कथासरित्सागरः/लम्बकः १५/तरङ्गः १

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

महाभिषेको नाम पञ्चदशो लम्बकः ।

इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलनात्पुरा किल कथामृतं हरमुखाम्बुधेरुद्गतम् ।
प्रसह्य रसयन्ति ये विगतविघ्नलब्धर्द्धयो धुरं दधति वैबुधीं भुवि भवप्रसादेन ते ।।
निशासु ताण्डवोद्दण्डशुण्डासीत्कारशीकरैः ।
ज्योतींषि पुष्णन्निव वस्तमो मुष्णातु विघ्नजित् ।। १
ततो गोविन्दकूटेऽत्र स्थितमास्थानवर्तिनम् ।
नरवाहनदत्तं तं चक्रवर्तिनमाययौ ।। २
विद्याधरो द्युमार्गेण सोऽमृतप्रभसंज्ञकः ।
येनैष रक्षितः पूर्वं शत्रुक्षिप्तोऽग्निपर्वते ।। ३
आगत्यावेदितात्मा च प्रणतश्चक्रवर्तिना ।
तेन प्रीतिकृतातिथ्यः स तं विद्याधरोऽब्रवीत् ।। ४
अस्ति दक्षिणदिग्वर्ती मलयाख्यो महागिरिः ।
तत्राश्रमपदे चास्ते वामदेवो महानृषिः ।। ५
स त्वां कस्यापि कार्यस्य हेतोरेकाकिनं प्रभो ।
आह्वयत्येतदर्थं च तेनाहं प्रेषितोऽद्य ते ।। ६
पूर्वार्जितः प्रभुस्त्वं च मम तेनास्मि चागतः ।
तदेहि सिद्ध्यै गच्छावः शीघ्रं तस्यान्तिकं मुनेः ।। ७
एवमुक्तवता तेन सह विद्याधरेण सः ।
तत्रैव भार्याः सेनाश्च स्थापयित्वा तथेति ताः ।। ८
उत्पत्य नभसा क्षिप्रं प्राप्यैव मलयाचलम् ।
नरवाहनदत्तस्तं वामदेवर्षिमभ्यगात् ।। ९
ददर्श तं च जरसा पाण्डुरं प्रांशुविग्रहम् ।
निर्मांसनेत्रकुहरस्फुरत्तारकसन्मणिम् ।। 15.1.१०
विद्याधरेन्द्ररत्नानां स्थानं वेल्लज्जटालतम् ।
हिमाद्रिं सिद्धिसाहाय्यहेतोरिव सहागतम् ।। ११
ततो ववन्दे चरणौ मुनेस्तस्य स सोऽपि तम् ।
राजानं रचितातिथ्यो मुनिरेवमभाषत ।। १२
पुरा दग्धोऽपि कामस्त्वं रत्यास्तुष्टेन शंभुना ।
सर्वविद्याधरेन्द्राणां चक्रवर्ती विनिर्मितः ।। १३
तदाश्रमे ममैतस्मिन्गम्भीरान्तर्गुहान्तरे ।
सन्ति रत्नानि तानि त्वं मदादिष्टानि साधय ।। १४
जेयो मन्दरदेवो हि सिद्धरत्नस्य ते भवेत् ।
एतदर्थं त्वमाहूतो मयेह गिरिशाज्ञया ।। १५
इत्युक्त्वा तेन मुनिनैवोपदिष्टविधिश्च सः ।
नरवाहनदत्तस्तां प्रहृष्टः प्राविशद्गुहाम् ।। १६
तस्यां विजित्य विघ्नौघांस्तांस्तान्वीरो ददर्श सः ।
गजेन्द्रमभिधावन्तं मत्तं सगलगर्जितम् ।। १७
मुखे मुष्टिप्रहारं च दत्त्वा पादौ च दन्तयोः ।
आरुरोह च तं मत्तगजं राजा स लाघवात् ।। १८
साधु सिद्धं महाहस्तिरत्नं ते चक्रवर्तिनः ।
इति वाणी गुहामध्यादशरीरोदभूत्तदा ।। १९
ततः खड्गमहीन्द्राभं स ददर्श निपत्य च ।
चक्रवर्तित्वलक्ष्म्यास्तं केशपाशमिवाग्रहीत् ।। 15.1.२०
साधु भोः खड्गरत्नं ते सिद्धं जैत्रमरिंदम ।
इति वागुदभूद्भूयोऽप्यशरीरा गुहान्तरे ।। २१
ततः स चन्द्रिकारत्नं कामिनीरत्नमत्र च ।
विध्वंसिनीति नाम्ना च विद्यारत्नमसाधयत् ।। २२
एवं द्वाभ्यां सहाद्याभ्यां सरसा चन्दनेन च ।
कार्यकालोपयुक्तानि सप्त माहात्म्यदानि च ।। २३
साधयित्वा स रत्नानि गुहाया निर्गतस्ततः ।
वामदेवर्षये तस्मै सिद्धं सर्वं शशंस तत् ।। २४
ततः स मुनिराह स्म तं प्रीत्या चक्रवर्तिनम् ।
पुत्र सिद्धमहाचक्रवर्तिरत्नो व्रजाधुना ।। २५
जय मन्दरदेवं तं कैलासोत्तरपार्श्वगम् ।
भुङ्क्ष्व चोभयतत्पार्श्वसाम्राज्यश्रियमूर्जिताम् ।। २६
इत्युक्तस्तेन मुनिना सिद्धकार्यः प्रणम्य तम् ।
चक्रवर्ती ततो व्योम्ना स ययौ सामृतप्रभः ।। २७
प्राप गोविन्दकूटस्थं तच्च स्वशिबिरं क्षणात् ।
महाप्रभावया श्वश्र्वा धनवत्याभिरक्षितम् ।। २८
तत्र मार्गोन्मुखैर्दृष्ट्वा निजैर्विद्याधराधिपैः ।
भार्याभिः सचिवैश्चैव प्रहृष्टैः सोऽभ्यनन्द्यत ।। २९
अथोपविष्टः पृच्छद्भ्यो वामदेवर्षिदर्शनम् ।
गुहाप्रवेशं रत्नानां सिद्धिं चैभ्यः शशंस सः ।। 15.1.३०
ततस्तत्र हतानन्ददिव्यतूर्यो महोत्सवः ।
नृत्यद्विद्याधरीकोऽभूत्पानमत्तजनस्तथा ।। ३१
अन्येद्युश्च रिपुस्थानस्थितासौम्यग्रहेण सः ।
आक्रान्तकण्टकस्थानसौम्येनात्मसमर्द्धिना ।। ३२
सर्वान्यसंपद्युक्तेन लग्नेन कृतमङ्गलः ।
आरुह्य शर्वदत्तं तद्विमानं ब्रह्मनिर्मितम् ।। ३३
जेतुं मन्दरदेवं तं ससैन्योऽन्तःपुरान्वितः ।
नरवाहनदत्तोऽत्र प्रतस्थे नभसा ततः ।। ३४
चेलुश्चानुचरास्ते ते प्रवीराः परिवार्य तम् ।
भक्ता भीताश्च गन्धर्वराजविद्याधराधिपाः ।।३५
सेनापतेर्हरिशिखस्यादेशानुविधायिनः ।
चण्डसिंहः समं मात्रा धनवत्या सुमेधसा ।। ३६
वीरः पिङ्गलगान्धारस्तथा वायुपथो बली ।
विद्युत्पुञ्जोऽमितगतिः कालकूटपतिश्च सः ।। ३७
मन्दरः समहादंष्ट्रः स्वसखा चामृतप्रभः ।
समं सागरदत्तेन वीरश्चित्राङ्गदोऽपि .सः ।। ३८
एते चान्ये च येऽत्रासन्गौरिमुण्डव्यपाश्रिताः ।
समग्रास्तेऽन्वधावंस्तं विजिगीषुं बलान्विताः ।। ३९
तदा तत्सेनया छन्ने गगने क्वापि भास्करः ।
ममज्ज लज्जयेवात्र तत्तेजोनिह्नुतप्रभः ।। 15.1.४०
अथ मानसमुल्लङ्घ्य देवर्षिव्रातसेवितम् ।
अतीत्य गण्डशैलं च लीलोद्यानं द्युयोषिताम् ।। ४१
स चक्रवर्ती संप्राप स्फटिकापाण्डुरत्विषः ।
मूलं निजयशोराशेरिव कैलासभूभृतः ।। ४२
तत्र मन्दाकिनीतीरे निषण्णं निजगाद तम् ।
विद्याधराधिपो धीमान्मन्दरो बन्धुरं वचः ।। ४३
इहैव तावद्देवाद्य स्थीयतां द्युनदीतटे ।
न युक्तमिममुल्लङ्घ्य कैलासं गन्तुमग्रतः ।। ४४
हरास्पदस्य ह्येतस्य विद्या नश्यन्ति लङ्घनात् ।
त्रिशीर्षगुहया तस्य गन्तव्यं पार्श्वमुत्तरम् ।। ४५
देवमायाभिधानेन सा च राज्ञाभिरक्ष्यते ।
स चातिदृप्तस्तस्मात्तमजित्वा गम्यते कथम् ।। ४६
मन्दरेणैवमुदिते धनवत्यानुमोदिते ।
नरवाहनदत्तस्तं तत्रैवासीत्स वासरम् ।। ४७
तत्रस्थो देवमायाय दूतं साम्ना व्यसर्जयत् ।
स च सान्त्वेन नैवास्य शासनं प्रत्यपद्यत ।। ४८
ततोऽपरेद्युः संनद्धैस्तैस्तैः स्वै राजभिः सह ।
स चक्रवर्ती तं प्रायाद्देवमायं प्रति प्रभुः ।। ४९
देवमायोऽपि तद्बुद्ध्वा ससैन्यो योद्धुमाययौ ।
वराहवज्रमुष्ट्यादिभूरिराजान्वितोऽग्रतः ।। 15.1.५०
ततः प्रववृते तत्र सङ्ग्रामः सेनयोस्तयोः ।
कैलासे सुरसंघातविमानाच्छादिताम्बरः ।। ५१
छिन्नभूरिशिरःश्रेणिकरकावर्षभीषणः ।
सवीरगर्जितः सोऽभूद्घोरो रणघनागमः ।। ५२
देवमायस्य सेनान्यमग्रयोधं जघान यत् ।
वराहं चण्डसिंहोऽत्र न नामाभूत्तदाद्भुतम् ।। ५३
चित्रं तु यत्स्वयं बद्धो देवमायोऽप्यमायिना ।
नरवाहनदत्तेन प्रहारैर्मूर्च्छितो रणे ।। ५४
बद्धे च तस्मिंस्तत्सैन्यमभज्यत महारथैः ।
वज्रमुष्टिमहाबाहुतीक्ष्णदंष्ट्रादिभिः सह ।। ५५
ततः सुरैर्विमानस्थै साधु साध्वित्युदीरिते ।
सर्वेऽप्यभिननन्दुस्तं जयिनं चक्रवर्तिनम् ।। ५६
अथ तं संयतानीतं समाश्वास्य महाप्रभुः ।
प्रसादेनानुजग्राह देवमायं मुमोच च ।। ५७
सोऽपि बाहुजितस्तस्य शासनं चक्रवर्तिनः ।
वज्रमुष्ट्यादिभिः सार्धं प्रणतः प्रत्यपद्यत ।। ५८
ततो निवृत्ते सङ्ग्रामे तस्मिन्व्यपगतेऽहनि ।
प्रातरास्थानमायातः पार्श्वस्थश्चक्रवर्तिनः ।। ५३
तं त्रिशीर्षगुहाम्नायं तेन पृष्टो विविक्षुणा ।
देवमायो यथातत्त्वमेवं कथयति स्म सः ।। 15.1.६०
कैलासस्य पुरा देव विद्याधरवराश्रिते ।
अभूतां भिन्नसाम्राज्ये द्वे पार्श्वे दक्षिणोत्तरे ।। ६१
ऋषभाख्योऽथ देवेन तपस्तुष्टेन शंभुना ।
चक्रवर्ती प्रदिष्टोऽभूदेक एव तटीर्द्वयोः ।। ६२
स गन्तुमुत्तरं पार्श्वं कैलासं जातु लङ्घयन् ।
अधःस्थितहरक्रोधाद्भ्रष्टविद्योऽपतद्दिवः ।। ६३
ततः क्रूरेण तपसा पुनराराधितं हरम् ।
प्राग्वदादिष्टसाम्राज्यमृषभोसौ व्यजिज्ञपत् । ।६४
कैलासोल्लङ्घनं तावन्नास्मि नः केन तत्पथा ।
उभयोः पार्श्वयोर्देव चक्रवर्ती भवाम्यहम् ।।६५
तच्छ्रुत्वोत्तरपार्श्वेऽस्य गमनाय पिनाकभृत् ।
चकार भित्त्वा कैलासं तद्गुहाविवरं महत् ।।६६
अथ विद्धः स कैलासो विग्नो व्यज्ञापयच्छिवम् ।
मानुषागम्यमेतन्मे भगवन्पार्श्वमुत्तरम् ।।६७
गम्यं तेषामपीदानीमनया गुहया कृतम् ।
तत्तथा कुरु येनैषा मर्यादा मे न भज्यते ।। ६८
कैलासेनेति विज्ञप्तो गुहायां रक्षकान्हरः ।
स्थापयामास दिग्दन्तिदृग्विषाहीन्द्रगुह्यकान् ।। ६९
दक्षिणेऽस्य महामायं द्वारि विद्याधरेश्वरम् ।
उत्तरे कालरात्रिं च चण्डिकामपराजिताम् ।। 15.1.७०
एवं कृतगुहारक्षो महारत्नानि शंकरः ।
उत्पाद्य भगवांस्तत्र व्यवस्थामादिदेश सः ।। ७१
सिद्धरत्नस्य गम्येयं द्विपार्श्वी चक्रवर्तिनः ।
द्युचराणां सदाराणां सदूतानां भविष्यति ।। ७२
अनुज्ञाताश्च ये तेन राजानः स्युरिहोत्तरे ।
तेषां चैषा गुहा गम्या न त्वन्यस्यात्र कस्यचित् ।। ७३
इत्यादिष्टवति त्र्यक्षे कुर्वन्नृषभकस्ततः ।
साम्राज्यं युयुधे दर्पाद्देवैर्जघ्ने च वज्रिणा ।। ७४
इत्येषोऽस्यास्त्रिशीर्षाख्यगुहाया आगमः प्रभो ।
अगम्या चैव सैषान्यैर्विना युष्मादृशैर्गुहा ।। ७५
तस्य चैतद्गुहाद्वाररक्षिणः कालतः कुले ।
महामायस्य जातोऽयं देवमायोऽहमीश्वर ।। ७६
विद्याधरेषु जातोऽयं दुर्जयो रिपुभिर्मृधे ।
यश्च जेष्यत्यमुं सोऽत्र चक्रवर्ती भविष्यति ।। ७७
तेनास्य स्वामिना भाव्यं सोऽनुवर्त्योऽमुना प्रभुः ।
इति जन्मनि मे दिव्या व्याजहार सरस्वती ।। ७८
सोऽहं जितस्त्वया त्वं च सिद्धरत्नः प्रभाववान् ।
कैलासोभयपार्श्वैकचक्रवर्तीह नः प्रभुः ।। ७९
तत्त्रिशीर्षगुहामेतां तीर्त्वा शेषान्रिपूञ्जय ।
इत्युक्ते दैवमायेन चक्रवर्ती जगाद सः ।। 15.1.८०
गच्छामोऽद्य गुहाद्वारे वसामस्तत्र सांप्रतम् ।
कृतसंविधयः प्रातः प्रवेक्ष्यामश्च तां गुहाम् ।। ८१
इत्युक्तवान्स गत्वाथ सर्वैस्तै राजभिः सह ।
नरवाहनदत्तोऽत्र गुहाद्वारे समावसत् ।। ८२
ददर्श तां च गम्भीरनिरालोकोदरां गुहाम् ।
जन्मभूमिमनर्केन्दुं कल्पान्ततमसामिव ।। ८३
द्वितीयेऽह्नि च संपूज्य विवेशैतां विमानगः ।
ध्यातोपनतसद्रत्नसहायः सपरिच्छदः ।। ८४
तमांसि चन्द्रिकारत्नैश्चन्दनेनाहिदृग्विषान् ।
दिग्गजान्हस्तिरत्नेन खङ्गरत्नेन गुह्यकान् ।। ८५
विघ्नानन्यांश्चान्यरत्नैर्निवार्य सह सेनया ।
उत्तीर्य तां गुहां चोदग्द्वारेण स विनिर्ययौ ।। ८६
ददर्श च गुहागर्भनिर्गतः पार्श्वमुत्तरम् ।
कैलासस्यापुनर्जन्मजीवलोकान्तरोपमम् ।। ८७
साधु रत्नप्रभावाप्तमाहात्म्येन गुहा त्वया ।
चक्रवर्तिन्नियं तीर्णेत्युदभूद्वाक्तदा दिवः ।। ८८
अथोचतुर्धनवती देवमायश्च तं प्रभुम् ।
देव संनिहिता द्वारे कालरात्रिर्हि सर्वदा ।। ८९
एषा चोत्पादिता पूर्वं विष्णुनामृतमन्थने ।
दारणी दानवेन्द्राणाममृतं हर्तुमिच्छताम् ।। 15.1.९०
सैषादिष्टा गुहामेतामिह शर्वेण रक्षितुम् ।
यथा नान्यस्तरेदेनां यथोक्तैस्त्वद्विधैर्विना ।। ९१
त्वं चक्रवर्ती तीर्णश्च सिद्धरत्नो गुहामिमाम् ।
तदेषा पूजनीया ते पूज्या विजयसिद्धये ।। ९२
एवं धनवतीदेवमायोक्तस्यैव तस्य सः ।
नरवाहनदत्तस्य तत्राक्षीयत वासरः ।। ९३
संध्यारुणा बभूवुश्च कैलासोत्तरसानवः ।
सूचयन्त इवासन्नसङ्गामरुधिरोक्षणम् ।। ९४
आवृणोत्कटकं तस्य राज्ञो लब्धबलं तमः ।
गुहागृहपराभूतिवैरमार्द्रमिव स्मरन् ।। ९५
अनर्चादुर्मनःकालरात्रिक्रोधाङ्कुरा इव ।
बभ्रमुर्भूतवेतालडाकिनीगणफेरवः ।। ९६
क्षणाच्च जज्ञे निःसंज्ञं सैन्यं सुप्तमिवाखिलम् ।
नरवाहनदत्तस्य स एकोऽभून्न मोहितः ।। ९७
ततोऽनर्चनसंक्रुद्धकालरात्रिविजृम्भितम् ।
मन्वानश्चक्रवर्ती स वाक्पुष्पैस्तामथार्चयत् ।। ९८
आशिरश्चक्रसंचारचतुरा प्रणवाकृतिः ।
त्वं प्राणशक्तिर्जन्तूनां जीवनी त्वां नमाम्यहम् ।। ९९
स्रवन्महिषकण्ठास्रधाराभिस्त्रिशिखाश्रिभिः ।
आश्वासितत्रिभुवने दुर्गारूपे नमोऽस्तु ते ।। 15.1.१००
रुरुरक्तभृतभ्रान्तकरस्थितकपालया ।
नृत्यन्त्या त्रिजगद्रक्षापात्रयेव जितं त्वया ।। १०१
ऊर्ध्वाक्षिदीप्तिदीपाग्र्यकपाला कालरात्र्यपि ।
कपालहस्ता सार्केन्दुरिव भासि भवप्रिये ।। १०२
इति स्तुता तुतोषात्र कालरात्रिर्न तस्य यत् ।
तत्स्वमूर्धोपहारेण तामर्चितुमियेष सः ।। १०३
मा पुत्र साहसं कार्षीरेषा सिद्धास्मि वीर ते ।
प्रकृतिस्थं तवास्त्वेतत्कटकं जयमाप्नुहि ।। १०४
इत्युवाचात्तखड्गं तं सा देवी तत्र तत्क्षणम् ।
सुप्तप्रबुद्धमिव तत्कटकं तस्य चाभवत् ।। १०५
ततो भार्या वयस्याश्च सर्वे विद्याधराश्च ते ।
प्रशशंसुस्तमेतस्य प्रभावं चक्रवर्तिनः ।। १०५
अथैष विहिताहारपानाद्यावश्यकक्रियः ।
वीरोऽनैषीत्त्रियामां तां शतयामामिवायताम् ।। १०७
प्रातश्च पूजयित्वा तां कालरात्रिं ततो ययौ ।
विद्याधरनिरुद्धाग्रमार्गं धूमशिखं प्रति ।। १०८
अभूत्तेन समं तस्य सङ्ग्रामश्चक्रवर्तिनः ।
राज्ञा मन्दरदेवीयप्रधानेन स तादृशः ।। १०९
यत्र खड्गमयं व्योम शूरमूर्धमयी मही ।
आसीज्जहि जहीत्युग्रवीरवाक्यमयं वचः ।। 15.1.११०
तत्र धूमशिखं युद्धे बद्ध्वानीतं प्रसह्य तम् ।
चक्रवर्ती स संमान्य ग्राहयामास शासनम् ।। १११
न्यवेशयच्च तदहः सैन्यमत्रैव तत्पुरे ।
शान्तधूमशिखोद्रेकमग्निदग्धेन्धनं यथा ।। ११२
द्वितीयेऽह्नि स चारेभ्यो योद्धुमायान्तमग्रतः ।
बुद्ध्वा मन्दरदेवं तं ज्ञातवृत्तान्तमग्रतः ।। ११३
नरवाहनदत्तस्थैः सह विद्याधरेश्वरैः ।
प्रययौ तं प्रति ततस्तज्जये बद्धनिश्चयः ।। ११४
किंचिद्गत्वा ददर्शाग्रे बहुराजगणान्वितम् ।
सैन्यं मन्दरदेवस्य रचितव्यूहमागतम् ।। १११
ततः कृतप्रतिव्यूहरचनो राजभिर्वृतः ।
नरवाहनदत्तस्तदभ्यधावदरेर्बलम् ।। ११६
अथाहवः प्रववृते तयोरुभयसैन्ययोः ।
प्रलयोद्वेलजलधिक्षुभितौघानुकारिणोः ।। ११७
ततस्ते चण्डसिंहाद्या युध्यन्ते स्म महारथाः ।
शूराः काञ्चनदृंष्ट्राख्यराजप्रभृतयोऽन्यतः ।। ११८
प्रकम्पितत्रिभुवनो विक्षोभितकुलाचलः ।
विजजृम्भे स सङ्ग्रामः कल्पान्तपवनागमः ।। ११९
शोणैकपार्श्वः कैलासः शूरशोणितकुङ्कुमैः ।
भूतिश्वेतान्यपार्श्वश्च तदा गौरीशमन्वगात् ।। 15.1.१२०
खड्गपट्टोदितानेकसूर्यबिम्बोग्रभास्वरः ।
सत्यं प्रलयकालोऽभूद्वीराणां स महाहवः ।। १२१
इयत्तद्युद्धमासीद्यद्विस्मयं प्रेक्षणागताः ।
नारदाद्या अपि ययुर्दृष्टदेवासुराहवाः ।। १२२
इत्थं घोरे रणे तस्मिंश्चण्डसिंहोऽभिधावितः ।
जघ्ने काञ्चनदंष्ट्रेन गदया मूर्ध्नि भीमया ।। १२३
तं गदाघातपतितं दृष्ट्वा धनवती सुतम् ।
शप्त्वा विद्याबलेनोभे सैन्ये निश्चेतने व्यधात् ।। १२४
नरवाहनदत्तश्च चक्रवर्ती बलादितः ।
ततो मन्दरदेवश्च द्वावेवास्तां सचेतनौ ।। १२५
तदा धनवतीं क्रुद्धां जगत्संहरणक्षमाम् ।
वीक्ष्याम्बरगता देवा अपि दिक्षु प्रदुद्रुवुः ।। १२६
दृष्ट्वा मन्दरदेवोऽथ चक्रवर्तिनमेककम् ।
नरवाहनदत्तं तमभ्यधावदुदायुधः ।। १२७
नरवाहनदत्तोऽपि विमानादवतीर्य सः ।
उत्खातखड्गरत्नः सन्प्रतिजग्राह तं जवात् ।। १२८
ततो मन्दरदेवेन मायया जयमिच्छता ।
समदोद्दाममातङ्गरूपं चक्रे स्वविद्यया ।। १२९
तद्दृष्ट्वाकारि सुमहत्सिहरूपं स्वमायया ।
नरवाहनदत्तेन विद्यातिशयशालिना ।। 15.1.१३०
ततो भग्नेभवपुषा मुक्तसिंहाकृतिः स्फुटम् ।
युद्धं मन्दरदेवेन चक्रवर्ती ततान सः ।। १३१
नानाविचित्रकरणावङ्गहारक्रियासु तौ ।
मण्डलाग्रधरौ नाट्यप्रवृत्ताविव रेजतुः ।। १३२
नरवाहनदत्तोऽथ साक्षाज्जयमिवाहरत् ।
खड्गं मन्दरदेवस्य करात्करणयुक्तितः ।। १३३
हृतखड्गस्य चाकृष्टक्षुरिकस्यात्र तामपि ।
तथैव तस्य सहसा चक्रवर्ती जहार सः ।। १३४
ततोऽपशस्त्रं बाहुभ्यां युध्यमानं स गुल्फयोः ।
प्राप्य मन्दरदेवं तं राजा भूमावपातयत् ।। १३५
प्रारेभे च शिरश्छेत्तुं केशेष्वाकृष्य तस्य सः ।
वक्षसि न्यस्तचरणः सम्राट् खड्गेन विद्विषः ।। १३६
तावन्मन्दरदेवीति नाम्ना कन्याभ्युपेत्य तम् ।
स्वसा मन्दरदेवस्य वारयन्त्येवमब्रवीत् ।। १३७
तपोवनस्थो दृष्ट्वा त्वं भर्ता प्राक्कल्पितो मया ।
तच्छ्वशुर्यमिमं राजन्मा वधीर्भ्रातरं मम ।। १३८
एवं तयोक्तः सुदृशा विमुच्य जितलज्जितम् ।
धीरो मन्दरदेवं तं महाराजो जगाद सः ।। १३९
मुक्तो मया त्वं मा भूत्तल्लज्जा विद्याधरेश ते ।
चपलौ किल शूराणां रणे जयपराजयौ ।। 15.1.१४०
इति मन्दरदेवोऽसावुक्तो राज्ञा जगाद् तम् ।
किं जीवितमिदानीं मे रक्षितस्याहवे स्त्रिया ।। १४१
तदहं यामि तपसे वनस्थस्यान्तिकं पितुः ।
त्वमेवोभयवेद्यर्धचक्रवर्तीह निर्मितः ।। १४२
अयमर्थश्च मे भावी पित्रा पूर्वमसूच्यत ।
इत्युक्त्वा स ययौ मानी पितुः पार्श्वं तपोवनम् ।। १४३
साधु सम्यड्महाचक्रवर्तिञ्जित्वा रिपूंस्त्वया ।
प्राप्तं साम्राज्यमित्यूचुर्गगनस्थाः सुरास्तदा ।। १४४
गते मन्दरदेवेऽथ निजं धनवती सुतम् ।
उभे च सेने विदधे स्वशक्त्या लब्धचेतने ।। १४५
इति सुप्तप्रतिबुद्धा इव सर्वे वैरिणं जितं बुद्धा ।
सचिवादयो विजयिनं नरवाहनदत्तमभिननन्दुस्तम् ।। १४६
येऽपि च काञ्चनदंष्ट्राशोककरक्ताक्षकालजिह्वाद्याः ।
मन्दरदेवीयास्ते राजानस्तस्य शासनं जगृहुः ।। १४७
काञ्चनदंष्ट्रालोकनसंस्मृतसमराप्ततद्गदाघातः ।
प्रचुकोप चण्डसिंहः प्रविधुतदृढमुष्टिपीडितासिवरः ।। १४८
कृतमिह समरेण वत्स कस्त्वां समरमुखे विजयेत किं तु युक्त्या ।।
क्षणमिव विहिता मयैव साभूदुभयबलक्षयरक्षणाय माया ।। १४९
इति च धनवती तदा ब्रुवाणा निजतनयं प्रशमय्य तं प्रकोपात् ।
बलमखिलमनन्दयत्स्वसिद्ध्या सहनरवाहनदत्तचक्रवर्ती ।। 15.1.१५०
प्राप्ते जितप्रणतविद्रुतवैरिवीरवीताहवव्यतिकरोत्तरपार्श्वराज्ये ।
शर्वाचलस्य नरवाहनदत्तदेवः प्रीतिं परामभजताक्षतमित्त्रवर्गः ।। १५१
ततोऽरिविजयोत्सवप्रहततारतूर्यं कृती
स तद्दयुचरसुन्दरीरुचिरनृत्तगीताञ्चितम् ।
प्रियासचिवसंगतः प्रवरराजवृन्दान्वितः
प्रतापमिव वैरिणां मधु पिबन्ननैषीद्दिनम् ।। १५२

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे महाभिषेकलम्बके प्रथमस्तरङ्गः ।