कथासरित्सागरः/लम्बकः २/तरङ्गः ५

विकिस्रोतः तः
Jump to navigation Jump to search

अथ वासवदत्ता सा शनैर्वत्सेश्वरं प्रति ।
गाढं बबन्ध सद्भावं पितृपक्षपराङ्मुखी ।। १
ततो वत्सेशनिकटं पुनर्यौगन्धरायणः ।
विवेशादर्शनं कृत्वा सर्वानन्याञ्जनान्प्रति ।। २
वसन्तकसमक्षं च विजने तं व्यजिज्ञपत् ।
राजन्बद्धो भवांश्चण्डमहासेनेन मायया ।। ३
सुतां च दत्त्वा संमान्य त्वामयं मोक्तुमिच्छति ।
तदस्यैनां स्वयं हृत्वा गच्छामस्तनयां वयम् ।। ४
एवं ह्यस्य प्रतीकारो दृप्तस्य विहितो भवेत् ।
अपौरुषकृतं लोके नैव स्याल्लाघवं च वः ।। ५
अस्ति चैतेन दत्तास्यास्तनयायाः करेणुका ।
राज्ञा वासवदत्ताया नाम्ना भद्रवती नृप ।। ६
सा चानुगन्तुं वेगेन शक्या नान्येन दन्तिना ।
मुक्त्वा नडागिरिं सोऽपि तां दृष्ट्वैव न युध्यते ।। ७
तस्याश्चाषाढको नाम हस्त्यारोहोऽत्र विद्यते ।
स च दत्त्वा धनं भूरि स्वीकृत्य स्थापितो मया ।। ८
तदारुह्य करेणुं तां सह वासवदत्तया ।
सायुधेनापयातव्यं नक्तं गुप्तमितस्त्वया ।। ९
इहत्यश्च महामात्रो द्विरदेङ्गितवित्तदा ।
मद्येन क्षीबता नेयो नैतच्चेतयते यथा ।। १०
पुलिन्दकस्य सख्युस्ते पार्श्वमग्रे च याम्यहम् ।
मार्गरक्षार्थमित्युक्त्वा ययौ यौगन्धरायणः ।। ११
वत्सराजोऽपि तत्सर्वं कर्तव्यं हृदये व्यधात् ।
अथ वासवदत्ता सा तस्यान्तिकमुपाययौ ।। १२
ततस्तास्ताः सविस्रम्भाः कथाः कुर्वंस्तया सह ।
यौगन्धरायणोक्तं च तस्यै राजा शशंस सः ।। १३
सा च तत्प्रतिपद्यैव निश्चित्य गमनं प्रति ।
आनाय्याषाढकं सज्जं हस्त्यारोहं चकार तम् ।। १४
देवपूजापदेशेन दत्त्वा मद्यं मदान्वितम् ।
सर्वाधोरणसंयुक्तं महामात्रं च साकरोत् ।। १५
ततः प्रदोषे विलसन्मेघशब्दसमाकुले ।
आषाढकः करेणुं तां सज्जीकृत्यानिनाय सः ।। १६
सज्ज्यमाना च सा शब्दं चकार करिणी किल ।
तं च हस्तिरुताभिज्ञो महामात्रोऽथ सोऽशृणोत् ।। १७
त्रिषष्टियोजनान्यद्य यास्यामीत्याह हस्तिनी ।
इत्युवाच स चोद्दाममदविस्खलिताक्षरम् ।। १८
विचारार्हं पुनस्तस्य मत्तस्याभून्न मानसम् ।
तच्च हस्तिपकाः क्षीबास्तद्वाक्यं नैव शुश्रुवुः ।। १९
ततश्च वत्सराजोऽत्र वीणामादाय तां निजाम् ।
यौगन्धरायणात्प्राप्तैर्योगैः स्रंसितबन्धनः ।। २०
उपनीतप्रहरणः स्वैरं वासवदत्तया ।
करेणुकायामारोहत्स तस्यां सवसन्तकः ।। २१
ततो वासवदत्तापि सह काञ्चनमालया ।
सख्या रहस्यधारिण्या तस्यामेवारुरोह सा ।। २२
अथोज्जयिन्या निरगात्स हस्तिपकपञ्चमः ।
वत्सेशो निशि मत्तेभभिन्नप्राकारवर्त्मना ।। २३
तत्स्थानरक्षिणौ वीरौ स्वैरं स हतवान्नृपः ।
वीरबाहुं तथा तालभटं राजसुतावुभौ ।। २४
ततः प्रतस्थे वेगेन स राजा दयितासखः ।
हृष्टः करेणुकारूढो दधत्याषाढकेऽङ्कुशम् ।। २५
उज्जयिन्यां च तौ दृष्ट्वा हतौ प्राकाररक्षिणौ ।
राज्ञे न्यवेदयन्रात्रौ क्षुभिताः पुररक्षिणः ।। २६
सोऽप्यन्विष्य क्रमाच्चण्डमहासेनः पलायितम् ।
हृतवासवदत्तं तं वत्सराजमबुध्यत ।। २७
तत्पुत्रः पालकाख्योऽथ जातकोलाहले पुरे ।
अन्वधावत्स वत्सेशमधिरुह्य नडागिरिम् ।। २८
वत्सेशोऽपि तमायान्तं पथि बाणैरयोधयत् ।
नडागिरिः करेणुं तां दृष्ट्वा न प्रजहार च ।। २९
ततः स पालको भ्रात्रा पश्चादेत्य न्यवर्त्यत ।
गोपालकेन वाक्यज्ञः पितृकार्यानुरोधिना ।। ३०
वत्सराजोऽपि विस्रब्धं गन्तुं प्रववृते ततः ।
गच्छतश्चात्र शनकैः शर्वरी पर्यहीयत ।। ३१
ततो विन्ध्याटवीं प्राप्य मध्याह्ने तस्य भूपतेः ।
त्रिपष्टियोजनायाता तृषिताभूत्करेणुका ।। ३२
अवतीर्णे सभार्ये च राज्ञि तस्मिञ्जलानि सा ।
पीत्वा तद्दोषतः प्राप पञ्चतां हस्तिनी क्षणात् ।। ३३
विषण्णोऽथ स वत्सेशः सह वासवदत्तया ।
गगनादुद्गतामेतां शृणोति स्म सरस्वतीम् ।। ३४
अहं मायावती नाम राजन्विद्याधराङ्गना ।
इयन्तं कालमभवं शापदोषेण हस्तिनी ।। ३५
उपकारं च वत्सेश तवाद्य कृतवत्यहम् ।
करिष्यामि च भूयोऽपि त्वत्पुत्रस्य भविष्यतः ।। ३६
एषा वासवदत्ता च पत्नी ते नैव मानुषी ।
देवीयं कारणवशादवतीर्णा क्षिताविति ।। ३७
ततः स हृष्टो व्यसृजद्विन्ध्यसानुं वसन्तकम् ।
पुलिन्दकाय सुहृदे वक्तुं स्वागमनं नृपः ।। ३८
स्वयं च पादचारी सन्स शनैर्दयितान्वितः ।
तत्रैव गच्छन्नुत्थाय दस्युभिः पर्यवार्यत ।। ३९
धनुर्द्वितीयो दस्यूनां तेषां पञ्चोत्तरं शतम् ।
पुरो वासवदत्ताया वत्सराजः स चावधीत् ।। ४०
तत्क्षणं सोऽस्य राज्ञोऽत्र मित्त्रं चागात्पुलिन्दकः ।
यौगन्धरायणसखो वसन्तकपुरःसरः ।। ४१
स तान्दस्यून्निवार्यान्यान्वत्सेशं प्रणिपत्य तम् ।
नयति स्म निजां पल्लीं भिल्लराजः सवल्लभम् ।। ४२
तत्र तां रात्रिमारण्यदर्भपाटितपादया ।
स वत्सेशो विशश्राम सह वासवदत्तया ।। ४३
प्रातः सेनापतिश्चास्य रुमण्वान्प्रापदन्तिकम् ।
यौगन्धरायणेन प्राग्दूत संप्रेष्य बोधितः ।। ४४
आगाच्च कटकं सर्वं तथा व्याप्तदिगन्तरम् ।
यथा विन्ध्याटवी प्राप सा संबाधरसज्ञताम् ।। ४५
प्रविश्य कटके तस्मिंस्तस्यामेवाटवीभुवि ।
तस्थावुज्जयिनीवार्ता ज्ञातुं वत्सेश्वरोऽथ सः ।। ४६
तत्रस्थं च तमभ्यागादुज्जयिन्या वणिक्तदा ।
यौगन्धरायणसुहृत्स चागत्याब्रवीदिदम् ।। ४७
देव चण्डमहासेनः प्रीतो जामातरि त्वयि ।
प्रेषितश्च प्रतीहारस्तेनेह भवदन्तिकम् ।। ४८
स चागच्छन्स्थितः पश्चादहमग्रत एव तु ।
प्रच्छन्नः सत्वरं देवं विज्ञापयितुमागतः ।। ४९
एतच्छ्रुत्वा स वत्सेशो जहर्ष च शशंस च ।
सर्वं वासवदत्तायाः सापि हर्षमगात्परम् ।। ५०
कृतबन्धुपरित्यागा विवाहविधिसत्वरा ।
अथ वासवदत्ता सा सलज्जा चोत्सुका तथा ।। ५१
ततः स्वात्मविनोदाय निकटस्थं वसन्तकम् ।
सा जगाद कथा काचित्त्वया मे वर्ण्यतामिति ।। ५२
स च मुग्धदृशस्तस्या भर्तृभक्तिविवर्धिनीम् ।
वसन्तकस्तदा धीमानिमामकथयत्कथाम् ।। ५३
अस्तीह नगरी लोके ताम्रलिप्तीति विश्रुता ।
तस्यां च धनदत्ताख्यो वणिगासीन्महाधनः ।। ५४
स चापुत्रो बहून्विप्रान्संघट्य प्रणतोऽब्रवीत् ।
तथा कुरुत पुत्रो मे यथा स्यादचिरादिति ।। ५५
ततस्तमूचुर्विप्रास्ते नैतत्किंचन दुष्करम् ।
सर्वं हि साधयन्तीह द्विजाः श्रौतेन कर्मणा ।। ५६
तथा च पूर्वमभवद्राजा कश्चिदपुत्रकः ।
पञ्चोत्तरं शतं चाभूत्तस्यान्तःपुरयोषिताम् ।। ५७
पुत्रीयेष्ट्या च तस्यैको जन्तुर्नाम सुतोऽजनि ।
तत्पत्नीनामशेषाणां नूतनेन्दूदयो दृशि ।। ५८
जानुभ्यां पर्यटन्तं च बालं जातु पिपीलिका ।
ऊरुदेशे ददंशैनं भुक्तचूत्कारकातरम् ।। ५९
तावता तुमुलाक्रन्दमन्तःपुरमजायत ।
राजापि पुत्र पुत्रेति चक्रन्द प्राकृतो यथा ।। ६०
क्षणात्तस्मिन्समाश्वस्ते बालेऽपास्तपिपीलिके ।
दुःखैककारणं राजा स निनिन्दैकपुत्रताम् ।। ६१
अस्ति कश्चिदुपायो मे येन स्युर्बहवः सुताः ।
इति तत्परितापेन पप्रच्छ ब्राह्मणांश्च सः ।। ६२
ते तं प्रत्यब्रुवन्राजन्नुपायोऽत्र तवास्त्ययम् ।
हत्वैतं त्वत्सुतं वह्नौ तन्मांसं हूयतेऽखिलम् ।। ६३
तद्गन्धाघ्राणतो राज्ञ्यः सर्वाः प्राप्स्यन्ति ते सुतान् ।
एतच्छ्रुत्वा स राजा तत्तथा सर्वमकारयत् ।। ६४
स्वपत्नीसमसंख्यांश्च स पुत्रान्प्राप्तवान्नृपः ।
अतस्तवापि होमेन साधयामो वयं सुतम् ।। ६५
इत्युक्त्वा धनदत्तं ते ब्राह्मणाः क्लृप्तदक्षिणम् ।
होमं चक्रुस्ततस्तस्य वणिजो जातवान्सुतः ।। ६६
गुहसेनाभिधानश्च स बालो ववृधे क्रमात् ।
पिताथ धनदत्तोऽस्य भार्यामन्विष्यति स्म सः ।। ६७
ततः स तत्पिता तेन तनयेन समं ययौ ।
द्वीपान्तरं स्नुषाहेतोर्वणिज्याव्यपदेशतः ।। ६८
तत्र देवस्मितां नाम धर्मगुप्ताद्वणिग्वरात् ।
स्वपुत्रगुहसेनस्य कृते कन्यामयाचत ।। ६९
धर्मगुप्तस्तु संबन्धं न तमङ्गीचकार सः ।
आलोच्य ताम्रलिप्तीं तां दूरां दुहितृवत्सलः ।। ७०
सा तु देवस्मिता दृष्ट्वा गुहसेनं तदैव तम् ।
तद्गुणाकृष्टचित्तत्वाद्बन्धुत्यागैकनिश्चया ।। ७१
सखीमुखेन कृत्वा च संकेतं सह तेन सा ।
प्रियेण पितृयुक्तेन रात्रौ द्वीपात्ततो ययौ ।। ७२
ताम्रलिप्तीमथ प्राप्य तयोः कृतविवाहयोः ।
जायापत्योर्मिथः प्रेमपाशबद्धमभून्मनः ।। ७३
अथास्तं पितरि प्राप्ते प्रेरितोऽभूत्स बन्धुभिः ।
कटाहद्वीपगमने गुहसेनो यदृच्छया ।। ७४
तच्चास्य गमनं भार्या तदा नाङ्गीचकार सा ।
सेर्ष्या देवस्मिता काममन्यस्त्रीसङ्गशङ्किनी ।। ७५
ततः पत्न्यामनिच्छन्त्यां प्रेरयत्सु च बन्धुषु ।
कर्तव्यनिश्चलो मूढो गुहसेनो बभूव सः ।। ७६
अथ गत्वा निराहारश्चक्रे देवकुले व्रतम् ।
उपायमिह देवो मे निर्दिशत्विति चिन्तयन् ।। ७७
सापि देवस्मिता तद्वत्तेन सार्धं व्यधाद्व्रतम् ।
ततोऽनयोः शिवः स्वप्ने दंपत्योर्दर्शनं ददौ ।। ७८
द्वे च रक्ताम्बुजे दत्त्वा स देवस्तावभाषत ।
हस्ते गृहीतमेकैकं पद्ममेतदुभावपि ।। ७९
दूरस्थत्वे च यद्येकः शीलत्यागं करिष्यति ।
तदन्यस्य करे पद्मं म्लानिमेष्यति नान्यथा ।। ८०
एतच्छ्रुत्वा प्रबुध्यैव दंपती तावपश्यताम् ।
अन्योन्यस्येव हृदयं हस्तस्थं रक्तमम्बुजम् ।। ८१
ततः स चक्रे प्रस्थानं गुहसेनो धृताम्बुजः ।
सा तु देवस्मिता तत्र तस्थौ पद्मार्पितेक्षणा ।। ८२
गुहसेनोऽपि तं प्राप कटाहद्वीपमाशु सः ।
कर्तुं प्रववृते चात्र रत्नानां क्रयविक्रयौ ।। ८३
हस्ते च तस्य तद्दृष्ट्वा सदैवाम्लानमम्बुजम् ।
तत्र केचिद्वणिक्पुत्राश्चत्वारो विस्मयं ययुः ।। ८४
ते युक्त्या तं गृहं नीत्वा पाययित्वा भृशं मधु ।
पप्रच्छुः पद्मवृत्तान्तं सोऽपि क्षीबः शशंस तम् ।। ८५
ततस्तं चिरनिर्वाह्यरत्नादिक्रयविक्रयम् ।
विचिन्त्य गुहसेनं ते चत्वारोऽपि वणिक्सुताः ।। ८६
संमन्त्र्य कौतुकात्पापास्तद्भार्याशीलविप्लवम् ।
चिकीर्षवो ययुः शीघ्रं ताम्रलिप्तीमलक्षिताः ।। ८७
तत्रोपायं विचिन्वन्तः सुगतायतनस्थिताम् ।
प्रव्राजिकामुपाजग्मुर्नाम्ना योगकरण्डिकाम् ।। ८८
प्रीतिपूर्वं च तामूचुर्भगवत्यस्मदीप्सितम् ।
साध्यते चेत्त्वया तत्ते दास्यामोऽर्थान्बहूनिति ।। ८९
साप्युवाच ध्रुवं यूनां कापि स्त्री वाञ्छितेह वः ।
तद्ब्रूत साधयाम्येव धनलिप्सा च नास्ति मे ।। ९०
अस्ति सिद्धिकरी नाम शिष्या मे बुद्धिशालिनी ।
तत्प्रसादेन संप्राप्तमसंख्यं हि धनं मया ।। ९१
कथं शिष्याप्रसादेन भूरि प्राप्तं धनं त्वया ।
इति तैः सा वणिक्पुत्रैः पृष्टा प्रव्राजिकाब्रवीत् ।। ९२
कौतुकं यदि तत्पुत्राः श्रूयतां वर्णयामि वः ।
इह कोऽपि वणिक्पूर्वमाययावुत्तरापथात् ।। ९३
तस्येहस्थस्य मच्छिष्या सा गत्वा शिश्रिये गृहे ।
युक्त्या कर्मकरीभावं कृतरूपविवर्तना ।। ९४
विश्वास्य वणिजं तं च तद्गृहात्स्वर्णसंचयम् ।
सर्वं मुषित्वा प्रच्छन्नं प्रत्यूषे साथ निर्ययौ ।। ९५
नगरीनिर्गतां दृष्ट्वा शङ्काशीघ्रगतिं च ताम् ।
मृदङ्गहस्तो मोषाय डोम्बः कोऽप्यन्वगाद्द्रुतम् ।। ९६
न्यग्रोधस्य तलं प्राप्य सा दृष्ट्वा तमुपागतम् ।
डोम्बं सिद्धिकरी धूर्ता सदैन्येवेदमब्रवीत् ।। ९७
भर्त्रा सहाद्य कलहं कृत्वाहं निर्गता गृहात् ।
मर्तुं तद्भद्र पाशोऽत्र त्वया मे बध्यतामिति ।। ९८
पाशेन म्रियतामेषा किमेनां हन्म्यहं स्त्रियम् ।
मत्वेति तत्र वृक्षेऽसौ डोम्बः पाशमसज्जयत् ।। ९९
ततः सिद्धिकरी डोम्बं सा मुग्धेव जगाद तम् ।
क्रियते कथमुद्बन्धस्त्वया मे दर्श्यतामिति ।। १००
ततः स डोम्बस्तं दत्त्वा मृदङ्गं पादयोरधः ।
इत्थं क्रियत इत्युक्त्वा स्वकण्ठे पाशमर्पयन् ।। १०१
सापि सिद्धिकरी सद्यस्तं मृदङ्गमचूर्णयत् ।
पादाघातेन डोम्बोऽथ सोऽपि पाशे व्यपद्यत ।। १०२
तत्कालमागतोऽन्वेष्टुं वृक्षमूले ददर्श सः ।
मुषिताशेषकोषां तां दूरात्सिद्धिकरीं वणिक् ।। १०३
सापि दृष्ट्वा तमायान्तं वृक्षे तस्मिन्नलक्षितम् ।
आरुह्य तस्थौ शाखायां पत्त्रौघच्छन्नविग्रहा ।। १०४
स चागत्य वणिग्यावत्सभृत्यः पाशबन्धनम् ।
डोम्बमेव तमद्राक्षीन्न तु सिद्धिकरीं क्वचित् ।। १०५
मा नाम वृक्षमारूढा सा भवेदिति तत्क्षणम् ।
एकोऽस्य वणिजो भृत्यस्तरुमारोहति स्म तम् ।। १०६
सदा त्वय्येव मे प्रीतिरिहारूढस्त्वमेव च ।
तत्सुन्दर तवैवेदं धनमेहि भजस्व माम् ।। १०७
इत्युक्त्वालिङ्ग्य चुम्बन्ती सास्य सिद्धिकरी मुखम् ।
वणिग्भृत्यस्य दशनैर्जिह्वां मूढधियोऽच्छिनत् ।। १०८
स पपात व्यथाक्रान्तो मुखेन रुधिरं वमन् ।
वृक्षात्तस्माल्ललल्लेति किमप्यप्रस्फुटं ब्रुवन् ।। १०९
तद्दृष्ट्वा स वणिग्भीतो भूतग्रस्तमवेत्य तम् ।
स्वगृहं भृत्यसहितः पलाय्यैव ततो ययौ ।। ११०
अथावतीर्य वृक्षाग्रात्तद्वद्भीता च तापसी ।
आगाद्गृहं समादाय तत्सा सिद्धिकरी धनम् ।। १११
एवंविधा हि मच्छिष्या बहुप्रज्ञानशालिनी ।
एवं च तत्प्रसादेन पुत्राः प्राप्तं मया धनम् ।। ११२
इत्युक्त्वा तान्वणिक्पुत्रानथ प्रव्राजिका निजाम् ।
तत्कालमागतां शिष्यामेतेभ्यस्तामदर्शयत् ।। ११३
जगाद चैतांस्तत्पुत्राः सद्भावं वदताधुना ।
कां स्त्रियं वाच्छथ क्षिप्रं तामहं साधयामि वः ।। ११४
तच्छ्रुत्वा ते च तामूचुर्यैषा देवस्मिताभिधा ।
गुहसेनवणिग्भार्या तया नः संगमं कुरु ।। ११५
श्रुत्वेति प्रतिजज्ञे तत्कार्यं प्रव्राजिकाथ सा ।
वणिक्सुतानां चैतेषां स्वगृहं स्थितये ददौ ।। ११६
रञ्जयित्वाथ तत्रत्यं जनं भक्ष्यादिदानतः ।
गुहसेनगृहं तत्सा विवेश सह शिष्यया । । ११७
ततो देवस्मितावासगृहद्वारमुपागताम् ।
तां शुनी शृङ्खलाबद्धा रुरोधापूर्वरोधिनी ।। ११८
ततो देवस्मिता दृष्ट्वा सा तां प्रावेशयत्स्वयम् ।
किमागता स्यादेवेति विचिन्त्य प्रेष्य चेटिकाम् ।। ११९
प्रविष्टा चाशिषं दत्त्वा कृत्वा व्याजकृतादराम् ।
सा तां देवस्मितां साध्वीं पापा प्रव्राजिकाब्रवीत् ।। १२०
सदैव त्वद्दिदृक्षा मे भवत्यद्य पुनर्मया ।
स्वप्ने दृष्टासि तेनाहमुत्का त्वां द्रष्टुमागता ।। १२१
भर्त्रा विनाकृता त्वां च दृष्ट्वा मे दूयते मनः ।
प्रियोपभोगवन्ध्ये हि विफले रूपयौवने ।। १२२
इत्यादिभिर्वचोभिस्तां साध्वीमाश्वास्य सा चिरम् ।
आमन्त्र्य चाययौ तावद्गृहं प्रव्राजिका निजम् ।। १२३
द्वितीयेऽह्नि गृहीत्वा च मरिचक्षोदनिर्भरम् ।
मांसखण्डं पुनः सा तद्ययौ देवस्मितागृहम् ।। १२४
द्वारशुन्यै ददौ तस्यै मांसखण्डं च तत्र तम् ।
सापि तं भक्षयामास सद्यः समरिचं शुनी ।। १२५
ततो मरिचदोषेण तस्या दृग्भ्यामवारितम् ।
अश्रु प्रववृते तस्याः प्रस्नौति स्म च नासिका ।। १२६
सापि प्रव्राजिका तस्मिन्क्षणे देवस्मितान्तिकम् ।
प्रविश्य तत्कृतातिथ्या प्रारेभे रोदितुं शठा ।। १२७
पृष्टा च देवस्मितया सा कृच्छ्रादेवमब्रवीत् ।
पुत्रि संप्रति पश्यैतां बहिः प्ररुदतीं शुनीम् ।। १२८
एषा ह्यद्य परिज्ञाय मां जन्मान्तरसंगताम् ।
प्रवृत्ता रोदितुं तेन कृपयाश्रु ममोद्गतम् ।। १२९
तच्छ्रुत्वा बहिरालोक्य शुनीं तां रुदतीमिव ।
किमेतच्चित्रमिति सा दध्यौ देवस्मिता क्षणम् ।। १३०
प्रव्राजिकाथ सावादीत्पुत्रि पूर्वत्र जन्मनि ।
अहमेषा च भार्ये द्वे विप्रस्याभूव कस्यचित् ।। १३१
स चावयोः पतिर्दूरं देशान्तरमितस्ततः ।
वारं वारं प्रयाति स्म राजादेशेन दूत्यया ।। १३२
तत्प्रवासे च कुर्वन्त्या स्वेच्छं पुरुषसंगमम् ।
मया भूतेन्द्रियग्रामो नोपभोगैरवञ्च्यत ।। १३३
भूतेन्द्रियानभिद्रोहो धर्मो हि परमो मतः ।
अतो जातिस्मरा पुत्रि जाताहमिह जन्मनि ।। १३४
एषा तु शीलमेवैकं ररक्षाज्ञानतस्तदा ।
तेन श्वयोनौ पतिता किं तु जातिं स्मरत्यसौ ।। १३५
कोऽयं धर्मो ध्रुवं धूर्तरचनेयं कृतानया ।
इति संचिन्त्य सुप्रज्ञा सा तां देवस्मिताब्रवीत् ।। १३६
इयच्चिरं मया धर्मो न ज्ञातो भगवत्ययम् ।
तत्त्वं केनापि कान्तेन पुंसा मे संगमं कुरु ।। १३७
ततः प्रव्राजिकावादीत्केचिद्द्वीपान्तरागताः ।
इह स्थिता वणिक्पुत्रास्तर्हि तानानयामि ते ।। १३८
इत्युक्त्वा सा प्रमुदिता ययौ प्रव्राजिका गृहम् ।
सा च देवस्मिता स्वैरं स्वचेटीरित्यभाषत ।। १३९
नूनं दृष्ट्वा तदम्लानं हस्ते मद्भर्तुरम्बुजम् ।
पृष्ट्वा च तं यथावृत्तं मद्यपं जातु कौतुकात् ।। १४०
मद्विध्वंसाय केऽप्येते द्वीपात्तस्मादिहागताः ।
वणिक्पुत्राः शठास्तैश्च प्रयुक्तेयं कुतापसी ।। १४१
तद्धत्तूरकसंयुक्तं मद्यमानयत द्रुतम् ।
गत्वाथ कारयध्वं च शुनः पादमयोमयम् ।। १४२
इति देवस्मितोक्तास्ताश्चेट्यश्चक्रुस्तथैव तत् ।
एका च चेटी तद्रूपं तद्वाक्यादकरोत्तदा ।। १४३
सापि प्रव्राजिका तस्माद्वणिक्पुत्रचतुष्टयात् ।
अहंप्रथमिकादिष्टादादायैकमथाययौ ।। १४४
स्वशिष्यावेषसंछन्नं तं च देवस्मितागृहे ।
तत्र सायं प्रवेश्यैव निर्गत्याप्रकटं ययौ ।। १०५५
ततोऽत्र तं वणिक्पुत्रं तत्सधत्तूरकं मधु ।
चेटी देवस्मितावेषा सा सादरमपाययत् ।। १४६
तेन सोऽविनयेनेव मधुना हृतचेतनः ।
हृत्वा वस्त्रादि चेटीभिस्तत्र चक्रे दिगम्बरः ।। १४७
शुनः पादेन दत्त्वाङ्कं ललाटे ताभिरेव च ।
नीत्वा सोऽशुचिसंपूर्णे क्षिप्तोऽभूत्खातके निशि ।। १४८
यामेऽथ पश्चिमे संज्ञां लब्ध्वात्मानं ददर्श सः ।
स्वपापोपनते मग्नमवीचाविव खातके ।। १४९
अथोत्थाय कृतस्नानो ललाटेऽङ्कं परामृशन् ।
नग्नः सन्स वणिक्पुत्रो ययौ प्रव्राजिकागृहम् ।। १५०
ममैवैकस्य हास्यत्वं मा भूदिति स तत्र तान् ।
आगच्छन्मुषितोऽस्मीति सखीनन्यानभाषत ।। १५१
जागरेणातिपानेन शिरोर्तिं व्यपदिश्य च ।
प्रातः स तस्थौ वस्त्रेण वेष्टयित्वाङ्कितं शिरः ।। १५२
तथैव च पुनः सायं द्वितीयोऽपि वणिक्सुतः ।
एत्य देवस्मितागेहं खलीकारमवाप्तवान् ।। १५३
सोऽप्येत्य नग्नो वक्ति स्म तत्रैवाभरणान्यहम् ।
स्थापयित्वापि निर्यातो मुषितस्तस्करैरिति ।। १५४
प्रातः सोऽपि शिरःशूलव्यपदेशेन वेष्टनम् ।
कृत्वा प्रच्छादयामास ललाटतटमङ्कितम् ।। १५५
एवं सापह्नवाः सर्वे वणिक्पुत्राः क्रमेण ते ।
प्रापुः साङ्कं खलीकारमर्थनाशं च लज्जिताः ।। १५६
अस्या अपि भवत्वेवमिति ते च खलीकृतिम् ।
तस्याः प्रव्राजिकायास्तामप्रकाश्य ततो ययुः ।। १५७
साथ प्रव्राजिकान्येद्युर्जगाम सह शिष्यया ।
कृतप्रयोजनास्मीति हृष्टा देवस्मितागृहम् !। १५८
तत्र देवस्मिता सा तां कृत्वादरमपाययत् ।
मधु धत्तूरसंयुक्तं परितोषादिवाहृतम ।। १५९
तेन मत्तां सशिष्यां च च्छिन्नश्रवणनासिकाम ।
तामप्यशुचिपङ्कान्तः क्षेपयामास सा सती ।। १६०
गत्वा मैते वणिक्पुत्राः पतिं हन्युः कदाचन ।
इत्याकुला च सा श्वश्र्वस्तं वृत्तान्तमवर्णयत् ।। १६१
ततः श्वश्रूरवादीत्तां पुत्रि साधु कृतं त्वया ।
किं तु पुत्रस्य मे तस्य कदाचिदहितं भवेत् ।। १६२
ततो देवस्मितावोचद्यथा शक्तिमती पतिम् ।
ररक्ष प्रज्ञया पूर्वममुं रक्षाम्यहं तथा ।। १६३
कथं शक्तिमती पुत्रि ररक्ष पतिमुच्यताम् ।
इति पृष्टा तया श्वश्र्वा साथ देवस्मिताब्रवीत् ।। १६४
अस्मद्देशे पुरस्यान्तर्मणिभद्र इति श्रुतः ।
पूर्वैः कृतप्रतिष्ठोऽस्ति महायक्षः प्रभावितः ।। १६५
तस्योपयाचितान्येत्य तत्रत्याः कुर्वते जनाः ।
तत्तद्वाञ्छितसंसिद्धिहेतोस्तैस्तैरुपायनैः ।। १६६
यो नरः प्राप्यते तत्र रात्रौ सह परस्त्रिया ।
स्थाप्यते सोऽस्य यक्षस्य गर्भागारे तया समम् ।। १६७
प्रातस्तथैव सस्त्रीकः स नीत्वा राजसंसदि ।
प्रकटीकृत्य तद्वृत्तं निगृह्यत इति स्थितिः ।। १६८
एकदा तत्र नक्तं च संगतः परजायया ।
वणिक्समुद्रदत्ताख्यः प्राप्तोऽभूत्पुररक्षिणा ।। १६९
नीत्वा च तेन क्षिप्तोऽभूत्सपरस्त्रीक एव सः ।
यक्षदेवगृहे तस्मिन्दृढदत्तार्गले वणिक् ।। १७०
तत्क्षणं वणिजश्चास्य महाप्रज्ञा पतिव्रता ।
भार्या शक्तिमती नाम तं वृत्तान्तमबुध्यत ।। १७१
साथ धीरान्यरूपेण तद्यक्षायतनं निशि ।
पूजामादाय साश्वासं सखीजनयुता ययौ ।। १७२
तत्रैत्य दक्षिणालोभादेतस्या एव पूजकः ।
ददौ प्रवेशमुद्धाट्य द्वारमुक्त्वा पुराधिपम् ।। १७३
सा च प्रविश्य सस्त्रीके दृष्टे पत्यौ विलक्षिते ।
स्वं वेषं कारयित्वा तां निर्याहीत्यवदत्स्त्रियम् ।। १७४
सा च निर्गत्य रात्रौ स्त्री तद्वेषैव ततो ययौ ।
तस्थौ शक्तिमती तत्र तेन भर्त्रा समं तु सा ।। १७५
प्रातश्च राजाधिकृतैरेत्य यावन्निरूप्यते ।
तावत्स्वपत्न्यैव युतः सर्वैः स ददृशे वणिक् ।। १७६
तद्बुद्ध्वा यक्षभवनान्मृत्योरिव मुखान्नृपः ।
दण्डयित्वा पुराध्यक्षं वणिजं तममोचयत् ।। १७७
एवं शक्तिमती पूर्वं ररक्ष प्रज्ञया पतिम् ।
अहं तथैव भर्तारं गत्वा रक्षामि युक्तितः ।। १७८
इति देवस्मिता श्वश्रूं रह उक्त्वा तपस्विनी ।
स्वचेटिकाभिः सहिता वणिग्वेषं चकार सा ।। १७९
आरुह्य च प्रवहणं वणिज्याव्याजतस्ततः ।
कटाहद्वीपमगमद्यत्र सोऽस्याः पतिः स्थितः ।। १८०
गत्वा तं च पतिं तत्र वणिङ्मध्ये ददर्श सा ।
गुहसेनं समाश्वासमिव मूर्तिधरं बहिः ।। १८१
सोऽपि तां पुरुषाकारां दूरादृष्ट्वा पिबन्निव ।
प्रियायाः सदृशः कोऽयं वणिक्स्यादित्यचिन्तयत् ।। १८२
सा च देवस्मिता तत्र भूपं गत्वा व्यजिज्ञपत् ।
विज्ञप्तिर्मेऽस्ति तत्सर्वाः संघट्यन्तां प्रजा इति ।। १८३
ततः सर्वान्समानीय राजा पौरान्सकौतुकः ।
का ते विज्ञप्तिरस्तीति वणिग्वेषामुवाच ताम् ।। १८४
ततो देवस्मितावादीदिह मध्ये मम स्थिताः ।
पलाय्य दासाश्चत्वारस्तान्मे देवः प्रयच्छतु ।। १८५
अथ तामवदद्राजा सर्वे पौरा इमे स्थिताः ।
तत्सर्वान्प्रत्यभिज्ञाय निजान्दासान्तगृहाण तान् ।। १८६
ततस्तया जगृहिरे स्वगृहे प्राक्खलीकृताः ।
वणिक्सुतास्ते चत्वारः शिरःस्वाबद्धशाटकाः ।। १८७
सार्थवाहसुता एते कथं दासा भवन्ति ते ।
इति क्रुद्धाश्च तामूचुस्तत्रस्था वणिजस्तदा ।। १८८
ततः प्रत्यब्रवीत्सा तान्यदि न प्रत्ययोऽस्ति वः ।
ललाटं प्रेक्ष्यतामेषां शुनः पादाङ्कितं मया ।। १८९
तथेति तेषामुन्मोच्य चतुर्णां शीर्षपट्टकान् ।
सर्वेऽपि ददृशुस्तत्र शुनःपादं ललाटगम् ।। १९०
लज्जितेऽथ वणिग्ग्रामे राजा संजातविस्मयः ।
किमेतदिति पप्रच्छ स तां देवस्मितां स्वयम् ।। १९१
सा शशंस यथावृत्तं सर्वेऽपि जहसुर्जनाः ।
न्याय्यास्ते भवतीदासा इति तां चावदन्नृपः ।। १९२
ततोऽन्ये वणिजस्तेषां चतुर्णां दास्यमुक्तये ।
ददुस्तस्मै धनं भूरि साध्व्यै दण्डं च भूपतेः ।। १९३
आदाय तद्धनमवाप्य पतिं च तं स्वं देवस्मिता सकलसज्जनपूजिता सा ।
प्रत्याययौ निजपुरीमथ ताम्रलिप्तीं नास्या बभूव च पुनः प्रियविप्रयोगः ।। १९४
इति स्त्रियो देवि महाकुलोद्गता विशुद्धधीरैश्चरितैरुपासते ।
सदैव भर्तारमनन्यमानसाः पतिः सतीनां परमं हि दैवतम् ।। १९५
इत्याकर्ण्य वसन्तकस्य वदनादेतामुदारां कथां
मार्गे वासवदत्तया नवपरित्यक्ते पितुर्वेश्मनि ।
तल्लज्जासदनं विधाय विदधे वत्सेश्वरे भर्तरि
प्राक्प्रौढप्रणयावबद्धमपि तद्भक्त्येकतान मनः ।। १९६
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथामुखलम्बके पञ्चमस्तरङ्गः ।