कथासरित्सागरः/लम्बकः १७/तरङ्गः २

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

ततः स ब्रह्मदत्तस्तौ दिव्यहंसौ नृपोऽब्रवीत् ।
कथं विद्युद्ध्वजं मुक्ताफलकेतुर्जघान तम् ।। १
शापमर्त्यत्वमुत्तीर्य प्राप पद्मावतीं कथम् ।
एतत्कथयतां तावत्कर्तास्मि प्रकृतं ततः ।। २
तच्छ्रुत्वा तत्कथामेवं ताववर्णयतां खगौ ।
आसीद्विद्युत्प्रभो नाम दैत्येन्द्रो देवदुर्जयः ।। ३
स गत्वा जाह्नवीतीरे सभार्यः पुत्रकाम्यया ।
ब्रह्माणमाराधयितुं चक्रे वर्षशतं तपः ।। ४
तपस्तुष्टस्य स ततः सुरारिर्ब्रह्मणो वरात् ।
प्राप विद्युद्ध्वजं नाम त्रिदशावध्यमात्मजम् ।। ५
स बालोऽपि महावीर्यो दैत्यराजसुतो बलैः ।
रक्ष्यमाणं चतुर्दिक्कं दृष्ट्वा स्वपुरमेकदा ।। ६
वयस्यमेकमप्राक्षीद्भयमत्र कुतः सखे ।
येनेदं रक्ष्यते नित्यं नगरं सैनिकैरिति ।। ७
ततो वयस्यः सोऽवादीदस्ति नस्त्रिदशेश्वरः ।
प्रतिपक्षस्तदर्थोऽयं पुररक्षागसंविधिः ।। ८
दन्तिनां दशलक्षाणि रथानां च चतुर्दश ।
त्रिंशल्लक्षाणि चाश्वानां पत्तीनां दशकोटयः ।। ९
यामे यामेऽभिरक्षन्ति पुरं वारक्रमादिदम् ।
स च प्रहरवारोऽब्दैस्तेषामायाति सप्तभिः ।। १०
तच्छ्रुत्वा सोऽब्रवीद्विद्युद्ध्वजो धिग्राज्यमीदृशम् ।
रक्ष्यते यत्किलान्येषां बाहुभिर्न स्वबाहुना ।। ११
तत्कृत्वाहं तपस्तीव्रं करिष्यामि तथा यथा ।
भुजनिर्जितशत्रोर्मे न स्यादेषा विडम्बना ।। १२
इत्युक्त्वैव वयस्यं तं वारयन्तं निषिध्य सः ।
विद्युद्ध्वजो ययौ पित्रोरनुक्त्वा तपसे वनम् ।। १३
बुद्ध्वाथ पितरौ स्नेहादन्वागत्य तमूचतुः ।
क्व बालस्त्वं क्व च तपः कष्टं मा पुत्र साहसम् ।। १४
जितशत्रुं च राज्यं नस्त्रैलोक्ये नु ततोऽधिकम् ।
किं वाञ्छसि वृथात्मानं शोषयन्किं दुनोषि नौ ।। १५
एवं वदन्तौ पितरौ विद्युद्ध्वज उवाच सः ।
बाल्य एवार्जयिष्यामि दिव्यास्त्राणि तपोबलात् ।। १६
निःशत्रु च जगद्राज्यमेतेनैव न वेद्मि किम् ।
रक्ष्यते नित्यसंनद्धैः सैन्यैः स्वपुरमेव यत् ।। १७
इत्यादि निश्चयेनोक्त्वा पितरौ च विसृज्य सः ।
विद्युद्ध्वजोऽसुरश्चक्रे विरिञ्चाराधनं तपः ।। १८
फलाहारोऽम्बुभक्षश्च वायुभुग्वर्जिताशनः ।
त्रीणि त्रीणि क्रमात्तस्थौ दैत्यो वर्षशतानि सः ।। १९
ततो ब्रह्मा जगत्क्षोभक्षममालोक्य तत्तपः ।
एत्यास्त्राणि ददौ तस्मै ब्राह्मादीनि तदर्थिने ।। २०
ब्रह्मास्त्रमेतदन्येन नास्त्रेण प्रतिहन्यते ।
विना पाशुपतं रौद्रमस्त्रमस्मदगोचरम् ।। २१
तदकाले त्वया नैतत्प्रयोक्तव्यं जयैषिणा ।
इत्युक्त्वा प्रययौ ब्रह्मा स दैत्यश्चागमद्गृहम् ।। २२
ततस्तदुत्सवायातैः सर्वैः स स्वबलैः सह ।
विद्युद्ध्वजः समं पित्रा प्रायाच्छक्रजिगीषया ।। २३
शक्रस्तदागमं बुद्ध्वा कृतरक्षस्त्रिविष्टपे ।
सख्या विद्याधरेन्द्रेण सहितश्चन्द्रकेतुना ।। २४
पद्मशेखरसंज्ञेन गन्धर्वाधीश्वरेण च ।
सदेवलोकपालोऽग्रे युयुत्सुस्तस्य निर्ययौ ।। २५
प्राप विद्युद्ध्वजश्चात्र बलैराच्छादिताम्बरः ।
ब्रह्मरुद्रादयश्चैतमाहवं द्रष्टुमाययुः ।। २६
ततः प्रववृते युद्धं तयोरुभयसैन्ययोः ।
परस्परास्त्रसंपातनिरुद्धार्कान्धकारितम् ।। २७
अमर्षवातक्षुभितो वाहिनीशतनिर्भरः ।
लुठद्वाजिगजग्राहो ववृधे समरार्णवः ।। २८
द्वन्द्वयुद्धेषु देवानां संप्रवृत्तेष्वथासुरैः ।
शक्रं विद्युत्प्रभोऽप्यागाद्विद्युद्ध्वजपिता क्रुधा ।। २९
अस्त्रप्रत्यस्त्रयुद्धेन शनैस्तेनामरद्विषा ।
शक्रोऽभिभूयमानोऽथ तस्मै वज्रमवाक्षिपत् ।। ३०
वज्राहत स दैत्योऽत्र पपात गतजीवितः ।
विद्युद्ध्वजोऽथ तत्क्रोधादभ्यधावच्छतक्रतुम् ।। ३१
अप्राणसंशये चादौ तस्मै ब्रह्मास्त्रमक्षिपत् ।
अन्ये च प्राहरन्नन्यैस्तस्मिन्नस्त्रैर्महासुराः ।। ३२
सोऽथ ध्यात्वेश्वरादिष्टमस्त्रं पाशुपतं क्षणात् ।
अग्रोपस्थितमभ्यर्च्य शक्रश्चिक्षेप शत्रुषु ।। ३३
तेन कालाग्निनास्त्रेण दग्धं तत्सैन्यमासुरम् ।
विद्युद्ध्वजस्तु बालत्वादहतो मूर्च्छितोऽपतत् ।। ३४
न हिनस्ति तदस्त्रं हि बालं वृद्धं पराङ्मुखम् ।
ततो लब्धजया देवाः स्वस्थानान्यखिला ययुः ।। ३५
सोऽपि विद्युद्ध्वजो ध्वस्तः सुचिराल्लब्धचेतनः ।
शोचन्पलाय्य मिलितानवोचच्छेषसैनिकान् ।। ३६
जयिनोऽपि जिताः स्मोऽद्य ब्रह्मास्त्रे प्रत्युतार्जिते ।
तत्त्यक्ष्याम्याहवे गत्वा शक्रमासाद्य जीवितम् ।। ३७
हते पितरि शक्ष्यामि न गन्तुं स्वपुरं पुनः ।
इत्युक्तवन्तं तं मन्त्री वृद्धो वक्ति स्म पैतृकः ।। ३८
अकालमुक्तं ब्रह्मास्त्रमन्यमुक्तास्त्रमन्थरम् ।
अन्यास्त्रासहनैशान महास्त्रव्याहतं हि तत् ।। ३९
तल्लब्धजयमाक्षेप्तुं नाकाले शत्रुमर्हसि ।
एवं हि तस्योपचयः स्वनाशश्च कृतो भवेत् ।। ४०
धीरो हि रक्षन्नात्मानं काले प्राप्य बलं रिपोः ।
मन्युप्रतिक्रियां कृत्वा विश्वश्लाघ्यं यशोऽश्नुते ।। ४१
इति वृद्धेन तेनोक्तो विद्युद्ध्वज उवाच सः ।
तर्ह्यस्मद्राज्यरक्षार्थं यात यूयमहं पुनः ।। ४२
तमेवाराधयिष्यामि गत्वा सर्वेश्वरं शिवम् ।
इत्युक्त्वानिच्छतोऽप्येतान्विससर्जैव सोऽनुगान् ।। ४३
गत्वा च पञ्चभिः सार्धं वयस्यैर्दैत्यपुत्रकैः ।
कैलासमूले गङ्गायास्तीरे सोऽशिश्रियत्तपः ।। ४४
घर्मे पञ्चाग्निमध्ये च शीते तस्थौ स वारिणि ।
एकं सहस्रं वर्षाणां शिवध्यायी फलाशनः ।। ४५
मूलाशनो द्वितीयं च तृतीयं वारिभोजनः ।
वायुभक्षश्चतुर्थं च निराहारश्च पञ्चमम् ।। ४६
वरदानागतं भूयो बहु मेने न पद्मजम् ।
दृष्टो वरप्रभावस्ते गम्यतामित्युवाच च ।। ४७
कालं तावन्तमेवान्यन्निराहारस्थितं च तम् ।
मूर्धोद्गतमहाधूमं साक्षाच्छंभुरुपाययौ ।। ४८
वृणीष्व वरमित्युक्तस्तेन दैत्यो जगाद सः ।
वध्यामहं रणे शक्रं त्वत्प्रसादाद्विभो इति ।। ४९
उत्तिष्ठ न विशेषोऽस्ति जितस्य निहतस्य वा ।
तदिन्द्रं जेष्यसि रणे तत्पदे च निवत्स्यसि ।। ५०
इत्युक्त्वान्तर्दधे देवः सोऽपि सिद्धं मनोरथम् ।
मत्वा विद्युद्ध्वजः कृत्वा पारणं स्वपुरं ययौ ।। ५१
तत्राभिनन्दितः पौरैस्तेन पित्र्येण मन्त्रिणा ।
मिलित्वा तत्कृते तप्ततपसा व्यधितोत्सवम् ।। ५२
आहूयासुरसैन्यानि विहिताहवसंविधिः ।
इन्द्राय प्राहिणोद्दूतं युधि सज्जो भवेति सः ।। ५३
चचाल च नभः सेनानादनिर्घातदारितम् ।
केतुभिश्छादयंस्तन्वन्रिष्टं स्वर्वासिनामिव ।। ५४
इन्द्रोऽपि तं लब्धवरं विज्ञायागतमाकुलः ।
संमन्त्र्य देवगुरुणा सुरसैन्यान्युपाह्वयत् ।। ५५
ततो विद्युद्ध्वजे प्राप्ते तयोरुभयसैन्ययोः ।
स्वेषां परेषां चाज्ञातविभागोऽभून्महाहवः ।। ५६
सुबाहुप्रमुखा दैत्याः सहायुध्यन्त वायुभिः ।
पिङ्गाक्षाद्याः कुबेरैश्च महामायादयोऽग्निभिः ।। ५७
अयःकायादयः सूर्यः सिद्धैराकम्पनादयः ।
अन्ये विद्याधरैर्दैत्या गन्धर्वाद्यैस्ततोऽपरे ।। ५८
एवमासीन्महायुद्धं तेषां वासरविंशतिम् ।
एकविंशे दिने दैत्यैरभज्यन्त रणे सुराः ।। ५९
ते च भग्नाः प्रविविशुः पलाय्यान्तस्त्रिविष्टपम् ।
ततश्चैरावणारूढो निरगाद्वासवः स्वयम् ।। ६०
परिवार्य च तं देवसैन्यानि निरगुः पुनः ।
चन्द्रकेतुप्रभृतिभिः सहैव द्युचरेश्वरैः ।। ६१
ततः प्रवृत्ते सङ्ग्रामे हन्यमानासुरामरे ।
इन्द्रमभ्यद्रवद्विद्युद्ध्वजः पितृवधक्रुधा ।। ६२
सोऽस्त्राणि तस्य प्रत्यस्त्रैर्दैत्येन्द्रस्य प्रतिघ्नतः ।
चिच्छेद बाणैः कोदण्डं देवराजो मुहुर्मुहुः ।। ६३
ततो मुद्गरमादाय महेश्वरवरोद्धुरः ।
विद्युद्ध्वजस्तं स जवादधावद्वासवं प्रति ।। ६४
उत्प्लुत्य दन्तयोर्दत्त्वा पादमैरावणस्य च ।
आरुरोहास्य कुम्भाग्रं यन्तारं विममाथ च ।। ६५
ददौ च देवराजाय प्रहारं मुद्गरेण सः ।
देवराजश्च मुशलेनाशु प्रतिजघान तम् ।। ६६
विद्युद्ध्वजोऽपि भूयस्तं मुद्गरेण जघान यत् ।
तदिन्द्रः सोऽपतद्वायुरथस्योपरि मूर्च्छितः ।। ६७
वायुर्मनोजवेनेन्द्रं तं रथेनान्यतोऽहरत् ।
विद्युद्ध्वजोऽस्य पश्चाच्च दत्तझम्पोऽपतद्भुवि ।। ६८
अकालोऽयं रणादिन्द्रमपसारयत द्रुतम् ।
इति तत्क्षणमाकाशादुच्चचार सरस्वती ।। ६९
ततोऽपसारिते शक्रे वायुना रथवेगतः ।
विद्युद्ध्वजो रथारूढो यावत्तमनुधावति ।। ७०
तावदैरावणः क्रुद्धो धावित्वैव निरङ्कुशः ।
मथ्नन्विद्राव्य सैन्यानि यतः शक्रस्ततो ययौ ।। ७१
ततो मुक्त्वा रणं देवसैन्येऽपीन्द्रमनुद्रुते ।
निनाय ब्रह्मभवनं भीतां सुरगुरुः शचीम् ।। ७२
अथ विद्युद्ध्वजः प्राप्य जयं शून्यामवाप्य च ।
नदद्भिः सहितः सैन्यैः प्रविवेशामरावतीम् ।। ७३
इन्द्रोऽपि लब्धसंज्ञः सन्नकालं वीक्ष्य संप्रति ।
तदेव ब्रह्मभवनं सह सर्वामरैरगात् ।। ७४
संप्रत्यसौ हरवरप्रभावो मा शुचं कृथाः ।
प्राप्तासि स्वपदं भूय इत्याश्वास्य पितामहः ।। ७५
स्वं समाधिस्थलं नाम तस्य सर्वसुखावहम् ।
ब्रह्मलोकैकदेशस्थं स्थानं वसतये ददौ ।। ७६
तत्रोवास स देवेन्द्रः शच्यैरावणसंगतः ।
तद्वाक्याद्वायुलोकं च जग्मुर्विद्याधरेश्वराः ।। ७७
अधृष्यं सोमलोकं च गन्धर्वपतयो ययुः ।
अन्यलोकान्ययुश्चान्ये त्यक्तस्वस्वनिकेतनाः ।। ७८
विद्युद्ध्वजश्च देवानां भूमिं भ्रमितडिण्डिमः ।
आक्रम्य बुभुजे राज्यं निर्मर्यादस्त्रिविष्टपे ।। ७९
अत्रान्तरे कथासंधौ वायुलोके चिरस्थितः ।
विद्याधरेश्वरश्चन्द्रकेतुरेवं व्यचिन्तयत् ।। ८०
स्वपदप्रच्युतेनेह मया स्थेयं कियच्चिरम् ।
नास्ति विद्युद्ध्वजस्याद्याप्यस्मच्छत्रोस्तपःक्षयः ।। ८१
श्रुतं मया यत्स गतः सुहृन्मे पद्मशेखरः ।
गन्धर्वेन्द्रः शिवपुरं तपसे सोमलोकतः ।। ८२
तस्य प्रसादो देवेन कृतः किमु न वेत्यहम् ।
नाद्यापि जाने तद्बुद्ध्वा ज्ञास्ये कर्तव्यमात्मनः ।। ८३
इति ध्यायति यावच्च तावदभ्याययौ स तम् ।
विद्याधरेन्द्रं गन्धर्वराजः प्राप्तवरः सखा ।। ८४
स तेनाश्लिष्य विहितस्वागतश्चन्द्रकेतुना ।
पृष्टश्च निजवृत्तान्तं गन्धर्वपतिरभ्यधात् ।। ८५५
गत्वा शिवपुरे शंभुं तपसाहमतोषयम् ।
स च मामादिशद्गच्छ पुत्रस्ते भवितोत्तमः ।। ८६
पुनः प्राप्स्यसि राज्यं च कन्यां सर्वोत्तमामपि ।
विद्युद्ध्वजान्तको यस्या वीरो भर्ता भविष्यति ।। ८७
इत्यादिष्टो हरेणाहं तवैतद्वक्तुमागतः ।
गन्धर्वेन्द्रादिति श्रुत्वा चन्द्रकेतुरुवाच सः ।। ८८
मयाप्येतस्य दुःखस्य शान्त्यै गत्वा महेश्वरः ।
आराध्यस्तमनाराध्य न सन्तीप्सितसिद्धयः ।। ८९
इति निश्चित्य तपसे दिव्यं क्षेत्रं त्रिशूलिनः ।

मुक्तावल्या समं पत्न्या चन्द्रकेतुर्जगाम सः ।। ९०
सोऽपि स्ववरवृत्तान्तमिन्द्रायोक्त्वा रिपुक्षये ।
उत्पन्नास्थो ययौ सोमभुवनं पद्मशेखरः ।। ९१
ततः सुरपतिस्तत्र स समाधिस्थले स्थितः ।
जातास्थः संक्षये शत्रोरमर्त्यगुरुमस्मरत् ।। ९२
संस्मृतोपस्थितं तत्र प्रह्वः सत्कृत्य सोऽब्रवीत् ।
तपस्तुष्टः शिवः पद्मशेखरस्य समादिशत् ।। ९३
विद्युद्ध्वजस्य हन्तारं भाविजामातरं किल ।
तदस्य दुष्कृतस्यान्तस्तावन्नः किं त्वहं चिरम् ।। ९४
निवसन्निह निर्विण्णः स्वपदभ्रंशदुःस्थितः ।
तच्चिन्तयात्र भगवन्नपायं शीघ्रकारिणम् ।। ९५
इति देवगुरुः शक्राद्वचः श्रुत्वा जगाद तम् ।
कामं तस्य रिपोः प्राप्तो दुष्कृतैस्तपसः क्षयः ।। ९६
तस्मादवसरोऽस्माकं स्वप्रयत्नविधेरयम् ।
तदेहि ब्रह्मणे ब्रूमः स उपायं वदिष्यति ।। ९७
इत्युक्तो गुरुणा शक्रस्तद्युक्तो ब्रह्मणोऽन्तिकम् ।
ययौ प्रणम्य तस्मै च शशंस स्वमनोगतम् ।। ९८
ततः स्वयंभूरवदच्चिन्तैषा न ममापि किम् ।
किं तु शर्वकृतं शर्वेणैव शक्यं व्यपोहितुम् ।। ९९
स च देवश्चिरं प्राप्यस्तदेव निकटं हरेः ।
तदभिन्नात्मनो यामः सोऽभ्युपायं वदिष्यति ।। १००
इति संमन्त्र्य स ब्रह्मा शक्रः सुरगुरुश्च सः ।
हंसयानमुपारुह्य श्वेतद्वीपमुपागमन् ।। १०१
यत्र सर्वो जनः शङ्खचक्रपद्मगदाधरः ।
चतुर्भुजश्च मूर्तौ च चित्ते च भगवन्मयः ।। १०२
तत्र ते ददृशुर्देवं महारत्नगृहान्तरे ।
सेविताङ्घ्रिं कमलया शेषशय्यागतं हरिम् ।। १०३
कृतप्रणामास्तस्मै ते यथार्हं तेन सत्कृताः ।
देवर्षिवन्दिताश्चात्र यथोचितमुपाविशन् ।। १०४
भगवत्पृष्टकुशला देवास्ते तं व्यजिज्ञपन् ।
कुशलं किमिवास्माकं देव विद्युद्ध्वजे सति ।। १०५
जानात्येव हि तत्सर्वं देवो यत्तेन नः कृतम् ।
तदर्थश्चागमोऽयं नस्तद्देवो वेत्त्यतः परम् ।। १०६
एवमुक्तवतो देवांस्तानुवाच जनार्दनः ।
किं न जानामि यद्भग्ना स्थितिस्तेनासुरेण मे ।। १०७
किं तु स्वयं यदीशेन कृतं त्रिपुरघातिना ।
तत्तेनैवान्यथा कर्तुं शक्यते न पुनर्मया ।। १०८
तत एव च तस्य स्यात्क्षयो दैत्यस्य पाप्मनः ।
त्वरध्वं यदि तावद्वो वच्म्युपायं निशम्यताम् ।। १०९
अस्ति माहेश्वरं क्षेत्रं दिव्यं सिद्धीश्वराभिधम् ।
तत्र संप्राप्यते देवो नित्यसंनिहितो हरः ।। ११०
एतच्च दर्शितज्वालालिङ्गरूपः स एव मे ।
पूर्वं प्रजापतेश्च प्राग्रहस्यमवदद्विभुः ।। १११
तदेत तत्र गत्वा तं तपसा प्रार्थयामहे ।
स एवोपद्रवमिमं जगतां शमयिष्यति ।। ११२
इत्यादिष्टवता तेन देवेन सह विष्णुना ।
ते तार्क्ष्यहंसयानाभ्यां सर्वे सिद्धीश्वरं ययुः ।। ११३
असंस्पृष्टे जरामृत्युरोगैः सौख्यैकधामनि ।
हेमरत्नमया यत्र मृगपक्षिद्रुमा अपि ।। ११४
तत्रान्तर्दर्शितान्योन्यमूर्तिभेदं क्षणे क्षणे ।
अन्यान्यरत्नरूपं च लिङ्गमभ्यर्च्य शूलिनः ।। ११५
तत्परास्ते हरिर्ब्रह्मा देवेन्द्रो दिविषद्गुरुः ।
तेपिरे हरमुद्दिश्य चत्वारो दुश्चरं तपः ।। ११६
अत्रान्तरे च तीव्रेण तपसा तोषितः शिवः ।
चन्द्रकेतोर्वरं तस्य विद्याधरपतेरदात् ।। ११७
उत्तिष्ठोत्पत्स्यते राजन्महावीरः स ते सुतः ।
विद्युद्ध्वजं यः समरे युष्मच्छत्रुं हनिष्यति ।। ११८
शापावतीर्णो मानुष्ये कृतामरहितश्च यः ।
गन्धर्वराजदुहितुः पद्मावत्यास्तपोबलात् ।। ११९
पुनः स्वपदमासाद्य तयैव सह भार्यया ।
सर्वं विद्याधरैश्वर्यं दश कल्पान्करिष्यति ।। १२०
इति दत्तवरे देवे तिरोभूते सभार्यकः ।
चन्द्रकेतुस्तदैवागात्स वायुभुवनं पुनः ।। १२१
तावत्तीव्रतपस्तुष्टस्तत्र सिद्धीश्वरेऽपि तान् ।
नारायणादींल्लिङ्गान्तर्दृष्टो हृऽष्टान्हरोऽब्रवीत् ।। १२२
उत्तिष्ठतालं क्लेशेन युष्मत्पक्ष्येण तोषितः ।
विद्याधरेश्वरेणाहं तपसा चन्द्रकेतुना ।। १२३
मदंशसंभवस्तस्य वीरः पुत्रो जनिष्यते ।
यस्तं विद्युद्ध्वजं दैत्यं हनिष्यत्यचिराद्रणे ।। १२४
ततोऽन्यदेवकार्यार्थं मानुष्ये शापतश्च्युतम् ।
पद्मशेखरगन्धर्वसुता तं प्रोद्धरिष्यति ।। १२५
पद्मावत्याख्यया सार्धं तया गौर्यंशजातया ।
पत्न्या द्युचरसाम्राज्यं कृत्वा मामेव चैष्यति ।। १२६
तत्सहध्वं मनागेषः कामः संपन्न एव वः ।
इत्यच्युतादीनुक्त्वा ताञ्जगामादर्शनं शिवः ।। १२७
ततो हृष्टो हरिर्ब्रह्मा शक्रामरगुरू च तौ ।
जग्मुः स्थानानि तान्येव ते भूयो येभ्य आगताः ।। १२८
अथ विद्याधरेन्द्रस्य तस्य मुक्तावली प्रिया ।
चन्द्रकेतोः सगर्भाभूत्काले च सुषुवे सुतम् ।। १२९
प्रकाशयन्तं ककुभो दुराधर्षेण तेजसा ।
तामसोपद्रवं हर्तुं बालमर्कमिवोदितम् ।। १३०
जाते च तस्मिन्नित्यत्र भारती शुश्रुवे दिवः ।
चन्द्रकेतो सुतोऽयं ते हन्ता विद्युद्ध्वजासुरम् ।। १३१
नाम्ना च विद्ध्यमु मुक्तफलकेतुं द्विषन्तपम् ।
इत्युक्त्वा चन्द्रकेतुं सा सोत्सवं विरराम वाक् ।। १३२
पपात पुष्पवृष्टिश्च ज्ञातार्थः पद्मशेखरः ।
शक्रश्चाययतुस्तत्र ये च च्छन्नाः स्थिताः सुराः ।। १३३
हरप्रसादवृत्तान्तमाचक्षाणाः परस्परम् ।
अनुभूय प्रमोदं ते स्वस्थानान्येव शिश्रियुः ।। १३४
स मुक्ताफलकेतुश्च सर्वसंस्कारसंस्कृतः ।
सहानन्देन देवानां क्रमाद्वृद्धिमुपागमत् ।। १३५
अथ तस्य दिनैः कन्या पुत्रोत्पत्तेरनन्तरम् ।
गन्धर्वाधिपतेः पद्मशेखरस्याप्यजायत ।। १३६
गन्धर्वेन्द्र सुतेयं ते भार्या विद्युद्ध्वजद्विषः ।
विद्याधरपतेः पद्मावती नाम भविष्यति ।। १३७
इति तस्यां च जातायां गगनादुदगाद्वचः ।
ततः पद्मावती सात्र क्रमात्कन्या व्यवर्धत ।। १३८
सुधांशुलोकसंभूतिसंक्रान्तेन तरङ्गिणा ।
अमृतेनेव लावण्यविसरेण विराजिता ।। १३९
सोऽपि बालोऽभवन्मुक्ताफलकेतुर्महामतिः ।
व्रतोपवासादि तपश्चक्रे शिवमयः सदा ।। १४०
एकदा ध्याननिष्ठं तं द्वादशाहमुपोषितम् ।
प्रत्यक्षीभूय भगवाञ्जगाद गिरिजापतिः ।। १४१
तुष्टोऽस्मि तेऽनया भक्त्या मत्प्रसादेन तत्तव ।
आविर्भविष्यन्त्यस्त्राणि विद्याः सर्वकलास्तथा ।। १४२
अपराजितसंज्ञं च खड्गमेतं गृहाण मे ।
कर्तासि येन साम्राज्यं विपक्षैरपराजितः ।। १४३
इत्युक्त्वा स विभुस्तस्मै खड्गं दत्त्वा तिरोदधे ।
स चाशु राजपुत्रोऽभून्महास्त्रबलविक्रमः ।। १४४
अत्रान्तरे कदाचित्स विद्युद्ध्वजमहासुरः ।
त्रिदिवस्थो जलक्रीडां चक्रे द्युसरिदम्भसि ।। १४५
ददर्श स जलं तस्याः कपिशं पुष्परेणुभिः ।
मदगन्धानुविद्धं च वीचिविक्षोभितं महत् ।। १४६
ततो भुजमदाध्मातः स जगाद निजानुगान् ।
ममाप्युपरि कः क्रीडत्यम्भोभिर्यात पश्यत ।। १४७
तच्छ्रुत्वोपरि यातास्ते पश्यन्ति स्मासुरा जले ।
क्रीडन्तं वृषभं शार्वं सह शाक्रेण दन्तिना ।। १४८
आगत्य च तमूचुस्ते दैत्येन्द्रं देव शांभवः ।
उपर्येत्य वृषः क्रीडत्यैरावणयुतोऽम्भसि ।। १४९
तन्माल्यैरावणमद्व्यामिश्रितमिदं पयः ।
श्रुत्वेत्यगणयञ्शर्वं मदाच्चुक्रोध सोऽसुरः ।। १५०
स्वदुष्कृतपरीपाकमूढो भृत्यानुवाच च ।
यातानयत तौ बद्ध्वा वृषभैरावणाविति ।। १५१
ततो गत्वा जिघृक्षन्ति यावत्तौ ते किलासुराः ।
तावत्ताञ्जघ्नतुः क्रुद्धौ तौ प्रधाव्य वृषद्विपौ ।। १५२
हतशेषाश्च जगदुर्गत्वा विद्युद्ध्वजाय तत् ।
स क्रुद्धः प्राहिणोत्तौ प्रत्यासुरं सुमहद्बलम् ।। १५३
मथित्वा तच्च तत्सैन्यं पापपाकागतक्षयम् ।
वृषो हरान्तिकं प्रायादिन्द्रमैरावणोऽभ्यगात् ।। १५४
इन्द्रोऽथ तस्य दितिजस्य विचेष्टितं तदैरावणानुचररक्षिगणान्निशम्य ।
संप्राप्तनाशसमयं तममन्यतारिं गौरीपतेर्भगवतोऽपि कृतावमानम् ।। १५५
आवेद्य तत्कमलजाय ततः समेत्य विद्याधरादिसहितः सह देवसैन्यैः ।
हन्तुं रिपुं तमधिरूढसुरेभमुख्यः शक्रः शचीरचितमाङ्गलिकः प्रतस्थे ।। १५६
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे पद्मावतीलम्बके द्वितीयस्तरङ्गः ।