कथासरित्सागरः/लम्बकः ३/तरङ्गः २

विकिस्रोतः तः
Jump to navigation Jump to search

ततः पूर्वोक्तया युक्त्या वत्सराजं सवल्लेभम् ।
यौगन्धरायणाद्यास्ते निन्युर्लावाणकं प्रति ।। १
स राजा प्राप तं देशं सैन्यघोषेण मूर्च्छता ।
अभिवाञ्छितसंसिद्धिं वदन्तमिव मन्त्रिणाम् ।। २
तत्र प्राप्तं विदित्वा च वत्सेशं सपरिच्छदम् ।
अवस्कन्दभयाशङ्की चकम्पे मगधेश्वरः ।। ३
यौगन्धरायणोपान्तं सद्बुद्धिर्विससर्ज च ।
स दूतं सोऽपि सन्मन्त्री कार्यज्ञोऽभिननन्द तम् ।। ४
वत्सेश्वरोऽपि निवसंस्तस्मिन्देशे दवीयसीम् ।
आखेटकार्थमटवीमटति स्म दिने दिने ।। ५
एकस्मिन्दिवसे तस्मिन्नाजन्याखेटकं गते ।
कर्तव्यसंविदं कृत्वा गोपालकसमन्वितः ।। ६
यौगन्धरायणो धीमान्सरुमण्वद्वसन्तकः ।
देव्या वासवदत्ताया विजने निकटं ययौ ।। ७
तत्र तां राजकार्येऽत्र साहाय्ये तत्तदुक्तिभिः ।
प्रह्वामभ्यर्थयामास भ्रात्रा पूर्वं प्रबोधिताम् ।। ८
सानुमेने च विरहक्लेशदायि तदात्मनः ।
किं नाम न सहन्ते हि भर्तृभक्ताः कुलाङ्गनाः ।। ९
ततस्तां ब्राह्मणीरूपां देवीं यौगन्धरायणः ।
स चकार कृती दत्त्वा योगं रूपविवर्तनम् ।। १०
वसन्तकं च कृतवान्काणं बटुकरूपिणम् ।
आत्मना च तथैवाभूत्स्थविरब्राह्मणाकृतिः ।। ११
तथारूपां गृहीत्वाथ तां देवीं स महामतिः ।
वसन्तकसखः स्वैरं प्रतस्थे मगधान्प्रति ।। १२
तथा वासवदत्ता सा स्वगृहान्निर्गता सती ।
अगाच्चित्तेन भर्तारं पन्थानं वपुषा पुनः ।। १३
तन्मन्दिरमथादीप्य दहनेन रुमण्वता ।
हा हा वसन्तकयुता देवी दग्धेत्यघोष्यत ।। १४
तथा च दहनाक्रन्दौ समं तत्रोदतिष्ठताम् ।
शनैः शशाम दहनो न पुनः क्रन्दितध्वनिः ।। १५
यौगन्धरायणः सोऽथ सह वासवदत्तया ।
वसन्तकेन च प्राप मगधाधिपतेः पुरम् ।। १६
तत्रोद्यानगतां दृष्ट्वा समं ताभ्यामुपाययौ ।
पद्मावतीं राजसुतां वार्यमाणोऽपि रक्षिभिः । १७
पद्मावत्याश्च दृष्ट्वैव ब्राह्मणीरूपधारिणीम् ।
देवीं वासवदत्तां तां दृशोः प्रीतिरजायत ।। १८
सा रक्षिणो निषिध्यैव ततो यौगन्धरायणम् ।
आनाययद्राजकन्या ब्राह्मणाकृतिमन्तिकम् ।। १९
पप्रच्छ च महाब्रह्मन्का ते बाला भवत्यसौ ।
किमर्थमागतोऽसीति सोऽपि तां प्रत्यभाषत ।। २०
इयमावन्तिका नाम राजपुत्री सुता मम ।
अस्याश्च भर्ता व्यसनी त्यक्त्वेमां कुत्रचिद्गतः ।। २१
तदेतां स्थापयाम्यद्य तव हस्ते यशस्विनि ।
यावत्तमानयाम्यस्या गत्वान्विष्याचिरात्पतिम् ।। २१
भ्राता काणबटुश्चायमिहैवास्याः समीपगा ।
तिष्ठत्वेकाकिनीभावदुःखं येन न यात्यसौ ।। २३
इत्युक्त्वा राजतनयामङ्गीकृतवचास्तया ।
तामामन्त्र्य स सन्मन्त्री द्रुतं लावाणकं ययौ ।। २४
ततो वासवदत्तां तां स्थितामावन्तिकाख्यया ।
वसन्तकं चानुगतं तं काणबटुरूपिणम् ।। २५
सहादाय कृतोदारसत्कारा स्नेहशालिनी ।
पद्मावती स्वभवनं विवेश बहुकौतुकम् ।। २६
तत्र वासवदत्ता च प्रविष्टा चित्रभित्तिषु ।
पश्यन्ती रामचरिते सीतां सेहे निजव्यथाम् ।। २७
आकृत्या सौकुमार्येण शयनासनसौष्ठवैः ।
शरीरसौरभेणापि नीलोत्पलसुगन्धिना ।। २८
तामुत्तमां विनिश्चित्य महार्हैरात्मनः समैः ।
पद्मावती यथाकाममुपचारैरुपाचरत् ।। २९
अचिन्तयच्च काप्येषा छन्ना नूनमिह स्थिता ।
गूढा किं द्रौपदी नासीद्विराटवसताविति ।। ३०
अथ वासवदत्तास्याश्चक्रे देव्याः प्रसङ्गतः ।
अम्लानमालातिलकौ वत्सेशात्पूर्वशिक्षितौ ।। ३१
तद्भूषितां च दृष्ट्वा तां माता पद्मावतीं रहः ।
पप्रच्छ मालातिलकौ केनेमौ निर्मिताविति ।। ३२
ऊचे पद्मावती चैनामत्र मन्मन्दिरे स्थिता ।
काचिदावन्तिका नाम तया कृतमिदं मम ।। ३३
तच्छ्रुत्वा सा बभाषे तां माता पुत्रि न तर्हि सा ।
मानुषी कापि देवी सा यस्या विज्ञानमीदृशम् ।। ३४
देवता मुनयश्चापि वञ्चनार्थं सतां गृहे ।
तिष्ठन्त्येव तथा चैतामत्र पुत्रि कथां शृणु ।। ३५
बभूव कुन्तिभोजाख्यो राजा तस्यापि वेश्मनि ।
आगत्य तस्थौ दुर्वासा वञ्चनैकरसो मुनिः ।। ३६
स तस्य परिचर्यार्थं राजा कुन्तीं निजां सुताम् ।
आदिदेश मुनिं सापि यत्नेनोपचचार तम् ।। ३७
एकदा स मुनिः कुन्तीं जिज्ञासुः सन्नभाषत ।
परमान्नं पचेः शीघ्रं स्नात्वा यावदुपैम्यहम् ।। ३८
इत्युक्त्वा त्वरितं स्नात्वा स चर्षिर्भोक्तुमाययौ ।
कुन्ती तदन्नपूर्णां च तस्मै पात्रीमढौकयत् ।। ३९
अतितप्तेन चान्नेन ज्वलन्तीमिव तां मुनिः ।
मत्वा हस्तग्रहायोग्यां कुन्त्या पृष्ठे दृशं ददौ ।। ४०
सापि पृष्ठेन तां पात्रीं दधौ लब्धाशया मुनेः ।
ततः स बुभुजे स्वेच्छं कुन्तीपृष्ठं त्वदह्यत ।। ४१
दह्यमानापि गाढं सा यत्तस्थावविकारिणी ।
तेन तुष्टो मुनिर्भुक्त्वा ददौ तस्यास्ततो वरम् ।। ४२
इत्यासीत्स मुनिस्तत्र तदेषावन्तिकापि ते ।
तद्वदेव स्थिता कापि तत्त्वमाराधयेरिमाम् ।। ४३
इति मातुर्मुखाच्छ्रुत्वा पद्मावत्यन्यरूपिणीम् ।
तत्र वासवदत्तां तां सुतरां बह्वमन्यत ।। ४४
सापि वासवदत्तात्र निजनाथविनाकृता ।
तस्थौ विधुरविच्छाया निशीथस्थेव पद्मिनी ।। ४५५
वसन्तकविकाराश्च ते ते बालोचिता मुहुः ।
मुखे तस्या वियोगिन्याः स्मितस्यावसरं ददुः ।। ४६
अत्रान्तरेऽतिदूरासु भ्रान्त्वाखेटकभूमिषु ।
वत्सराजश्चिरादागात्सायं लावाणकं पुनः ।। ४७
भस्मीकृतमपश्यच्च तत्रान्तःपुरमग्निना ।
देवीं दग्धां च शुश्राव मन्त्त्रिभ्यः सवसन्तकाम् ।। ४८
श्रुत्वैव चापतद्भूमौ मोहेन हृतचेतनः ।
तद्दुःखानुभवक्लेशमपाकर्तुमिवेच्छता ।। ४९
क्षणाच्च लब्धसंज्ञः सञ्जज्वाल हृदये शुचा ।
आविष्ट इव तत्रस्थदेवीदाहेक्षणाग्निना ।। ५०
विलपन्नथ दुःखार्तो देहत्यागैकसंमुखः ।
क्षणान्तरे स नृपतिः संस्मृत्यैतदचिन्तयत् ।। ५१
विद्याधराधिपः पुत्रो देव्यास्तस्या भविष्यति ।
एतन्मे नारदमुनिर्वक्ति स्म न च तन्मृषा ।। ५२
कंचित्कालं च दुःखं मे तेनैव मुनिनोदितम् ।
गोपालकस्य चैतस्य शोकः स्वल्प इवेक्ष्यते ।। ५३
यौगन्धरायणादीनां न चैषामतिदुःखिता ।
दृश्यते तेन जाने सा देवी जीवेत्कथंचन ।। ५४
इयं किमपि नीतिस्तु प्रत्युक्ता मन्त्रिभिर्भवेत् ।
अतो मम भवेज्जातु तया देव्या समागमः ।। ५५
तत्पश्याम्यत्र पर्यन्तमित्यालोच्य स भूपतिः ।
निदधे हृदये धैर्यं बोध्यमानश्च मन्त्रिभिः ।। ५६
गोपालकश्च संदिश्य तद्यथावस्तु तत्क्षणम् ।
प्रजिघाय ततश्चारं धृतिहेतोरलक्षितम् ।। ५७
एवं गते स्ववृत्तान्ते लावाणकगतैस्तदा ।
गत्वा मगधराजाय चारैः सर्वं निवेदितम् ।। ५८
स तद्बुद्ध्वैव कालज्ञो वत्सराजाय तां सुताम् ।
दातुं पद्मावतीमैच्छत्पूर्वं तन्मन्त्रिमार्गिताम् ।। ५९
ततो दूतमुखेनैनमर्थं वत्सेश्वराय सः ।
यौगन्धरायणायापि संदिदेश यथेप्सितम् ।। ६०
यौगन्धरायणोक्त्या च वत्सेशोऽङ्गीचकार तत् ।
प्रच्छादितैतदर्थं स्याद्देवी जात्विति चिन्तयन् ।। ६१
ततो लग्नं विनिश्चित्य तूर्णं यौगन्धरायणः ।
तस्मै मगधराजाय प्रतिदूतं व्यसर्जयत् ।। ६२
त्वदिच्छाङ्गीकृतास्माभिस्तदितः सप्तमे दिने ।
पद्मावतीविवाहाय वत्सेशोऽत्रागमिष्यति ।। ६३
शीघ्रं वासवदत्तां च येनासौ विस्मरिष्यति ।
इति चास्मै महामन्त्री संदिदेश स भूभृते ।। ६४
प्रतिदूतः स गत्वा च यथासंदिष्टमभ्यधात् ।
ततो मगधराजाय स चाप्यभिननन्द तम् ।। ६५
ततः स दुहितृस्नेहनिजेच्छाविभवोचितम् ।
विवाहोत्सवसंभारं चकार मगधेश्वरः ।। ६६
सा चाभीष्टवरश्रुत्या मुदं पद्मावती ययौ ।
प्राप वासवदत्ता च तद्वार्ताकर्णनाच्छुचम् ।। ६७
सा वार्ता कर्णमागत्य तस्या वैवर्ण्यदायिनी ।
प्रच्छन्नवासवैरूप्यसाहायकमिवाकरोत् ।। ६८
इत्थं मित्त्रीकृतः शत्रुर्न च भर्तान्यथा त्वयि ।
वसन्तकोक्तिरित्यस्याः सखीव विदधे धृतिम् ।। ६९
अथासन्नविवाहायाः पद्मावत्या मनस्विनी ।
अम्लानमालातिलकौ दिव्यौ भूयश्चकार सा ।। ७०
ततो वत्सेश्वरस्तत्र संप्राप्ते सप्तमेऽहनि ।
ससैन्यो मन्त्रिभिः साकं परिणेतुं किलाययौ ।। ७१
मनसापि तदुद्योगं विरही स कथं स्पृशेत् ।
देवीं लभेय तामेवमित्याशा न भवेद्यदि ।। ७२
प्रत्युद्ययौ च तं सद्यः सानन्दो मगधेश्वरः ।
प्रजानेत्रोत्सवं चन्द्रमुदयस्थमिवाम्बुधिः ।। ७३
विवेशाथ स वत्सेशो मगधाधिपतेः पुरम् ।
समन्तात्पौरलोकस्य मानसं च महोत्सवः ।। ७४
विरहक्षामवपुषं मनःसंमोहदायिनम् ।
ददृशुस्तत्र नार्यस्तं रतिहीनमिव स्मरम् ।। ४५५
प्रविश्य मगधेशस्य वत्सेशोऽप्यथ मन्दिरम् ।
सनाथं पतिवत्नीभिः कौतुकागारमाययौ ।। ७६
तत्र पद्मावतीमन्तर्ददर्श कृतकौतुकाम् ।
स राजा पूर्णवक्त्रेन्दुजितपूर्णेन्दुमण्डलाम् ।। ७७
तस्याश्च मालातिलकौ दिव्यावालोक्य तौ निजौ ।
एतौ कुतोऽस्या इत्येवं विममर्श स भूपतिः ।। ७८
ततः स वेदीमारुह्य तस्या जग्राह यत्करम् ।
तदेवारम्भतां प्राप तस्य पृथ्व्याः करग्रहे ।। ७९
प्रियवासवदत्तोऽयमिदं शक्नोति नेक्षितुम् ।
इतीव वेदीधूमोऽस्य बाष्पेण पिदधे दृशौ ।। ८०
अग्निप्रदक्षिणे ताम्रं तदा पद्मावतीमुखम् ।
विज्ञातभर्त्रभिप्रायं कोपाकुलमिवाबभौ ।। ८१
मुमोच स कृतोद्वाहः कराद्वत्सेश्वरो वधूम् ।
न तु वासवदत्तां तां तत्याज हृदयात्क्षणम् ।। ८२
ततस्तथा ददौ तस्मै रत्नानि मगधाधिपः ।
निर्दुग्धरत्नरिक्तेव पृथिवी बुबुधे यथा ।। ८३
साक्षीकृत्य च तत्कालमग्निं यौगन्धरायणः ।
अद्रोहप्रत्ययं राज्ञो मगधेशमकारयत् ।। ८४
प्रदत्तवस्त्राभरणः प्रगीतवरचारणः ।
प्रनृत्तवरनारीकः प्रससार महोत्सवः ।। ८५
उदयापेक्षिणी पत्युः सुप्तेवालक्षितस्थिता ।
तदा वासवदत्ताभूद्दिवा कान्तिरिवैन्दवी ।। ८६
अन्तःपुरमुपायाते राज्ञि वत्सेश्वरे ततः ।
देवीसंदर्शनाशङ्की कृती यौगन्धरायणः ।। ८७
मन्त्रभेदभयादेवं मगधेश्वरमभ्यधात् ।
अद्यैव नाथ वत्सेशः प्रयाति त्वद्गृहादिति ।। ८८
तथेत्यङ्गीकृतं तेन तमेवार्थं तदैव सः ।
व्यजिज्ञपद्वत्सराजं सोऽपि तच्छ्रद्दधे तथा ।। ८९
अथोच्चचाल वत्सेशो भुक्तपीतपरिच्छदः ।
मन्त्रिभिः सममादाय वधूं पद्मावतीं ततः ।। ९०
पद्मावत्या विसृष्टं च सुखमारुह्य वाहनम् ।
तयैव च समादिष्टैस्तन्महत्तरकैः सह ।। ९१
आगाद्वासवदत्तापि गुप्तं सैन्यस्य पृष्ठतः ।
कृतरूपविवर्तं तं पुरस्कृत्य वसन्तकम् ।। ९२
क्रमाल्लावाणकं प्राप्य वत्सेशो वसतिं निजाम् ।
प्रविवेश समं वध्वा देवीचित्तस्तु केवलः ।।
एत्य वासवदत्तापि सा गोपालकमन्दिरम् ।
विवेशाथ निशीथे च परिस्थाप्य महत्तरान् ।। ९४
तत्र गोपालकं दृष्ट्वा भ्रातरं दर्शितादरम् ।
कण्ठे जग्राह रुदती बाष्पव्याकुललोचनम् ।। ९५
तत्क्षणे स्थितसंविच्च तत्र यौगन्धरायणः ।
आययौ सरुमण्वत्कस्तया देव्या कृतादरः ।। ९६
सोऽस्याः प्रोत्साहविश्लेषदुःखं यावद्व्यपोहति ।
तावत्पद्मावतीपार्श्वं प्रययुस्ते महत्तराः ।। ९७
आगतावन्तिका देवि किमप्यस्मान्विहाय तु ।
प्रविष्टा राजपुत्रस्य गृहं गोपालकस्य सा ।। ९८
इति पद्मावती सा तैर्विज्ञप्ता स्वमहत्तरैः ।
वत्सेश्वराग्रे साशङ्का तानेव प्रत्यभाषत ।। ९९
गच्छतावन्तिकां ब्रूथ निक्षेपस्त्वं हि मे स्थिता ।
तदत्र किं ते यत्राहं तथैवागम्यतामिति ।। १००
तच्छ्रुत्वा तेषु यातेषु राजा पद्मावतीं रहः ।
पप्रच्छ मालातिलकौ केनेमौ ते कृताविति ।। १०१
सावोचदथ मद्गेहे न्यस्ता विप्रेण केनचित् ।
आवन्तिकाभिधा यैषा तस्याः शिल्पमिदं महत् ।। १०२
तच्छ्रुत्वैव च वत्सेशो गोपालगृहमाययौ ।
नूनं वासवदत्ता सा भवेदत्रेति चिन्तयन् ।। १०३
प्रविवेश च गत्वा तद्द्वारस्थितमहत्तरम् ।
अन्तस्थदेवीगोपालमन्त्रिद्वयवसन्तकम् ।। १०४
तत्र वासवदत्तां तां ददर्श प्रोषितागताम् ।
उपप्लवविनिर्मुक्तां मूर्तिं चान्द्रमसीमिव ।। १५
पपाताथ महीपृष्ठे स शोकविषविह्वलः ।
कम्पो वासवदत्ताया हृदये तूदपद्यत ।। १०६
ततः साप्यपतद्भूमौ गात्रैर्विरहपाण्डुरैः ।
विललाप च निन्दन्ती तदाचरितमात्मनः ।। १०७
अथ तौ दंपती शोकदीनौ रुरुदतुस्तथा ।
यौगन्धरायणोऽप्यासीद्वाष्पधौतमुखो यथा ।। १०८
तथाविधं च तच्छ्रुत्वा काले कोलाहलं तदा ।
पद्मावत्यपि तत्रैव साकुला तमुपाययौ ।। १०९
क्रमादवगतार्था च राजवासवदत्तयोः ।
तुल्यावस्थैव साप्यासीत्स्निग्धमुग्धा हि सत्स्त्रियः ।। ११०
किं जीवितेन मे कार्यं भर्तृदुःखप्रदायिना ।
इति वासवदत्ता च जगाद रुदती मुहुः ।। १११
मगधेशसुतालाभात्तव साम्राज्यकाङ्क्षिणा ।
कृतमेतन्मया देव देव्या दोषो न कश्चन ।। ११२
इयं त्वस्याः सपत्न्येव प्रवासे शीलसाक्षिणी ।
इत्युवाचाथ वत्सेशं धीरो यौगन्धरायणः ।। ११३
अहमत्र विशाम्यग्नावस्याः शुद्धिप्रकाशने ।
इति पद्मावती तत्र जगादामत्सराशया ।। ११४
अहमेवापराध्यामि यत्कृते सुमहानयम् ।
सोढो देव्यापि हि क्लेश इति राजाप्यभाषत ।। ११५
अग्निप्रवेशः कार्यो मे राज्ञो हृदयशुद्धये ।
इति वासवदत्ता च बभाषे बद्धनिश्चया ।। ११६
ततः स कृतिनां धुर्यो धीमान्यौगन्धरायणः ।
आचम्य प्राङ्मुखः शुद्ध इति वाचमुदैरयत् ।। ११७
यद्यहं हितकृद्राज्ञो देवी शुद्धिमती यदि ।
ब्रूत भो लोकपालास्तन्न चेद्देहं त्यजाम्यहम् ।। ११८
इत्युक्त्वा विरते तस्मिन्दिव्या वागुदभूदियम् ।
धन्यस्त्वं नृपते यस्य मन्त्री यौगन्धरायणः ।। ११९
यस्य वासवदत्ता च भार्या प्राग्जन्मदेवता ।
न दोषः कश्चिदेतस्या इत्युक्त्वा वागुपारमत् ।। १२०
आकर्ण्य तन्मुखरिताखिलदिग्विभागमामन्द्रनूतनघनाघनगर्जितश्रि ।
उत्कंधराश्च सुचिरं विहताभितापाः सर्वेऽपि ते स्फुटविडम्बितनीलकण्ठाः ।। १२१
गोपालकसहितोऽपि च राजा यौगन्धरायणाचरितम् ।
स्तौति स्म वत्सराजो मेने पृथ्वीं च हस्तगताम् ।। १२२
दधदथ नृपतिः स मूर्तिमत्यौ निकटगते रतिनिर्वृती इवोभे ।
अनुदिनसहवाससानुरागे निजदयिते परमुत्सवं बभार ।। १२३
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे लावाणकलम्बके द्वितीयस्तरङ्गः ।