कथासरित्सागरः/लम्बकः २/तरङ्गः ३

विकिस्रोतः तः
Jump to navigation Jump to search

तृतीयस्तरङ्गः ।
ततः स वत्सराज्यं च प्राप्य पित्रा समर्पितम् ।
कौशाम्ब्यवस्थितः सम्यक्छशासोदयनः प्रजाः ।। १
यौगन्धरायणाद्येषु भरं विन्यस्य मन्त्रिषु ।
बभूव स शनै राजा सुखेष्वेकान्ततत्परः ।। २
सदा सिषेवे मृगयां वीणां घोषवतीं च ताम् ।
दत्तां वासुकिना पूर्वं नक्तंदिनमवादयत् ।। ३
तत्तन्त्रीकलनिर्हादमोहमन्त्रवशीकृतान् ।
अनिनाय च संयम्य सदा मत्तान्वनद्विपान् ।। ४
स वारनारीवक्त्रेन्दुप्रतिमालंकृतां सुराम् ।
मन्त्रिणां च मुखच्छायां वत्सराजः समं पपौ ।। ५
कुलरूपानुरूपा मे भार्या क्वापि न विद्यते ।
एका वासवदत्ताख्या कन्यका श्रूयते परम् ।। ६
कथं प्राप्येत सा चेति चिन्तामेकामुवाह सः ।
सोऽपि चण्डमहासेन उज्जयिन्यामचिन्तयत ।। ७
तुल्यो मद्दुहितुर्भर्ता जगत्यस्मिन्न विद्यते ।
अस्ति चोदयनो नाम विपक्षः स च मे सदा ।। ८
तत्कथं नाम जामाता वश्यश्च स भवेन्मम ।
उपायस्त्वेक एवास्ति यदटव्यां भ्रमत्यसौ ।। ९
एकाकी द्विरदान्बघ्नन्मृगयाव्यसनी नृपः ।
तेन च्छिद्रेण तं युक्त्यावष्टभ्यानाययाम्यहम् ।। 2.3.१०
गान्धर्वज्ञस्य तस्यैतां सुतां शिष्यीकरोमि च ।
ततश्चास्यां स्वयं तस्य चक्षुः स्निह्येदसंशयम् ।। ११
एवं स मम जामाता वश्यश्च नियतं भवेत् ।
नान्योऽस्त्युपायः कोऽप्यत्र येन वश्यो भवेच्च सः ।। १२
इति संचिन्त्य तत्सिद्ध्यै स गत्वा चण्डिकागृहम् ।
चण्डीमभ्यर्च्य तुष्टाव चक्रेऽस्या उपयाचितम् ।। १३
एतत्संपत्स्यते राजन्नचिराद्वाञ्छितं तव ।
इति शुश्राव तत्रासावशरीरां सरस्वतीम् ।। १४
ततस्तुष्टः समागत्य बुद्धदत्तेन मन्त्रिणा ।
सह चण्डमहासेनस्तमेवार्थमचिन्तयत् ।। १५
मानोद्धतो वीतलोभो रक्तभृत्यो महाबलः ।
असाध्योऽपि स सामादेः साम्ना तावन्निरूप्यताम् ।। १६
इति संमन्त्र्य स नृपो दूतमेकं समादिशत् ।
गच्छ मद्वचनाद्ब्रूहि वत्सराजमिदं वचः ।। १७
मत्पुत्री तव गान्धर्वे शिष्या भवितुमिच्छति ।
स्नेहस्तेऽस्मासु चेत्तत्त्वं तामिहैवैत्य शिक्षय ।। १८
इत्युक्त्वा प्रेषितस्तेन दूतो गत्वा न्यवेदयत् ।
कौशाम्ब्यां वत्सराजाय संदेशं तं तथैव सः ।। १९
वत्सराजोऽपि तच्छ्रुत्वा दूतादनुचितं वचः ।
यौगन्धरायणस्येदमेकान्ते मन्त्रिणोऽब्रवीत् ।। 2.3.२०
किमेतत्तेन संदिष्टं सदर्पं मम भूभुजा ।
एवं संदिशतस्तस्य कोऽभिप्रायो दुरात्मनः ।। २१
इत्युक्तो वत्सराजेन तदा यौगन्धरायणः ।
उवाचैनं महामन्त्री स स्वामिहितनिष्ठुरः ।। २२
भुवि व्यसनिताख्यातिः प्ररूढा ते लतेव या ।
इदं तस्या महाराज कषायकटुकं फलम् ।। २३
स हि त्वां रागिणं मत्वा कन्यारत्नेन लोभयन् ।
नीत्वा चण्डमहासेनो बद्ध्वा स्वीकर्तुमिच्छति ।। २४
तन्मुञ्च व्यसनानि त्वं सुखेन हि परैर्नृपाः ।
सीदन्तस्तेषु गृह्यन्ते खातेष्विव वनंद्विपाः ।। २५
इत्युक्तो मन्त्रिणा धीरः प्रतिदूतं व्यसर्जयत् ।
स वत्सराजस्तं चण्डमहासेननृपं प्रति ।। २६
संदिदेश च यद्यस्ति वाञ्छा मच्छिष्यतां प्रति ।
त्वत्पुत्र्यास्तदिहैवैषा भवता प्रेष्यतामिति ।। २७
एवं कृत्वा च सचिवान्वत्सराजो जगाद सः ।
यामि चण्डमहासेनमिह बद्ध्वानयामि तम् ।। २८
तच्छ्रुत्वा तमुवाचाग्र्यो मन्त्री यौगन्धरायणः ।
न चैतच्छक्यते राजन्कर्तुं नैव च युज्यते ।। २९
स हि प्रभाववान्राजा स्वीकार्यश्च तव प्रभो ।
तथा च तद्गतं सर्वं शृण्विदं कथयामि ते ।। 2.3.३०
अस्तीहोज्जयिनी नाम नगरी भूषणं भुवः ।
हसन्तीव सुधाधौतैः प्रासादैरमरावतीम् ।। ३१
यस्यां वसति विश्वेशो महाकालवपुः स्वयम् ।
शिथिलीकृतकैलासनिवासव्यसनो हरः ।। ३२
तस्यां महेन्द्रवर्माख्यो राजाभूद्भूभृतां वरः ।
जयसेनाभिधानोऽस्य बभूव सदृशः सुतः ।। ३३
जयसेनस्य तस्याथ पुत्रोऽप्रतिमदोर्बलः ।
समुत्पन्नो महासेननामा नृपतिकुञ्जरः ।। ३४
सोऽथ राजा स्वराज्यं तत्पालयन्समचिन्तयत् ।
न मे खड्गोऽनुरूपोऽस्ति न च भार्या कुलोद्गता ।। ३५
इति संचिन्त्य स नृपश्चण्डिकागृहमागमत् ।
तत्रातिष्ठन्निराहारो देवीमाराधयंश्चिरम् ।। ३६
उत्कृत्याथ स्वमांसानि होमकर्म स चाकरोत् ।
ततः प्रसन्ना साक्षात्सा देवी चण्डी तमभ्यधात् ।। ३७
प्रीतास्मि ते गृहाणेमं पुत्र खड्गोत्तमं मम ।
एतत्प्रभावाच्छत्रूणामजेयस्त्वं भविष्यसि ।। ३८
किं चाङ्गारवतीं नाम कन्यां त्रैलोक्यसुन्दरीम् ।
अङ्गारकासुरसुता शीघ्रं भार्यामवाप्स्यसि ।। ३९
अतीव चण्डं कर्मेह कृतं चैतद्यतस्त्वया ।
अतश्चण्डमहासेन इत्याख्या ते भविष्यति ।। 2.3.४०
इत्युक्त्वा दत्तखड्गा सा देवी तस्य तिरोऽभवत् ।
राज्ञः संकल्पसंपत्तिहृष्टिराविरभूत्पुनः ।। ४१
स खड्गो मत्तहस्तीन्द्रो नडागिरिरिति प्रभो ।
द्वे तस्य रत्ने शक्रस्य कुलिशैरावणाविव ।। ४२
तयोः प्रभावात्सुखितः कदाचित्सोऽथ भूपतिः ।
अगाच्चण्डमहासेनो मृगयायै महाटवीम् ।। ४३
अतिप्रमाणं तत्रैकं वराहं घोरमैक्षत ।
नैशं तम इवाकाण्डे दिवा पिण्डत्वमागतम् ।। ४४
स वराहः शरैरस्य तीक्ष्णैरप्यकृतव्रणः ।
आहत्य स्यन्दनं राज्ञः पलाय्य बिलमाविशत् ।। ४५
राजापि रथमुत्सृज्य तमेवानुसरन्क्रुधा ।
धनुर्द्वितीयस्तत्रैव प्राविशत्स बिलान्तरम् ।। ४६
दूरं प्रविश्य चापश्यत्कान्त पुरवरं महत् ।
सविस्मयो न्यषीदच्च तदन्तर्दीर्घिकातटे ।। ४७
तत्रस्थः कन्यकामेकामपश्यत्स्त्रीशतान्विताम् ।
संचरन्तीं स्मरस्येव धैर्यनिर्भेदिनीमिषुम् ।। ४८
सापि प्रेमरसासारवर्षिणा चक्षुषा मुहुः ।
स्नपयन्तीव राजानं शनकैस्तमुपागमत् ।। ४९
कस्त्वं सुभग कस्माच्च प्रविष्टोऽसीह सांप्रतम् ।
इत्युक्तः स तया राजा यथातत्त्वमवर्णयत ।। 2.3.५०
तच्छ्रुत्वा नेत्रयुगलात्सरागादश्रुसंततिम् ।
हृदयाद्धीरतां चापि समं कन्या मुमोच सा ।। ५१
का त्वं रोदिषि कस्माच्च पृष्टा तेनेति भूभृता ।
सा तं प्रत्यब्रवीदेवं मन्मथाज्ञानुवर्तिनी ।। ५२
यो वराहः प्रविष्टोऽत्र स दैत्योऽङ्गारकाभिधः ।
अहं चैतस्य तनया नाम्नाङ्गारवती नृप ।। ५३
वज्रसारमयश्चासौ राजपुत्रीरिमाः शतम् ।
आच्छिद्य राज्ञां गेहेभ्यः परिवारं व्यधान्मम ।। ५४
किं चैष राक्षसीभूतः शापदोषान्महासुरः ।
तृष्णाश्रमार्तश्चाद्य त्वां प्राप्यापि त्यक्तवानयम् ।। ५५
इदानीं चास्तवाराहरूपो विश्राम्यति स्वयम् ।
सुप्तोत्थितश्च नियतं त्वयि पापं समाचरेत् ।। ५६
इति मे तव कल्याणमपश्यन्त्या गलन्त्यमी ।
संतापक्वथिताः प्राणा इव बाष्पाम्बुबिन्दवः ।। ५७
इत्यङ्गारवतीवाक्यं श्रुत्वा राजा जगाद ताम् ।
यदि मय्यस्ति ते स्नेहस्तदिदं मद्वचः कुरु ।। ५८
प्रबुद्धस्यास्य गत्वा त्वं रुदिहि स्वपितुः पुरः ।
ततश्च नियतं स त्वां पृच्छेदुद्वेगकारणम् ।। ५९
त्वां चेन्निपातयेत्कश्चित्ततो मे का गतिर्भवेत् ।
एतदुःखं ममेत्येवं स च वाच्यस्त्वया ततः ।। 2.3.६०
एवं कृतेऽस्ति कल्याणं तवापि च ममापि च ।
इत्युक्ता तेन सा राज्ञा तथेत्यङ्गीचकार तम् ।। ६१
तं च च्छन्नमवस्थाप्य राजानं पापशङ्किनी ।
अगादसुरकन्या सा प्रसुप्तस्यान्तिकं पितुः ।। ६२
सोऽपि दैत्यः प्रबुबुधे प्रारेभे सा च रोदितुम् ।
किं पुत्रि रोदिषीत्येवं स च तामब्रवीत्ततः ।। ६३
हन्यात्त्वां कोऽपि चेत्तात तदा मे का गतिर्भवेत् ।
इत्यार्त्या तमवादीत्सा स विहस्य ततोऽब्रवीत् ।। ६४
को मां व्यापादयेत्पुत्रि सर्वो वज्रमयो ह्यहम् ।
वामहस्तेऽस्ति मे छिद्रं तच्च चापेन रक्ष्यते ।। ६५
इत्थमाश्वासयामास स दैत्यस्तां निजां सुताम् ।
एतच्च निखिलं तेन राज्ञा छन्नेन शुश्रुवे ।। ६६
ततः क्षणादिवोत्थाय कृत्वा स्नानं स दानवः ।
कृतमौनः प्रववृते देवं पूजयितुं हरम् ।। ६७
तत्कालं प्रकटीभूय स राजाकृष्टकार्मुकः ।
उपेत्य प्रसभं दैत्यं रणायाह्वयते स्म तम् ।। ६८
सोऽप्युत्क्षिप्य करं वामं मौनस्थस्तस्य भूपतेः ।
प्रतीक्षस्व क्षणं तावदिति संज्ञा तदाकरोत् ।। ६९
राजापि लघुहस्तत्वात्करे तत्रैव तत्क्षणम् ।
तस्मिन्मर्मणि तं दैत्यं पृषत्केन जघान सः ।। 2.3.७०
स च मर्माहतो घोरं रावं कृत्वा महासुरः ।
अङ्गारकोऽपतद्भूमौ निर्यज्जीवो जगाद च ।। ७१
तृषितोऽहं हतो येन स मामद्भिर्न तर्पयेत् ।
प्रत्यब्दं यदि तत्तस्य नश्येयुः पञ्च मन्त्रिणः ।। ७२
इत्युक्त्वा पञ्चतां प्राप स दैत्यः सोऽपि तत्सुताम् ।
तामङ्गारवतीं राजा गृहीत्वोज्जयिनीं ययौ ।। ७३
परिणीतवतस्तस्य तत्र तां दैत्यकन्यकाम् ।
जातौ द्वौ तनयौ चण्डमहासेनस्य भूपतेः ।। ७४
एको गोपालको नाम द्वितीयः पालकस्तथा ।
तयोरिन्द्रोत्सवं चासौ जातयोरकरोन्नृपः ।। ७५
ततस्तं नृपतिं स्वप्ने तुष्टो वक्ति स्म वासवः ।
प्राप्स्यस्यनन्यसदृशीं मत्प्रसादात्सुतामिति ।। ७६
ततः कालेन जातास्य राज्ञः कन्या तु तन्व्यथ ।
अपूर्वा निर्मिता धात्रा चन्द्रस्येवापरा तनुः ।। ७७
कामदेवावतारोऽस्याः पुत्रो विद्याधराधिपः ।
भविष्यतीति तत्कालमुदभूद्भारती दिवः ।। ७८
दत्ता मे वासवेनैषा तुष्टेनेति स भूपतिः ।
नाम्ना वासवदत्तां तां तनयामकरोत्तदा ।। ७९
सा च तस्य पितुर्गेहे प्रदेया संप्रति स्थिता ।
प्राङ्मन्थादर्णवस्येव कमला कुक्षिकोटरे ।। 2.3.८०
एवंविधप्रभावश्चण्डमहासेनभूपतिः स किल ।
देव न शक्यो जेतुं यथा तथा दुर्गदेशस्थः ।। ८१
किं च स राजन्वाञ्छति दातुं तुभ्यं सदैव तनयां ताम् ।
प्रार्थयते तु स राजा निजपक्षमहोदयं मानी ।। ८२
सा चावश्यं मन्ये वासवदत्ता त्वयैव परिणेया ।
स सपदि वासवदत्ताहृतहृदयो वत्सराजोऽभूत् ।। ८३
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथामुखलम्बके तृतीयस्तरङ्गः ।