृषाक्रान्तौ हयौ पञ्चत्वमापतुः ।। ९८
स च मातामहो वृद्धः क्षुत्तृष्णाशुष्कतालुकः ।
व्यपद्यतातपक्लान्तः श्रान्तयोः पश्यतोस्तयोः ।। ९९
अनागसौ कथं पित्रा गमितौ स्वो दशामिमाम् ।
सकामां कुर्वता तां नौ दुष्टामपरमातरम् ।। १००
इति तौ तत्र शोचन्तौ दुःखितौ भ्रातरौ ततः ।
प्राक्पित्रैवोपदिष्टां तां देवीं दध्यतुरम्बिकाम् ।। १०१
तस्या ध्यानप्रभावेण शरण्यायास्तदैव तौ ।
विगतक्षुत्क्लमतृषौ बलिनौ च बभूवतुः ।। १०२
ततस्तत्प्रत्ययाश्वस्तावविज्ञातपथश्रमौ ।
तामेव ययतुर्द्रष्टुं विन्ध्यकान्तारवासिनीम् ।। १०३
तत्र प्राप्तौ तदग्रे च भ्रातरौ तावुभावपि ।
प्रारभेतां निराहारौ तामाराधयितुं तपः ।। १०४
अत्रान्तरे च ते तत्र सामन्ताः कटके स्थिताः ।
संभूय यावदायान्ति तयोः पापं चिकीर्षवः ।। १०५
तावत्क्वचिन्न ददृशुर्विचिन्वन्तोऽपि सर्वतः ।
तौ समातामहौ क्वापि राजपुत्रौ पलायितौ ।। १०६
ततश्चाशङ्क्य तं मन्त्रभेदं सर्वेऽपि ते भयात् ।
राज्ञस्तस्य परित्यागसेनस्यान्तिकमाययुः ।। १०७
प्रदर्श्य तस्मै लेखांश्च यथावृत्तं तमब्रुवन् ।
सोऽथ बुद्ध्वा तदुद्भ्रान्तः क्रुद्धस्तानेवमब्रवीत् ।। १०८
नैते मत्प्रहिता लेखा इन्द्रजालं किमप्यदः ।
यूयं च न किमेतावदपि जानीथ बालिशाः ।। १०९
यदनल्पतपःप्राप्तावहं हन्मि कथं सुतौ ।
युष्माभिस्तौ हतावेव सुकृतैः स्वैस्तु रक्षितौ ।। ११०
मातामहेन च तयोर्दर्शितं मन्त्रिताफलम् ।
इत्युक्त्वा तान्स सामन्तान्कायस्थं कूटलेखकम् ।। १११
तं पलायितमप्याशु स्वशक्त्यानाय्य भूपतिः ।
सम्यक्पृष्ट्वा यथावृत्तं यथावन्निगृहीतवान् ।। ११२
भार्यां च काव्यालंकारां तादृक्कार्यविधायिनीम् ।
भूगृहे स निचिक्षेप पापां तां पुत्रघातिनीम् ।। ११३
अविचार्य तु पर्यन्तमतिद्वेषान्धया धिया ।
सहसा हि कृतं पापं कथं मा भूद्विपत्तये ।। ११४
ये च ते राजपुत्राभ्यां सह गत्वाभ्युपागताः ।
सामन्तास्तान्निवार्यान्यांस्तत्पदे स नृपो व्यधात् ।। ११५
तस्थौ च वार्तामन्विष्यन्सततं पुत्रयोस्तयोः ।
तन्मात्रा सह दुःखार्तो धर्मासक्तोऽम्बिकां स्मरन् ।। ११६
तावच्च राजपुत्रस्य तपसा सानुजस्य सा ।
तस्येन्दीवरसेनस्य तुष्टाभूद्विन्ध्यवासिनी ।। ११७
दत्त्वा च खड्गं स्वप्ने सा साक्षादेवं तमादिशत् ।
अस्य प्रभावात्खड्गस्य शत्रूञ्जेष्यसि दुर्जयान् ।। ११८
चिन्तयिष्यसि यत्किंचित्तच्च संपत्स्यते तव ।
द्वावप्येतेन च युवामिष्टसिद्धिमवाप्स्यथः ।। ११९
इत्युक्त्वान्तर्हितायां च देव्यां तस्यां प्रबुध्य सः ।
तत्रेन्दीवरसेनस्तं हस्तस्थं खड्गमैक्षत ।। १२०
अथ खड्गेन तत्स्वप्नवर्णनेन च सोऽनुजम् ।
आश्वास्य चक्रे तद्युक्तः प्रातर्वन्येन पारणम् ।। १२१
ततः प्रणम्य देवीं तां तत्प्रसादहृतक्लमः ।
हृष्टस्तत्खड्गहस्तश्च समं भ्रात्रा ययौ ततः ।। १२२
गत्वा च दूरं स प्रापदेकं पुरवरं महत् ।
कुर्वाणं मेरुशिखरभ्रान्तिं हेममयैर्गृहैः ।। १२३
तत्र रौद्रं ददर्शैकं प्रतोलीद्वारि राक्षसम् ।
पप्रच्छ तं च वीरोऽस्य पुरस्याख्यां पतिं च सः ।। १२४
इदं शैलपुरं नाम नगरं राक्षसाधिपः ।
अध्यास्ते यमदंष्ट्राख्यः स्वामी नः शत्रुमर्दनः ।। १२५
इत्युक्ते रक्षसा तेन यमदंष्ट्रजिघांसया ।
तत्रेन्दीवरसेनोऽथ स प्रवेष्टुं प्रवृत्तवान् ।। १२६
निरुन्धन्तं च तं द्वाःस्थं राक्षसं स महाभुजः ।
एकखड्गप्रहारेण शिरश्छित्त्वा न्यपातयत् ।। १२७
तं हत्वा राजभवनं प्रविश्यान्तर्ददर्श सः ।
शूरः सिंहासनस्थं तं यमदंष्ट्र निशाचरम् ।। १२८
दशघोरमुखं वामपार्श्वस्थितवराङ्गनम् ।
आश्रितेतरपार्श्वं च कुमार्या दिव्यरूपया ।। १२९
दृष्ट्वा च सोऽम्बिकादत्तखड्गहस्तो रणाय तम् ।
आहूतवान्स चोत्तस्थौ खड्गमाकृष्य राक्षसः ।। १३०
प्रवृत्ते च तयोर्युद्धे छिन्नश्छिन्नोऽथ रक्षसः ।
तस्येन्दीवरसेनेन मूर्धा मुहुरजायत ।। १३१
तां तस्य मायामालोक्य तत्पार्श्वस्थितया तया ।
कुमार्या कृतसंज्ञः सन्दर्शनेनानुरक्तया ।। १३२
स राजपुत्रश्छित्त्वैव रक्षसस्तस्य तच्छिरः ।
भूयः खड्गप्रहारेण लघुहस्तो द्विधाकरोत् ।। १३३
तयास्य नष्टमायस्य रक्षसः प्रतिमायया ।
नाजायत पुनर्मूर्धा तेन रक्षो व्यपादि तत् ।। १३४
हते तस्मिन्प्रहृष्टे ते तद्वरस्त्रीकुमारिके ।
सानुजो राजपुत्रोऽसावुपविश्याथ पृष्टवान् ।। १३५
आसीत्किमीदृशेऽमुष्मिन्पुरे द्वाःस्थैकरक्षितः ।
राक्षसोऽयं युवां के च हतेऽस्मिन्किं च हृष्यथः ।। १३६
एतच्छ्रुत्वा तयोर्मध्यात्कुमारी सा जगाद तम् ।
अस्मिञ्शैलपुरे वीरभुजो नामाभवन्नृपः ।। १३७
एषा मदनदंष्ट्रेति भार्या तस्य स चामुना ।
मायया राक्षसेनैत्य यमदंष्ट्रेण भक्षितः ।। १३८
ग्रस्तः परिच्छदश्चास्य सुरूपेति न भक्षिता ।
एका मदनदंष्ट्रैषा भार्या च विहितात्मनः ।। १३९
ततो विविक्ते रम्येऽस्मिन्पुरे निर्माय काञ्चनान् ।
गृहानेषोऽनया क्रीडन्नास्तापास्तपरिच्छदः ।। १४०
अहं च खड्गदंष्ट्राख्या कनीयस्यस्य रक्षसः ।
भगिनी कन्यका दृष्टे त्वयि सद्योऽनुरागिणी ।। १४१
अतो हतेऽस्मिन्हृष्टेयमहं च तदिहाधुना ।
उपयच्छस्व मामार्यपुत्र प्रेमसमर्पिताम् ।। १४२
एवमुक्तवतीं खड्गदंष्ट्रां स परिणीतवान् ।
तामिन्दीवरसेनोऽथ गान्धर्वविधिना तदा ।। १४३
तस्थौ चात्रैव नगरे देवीखड्गप्रभावतः ।
चिन्तितोपनमद्भोगः कृतदारोऽनुजान्वितः ।। १४४
एकदा च कनीयांसं भ्रातरं व्योमगामिनि ।
स्वखड्गचिन्तारत्नस्य प्रभावाद्ध्याननिर्मिते ।। १४५
विमाने वीरमारोप्य सोऽनिच्छासेनमश्रमात् ।
प्राहिणोदन्तिकं पित्रोः स्वोदन्तावेदनाय तम् ।। १४६
सोऽपि गत्वा विमानेन तेन क्षिप्राद्विहायसा ।
पुरीमनिच्छासेनस्तां पितुः प्रापदिरावतीम् ।। १४७
तत्र तौ नन्दयामास पितरौ दर्शनेन सः ।
तीव्रदुःखातपक्लान्तौ चकोराविव चन्द्रमाः ।। १४८
उपेत्य चाङ्घ्रिपतितः पर्यायालिङ्गितस्तयोः ।
निरास पृच्छतोः शङ्कां भ्रातृकल्याणवार्तया ।। १४९
शशंस तं च वृत्तान्तमेतयोः पुरतोऽखिलम् ।
आपातदुःखं सौख्यान्तं भ्रातुरात्मन एव च ।। १५०
शुश्राव चात्र विहितं तादृशं पापया तया ।
द्वेषेणापरमात्रा तदात्मनाशाय कैतवम् ।। १५१
ततः पित्रोत्सववता युक्तो मात्रा च निर्वृतः ।
तस्थावनिच्छासेनोऽत्र पूज्यमानो जनेन सः ।। १५२
याते कतिपयाहे च दृष्टदुःस्वप्नशङ्कितः ।
भ्रातरं प्रति सोत्कश्च पितरं स व्यजिज्ञपत् ।। १५३
गच्छामि युष्मदुत्कण्ठामभिधायानयाम्यहम् ।
आर्येन्दीवरसेनं तमनुजानीहि तात माम् ।। १५४
तच्छ्रुत्वानुमतस्तेन पित्रा पुत्रोत्सुकेन सः ।
जनन्या च विमानं स्वं तदेवारुह्य सत्वरः ।। १५५
प्रायादनिच्छासेनस्तद्व्योम्ना शैलपुरं पुरम् ।
प्रातश्च तत्र प्राविक्षत्स्वभ्रातुस्तस्य मन्दिरम् ।। १५६
ददर्श तत्र निःसंज्ञं पतितस्थितमग्रजम् ।
रुदत्योरन्तिके खड्गदंष्ट्रामदनदंष्ट्रयोः ।। १५७
किमेतदिति संभ्रान्तं पृच्छन्तं तमधोमुखी ।
जगाद खड्गदंष्ट्रा सा निन्दितापरया तया ।। १५८
त्वय्यस्थिते मयि स्नातुं गतायामेकदानया ।
त्वद्भ्रातायं सहारंस्त रहो मदनदंष्ट्रया ।। १५९
क्षणात्स्नात्वागता चाहं साक्षादेनं तथा स्थितम् ।
एतया युक्तमद्राक्षं वाचा च निरभर्त्सयम् ।। १६०
ततोऽनुनीताप्येतेन नियत्येवाविलङ्घया ।
ईर्ष्यया मोहितात्यर्थमहमेवमचिन्तयम् ।। १६१
अहो अगणयित्वैव मामयं भजतेऽपराम् ।
जानेऽस्य खड्गमाहात्म्यकृत्तो दर्पोऽयमीदृशः ।। १६२
तदस्य गोपयाम्येनमिति संचिन्त्य मूढया ।
एतत्खङ्गो निशि क्षिप्तः सुप्तेऽस्मिन्दहने मया ।। १६३
कलङ्कितश्च खड्गोऽसौ गतश्चैव दशामिमाम् ।
अनुतप्तास्मि चाक्रुष्टा ततो मदनदंष्ट्रया ।। १६४
अथैतस्यां च मयि च द्वयोः शोकान्धचेतसोः ।
मरणाध्यवसायिन्योरागतस्त्वमिहाधुना ।। १६५
तद्गृहाण त्वमेवैतत्खड्गं निस्त्रिंशकर्मिकाम् ।
अत्यक्तजातिधर्मां मामेतेनैव निपातय ।। १६६
इत्युक्तः सः तयानिच्छासेनोऽत्र भ्रातृजायया ।
तापादवध्यां मत्वा तां छेत्तुमैच्छन्निजं शिरः ।। १६७
मैवं कार्षीर्मृतो नायं राजपुत्र तवाग्रजः ।
खड्गप्रमादकोपेन देव्या त्वेष विमोहितः ।। १६८
अस्यां च खड्गदंष्ट्रायां मन्तव्या नापराधिता ।
यतः शापावतीर्णानामेतद्धस्तविजम्भितम् ।। १६९
एते चास्य तव भ्रातुः पूर्वभार्ये उभे अपि ।
तत्प्रसादय तामेव देवीमभिमताप्तये ।। १७०
इति तत्कालमुद्भूतामन्तरिक्षात्सरस्वतीम् ।
श्रुत्वा निववृतेऽनिच्छासेनः स मरणोद्यमात् ।। १७१
आरुह्यैव विमानं तद्गृहीत्वाग्निकलङ्कितम् ।
खड्गं तं विन्ध्यवासिन्याः पादमूलं जगाम सः ।। १७२
तत्र मूर्धोपहारेण तोषयिष्यन्नुपोषितः ।
देवीं तामुद्गतामेतां गगनादशृणोद्गिरम् ।। १७३
मा पुत्र साहसं कार्षीर्गच्छ जीवतु तेऽग्रजः ।
जायतां निर्मलः खड्गो भक्त्या तुष्टा ह्यहं तव ।। १७४
एतद्दिव्यं वचः श्रुत्वा तत्क्षणं निष्कलङ्कताम् ।
प्राप्तं दृष्ट्वा करे खड्गं कृत्वा तस्याः प्रदक्षिणम् ।। १७५
मनोरथमिवारुह्य विमानं सिद्धमाशुगम् ।
आजगामोत्सुकोऽनिच्छासेनः शैलपुरं स तत् ।। १७६
तत्र दृष्ट्वोत्थितं सद्यो लब्धसंज्ञं तमग्रजम् ।
जग्राह पादयोः साश्रुः कण्ठे सोऽप्येनमग्रहीत् ।। १७७
त्वया नौ रक्षितो भर्तेत्युभे ते पादयोस्ततः ।
निपत्य भ्रातृजाये तमनिच्छासेनमूचतुः ।। १७८
अथेन्दीवरसेनाय पृच्छते सोऽग्रजाय तत् ।
....... ।। १७९
.............. ।
नाक्रुध्यत्खड्गदंष्ट्रायै भ्रातर्यस्मिंस्तुतोष च ।। १८०
शुश्राव चैतस्य मुखात्पितरौ दर्शनोत्सुकौ ।
मायामपरमात्रा च कृतां तां तद्वियोगदाम् ।। १८१
ततो भ्रात्रार्पितं खड्गं गृहीत्वा तत्प्रभावतः ।
ध्यातोपनतमारुह्य विमानं सुमहच्च सः ।। १८२
सहेममन्दिरो भार्याद्वयेन सह सानुजः ।
तामिन्दीवरसेनः स्वां पुरीमागादिरावतीम् ।। १८३
तत्रावतीर्य नभसो विस्मयालोकितो जनैः ।
राजवेश्म पितुः पार्श्वं विवेश सपरिच्छदः ।। १८४
तथाभूतश्च पितरं तं दृष्ट्वा मातरं च सः ।
पपात पादयोश्चाश्रुधाराधौतमुखस्तयोः ।। १८५
तौ च तं सहसा दृष्टं पुत्रमाश्लिष्य सानुजम् ।
अमृतेनेव सिक्ताङ्गौ तापनिर्वाणमीयतुः ।। १८६
दिव्यरूपे च तद्भार्ये कृतपादाभिवन्दने ।
स्नुषे उभे ते पश्यन्तौ हृष्टावभिननन्दतुः ।। १८७
कथाप्रसङ्गाद्बुद्ध्वा च तस्य ते पूर्वनिर्मिते ।
दिव्यवाक्कथिते भार्ये ययतुस्तौ परां मुदम् ।। १८८
विमानगतिसौवर्णमन्दिरानयनादिना ।
प्रभावेण सुतस्यास्य विस्मयेन ननन्दतुः ।। १८९
ततस्ताभ्यां स सहितः पितृभ्यां सपरिग्रहः ।
आस्तेन्दीवरसेनोऽत्र प्रदत्तजनतोत्सवः ।। १९०
एकदा च परित्यागसेनं तं जनकं नृपम् ।
विज्ञप्य सानुजः प्रायात्पुनर्दिग्विजयाय सः ।। १९१
खड्गप्रभावाज्जित्वा च पृथ्वीं कृत्स्नां महाभुजः ।
आययौ हेमहस्त्यश्वरत्नान्याहृत्य भूभुजाम् ।। १९२
अवाप नगरीं तां च निजां विजितया भयात् ।
अनुयात इवोद्भूतसैन्यधूलिनिभाद्भुवा ।। १९३
प्रविश्य राजधानीं च पित्रा प्रत्युद्गतोऽथ सः ।
जननीं नन्दयामास सानुजोऽधिकसंगमाम् ।। १९४
संमान्य राजलोकं च स्वभार्यास्वजनान्वितः ।
तत्रेन्दीवरसेनस्तत्प्रमोदेनानयद्दिनम् ।। १९५
अन्येद्युस्तत्करद्वारेणार्पयित्वा च मेदिनीम् ।
पित्रे स राजपुत्रः स्वामकस्माज्जातिमस्मरत् ।। १९६
ततः सुप्तप्रबुद्धाभो जनकं तमुवाच च ।
मया जातिः स्मृता तात तदिदं शृणु वच्मि ते ।। १९७
अस्ति मुक्तापुरं नाम सानौ हिमवतः पुरम् ।
तत्रास्ति मुक्तासेनाख्यो राजा विद्याधरेश्वरः ।। ११८
कम्बुवत्यभिधानायां देव्यां तस्य सुतौ क्रमात् ।
जातौ द्वौ पद्मसेनश्च रूपसेनश्च सद्गुणौ ।। १९९
पद्मसेनं तयोः प्रेम्णा स्वयं वृतवती पतिम् ।
कन्यादित्यप्रभा नाम विद्याधरवरात्मजा ।। २००
तद्बुद्ध्वा तद्वयस्यापि नाम्ना चन्द्रवती स्वयम् ।
एत्यावृणीत कामार्ता तं विद्याधरकन्यका ।। २०१
द्विभार्यः स तदा पद्मसेनो नित्यमखिद्यत ।
सपत्नीसेर्ष्ययादित्यप्रभया भार्यया तया ।। २०२
ईर्ष्यान्धभार्याकलहं सोढुं शक्नोमि नान्वहम् ।
तपोवनाय गच्छामि निर्वेदस्यास्य शान्तये ।। २०३
तत्तात देहि मेऽनुज्ञामिति निर्बन्धतो मुहुः ।
जनकं पद्मसेनः स्वं मुक्तासेनं जगाद सः ।। २०४
सोऽपि तं तद्ग्रहक्रुद्धः सभार्यमशपत्पिता ।
किं ते तपोवनं गत्वा मर्त्यलोकमवाप्नुहि ।। २०५
तत्रैषा कलहासक्ता भार्यादित्यप्रभा तव ।
राक्षसीं योनिमासाद्य त्वद्भार्यैव भविष्यति ।। २०६
द्वितीया चन्द्रवत्येषा त्वयि रक्तातिवल्लभा ।
राजस्त्री राक्षसी भूत्वा भूमौ त्वां प्राप्स्यति प्रियम् ।। २०७
साभिलाषोऽनुसर्तुं त्वां ज्येष्ठं यल्लक्षितो मया ।
तदेष रूपसेनोऽपि भावी भ्रातैव तत्र ते ।। २०८
द्विभार्यत्वकृतं किंचिद्दुःखं तत्राप्यवाप्स्यसि ।
एवमुक्त्वा विरम्येत्थं शापान्तमकरोत्स नः ।। २०९
राजपुत्रो भुवं जित्वा पृथ्वीं पित्रोः प्रदास्यसि ।
यदा तदा सहामीभिर्जातिं स्मृत्वा विमोक्ष्यसे ।। २१०
इति पित्रोदितस्तेन पद्मसेनो निजेन सः ।
तत्कालं सह तैरन्यैर्मर्त्यलोकमवातरत् ।। २११
स पद्मसेनस्तातायमहं जातः सुतस्तव ।
नाम्नेन्दीवरसेनोऽत्र कर्तव्यं च कृतं मया ।। २१२
योऽपरो रूपसेनश्च विद्याधरकुमारकः ।
अनिच्छासेन इत्येव जातः सोऽनुज एव मे ।। २१३
या सादित्यप्रभा भार्या या च चन्द्रावतीति मे ।
विद्धि ते द्वे इमे खड्गदंष्ट्रामदनदंष्ट्रिके ।। २१४
इदानीं चायमवधिः प्राप्तः शापस्य सोऽस्य नः ।
तद्व्रजामो वयं तात निजं वैद्याधरं पदम् ।। २१५
इत्युक्त्वा स समं भार्याभ्रातृभिः स्मृतजातिभिः ।
त्यक्त्वैव मानुषीं मूर्तिं भूत्वा विद्याधराकृतिः ।। २१६
प्रणम्य पित्रोश्चरणौ कृत्वाङ्के दयिताद्वयम् ।
सानुजः प्रययौ व्योम्ना निजं वैद्याधरं पुरम् ।। २१७
तत्राभिनन्दितः पित्रा मुक्तासेनेन सन्मतिः ।
मातृनेत्रोत्सवो भ्रात्रा रूपसेनेन संगतः ।। २१८
उवास पद्मसेनोऽसौ भूयोऽनाविष्कृतेर्ष्यया ।
आदित्यप्रभया चन्द्रवत्या च सह निर्वृतः ।। २१९
इत्येतां गोमुखो रम्यां कथयित्वा कथां पथि ।
नरवाहनदत्तं तमुवाच सचिवः पुनः ।। २२०
इत्थं स्यान्महतामेव महाक्लेशस्तथोदयः ।
अन्येषां तु कियान्देव क्लेशो वाप्युदयोऽपि वा ।। २२१
त्वं तु रत्नप्रभादेवीविद्याशक्त्यानुपालितः ।
कर्पूरिकां राजसुतामक्लेशात्तामवाप्स्यसि ।। २२२
इति नरवाहनदत्तः श्रुत्वा सुमुखस्य गोमुखस्य मुखात् ।
प्राक्रामत्पथि तस्मिन्नज्ञातपरिश्रमः स तत्सहितः ।। २२३
गच्छंश्च तत्र कलकूजितराजहंसमच्छं सुधासरसशीतलभूरिवारि ।
आम्रावलीपनसदाडिमरम्यरोधः सायं सरो विकचवारिजमाससाद ।। २२४
तस्मिन्स्नात्वा हिमगिरिसुताकान्तमभ्यर्च्य भक्त्या कृत्वाहारं सुरभिमधुरास्वादहृद्यैः फलैस्तैः ।
सख्या सार्धं मृदुकिसलयास्तीर्णशय्याप्रसुप्तस्तत्तीरे तां रजनिमनयत्सोऽत्र वत्सेशसूनुः ।। २२५
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे रत्नप्रभालम्बकेऽष्टमस्तरङ्गः ।