कथासरित्सागरः/लम्बकः १/तरङ्गः ३

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

एवमुक्त्वा वररुचिः शृण्वत्येकाग्रमानसे ।
काणभूतौ वने तत्र पुनरेवेदमब्रवीत् ।। १
कदाचिद्याति कालेऽथ कृते स्वाध्यायकर्मणि ।
इति वर्ष उपाध्यायः पृष्टोऽस्माभिः कृताह्निकः ।। २
इदमेवंविधं कस्मान्नगरं क्षेत्रतां गतम् ।
सरस्वत्याश्च लक्ष्म्याश्च तदुपाध्याय कथ्यताम् ।। ३
तच्छ्रुत्वा सोऽब्रवीदस्माञ्छृणुतैतत्कथामिमाम् ।
तीर्थं कनखलं नाम गङ्गाद्वारेऽस्ति पावनम् ।। ४
यत्र काञ्चनपातेन जाह्नवी देवदन्तिना ।
उशीनरगिरिप्रस्थाद्भित्त्वा समवतारिता ।। ५
दाक्षिणात्यो द्विजः कश्चित्तपस्यन्भार्यया सह ।
तत्रासीत्तस्य चात्रैव जायन्ते स्म त्रयः सुताः ।। ६
कालेन स्वर्गते तस्मिन्सभार्ये ते च तत्सुताः ।
स्थानं राजगृहं नाम जग्मुर्विद्यार्जनेच्छया ।। ७
तत्र चाधीतविद्यास्ते त्रयोऽप्यानाथ्यदुःखिताः ।
ययुः स्वामिकुमारस्य दर्शने दक्षिणापथम् ।। ८
तत्र ते चिञ्चिनीं नाम नगरीमम्बुधेस्तटे ।
गत्वा भोजिकसंज्ञस्य विप्रस्य न्यवसन्गृहे ।। ९
स च कन्या निजास्तिस्रस्तेभ्यो दत्त्वा धनानि च ।
तपसेऽनन्यसंतानो गङ्गां याति स्म भोजिकः ।। १०
अथ तेषां निवसतां तत्र श्वशुरवेश्मनि ।
अवग्रहकृतस्तीव्रो दुर्भिक्षः समजायत ।। ११
तेन भार्याः परित्यज्य साध्वीस्तास्ते त्रयो ययुः ।
स्पृशन्ति न नृशंसानां हृदयं बन्धुबुद्धयः ।। १२
ततस्तु मध्यमा तासां सगर्भाभूत्ततश्च ताः ।
भवनं यज्ञदत्तस्य पितृमित्रस्य शिश्रियुः ।। १३
तत्र तस्थुर्निजान्भर्तॄन्ध्यायन्त्यः क्लिष्टवृत्तयः ।
आपद्यपि सतीवृत्तं किं मुञ्चन्ति कुलस्त्रियः ।। १४
कालेन मध्यमा चात्र तासां पुत्रमसूत सा ।
अन्योन्यातिशयात्तस्मिन्स्नेहश्चासामवर्धत ।। १५
कदाचिद्व्योममार्गेण विहरन्तं महेश्वरम् ।
अङ्कस्था स्कन्दजननी तं दृष्ट्वा सदयावदत् ।।१६
देव पश्य शिशावस्मिन्नेताऽस्तिस्रोऽपि योषितः ।
बद्धस्नेहा दधत्याशामेषोऽस्माञ्जीवयेदिति ।।१७
तत्तथा कुरु येनायमेता बालोऽपि जीवयेत् ।
इत्युक्तः प्रियया देवो वरदः स जगाद ताम् ।।
अनुगृह्णाम्यमुं पूर्वं सभार्येणामुना यतः ।
आराधितोऽस्मि तेनायं भोगार्थं निर्मितो भुवि ।।१९
एतज्जाया च सा जाता पाटली नाम भूपतेः ।
महेन्द्रवर्मणः पुत्री भार्यास्यैव भविष्यति ।।२०
इत्युक्त्वा स विभुः स्वप्ने साध्वीस्तिस्रो जगाद ताः ।
नाम्ना पुत्रक एवायं युष्माकं बालपुत्रकः।।२१
अस्य सुप्तप्रबुद्धस्य शीर्षान्ते च दिने दिने ।
सुवर्णलक्षं भविता राजा चायं भविष्यति ।।
ततः सुप्तोत्थिते तस्मिन्बाले ताः प्राप्य काञ्चनम् ।
यज्ञदत्तसुताः साध्व्यो ननन्दुः फलितव्रताः ।।२३
अथ तेन सुवर्णेन वृद्धकोषोऽचिरेण सः ।
बभूव पुत्रको राजा तपोधीना हि संपदः ।।२४
कदाचिद्यज्ञदत्तोऽथ रहः पुत्रकमब्रवीत् ।
राजन्दुर्भिक्षदोषेण क्वापि ते पितरो गताः ।।२५
तत्सदा देहि विप्रेभ्यो येनायान्ति निशम्य ते ।
ब्रह्मदत्तकथां चैतां कथयाम्यत्र ते शृणु ।।२६
वाराणस्यामभूत्पूर्वं ब्रह्मदत्ताभिधो नृपः ।
सोऽपश्यद्धंसयुगलं प्रयान्तं गगने निशि ।।२७
विस्फुरत्कनकच्छायं राजहंसशतैर्वृतम् ।
विद्युत्पुञ्जमिवाकाण्डसिताभ्रपरिवेष्टितम् ।।२८
पुनस्तद्दर्शनोत्कण्ठा तथास्य ववृधे ततः ।
यथा नृपतिसौख्येषु न बबन्ध रतिं क्वचित् ।।२९
मन्त्रिभिः सह संमन्त्र्य ततश्चाकारयत्सरः ।
स राजा स्वमते कान्तं प्राणिनां चाभयं ददौ ।।३०
ततः कालेन तौ प्राप्तौ हंसौ राजा ददर्श सः ।
विश्वस्तौ चापि पप्रच्छ हैमे वपुषि कारणम् ।।३१
व्यक्तवाचौ ततस्तौ च हंसौ राजानमूचतुः ।
पुरा जन्मान्तरे काकावावां जातौ महीपते ।।३२
बल्यर्थं युध्यमानौ च पुण्ये शून्ये शिवालये ।
विनिपत्य विपन्नौ स्वस्तत्स्थानद्रोणिकान्तरे ।।३३
जातौ जातिस्मरावावां हंसौ हेममयौ ततः ।
तच्छ्रुत्वा तौ यथाकामं पश्यन्राजा तुतोष सः ।।३४
अतोऽनन्यादृशादैव पितॄन्दानादवाप्स्यसि ।
इत्युक्तो यज्ञदत्तेन पुत्रकस्तत्तथाकरोत् ।।३५
श्रुत्वा प्रदानवार्तां तामाययुस्ते द्विजातयः ।
परिज्ञाताः परां लक्ष्मीं पत्नीश्च सह लेभिरे ।।३६
आश्चर्यमपरित्याज्यो दृष्टनष्टापदामपि ।
अविवेकान्धबुद्धीनां स्वानुभावो दुरात्मनाम् ।।३७
कालेन राज्यकामास्ते पुत्रकं तं जिघांसवः ।
निन्युस्तद्दर्शनव्याजाद्द्विजा विन्ध्यनिवासिनीम् ।।३८
वधकान्स्थापयित्वा च देवीगर्भगृहान्तरे ।
तमूचुः पूर्वमेकस्त्वं पश्य देवीं व्रजान्तरम् ।।३९
ततः प्रविष्टो विश्वासात्स दृष्ट्वा हन्तुमुद्यतान् ।
पुरुषान्पुत्रकोऽपृच्छत्कस्मान्निहथ मामिति ।।४०
पितृभिस्ते प्रयुक्ताः स्मः स्वर्णं दत्त्वेति चाब्रुवन्।
ततस्तान्मोहितान्देव्या बुद्धिमान्पुत्रकोऽवदत् ।।४१
ददाम्येतदनर्घं वो रत्नालंकरणं निजम् ।
मां मुञ्चत करोम्यत्र नोद्भेदं यामि दूरतः ।।४२
एवमस्त्विति तत्तस्माद्गृहीत्वा वधका गताः ।
हतः पुत्रक इत्यूचुस्तत्पितॄणां पुरो मृषा ।।४३
ततः प्रतिनिवृत्तास्ते हता राज्यार्थिनो द्विजाः ।
मन्त्रिभिर्द्रोहिणो बुद्ध्वा कृतघ्नानां शिवं कुतः ।।४४
अत्रान्तरे स राजापि पुत्रकः सत्यसंगरः ।
विवेश विन्ध्यकान्तारं विरक्तः स्वेषु बन्धुषु ।।४५
भ्रमन्ददर्श तत्रासौ बाहुयुद्धैकतत्परौ ।
पुरुषौ द्वौ ततस्तौ स पृष्टवान्कौ युवामिति ।।४६
मयासुरसुतावावां तदीयं चास्ति नौ धनम् ।
इदं भाजनमेषा च यष्टिरेते च पादुके ।।४७
एतन्निमित्तं युद्धं नौ यो बली स हरेदिति ।
एतत्तद्वचनं श्रुत्वा हसन्प्रोवाच पुत्रकः ।।
कियदेतद्धनं पुंसस्ततस्तौ समवोचताम् ।
पादुके परिधायैते खेचरत्वमवाप्यते ।।४९
यष्ट्या यल्लिख्यते किंचित्सत्यं संपद्यते हि तत् ।
भाजने यो य आहारश्चिन्त्यते स स तिष्ठति ।।५०
तच्छ्रुत्वा पुत्रकोऽवादीत्किं युद्धेनास्त्वयं पणः ।
धावन्बलाधिको यः स्यात्स एवैतद्धरेदिति ।।५१
एवमस्त्विति तौ मूढौ धावितौ सोऽपि पादुके ।
अध्यास्योदपतद्व्योम गृहीत्वा यष्टिभाजने ।।५२
अथ दूरं क्षणाद्गत्वा ददर्श नगरीं शुभाम् ।
आकर्षिकाख्यां तस्यां च नभसोऽवततार सः ।।५३
वञ्चनप्रवणा वेश्या द्विजा मत्पितरो यथा ।
वणिजो धनलुब्धाश्च कस्य गेहे वसाम्यहम् ।।५४
इति संचिन्तयन्प्राप स राजा विजनं गृहम् ।
जीर्णं तदन्तरे चैकां वृद्धां योषितमैक्षत ।।५५
प्रदानपूर्वं संतोष्य तां वृद्धामादृतस्तया ।
उवासालक्षितस्तत्र पुत्रकः शीर्णसद्मनि ।।५६
कदाचित्साथ संप्रीता वृद्धा पुत्रकमब्रवीत् ।
चिन्ता मे पुत्र यद्भार्या नानुरूपा तव क्वचित् ।।५७
इह राज्ञस्तु तनया पाटलीत्यस्ति कन्यका ।
उपर्यन्तःपुरे सा च रत्नमित्यभिरक्ष्यते ।।५८
एतद्वृद्धावचस्तस्य दत्तकर्णस्य शृण्वतः ।
विवेश तेनैव पथा लब्धरन्ध्रो हृदि स्मरः ।।५९
द्रष्टव्या सा मयाद्यैव कान्तेति कृतनिश्चयः ।
निशायां नभसा तत्र पादुकाभ्यां जगाम सः ।।६०
प्रविश्य सोऽद्रिशृङ्गाग्रतुङ्गवातायनेन ताम् ।
अन्तःपुरे ददर्शाथ सुप्तां रहसि पाटलीम् ।।६१
सेव्यमानामविरतं चन्द्रकान्त्याङ्गलग्नया ।
जित्वा जगदिदं श्रान्तां मूर्तां शक्तिं मनोभुवः ।।६२
कथं प्रबोधयाम्येतामिति यावदचिन्तयत् ।
इत्यकस्माद्बहिस्तावद्यामिकः पुरुषो जगौ ।।६३
आलिङ्ग्य मधुरहुंकृतिमलसोन्मिषदीक्षणां रहः कान्ताम् ।
यद्बोधयन्ति सुप्तां जन्मनि यूनां तदेव फलम् ।।
श्रुत्वैवैतदुपोद्धातमङ्गैरुत्कम्पविक्लवैः ।
आलिलिङ्ग स तां कान्तां प्राबुध्यत ततश्च सा ।।६५
पश्यन्त्यास्तं नृपं तस्या लज्जाकौतुकयोर्दृशि ।
अभूदन्योन्यसंमर्दो रचयन्त्यां गतागतम् ।।
अथालापे कृते वृत्ते गान्धर्वोद्वाहकर्मणि ।
अवर्धत तयोः प्रीतिर्दंपत्योर्न तु यामिनी ।।६७
आमन्त्र्याथ वधूमुत्कां तद्गतेनैव चेतसा ।
आययौ पश्चिमे भागे तद्वृद्धावेश्म पुत्रकः ।।
इत्थं प्रतिनिशं तत्र कुर्वाणेऽस्मिन्गतागतम् ।
संभोगचिह्नं पाटल्या रक्षिभिर्दृष्टमेकदा ।।६९
तैस्तदावेदितं तस्याः पितुः सोऽपि नियुक्तवान् ।
गूढमन्तःपुरे तत्र निशि नारीमवेक्षितुम् ।।७०
तया च तस्य प्राप्तस्य तत्राभिज्ञानसिद्धये ।
पुत्रकस्य प्रसुप्तस्य न्यस्तं वासस्यलक्तम् ।।७१
प्रातस्तया च विज्ञप्तो राजा चारान्व्यसर्जयत् ।
सोऽभिज्ञानाच्च तैः प्राप्तः पुत्रको जीर्णवेश्मनि।।७२
आनीतो राजनिकटं कुपितं वीक्ष्य तं नृपम् ।
पादुकाभ्यां खमुत्पत्य पाटलीमन्दिरेऽविशत् ।।७३
विदितौ स्वस्तदुत्तिष्ठ गच्छावः पादुकावशात् ।
इत्यङ्के पाटलीं कृत्वा जगाम नभसा ततः ।।७४
अथ गङ्गातटनिकटे गगनादवतीर्य स प्रियां श्रान्ताम् ।
पात्रप्रभावजातैराहारैर्नन्दयामास ।७५
आलोकितप्रभावः पाटल्या पुत्रकोऽर्थितश्च ततः ।
यष्ट्या लिलेख तत्र स नगरं चतुरङ्गबलयुक्तम् ।।७६
तत्र स राजा भूत्वा महाप्रभावे च सत्यतां प्राप्ते ।
नमयित्वा तं श्वशुरं शशास पृथ्वीं समुद्रान्ताम् ।।७७
तदिदं दिव्यं नगरं मायारचितं सपौरमत एव ।
नाम्ना पाटलिपुत्रं क्षेत्रं लक्ष्मीसरस्वत्योः ।।७८
इति वर्षमुखादिमामपूर्वां वयमाकर्ण्य कथामतीव चित्राम् ।
चिरकालमभूम काणभूते विलसद्विस्मयमोदमानचित्ताः ।।७९
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथापीठलम्बके तृतीयस्तरङ्गः ।