कथासरित्सागरः/लम्बकः २/तरङ्गः ४

विकिस्रोतः तः
Jump to navigation Jump to search

अत्रान्तरे स वत्सेशप्रतिदूतस्तदब्रवीत् ।
गत्वा प्रतिवचश्चण्डमहासेनाय भूभृते ।। १
सोऽपि चण्डमहासेनस्तच्छ्रुत्वैव व्यचिन्तयत् ।
स तावदिह नायाति मानी वत्सेश्वरो भृशम् ।। २
कन्या हि तत्र न प्रेष्या भवेदेवं हि लाघवम् ।
तस्माद्बद्ध्वैव तं युक्त्या नृपमानाययाम्यहम् ।। ३
इति संचिन्त्य संमन्त्र्य स राजा मन्त्रिभिः सह ।
अकारयत्स्वसदृशं महान्तं यन्त्रहस्तिनम् ।। ४
तं चान्तर्वीरपुरुषैः कृत्वा छन्नैरधिष्ठितम् ।
विन्ध्याटव्यां स निदधे राजा यन्त्रमयं गजम् ।। ५
तत्र तं चारपुरुषाः पश्यन्ति स्म विदूरतः ।
गजबन्धरसासक्तवत्सराजोपजीविनः ।। ६
ते च त्वरितमागत्य वत्सराजं व्यजिज्ञपन् ।
देव दृष्टो गजोऽस्माभिरेको विन्ध्यवने भ्रमन् ।। ७
अस्मिन्नियति भूलोके नैव योऽन्यत्र दृश्यते ।
वर्ष्मणा व्याप्तगगनो विन्ध्याद्रिरिव जङ्गमः ।। ८
ततश्चारवचः श्रुत्वा वत्सराजो जहर्ष सः ।
तेभ्यः सुवर्णलक्षं च प्रददौ पारितोषिकम् ।। ९
तं चेद्गजेन्द्रं प्राप्स्यामि प्रतिमल्लं नडागिरेः ।
ततश्चण्डमहासेनो वश्यो भवति मे ध्रुवम् ।। १०
ततो वासवदत्तां तां स स्वयं मे प्रयच्छति ।
इति संचिन्तयन्सोऽथ राजा तामनयन्निशाम् ।। ११
प्रातश्च मन्त्रिवचनं न्यक्कृत्वा गजतृष्णया ।
पुरस्कृत्यैव तांश्चारान्ययौ विन्ध्याटवीं प्रति ।। १२
प्रस्थानलग्नस्य फलं कन्यालाभं सबन्धनम् ।
यदूचुर्गणकास्तस्य तत्स नैव व्यचारयत् ।। १३
प्राप्य विन्ध्याटवीं तस्य गजस्य क्षोभशङ्कया ।
वत्सराजः स सैन्यानि दूरादेव न्यवारयत् ।। १४
चारमात्रसहायस्तु वीणां घोषवतीं दधत् ।
निजव्यसनविस्तीर्णां तां विवेश महाटवीम् ।। १५
विन्ध्यस्य दक्षिणे पार्श्वे दूराचारैः प्रदर्शितम् ।
गजं सत्यगजाभासं तं ददर्श स भूपतिः ।। १६
एकाकी वादयन्वीणां चिन्तयन्बन्धनानि सः ।
मधुरध्वनि गायंश्च शनैरुपजगाम तम् ।। १७
गान्धर्वदत्तचित्तत्वात्संध्याध्वान्तवशाच्च सः ।
न तं वनगजं राजा मायागजमलक्षयत् ।। १८
सोऽपि हस्ती तमुत्कर्णतालो गीतरसादिव ।
उपेत्योपेत्य विचलन्दूरमाकृष्टवान्नृपम् ।। १९
ततोऽकस्माच्च निर्गत्य तस्माद्यन्त्रमयाद्गजात् ।
वत्सेश्वरं तं संनद्धाः पुरुषाः पर्यवारयन् ।। २०
तान्दृष्ट्वा नृपतिः कोपादाकृष्टच्छुरिकोऽथ सः ।
अग्रस्थान्योधयन्नन्यैरेत्य पश्चादगृह्यत ।। २१
संकेतमिलितैश्चान्यैर्योधास्तैः सैनिकैः सह ।
निन्युर्वत्सेश्वरं चण्डमहासेनान्तिकं च तम् ।। २२
सोऽपि चण्डमहासेनो निर्गत्याग्रे कृतादरः ।
वत्सेशेन समं तेन विवेशोज्जयिनीं पुरीम् ।। २३
स तत्र ददृशे पौरैरवमानकलङ्कितः ।
शशीव लोचनानन्दो वत्सराजो नवागतः ।। २४
ततोऽस्य गुणरागेण वधमाशङ्क्य तत्र ते ।
पौराः संभूय सकलाश्चक्रुर्मरणनिश्चयम् ।। २५
न मे वत्सेश्वरो वध्यः संधेय इति तान्ब्रुवन् ।
सोऽथ चण्डमहासेनः पौरान्क्षोभादवारयत् ।। २६
ततो वासवदत्तां तां सुतां तत्रैव भूपतिः ।
वत्सराजाय गान्धर्वशिक्षाहेतोः समर्पयत् ।। २७
उवाच चैनं गान्धर्वं त्वमेतां शिक्षय प्रभो ।
ततः प्राप्स्यसि कल्याणं मा विषादं कृथा इति ।। २८
तस्य दृष्ट्वा तु तां कन्यां वत्सराजस्य मानसम् ।
तथा स्नेहाक्तमभवन्न यथा मन्युमैक्षत ।। २९
तस्याश्च चक्षुर्मनसी सह तं प्रति जग्मतुः ।
हिया चक्षुर्निववृते मनस्तु न कथंचन ।। ३०
अथ वासवदत्तां तां गापयंस्तद्गतेक्षणः ।
तत्र गान्धर्वशालायां वत्सराज उवास सः ।। ३१
अङ्के घोषवती तस्य कण्ठे गीतश्रुतिस्तथा ।
पुरो वासवदत्ता च तस्थौ चेतोविनोदिनी ।। ३२
सा च वासवदत्तास्य परिचर्यापराभवत् ।
लक्ष्मीरिव तदेकाग्रा बद्धस्याप्यनपायिनी ।। ३३
अत्रान्तरे च कौशाम्ब्यां वत्सराजानुगे जने ।
आवृत्ते तं प्रभुं बुद्ध्वा बद्धं राष्ट्रं प्रचुक्षुभे ।। ३४
उज्जयिन्यामवस्कन्दं दातुमैच्छन्समन्ततः ।
वत्सेश्वरानुरागेण क्रुद्धाः प्रकृतयस्तदा ।। ३५
नैव चण्डमहासेनो बलसाध्यो महान्हि सः ।
न चैवं वत्सराजस्य शरीरे कुशलं भवेत् ।। ३६
तस्मान्न युक्तोऽवस्कन्दो बुद्धिसाध्यमिदं पुनः ।
इति प्रकृतयः क्षोभान्न्यवार्यन्त रुमण्वता ।। ३७
ततोऽनुरक्तमालोक्य राष्ट्रमव्यभिचारि तत् ।
रुमण्वदादीनाह स्म धीरो यौगन्धरायणः ।। ३८
इहैव सर्वैर्युष्माभिः स्थातव्यं सततोद्यतैः ।
रक्षणीयमिदं राष्ट्रं काले कार्यश्च विक्रमः ।। ३९
वसन्तकद्वितीयश्च गत्वाहं प्रज्ञया स्वया ।
वत्सेशं मोचयित्वा तमानयामि न संशयः ।। ४०
जलाहतौ विशेषेण वैद्युताग्नेरिव द्युतिः ।
आपदि स्फुरति प्रज्ञा यस्य धीरः स एव हि ।। ४१
प्राकारभञ्जनान्योगांस्तथा निगडभञ्जनान् ।
अदर्शनप्रयोगांश्च जानेऽहमुपयोगिनः ।। ४२
इत्युक्त्वा प्रकृतीः कृत्वा हस्तन्यस्ता रुमण्वतः ।
यौगन्धरायणः प्रायात्कौशाम्ब्याः सवसन्तकः ।। ४३
प्रविवेश च तेनैव सह विन्ध्यमहाटवीम् ।
स्वप्रज्ञामिव सत्ताढ्यां स्वनीतिमिव दुर्गमाम् ।। ४४
तत्र वत्सेशमित्त्रस्य विन्ध्यप्राग्भारवासिनः ।
गृहं पुलिन्दकाख्यस्य पुलिन्दाधिपतेरगात् ।। ४५
तं सज्जं स्थापयित्वा च पथा तेनागमिष्यतः ।
वत्सराजस्य रक्षार्थं भूरिसैन्यसमन्वितम् ।। ४६
गत्वा वसन्तकसखस्ततो यौगन्धरायणः ।
उज्जयिन्यां महाकालश्मशानं प्राप स क्रमात् ।। ४७
विवेश तच्च वेतालैः क्रव्यगन्धिभिरावृतम् ।
इतस्ततस्तमःश्यामैश्चिताधूमैरिवापरैः ।। ४८
तत्रैनं दर्शनप्रीतो मित्रभावाय तत्क्षणम् ।
योगेश्वराख्यो वृतवानभ्येत्य ब्रह्मराक्षसः ।। ४९
तेनोपदिष्टया युक्त्या ततो यौगन्धरायणः ।
न चकारात्मनः सद्यो रूपस्य परिवर्तनम् ।। ५०
बभूव तेन विकृतः कुब्जो वृद्धश्च तत्क्षणात् ।
उन्मत्तवेषः खल्वाटो हास्यसंजननः परम् ।। ५१
तयैव युक्त्या स तदा सिरानद्धपृथूदरम् ।
चक्रे वसन्तकस्यापि रूपं दन्तुरदुर्मुखम् ।। ५२
ततो राजकुलद्वारमादौ प्रेष्य वसन्तकम् ।
विवेशोज्जयिनीं तां स तादृग्यौगन्धरायणः ।। ५३
नृत्यन्गायंश्च तत्रासौ बटुभिः परिवारितः ।
दृष्टः सकौतुकं सर्वैर्ययौ राजगृहं प्रति ।। ५४
तत्र राजावरोधानां तेनासौ कृतकौतुकः ।
अगाद्वासवदत्तायाः शनैः श्रवणगोचरम् ।। ५५
सा तमानाययामास चेटिकां प्रेष्य सत्वरम् ।
गान्धर्वशालां नर्मैकसादरं हि नवं वयः ।। ५६
स च तत्र गतो वृद्धं वत्सराजं ददर्श तम् ।
उन्मत्तवेषो विगलद्वाष्पो यौगन्धरायणः ।। ५७
चकार तस्मै संज्ञां च वत्सराजाय सोऽपि तम् ।
प्रत्यभिज्ञातवान्राजा वेषप्रच्छन्नमागतम् ।। ५८
ततो वासवदत्तां च तच्चेटीः प्रति चात्मनः ।
अदर्शनं युक्तिबलाद्व्यधाद्यौगन्धरायणः ।। ५९
राजा त्वेको ददर्शैनं ताश्च सर्वाः सविस्मयम् ।
वदन्ति स्म गतोऽकस्मादुन्मत्तः क्वाप्यसाविति ।। ६०
तच्छ्रुत्वा तं च दृष्ट्वाग्रे मत्वा योगबलेन तत् ।
युक्त्या वासवदत्तां तां वत्सराजोऽब्रवीदिदम् ।। ६१
गत्वा सरस्वतीपूजामादायागच्छ दारिके ।
तच्छ्रुत्वा सा तथेत्युक्त्वा सवयस्या विनिर्ययौ ।। ६२
यथोचितमुपेत्याथ ददौ वत्सेश्वराय सः ।
यौगन्धरायणस्तस्मै योगान्निगडभञ्जननान् ।। ६३
अन्यान्वासवदत्ताया वीणातन्त्रीनियोजितान् ।
वशीकरणयोगांश्च राज्ञेऽस्मै स समार्पयत् ।। ६४
व्यजिज्ञपच्च तं राजन्निहायातो वसन्तकः ।
द्वारि स्थितोऽन्यरूपेण तं कुरुष्वान्तिके द्विजम् ।। ६५
यदा वासवदत्तेयं त्वयि विस्रम्भमेष्यति ।
तदा वक्ष्यामि यदहं तत्कुर्यास्तिष्ठ सांप्रतम् ।। ६६
इत्युक्त्वा निर्ययौ शीघ्रं ततो यौगन्धरायणः ।
अगाद्वासवदत्ता च पूजामादाय तत्क्षणात् ।। ६७
सोऽथ तामवदद्राजा बहिर्द्वारि द्विजः स्थितः ।
सरस्वत्यर्चने सोऽस्मिन्दक्षिणार्थे प्रवेश्यताम् ।। ६८
तथेति द्वारदेशात्स तत्र वासवदत्तया ।
विरूपामाकृतिं बिभ्रदानाय्यत वसन्तकः ।। ६९
स चानीतस्तमालोक्य वत्सेशमरुदच्छुचा ।
ततश्चाप्रतिभेदाय स राजा निजगाद तम् ।। ७०
हे ब्रह्मन्रोगवैरूप्यं सर्वमेतदहं तव ।
निवारयामि मा रोदीस्तिष्ठेहैव ममान्तिके ।। ७१
महान्प्रसादो देवेति स चोवाच वसन्तकः ।
सोऽथ तं विकृतं दृष्ट्वा राजा स्मितमुखोऽभवत् ।। ७२
तच्चालोक्याशयं बुद्ध्वा तस्य सोऽपि वसन्तकः ।
हसति स्माधिकोद्भूतविरूपाननवैकृतः ।। ७३
तं हसन्तं तथा दृष्ट्वा क्रीडनीयकसंनिभम् ।
तत्र वासवदत्तापि जहास च तुतोष च ।। ७४
ततः सा नर्मणा बाला तं पप्रच्छ वसन्तकम् ।
किं विज्ञानं विजानासि भो ब्रह्मन्कथ्यतामिति ।। ७५
कथाः कथयितुं देवि जानामीति स चावदत् ।
कथां कथय तर्ह्येकामिति सापि ततोऽब्रवीत् ।। ७६
ततस्तां राजतनयां रञ्जयन्स वसन्तकः ।
हास्यवैचित्रसरसामिमामकथयत्कथाम् ।। ७७
अस्तीह मथुरा नाम पुरी कंसारिजन्मभूः ।
तस्यां रूपणिकेत्यासीत्ख्याता वारविलासिनी ।। ७८
तस्या मकरदंष्ट्राख्या माताभूद्वृद्धकुट्टनी ।
तद्गुणाकृष्यमाणानां यूनां दृशि विषच्छटा ।। ७९
पूजाकाले सुरकुलं स्वनियोगाय जातु सा ।
गता रूपणिका दूरादेकं पुरुषमैक्षत ।। ८०
स दृष्टः सुभगस्तस्या विवेश हृदयं तथा ।
यथा मात्रा कृतास्तेऽस्मादुपदेशा विनिर्ययुः ।। ८१
चेटिकामथ सावादीद्गच्छ मद्वचनादमुम् ।
पुरुषं ब्रूहि मद्गेहे त्वयाद्यागम्यतामिति ।। ८२
तथेति चेटिका सा च गत्वा तस्मै तदब्रवीत् ।
ततः स किंचिद्विमृशन्पुरुषस्तामभाषत ।। ८३
लोहजङ्घाभिधानोऽस्मि ब्राह्मणो नास्ति मे धनम् ।
तदाढ्यजनलभ्ये हि कोऽहं रूपणिकागृहे ।। ८४
न धनं वाच्छ्यते त्वत्तः स्वामिन्येत्युदिते तया ।
स लोहजङ्घस्तद्वाक्यं तथेति प्रत्यपद्यत ।। ८५
ततश्चेटीमुखाद्बुद्ध्वा तच्च सा गृहमुत्सुका ।
गत्वा रूपणिका तस्थौ तन्मार्गन्यस्तलोचना ।। ८६
क्षणाच्च लोहजङ्घोऽथ तस्या मन्दिरमाययौ ।
कुतोऽयमिति कुट्टन्या दृष्टो मकरदंष्ट्रया ।। ८७
सापि रूपणिका दृष्ट्वा स्वयमुत्थाय सादरा ।
वासवेश्मान्तरं हृष्टा कण्ठे लग्ना निनाय तम् ।। ८८
तत्र सा लोहजङ्घस्य तस्य सौभाग्यसंपदा ।
वशीकृता सती नान्यत्फलं जन्मन्यमन्यत ।। ८९
ततस्तया निवृत्तान्यपुरुषासङ्गया सह ।
यथासुखं स तत्रैव तस्थौ तन्मन्दिरे युवा ।। ९०
तद्दृष्ट्वा शिक्षिताशेषवेषयोषिज्जगाद ताम् ।
माता मकरदंष्ट्रा सा खिन्ना रूपणिकां रहः ।। ९१
किमयं निर्धनः पुत्रि सेव्यते पुरुषस्त्वया ।
शवं स्पृशन्ति सुजना गणिका न तु निर्धनम् ।। ९२
क्वानुरागः क्व वेश्यात्वमिति ते विस्मृतं कथम् ।
संध्येव रागिणी वेश्या न चिरं पुत्रि दीप्यते ।। ९३
नटीव कृत्रिमं प्रेम गणिकार्थाय दर्शयेत् ।
तदेनं निर्धनं मुञ्च मा कृथा नाशमात्मनः ।। ९४
इति मातुर्वचः श्रुत्वा रुषा रूपणिकाब्रवीत् ।
मैवं वादीर्मम ह्येष प्राणेभ्योऽप्यधिकः प्रियः ।। ९५
धनमस्ति च मे भूरि किमन्येन करोम्यहम् ।
तदम्ब नैव वक्तव्या भूयोऽप्येवमहं त्वया ।। ९६
तच्छ्रुत्वा लोहजङ्घस्य निर्वासनविधौ क्रुधा ।
तस्थौ मकरदंष्ट्रा सा तस्योपायं विचिन्वती ।। ९७
अथ मार्गागतं कंचित्क्षीणकोषं ददर्श सा ।
राजपुत्रं परिवृतं पुरुषैः शस्त्रपाणिभिः ।। ९८
उपगम्य द्रुतं तं च नीत्वैकान्ते जगाद सा ।
निर्धनेन ममैकेन कामुकेनावृतं गृहम् ।। ९९
तत्त्वमागच्छ तत्राद्य तथा च कुरु येन सः ।
गृहान्मम निवर्तेत मदीयां च सुतां भज ।। १००
तथेति राजपुत्रोऽथ प्रविवेश स तद्गृहम् ।
तस्मिन्क्षणे रूपणिका तस्थौ देवकुले च सा ।। १०१
लोहजङ्घश्च तत्कालं बहिः क्वापि स्थितोऽभवत् ।
क्षणान्तरे च निःशङ्कस्तत्रैव समुपाययौ ।। १०२
तत्क्षणं राजपुत्रस्य तस्य भृत्यैः प्रधाव्य सः ।
दृढं पादप्रहाराद्यैः सर्वेष्वङ्गेष्वताड्यत ।। १०३
ततस्तैरेव चामेध्यपूर्णे क्षिप्तः स खातके ।
लोहजङ्घः कथमपि प्रपलायितवांस्ततः ।। १०४
अथागता रूपणिका तद्बुद्ध्वा शोकविह्वला ।
साभूद्वीक्ष्याथ स ययौ राजपुत्रो यथागतम् ।। १०५
लोहजङ्घोऽपि कुट्टन्या प्रसह्य स खलीकृतः ।
गन्तुं प्रववृते तीर्थं प्राणांस्त्यक्तुं वियोगवान् ।। १०६
गच्छन्नटव्यां संतप्तः कुट्टनीमन्युना हृदि ।
त्वचि च ग्रीष्मतापेन च्छायामभिललाष सः ।। १०७
तरुमप्राप्नुवन्सोऽथ लेभे हस्तिकलेवरम् ।
जघनेन प्रविश्यान्तर्निर्मांसं जम्बुकैः कृतम् ।। १०८
चर्मावशेषे तत्रान्तः परिश्रान्तः प्रविश्य सः ।
लोहजङ्घो ययौ निद्रां प्रविशद्वातशीतले ।। १०९
अथाकस्मात्समुत्थाय क्षणेनैव समन्ततः ।
मेघः प्रववृते तत्र धारासारेण वर्षितुम् ।। ११०
तेन निर्विवरं प्राप संकोचं हस्तिचर्म तत् ।
क्षणाच्च तेन मार्गेण जलौघो भृशमाययौ ।। १११
तेनापहृत्य गङ्गायामक्षेपि गजचर्म तत् ।
तज्जलौघेन नीत्वा च समुद्रान्तर्न्यधीयत ।। ११२
तत्र दृष्ट्वा च तच्चर्म निपत्यामिषशङ्कया ।
हृत्वाब्धेः पारमनयत्पक्षी गरुडवंशजः ।। ११३
तत्र चञ्च्वा विदार्यैतद्गजचर्म विलोक्य च ।
अन्तःस्थं मानुषं पक्षी पलाय्य स ततो ययौ ।। ११४
ततश्च चर्मणस्तस्मात्पक्षिसंरम्भबोधितः ।
तच्चञ्चुरचितद्वाराल्लोहजङ्घो विनिर्ययौ ।। ११५
दृष्ट्वा समुद्रपारस्थमात्मानं च सविस्मयः ।
अनिद्रस्वप्नमिव तत्स समग्रममन्यत ।। ११६
अथ द्वौ राक्षसौ तत्र घोरौ भीतो ददर्श सः ।
तौ चापि राक्षसौ दूराच्चकितौ तमपश्यताम् ।। ११७
रामात्पराभवं स्मृत्वा तं तथैव च मानुषम् ।
दृष्ट्वा तीर्णाम्बुधि भूयस्तौ भयं हृदि चक्रतुः ।। ११८
संमन्त्र्य च तयोर्मध्यादेको गत्वा तदैव तम् ।
विभीषणाय प्रभवे यथादृष्टं न्यवेदयत् ।। ११९
दृष्टरामप्रभावः सन्सोऽपि राजा विभीषणः ।
मानुषागमनाद्भीतो राक्षसं तमभाषत ।। १२०
गच्छ मद्वचनाद्भद्र प्रीत्या तं ब्रूहि मानुषम् ।
आगम्यतां गृहेऽस्माकं प्रसादः क्रियतामिति ।। १२१
तथेत्यागत्य तत्तस्मै स्वप्रभुप्रार्थनावचः ।
चकितो लोहजङ्घाय शशंस स च राक्षसः ।। १२२
सोऽप्यङ्गीकृत्य तद्विप्रो लोहजङ्घः प्रशान्तधीः ।
तेनैव सद्वितीयेन सह लङ्कां ततोऽगमत् ।। १२३
तस्यां च दृष्टसौवर्णतत्तत्प्रासादविस्मितः ।
प्रविश्य राजभवनं स ददर्श विभीषणम् ।। १२४
सोऽपि पप्रच्छ राजा तं कृतातिथ्यः कृताशिषम् ।
ब्रह्मन्कथमिमां भूमिमनुप्राप्तो भवानिति ।। १२५
ततः स धूर्तोऽवादीत्तं लोहजङ्घो विभीषणम् ।
विप्रोऽहं लोहजङ्घाख्यो मथुरायां कृतस्थितिः ।। १२६
सोऽहं दारिद्र्यसंतप्तस्तत्र नारायणाग्रतः ।
निराहारः स्थितोऽकार्षं गत्वा देवकुलं तपः ।। १२७
विभीषणान्तिकं गच्छ मद्भक्तः स हि ते धनम् ।
दास्यतीत्यादिशत्स्वप्ने ततो मां भगवान्हरिः ।। १२८
क्वाहं बिभीषणः क्वेति मयोक्ते स पुनः प्रभुः ।
समादिशद्व्रजाद्यैव तं द्रक्ष्यसि विभीषणम् ।। १२९
इत्युक्तः प्रभुणा सद्यः प्रबुद्धोऽहमिहाम्बुधेः ।
पारेऽवस्थितमात्मानमपश्यं वेद्मि नापरम् ।।. १३०
इत्युक्तो लोहजङ्घेन लङ्कामालोक्य दुर्गमाम् ।
सत्यं दिव्यप्रभावोऽयमिति मेने बिभीषणः ।। १३१
तिष्ठ दास्यामि ते वित्तमित्युक्त्वा ब्राह्मणं च तम् ।
मत्वा च रक्षसां हस्ते तमप्रेष्यं नृघातिनाम् ।। १३२
तत्रस्थात्स्वर्णमूलाख्याद्गिरेः संप्रेक्ष्य राक्षसान् ।
आनाययत्पक्षिपोतं गरुडान्वयसंभवम् ।। १३३
तं चास्मै लोहजङ्घाय मथुरायां गमिष्यते ।
तत्कालमेव प्रददौ वशीकाराय वाहनम् ।। १३४
लोहजङ्घोऽपि लङ्कायां वाहयन्नधिरुह्य तम् ।
कंचित्कालं विशश्राम स विभीषणसत्कृतः ।। १३५
एकदा तं च पप्रच्छ राक्षसेन्द्रं सकौतुकः ।
लङ्कायां काष्ठमय्येषा कथं सर्वैव भूरिति ।। १३६
तच्छ्रुत्वा स च तद्वृत्तं तमुवाच विभीषणः ।
यदि ते कौतुकं ब्रह्मंस्तदिदं शृणु वच्मि ते ।। १३७
पुरा प्रतिज्ञोपनतां नागानां दासभावतः ।
निष्क्रष्टुकामो जननीं गरुडः कश्यपात्मजः ।। १३८
तन्मूल्यभूतां देवेभ्यः सुधामाहर्तुमुद्यतः ।
बलस्य हेतोर्भक्ष्यार्थी स्वपितुर्निकटं ययौ ।। १३९
स चैनं याचितोऽवादीन्महान्तौ गजकच्छपौ ।
अब्धौ स्तः पुत्र तौ भुङ्क्ष्व गच्छ शापच्युताविति ।। १४०
ततः स गरुडो गत्वा भक्ष्यावादाय तावुभौ ।
महतः कल्पवृक्षस्य शाखायां समुपाविशत् ।। १४१
तां च शाखां भरात्सद्यो भग्नां चञ्च्वा बभार सः ।
अधःस्थिततपोनिष्ठवालखिल्यानुरोधतः ।। १४२
लोकोपमर्दभीतेन तेनाथ पितुराज्ञया ।
आनीय विजने त्यक्ता सा शाखेह गरुत्मता ।। १४३
तस्याः पृष्ठे कृता लङ्का तेन काष्ठमयीह भूः ।
एतद्विभीषणाच्छ्रुत्वा लौहजङ्घस्तुतोष सः ।। १४४
ततस्तस्मै महार्घाणि रत्नानि सुबहूनि च ।
विभीषणो ददाति स्म मथुरां गन्तुमिच्छते ।। १४५
भक्त्या च देवस्य हरेर्मथुरावर्तिनः कृते ।
हस्तेऽस्याब्जगदाशङ्खचक्रान्हेममयान्ददौ ।। १४६
तद्गृहीत्वाखिलं तस्मिन्विभीषणसमर्पिते ।
आरुह्य विहगे लक्षं योजनानां प्रयातरि ।। १४७
उत्पत्य व्योममार्गेण लङ्कायास्तीर्णवारिधिः ।
स लोहजङ्घो मथुरामक्लेशेनाजगाम ताम् ।। १४८
तस्यां शून्ये विहारे च बाह्ये व्योम्नोऽवतीर्य सः ।
स्थापयामास रत्नौघं तं बबन्ध च पक्षिणम् ।। १४९
आपणे रत्नमेकं च गत्वा विक्रीतवांस्ततः ।
अथ वस्त्राङ्गरागादि क्रीतवान्भोजनं तथा ।। १५०
तद्विहारे च तत्रैव भुक्त्वा दत्त्वा च पक्षिणे ।
वस्त्राङ्गरागपुष्पाद्यैरात्मानं तैरभूषयत् ।। १५१
प्रदोषे चाययौ तस्यास्तत्रैवारुह्य पक्षिणि ।
गृहं रूपणिकायास्ताः शङ्खचक्रगदा वहन् ।। १५२
तत्रोपरि ततः स्थित्वा स्थानवित्खे चरंश्च सः ।
शब्दं चकार गम्भीरं रहःस्थां श्रावयन्प्रियाम् ।। १५३
तं च श्रुत्वैव निर्याता सापश्यद्रत्नराजितम् ।
एनं नारायणाकल्पं व्योम्नि रूपणिका निशि ।। १५४
अहं हरिरिहायातस्त्वदर्थमिति तेन सा ।
उक्ता प्रणम्य वक्ति स्म दयां देवः करोत्विति ।। १५५
अथावतीर्य संयम्य लोहजङ्घो विहंगमम् ।
विवेश वासभवनं स तया कान्तया सह ।। १५६
तत्र संप्राप्तसंभोगः स निष्क्रम्य क्षणान्तरे ।
तथैव विहगारूढो जगाम नभसा ततः ।। १५७
देवता विष्णुभार्याहं मर्त्यैः सह न मन्त्रये ।
इति रूपणिका प्रातस्तस्थौ मौनं विधाय सा ।। १५८
कस्मादेवंविधं पुत्रि वर्तसे कथ्यतां त्वया ।
इत्यपृच्छत सा मात्रा ततो मकरदंष्ट्रया ।। १५९
निर्बन्धपृष्टा तस्यै च सा मात्रे मौनकारणम् ।
शशंस रात्रिवृत्तान्तं दापयित्वान्तरे पटम् ।। १६०
सा तच्छ्रुत्वा ससंदेहा स्वयं तं कुट्टनी निशि ।
ददर्श विहगारुढं लोहजङ्घं ततः क्षणम् ।। १६१
प्रभाते च पटान्तःस्थामेत्य रूपणिकां रहः ।
प्रह्वा मकरदंष्ट्रा सा कुट्टनीति व्यजिज्ञपत् ।। १६२
देवस्यानुग्रहात्पुत्रि त्वं देवीत्वमिहागता ।
अहं च तेऽत्र जननी तन्मे देहि सुताफलम् ।। १६३
वृद्धानेनैव देहेन यथा स्वर्गं व्रजाम्यहम् ।
तथा देवस्य विज्ञप्तिं कुरुष्वानुगृहाण माम् ।। १६४
तथेति सा रूपणिका तमेवार्थं व्यजिज्ञपत् ।
व्याजविष्णुं पुनर्नक्तं लोहजङ्घमुपागतम् ।। १६५
ततः स देववेषस्तां लोहजङ्घोऽब्रवीत्प्रियाम् ।
पापा ते जननी स्वर्गं व्यक्तं नेतुं न युज्यते ।। १६६
एकादश्यां पुनः प्रातर्द्वारमुद्धाट्यते दिवि ।
तत्र च प्रविशन्त्यग्रे बहवः शांभवा गणाः ।। १६७
तन्मध्ये कृततद्वेषा त्वन्मातासौ प्रवेश्यते ।
तदस्याः पञ्चचूडं त्वं क्षुरक्लृप्तं शिरः कुरु ।। १६८
कण्ठं करङ्कमालाढ्यं पार्श्वं चैकं सकज्जलम् ।
अन्यत्सिन्दूरलिप्तं च कुर्वस्या वीतवाससः ।। १६९
एवं ह्येनां गणाकारां सुखं स्वर्गं नयाम्यहम् ।
इत्युक्त्वा स क्षणं स्थित्वा लोहजङ्घस्ततोऽगमत् ।। १७०
प्रातश्च सा रूपणिका यथोक्तं तमकारयत् ।
वेषं मातुरथैषापि तस्थौ स्वर्गैकसंमुखी ।। १७१
आययौ च पुनस्तत्र लोहजङ्घो निशामुखे ।
सा च रूपणिका तस्मै मातरं तां समर्पयत् ।। १७२
ततः स विहगारूढस्तामादायैव कुट्टनीम् ।
नग्नां विकृतवेषां च जवादुदपतन्नभः ।। १७३
गगनस्थश्च तत्रैव प्रांशुं देवकुलाग्रतः ।
स ददर्श शिलास्तम्भं चक्रेणोपरि लाञ्छितम् ।। १७४
तस्य पृष्ठे स चक्रैकसालम्बे तां न्यवेशयत् ।
खलिकारप्रतीकारपताकामिव कुट्टनीम् ।। १७५
इह तिष्ठ क्षणं यावत्सांनिध्यानुग्रहं भुवि ।
गत्वा करोमीत्युक्त्वा च तस्या दृष्टिपथाद्ययौ ।। १७६
ततस्तत्रैव देवाग्रे दृष्ट्वा जागरणागतान् ।
रात्रौ यात्रोत्सवे लोकान्गगनादेवमब्रवीत् ।। १७७
हे लोका इह युष्माकमुपर्यद्य पतिष्यति ।
सर्वसंहारिणी मारी तदेत शरणं हरिम् ।। १७८
श्रुत्वैतां गगनाद्वाणीं भीताः सर्वेऽपि तत्र ते ।
माथुरा देवमाश्रित्य तस्थुः स्वस्त्ययनादृताः ।। १७९
सोऽपि व्योम्नोऽवतीर्यैव लोहजङ्घोऽवलोकयन् ।
तस्थावदृष्टस्तन्मध्ये देववेषं निवार्य तम् ।। १८०
अद्यापि नागतो देवो न च स्वर्गमहं गता ।
इति च स्तम्भपृष्ठस्था कुट्टन्येवमचिन्तयत् ।। १८१
अक्षमैवोपरि स्थातुं श्रावयन्ती जनानधः ।
हा हाहं पतितास्मीति सा चक्रन्द च बिभ्यती ।। १८२
तच्छ्रुत्वा पतिता सेयं मारीत्याशङ्क्य चाकुलाः ।
देवि मा मा पतेत्यूचुस्ते देवाग्रगता जनाः ।। १८३
ततः सबालवृद्धास्ते माथुरास्तां विभावरीम् ।
मारीपातभयोद्भ्रान्ता कथमप्यत्यवाहयन् ।। १८४
प्रातश्च दृष्ट्वा स्तम्भस्थां कुट्टनीं तां तथाविधाम् ।
प्रत्यभिज्ञातवान्सर्वः पौरलोकः सराजकः ।। १८५
अतिक्रान्तभये तत्र जातहासेऽखिले जने ।
आययौ श्रुतवृत्तान्ता तत्र रूपणिकाथ सा ।। १८६
सा च दृष्ट्वा सवैलक्ष्या स्तम्भाग्राज्जननीं निजाम् ।
तामवातारयत्सद्यस्तत्रस्थैश्च जनैः सह ।। १८७
ततः सा कुट्टनी तत्र सर्वैस्तैः सकुतूहलैः ।
अपृच्छ्यत यथावृत्तं सापि तेभ्यः शशंस तत्।। १८८
ततः सिद्धादिचरितं तन्मत्वाद्भुतकारकम् ।
सराजविप्रवणिजो जनास्ते वाक्यमब्रुवन् ।। १८९
येनेयं विप्रलब्धा हि वञ्चितानेककामुका ।
प्रकटः सोऽस्तु तस्येह पट्टबन्धो विधीयते ।। १९०
तच्छ्रुत्वा लोहजङ्घः स तत्रात्मानमदर्शयत् ।
पृष्टश्चामूलतः सर्वं वृत्तान्तं तमवर्णयत् ।। १९१
ददौ च तत्र देवाय शङ्खचक्राद्युपायनम् ।
विभीषणेन प्रहितं जनविस्मयकारकम् ।। १९२
अथ तस्य सपदि पट्टं बद्ध्वा संतुष्य माथुराः सर्वे ।
स्वाधीनां रूपणिकां राजादेशेन तां चक्रुः ।। १९३
ततश्च तत्र प्रियया समं तदा समृद्धकोषो बहुरत्नसंचयैः ।
स लोहजङ्घः प्रतिकृत्य कुट्टनीनिकारमन्युं न्यवसद्यथासुखम् ।। १९४
इत्यन्यरूपस्य वसन्तकस्य मुखात्समाकर्ण्य कथामवापि ।
बद्धस्य वत्साधिपतेः समीपे तोषः परो वासवदत्तयान्तः ।। १९५
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथापीठलम्बके चतुर्थस्तरङ्गः ।