कथासरित्सागरः/लम्बकः ७/तरङ्गः २
एवं विद्याधरीं भार्यां भव्यां रत्नप्रभां नवाम्।
तस्य प्राप्तवतोऽन्येद्युस्तद्वेश्मनि तया सह ।। १
नरवाहनदत्तस्य स्थितस्य प्रातराययुः ।
दर्शनार्थमुपद्वारं सचिवा गोमुखादयः ।। २
द्वाःस्थया क्षणरुद्धेषु तेष्वत्रावेदितेष्वथ ।
प्रविष्टेष्वादृतेष्वेतां द्वाःस्थां रत्नप्रभाभ्यधात् ।। ३
द्वारमेषां न रोद्धव्यमिह प्रविशतां पुनः ।
आर्यपुत्रवयस्यानां स्वं शरीरममी हि नः ।। ४
रक्षा चान्तःपुरेष्वीदृङ्नैवमेतन्मतं मम ।
इति द्वाःस्थामुदित्वा सा स्वपतिं तमथाब्रवीत् ।। ५
आर्यपुत्र प्रसङ्गेन वदामि तव तच्छृणु ।
नीतिमात्रमहं मन्ये स्त्रीणां रक्षानियन्त्रणम् ।। ६
ईर्ष्याकृतोऽथवा मोहः कार्यं तेन न किंचन ।
महत्तरेण रक्ष्यन्ते शीलेनैव कुलस्त्रियः ।। ७
धातापि न प्रभुः प्रायश्चपलानां तु रक्षणे ।
मत्ता नदी च नारी च नियन्तुं केन पार्यते ।। ८
तथा च श्रयूतामत्र कथां वः कथयाम्यहम् ।
अस्तीह रत्नकूटाख्यं द्वीपं मध्येऽम्बुधेर्महत् ।। ९
तत्र राजा महोत्साहः पुरा परमवैष्णवः ।
यथार्थेनाभिधानेन रत्नाधिपतिरित्यभूत् ।। १०
स राजा विजयं पृथ्व्याः सर्वराजात्मजास्तथा ।
भार्याः प्राप्तुं तपस्तेपे विष्णोराराधनं महत् ।। ११
संतुष्टस्तपसा साक्षाद्भगवानादिदेश तम् ।
उत्तिष्ठ राजंस्तुष्टोऽस्मि तदिदं वच्मि ते शृणु ।। १२
कलिङ्गविषये कोऽपि गन्धर्वो मुनिशापतः ।
समुत्पन्नो गजः श्वेतः श्वेतरश्मिरिति श्रुतः ।। १३
पूर्वजन्मतपःसिद्धियोगान्मद्भक्तितस्तथा ।
ज्ञानी गगनगामी च गजो जातिस्मरश्च सः ।। १४
दत्तादेशो मया स्वप्ने स च हस्ती महांस्तव ।
एत्य स्वयं द्युमार्गेण वाहनत्वं प्रपत्स्यते ।। १५
तमारुह्य गजं श्वेतं सुरेभमिव वज्रभृत् ।
व्योममार्गेण यं यं त्वं राजानमभियास्यसि ।। १६
स स दिव्यानुभावाय भीतस्तुभ्यं प्रदास्यति ।
स्वप्ने मयैव दत्ताज्ञः कन्यादाननिभात्करम् ।। १७
एवं विजेष्यसे कृत्स्नां पृथ्वीमन्तःपुराणि च ।
राजपुत्रीसहस्राणि त्वमशीतिमवाप्यसि ।। १८
इत्युक्त्वान्तर्हिते विष्णौ स राजा कृतपारणः ।
अन्येद्युरागतं व्योम्ना तं ददर्श गजं शुभम् ।। १९
आरुह्योपनतं तं च यथादिष्टः स विष्णुना ।
तथा विजित्य पृथिवीमाजह्रे राजकन्यकाः ।। २०
सहस्राशीतिसंख्याभिस्ततस्ताभिः समं च सः ।
उवास रत्नकूटेऽत्र यथेच्छं विहरन्नृपः ।। २१
शान्त्यर्थं शीतरश्मेश्च तस्य दिव्यस्य दन्तिनः ।
प्रत्यहं भोजयामास विप्राणां शतपञ्चकम् ।। २२
कदाचिच्च तमारुह्य परिभ्रम्य स भूपतिः ।
द्वीपान्तराणि स्वं द्वीपं रत्नाधिपतिराययौ ।। २३
तत्रावतरतस्तस्य गगनात्तु गजोत्तमम् ।
चञ्चवा तार्क्ष्योद्भवः पक्षी मूर्ध्नि दैवादताडयत् ।। २४
स च पक्षी प्रदुद्राव राज्ञा तीक्ष्णाङ्कुशाहतः ।
हस्ती तु भूमावपतच्चञ्च्वाघातेन मूर्च्छितः ।। २५
नृपेऽवतीर्णे स गजो लब्धसंज्ञोऽपि नाशकत् ।
उत्थाप्यमानोऽप्युत्थातुं निरस्तकवलग्रहः ।। २६
पञ्चाहानि तथैवास्मिन्वारणे पतितस्थिते ।
दुःखितः स निराहारो राजा चाप्येवमब्रवीत् ।। २७
भो लोकपाला ब्रूतास्मिन्नुपायं संकटे मम ।
अन्यथोपहरिष्यामि छित्त्वाहं स्वशिरोऽद्य वः ।। २८
इत्युक्त्वैवात्तखड्गं तं स्वशिरश्छेत्तुमुद्यतम् ।
अशरीरा जगादैवं वाणी तत्क्षणमम्बरात् ।। २९
मा साहसं कृथा राजन्साध्वी काचित्करोति चेत् ।
हस्तस्पर्शं गजस्यास्य तदुत्तिष्ठति नान्यथा ।। ३०
तच्छ्रुत्वैवामृतलतां नाम हृष्टः स भूपतिः ।
मुख्यामानाययामास निजां देवीं सुरक्षिताम् ।। ३१
तया स्पृष्टः स हस्तेन नोदतिष्ठद्गजो यदा ।
तदा सोऽन्या निजाः सर्वा देवीरानाययन्नृपः ।। ३२
ताभिः कृतकरस्पर्शः समस्ताभिरपि क्रमात् ।
नैवोत्तस्थौ द्विपः सोऽत्र न तास्वेकाप्यभूत्सती ।। ३३
अन्तःपुरसहस्राणि तामशीतिमपि स्फुटम् ।
दृष्ट्वा विलज्जितान्येव स राजा जनसंनिधौ ।। ३४
विलक्षः स्वपुरात्तस्मादानाय्य निखिलाः स्त्रियः ।
क्रमेण हस्तिनस्तस्य हस्तस्पर्शमकारयत् ।। ३५
तथापि यत्स नोत्तस्थौ गजेन्द्रस्तत्स भूपतिः ।
कष्टं पुरे मे साध्वी स्त्री नैकापीति त्रपां ययौ ।। ३६
तावच्च हर्षगुप्ताख्यस्ताम्रलित्याः समागतः ।
वणिक्तत्राययौ बुद्ध्वा वृत्तान्तं तं सकौतुकः ।। ३७
तस्य कर्मकरी पश्चादाजगाम पतिव्रता ।
एका शीलवती नाम सा तद्दृष्ट्वा तमब्रवीत् ।। ३८
स्पृशाम्यहं करेणैतं स्वभर्तुश्चापरो मया ।
मनसापि न चेद्ध्यातस्तदुत्तिष्ठत्वयं द्विपः ।। ३९
इत्युक्त्वोपेत्य हस्तेन सा च पस्पर्श तं गजम् ।
उदतिष्ठत्स च स्वस्थः कवलं च ततोऽग्रहीत् ।। ४०
इमास्ता विरलाः साध्व्यः काश्चिदेवेश्वरोपमाः ।
सर्गपालनसंहारसमर्था जगतोऽस्य याः ।। ४१
इति शीलवतीं तत्र कृतकोलाहलो जनः ।
तां तुष्टाव तदा दृष्ट्वा श्वेतरश्मिं तमुत्थितम् ।। ४२
राजापि रत्नाधिपतिः परितुष्याभिनन्द्य ताम् ।
सोऽपूरयदसंख्यातै रत्नैः शीलवतीं सतीम् ।। ४३
तत्स्वामिनं च वणिजं हर्षगुप्तं तथैव तम् ।
अपूजयद्ददौ चास्य गृहं राजगृहान्तिके ।। ४४
परिवर्जितसंस्पर्शा निजभार्यास्तथैव सः ।
पिण्डाच्छादनमात्रैकभागिनीरकरोत्ततः ।। ४५
अथानाय्य कृताहारो हर्षगुप्तस्य संनिधौ ।
साध्वीं शीलवतीं तां स जगाद विजने नृपः ।। ४६
शीलवत्यस्ति ते काचित्कन्या पितृकुलादिति ।
तां मे दापय जाने हि सापि स्यात्त्वादृशी भुवम् ।। ४७
इत्युक्ता तेन सा राज्ञा शीलवत्यब्रवीत्तदा ।
राजदत्तेति नाम्नास्ति ताम्रलिप्त्यां स्वसा मम ।। ४८
उपयच्छस्व तां देव श्लाघ्यरूपां यदीच्छसि ।
इत्युक्तः स तया राज्ञा प्रतिपेदे तथेति तत् ।। ४९
निश्चित्य च तदन्येद्युः शीलवत्या तया सह ।
तेनापि हर्षगुप्तेन तमारुह्य स्वगामिनम् ।। ५०
श्वेतरश्मिं स्वयं गत्वा ताम्रलिप्तीं स भूपतिः ।
विवेश हर्षगुप्तस्य वणिजस्तस्य मन्दिरम् ।। ५१
तत्र पप्रच्छ तदहर्लग्नं शीलवतीस्वसुः ।
विवाहे राजदत्ताया गणकानात्मनस्तथा ।। ५२
गणकाश्चोभयोः पृष्ट्वा नक्षत्राण्येवमब्रुवन् ।
लग्नो वां शोभनो राजन्नस्ति मासेष्वितस्त्रिषु ।। ५३
अद्य वा विद्यते यादृक्तेनैषा चेद्विवाह्यते ।
राजदत्ता ततोऽवश्यमसाध्वी भवति प्रभो ।। ५४
गणकैरेवमुक्तोऽपि कमनीयवधूत्सुकः ।
एकाकी चिरमस्थास्नुः स राजा समचिन्तयत् ।। ५५
अलं विचारेणाद्यैव राजदत्तामिहोद्वहे ।
शीलवत्याः स्वसा ह्येषा निर्दर्पा नासती भवेत् ।। ५६
यत्तत्समुद्रमध्येऽस्ति द्वीपखण्डममानुषम् ।
एकशून्यचतुःशालं तत्रैतां स्थापयामि च ।। ५७
दुर्गमेऽत्र परीवारं स्त्रीरेवास्याः करोमि च ।
पुरुषादर्शनादेवमसती स्यादियं कथम् ।। ५८
इति निश्चित्य तदहः परिणिन्ये स भूपतिः ।
तां राजदत्तां सहसा शीलवत्या समर्पिताम् ।। ५९
कृतोद्वाहः कृताचारो हर्षगुप्तेन तां वधूम् ।
आदाय तेनैव समं शीलवत्या तया च सः ।। ६०
श्वेतरश्मिं तमारुह्य क्षणेन नभसा निजम् ।
मार्गोन्मुखजनं द्वीपं रत्नकूटं तदाययौ ।। ६१
संविभेजे च तां भूयस्तथा शीलवतीं यथा ।
प्राप्तसाध्वीव्रतफला कृतार्था समपादि सा ।। ६२
ततस्तत्रैव करिणि श्वेतरश्मौ नभश्चरे ।
आरोप्य तां नववधूं राजदत्तां स चिन्तिते ।। ६३
नीत्वा तत्राब्धिमध्यस्ये द्वीपे मानुषदुर्गमे ।
आस्थापयच्चतुःशाले नारीभयपरिच्छदाम् ।। ६४
यद्यद्वस्तूपयुक्तं च तस्यास्तत्तदविश्वसन् ।
व्योमैव प्रापयामास तत्र तेन गजेन सः ।। ६५
स्वयं तदनुरक्तश्च तत्रैवासीत्सदा निशि ।
आययौ राजकार्यार्थं रत्नकूटं दिवा पुनः ।। ६६
एकदा स तया साकं प्रत्यूषे राजदत्तया ।
राजा प्रतिघ्नन्दुःस्वप्नं सिषेवे पानमङ्गलम् ।। ६७
तेन मत्ताममुञ्चन्तीमपि मुक्त्वा स तां ययौ ।
रत्नकूटं स्वकार्यार्थं नित्यस्निग्धा हि राजता ।। ६८
तत्र तस्थौ सशङ्केन कुर्वन्कार्याणि चेतसा ।
क्षीबा किमेकका मुक्ता सा त्वयेतीव शंसता ।। ६९
तावच्च राजदत्ता सा स्थाने तत्रातिदुर्गमे ।
महानसादिव्यग्रासु दासीष्वेकाकिनी स्थिता ।। ७०
द्वारे विधिमिवान्यं तत्तद्रक्षाविजिगीषया ।
आगतं पुरुषं कंचिद्ददर्शाश्चर्यदायकम् ।। ७१
कस्त्वं कथमिदं स्थानमगम्यं चागतो भवान् ।
इति तं चान्तिकप्राप्तं क्षीबा पप्रच्छ सा किल ।। ७२
ततः स दृष्टबहुलक्लेशस्तां पुरुषोऽब्रवीत् ।
मुग्धे पवनसेनाख्यो वणिक्पुत्रोस्मि माथुरः ।। ७३
हृतस्वो गोत्रजैः सोऽहमनाथः प्रमयात्पितुः ।
गत्वा विदेशे कृपणां परसेवामशिश्रियम् ।। ७४
ततः कृच्छ्रेण संप्राप्य धनलेशं वणिज्यया ।
गच्छन्देशान्तरं मार्गे मुषितोऽस्म्येत्य तस्करैः ।। ७५
ततो भिक्षां भ्रमंस्तुल्यैः सहान्यैर्गतवानहम् ।
रत्नानामाकरस्थानं कनकक्षेत्रसंज्ञकम् ।। ७६
तत्राङ्गीकृत्य भूपस्य भागं संवत्सरावधि ।
खाते खनन्क्षितिं रत्नं नैकमप्यऽस्मि लब्धवान् ।। ७७
नन्दत्सु लब्धरत्नेषु मद्विधेष्वपरेषु च ।
गत्वाब्धितीरे दुःखार्तः काष्ठान्यहमुपाहरम् ।। ७८
अग्निप्रवेशाय चितां यावत्तत्र करोमि तैः ।
जीवदत्ताभिधस्तावत्कोऽप्यत्र वणिगाययौ ।। ७९
निवार्य मरणात्तेन दत्त्वा वृत्तिं दयालुना ।
गृहीतोऽहं प्रवहणे स्वर्णद्वीपं यियासता ।। ८०
ततोऽकस्मात्प्रवहणेनाब्धिमध्येन गच्छताम् ।
पञ्चस्वहःसु यातेषु मेघोऽकस्माददृश्यत ।। ८१
प्रवृष्टे स्थूलधाराभिर्मेघेऽस्मिन्मारुतेन तत् ।
अघूर्णत प्रवहणं मत्तहस्तिशिरो यथा ।। ८२
क्षणान्निमज्ज्य भग्नेऽस्मिन्यानपात्रे विधेर्वशात् ।
एकः फलहकः प्राप्तस्तत्कालं मज्जता मया ।। ८३
तदारूढस्ततः शान्ते मेघाटोपे विधेर्वशात् ।
इमं प्रदेशं प्राप्याहमुत्तीर्णः सांप्रतं वने ।। ८४
वीक्ष्य चेदं चतुःशालं प्रविश्याभ्यन्तरं मया ।
दृष्टा दृष्टिसुधावृष्टिस्त्वं तापशमनी शुभे ।। ५
इत्युक्तवन्तं पर्यङ्के निवेश्यैवालिलिङ्ग तम् ।
मोहिता राजदत्ता सा मदेन मदनेन च ।। ८६
स्त्रीत्वं क्षीबत्वमेकान्तः पुंसो लाभोऽनियन्त्रणा ।
यत्र पञ्चाग्नयस्तत्र वार्ता शीलतृणस्य का ।। ८७
न चैवं क्षमते नारी विचारं मारमोहिता ।
यदियं चकमे राज्ञी तमकाम्यं विपद्गतम् ।। ८८
तावच्च रत्नाधिपतिः स राजा रत्नकूटतः ।
आजगामोत्सुकस्तूर्णं द्युचरद्विपवाहनः ।। ८९
प्रविशंश्चात्र सोऽपश्यत्तादृशेनापि तेन ताम् ।
पुरुषेण समं भार्यां राजदत्तां रतिस्थिताम् ।। ९०
दृष्ट्वा जिघांसितमपि क्षितीशः पुरुषं स तम् ।
नावधीत्पादपतितं ब्रुवाणं कृपणा गिरः ।। ९१
भार्यां भीतां च मत्तां तां स वीक्ष्यैवमचिन्तयत् ।
मद्ये मारैकसुहृदि प्रसक्ता स्त्री सती कुतः ।। ९२
नियन्तुं चपला नारी रक्षयापि न शक्यते ।
किं नामोत्पातवाताली बाहुभ्यां जातु बध्यते ।। ९३
न कृतं गणकोक्तं यत्तदिदं तस्य मे फलम् ।
विपाककटुकं तस्य नाप्तवाक्यावधीरणम् ।। ९४
शीलवत्याः स्वसेतीमां जानतो बत विस्मृता ।
सुधायाः सहजा सा मे कालकूटविषच्छटा ।। ९५
अथवा कः समर्थः स्यादसंभाव्यं विचेष्टितम् ।
जेतुं पुरुषकारेण विधेरद्भुतकर्मणः ।। ९६
इत्यालोच्य न चुक्रोध कस्मैचित्तं जहौ च सः ।
पृष्टोदन्तं वणिक्पुत्रं राजा प्रच्छन्नकामुकम् ।। ९७
सोऽपि मुक्तस्ततोऽपश्यन्गतिं कांचिद्वणिक्सुतः ।
निर्गत्याब्धौ प्रवहणं दूरादागच्छदैक्षत ।। ९८
ततः फलहकं भूयस्तमेवारुह्य सोऽम्बुधौ ।
भ्रमन्पूत्कृत्य चक्रन्द मामुद्धरत भो इति ।। ९९
तेन तं क्रोधवर्माख्यो वणिक्तद्यानपात्रगः ।
समुद्धृत्य वणिक्पुत्रं चकारान्तिकवर्तिनम् ।। १००
यस्य यद्विहितं धात्रा कर्म नाशाय तस्य तत् ।
पदवीं यत्र तत्रापि धावतोऽप्यनुधावति ।। १०१
यत्स तत्र स्थितो मूढस्तत्पत्न्या संगतो रहः ।
विलोक्य वणिजा तेन क्षेपितोऽब्धौ व्यपद्यत ।। १०२
तावच्च रत्नाधिपतिः स राजा सपरिच्छदाम् ।
आरोप्य श्वेतरश्मौ तां राजदत्तामकोपनः ।। १०३
प्रापय्य रत्नकूटं च शीलवत्याः समर्प्य च ।
तस्यै च सचिवेभ्यश्च तद्वृत्तान्तमवर्णयत् ।। १०४
जगाद च कियद्दुःखमनुभूतमहो मया ।
असारविरसेष्वेषु भोगेष्वासक्तचेतसा ।। १०५
तदिदानीं वनं गत्वा हरिं शरणमाश्रये ।
येन स्यां नैव दुःखानां भाजनं पुनरीदृशाम् ।। १०६
इत्यूचिवान्स सचिवैर्वार्यमाणोऽपि दुःखितः ।
शीलवत्या च वैराग्यान्निश्चयं नैव तज्जहौ ।। १०७
ततोऽर्धमर्पयित्वादावेकं साध्व्यै स्वकोषतः ।
शीलवत्यै द्विजेभ्योऽर्धं दत्त्वान्यद्भोगनिस्पृहः ।। १०८
पापभञ्जनसंज्ञाय ब्राह्मणाय यथाविधि ।
ददौ गुणगरिष्ठाय निजं राज्यं स भूपतिः ।। १०९
दत्तराज्यश्च नभसा स गमिष्यंस्तपोवनम् ।
आनाययच्छ्वेतरश्मिं पौराणां साश्रु पश्यताम् ।। ११०
आनीतमात्रः स करी शरीरं प्रविमुच्य तत् ।
पुरुषो दिव्यरूपोऽभूद्धारकेयूरराजितः ।। १११
को भवान्किमिदं चेति पृष्टो राज्ञा जगाद सः ।
गन्धर्वौ भ्रातरावावामुभौ मलयवासिनौ ।। ११२
अहं सोमप्रभो नाम ज्येष्ठो देवप्रभश्च सः ।
तस्य चैकैव मद्भ्रातुर्भार्या सा चातिवल्लभा ।। ११३
स तां राजवतीं नाम कृत्वोत्सङ्गे परिभ्रमन् ।
एकदा सिद्धवासाख्यं स्थानं प्रायान्मया सह ।। ११४
केशवायतने तत्र वयमभ्यर्चिताच्युताः ।
प्रावर्तामहि सर्वेऽपि गातुं भगवतः पुरः ।। ११५
तावदागत्य तत्रैकः सिद्धस्तां श्रव्यगायिनीम् ।
दृशा राजवतीं पश्यन्नतिष्ठदनिमेषया ।। ११६
सिद्धोऽपि साभिलाषः किं परनारीं निरीक्षसे ।
इति सेर्ष्यः स मद्भ्राता क्रुद्धः सिद्धं तमब्रवीत् ।। ११७
ततः स सिद्धः कुपितः शप्तुमेवं तमभ्यधात् ।
गीताश्चर्यान्मया मूढ वीक्षितेयं न कामतः ।। ११८
तन्मर्त्ययोनावीर्ष्यालुः पत त्वमनया सह ।
पश्यैतामेव भार्यां त्वं साक्षात्तत्रान्यसंगताम् ।। ११९
इत्यूचिवान्मया सोऽथ बाल्यात्तच्छापकोपतः ।
हस्तस्थेनाहतः क्रीडामृण्मयश्वेतहस्तिना ।। १२०
ततः स मां समशपद्येनाहं भवताहतः ।
तादृक्श्वेतो गजो भूमौ भवानुत्पद्यतामिति ।। १२१
अथानुनीतो मद्भ्रात्रा तेन देवप्रभेण सः ।
सिद्धः कृपालुः शापान्तमेवमस्माकमब्रवीत् ।। १२२
हरेः प्रसादान्मर्त्योऽपि भूत्वा द्वीपेश्वरो भवान् ।
गजीभूतमिमं प्राप्स्यस्यनुजं दिव्यवाहनम् ।। १२३
अन्तःपुरसहस्राणि त्वमशीतिमवाप्स्यसि ।
तेषां वेत्स्यसि दौःशील्यं सर्वेषां जनसंनिधौ ।। १२४
अथैतां मानुषीभूतां स्वभार्यां परिणेष्यसि ।
प्रत्यक्षमेनामपि च द्रक्ष्यस्यन्येन संगताम् ।। १२५
ततो विरक्तहृदयो दत्त्वा राज्यं द्विजन्मने ।
देवप्रभ यदा शान्तो वनं गन्तुं प्रवत्स्यसि ।। १२६
तदा प्रथममुक्तेऽस्मिन्गजत्वादनुजे तव ।
अनया भार्यया साकं शापात्त्वमपि मोक्ष्यसे ।। १२७
इति सिद्धोक्तशापान्ता वयं प्राक्कर्मभेदतः ।
एवं जाताः पृथग्योगाच्छापान्तः सैष चाद्य नः ।। १२८
एवं सोमप्रभेणोक्ते स रत्नाधिपतिर्नृपः ।
जातिं स्मृत्वाब्रवीद्धन्त सैष देवप्रभो ह्यहम् ।। १२९
एषापि राजदत्ता सा पत्नी राजवती मम ।
इत्युक्त्वा स तया साकं भार्यया तां तनुं जहौ ।। १३०
क्षणात्सर्वेऽपि गन्धर्वा भूत्वा लोकस्य पश्यतः ।
खमुत्पत्य निजं धाम ययुस्ते मलयाचलम् ।। १३१
शीलवत्यपि शीलस्य माहात्म्यात्प्राप्य संपदम् ।
ताम्रलिप्तीं पुरीं गत्वा तस्थौ धर्मोपसेविनी ।। १३२
इति जगति न रक्षितुं समर्थः क्वचिदपि कश्चिदपि प्रसह्य नारीम् ।
अवति तु सततं विशुद्ध एकः कुलयुवतीं निजसत्त्वपाशबन्धः ।। १३३
एवं चेर्ष्या नाम दुःखैकहेतुर्दोषः पुंसां द्वेषदायी परेषाम् ।
योऽयं मा भूद्रक्षणायाङ्गनानामत्यौत्सुक्यं प्रत्युतासां करोति ।। १३४
इति नरवाहनदत्तो रत्नप्रभया स्वभार्यया कथिताम् ।
स निशम्य कथामर्थ्यां सचिवैः सार्धं परं मुमुदे ।। १३५
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे रत्नप्रभालम्बके द्वितीयस्तरङ्गः ।