सामग्री पर जाएँ

कथासरित्सागरः/लम्बकः ७/तरङ्गः ४

विकिस्रोतः तः

गोमुखीयकथादुष्टं दृष्ट्वा तत्स्पर्धया किल ।
नरवाहनदत्तं तं मरुभूतिरथाब्रवीत् ।। १
प्रायेण चपलाः कामं स्त्रियो नैकान्ततः पुनः ।
वेश्या अपि च दृश्यन्ते सत्त्वाढ्याः किमुतापराः ।। २
तथा च देव विख्यातामिमामत्र कथां शृणु ।
विक्रमादित्य इत्यासीद्राजा पाटलिपुत्रके ।। ३
तस्याभूतामभिप्रेते मित्रे हयपतिर्नृपः ।
राजा गजपतिश्चोभौ बह्वश्वगजसाधनौ ।। ४
शत्रुर्नरपतिर्भूरिपादातस्तस्य चाभवत् ।
मानिनो नरसिंहाख्यः प्रतिष्ठानेश्वरो बली ।। ५
तं रिपुं प्रति सामर्षः स मित्त्रबलगर्वितः ।
चकार विक्रमादित्यः प्रतिज्ञां रभसादिमाम् ।। ६
तथा मया विजेतव्यो राजा नरपतिर्यथा ।
स बन्दिमागधैर्द्वारि सेवको मे निवेद्यते ।। ७
एवं कृतप्रतिज्ञस्ते मित्त्रे हयगजाधिपौ ।
समानीय समं ताभ्यां हस्त्यश्वक्षोभितक्षितिः ।। ८
अभियोक्तुं नरपतिं नरसिंहं प्रसह्य तम् ।
स ययौ विक्रमादित्यो राजाखिलबलान्वितः ।। ९
प्राप्ते तस्मिन्प्रतिष्ठाननिकटं सोऽप्यवेत्य तत् ।
नरसिंहो नरपतिः संनह्याग्रेऽस्य निर्ययौ ।। १०
ततस्तयोरभूद्युद्धं राज्ञोर्जनितविस्मयम् ।
गजाश्वेन समं यत्र युध्यन्ते स्म पदातयः ।। ११
क्रमाच्च नरसिंहस्य कोटिसंख्यपदातिभिः ।
भग्नं तद्विक्रमादित्यबलं नरपतेर्बलैः ।। १२
भग्नश्च विक्रमादित्यः पुरं पाटलिपुत्रकम् ।
ययौ पलाय्य तन्मित्रे स्वं स्वं देशं च जग्मतुः ।। १३
नरसिंहो नरपतिर्जितशत्रुर्निजं पुरम् ।
प्रविवेश प्रतिष्ठानं बन्दिभिः स्तुतविक्रमः ।। १४
ततः स विक्रमादित्योऽसिद्धकार्यो व्यचिन्तयत् ।
शस्त्रैरजेयं शत्रुं तं जयामि प्रज्ञया वरम् ।। १५
कामं केचिद्विगर्हन्तां मा प्रतिज्ञान्यथा तु भूत् ।
इति संचिन्त्य निक्षिप्य राज्यं योग्येषु मन्त्रिषु ।। १६
निर्गत्य नगराद्गुप्तं मुख्येनैकेन मन्त्रिणा ।
सह बुद्धिवराख्येण राजपुत्रवरैस्तथा ।। १७
पञ्चभिः कुलजैः शूरैः स कार्पटिकवेषभृत् ।
भूत्वा पुरं निजरिपोः प्रतिष्ठानं जगाम तत् ।। १८
तत्र वारविलासिन्या नरेन्द्रसदनोपमम् ।
ययौ मदनमालेति ख्याताया वरमन्दिरम् ।। १९
कृताह्वानमिव प्रांशुप्राकारशिखरोच्छ्रितैः ।
ध्वजांशुकैर्मृदुमरुद्विक्षिप्ताक्षिप्तपल्लवैः ।। २०
प्रधाने पूर्वदिग्द्वारे विविधायुधशालिनाम् ।
गुप्तं सहस्रविंशत्या पदातीनां दिवानिशम् ।। २१
अन्यासु दिक्षु तिसृषु द्वारि द्वारि मदोद्धतैः ।
दशभिर्दशभिः शूरसहस्रैरभिरक्षितम् ।। २२
आवेदितः प्रतीहारैस्तथाभूतः प्रविश्य च ।
क्वचित्प्रविततानेकवराश्वश्रेणिशोभितम् ।। २३
क्वचिदाबद्धमातङ्गघटासंघट्टसंचरम् ।
क्वचिदायुधसंदर्भगम्भीराकारगुम्भितम् ।। २४
क्वचिद्रत्नप्रभाभास्वद्बहुकोषगृहोज्वलम् ।
क्वचित्सेवकसंघातसंतताबद्धमण्डलम् ।। २५
क्वचिदुच्चैः पठद्बन्दिवृन्दकोलाहलाकुलम् ।
क्वचिन्निबद्धसंगीतमृदङ्गध्वनिनादितम् ।। २६
सप्तकक्ष्याविभक्तं तत्स पश्यन्सपरिच्छदः ।
प्रापन्मदनमालाया वासप्रासादमुन्नतम् ।। २७
सा तं कक्ष्यासु साकूतनिर्वर्णितहयादिकम् ।
श्रुत्वा परिजनान्मत्वा प्रच्छन्नं कंचिदुत्तमम् ।। २८
प्रत्युद्गम्य प्रणम्याथ साभिलाषं सकौतुकम् ।
राजोचिते प्रवेश्यान्तरुपावेशयदासने ।। २९
सोऽपि तद्रूपलावण्यविनयाहृतचेतनः ।
तामभ्यनन्ददात्मानमप्रकाश्यैव भूपतिः ।। ३०
ततो मदनमाला सा स्नानपुष्पानुलेपनैः ।
वस्त्रैराभरणैर्भूपं महार्हैस्तममानयत् ।। ३१
दत्त्वा दिवसवृत्तिं च तेषां तदनुयायिनाम् ।
आहारैस्तं ससचिवं नानारूपैरुपाचरत् ।। ३२
निनाय च समं तेन दिनं पानादिलीलया ।
आत्मानं चार्पयत्तस्मै सा दर्शनवशीकृता ।। ३३
तथैवाराध्यमानोऽथ च्छन्नोऽप्यहरहस्तया ।
स तस्थौ विक्रमादित्यश्चक्रवर्त्युचितैः क्रमैः ।। ३४
याचकेभ्यो ददौ नित्यं वित्तं यावच्च यच्च सः ।
दृष्टा मदनमाला सा तत्तस्मै स्वमुपानयत् ।। ३५
तेनोपभुज्यमानं च सा शरीरं धनं तथा ।
मेने कृतार्थमन्यस्मिन्पुंस्यर्थे च पराङ्मुखी ।। ३६
तत्प्रेम्णा ह्यपि तत्रत्यमनुरक्तं नराधिपम् ।
आयान्तं नरसिंहं तं वारयामास युक्तिभिः ।। ३७
एवं तया सेव्यमानः कदाचिन्मन्त्रिणं रहः ।
राजा सहचरं सोऽत्र तं बुद्धिवरमभ्यधात् ।। ३८
अर्थार्थिनी न कामेऽपि वेश्या रज्यति तं विना ।
तासां लोभो हि विधिना दत्तो निर्माय याचकान् ।। ३९
इयं मदनमाला तु भुज्यमाने धने मया ।
न विरज्यत्यतिस्नेहान्मयि प्रत्युत तुष्यति ।। ४०
तदस्याः संप्रति कथं करोमि प्रत्युपक्रियाम् ।
येन कामं प्रतिज्ञापि क्रमेण मम सेत्स्यति ।। ४१
तच्छ्रुत्वा तं ब्रवीति स्म मन्त्री बुद्धिवरो नृपम् ।
यद्येवं तदनर्घाणि यानि रत्नान्युपाहरत् ।। ४२
प्रपञ्चबुद्धिर्भिक्षुस्ते तेभ्योऽस्यै देहि कानिचित् ।
इत्युक्तो मन्त्रिणा तेन राजा तं प्रत्यभाषत ।। ४३
दत्तैः समग्रैरपि तैर्नास्याः किंचित्कृतं भवेत् ।
एतद्वृत्तान्तसंश्लिष्टा किं त्वस्यान्यत्र निष्कृतिः ।। ४४
तच्छ्रुत्वा सोऽब्रवीन्मन्त्री देव किं तेन भिक्षुणा ।
त्वत्सेवा सा कृतेत्येष तद्वृत्तान्तस्त्वयोच्यताम् ।। ४५
इत्युक्तो मन्त्रिणा तेन राजा बुद्धिवरेण सः ।
जगाद शृणु तत्रैता तत्कथां वर्णयामि ते ।। ४६
पूर्वं पाटलिपुत्रे मे प्रविश्यास्थानमन्वहम् ।
भिक्षुः प्रपञ्चबुद्ध्याख्यः समुद्गकमुपानयत् ।। ४७
अहं तथैव सततं वर्षमात्रं समर्पयन् ।
भाण्डागारिकहस्ते तदनुद्धाटितमेव सत् ।। ४८
एकदा भिक्षुणा तेन ढौकितं तत्समुद्गकम् ।
दैवात्पाणेर्मम पतद्द्विधाभूतमभूद्भुवि ।। ४९
निरगाच्च महारत्नं तस्मादनलभासुरम् ।
प्राङ्मयेवापरिज्ञातं हृदयं तेन दर्शितम् ।। ५०
तद्दृष्ट्वादाय चान्यानि तान्यानाय्य विभज्य च ।
समुद्गकानि सर्वेभ्यो रत्नान्यहमवाप्तवान् ।। ५१
ततः प्रपञ्चबुद्धिं तमप्राक्षं विस्मयादहम् ।
किमहो सेवसे रत्नैरेवं मामीदृशैरिति ।। ५२
अथात्र विजनं कृत्वा स भिक्षुर्मामवोचत ।
अस्यां कृष्णचतुर्दश्यामागामिन्यां निशागमे ।। ५३
श्मशाने साधनीया मे विद्या काचित्ततो बहिः ।
तत्र साहायके वीर त्वदागमनमर्थये ।। ५४
वीरसाहाय्यनिर्विघ्नाः सुखलभ्या हि सिद्धयः ।
इत्युक्तो भिक्षुणा तेन तदहं प्रतिपन्नवान् ।। ५९
अथ हृष्टे गते तस्मिन्दिनैः कृष्णचतुर्दशी ।
आगात्सा श्रमणस्यास्य तस्यास्मार्षमहं वचः ।। ५६
ततः कृताह्निको भूत्वा प्रदोषं प्रतिपालयन् ।
कृतसंध्याविधिर्दैवात्क्षिप्रं निद्रामगामहम् ।। ५७
तत्क्षणं गरुडारूढो भगवान्भक्तवत्सलः ।
हरिः पद्माङ्कितोत्सङ्गः स्वप्ने मामेवमादिशत् ।। ५८
प्रपञ्चबुद्धिरन्वर्थनामायं मण्डलार्चने ।
पुत्र श्मशाने नीत्वा त्वामुपहारी करिष्यति ।। ५९
अतो वक्ष्यति यत्स त्वां जिघांसुर्मा स्म तत्कृथाः ।
त्वं पूर्वं कुरु शिक्षित्वा करिष्यामीति तं वदेः ।। ६०
ततस्तथा तं कुर्वाणं तच्छिद्रेणैव तत्क्षणम् ।
हन्यास्त्वं तदभिप्रेता सिद्धिस्तव भविष्यति ।। ६१
इत्युक्त्वान्तर्हिते विष्णौ प्रबुद्धोऽहमचिन्तयम् ।
हरेरनुग्रहाज्ज्ञातो वध्यो मायी मयाद्य सः ।। ६२
एवं विचिन्त्य यामिन्याः प्रथमे प्रहरे गते ।
कृपाणपाणिरेकाकी तच्छ्मशानमगामहम् ।। ६३
तत्र दृष्ट्वा तमभ्यागां भिक्षुमर्चितमण्डलम् ।
सोऽपि वीक्ष्याभ्यनन्दन्मामब्रवीच्च तदा शठः ।। ६४
मीलिताक्षः प्रसार्याङ्गं पत भूमाववाङ्मुखः ।
राजन्नेवं भवेत्सिद्धिर्द्वयोरप्यावयोरिति ।। ६५
ततोऽहं प्रत्यवोचं तं त्वमेवं प्रथमं कुरु ।
मह्यं दर्शय शिक्षित्वा विधास्यामि तथैव तत् ।। ६६
तच्छ्रुत्वा श्रमणो मूढस्तथा भुवि स चापतत् ।
छिन्नं तस्य च निस्त्रिंशप्रहारेण मया शिरः ।। ६७
अथांततरिक्षादुदभूद्भारती साधु भूपते ।
त्वया हि भिक्षुः पापोऽयमुपहारीकृतोऽद्य यत् ।। ६८
यास्य साध्या भवेत्सा ते सिद्धाद्य गगने गतिः ।
अहं धैर्येण तुष्टस्ते कामचारी धनाधिपः ।। ६९
तदस्मत्तो वृणीष्वान्यं वरं यमभिवाञ्छसि ।
इत्युक्त्वा प्रकटीभूतं प्रणम्याहं तमब्रवम् ।। ७०
यदा त्वामर्थयिष्येऽहमुपयुक्तं तदा वरम् ।
संस्मृतोपस्थितो भूत्वा भगवन्मे प्रदास्यसि ।। ७१
एवमस्त्विति मामुक्त्वा तिरोऽभूत्स धनाधिपः ।
लब्धसिद्धिश्च रभसात्स्वमन्दिरमगामहम् ।। ७२
इत्युक्तस्ते स्ववृत्तान्तस्तत्कुबेरवरेण मे ।
कार्या मदनमालायास्तेनास्याः प्रत्युपक्रिया ।। ७३
तद्बुद्धिवर गच्छ त्वं तावत्पाटलिपुत्रकम् ।
वेषच्छन्नं समादाय राजपुत्रपरिच्छदम् ।। ७४
अहं च कृत्वा प्रत्यग्रां प्रियायाः प्रत्युपक्रियाम् ।
पुनरागमनायेह तत्रैवैष्यामि संप्रति ।। ७५
एवमुक्त्वा स सचिवं विक्रमादित्यभूपतिः ।
दिनकृत्यं स कृत्वा तं व्यसृजत्सपरिच्छदम् ।। ७६
तथेति च गते तस्मिंस्तां निनाय निशां नृपः ।
भाविविश्लेषसोत्कण्ठः समं मदनमालया ।। ७७
सापि दूरीभवन्तं तं शंसतेवान्तरात्मना ।
आलिङ्गती मुहुः सोत्का नास्यां निद्रामगान्निशि ।। ७८
ततः प्रातः स राजा तु विहितावश्यकक्रियः ।
नित्यदेवार्चनागारं विवेशैको जपच्छलात् ।। ७९
तत्र वैश्रवणं देवं संस्मृतोपस्थितं च सः ।
वरं प्राक्प्रतिपन्नं तं प्रणम्यैवमयाचत ।। ८०
प्रयच्छ देव तेनाद्य वरेणाङ्गीकृतेन मे ।
सौवर्णान्पञ्च महतः पुरुषांस्तानिहाक्षयान् ।। ८१
येषामिष्टोपभोगाय च्छिद्यमानान्यनारतम् ।
तादृशान्येव जायन्ते तान्यङ्गानि पुनः पुनः ।। ८२
एवं भवन्तु तद्रूपाः पुरुषास्ते यथेच्छसि ।
इत्युक्त्वा स धनाध्यक्षो जगामादर्शनं क्षणात् ।। ८३
राजापि तत्क्षणं सोऽत्र देवागारे ददर्श तान् ।
स्थितानकस्मात्सौवर्णान्महतः पञ्च पूरुषान् ।। ८४
ततः प्रविष्टो निरगात्स्वां प्रतिज्ञामविस्मरन् ।
द्यामुत्पत्य ययौ तावत्पुरं पाटलिपुत्रकम् ।। ८५
तत्राभिनन्दितोऽमात्यैः पौरैरन्तःपुरैश्च सः ।
तस्थौ कार्याणि कुर्वाणः प्रतिष्ठानस्थया धिया ।। ८६
तावच्चात्र प्रतिष्ठाने प्राविशत्तस्य सा प्रिया ।
चिरप्रविष्टं तं कान्तं वीक्षितुं देवसद्म तत् ।। ८७
प्रविष्टा तत्र नाद्राक्षीत्प्रियं तं नृपतिं क्वचित् ।
अद्राक्षीत्तु महोच्छ्रायान्सौवर्णान्पञ्च पूरुषान् ।। ८८
तान्दृष्ट्वा तमनासाद्य दुःखिता सा व्यचिन्तयत् ।
नूनं विद्याधरः कोऽपि गन्धर्वो वा स मे प्रियः ।। ८९
यः संविभज्य मामेभिः पुंभिरुत्पत्य खं गतः ।
तदेतैर्भारतुल्यैः किं तद्वियुक्ता करोम्यहम् ।। ९०
इति संचिन्त्य पृच्छन्ती निजं परिजनं मुहुः ।
तत्प्रवृत्तिं विनिर्गत्य तत्र बभ्राम सर्वतः ।। ९१
न च लेभे रतिं क्वापि हर्म्योद्यानगुहादिषु ।
विलपन्ती वियोगार्ता शरीरत्यागसंमुखी ।। ९२
मा विषादं कृथा देवि कोऽपि कामचरो हि सः ।
देवो यदृच्छया भूयो भव्या त्वामभ्युपैष्यति ।। ९३
इत्यादिभिः प्रदत्तास्थैर्वाक्यैः परिजनेन सा ।
आश्वासिता कथमपि प्रतिज्ञामकरोदिमाम् ।। ९४
षण्मासमध्ये यदि मे न स दास्यति दर्शनम् ।
दत्तसर्वस्वया वह्नौ प्रवेष्टव्यं ततो मया ।। ९५
इति प्रतिज्ञयात्मानं संस्तभ्याभूत्ततश्च सा ।
अन्वहं ददती दानं ध्यायन्ती तं स्ववल्लभम् ।। ९६
एकदा स्वर्णपुंसां च तेषामेकस्य सा भुजौ ।
छेदयित्वा द्विजातिभ्यो ददौ दानैकतत्परा ।। ९७
द्वितीयेऽह्नि च साद्राक्षीत्तादृशावेव तस्य तौ ।
रात्रिमध्ये समुत्पन्नौ भुजौ संजातविस्मया ।। ९०
ततः क्रमेण सान्येषां भुजौ दानार्थमच्छिनत् ।
उत्पेदिरे च सर्वेषां पुनस्तेषां तथैव ते ।। ९९
अथ तानक्षयान्द्रष्ट्वा विप्रेभ्यो वेदसंख्यया ।
अध्येतृभ्यो ददौ छित्त्वा तद्भुजान्सा शुभान्वहम् ।। १००
दिनैश्चाल्पैर्गता दिक्षु श्रुत्वा तां ख्यातिमाययौ ।
तत्र सङ्ग्रामदत्ताख्यो विप्रः पाटलिपुत्रकात् ।। १०१
स दरिद्रश्चतुर्वेदो गुणैर्युक्तस्तदन्तिकम् ।
प्रतिग्रहार्थी प्राविक्षत्तदा द्वाःस्थनिवेदितः ।। १०२
सा तस्मै वेदसंख्याकान्ददौ सौवर्णपुंभुजान् ।
अर्चिताय व्रतक्षामैरङ्गैर्विरहपाण्डुरैः ।। १०३
ततः स विप्रो दुःखार्ताच्छ्रुत्वा तत्परिवारितः ।
तद्वृत्तान्तं महाघोरप्रतिज्ञान्तमशेषतः ।। १०४
हृष्टो विषण्णश्चारोप्य सौवर्णानुष्ट्रयोर्द्वयोः ।
भुजानेतान्निवासं स्वं ययौ पाटलिपुत्रकम् ।। १०५
अराजरक्षिते क्षेमं नास्मिन्मे काञ्चने भवेत् ।
इति तत्र स संचिन्त्य प्रविश्यास्थानवर्तिनम् ।। १०६
नृपतिं विक्रमादित्यं ब्राह्मणः स व्यजिज्ञपत् ।
इहैवास्मि महाराज वास्तव्यो नगरे द्विजः ।। १०७
सोऽहं दरिद्रो वित्तार्थी प्रयातो दक्षिणापथम् ।
प्राप्तः परं प्रतिष्ठानं नरसिंहस्य भूपतेः ।।
तत्र प्रतिग्रहार्थी सन्प्रख्यातयशसो गृहम् ।
अहं मदनमालाया गणिकाया गतोऽभवम् ।। १०९
तस्याः सकाशे दिव्यो हि कोऽप्युषित्वा चिरं पुमान् ।
गतः क्वाप्यक्षयान्दत्त्वा पुरुषान्पञ्च काञ्चनान्।। ११०
ततस्तद्विप्रयोगार्ता जीवितं विषवेदनाम् ।
देहं निष्फलमायास नाहारं चौरयातनाम् ।। १११
मन्यमाना गतधृतिः कथंचिदनुजीविभिः ।
आश्वास्यमाना व्यधित प्रतिज्ञां सा मनस्विनी ।। ११२
यदि षण्मासमध्ये मां न स संभावयिष्यति ।
तन्मयाग्नौ प्रवेष्टव्यं दौर्भाग्योपहतात्मना ।। ११३
इति बद्धप्रतिज्ञा सा मरणाध्यवसायिनी ।
ददात्यनुदिनं दानं सुमहत्सुकृतैषिणी ।। ११४
सा च दृष्टा मया देव विशृङ्खलपदस्थितिः ।
अनाहारकृशेनापि शरीरेणातिशोभिता ।। ११५
दानतोयार्द्रितकरा मिलितालिकुलाकुला ।
दुःस्थिता कामकरिणो मदावस्थेव देहिनी ।। ११६
मन्ये निन्द्यश्च वन्द्यश्च स कामो यो जहाति ताम् ।
कान्तो येन विना सा च तनुं त्यजति सुन्दरी ।। ११७
तयात्र मह्यं चत्वारः स्वर्णाः पुरुषबाहवः ।
चतुर्वेदाय विधिवत्प्रदत्ता वेदसंख्यया ।। ११८
तत्सुसत्त्रगृहं कृत्वा स्वधर्ममिह सेवितुम् ।
इच्छामि तत्र देवेन साहाय्यं मे विधीयताम् ।। ११९
इति तस्य मुखाच्छ्रुत्वा प्रियावार्तां द्विजस्य सः ।
सद्योऽभूद्विक्रमादित्यस्तदाक्षिप्तमना नृपः ।। १२०
आदिश्य च प्रतीहारं द्विजस्यास्येष्टसिद्धये ।
विचिन्त्य दृढरागां च तां तृणीकृतजीविताम् ।। १२१
प्रतिज्ञासिद्धिसाहाय्ये सहसोत्कः स्वकामिनीम् ।
गणयित्वाल्पशेषं च तस्या देहव्ययावधिम् ।। १२२
सत्वरं मन्त्रिनिक्षिप्तराज्यो गत्वा विहायसा ।
प्रतिष्ठानं स नृपतिः प्रियावेश्म विवेश तत् ।। १२३
तत्र ज्योत्स्नाच्छवसनां विबुधार्पितवैभवाम् ।
कृशामपश्यत्कान्तां तां पर्वणीन्दुकलामिव ।। १२४
सापि नेत्रसुधासारमतर्कितमुपस्थितम् ।
दृष्ट्वा मदनमाला तमुद्भ्रान्तेवाभवत्क्षणम् ।। १२५
आलिङ्गन्तीं ततो भूयः पलायनभयादिव ।
कण्ठे भुजलतापाशमर्पयामास तस्य सा ।। १२६
किं मामनागसं त्यक्त्वा गतवानसि निष्कृप ।
इत्युवाच च तं बाष्पघर्घराक्षरया गिरा ।। १२७
एहि वक्ष्यामि रहसीत्युक्त्वा सोऽभ्यन्तरं रहः ।
तया सह ययौ राजा परिवाराभिनन्दितः ।। १२८
तत्रात्मानं प्रकाश्यास्यै स्ववृत्तान्तमवर्णयत् ।
नरसिंहनृपं युक्त्या जेतुमत्रागमद्यथा ।। १२९
यथा प्रपञ्चबुद्धिं च हत्वा खेचरतां ययौ ।
यथा वरं धनाध्यक्षात्प्राप्य संव्यभजच्च ताम् ।। १३०
यथा च ब्राह्मणाद्वार्तां श्रुत्वा तत्रागतः पुनः ।
तत्सर्वमा प्रतिज्ञार्थादुक्त्वा भूयो जगाद ताम् ।। १३१
तत्प्रिये नरसिंहोऽयमजेयोऽतिबली बलैः ।
द्वन्द्वयुद्धेन च मया साकमेष नियुध्यते ।। १३२
भूचरं द्युचरो भूत्वा न चैनं हतवानहम् ।
अधर्मयुद्धेन जयं को हीच्छेत्क्षत्त्रियो भवन् ।। १३३
तन्मे प्रतिज्ञासाध्यं यद्वन्दिभिर्द्वारवर्तिनः ।
आवेदनं नृपस्यास्य तत्र साहायकं कुरु ।। १३४
एतच्छ्रुत्वैव धन्यास्मीत्युक्त्वा राज्ञामुना सह ।
संमन्त्र्य गणिकाथ स्वानाहूयोवाच वन्दिनः ।। १३५
नरसिंहो यदा राजा गृहमेष्यति मे तदा ।
द्वारसंनिहितैर्भाव्यं भवद्भिर्दत्तदृष्टिभिः ।। १३६
देव भक्तोऽनुरक्तश्च नरसिंहनृपस्त्वयि ।
इति वाच्यं च युष्माभिस्तस्य प्रविशतो मुहुः ।। १३७
कः स्थितोऽत्रेति यदि च प्रक्ष्यत्युत्प्रेक्ष्य तत्क्षणम् ।
स्थितोऽत्र विक्रमादित्य इति वक्तव्य एव सः ।। १३८
इत्युक्त्वा तान्विसृज्याथ प्रतीहारी जगाद सा ।
नरसिंहो न राजात्र निषेध्यः प्रविशन्निति ।। १३९
एवं कृत्वा पुनः प्राप्तप्राणनाथा यथासुखम् ।
तस्थौ मदनमाला सा निःसंख्यं ददती वसु ।। १४०
ततः श्रुत्वातिदानं तत्सौवर्णपुरुषोद्भवम् ।
नरसिंहनृपो हित्वाप्यागाद्द्रष्टुं स तद्गृहम् ।। १४१
प्रतीहारानिषिद्धस्य तस्य प्रविशतोऽत्र च ।
आ बहिर्द्वारतस्तारमूचुः सर्वेऽपि बन्दिनः ।। १४२
नरसिंहो नृपो देव प्रणतो भक्तिमानिति ।
तच्च शृण्वन्स सामर्षः सशङ्कश्चाभवन्नृपः ।। १४३
पृष्ट्वा च कः स्थितोऽत्रेति बुद्ध्वा तत्र स्थितं च तम् ।
राजानं विक्रमादित्यं क्षणमेवमचिन्तयत् ।। १४४
तदिदं प्राक्प्रतिज्ञातं द्वारि मद्विनिवेदनम् ।
निर्व्यूढममुना राज्ञा प्रसह्यान्तः प्रविश्य मे ।। १४५
अहो राजायमोजस्वी येनाद्यैवमहं जितः ।
न च वध्यो बलेनासावेकाकी मे गृहागतः ।। १४६
तत्तावत्प्रविशामीति नरसिंहो विचिन्त्य सः ।
विवेशाभ्यन्तरं राजा बन्दिवृन्दनिवेदितः ।। १४७
प्रविष्टं तं च दृष्ट्वैव सस्मितं सस्मिताननः ।
उत्थाय विक्रमादित्यः कण्ठे जग्राह भूपतिम् ।। १४८
अथोपविष्टौ तौ द्वावप्यन्योन्यकुशलं नृपौ ।
तस्यां मदनमालायां पार्श्वस्थायामपृच्छताम् ।। १४९
कथाक्रमाच्च पप्रच्छ विक्रमादित्यमत्र सः ।
नरसिंहः कुतोऽत्रेमे सुवर्णपुरुषा इति ।। १५०
ततोऽत्र विक्रमादित्यो निहतश्रमणाधमम् ।
साधिताकाशगमनं वित्तेश्वरवरेण च ।। १५१
संप्राप्ताक्षयसौवर्णमहापुरुषपञ्चकम् ।
कृत्स्नं कथितवानस्मै स्ववृत्तान्तं तमनुतम् ।। १५२
नरसिंहोऽथ मत्वा तं महाशक्तिं नभश्चरम् ।
अपापबुद्धिं वृतवान्मित्रत्वाय नृपो नृपम् ।। १५३
प्रतिपन्नसुहृत्त्वं च कृताचारविधिं तदा ।
राजधानीं निजां नीत्वा स्वोपचारैरुपाचरत् ।। १५४
संमान्य प्रहितस्तेन राज्ञा च स नृपः पुनः ।
गृहं मदनमालाया विक्रमादित्य आययौ ।। १५५
अथ स निजौजःप्रतिमासंपादितदुस्तरप्रतिज्ञार्थः ।
गन्तुं चकार चेतो निजनगरं विक्रमादित्यः ।। १५६
तेन समं सा जिगमिषुरसहा विरहस्य मदनमालापि ।
त्यक्ष्यन्ती तं देशं ब्राह्मणसादकृत वसतिं स्वाम् ।। १५७
ततस्तया साकमनन्यचित्तया तदीयहस्त्यश्वपदात्यनुद्रुतः ।
स विक्रमादित्यनरेन्द्रचन्द्रमा निजं पुरं पाटलिपुत्रकं ययौ ।। १५८
तत्र तेन सह बद्धसौहृदस्तस्थिवान्स नरसिंहभूभृता ।
अन्वितो मदनमालया तया प्रेममुक्तनिजदेशया सुखम् ।। १५९
इति देव भक्त्युदारसत्त्वो दृढरक्तश्च विलासिनीजनोऽपि ।
अवरोधसमो महीपतीनां किमुतान्यः कुलजः पुरंध्रिलोकः ।। १६०
इत्थं निशम्य मरुभूतिमुखादुदारामेतां कथां स नरवाहनदत्तभूपः ।
विद्याधरोत्तमकुलप्रभवा च सास्य रत्नप्रभा नववधूर्व्यधित प्रमोदम् ।। १६१
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे रत्नप्रभालम्बके चतुर्थस्तरङ्गः ।