सामग्री पर जाएँ

कथासरित्सागरः/लम्बकः १४/तरङ्गः ४

विकिस्रोतः तः

चतुर्थस्तरङ्गः

ततो वक्रपुरे तत्र स्थितमास्थानवर्तिनम् ।
नरवाहनदत्तं तं नूतनं चक्रवर्तिनम् ।। १
अन्येद्युरवतीर्यैव वेत्रहस्तो नभस्तलात् ।
उपगम्य पुमानेकः प्रणम्यैवं व्यजिज्ञपत् ।। २
चक्रवर्तिप्रतीहारं विद्धि देव क्रमागतम् ।
मां पौररुचिदेवाख्यं स्वसेवार्थमुपागतम् ।। ३
तच्छ्रुत्वा सोऽमितगतेर्मुखभैक्षत तेन च ।
सत्यं देवेति विज्ञप्तः क्षत्तृत्वेऽभिननन्द तम् ।। ४
अथ प्रभावतो बुद्ध्वा वेगवत्यादिभिः सह ।
तत्पत्नीभिर्धनवती चण्डसिंहश्च तत्सुतः ।। ५५
तथा पिङ्गलगान्धारो राजा वायुपथान्वितः ।
समं सागरदत्तेन तत्र चित्राङ्गदश्च सः ।। ६
आययुः सैन्यरुद्धार्काः सह हेमप्रभादिभिः ।
परतेजोऽसहिष्णुत्वं सूचयन्त इवाग्रतः ।। ७
उपेत्य पादयोस्तस्य निपेतुश्चक्रवर्तिनः ।
सोऽपि संमानयामास यथार्हं स्वागतेन तान् ।। ८
धनवत्यास्तु चरणौ गौरवात्प्रणनाम सः ।
सापि जामातरं प्रीता तमाशीर्भिरवर्धयत् ।। ९
उक्तात्मसिद्धिवृत्तान्तास्तेन ते प्रभुणा ततः ।
चण्डसिंहादयः सर्वे प्रमोदं सुतरां दधुः ।। 14..4.१०
पार्श्वोपयाताः पत्नीश्च दृष्ट्वा धनवतीं तदा ।
चक्रवर्ती स पप्रच्छ क्व ते मे सचिवा इति ।। ११
क्षिप्ता मानसवेगेन रक्षित्वा स्थापिता मया ।
विद्यामुखेन ते भिन्ना इति सा प्रत्युवाच तम् ।। १२
ततश्चानययत्तान्स विद्यामादिश्य रूपिणीम् ।
आगतान्पृष्ठकुशलान्पादलग्नाञ्जगाद च।। १३
इयन्तो दिवसाः केन कथं कुत्रातिवाहिताः ।
इत्येककेन युष्माभिश्चित्रं मे कथ्यतामिति ।। १४
ततोऽवादीत्स्ववृत्तान्तमादावेवं स गोमुखः ।
द्विषा क्षिप्तं तदा कापि देवी मां हस्तयोरधात् ।। १५
आश्वास्य दूरेऽरण्ये च स्थापयित्वा तिरोदधे ।
ततोऽहं दुःखितो देहं त्यक्तुमैच्छं प्रपाततः ।। १६
मैवं गोमुख सिद्धार्थं पुनर्द्रक्ष्यसि तं प्रभुम् ।
इति मां तापसस्तावत्कोऽप्युपेत्य न्यवारयत् ।। १७
कस्त्वं कथं च् वेत्स्येतदित्युक्तश्च मया ततः ।
एह्याश्रमं मे वक्ष्यामि तत्रैतदिति सोऽब्रवीत् ।। १८
ततो मन्नामविज्ञानसूचितज्ञानसंपदा ।
अहं तेन सहागच्छं शिवक्षेत्रं तदाश्रमम् ।। १९
तत्र मे स कृतातिथ्यः कथां स्वामेवमभ्यधात् ।
नागस्वामीति नामाहं कुण्डिनाख्यात्पुराद्द्विजः ।। 14..4.२०
पितरि स्वर्गते सोऽहं गत्वा पाटलिपुत्रकम् ।
जयदत्तमुपाध्यायं विद्याहेतोरुपासदम् ।। २१
शिक्ष्यमाणोऽपि जाड्येन न यदाक्षरमप्यहम् ।
अविदं तेन मां तत्र च्छात्त्राः सर्वेऽप्युपाहसन् ।। २२
ततोऽवमानग्रस्तोऽहं प्रस्थितो विन्ध्यवासिनीम् ।
द्रष्टुमर्धपथे प्रापं पुरं वक्रोलकाभिधम् ।। २३
तत्र मह्यं प्रविष्टाय भिक्षार्थं गृहिणी गृहात् ।
एकस्माद्रक्तकमलं प्रददौ भिक्षया सह ।। २४
तद्गृहीत्वापरं गेहं प्राप्त मां वीक्ष्य चाब्रवीत् ।
तत्रत्या गेहिनी हा धिग्योगिन्या स्वीकृतो भवान् ।। २५
पश्य दत्तो नृहस्तस्ते रक्ताब्जव्याजतोऽनया ।
तच्छ्रुत्वा यावदीक्षेऽहं तावत्पाणिः स नाम्बुजम् ।। २६
तत्त्यक्त्वाथ पतित्वास्याः पादयोरहमब्रवम् ।
मातः कुरुष्वोपायं मे यथा जीवाम्यहं तथा ।। २७
तच्छ्रुत्वा मामवादीत्सा गच्छेतो योजनत्रये ।
देवरक्षित इत्यस्ति ग्रामे करभके द्विजः ।। २८
तस्यास्ति कपिला गेहे साक्षात्सुरभिरुत्तमा ।
साद्य त्वां शरणं प्राप्तं रक्षिष्यति निशामिमाम् ।। २९
एवं तयोक्तः सभयो धावन्नस्मि दिनक्षये ।
प्राप्तवान्करभग्रामे गृहं तस्य द्विजन्मनः ।। 14..4.३०
प्रविश्य तत्र दृष्ट्वाहं कपिलां तां प्रणम्य च ।
भीतस्त्वां शरणं देवि प्राप्तोऽस्मीति व्यजिज्ञपम् ।। ३ १
तावत्सा तर्जयन्ती मामन्याभिः सह योगिनी ।
तत्रागान्नभसा नक्तं मन्मांसरुधिरार्थिनी ।। ३२
तद्दृष्ट्वा कपिला साथ खुरमध्ये निवेश्य माम् ।
अरक्षद्योधयन्ती ता योगिनीरखिलां निशाम् ।। ३३
प्रातस्तासु गतास्वेषा कपिला व्यक्तया गिरा ।
मामवोचन्न पुत्राहं त्वां शक्ष्याम्यद्य रक्षितुम् ।। ३४
तद्गच्छ पञ्चयोजन्यामितोऽरण्ये शिवालये ।
अस्ति भूतिशिवो नाम ज्ञानी पाशुपतोत्तमः ।। ३५
स रक्षिष्यति रात्रिं त्वामद्यैकां शरणागतम् ।
तच्छ्रुत्वा तां प्रणम्यैव ततोऽहं प्रस्थितोऽभवम् ।। ३६
द्रुतं भूतिशिवं तं च प्राप्याहं शरणं श्रितः ।
नक्तं च तत्र योगिन्यस्तास्तथैवागमन्पुनः ।। ३७
ततः प्रवेश्य मामन्तर्गृहं भूतिशिवः स ताः ।
त्रिशूलहस्तो द्वारस्थो योगिनीर्निरभर्त्सयत् ।। २८
जित्वैता भोजयित्वा मां प्रातर्भूतिशिवोऽभ्यधात् ।
ब्रह्मन्न शक्ष्याम्यधुना रक्षितुं त्वामहं पुनः ।। ३९
तदस्ति संध्यावासाख्ये योजनेषु दशस्थितः ।
ग्रामे वसुमतिर्नाम विप्रस्तस्यान्तिकं व्रज ।। 14..4.४०
ततस्तृतीयामद्य त्वं रात्रिमुत्तीर्य मोक्ष्यसे ।
इत्युक्तस्तेन नत्वा तं ततः प्रस्थितवानहम् ।। ४१
गच्छतश्चाध्वनो दैर्घ्याद्गतोऽस्तं मेऽन्तरा रविः ।
योगिन्यस्ताश्च मां नक्तमगृह्णन्नेत्य पृष्ठतः ।। ४२
मां गृहीत्वा च यावत्ता हृष्टा यान्ति विहायसा ।
तावत्तासां पुरोऽपूर्वा योगिन्योऽन्याः परापतन्।। ४३
ताभिः सहोदभूदासामकस्माद्युद्धमुद्धतम् ।
तेन तासामहं हस्ताद्भ्रष्टो देशेऽतिनिर्जने ।। ४४
एकमेवाथ तत्राहमपश्यं मन्दिरं महत् ।
प्रविशेति ब्रुवदिव द्वारेणापावृतेन माम् ।। ४५
पलाय्याभ्यन्तरे तत्र प्रविश्याहं भयाकुलः ।
अद्राक्षमद्भुताकारां नारीं नारीशतान्विताम् ।। ४६
प्रकाशमानां प्रभया प्रदोषज्वलितामिव ।
रक्षामहौषधिं सृष्टां धात्रा मदनुकम्पया ।। ४७
क्षणान्मया समाश्वस्य पृष्टा सा मामभाषत ।
यक्षिण्यहं सुमित्राख्या शापादेवमिह स्थिता ।। ४८
मानुषेण च मे सङ्गः प्रदिष्टः शापशान्तये ।
तन्मामशङ्कितप्राप्तो भजस्व भव निर्भयः ।। ४९
इत्युक्त्वा क्षिप्रमाविश्य दासीः स्नानविलेपनैः ।
वस्त्रैराहारपानैश्च हृष्टं सा मामुपाचरत् ।। 14..4.५०
क्व डाकिनीभिर्भीतिः सा क्व सुख तच्च तत्क्षणम् ।
अचिन्त्यो बत दैवेनाप्यापातः सुखदुःखयोः ।। ५१
ततस्तया समं तत्र यक्षिण्या तान्यहान्यहम् ।
सुखमासमथ स्वैरमेकदा साब्रवीच्च माम् ।। ५२
क्षीणः शापः स मे ब्रह्मंस्तदितोऽद्य व्रजाम्यहम् ।
मत्प्रसादाच्च दिव्यं ते विज्ञानं संभविष्यति ।। ५३
तपस्वी सिद्धभोगश्च निर्भयश्च भविष्यसि ।
इहस्थो मद्गृहस्यास्य मा द्राक्षीर्मध्यमं पुरम् ।। ५४
एवमुक्त्वा तिरोऽभूत्सा ततोऽहं कौतुकेन तत् ।
मध्यमं पुरमारूढस्तत्रापश्यं तुरंगमम् ।। ५५
तेनाहं निकटप्राप्तः क्षिप्तोऽश्वेन खुराहतः ।
क्षणादद्राक्षमात्मानं स्थितमस्मिञ्शिवालये ।। ५६
ततः प्रभृति चात्राहं स्थितः सिद्धोऽस्मि च क्रमात् ।
तदित्थं मानुषस्यापि त्रिकालज्ञानमस्ति मे ।। ५७
एवं च क्लेशबहुलाः सर्वस्यापीह सिद्धयः ।
तदिहास्स्व तवाभीष्टसिद्धिं शंभुर्विधास्यति ।। ५८
इत्युक्तो ज्ञानिना तेन तत्रेयन्ति दिनान्यहम् ।
त्वत्पादप्राप्तिजातास्थः स्थितोऽभूवं तदाश्रमे ।। ५९
स्वप्नादिष्टभवत्सिद्धिः शर्वेणाद्य किल प्रभो ।
कयाप्यहमिहानीतो गृहीत्वा दिव्यया स्त्रिया ।। 14..4.६०
इत्येष मम वृत्तान्त इत्युक्त्वा गोमुखे स्थिते ।
नरवाहनदत्ताग्रे मरुभूतिरथाब्रवीत् ।। ६१
क्षिप्तं मानसवेगेन मां तदा कापि देवता ।
पाण्योर्विधाय विन्यस्य दूरेऽटव्यां तिरोऽभवत् ।। ६२
ततोऽहं तत्र दुःखार्तो मरणोपायचिन्तया ।
भ्राम्यन्नदीपरिक्षिप्तं दृष्टवानेकमाश्रमम् ।। ६३
तत्र प्रविश्य चापश्यमुपविष्टं शिलातले ।
जटाभिस्तापसं तं च प्रणम्याहमुपागमम् ।। ६४
कस्त्वं कथमनुप्राप्तोऽस्थेतां भूमिममानुषीम् ।
इति पृष्टश्च तेनाहं तस्मै सर्वमवर्णयम् ।। ६५
ततः स बुद्ध्वावोचन्मा मात्मानं सांप्रतं वधीः ।
ज्ञास्यसीह प्रभोर्वार्तां ततः कर्तासि यत्क्षमम् ।। ६६
इति तद्वचनाद्युष्मद्वार्ताजिज्ञासया स्थिते ।
मयि तत्र स्त्रियो दिव्या नदीं तां स्नातुमागमन् ।। ६७
सोऽथ मां तापसोऽवादीद्गच्छास्या वस्त्रमानय ।
आसु स्नान्त्यास्त्वमेकस्या वार्तां ज्ञास्यस्यतः प्रभोः ।। ६८
तच्छ्रुत्वाहं तथाकार्षं मामन्वागाच्च सा वधूः ।
हृतवस्त्रार्द्रवसना सहस्तस्वस्तिकस्तनी ।। ६९
नरवाहनदत्तस्य वार्तामाख्याय वाससी ।
गृहाणेत्युदिता तेन तापसेनाथ साब्रवीत् ।। 14..4.७०
नरवाहनदत्तोऽद्य हरमाराधयन्स्थितः ।
कैलासे दिवसैर्विद्याधरसम्राड् भविष्यति ।। ७१
एवमुक्तवती तस्य संपेदे तापसस्य सा ।
भार्या शापवशाद्दिव्या तत्कथासंस्तवाद्वधूः ।। ७२
ततस्तया समं तस्थौ विद्याधर्या स तापसः ।
तद्गिरा चाहमत्रासं जातास्थस्त्वत्समागमे ।। ७३
दिनैः सगर्भा च सती गर्भं द्युस्त्री प्रसूय तम् ।
सावोचत्तापसं शान्तः शापस्त्वत्सङ्गतो मम ।। ७४
भूयो मत्सङ्गवाञ्छा ते यदि तत्तण्डुलैः सह ।
पक्त्वा मद्गर्भमेतं त्वं भुङ्क्ष्व प्राप्स्यसि मां ततः ।। ७५
इत्युक्त्वास्यां प्रयातायामेतद्गर्भं सतण्डुलम् ।
पक्त्वा भुक्त्वान्वगादेतां खमुत्पत्य स तापसः ।। ७६
अहं तदुक्तोऽप्यादौ तन्नाश्नां सिद्धिमवेक्ष्य तु ।
भक्तसिक्थद्वयं प्राप्य पाकभाण्डादभक्षयम् ।। ७७
तेन यत्राहमष्ठीवमभूत्तत्तत्र काञ्चनम् ।
अथादैन्यः परिभ्राम्यन्प्रापमेकमहं पुरम् ।। ७८
तत्र वेश्यागृहे हेम्ना तेनोदारव्ययस्य मे ।
वसतो वमनं प्रादाज्जिज्ञासुः कुट्टनी छलात् ।। ७९
तेन मे वमतो भास्वत्पद्मरागनिभे उभे ।
प्राग्भुक्तभक्तसिक्थे ते मुखेन निरगच्छताम् ।। 14..4.८०
निर्गते एव कुट्टन्या गृहीते भक्षिते च ते ।
नष्टाथ हेमसिद्धिः सा कुट्टन्यापहृता तया ।। ८१
सचन्द्रार्धः शिवोऽद्यापि हरिर्यच्च सकौस्तुभः ।
तत्तयोर्वेद्मि कुट्टन्या गोचरापतने फलम् ।। ८२
किं चेदृगेष संसारो बह्वाश्चर्यो बहुच्छलः ।
परिच्छेत्तुं कदा केन समुद्र इव पार्यते ।। ८३
इत्यहं विमृशन्खिन्नस्त्वत्प्राप्त्यै चण्डिकागृहम् ।
अगच्छं तपसा देवीं तामाराधयितुं ततः ।। ८४
त्रिरात्रोपोषितं सा मां देवी स्वप्ने समादिशत् ।
सिद्धकामः स ते स्वामी संपन्नो गच्छ पश्य तम् ।। ८५
एतच्छ्रुत्वा प्रबुद्धोऽस्मि प्रातर्देव्या कयाप्यहम् ।
त्वत्पादमूलमानीत इत्येषा देव मे कथा ।। ८६
इत्युक्तवन्तं कुट्टन्या मरुभूतिं विडम्बितम् ।
नरवाहनदत्तोऽसौ जहास सह पार्श्वगैः ।। ८७
ततो हरिशिखोऽवादीत्प्रास्तं मां रिपुणा तदा ।
उज्जयिन्यां न्यधात्कापि रक्षित्वा देव देवता ।। ८८
तत्राहं दुःखितो देहं त्यक्तुमिच्छन्निशागमे ।
गत्वा श्मशानं तत्रत्यैः काष्ठैररचयं चिताम् ।। ८९
तां प्रज्वाल्य च तत्राग्निं पूजयन्तमुपेत्य माम् ।
तालजङ्घ इति ख्यातो भूताधिपतिरभ्यधात् ।। 14..4.९०
किमर्थं प्रविशस्यग्निं स्थितो जीवन्स ते प्रभुः ।
पूर्णस्वसिद्धिकामेन तेन त्वं संगमिष्यसि ।। ९१
इति मां मरणात्प्रीत्या स क्रूरोऽपि न्यवारयत् ।
ग्रावाणोऽप्यार्द्रतां सम्यग्भजन्त्यभिमुखे विधौ ।। ९२
गत्वा ततोऽहं देवाग्रे तपस्यंश्च ततः स्थितः ।
तवानीतः कयाप्यद्य पार्श्वं देवतया प्रभो ।। ९३
एवं हरिशिखेनोक्ते तथैवान्यैरपि क्रमात् ।
नरवाहनदत्तोऽसौ राजामितगतेर्गिरा ।। ९४
तामर्हन्तीं धनवतीं प्रेर्य विद्याधरार्चिताम् ।
तेभ्यः स्वसचिवेभ्योऽपि विद्याः सर्वा अदापयत् ।। ९५
ततो विद्याधरीभूतेष्वेषु तत्सचिवेष्वपि ।
शत्रूञ्जयाधुनेत्युक्तो धनवत्या शुभेऽहनि ।। ९६
स चक्रवर्ती सैन्यानां प्रयाणारम्भमादिशत् ।
वीरो गोविन्दकूटाख्यं गौरिमुण्डपुरं प्रति ।। ९७
अथोच्चचाल च्छन्नार्कं विद्याधरबलं दिवि ।
वैरिशीतकराकालराहूदयकृतभ्रमम् ।। ९८
नरवाहनदत्तोऽपि स्वयमारुह्य कर्णिकाम् ।
तस्य पद्मविमानस्य भार्याः स्वाः केसरेषु च ।। ९९
आरोप्य पत्त्रेषु सखींश्चण्डसिंहादिकेषु च ।
पुरःसरेषु नभसा प्रतस्थे विजयाय सः ।। 14..4.१००
गच्छंश्चार्धपथप्राप्ते तस्थौ धनवतीगृहे ।
तदर्चितः संस्तदहर्मातङ्गपुरसंज्ञके ।। १०१
तत्रस्थश्चाहवाह्वाने दूतमेकं व्यसर्जयत् ।
विद्याधरेशयोर्गौरिमुण्डमानसवेगयोः ।। १०२
अन्येद्युस्तत्र मातङ्गपुरे पत्नीर्निधाय सः ।
गोविन्दकूटं तं प्रायाद्राजभिर्द्युचरैः सह ।। १०३
तत्र युद्धाय तौ गौरिमुण्डमानसवेगकौ ।
निर्गतौ प्रत्यगृह्णंस्ते चण्डसिंहादयोऽग्रतः ।। १०४
प्रवृत्तसमरादिष्टपतत्सुभटपादपः ।
सोऽभूद्गोविन्दकूटाद्रिः स्रवद्रुधिरनिर्झरः ।। १०५
रक्तलिप्तलसत्खड्गलताजिह्वो व्यजृम्भत ।
सङ्ग्रामकालः शूराणां जिघत्सुर्जीवितानि सः ।। १०६
मांसासृङ्मत्तवेतालतालवाद्यविशङ्कटः ।
अभून्नृत्यत्कबन्धोऽसौ भूतप्रीत्यै रणोत्सवः ।। १०७
अथ मानसवेगं तं रणेऽस्मिन्समुखागतम् ।
नरवाहनदत्तः स स्वयमभ्यपतत्क्रुधा ।। १०८
अभिपत्य च केशेषु गृहीत्वा तस्य तत्क्षणम् ।
चक्रवर्ती स चिच्छेद शिरः खड्गेन पाप्मनः ।। १०९
तद्दृष्ट्वा कुपितं तत्र गौरिमुण्डं प्रधावितम् ।
केशेष्वाकृष्य तद्दृष्टिनष्टविद्याबलं भुवि ।। 14..4.११०
क्षिप्त्वा गृहीत्वाङ्घ्रियुगे भ्रामयित्वा नभस्तले ।
नरवाहनदत्तोऽसौ तं शिलायामचूर्णयत् ।। १११
एवं तेन तयोर्गौरिमुण्डमानसवेगयोः ।
हतयोस्तद्बलं शेषमगाद्भीतं पलाय्य तत् ।। ११२
पपात पुष्पवृष्टिश्च तस्याङ्गे चक्रवर्तिनः ।
गगनस्थाः सुराः सर्वे साधु साध्विति चाब्रुवन् ।। ११३
अथात्र गौरिमुण्डस्य राजधानीं विवेश सः ।
नरवाहनदत्तस्तैः स्वैः सर्वै राजभिः सह ।। ११४
तदैव गौरिमुण्डादिसंबद्धास्तस्य शासनम् ।
एत्य विद्याधराधीशाः प्रणताः प्रतिपेदिरे ।। ११५
ततोऽत्र निहतारातिराज्यप्राप्त्युत्सवान्तरे ।
उपेत्य तं धनवती सा सम्राजं व्यजिज्ञपत् ।। ११६
देवास्ति गौरिमुण्डस्य सुता त्रैलोक्यसुन्दरी ।
तामिहात्मनिकानाम्नीमुपयच्छस्व कन्यकाम् ।। ११७
इत्युक्तः स तया राजा तामानाय्यैव तत्क्षणम् ।
उपयेमे तया साकमासीच्च तदहः सुखम् ।। ११८
प्रातर्मानसवेगस्य पुरान्मदनमञ्चुकाम् ।
आनाययद्वेगवती प्रभावत्यौ विसृज्य सः ।। ११९
आनीता हर्षबाष्पार्द्रविकस्वरमुखी पतिम् ।
उदयस्थं हतारातितमसं प्रविलोक्य तम् ।। 14..4.१२०
शूरं विरहदोषान्ते भेजे कमपि संमदम् ।
सावश्यायजलोत्फुल्लकमला नलिनीव सा ।। १२१
सोऽपि तस्यै मुदा दत्त्वा सर्वविद्याश्चिरोत्सुकः ।
रेमे तया समं सद्यः प्राप्तविद्याधरत्वया ।। १२२
निनाय तानि चाहानि भार्याभिः सह तत्र सः ।
गौरिमुण्डपुरोद्यानवर्ती पानादिलीलया ।। १२३
प्रभावतीं विसृज्याथ भगीरथयशा अपि ।
आनायिताभूत्तेनाथ विद्याश्चास्यै स दत्तवान् ।। १२४
एकदा च तमास्थानवर्तिनं चक्रवर्तिनम् ।
यथावदेत्य विज्ञप्तवन्तौ विद्याधरावुभौ ।। १२५
आवामुत्तरवेद्यर्धं देवाभूव गतावितः ।
ज्ञातुं मन्दरदेवस्य चेष्टां धनवतीगिरा ।। १२६
तत्र दृष्टः स चास्थानगतो विद्याधरेश्वरः ।
आवाभ्यां छन्नदेहाभ्यामेवं युष्मान्प्रति ब्रुवन् ।। १२७
श्रुतं मया यन्निहता गौरिमुण्डादयोऽखिलाः ।
नरवाहनदत्तेन प्राप्य विद्याधरेशताम् ।। १२८
तदुपेक्ष्यो न सोऽस्माभिर्हन्तव्यस्तूद्भवन्रिपुः ।
एतच्छ्रुत्वा वचस्तस्मादावां वक्तुमिहागतौ ।। १२९
इति चारमुखाच्छ्रुत्वा बभौ कोपाकुला सभा ।
नरवाहनदत्तस्य पद्मिनीवांनिलाहता ।। 14..4.१३०
चित्राङ्गदस्य बाहू स्वौ विधूतप्रसृतौ पुनः ।
अमार्गतामिवादेशं योद्धुं वलयनिःस्वनैः ।। १३१
हारोऽमितगतेर्वक्षस्युत्फलञ्श्वसतः क्रुधा ।
उत्तिष्ठोत्तिष्ठ वीर त्वमितीव मुहुरब्रवीत् ।। १३२
भूमिं पिङ्गलगान्धारः करेण घ्नन्सशब्दकम् ।
चूर्णनोपक्रमोंकारमिव व्यधित वैरिणाम् ।। १३३
मुखे वायुपथस्यापि भ्रुकुटिः पदमादधे ।
कोपेनारोपिता चापलतेवान्ताय विद्विषाम् ।। १३४
संक्रुद्धः पाणिना पाणिं चण्डसिंहः प्रमर्दयन् ।
एवं विनिर्मथाम्यस्मिञ्शत्रूनित्यभ्यधादिव ।। १३५
बाहुः सागरदत्तस्य करास्फालनजन्मना ।
शब्देन मूर्च्छता व्योम्नि रिपुमाह्वयतेव तम् ।। १३६
नरवाहनदत्तस्तु कोपेऽप्यासीदनाकुलः ।
अक्षोभ्यतैव महता महत्त्वस्य हि लक्षणम् ।। १३७
द्युचारिचक्रवर्त्यङ्गरत्नसाधनपूर्वकम् ।
शत्रुं स जेतुं चक्रेऽत्र यात्रायै निश्चयं तदा ।। १३८
अथारुह्य विमानं तत्सभार्यः सचिवान्वितः ।
चक्रवर्ती प्रतस्थे स ततो गोविन्दकूटतः ।। १३९
ते च सर्वेऽपि गन्धर्वराजविद्याधराधिपाः ।
सबलाः परिवृत्त्यैतं चेलुश्चन्द्रमिव ग्रहाः ।। 14..4.१४०
धनवत्या पुरोगायामथासाद्य हिमाचलम् ।
नरवाहनदत्तः स प्रापदेकं महत्सरः ।। १४१
सितपद्मोच्छ्रितच्छत्त्रमुल्लसद्धंसचामरम् ।
उपस्थितमिवादाय सम्राड्योग्यमुपायनम् ।। १४२
उच्चैरभिमुखोदस्तैर्वीचिहस्तैरदूरतः ।
कुर्वत्साम्राज्यसंसिद्धिस्नानाह्वानमिवासकृत् ।। १४३
चक्रवर्तिन्सरस्यस्मिन्स्नातव्यं भवतेति सः ।
सम्राट् वायुपथेनोक्तस्तत्र स्नातुमवातरत् ।। १४४
नाचक्रवर्तिनः स्नानं सिद्ध्यत्यत्र तदद्य ते ।
सिद्धं तच्चक्रवर्तित्वमिति दिव्याब्रवीच्च वाक् ।। १४५
तच्छ्रुत्वा चक्रवर्ती स प्रविष्टस्तज्जलान्तरे ।
चिक्रीडान्तःपुरैः साकं पाथस्पतिरिवाम्बुधौ ।। १४६
धौताञ्जनारुणदृशः श्लथधम्मिल्लबन्धनाः ।
रेमे सोऽत्र प्रियाः पश्यन्नङ्गलग्नार्द्रवाससः ।। १४७
सशब्दमुत्पतन्त्योऽस्मात्सरसः पत्त्रिपङ्क्तयः ।
प्रत्युद्गतानां रशनास्तच्छ्रियामिव रेजिरे ।। १४८
तद्वधूवदनाम्भोजलावण्यविजितानि च ।
ममज्जुर्लज्जयेवात्र पङ्कजानि जलोर्मिषु ।। १४९
कृतस्नानश्च तदहस्तस्यैव सरसस्तटे ।
नरवाहनदत्तोऽसावुवास सपरिच्छदः ।। 14..4.१५०
तत्र नर्मकथालापैः स भार्यासचिवः कृती ।
स्थित्वा प्रातर्विमानस्थः प्रतस्थे सबलस्ततः ।। १५१
गच्छन्वायुपथस्याथ प्राप्य मार्गवशात्पुरम् ।
तस्थौ तदनुरोधेन तं तत्रैव स वासरम् ।। १५२
अत्र दृष्टचरी तेन कन्या वायुपथस्वसा ।
वायुवेगयशा नाम ह्युद्यानस्थाभ्यवाञ्छयत ।। १५३
सा हेमवालुकनदीतीरोद्यानविहारिणी ।
संपूर्णचन्द्रवदना सौम्यालापमनोरमा ।। १५४
सितहासा गुरुश्रोणिभारा सद्ग्रहशालिनी ।
वीक्ष्यागतं तं तद्रक्तचित्ताप्यन्तर्दधे ततः ।। १५५
विलक्षोऽथ स तां मत्वा हेत्वन्तरपराङ्मुखीम् ।
नरवाहनदत्तोऽत्र निजमावासमाययौ ।। १५६
तत्र गोमुखवैदग्ध्यवशेन मरुभूतिना ।
वृत्तं राज्ञः सहस्थेन वृत्तान्तमुपलभ्य तम् ।। १५७
देव्यश्चित्रान्परीहासान्सम्राजस्तस्य चक्रिरे ।
मरुभूतेरवैदग्ध्यात्सत्रपे गोमुखे स्थिते ।। १५८
सलज्जमथ राजानं वीक्ष्याश्वास्य च गोमुखः ।
वायुवेगयशश्चित्तं जिज्ञासुस्तत्पुरं ययौ ।। १५९
ततो वायुपथोऽकस्मात्पुरं द्रष्टुमिवागतम् ।
दृष्ट्वा प्रीतिकृतातिथ्यो नीत्वैकान्ते जगाद तम् ।। 14..4.१६०
वायुवेगयशा नाम कन्यास्ति भगिनी मम ।
सिद्धैः सा भाविनी चक्रवर्तिभार्या किलोदिता ।। १६१
अतस्तामिह दित्सामि प्राभृतं चक्रवर्तिने ।
नरवाहनदत्ताय तन्मे त्वं साधयेप्सितम् ।। १६२
आगन्तुं प्रस्तुतश्चाहमेतदर्थं तवान्तिकम् ।
इति वायुपथेनोक्ते मन्त्री तं गोमुखोऽब्रवीत् ।। १६३
यद्यप्यरिजिगीषार्थं प्रस्थितः प्रभुरेव नः ।
विज्ञापय तथापि त्वमहं ते साधयाम्यदः ।। १६४
इत्युक्त्वामन्त्र्य तं गत्वा सिद्धं कार्यं न्यवेदयत् ।
नरवाहनदत्ताय गोमुखोऽभ्यर्थनां विना ।। १६५
अन्येद्युश्च तमत्रार्थमेत्य वायुपथे स्वयम् ।
विज्ञापयति राजानं तं धीमान्गोमुखोऽब्रवीत् ।। १६६
न कार्योऽभ्यर्थनाभङ्गो देव वायुपथस्य ते ।
भक्तोऽयं यद्ब्रवीत्येष कर्तव्यं तत्प्रभोरिति ।। १६७
ततः स प्रतिपेदे तद्राजा वायुपथोऽपि ताम् ।
तस्मै प्रादादनिच्छन्तीमप्यानीय निजानुजाम् ।। १६८
विवाह्यमाना सावोचदनिच्छन्ती बलादहम् ।
भ्रात्रा दत्तेति नाधर्मो लोकपाला ममास्त्यतः ।। १६९
एतद्ब्रुवत्यां तस्यां च सर्वा वायुपथाङ्गनाः ।
चक्रुः कोलाहलं येन नान्ये तच्छुश्रुवुर्वचः ।। 14..4.१७०
ततो राज्ञस्त्रपादायितद्वाक्याशयलब्धये ।
गोमुखो युक्तिमन्वेष्टुं तत्राभ्रमदितस्ततः ।। १७१
भ्रान्त्वा ददर्श चैकान्ते विद्याधरकुमारिकाः ।
अग्निप्रवेशं युगपच्चतस्रः कर्तुमुद्यताः ।। १७२
कारणं तेन पृष्टाश्च जगदुस्ताः सुमध्यमाः ।
समयोल्लङ्घनं तस्मै वायुवेगयशःकृतम् ।। १७३
ततः स गोमुखो गत्वा राज्ञस्तत्सर्वसंनिधौ ।
नरवाहनदत्ताय यथावस्तु न्यवेदयत् ।। १७४
तद्बुद्ध्वा विस्मिते राज्ञि वायुवेगयशास्तदा ।
जगादोत्तिष्ठ गच्छामस्त्वरितं रक्षितुं वयम् ।। १७५
आर्यपुत्र कुमारीस्तास्ततो वक्ष्यामि कारणम् ।
इत्युक्तः स तया राजा तत्र सर्वैः समं ययौ ।। १७६
ददर्श च कुमारीस्ताः पुरःप्रज्वलितानलाः ।
विधार्यैताश्च राजानं वायुवेगयशा जगौ ।। १७७
एषैका कालिका नाम कालकूटपतेः सुता ।
विद्युत्पुञ्जा द्वितीयेयं विद्युत्पुञ्जात्मसंभवा ।। १७८
मन्दरस्य सुता राजस्तृतीयैषा मतङ्गिनी ।
चतुर्थीयं महादंष्ट्रसुता पद्मप्रभा प्रभो। ।। १७९
पञ्चम्यहं चेति वयं दृष्ट्वा त्वां मारमोहिताः ।
सिद्धक्षेत्रे तपस्यन्तं व्यदध्म समयं मिथः ।। 14..4.१८०
समं पञ्चभिरस्माभिराहार्योऽयं प्रियः पतिः ।
नात्मार्पणीयस्त्वेतस्मै कयाचिदपि भिन्नया ।। १८१
एष चेत्पृथगेतेन विवाहं विदधीत तत् ।
प्रवेश्यो वह्निरन्याभिरुद्दिश्यैतां सखीद्रुहम् ।। १८२
एतत्समयभीताहं नैच्छं परिणयं पृथक् ।
न चात्मा तुभ्यमधुनाप्यार्यपुत्र समर्प्यते ।। १८३
ममार्यपुत्र एवात्र लोकपालाश्च साक्षिणः ।
यद्येष समयोऽद्यापि स्वेच्छमुल्लङ्घितो मया ।। १८४
तदार्यपुत्र ता एता उपयच्छस्व मे सखीः ।
युष्माभिरेतद्भोः सख्यो भावनीयं च नान्यथा ।। १८५
एवं तयोक्ते तुतुषुः समाश्लिष्यंश्च ता मिथः ।
कुमार्यो मरणोत्तीर्णा राजाप्यन्तर्जहर्ष सः ।। १८६
बुद्ध्वा तत्पितरस्ते च तत्र तत्क्षणमाययुः ।
नरवाहनदत्ताय तस्मै प्राहुश्च ताः सुताः ।। १८७
शासनं तेऽपि तत्कालं जामातुः प्रतिपेदिरे ।
कालकूटपतिप्रष्ठास्तस्य विद्याधरेश्वराः ।। १८८
एवं पञ्च समं प्राप्य महाविद्याधरात्मजाः ।
नरवाहनदत्तोऽत्र माहात्म्यं स परं ययौ ।। १८९
तस्थौ च तत्र कतिचित्ताभिः सह दिनानि सः ।
ततश्चैवं हरिशिखः सेनापतिरुवाच तम् ।। 14..4.१९०
शास्त्रज्ञोऽपि कथं देव नीतिमुल्लङ्घ्य वर्तसे ।
विग्रहावसरे कोऽयं कामभोगरसस्तव ।। १९१
क्वायं मन्दरदेवं तं जेतुं यात्रासमुद्यमः ।
क्व चेयन्ति दिनानीह विहारोऽन्तःपुरैः सह ।। १९२
एवं हरिशिखेनोक्ते महाराजो जगाद् सः ।
युक्तमुक्तं प्रयत्नस्तु न भोगायात्र कोऽपि मे ।। १९३
बन्धुप्राप्तिप्रदो ह्येष भार्याव्यतिकरो मया ।
अरिमर्देऽधुना मुख्यमङ्गमित्यभिनन्दितः ।। १९४
तदेतानि चलन्त्वद्य सैन्यान्यरिजयाय मे ।
इत्युक्तवन्तं राजानं श्वशुरो मन्दरोऽब्रवीत् ।। १९५
असिद्धचक्रवर्त्यङ्गसर्वरत्नस्य दुर्जयः ।
देव मन्दरदेवोऽसौ दूरदुर्गमभूमिगः ।। १९६
देवमायमहावीररक्षितद्वारदेशया ।
अग्रस्थया त्रिशीर्षाख्यगुहया ह्येष रक्ष्यते ।। १९७
सिद्धरत्नेन चाक्रम्य सा गुहा चक्रवर्तिना ।
तञ्चक्रवर्तिरत्नं यो देव चन्दनपादपः ।। १९८
अस्यां भुव्यस्ति तं तावत्साधयामीष्टसिद्धये ।
नाचक्रवर्ती निकटं तरोः प्राप्नोति तस्य च ।। १९९
श्रुत्वैतन्मन्दराद्रात्रौ निराहारो यतव्रतः ।
नरवाहनदत्तोऽगात्तं चन्दनतरुं प्रति ।। 14..4.२००
गच्छन्वित्रास्यमानोऽपि वीरो विघ्नैः सुदारुणैः ।
न स तत्रास मूलं च प्राप तस्य महातरोः ।। २०१
दृष्ट्वा च तं महारत्नं निबद्धोत्तुङ्गवेदिकम् ।
एत्याध्यारुह्य सोपानैर्ववन्दे चन्दनद्रुमम् ।। २०२
चक्रवर्तिन्नयमहं सिद्धस्ते चन्दनद्रुमः ।
स्मृतस्य संनिधास्ये ते तदितो व्रज सांप्रतम् ।। २०३
गोविन्दकूटं सेत्स्यन्ति रत्नान्यन्यानि ते ततः ।
ततो मन्दरदेवं त्वं हेलयैव विजेष्यसे ।। २०४
इत्युक्तश्च गिरा तत्र स रात्रावशरीरया ।
तथेत्युक्त्वा प्रणम्यैतं सिद्धिमान्दिव्यपादपम् ।। २० ५
प्रहृष्टो व्योममार्गेण महाविद्याधरेश्वरः ।
नरवाहनदत्तोऽथ निजं कटकमाययौ ।। २०६
अथ नीत्वा स निशां तामास्थाने सर्वसंनिधौ प्रातः ।
नैशं साधितचन्दनपादपवृत्तान्तमखिलमाचख्यौ ।। २०७
तद्बपद्ध्वा दयिताश्च बालसचिवाश्चाप्ताश्च विद्याधरा-
स्ते ते वायुपथादयः सकटकाश्चित्राङ्गदाद्याश्च ते ।
गन्धर्वाः प्रसभप्रसाधितमहासिद्धेः प्रहर्षाकुलाः
सत्त्वोत्साहधृतिप्रभावमहतीं तस्यास्तुवन्धीरताम् ।। २०८
संमन्त्र्य तैः सह स मन्दरदेवदर्पं राजा विजेतुमथ दिव्यविमानगामी ।
शेषान्यचन्दनतरूदितरत्नसिद्ध्यै गोविन्दकूटगिरिमेव जगाम तावत् ।। २०९
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे पञ्चलम्बके चतुर्थस्तरङ्गः ।
समाप्तश्चायं पञ्चलम्बकश्चतुर्दशः ।