कथासरित्सागरः/लम्बकः १५/तरङ्गः २

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

अथापरेद्युरुत्थाय ततः कैलाससानुतः ।
नरवाहनदत्तोऽसौ चक्रवर्ती बलान्वितः ।। १
राज्ञः काञ्चनदंष्ट्रस्य वचनादग्रगामिनः ।
प्रायान्मन्दरदेवीयं पुरं विमलसंज्ञकम् ।। २
संप्राप तच्च सौवर्णप्रांशुप्राकारसुन्दरम् ।
सुमेरुमिव कैलासं सभाजयितुमागतम् ।। ३
विवेश चातिगम्भीरमच्युतश्रीविराजितम् ।
अनन्तरत्ननिलयं निस्तोयमिव सागरम् ।। ४
तत्रास्थानोपविष्टं तं राजभिर्द्युचरैर्वृतम् ।
सम्राजमेत्य राजान्तःपुरवृद्धा व्यजिज्ञपन् ।।
प्र गते मन्दरदेवेऽत्र वनं युष्मत्पराजिते ।
तद्देव्योऽग्निं विविक्षन्ति श्रुत्वा वेत्त्यधुना प्रभुः ।। ६
इत्युक्तस्तैः स मरणाच्चक्रवर्ती निवार्य ताः ।
संविभेजे निवासादिदानेन भगिनीरिव ।। ७
तेन विद्याधराधीशवर्गं निखिलमेव तम् ।
दत्तानुरागनिगडं स सम्राट् समपादयत् ।। ८
तं च तत्रामितगतिं राजानं पूर्वकल्पितम् ।
राज्ये मन्दरदेवस्य कृतज्ञः सोऽभिषिक्तवान् ।। ९
अर्पयामास तस्मै च तदीयांस्तान्महीक्षितः ।
राज्ञे काञ्चनदंष्ट्रादीन्भक्तायाव्यभिचारिणे ।। १०
रेमे च तत्र सप्ताहमुद्यानेषु महर्द्धिषु ।
कैलासोत्तरदिक्पार्श्वलक्ष्म्याश्लिष्टो नवोढया ।। ११
ततश्चोभयवेद्यर्धविद्याधरमहीक्षिताम् ।
चक्रवर्तित्वमासाद्याप्यधिकेच्छुर्बभूव सः ।। १२
गन्तुं प्रववृते जेतुं वारितोऽपि स मन्त्रिभिः ।
तद्दिग्व्यवस्थितालङ्घ्यमेरुभूमीः सुराश्रयाः ।। १३
अत्यर्थोपचिताः कामं विशेषासादनं विना ।
तेजस्विनो न तिष्ठन्ति दीप्ता दावानला इव ।। १४
ततस्तं नारदोऽभ्येत्य मुनिरेवमभाषत ।
नीतिज्ञस्यापि ते कोऽयं राजन्नविषयोद्यमः ।। १५
प्रवर्तमानो ह्युत्सेकादसाध्ये परिभूयते ।
दशास्य इव दर्पेण कैलासोन्मूलनोद्यतः ।। १६
दुर्लङ्घ्यो ह्यर्कचन्द्राभ्यामपि मेरुस्तवेह च ।
विद्याधरेन्द्रतादिष्टा शर्वेण न सुरेन्द्रता ।। १७
विद्याराणां भूमिर्हि हिमवान्विजितस्त्वया ।
तन्मेरौ देवभूमौ ते किं कार्यं मुञ्च दुर्ग्रहम् ।। १८
पिता मन्दरदेवस्य यस्त्वकम्पनसंज्ञकः ।
स द्रष्टव्यस्त्वया गत्वा वनस्य शिवमिच्छता ।। १९
इत्युक्त्वा नारदमुनिः प्रतिपन्नं तथेति तम् ।
चक्रवर्तिनमामन्त्र्य जगाम स यथागतम् ।। २०
चक्रवर्त्यपि कार्यज्ञो नारदेन च वारितः ।
ऋषभस्य तथा नाशं देवमायाच्छ्रुतं स्मरन् ।। २१
स विमृश्य स्वयं बुद्ध्या विनिवृत्त्य ततो ययौ ।
तपोवनस्थितं द्रष्टुं राजर्षिं तमकम्पनम् ।। २२
प्रापत्तपोवनं चास्य योगनिष्ठैर्महर्षिभिः ।
पद्मासनोपविष्टैश्च ब्रह्मलोकमिवावृतम् ।। २३
तत्र वृद्धं ददर्शैतं जटावल्कलधारिणम् ।
अकम्पनं मुनिजनैर्महाद्रुममिवाश्रितम् ।। २४
ववन्दे चोपसृत्यात्र पादावस्य तपस्विनः ।
असावपि कृतातिथ्यो राजर्षिर्निजगाद तम् ।। २५
युक्तं कृतं त्वया राजन्निममागच्छताश्रमम् ।
उल्लङ्घ्य गच्छतस्ते हि दद्युः शापं महर्षयः ।। २६
इति ब्रुवति राजर्षौ तस्मिंस्तं चक्रवर्तिनम् ।
तिष्ठंस्तपोवने तत्र स गृहीतमुनिव्रतः ।। २७
आगान्मन्दरदेवोऽपि पितुस्तस्य तदान्तिकम् ।
स्वस्रा मन्दरदेव्यात्र कुमार्या सहितस्तया ।। २८
नरवाहनदत्तश्च दृष्ट्वा कण्ठे तमग्रहीत् ।
जितशान्तेषु धीराणां स्नेह एवोचितोऽरिषु ।। २९
अथ मन्दरदेवीं तां भ्रात्रा सममुपागताम् ।
दृष्ट्वाकम्पनराजर्षिः स सम्राजमुवाच तम् ।। ३०
इयं मन्दरदेवीति नाम्ना राजन्सुता मम ।
उक्ता च दिव्यवाचैषा महिषी चक्रवर्तिनः ।। ३१
तदेतामुपयच्छस्व चक्रवर्तिन्मयार्पिताम् ।
इत्युक्तवति राजर्षौ सा जगाद तदात्मजा ।। ३२
इह सन्ति चतस्रो मे वयस्या वरकन्यकाः ।
एका कनकवत्याख्या कन्या काञ्चनदंष्ट्रजा ।। ३३
द्वितीया कालजिह्वस्य नाम्ना कालवती सुता ।
तृतीया दीर्घदंष्ट्रस्य श्रुता नाम तनूद्भवा ।। ३४
चतुर्थी पोत्रराजस्य पुत्री नाम्नाम्बरप्रभा ।
विद्याधरेन्द्रकन्यानामहं तासां च पञ्चमी ।। ३५
भ्रमन्त्यस्ता वयं पञ्च दृष्ट्वा पूर्वं तपोवने ।
आर्यपुत्रमिमं सोत्का व्यदध्म समयं मिथः ।। ३६
सममस्माभिराहार्यो भर्तायं या पृथक्त्वमुम् ।
भजेदुद्दिश्य तामात्मा हत्तव्योऽन्याभिराश्विति ।। ३७
तत्सखीभिर्विना ताभिर्युक्तः परिणयो न मे ।
मादृश्यो हि कथं कुर्युः सत्वोल्लङ्घनसाहसम् ।। ३८
एवं तया प्रौढयोक्ते तत्पिताकम्पनः स तान् ।
विद्याधरेन्द्रांश्चतुरोऽप्याह्वयत्कन्यकापितॄन् ।। ३९
शशंस च यथातत्त्वं स तेभ्यस्तेऽपि तत्क्षणम् ।
कृतार्थमानिनः कन्यास्तनयास्ताः समानयन् ।। ४०
ततो मन्दरदेवीतः प्रभृत्येताः क्रमेण सः ।
नरवाहनदत्तोऽन्याः पञ्चात्र परिणीतवान् ।। ४१
ताभिः सह च तत्रासीद्वासराणि बहूनि सः ।
ऋषींस्त्रिसंध्यं प्रणमन्कृतोत्सवपरिच्छदः ।। ४२
राजन्महाभिषेकार्थमृषभाद्रिं व्रजाधुना ।
इत्युक्तेऽकम्पनेनाथ देवमायोऽप्युवाच तम् ।। ४३
देवैवमेव कार्यं ते यस्मादृषभकादयः ।
अभ्यषिच्यन्त तत्राद्रौ प्राक्तनाश्चक्रवर्तिनः ।। ४४
तच्छ्रुत्वा निकटे श्लाघ्ये मन्दराद्रौ प्रशंसति ।
अभिषेकं हरिशिखे वागेवमुदभूद्दिवः ।। ४५
महाभिषेकं सर्वे हि राजन्नृषभपर्वते ।
पूर्वे प्राप्तास्त्वमप्यद्य गच्छ सिद्धपदं ह्यदः ।। ४६
इत्युक्तो दिव्यया वाचा नत्वा साकम्पनानृषीन् ।
नरवाहनदत्तोऽतः स प्रतस्थे शुभेऽहनि ।। ४७
प्राप तच्च त्रिशीर्षाख्यगुहाया द्वारमुत्तरम् ।
सहामितगतिप्रष्ठैः सर्वविद्याधरेश्वरैः ।। ४८
तत्र संपूजितां कालरात्रिं द्वारेण तेन सः ।
प्रविश्य तां गुहां सम्राड् दक्षिणेन विनिर्ययौ ।। ४९
निर्यातश्च समं सैन्यैर्देवमायस्य मन्दिरे ।
तदर्थितो विशश्राम दिनेऽस्मिन्सपरिग्रहः ।। ५०
तत्रस्थश्च स कैलासे तस्मिन्संनिहितं हरम् ।
विचिन्त्य गोमुखसखः स्वैरं द्रष्टुं जगाम तम् ।। ५१
आसाद्य चाश्रमं तस्य सुरभिं वृषभं तथा ।
दृष्ट्वा प्रणम्य च द्वाःस्थं स नन्दिनमुपेयिवान् ।। ५२
प्रदक्षिणप्रतीतेन मुक्तद्वारश्च तेन सः ।
प्रविश्य देवीसहितं ददर्श वृषभध्वजम् ।। ५३
दूरादेव कृताह्लादं चूडाचन्द्रकरोत्करैः ।
इतस्ततो गतैर्गौर्या मुखद्युतिजितैरिव ।। ५४
क्रीडन्तं प्रियया साकमक्षैरक्षैरिवेच्छया ।
स्वकार्यदत्तस्वातन्त्र्यैर्लोलैर्वशगतैरपि ।। ४५
दृष्ट्वा च पादयोस्तस्य पपात वरदस्य सः ।
देव्याः शैलसुतायाश्च चक्रे च द्विःप्रदक्षिणम् ।। ५६
युक्तं यदागतोऽसीह दोषः स्याद्धि तवान्यथा ।
भविष्यन्त्यधुना ते तु विद्याः शश्वदभङ्गुराः ।। ५७
तद्वत्स सिद्धक्षेत्रं तद्गच्छ त्वमृषभाचलम् ।
महाभिषेकं तत्राशु प्राप्तकालमवाप्नुहि ।। ५८
इत्यादिष्टश्च देवेन चक्रवर्ती तथेति तम् ।
नत्वा सभार्यमागात्तद्देवमायस्य मन्दिरम् ।। ५९
क्वार्यपुत्र गतोऽभूस्त्वं प्रहृष्टः किल दृश्यसे ।
इहापि किंस्विन्मिलितास्तवान्याः पञ्च कन्यकाः ।। ६०
इत्यादिनर्मणा तत्र देवीं मदनमञ्चुकाम् ।
ब्रुवतीमुक्ततत्त्वार्थो नन्दयन्सुखमास्त सः ।। ६१
अन्येद्युः सर्वगन्धर्वविद्याधरबलान्वितः ।
द्विभास्करमिव व्योम कुर्वंस्तेजस्विनात्मना ।। ६२
विमानवरमारूढः सावरोधः समन्त्रिकः ।
नरवाहनदत्तोऽतः प्रययावृषभाचलम् ।। ६३
प्रापच्च तं गिरिं दिव्यं वातधूतजटालतैः ।
विकीर्णपुष्पैर्दत्तार्घस्तापसैरिव पादपैः ।। ६४
तत्र तस्य समाजह्रुस्ते ते विद्याधराधिपाः ।
महाभिषेकसंभारान्प्रभावसदृशान्प्रभोः ।। ६५५
आययुश्चाभिषेकेऽत्र तस्य प्राभृतपाणयः ।
दिग्भ्यो विद्याधराः सर्वे भक्तभीतजितादृताः ।। ६६
अर्धासनेऽभिषेक्तव्या महादेवीपदेऽत्र का ।
देव देवीति पप्रच्छुस्तं च विद्याधरास्ततः ।। ६७
समं मयाभिषेक्तव्या देवी मदनमञ्चुका ।
इति राज्ञोदिते क्षिप्रं ध्यानं ते द्युचरा ययुः ।। ६८
अथोच्चचार गगनादशरीरा सरस्वती ।
हंहो विद्याधरा नेयं मर्त्या मदनमञ्चुका ।। ६९
रतिरेषावतीर्णा हि कामस्यास्य भवत्प्रभोः ।
नासौ कलिङ्गसेनायां जाता मदनवेगतः ।। ७०
अयोनिजेयं देवैर्हि मायया परिवर्त्य तम् ।
गर्भं तस्याः प्रसूताया निक्षिप्ता तत्र तत्क्षणम् ।। ७१
जातो भर्गस्तु यस्तस्याः सोऽयमित्यकसंज्ञकः ।
स्थितो मदनवेगस्य पार्श्वे धात्रा समर्पितः ।। ७२
तदेषार्धासनार्हास्य पत्युर्मदनमञ्चुका ।
अस्या ह्येतद्वरं प्रादात्तपस्तुष्टो हरः पुरा ।। ७३
इत्युक्त्वा व्यरमत्सा च वाणी विद्याधराश्च ते ।
तुतुषुः प्रशशंसुश्च देवीं मदनमञ्जुकाम् ।। ७४
ततः शुभेऽहनि व्यग्रे शान्तिसोमे पुरोहिते ।
मङ्गल्यतूर्यनादेषु सुगीतेषु द्युयोषिताम् ।। ७५
ब्राह्मणब्रह्मघोषेषु व्याप्तवत्सु दिशो दश ।
सिंहासनस्थं वामार्धतिष्ठन्मदनमञ्चुकम् ।। ७६
नरवाहनदत्तं तं नानातीर्थसमुद्भवैः ।
हेमकुम्भाहृतैस्तोयैरभ्यषिञ्चन्महर्षयः ।। ७७
चित्रं तस्य जलैर्मूर्ध्नि पतितैर्मन्त्रपावनैः ।
निरगान्मनसो धौतं गृहं वैरमलं द्विषाम् ।। ७८
लक्ष्मीस्तदभिषेकाम्बु सामुद्रं बन्धुबुद्धितः ।
अन्वागतेव तस्याङ्गं साक्षात्तेन सहावृणोत् ।। ७९
पुष्पमालाततिस्तस्य नाकनारीकरोज्झिता ।
स्वयं पतन्ती गङ्गेव बहुस्रोता वपुष्यभात् ।। ८०
सोऽरुणेनाङ्गरागेण प्रतापेनेव भूषितः ।
उदयस्थोऽम्बुधिजलस्नातो भास्वान्बभौ ततः ।। ८१
बद्धमन्दारमाल्यश्च सद्वस्त्राभरणोज्ज्वलः ।
आमुक्तदिव्यमुकुटः श्रियं शाक्रीमुवाह सः ।। ८२
प्राप्ताभिषेका देवी च पार्श्वे मदनमञ्चुका ।
तस्य दिव्यैरलंकारैः शचीवेन्द्रस्य निर्बभौ ।। ८३
नददुन्दुभिमेघं द्युपतत्कुसुमवृष्टि च ।
स्वःस्त्रीविद्युद्वृत्तं चित्रं दुर्दिनं तदभूद्दिनम् ।। ८४
ततो नगेन्द्रनगरे विद्याधरवराङ्गनाः ।
नानृत्यन्केवलं यावद्वातोद्धूता लता अपि ।। ८५
चारणैरत्र मुरजेष्वाहतेषु महोत्सवे ।
नगोऽप्यवादयदिव प्रतिशब्दवतीर्गुहाः ।। ८६
दिव्यासवरसक्षीबवल्गद्विद्याधरावृतः ।
स पर्वतोऽपि पानेन घूर्णमान इवाबभौ ।। ८७
वर्णितास्याभिषेकस्य शोभानेनैव वीक्ष्य यत् ।
इन्द्रोऽपि स्वाभिषेकेऽभूद्भग्नमानो विमानगः ।। ८८
एवं प्राप्तयथाभीष्टचक्रवर्त्यभिषेचनः ।
नरवाहनदत्तोऽथ स सस्मारोत्सुकः पितुः ।। ८९
संमन्त्र्य च समं सद्यः सचिवैर्गोमुखादिभिः ।
सम्राड्राजानमाहूय स वायुपथमादिशत् ।। ९०
नरवाहनदत्तस्त्वां स्मरत्युत्कण्ठितो भृशम् ।
इत्युक्त्वाख्यातवृत्तान्तो गच्छ तातमिहानय ।। ९१
देवीश्च मन्त्रिणश्चास्य तथैवोक्त्वा त्वमानयेः ।
तच्छ्रुत्वैव तथेत्युक्त्वा व्योम्ना वायुपथो ययौ ।। ९२
क्षणाच्च प्राप कौशाम्बीं दृष्टः सभयविस्मयैः ।
पौरैर्विद्याधराणां स सप्तभिः कोटिभिर्वृतः ।। ९३
ददर्शोदयनं तं च वत्सराजं समन्त्रिकम् ।
देवीभिश्चात्र सहितं यथार्हविहितादरम् ।। ९४
उपविश्याथ पृष्ट्वा च कुशलं तं जगाद सः ।
नृपं विद्याधरपतिर्दृष्टः सर्वैः सकौतुकम् ।। ९५
नरवाहनदत्तस्ते सूनुराराध्य शंकरम् ।
साक्षात्कृत्य च तं विद्याः सर्वाः प्राप्यारिदुर्जयाः ।। ९६
हत्वा मानसवेगं च गौरिमुण्डं च दक्षिणे ।
जित्वा मन्दरदेवं च वेद्यर्धपतिमुत्तरे ।। ९७
आसाद्योभयवेद्यर्धविद्याधरमद्दीभुजाम ।
सर्वेषां शासनभृतां चक्रवर्तिपदं महत् ।। ९८
महाभिषेकमृषभे संप्राप्तः पर्वतेऽधुना ।
राजन्स्मरति सोत्कस्त्वां सदेवीसचिवादिकम् ।। ९९
अहं च तेन प्रहितो द्रुतमागम्यतामितः ।
पुण्यवन्तो हि संतानं पश्यन्त्युच्चैः कृतान्वयम् ।। १००
इति वायुपथाच्छ्रुत्वा भृशोत्कण्ठो बभार सः ।
वत्सराजोऽम्बुदारावहृष्यद्बर्हिणविभ्रमम् ।। १०१
प्रतिपद्य च तद्वाक्यं समं तेनैव तत्क्षणम् ।
आरुह्य शिबिकां व्योम्ना तद्विद्यानां प्रभावतः ।। १०२
कलिङ्गसेनानुगतः स भार्यासचिवान्वितः ।
गत्वा संप्राप तं दिव्यमृषभाख्यं महागिरिम् ।। १०३
तत्रापश्यच्च तं पुत्रं दिव्यसिंहासनस्थितम् ।
विद्याधरेन्द्रमध्यस्थं बहुभार्यासमन्वितम् ।। १०४
पूर्वाद्रिमस्तकासीनं ग्रहग्रामपरिष्कृतम् ।
शशाङ्कमनुकुर्वन्तं भूरितारावलीवृतम् ।। १०५
तद्दर्शनसुधासारसिक्तः प्रोल्लासिताशयः ।
कांचिच्चन्द्रोदयाम्भोधिभङ्गीं भेजे स भूपतिः ।। १०६
नरवाहनदत्तोऽपि दृष्ट्वा तं जनकं चिरात् ।
उत्थाय संभ्रमात्सोत्कः सोऽभ्यगात्सपरिच्छदः ।। १०७
आलिङ्गितश्च तेनाथ पित्राङ्कमधिरोप्य सः ।
भूयोऽप्यानन्दबाष्पाम्बुपूरेणेवाभ्यषिच्यत ।। १०८
देवी वासवदत्ता च चिरमाश्लिष्य तं सुतम् ।
तदालोकस्नुतस्तन्यैरसिचत्स्मृतशैशवम् ।। १०९
पद्मावती च यौगन्धरायणाद्याश्च मन्त्रिणः ।
पैतृका मातुलश्चैव दृष्ट्वा गोपालकश्चिरात् ।। ११०
पपुः सतृष्णया दृष्ट्या तस्यामृतमयं वपुः ।
चकोरा इव सम्राजो यथार्हकृतसत्कृतेः ।। १११
कलिङ्गसेना तं दृष्ट्वा जामातरमथात्मजाम् ।
त्रैलोक्येऽपि न माति स्म स्वेष्वङ्गेषु तु का कथा ।। ११२
यौगन्धरायणाद्याश्च मरुभूतिमुखान्सुतान् ।
दृष्ट्वा प्रभुप्रसादाप्तदिव्यत्वानभ्यनन्दिषुः ।। ११३
आमुक्तदिव्याभरणा देवी मदनमञ्चुका ।
रत्नप्रभाप्यलंकारवती ललितलोचना ।। ११४
कर्पूरिका शक्तियशा भगीरथयशा अपि ।
तथा रुचिरदेवस्य भगिनी दिव्यरूपधृत् ।। ११५
वेगवत्यजिनावत्यौ तथा गन्धर्वदत्तया ।
प्रभावती चात्मनिका वायुवेगयशास्तथा ।। ११६
तत्सख्यः कालिकाद्याश्च चतस्रोऽथ सुलोचना ।
किं च मन्दरदेव्याद्याः पञ्चान्याश्च वराङ्गनाः ।। ११७
नरवाहनदत्तस्य महिष्यश्चक्रवर्तिनः ।
प्रणेमुः श्वशुरस्यात्र पादौ वत्सेश्वरस्य ताः ।। ११८
तद्वद्वासवदत्तायाः पद्मावत्यास्तथैव च ।
ते च हर्षाद्यथौचित्यमाशीर्भिस्ता अवर्धयन् ।। ११९
यथोचितासनासीने वत्सेशेऽन्तःपुरान्विते ।
नरवाहनदत्तः स्वमारुरोह महासनम् ।। १२०
देवी वासवदत्ता च नवास्तास्तास्तदा स्नुषाः ।
पश्यन्ती मुमुदे तासां पृच्छन्ती कुलनामनी ।। १२१
नरवाहनदत्तस्य तां ते वत्सेश्वरादयः ।
दिव्यां विभूतिं पश्यन्तः कृतार्थं जन्म मेनिरे ।। १२२
अथ प्रवृत्ते तत्रैव बन्धुसङ्गमहोत्सवे ।
प्रतीहारोऽब्रवीद्धीरो रुचिदेवः प्रविश्य सः ।। १२३
आपानभूमिः सज्जेय तदत्रागम्यतामिति ।
तच्छ्रुत्वा ते ययुः सर्वे तामापानभुवं शुभाम् ।। १२४
विचित्ररत्नचषकप्रफुल्लविविधाम्बुजाम् ।
विकीर्णानेककुसुमामुद्याननलिनीमिव ।। १२५
व्याप्तां मत्तासवापूर्णकलशीमिः पुरंध्रिभिः ।
तन्वतीभिः सुधाहर्तृबाहूत्पन्नामृतभ्रमम् ।। ?। १२६
पपुस्तत्रावरोधस्त्रीलज्जानिगडभेदि ते ।
स्मरजीवितसर्वस्वं विलाससचिवं मधु ।। १२७
मुखानि मधुना तेषामुत्फुल्लान्यरुणानि च ।
बालातपेन सरसां सरोजानीव रेजिरे ।। १२८
देवीवृन्दाधरजितैर्भीतैस्तत्संगमादिव ।
चक्रेऽब्जरागचषकैः स्वरुचा शीधुनिह्रवः ।। १२९
आसन्नकोपकालेऽपि सभ्रूभङ्गारुणेक्षणाः ।
नरवाहनदत्तस्य तदा देव्यो मदस्पृशः ।। १३०
ततो भोजनभूमिं ते क्रमेणात्र समासदन् ।
विद्याविभवसंभूतविविधाहारहारिणीम् ।। १३१
आस्तीर्णवस्त्रां पात्राढ्यां सतिरस्करिणीपटाम् ।
नानाविधास्वाद्यरसां नाट्यवेदीमिव श्रियाम् ।। १३२
तत्र ते विहिताहारा भास्करे सह संध्यया ।
विश्रान्तेऽस्तगिरौ शय्यागृहेष्वथ विशश्रमुः ।। १३३
नरवाहनदत्तश्च विद्यया बहुधा वपुः ।
विभज्य सर्वदेवीनां संनिधत्ते स्म वेश्मसु ।। १३४
सत्यतस्त्विंन्दुवदनां समदां लोलतारकाम् ।
रेमे निशामिवादाय कान्तां मदनमञ्चुकाम् ।। १३५
वत्सेश्वरोऽपि तां रात्रिं सानुगो दिव्यभोगवान् ।
तयैव तन्वा संप्राप्तजन्मान्तर इवानयत् ।। १३६
प्रातः प्रबुध्य सर्वे च तैस्तैर्भोगैस्तथैव ते ।
विद्यासिद्धवरोद्यानमन्दिरादिषु रेमिरे ।। १३७
इति विविधविहारैरत्र तेषां प्रयातेष्वथ बहुदिवसेषु प्रीतिमान्वत्सराजः ।
निजसुतमुपगम्य स्वां पुरीं गन्तुकामो निखिलखचरराजं प्रह्वमेवं जगाद ।। १३८
पुत्रैतेषु सचेतनो न रमते दिव्येषु भोगेषु कः
किं त्वाकर्षति जन्मभूमिवसतिस्नेहः स्वको मानुषान् ।
तद्यामः स्वपुरीं वयं श्रियमिमां वैद्याधरीं त्वं पुन-
र्भुङ्क्ष्वैतास्तव दिव्यमानुषतया योग्या यतो भूमयः ।। १३९
आह्वातव्याः पुनरवसरे पुत्र यो वयं ते
जन्मन्येतत्फलमिह हि नस्त्वन्मुखेन्दु यदेतम् ।
चक्षुःपेयामृतरसमयं कान्तमालोकयामो
दिव्यां लक्ष्मीं यदपि भवतो वीक्ष्य मोदामहे च ।। १४०
एतद्वचोऽकृतकमेव पितुर्निशन्य वत्सेश्वरस्य नरवाहनदत्तदेवः ।
विद्याधराधिपतिमाशु स देवमायमाहूय बाष्पभरगद्गदमादिदेश ।। १४१
तातः प्रयाति खलु तां निजराजधानीमन्वान्वितः स्वसचिवादियुतस्तदस्य ।
संपूर्णद्वेममणिभारसहस्रमग्रे प्रस्थापय द्युचरविष्टिसहस्रहार्यम् ।। १४२
इत्यादिष्टः स्वामिना प्रीतिपूर्वं तेन प्रह्वो देवमायो जगाद ।
आकौशाम्बि स्वात्मनैव प्रयास्याम्येतत्सिद्ध्यै सानुगो मानदेति ।। १४३
अथ तस्य चक्रवर्ती वस्त्रालंकारपूजितस्य पितुः ।
वायुपथदेवमायौ सानुचरस्यानुयात्रिकौ स ददौ ।। १४४
सोऽप्यारूढो दिव्यं वहनं वत्सेश्वरः सपरिवारः ।
दूरानुगतं पुत्रं निवर्त्य तं निजपुरीं प्रययौ ।।
देवी वासवदत्ता तत्कालोद्भूतशतगुणोत्कण्ठा ।
प्रणतं निवर्त्य रुदती पश्यन्ती तं सुतं कथंचिदगात् ।। १४६
स च नरवाहनदत्तः सचिवानुगतो गुरूननुव्रज्य ।
बाष्पान्धकारितमुखः प्रत्यागादृषभकं तमेव गिरिम् ।। १४७
तत्रास्त बालसचिवैः सह गोमुखाद्यैर्विद्याधरेन्द्रनिवहैश्च स चक्रवर्ती ।
सान्तःपुरो मदनमञ्चुकया समेतो दिव्येषु शश्वदुपभोगसुखेष्वतृप्तः ।। १४८
इति महाकविसोमदेवभट्टविरचिते कथासरित्सागरे महाभिषेकलम्बके द्वितीयस्तरङ्गः।
समाप्तश्चायं महाभिषेको नाम पञ्चदशो लम्बकः।