कथासरित्सागरः/लम्बकः १२/तरङ्गः ३६

विकिस्रोतः तः
Jump to navigation Jump to search

ततः स विन्ध्यमुल्लङ्घ्य प्राप संनद्धसैनिकः ।
मृगाङ्कदत्तः सीमान्तमुज्जयिन्याः सुहृद्युतः ।। १
तद्बुद्ध्वा कर्मसेनोऽपि राजास्य सबलोऽग्रतः ।
धीरो युद्धाय संनह्य नगर्या निरगात्ततः ।। २
निकटीभूय चान्योन्यदर्शिन्योरुभयोस्तयोः ।
तत्सेनयोः प्रववृते संग्रामो वीरहर्षणः ।। ३
नृसिंहनादवित्रस्तभग्नक्लीबासुराकुलः ।
सोऽभूद्धिरण्यकशिपोर्निवास इव संगरः ।। ४
संतता विनिकृन्तन्तो घना गगनगामिनः ।
सुभटेष्विषवः पेतुः सस्येषु शलभा इव ।। ५५
खड्गाहतेभकुम्भोत्थो बभौ मुक्ताफलोत्करः ।
संरम्भत्रुटितो हार इव तत्समरश्रियः ।। ६
तीक्ष्णकुन्ताग्रदशनं ग्रस्ताश्वनरकुञ्जरम् ।
कृतान्तस्येव वदनं तद्विरेजे रणाजिरम् ।। ५ ७
उत्फेलुर्भल्ललूनानि शिरांसि भुजशालिनाम् ।
दिवि दत्तोर्ध्वझम्पानि दिव्यस्त्रीरिव चुम्बितुम् ।। ८
कबन्धा ननृतुश्चात्र सुभटानां पदे पदे ।
निर्भासितोत्तमस्वामिसंगरप्रमदादिव ।। ९
एवं च पञ्चदिवसान्वहच्छोणितनिम्नगः ।
आसीत्करङ्ककूटाढ्यः स शूरान्तकरो रणः ।। १०
पञ्चमेऽह्नि रहः सायं तं समेतं स्वमन्त्रिभिः ।
मृगाङ्कदत्तं श्रुतधिर्विप्रोऽभ्येत्य जगाद सः ।। ११
युष्मासु समरव्यग्रेष्वितो भिक्षुकरूपिणा ।
गत्वा निराकुलद्वारां प्रविश्योज्जयिनीं मया ।। १२
निकटादप्यदृश्येन भूत्वा विद्याप्रभावतः ।
यदन्विष्टं यथावत्तच्छृणु देव वदामि ते ।। १३
यदैव कर्मसेनोऽसौ राजा युद्धाय निर्गतः ।
तदैवानुज्ञया मातुः सा शशाङ्कवती गृहात् ।। १४
निर्गत्य तत्पुरीवर्तिगौर्यायतनमाश्रिता ।
तामाराधयितुं देवीं श्रेयोर्थं समरे पितुः ।। १५
तत्रस्या च रहस्येकां सखीमाप्तामुवाच सा ।
मत्कृते सखि तातस्य विग्रहोऽयमुपागतः ।। १६
आक्रान्तश्चार्पयेदेष तस्मै राजसुताय माम् ।
गणयन्ति न राज्यार्थेऽपत्यस्रेहं महीभुजः ।। १७
न च जानेऽनुरूपः किं स मे राजसुतो न वा ।
कामं हि मृत्युमिच्छेयं न विरूपमहं पतिम् ।। १८
मन्ये रूपाभिसंपन्नो दरिद्रोऽपि वरं पतिः ।
न विरूपः पुनः कृत्स्नपृथिवीचक्रवर्त्यपि ।। ५९
तत्कीदृगिति गत्वा तं विलोक्यागच्छ सैन्यतः ।
प्रज्ञानेन च नाम्ना च शुभे चतुरिका ह्यसि ।। २०
एवं सखी तयोक्ता सा युक्त्या कटकमेत्य नः ।
त्वां विलोक्य विभो गत्वा राजपुत्रीमुवाच ताम् ।। २१
किमन्यत्सखि सा जिह्वा जाने नास्त्यपि वासुकेः ।
या शक्ता गदितुं तस्य रूपं राजसुतस्य तत् ।। २२
ब्रवीमि पुनरेतावद्यथा नान्या समास्ति ते ।
नारी रूपेण मनुजस्तथा नान्योऽस्ति तत्समः ।। २३
अत्यल्पं धिङ्मयोक्तं वा मन्ये ह्यस्मिञ्जगत्त्रये ।
न सिद्धो नापि गन्धर्वो न देवोऽप्यस्ति तादृशः ।। २४
एवं सखीगिरा तस्यास्त्वयि न्यस्तं च मानसम् ।
शशाङ्कवत्याः कामेन कीलितं च समं शरैः ।। २५
तत्क्षणात्प्रभृति श्रेयस्कामा तव पितुश्च सा ।
कृशीभवन्ती तपसा स्थिता त्वद्विरहेण च ।। २६
तद्गुप्तं निशि गत्वाद्य हृत्वा गौर्याश्रमात्ततः ।
विजनादानयत तां राजपुत्रीमलक्षितम् ।। २७
यात मायाबटोरस्य गृहानेते नृपास्ततः ।
पश्चात्प्रकोपं रक्षित्वा तत्रैष्यन्ति समं मया ।। २८
निवर्ततामिदं युद्धं मा स्म भूत्सैन्यसंक्षयः ।
अस्तु वः कुशलं देहे राज्ञस्त्वच्छ्वशुरस्य च ।। २९
गतिरेषा ह्मगतिका युद्धं प्राणार्पणेन यत् ।
उपायेषु जघन्योऽयमुपायो गीयते बुधैः ।। ३०
एवमुक्तः श्रुतधिना स गुप्तं प्रययौ निशि ।
मृगाङ्कदत्तस्तत्राश्वानारुह्य सचिवैः सह ।। ३१
सुप्तस्त्रीबालशेषां तां विवेशोज्जयिनीं च सः ।
गत्वैव संवृतद्वारां सुप्तैः स्वल्पैश्च रक्षिभिः ।। ३२
ततः श्रुतधिना दत्तैरभिज्ञानैः सुलक्षितम् ।
ख्यातं पुष्पकरण्डाख्यमहोद्यानान्तरस्थितम् ।। ३३
तत्कालालंकृतप्राचीमुखेन शशिना करैः ।
प्रकाशितं राजसुतस्तं स गौर्याश्रमं ययौ ।। ३४
तावच्च परिचर्यादिश्रान्ते सुप्ते सखीजने ।
सा शशाङ्कवती तत्र वीतनिद्रा व्यचिन्तयत् ।। ३५
मदर्थं बत राजानो राजपुत्रा दिने दिने ।।
वीरास्ते ते च हन्यन्ते समित्युभयसैन्ययोः ।। ३६
स च राजसुतो देव्या स्वप्ने ह्यम्बिकयानया ।
आदिष्टः पूर्वभर्ता मे मदर्थप्रार्थिताहवः ।। ३७
हृदयं च यमाच्छिद्य दत्त्वा शरपरम्पराम् ।
सिद्धलक्षेण कामेन नीत्वा तस्मै समर्पितम् ।। ३८
तातस्तु मन्दपुण्यां मां नैव तस्मै प्रदास्यति ।
पूर्ववैराच्च दर्पाच्च लेखादित्यद्य हि श्रुतम् ।। ३९
वामे विधौ च कः स्वप्नदेवतादेशनिश्चयः ।
प्रियप्राप्तौ च पश्यामि न कांचित्सर्वथा दिशम् ।। ४०
तद्यावन्नाहितं किंचित्तस्य तातस्य वा रणे ।
शृणोमि तावदात्मानं हताशं न त्यजामि किम् ।। ४१
इत्युत्थाय पुरो गत्वा गौर्याः साशोकपादपे ।
पाशं विरचयामास स्वोत्तरीयेण दुःखिता ।। ४१
तावन्मृगाङ्कदत्तोऽपि सवयस्यः प्रविश्य तम् ।
उद्यानं तरुबद्धाश्वो गौर्यागाराश्रमं गतः ।। ४३
तत्र तत्सचिवेनाराद्राजपुत्री विलोक्य ताम् ।
मृगाङ्कदत्तो जगदे स्वैरं विमलबुद्धिना ।। ४४
देव पश्यात्र काप्येषा पाशेन वरकन्यका ।
उद्यता हन्तुमात्मानं तत्का नाम भवेदियम् ।। ४५
तच्छ्रुत्वैव विलोक्यैतां राजसूनुरुवाच सः ।
अहो केयं रतिः किंस्विद्रूपिणी किमु निर्वृतिः ।। ४६
साकारा कान्तिरिन्दोर्वा मन्मथाज्ञाथ जङ्गमा ।
किं वामराङ्गना मैवमस्याः पाशोद्यमः कथम् ।। ४७
तत्तावदिह तिष्ठामः पादपान्तरिताः क्षणम् ।
यावज्जानीमहे केयमिति व्यक्तं कथंचन ।। ४८
इत्युक्त्वा सवयस्योऽत्र यावच्छन्नः स तिष्ठति ।
सा शशाङ्कवती तावद्विग्ना देवीं व्यजिज्ञपत् ।। ४९
अस्मिञ्जन्मनि चेद्देवि न स राजसुतः पतिः ।
देवो मृगाङ्कदत्तो मे निष्पन्नः पूर्वदुष्कृतैः ।। ५०
त्वत्प्रसादेन तद्भूयादन्यस्मिन्नपि जन्मनि ।
स भर्ता गौरि भगवत्यापन्नार्तिहरे मम ।। ५१
इति विज्ञप्य देवीं सा राजपुत्री प्रणम्य च ।
कण्ठे समर्पयामास पाशं बाष्पार्द्रलोचना ।। ५२
तत्क्षणं च प्रबुद्ध्यैव तददर्शनविह्वलाः ।
चिन्वन्त्यः सहसा तस्याः सख्योऽन्तिकमुपाययुः ।। ५३
हा हा किमिदमारब्धं सखि धिक्साहसं त्वया ।
इत्युक्त्वैव च तास्तस्याः पाशं कण्ठादपाहरन् ।। ५४
अथ ह्रीतविषण्णा सा यावद्बालात्र तिष्ठति ।
उदभूद्भारती तावद्गौरीगर्भगृहान्तरात् ।। ५५
मा विषादं कृथाः पुत्रि शशाङ्कवति नैव तत् ।
वचो मृषा मे यत्स्वप्ने तवोक्तं सुभगे मया ।। ५६
सोऽयं मृगाङ्कदत्तो हि पूर्वभर्ता तवान्तिके ।
प्राप्त एव व्रजानेन सह भुङ्क्ष्वाखिलां भुवम् ।। ५७
श्रुत्वैतां सहसा वाणीं सा शशाङ्कवती शनैः ।
यावद्विलोकयत्यत्र पार्श्वे किंचित्ससाध्वसा ।। ५८
तावन्मृगाङ्कदत्तस्य मन्त्री विक्रमकेसरी ।
तामुपागम्य वक्ति स्म दर्शयन्नग्रपाणिना ।। ५९
देवि सत्यं भवान्या ते समादिष्टमयं हि सः ।
राजपुत्रः पतिः प्रेमपाशाकृष्टस्तवाग्रतः ।। ६०
तच्छ्रुत्वा सा ततस्तिर्यङ्न्यस्तदृष्टिर्ददर्श तम् ।
कान्तं तेजस्विनं मध्यवर्तिनं सहचारिणाम् ।। ६१
ग्रहैः परिवृतं चन्द्रमवतीर्णमिवाम्बरात् ।
रूपोपमानमन्येषाममृतस्यन्दनं दृशोः ।। ६२
ततः पतदनङ्गेषुपुङ्खपक्ष्मचितैरिव ।
अङ्गैः कण्टकितैर्यावदास्ते सा स्तम्भनिश्चला ।। ६३
तावन्मृगाङ्कदत्तस्तामुपेत्य त्याजयन्ह्रियम् ।
स कालोचितमाह स्म गिरा प्रेयमधुश्च्युता ।। ६४
त्याजयित्वा निजं देशं राज्यं बन्धूंश्च दूरतः ।
दासीकृत्याहमानीतो गुणैर्बद्ध्वा नताङ्गि ते ।। ६९
तन्मयारण्यवासस्य वसुधाशयनस्य च ।
फलाहारस्य तीव्रार्कतापसंसेवनस्य च ।। ६६
तपःकष्टस्य तन्वङ्गि संप्राप्तं फलमीदृशम् ।
यद्दृष्टा नेत्रपीयूषवृष्टिरेषा तनुस्तव ।। ६७
यदि स्नेहानुरोधश्च मयि ते हरिणाक्षि तत् ।
अस्मत्पुरीपुरंध्रीणां प्रयच्छ नयनोत्सवम् ।। ६८
सङ्ग्रामः शाम्यतु श्रेयो भवतूभयपक्षयोः ।
कृतार्थं जायतां जन्म सह गुर्वाशिषा मम ।। ६९
एवं मृगाङ्कदत्तेन सा शशाङ्कवती तदा ।
उक्ता जगाद वसुधाविन्यस्तनयना शनैः ।। ७०
अयं तावद्गुणक्रीतो जनः स्वाधीन एव ते ।
तदार्यपुत्र कुशलं यदवैषि कुरुष्व तत् ।। ७१
इति वाक्सुधया तस्याः कृती निर्वापितोऽथ सः ।
मृगाङ्कदत्तो देवीं तां गौरीं स्तुत्वा प्रणम्य च ।। ७२
आरोप्य राजपुत्रीं च तां तुरंगे स्वपृष्ठतः ।
तत्सखीभिः समारूढपश्चाद्भागाश्वपृष्ठगैः ।। ७३
दशभिः सहितो वीरैः सचिवैः शस्त्रपाणिभिः ।
उच्चचाल ततो रात्रौ राजपुत्रो धृतायुधः ।। ७४
ते चैकादश दृष्ट्वापि तत्र रोद्धुं न शेकिरे ।
नगरीरक्षिभिः क्रुद्धा रुद्रा इव दुरासदाः ।। ७५
विनिर्गत्योज्जयिन्याश्च जग्मुर्मायाबटोर्गृहम् ।
सशशाङ्कवतीकास्ते यथा श्रुतधिनोदितम् ।। ७६
क एते क्व प्रयाताश्चेत्युद्भ्रान्तेष्वत्र रक्षिषु ।
सा चोज्जयिन्यां बुबुधे क्रमाद्राजसुता हृता ।। ७७
तच्चाख्यातुं महादेवी कर्मसेनाय भूभृते ।
सत्वरं नगराध्यक्षं प्राहिणोत्कटकं प्रति ।। ७८
अत्रान्तरे च कटके तत्र रात्रावुपेत्य तम् ।
चाराधिकारी राजानं कर्मसेनं व्यजिज्ञपत् ।। ७९
देव प्रदोष एवाद्य गुप्तं निर्गत्य सैन्यतः ।
मृगाङ्कदत्तः सामात्यो हयैरुज्जयिनीं गतः ।। ८०
तां शशाङ्कवतीं हर्तुं गौर्यायतनवर्तिनीम् ।
इति सम्यङ्मया ज्ञातं प्रभुर्जानात्यतः परम् ।। ८१
इत्याकर्ण्य समाहूय कर्मसेनः स भूपतिः ।
रहः स्वसेनापतये यथाश्रुतमवर्णयत् ।। ८२
जगाद च वराश्वानां सहितः पञ्चभिः शतैः ।
शूराधिरूढैः प्रच्छन्नं द्रुतमुज्जयिनीं व्रज ।। ८३
मृगाङ्कदत्तं जहि तं पापं प्राप्य बधान वा ।
विद्धि मामागतं पश्चात्पृष्ठस्थापितसैनिकम् ।। ८४
इत्युक्तस्तेन राज्ञा स यथादिष्टबलान्वितः ।
प्रायात्सेनापती रात्रौ तथेत्युज्जयिनीं प्रति ।। ८५
मार्गे तन्नगराध्यक्षान्मिलितादशृणोच्च सः ।
राजपुत्रीं हृतां वीरैर्यथान्यैरेव कैश्चन ।। ८६
ततः सनगराध्यक्षः प्रत्यागत्य तथैव तत् ।
कर्मसेनं स राजानं यथावृत्तमबोधयत् ।। ८७
स तद्बुद्ध्वा विचिन्त्यैव तदशक्यं ततो नृपः ।
अवस्कन्दनिवृत्तस्तां तूष्णीमेवानयन्निशाम् ।। ८८
मृगाङ्कदत्तसैन्येऽपि मायाबटुमुखा नृपाः ।
निन्युस्तथैव तां रात्रिं संनद्धाः श्रुतधेर्गिरा ।। ८९
प्रातश्चान्विष्टवृत्तान्तः कर्मसेननृपः सुधीः ।
मृगाङ्कदत्तकटके राज्ञां दूतं विसृष्टवान् ।। ९०
मृगाङ्कदत्तेन हृता सुता तावच्छलेन मे ।
तदस्तु कोऽपरो ह्यस्यास्तादृशः सदृशः पतिः ।। ९१
तदिदानीं स युष्माभिः सममायातु मद्गृहम् ।
करोमि यावदुद्वाहं तनयाया यथाविधि ।। ९२
एवं स संदिदेशास्य मुखे दूतस्य भूपतिः ।
तच्च ते सश्रुतधयो राजानः श्रद्दधुस्तदा ।। ९३
ऊचुश्च दूतं स्वपुरीं तर्हि यात्वेष वः प्रभुः ।
यावत्तमानयामोऽत्र गत्वा राजसुतं वयम् ।। ९४
तच्छ्रुत्वैव तथा तेन गत्वा दूतेन वर्णिते ।
स कर्मसेनः सबलस्तथेत्युज्जयिनीमगात् ।। ९५
तद्दृष्ट्वा तेऽपि राजानो मायाबटुपुरःसराः ।
मृगाङ्कदत्तं प्रति तं चेलुः श्रुतधिना सह ।। ९६
तावन्मृगाङ्कदत्तोऽपि स शशाङ्कवतीयुतः ।
मायाबटुगृहं प्राप तत्काञ्चनपुरं पुरम् ।। ९७
तत्र सोऽन्तःपुरैस्तस्य यथार्हकृतसत्क्रियः ।
सवयस्यो विशश्राम सिद्धकार्यः प्रियासखः ।। ९८
अन्येद्युः सश्रुतधयो नृपास्तेऽत्र समाययुः ।
स किरातपतिर्वीरः ससैन्यः शक्तिरक्षितः ।। ९९
शबराधिपतिः सोऽपि राजा मायाबटुर्बली ।
शूरो दुर्गपिशाचश्च स मातङ्गचमूपतिः ।। १००
सर्वे शशाङ्कवत्या ते युक्तं रात्र्येव कैरवम् ।
मृगाङ्कदत्तं दृष्ट्वा तमभ्यनन्दन्कृतोत्सवाः ।। १०१
यथार्हकृतमानाय तस्मै तं च न्यवेदयन् ।
संदेशं कर्मसेनीयं प्रवेशं च निजे गृहे ।। १०२
संनिवेश्याथ कटकं चलन्नगरसंनिभम् ।
मृगाङ्कदत्तो मन्त्राय समं सर्वैरुपाविशत् ।। १०३
विवाहायोज्जयिन्यां किं गन्तव्यमुत नो मया ।
उच्यतामिति पप्रच्छ नृपतीन्सचिवांश्च सः ।। १०४
दुष्टः स राजा तद्गेहगमने कुशलं कुतः ।
कार्यं च तत्र नास्त्येव प्राप्तैव हि तदात्मजा ।। १०५
इत्यैकमत्येन नृपाः सचिवाश्चाब्रुवन्यदा ।
तदा मृगाङ्कदत्तस्तमपृच्छच्छ्रुतधिं द्विजम् ।। १०६
उदासीन इव ब्रह्मंस्तूष्णीमेव स्थितोऽसि किम् ।
किमेतदेवाभिमतं तवाप्युत न वा वद ।। १०७
ततः श्रुतधिराह स्म यदि श्रोष्यसि वच्मि तत् ।
गन्तव्यं कर्मसेनस्य गृहेष्विति मतिर्मम ।। १०८
अशाठ्येन हि संदिष्टमेतत्तेनान्यथा कथम् ।
सुतापहारे स बली युद्धं त्यक्त्वा गृहं व्रजेत् ।। १०९
सबलस्य च किं कुर्यात्प्राप्तस्यापि गृहं स ते ।
प्रीतिस्तु तत्र यातस्य भवेत्तेन समं तव ।। ११०
सहायोऽग्रे स च स्यान्नः स्नेहेन दुहितुः पुनः ।
नेच्छत्यविधिनोद्वाहं तेनैव वक्ति तत्त्वतः ।। १११
तद्युक्तं गमनं तत्रेत्युक्ते श्रुतधिना तदा ।
साधु साध्विति तत्रोचुः सर्वे श्रद्धाय तद्वचः ।। ११२
ततो मृगाङ्कदत्तस्तानवोचत्सर्वमस्त्वदः ।
किं तु तातं विनाम्बां च विवाहो मे न रोचते ।। ११३
तदम्बातातयोः कश्चिदाह्वानाय व्रजत्वितः ।
बुद्ध्वा च तदभिप्रायं करिष्यामो यथोचितम् ।। ११४
इत्यूचिवान्स संमन्त्र्य पित्रोः पार्श्वं स्वमन्त्रिणम् ।
तत्रस्थ एव व्यसृजद्वीरो भीमपराक्रमम् ।। ११५
तावच्च तत्रायोध्यायां पुरि राजा स तत्पिता ।
कालेनामरदत्तस्तज्ज्ञातवांस्तस्य लोकतः ।। ११६
मृगाङ्कदत्तस्य कृतं देशनिर्वासनप्रदम् ।
विनीतमतिना मिथ्या राजपुत्रस्य पैशुनम् ।। ११७
ततः कुमन्त्रिणं कोपात्तं निहत्य स सान्वयम् ।
पुत्रनिर्वासनोदग्रदुःखकष्टामगाद्दशाम् ।। ११८
निर्गत्य च पुरीबाह्ये तस्थावायतने हरेः ।
राजा स नन्दिग्रामाख्ये चरन्दारैः समं तपः ।। ११९
तत्र स्थिते चिरात्तस्मिन्स चारावेदितागमः ।
अयोध्यां प्राप वाताश्ववेगाद्भीमपराक्रमः ।। १२०
स तामपश्यदुद्विग्नां गतराजसुतां पुरीम् ।
रामप्रवासवैधुर्यकष्टं पुनरिवागताम् ।। १२१
राजपुत्रस्य पृच्छद्भिर्वार्तां पौरैर्वृतोऽथ सः ।
तन्मुखाच्छ्रुतवृत्तान्तो नन्दिग्रामं ततो ययौ ।। १२२
तत्राभीष्टसुतोदन्तसोत्सुकं महिषीयुतम् ।
ददर्शामरदत्तं तं तपःक्षामतनुं नृपम् ।। १२३
तमेत्य पादपतितः कृतकण्ठग्रहं नृपम् ।
पृष्टोदन्तमवोचत्स सास्रं भीमपराक्रमः ।। १२४
प्राप्ता मृगाङ्कदत्तेन सूनुना ते स्ववीर्यतः ।
सा शशाङ्कवती देव कर्मसेननृपात्मजा ।२? १२५
तद्विवाहश्च देवेन विना देव्या च सर्वथा ।
न तस्य पितृभक्तस्य शोभनः प्रतिभासते ।। १२६
अतस्तेन विसृष्टोऽहमिहैवागम्यतामिति ।
विज्ञापनाय धरणिन्यस्तमूर्ध्ना सुतेन वः ।। १२७
प्रतीक्षमाणो युष्मांश्च स काञ्चनपुरे स्थितः ।
शबराधिपतेर्देव राज्ञो मायाबटोर्गृहे ।। १२८
शृण्विदानीं च वृत्तान्तमित्युक्त्वा देशनिर्गमात् ।
आरभ्य सोऽटवीवासवियोगविषमायतम् ।। १२९
स युद्धं कर्मसेनीयसंध्यन्तं विविधाद्भुतम् ।
कृत्स्नं स्वप्रभुवृत्तान्तं जगौ भीमपराक्रमः ।। १३०
तच्छ्रुत्वा सुतकल्याणे स राजा जातनिश्चयः ।
तदैवामरदत्तः स्वं हर्षात्प्रस्थानमादिशत् ।। १३१
गजारूढः समं देव्या राजभिः सचिवैश्च सः ।
सहस्त्यश्वबलः प्रायात्पुत्रं प्रत्युत्सुकस्ततः ।। १३२
अल्पैरेव च स प्राप दिवसैरविलम्बितः ।
शबराधिपदेशस्थं सुतस्य कटकं नृपः ।। १३३
तद्बुद्ध्वैव च तस्याग्रे समग्रै राजभिः सह ।
मृगाङ्कदत्तो निरगात्सवयस्थश्चिरोत्सुकः ।। ९३४
दृष्ट्वैव दूरात्तुरगादवतीर्यास्य पादयोः ।
गजावरूढस्य पितुर्मातुश्च निपपात सः ।। १३५
आलिङ्गितः स च पितुः शरीरेण भुजान्तरम् ।
मनोरथेन हृदयं बाष्पैश्चापूरयद्दृशौ ।। १३६
माताप्याश्लिष्य सुचिरात्पश्यन्ती तं मुहुः सुतम् ।
भूयो वियोगभीतेव न मोक्तुमशकच्चिरम् ।। १३७
ते चाप्यमरदत्तं तं सदेवीकं नृपाः प्रभुम् ।
मृगाङ्कदत्तसुहृदस्तदाख्यातास्तदानमन् ।। १३०
स राजा सापि तद्देवी दंपतीविधुरेषु तान् ।
सहायानेकपुत्रस्य स्नेहादभिननन्दतुः ।। ३३९
मायाबटोः प्रविश्याथ राजधानीं विलोक्य च ।
स शशाङ्कवतीं तत्र तां पादावनतां स्नुषाम् ।। १४०
गृहीतप्राभृतो देव्या तया च स्नुषया सह ।
निर्गत्यामरदत्तः स्वे कटके वसतिं व्यधात् ।। १४१
भुक्त्वा च तत्र पुत्रेण सह सर्वैश्च राजभिः ।
गतिवादित्रनृत्तैस्तन्निनाय ससुखं दिनम् ।। १४२
मेने च लब्धयशसा कृतिनं तेन सूनुना ।
मृगाङ्कदत्तेनात्मानं भाविना चक्रवर्तिना ।। १४३
तावच्च कर्मसेनेन राज्ञा तेन सुमेधसा ।
दूतो मृगाङ्कदत्तस्य संमन्त्र्यात्र व्यसृज्यत ।। १४४
भवानुज्जयिनीं तावदिमां नैवागमिष्यति ।
तत्प्रेषयिष्याम्यत्रैव सुषेणाख्यमहं सुतम् ।। ३४५
स शशाङ्कवतीं तुभ्यं विधिवद्भगिनीं निजाम् ।
दास्यत्यतो नाविधिना सा विवाह्या त्वयानघ ।। १४६
अस्मत्स्नेहानुरोधश्चेदिति तं संदिदेश च ।
लेखे दूतमुखे चास्य राजसूनोः स भूपतिः ।। १४७
राजस्थाने श्रुते तस्मिन्संदेशे राजसूनुना ।
तत्पिता तस्य दूतस्य स राजैवोत्तरं ददौ ।। १४८
कर्मसेननृपात्कोऽन्यो वक्त्येतत्तस्य सन्मतेः ।
स्नेहोऽस्ति काममस्मासु तदेनं प्रेषयत्वितः ।। १४९
सुषेणं स निजं पुत्रं करिष्यामस्तथा वयम् ।
यथा संतोषकृत्तस्य सुतोद्वाहो भविष्यति ।। १५०
इत्युक्त्वा प्रतिसंदेशं दूतं तं प्रेष्य सत्कृतम् ।
राजा सश्रुतधिं पुत्रं नृपतींश्च जगाद सः ।। १५१
अयोध्यामधुना यामो विवाहस्तत्र शोभते ।
सुषेणस्य च सत्कारो यथावत्तत्र सिद्ध्यति ।। १५२
राजा मायावटुश्चेह सुषेणं संप्रतीक्षताम् ।
तेनागतेन सहितोऽयोध्यां पश्चादुपैष्यति ।। १५३
वयं विवाहसंभारहेतोर्यामोऽग्रतः पुनः ।
इति राजवचस्तत्र ते सर्वेऽप्यनुमेनिरे ।। १५४
ततोऽन्येद्युः समं देव्या सैन्यैश्च स महीपतिः ।
मृगाङ्कदत्तश्च युतौ राजभिः सचिवैश्च तैः ।। १५५
मायाबटु निधायात्र सुषेणागमनावधि ।
शशाङ्कवत्या सहितौ चेलतुः कृतिनौ ततः ।। १५६
वल्गत्तुरंगसंघाततरङ्गशतसंकुलः ।
असंख्यसर्पत्पादातपाथःपूरितदिङ्मुखः ।। १५७
तुमुलप्रोल्लसच्छब्दपिहितान्यरवश्रवः ।
चचाल स बलाम्भोधिस्तयोर्गम्भीरभीषणः ।। १५८
कुर्वाणौ च रजश्छन्नां वसुधाविभ्रमां दिवम् ।
गर्जद्गजघनाकीर्णां वसुधां च द्युविभ्रमाम् ।। १५९
मार्गे क्रमेण गच्छन्तौ शक्तिरक्षितकस्य तौ ।
गृहं किरातराजस्य पितापुत्राववापतुः ।। १६०
तत्र तेन महारत्नहेमसद्वस्त्रराशिभिः ।
सदारेण कृतोदारसपर्यौ सपरिग्रहौ ।। १६१
दिनमेकं कृताहारौ विश्रम्य सबलौ ततः ।
प्रस्थाय च स्वनगरीमयोध्यां प्रापतुः क्रमात् ।। १६२
हर्म्यवातायनारूढचञ्चत्पौराङ्गनाननैः ।
कान्तिपल्लवितैः फुल्लविलोलकमलामिव ।। १६३
सवधूकचिरायातराजपुत्रेक्षणोत्सुकैः ।
नेत्रैः पारिप्लवैश्चासां चलत्कुवलयैरिव ।। १६४
संपतद्भिर्वृतां राजहंसैर्विविशतुश्च ताम् ।
तरङ्गितां पताकाभिः प्रवाते सरसीमिव ।।, १६५
तत्राभ्यनन्दन्पौरास्तौ दीयमानाशिषौ द्विजैः ।
वन्दिभिः स्तूयमानौ च गीयमानौ च चारणैः ।। १६६
कर्मसेनस्य तनयामिमामालोकयेद्यदि ।
न पुनः सुतया लक्ष्म्या दर्पं कुर्यान्महोदधिः ।। १६७
न च गौर्यापि हिमवानित्यत्र च जगौ जनः ।
शशाङ्कवत्या लावण्यसंपदं वीक्ष्य विस्मितः ।। १६८
तदा च मङ्गलमहातूर्यप्रतिरवैर्दिशः ।
उत्सवाधिगमे राज्ञां संवेदनमिव व्यधुः ।। १६९
बहिःसृतेनेव भरादनुरागेण निर्भरा ।
सिन्दूरेण प्रवृत्ता सा सर्वाभूत्सोत्सवा पुरी ।। १७०
अन्येद्युर्गणकैः सूनोर्लग्नाहे निश्चिते नृपः ।
चकारामरदत्तोऽत्र तद्विवाहाय संभृतिम् ।। १७१
अपूरि तस्य नगरी तैस्तैर्नानादिगागतैः ।
रत्नैस्तथा यथा चक्रे सा कुबेरपुरीमधः ।। १७२
अथागत्याचिरादेको हृष्टद्वाःस्थनिवेदितः ।
दूतो मायाबटोरत्र नृपतिं तं व्यजिज्ञपत् ।। १७३
देवागतो राजपुत्रः सुषेणो नृपतिश्च सः ।
मायाबटुरयोध्यायाः सीमान्तेऽस्याः स्थितावुभौ ।। १७४
श्रुत्वैवामरदत्तस्तद्राजा सैन्यैः समं निजम् ।
सेनापतिं सुषेणस्य तस्याग्रे विससर्ज सः ।। १७५
तेन साकमयोध्यातो राजपुत्रमुपागतम् ।
मृगाङ्कदत्तः ससुहृत्प्रीत्या प्रत्युद्ययौ ततः ।। १७६
दूराद्वाहावतीर्णौ च कृतकण्ठग्रहौ मिथः ।
तावुभौ पृष्टकुशलौ मिलतः स्म नृपात्मजौ ।। १७७
प्रेम्णा चैकरथारूढौ नगरीं विशतः स्म ताम् ।
दिशन्तौ पौरनारीणां विलोचनमहोत्सवम् ।। १७८
सुषेणश्चात्र राजानं दृष्ट्वा तद्बहुमानितः ।
शशाङ्कवत्यास्तदनु स्वसुर्वासगृहं ययौ ।। १७९
तत्रोत्थाय कृताश्लेषस्तया बाष्पायमाणया ।
उपविश्य स सव्रीडां राजपुत्रीं जगाद ताम् ।। १८०
तातस्त्वामाह नायुक्तं पुत्रि किंचित्त्वया कृतम् ।
अद्यैतद्धि मया ज्ञातं यत्स्वप्नेऽम्बिकया तव ।। १८१
मृगाङ्कदत्तो भर्तासौ समादिष्टो नृपात्मजः ।
भर्तृमार्गानुसरणं स्त्रीणां च परमं व्रतम् ।। १८२
इत्युक्ता तेन सा बाला हृदयं स्वमधोमुखी ।
सिद्धमिष्टं तथेत्येवं पश्यन्ती विजहौ त्रपाम् ।। १८३
अथ तस्यै सुषेणोऽसौ नीत्वा राजाग्रतो ददौ ।
धनं शशाङ्कवत्यै तद्यत्तस्या निजसंचितम् ।। १८४
हेम्नो भारसहस्रे द्वे रत्नाभरणकारणम् ।
सुभृतान्पञ्च करभान्भाण्डं चान्यद्धिरण्मयम् ।। १८५
उवाच चैतदस्याः स्वं तातानुप्रेषितं तु यत् ।
विवाहवेद्यामस्यैतत्प्रदास्यामि क्रमादिति ।। १८६
ततः सर्वेऽपि ते तत्र भुक्तपीता नृपान्तिके ।
मृगाङ्कदत्तादियुता निन्युस्तन्निर्वृता दिनम् ।। १८७
प्राप्ते लग्नदिनेऽन्येद्युर्व्यग्रे राज्ञि स्वयं मुदा ।
मृगाङ्कदत्तः स्नानादि चकारात्मानुरूपतः ।। १८८
तां शशाङ्कवतीं चात्र कान्त्यैव कृतकौतुकाम् ।
नार्यः प्रसाधयामासुराचार इति केवलम् ।। १८९
निर्गत्य कौतुकागारादथ व्यग्रसुषेणतः ।
हुताशनवतीं वेदीमध्यासातां वधूवरौ ।। १९०
तस्यां स राजदुहितुस्तस्या राजसुतोऽग्रहीत् ।
धृताब्जशोभारुचिरं पाणिं लक्ष्म्या इवाच्युतः ।। १९१
बभौ किमपि तापाच्च धूमाच्चाग्निप्रदक्षिणे ।
अकोपेऽप्यरुणोद्बाष्पं तच्छशाङ्कवतीमुखम् ।। १९२
वह्नौ च लाजाञ्जलयो विकीर्णा विबभुस्तया ।
हासाः प्रयत्नसाफल्यहृष्टस्येव मनोभुवः ।। १९३
ददौ लाजविसर्गे च सुषेणः प्रथमे तदा ।
पञ्चाश्वानां सहस्राणि वारणानां शतं तथा ।। १९४
स्वर्णभारशते द्वे च नवतिं च करेणुकाः ।
भृताः सद्वस्त्रसद्रत्नमुक्ताभरणभारकैः ।। १९५
महीविजयजं वित्तं तदेव द्विगुणं क्रमात् ।
अन्येषु लाजमोक्षेषु प्रादात्तस्याः स सोदरः ।। १९६
अथोल्लसत्युत्सवतूर्यनिःस्वने विवेश निष्पन्नविवाहमङ्गलः ।
मृगाङ्कदत्तः स नवोढया तया शशाङ्कवत्या सह मन्दिरं निजम् ।। १९७
पिता च राजास्य यथार्हदत्तैर्हस्त्यश्वरत्नाभरणान्नपानैः ।
आ राजचक्रं शुकशारिकान्तं सोऽरञ्जयत्स्वाः प्रकृतीः सपौराः ।। १९८
त्यागप्रकर्षश्च तदास्य राज्ञस्तेनैव पर्याप्ततयात्र जज्ञे ।
आबद्धवस्त्राभरणा वितेरुर्द्रुमा महीकल्पतरुभ्रमं यत् ।। १९९
ततः स राजा समृगाङ्कदत्तः शशाङ्कवत्या सह राजभिश्च ।
भुक्त्वा सुषेणेन च साकमेतमापानगोष्ठ्या दिवसं निनाय ।। २००
अथ सेवितनृत्तचर्चरीके गृहगे तत्र जने सुभुक्तपीते ।
परिपीतधरारसो गताध्वा रविरस्ताचलकंदरं विवेश ।। २०१
तमवेक्ष्य च संध्यया समेतं नवरागोज्ज्वलया क्वचित्प्रयातम् ।
विचलत्खगमेखला किलेर्ष्याकुपितेवानुदधाव वासरश्रीः ।। २०२
ददृशे च विलोलतारकेण प्रबलीभूतमनोभुवा मुखेन ।
विलसत्तिमिरासितांशुकान्ता प्रसृता रात्र्यभिसारिका क्रमेण ।। २०३
उदयाचलवारणाङ्कुशत्वं नवसिन्दुरसमुज्जवलो जगाम ।
उदयन्नथ कुप्यदायताक्षीकुटिलापाङ्गसहोदरः शशाङ्कः ।। २०४
शशिना कृतकेलिकर्णपूरं रतिवल्लीनवपल्लवेन तेन ।
तमसोऽपगमे धृतप्रसादा हरिदैन्द्री हसदाननं बभार ।। २०५
कृतसांध्यविधिश्च सोऽपि नक्तं नववध्वा सहितो मृगाङ्कदत्तः ।
प्रविवेश तया शशाङ्कवत्या रजनीवासगृहं महार्हशय्यम् ।। २०६
मुखचन्द्रमसा तदाङ्गनाया निशि तस्याः प्रविलुप्ततामसेन ।
अवभासितचित्रभित्तिनान्तः पुनरुक्तीकृतसन्मणिप्रदीपम् ।। २०७
शयनीयगतश्च तत्र तस्याः स्थितवत्याः परिवृत्य सप्रियायाः ।
अहरत्परिरभ्य चुम्बनेन क्रमशश्चाधरखण्डनेन लज्जाम् ।। २०८
चिरकाङ्क्षितमन्वभूच्च मा मेत्यलमल्पोच्चरदक्षरं स तस्याः ।
नवमोहनमन्त्रसारसौख्यं त्रुटितस्फारमहार्हरत्नकाञ्चि ।। २०९
अरमत लुलितालकेन चास्या मुखशशिनार्धनिमीलितेक्षणेन ।
श्रमवशशिथिलालसैश्च सोऽङ्गैर्विरलविलुप्तविलेपनै रतान्ते ।। २१०
अथ तत्परिभोगलीलयेव क्षपिताक्षीयत सा तयोस्त्रियामा ।
विकसत्सुरतोत्सवाभिलाषप्रसरा प्रीतिरुपाययौ तु वृद्धिम् ।। २११
गता निशा संप्रति देव मुच्यतां विलासशय्या सुरतक्लमच्छिदः ।
अमी हि चूर्णालककम्पदायिनो मृगीदृशां वान्ति निशान्तवायवः ।। २१२
चन्द्रं निशायाः सहसानुयान्त्या हारच्युतानीव च मौक्तिकानि ।
दूर्वावनाग्रेष्ववपिण्डितानि स्फुरन्ति सच्छायमुषोजलानि ।। २१३
कोषेषु व्यलसन्निपीतमधवो ये कैरवाणां चिरं
लव्धाभ्यन्तरसुस्थिता विकसतामिन्दुप्रभासंगमे ।
ते संकोचमुपागतेषु विगलच्छ्रीकेषु तेष्वन्यतो
भृङ्गाः पश्य कुमार यान्ति मलिनाः कस्य स्थिरा ह्यापदि ।। २१४
दिनकृत्करमण्डिताधरामवलोक्यैव निशां मनोभुवा ।
अपशशितिलकं वपुः कृतं मथिताल्पाल्पतमोञ्जनं तथा ।। २१५
इति मृदुमधुरैः स बन्दिवाक्यैरुषसि शशाङ्कवतीविमुक्तकण्ठः ।
अपगतसुरतान्तखेदनिद्रः सपदि जहौ शयनं मृगाङ्कदत्तः ।। २१६
उत्थाय च व्यधित वासरकृत्यमेष पित्रा निजोचितकृताखिलसंविधानः ।
भूयस्तथैव च निनाय तदा बहूनि तान्युत्सवेन दयितासहितो दिनानि ।। २१७
अथ राजामरदत्तस्तज्जनकस्तच्छ्वशुर्यस्य ।
शिरसि सुषेणस्यादौ बबन्ध पट्टं कृताभिषेकस्य ।। २१८
विषयं तदुचितमेकं हस्त्यश्वहिरण्यभारवस्त्राणि ।
शतसंख्याश्च वरस्त्रीर्ददौ स तस्मै कृतादरो नृपतिः ।। २१९
शबरकिराताधिपती मायाबटुशक्तिरक्षितौ च ततः ।
सहबान्धवौ सदारौ मातङ्गचमूपतिं च तं स नृपम् ।। २२०
दुर्गपिशाचं सचिवान्मृगाङ्कदत्तस्य तांश्च सश्रुतधीन् ।
सममानयत्प्रदत्तैर्विषयैर्गोवाजिहेमवस्त्रैश्च ।। २२१
ततः किरातेन्द्रमुखान्विसृज्य तान्नृपान्स्वदेशेषु सुषेणसंयुतान् ।
शशास राज्यं सुतशौर्यनिर्वृतः स तत्सुखेनामरदत्तभूपतिः ।। २२२
मृगाङ्कदत्तोऽपि विजित्य वैरिणः शशाङ्कवत्या सुचिरादवाप्तया ।
निजैश्च तैर्भीमपराक्रमादिभिः सहावतस्थे सचिवैश्चिरं सुखी ।। २२३
कालेऽथ यात्यमरदत्तनृपस्य तस्य स्वैरं जरा श्रवणमूलमुपाजगाम ।
भुक्ताः श्रियः परिणतं वयसा शमस्य नन्वेष काल इति वक्तुमिवाङ्गभूता ।। २२४
ततः स भोगेषु विरक्तमानसो महीपतिः स्वान्निजगाद मन्त्रिणः ।
निशम्यतां संप्रति वर्णयामि वो विधित्सितं यन्मम वर्तते हृदि ।। २२५
गतं वयो नः पलितेन सांप्रतं कृतान्तदूतेन कचग्रहः कृतः ।
जरागमे जीर्णरसं च मादृशां कुभोगतृष्णाव्यसनं विडम्बना ।। २२६
विवृद्धिभाजा वयसा समं यद्विवर्धते लोभमनोभवग्रहः ।
असंशयं कापुरुषव्रतं हि तत्स्वभावजं सत्पुरुषैरशिक्षितम् ।। २२७
तदस्ति मे लब्धयशा महीतले सराजकावन्तिनरेन्द्रनिर्जयात् ।
स्वतोऽनुरक्तप्रकृतिर्गुणाधिको मृगाङ्कदत्तः सुसहायवानयम् ।। २२८
तदेतदस्मै निजराज्यमूर्जितं समर्प्य तीर्थं तपसेऽहमाश्रये ।
परैरनिन्द्य चरितं मनस्विनां वयोनुसारोचितमेव शोभते ।। २२९
इति क्षितीशस्य वचः सुनिश्चितं निशम्य धीराः किल तस्य मन्त्रिणः ।
क्रमेण देवीप्रमुखाश्च पौरास्तथेति सर्वे प्रतिपेदिरे तदा ।। २३०
ततः स राजा गणकोक्तलग्ने दिने विविक्ते सहितो द्विजाग्र्यैः ।
मृगाङ्कदत्तस्य चकार तस्य राज्याभिषेकोत्सवमात्मजस्य ।। २३१
इतस्ततः क्षत्तृनिदेशधावज्जनाकुलं व्यग्रनियुक्तवर्गम् ।
तदास्य नृत्यद्वरचारणस्त्रि मुदा जुघूर्णेव गृहं नृपस्य ।। २३२
तीर्थोदकं भूरि सभार्यकस्य मृगाङ्कदत्तस्य पपात मूर्ध्नि ।
जलप्रवाहाः पुनरस्य पित्रोः सानन्दयोर्नेत्रयुगान्निरीयुः ।। २३३
अधिष्ठिते तेन नवेन राज्ञा सिंहासने सिंहपराक्रमेण ।
तद्विद्विषां कोपभयानतानां भूमावसिंहासनमेव मेने ।। २३४
ततः पिता तस्य दिनानि सप्त ततान सज्जीकृतराजमार्गम् ।
यथार्हसंमानितराजलोकं महोत्सवं सोऽमरदत्तभूपः ।। २३५
दिनेऽष्टमे दारयुतो नगर्या निर्गत्य पुत्रं स मृगाङ्कदत्तम् ।
निवर्त्य तं बाष्पमुखं सपौरं वाराणसीं मन्त्रिसखो जगाम ।। २३६
तस्यां स गङ्गाम्बुपरिष्ठताङ्गो राजा त्रिसंध्यं त्रिपुरान्तकस्य ।
कुर्वन्सपर्यां फलमूलवृत्तिस्तस्थौ तपस्यन्मुनिवत्सदारः ।। २३७
आसाद्य राज्यमथ सोऽपि मृगाङ्कदत्तो भास्वानिवाम्बरतलं विपुलामलं तत् ।
आक्रम्य च क्षितिभृतः करसंनिपातैः प्रावर्तत प्रतपितुं प्रसरत्प्रतापः ।। २३८
मायाबटुप्रभृतिभिश्च सकर्मसेनैः संभूय सश्रुतधिभिः सचिवैः स तैः स्वैः ।
सद्वीपमेतदवजित्य चतुर्दिगन्तमेकातपत्रमवनीवलयं शशास ।। २३९
तस्मिंश्च राजनि कथासु निशम्यमानदुर्भिक्षदस्युपरचक्रभयादिदुःखा ।
नित्यप्रहृष्टसुखिता नवरामभद्रसौराज्यसौख्यमसमं वसुधा बभार ।। २४०
अध्यास्य तैश्च सचिवैः सह तामयोध्यां नानादिगागतनृपार्चितपादपद्मः ।
सम्राट् समं दयितया स शशाङ्कवत्या भोगानकण्टकसुखान्बुभुजे चिराय ।। २४१
इति स व्याख्याय कथां मलयवनान्ते मुनिः पिशङ्गजटः ।।
तं नरवाहनदत्तं राजसुतं विरहिणं जगदे ।। २४२
तस्मात्सोढक्लेशो मृगाङ्कदत्तो यथा शशाङ्कवतीम् ।
प्राप पुरा पुत्र तथा प्राप्स्यसि तां मदनमञ्चुकां त्वमपि ।। २४३
इति तस्मात्स मुनीन्द्रादाकर्ण्य वचोमृतं पिशङ्गजटात् ।
हृदि नरवाहनदत्तो धृतिमाधान्मदनमञ्जुकाप्राप्तौ ।। २४४
तद्गतचित्तोऽथ स तं मुनिवरमामन्त्र्य हारितां पूर्वम् ।
तत्रानेत्रीं चिन्वन्मलयगिरौ ललितलोचनां व्यचरत् ।। २४५
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बके षट्त्रिंशस्तरङ्गः ।

समाप्तश्चायं शशाङ्कवतीलम्बको द्वादशः ।