कथासरित्सागरः/लम्बकः १२/तरङ्गः ३४

विकिस्रोतः तः

ततः सोऽत्र सरस्तीरे कृतपारणसुस्थितः ।
मृगाङ्कदत्तस्तैः साकं सचिवैः स्वैरुपाविशत् ।। १
ततस्ते तदहः प्राप्ताश्चत्वारो निजमन्त्रिणः ।
तेनापृच्छ्यन्त विश्लेषकालवृत्तान्तमादरात् ।। २
अथ स व्याघ्रसेनाख्यस्तेषां मध्यात्तमब्रवीत् ।
देवास्मदीयवृत्तान्तं श्रूयतां वर्णयाम्यहम् ।। ३
यदा पारावताख्यस्य तस्य नागस्य शापतः ।
भवद्भ्यो दूरविभ्रष्टो जातोऽहं नष्टचेतनः ।। ४
तदा भ्रान्त्वाटवीं रात्रौ लब्धसंज्ञोऽप्यहं चिरात् ।
न दिशो न च पन्थानमपश्यं तमसा वृतः ।। ५
कृच्छ्राच्च दुःखदीर्घायां गतायां विरतिं निशि ।
उदिते भगवत्यर्के क्रमादाशाप्रकाशके ।। ६
अचिन्तयमहं हा धिक् क्व नु यातः स नः प्रभुः ।
अस्मद्वियुक्तश्चैकाकी कथं सोऽत्र भविष्यति ।। ७
कथं वा तमवाप्स्यामि कुत्रान्विष्यामि का गतिः ।
वरमुज्जयिनीं यामि तन्न प्राप्येत जातु सः ।। ८
सा शशाङ्कवतीहेतोर्गन्तव्या तस्य हि स्थिता ।
इत्याशया शनैः प्रायामहमुज्जयिनीं प्रति ।।९
गाहमानोऽथ कष्टां तामटवीं दुर्दशामिव ।
दह्यमानोऽऽर्ककिरणैरग्निचूर्णोत्करैरिव ।। १०
कथंचित्प्राप्तवानस्मि सरः फुल्लोत्पलेक्षणम् ।
हंसादिमधुरारावैः संभाषणमिवाचरत् ।। ११
प्रयुक्तवीचिहस्ताग्रं प्रसन्नविपुलाशयम् ।
दर्शनादेव सर्वार्तिहरं सत्पुरुषं यथा ।। १२
तत्र स्नात्वा च भुक्त्वा च बिसान्यापीय वारि च ।
यावत्स्थितोस्मि तावत्त्रीनेतानद्राक्षमागतान् ।। १३
दृढमुष्टिमथ स्थूलबाहुं मेघबलं तथा ।
समेत्य च भवद्वार्ता मिथोऽस्माभिरपृच्छ्यत ।। १४
अजानन्तश्च सर्वेऽपि वयं ते पापशङ्किनः ।
अकार्ष्म देहत्यागाय मतिं त्वद्विरहासहाः ।। १५
तावच्च तस्मिन्सरसि स्नातुं मुनिकुमारकः ।
आगमद्दीर्घतपसः सुतो नाम्ना महातपाः ।। १६
जटीकृतनिजज्वालो भूयोऽग्निरिव खाण्डवम् ।
दिधक्षुराश्रितो ब्राह्मीं प्रज्वलंस्तेजसा तनुम् ।। १७
कृष्णाजिनेन संवीतः सव्येनात्तकमण्डलुः ।
दक्षिणेन करेणाक्षमालावलयमुद्वहन् ।। १८
सहागतमृगैः शृङ्गप्रोत्खातस्नानमृत्तिकः ।
युक्तः कतिपयैरन्यैः समानैर्मुनिपुत्रकैः ।। १९
सोऽस्मानुपागाद्दृष्ट्वैव सरःप्रपतनोद्यतान् ।
करुणार्द्रा हि सर्वस्य सन्तोऽकारणबान्धवाः ।। २०
अवदच्च न कार्यं वः पापं कापुरुषोचितम् ।
दुःखान्धा हि पतन्त्येव विपच्छ्वभ्रेषु कातराः ।। २१
धीरास्तु दृष्टसन्मार्गा विवेकामलचक्षुषः ।
न पतन्त्यवटे प्राप्यमवश्यं प्राप्नुवन्ति च ।। २२
यूयं च भव्याकृतयः कल्याणं प्राप्स्यथ ध्रुवम् ।
तद्ब्रूत किं नु दुःखं वो मानसं दूयते हि मे ।। २३
एवमुक्तवते तस्मै मुनिपुत्राय तत्क्षणम् ।
आमूलान्निजवृत्तान्तं सर्वं कथितवानहम् ।। २४
ततस्तेन वयं तैस्तैर्वाक्यैरायतिदर्शिभिः ।
संबोध्य सानुगेनापि देहत्यागान्निवर्तिता ।। २५
अथ स्नात्वा ततो नातिदूरं स मुनिपुत्रकः ।
अस्माननैषीदातिथ्यं विधित्सुः पितुराश्रमम् ।। २६
तत्त्रोच्चशाखोर्ध्वभुजैर्वेदिकासूत्थितस्थितैः ।
प्रारब्धतपसीवार्करश्मिपैः पादपैरपि ।। २७
उपवेश्यैकदेशेऽस्मान्दत्तार्घ्यान्स मुनेः सुतः ।
एकैकमाश्रमतरुं गत्वा भिक्षामयाचत ।। २८
अपूर्यत क्षणात्तस्य फलैस्तेभ्यः स्वतश्च्युतैः ।
भिक्षापात्रमथागात्तद्गृहीत्वा सोऽस्मदन्तिकम् ।। २९
अदाच्च दिव्यास्वादानि तान्यस्मभ्यं फलानि सः ।
यैर्भुक्तैरमृतेनेव तृप्ता जाता वयं तदा ।। ३०
क्षीणेऽह्नि चाब्धौ पतिते सूर्ये ज्योतिर्भिरम्बरे ।
तत्पातोच्छलितैरम्भःशीकरैरिव पूरिते ।। ३१
तद्वैराग्यादिव प्राचीशैलशृङ्गतपोवनम् ।
संवीतचन्द्रिकाधौतवल्कले शशिनि श्रिते ।। ३२
एकस्थानोपविष्टानां कृताशेषस्वकर्मणाम् ।
मुनीनामाश्रमे तत्र दर्शनाय गता वयम् ।। ३३
प्रणिपत्योपविष्टाश्च कृतातिथ्यैः प्रियंवदैः ।
कुतो यूयमिति क्षिप्रात्पृष्टाः स्मस्तैर्महर्षिभिः ।। ३४
ततो मुनिकुमारेण तेन तेभ्यो निवेदितः ।
तदाश्रमप्रवेशान्तो वृत्तान्तोऽस्मन्निबन्धनः ।। ३५
अथास्मानत्र कण्वाख्यो ज्ञानी मुनिरभाषत ।
किमेवं वीरपुरुषा अपि क्लैब्यं गताः स्थ भोः ।। ३६
आपद्यभग्नधैर्यत्वं संपद्यनभिमानिता ।
यदुत्साहस्य चात्यागस्तद्धि सत्पुरुषव्रतम् ।। ३७
महान्तश्च महान्त्येव कृच्छ्राण्युत्तीर्य धैर्यतः ।
महतोऽर्थान्समासाद्य महच्छब्दमवाप्नुवन् ।। ३८
इयं सुन्दरसेनस्य तथा च श्रूयतां कथा ।
यथा मन्दारवत्यर्थे क्लेशस्तेनान्वभूयत ।। ३९
इत्युक्त्वा स मुनिः कण्वः सर्वेष्वत्र महर्षिषु ।
अस्मासु चोपशृण्वत्सु कथामेतामवर्णयत् ।। ४०
अस्त्यलंकृतकौबेरीदिङ्मुखो निषधाभिधः ।
देशस्तत्रालका नाम बभूव नगरी पुरा ।। ४१
यस्यां सदैव सर्वार्थसमृद्धिसुखितो जनः ।
केवलं रत्नदीपानामासीच्छश्वदनिर्वृतिः ।। ४२
तस्यामन्वर्थनामाभून्महासेनो महीपतिः ।
शरजन्माद्भुताप्युग्रप्रतापप्लुष्टशात्रवः ।। ४३
तस्य राज्ञो महामन्त्री गुणपालित इत्यभूत् ।
शौर्यालयो महीभारवोढा शेष इवापरः ।। ४४
तस्मिन्न्स्तभरस्यास्य सुखिनः क्षपितद्विषः ।
देव्यां शशिप्रभाख्यायामुत्पेदे नृपतेः सुतः ।। ४५
नाम्ना सुन्दरसेनो यः शिशुरेवाशिशुर्गुणैः ।
शौर्यसौन्दर्यलक्ष्मीभ्यां स्वयंवरपतिर्वृतः ।। ४६
तस्य राजसुतस्यात्र शूरास्तुल्यवयोगुणाः ।
आ बाल्यात्सह संवृद्धा बभूवुः पञ्च मन्त्रिणः ।। ४७
चण्डप्रभो भीमभुजस्तथा व्याघ्रपराक्रमः ।
वीरो विक्रमशक्तिश्च दृढबुद्धिश्च पञ्चमः ।। ४८
ते च सर्वे महासत्त्वा बलबुद्धिसमन्विताः ।
कुलीनाः स्वामिभक्ताश्च रुतज्ञा अपि पक्षिणाम् ।। ४९
तैः समं स उवासात्र राजपुत्रः पितुर्गृहे ।
अनुरूपां विना भार्यां तरुणोऽप्यपरिग्रहः ।। ५०
अनम्राक्रमणं शौर्यं धनं निजभुजार्जितम् ।
भार्या रूपानुरूपा च पुरुषस्येह पूज्यते ।। ५१
अन्यथा तु किमेतेन त्रयेणापीत्यचिन्तयत् ।
स च सुन्दरसेनोऽथ वीरस्तैः सचिवैः सह ।। ५२
एकदा चान्वितः सैन्यैर्वयस्यैस्तैश्च पञ्चभिः ।
निर्ययौ मृगयाहेतोर्नगर्याः स नृपात्मजः ।। ५३
निर्यातं च ददर्शैतं दूरदेशान्तरागता ।
कापि कात्यायनी नाम प्रौढा प्रव्राजिकोत्तमा ।। ५४
अरोहिणीकश्चन्द्रोऽयं किं वाप्यरतिकः स्मरः ।
इति चामानुषं वीक्ष्य तद्रूपं सा व्यचिन्तयत् ।। ५५
बुद्ध्वा च राजपुत्रं तं पृष्टात्तत्परिवारतः ।
धातुः सा सर्गवैचित्र्यं प्रशंसन्ती विसिस्मिये ।। ५६
अथारात्तारदीर्घेण राजपुत्रं स्वरेण तम् ।
कुमार विजयस्वेति वदन्ती प्रणनाम सा ।। ५७
सोऽपि सुन्दरसेनस्तदनाकर्ण्यैव तत्क्षणम् ।
ययौ स्वसचिवारब्धकथाव्यग्रेण चेतसा ।। ५८
अथोच्चैः श्रावयन्ती तं सा क्रुद्धोवाच तापसी ।
न शृणोष्याशिषं कस्माद्राजपुत्र ममाप्यहो ।। ५९
कस्याहं नार्चिता पृथ्व्यां राज्ञो राजसुतस्य वा ।
एवमेव च दर्पोऽयं यदि ते यौवनादिभिः ।। ६०
तन्मन्दारवतीं कन्यां हंसद्वीपेश्वरात्मजाम् ।
जगल्ललामभूतां च भार्यात्वेन त्वमाप्स्यसि ।। ६१
ततो मन्ये महेन्द्रादेरपि श्रोष्यसि न ध्रुवम् ।
मदावलेपाद्वचनं के वराकास्तु मानुषाः ।। ६२
एवमुक्तवतीं श्रुत्वा तामाहूय सकौतुकः ।
प्रह्वः सुन्दरसेनोऽसौ क्षमयामास तापसीम् ।। ६३
प्रजिघाय च भृत्यानां हस्ते विश्रमणाय सः ।
गृहं विक्रमशक्तेस्तां प्रष्टुकामः स्वमन्त्रिणः ।। ६४
ततो गत्वा कृताखेटः प्रत्यागत्य कृताह्निकः ।
तामानाय्य स पप्रच्छ कुमारो भुक्तभोजनाम् ।। ६५
भगवत्युच्यतां कैषा त्वयाद्य परिकीर्तिता ।
कन्या मन्दारवत्याख्या परं कौतूहलं हि नः ।। ६६
तच्छ्रुत्वा तापसी सा तमुवाच शृणु वच्म्यदः ।
तीर्थादिहेतोः सद्वीपां भ्रमामि पृथिवीमिमाम् ।। ६७
भ्रमन्ती प्राप्तवत्यस्मि हंसद्वीपं प्रसङ्गतः ।
तत्र मन्दारदेवस्य राज्ञो दृष्टा मया सुता ।। ६८
देवपुत्रोपभोगार्हा दृश्या नापुण्यकर्मभिः ।
या मन्दारवतीत्याख्यां धत्ते श्रीरिव नान्दनी ।। ६९
बिभ्रती हारिणीं मूर्तिं दर्शनोद्दीपितस्मरा ।
धात्रा सुधामयी सृष्टा या चान्येवैन्दवी तनुः ।। ७०
तस्या रूपेण सदृशो नास्त्येवान्यत्र भूतले ।
जानेऽनुहरति त्वेको भवांस्तद्रूपसंपदम् ।। ७१
यैः सा न दृष्टा विफले तेषां नेत्रे च जन्म च ।
इति श्रुत्वा च तापस्या मुखाद्राजसुतोऽब्रवीत् ।। ७२
तस्यास्तत्तादृशं रूपं पश्यामोऽम्ब वयं कथम् ।
एतत्तद्वचनं श्रुत्वा सापि प्रव्राजिकाभ्यधात् ।। ७३
अहं चित्रपटे तां च तत्काललिखितां रसात् ।
वहे वल्गुलिकान्तःस्थां कौतुकं यदि दृश्यताम् ।। ७४
एवमुक्तवती तस्मै तुष्टाय नृपसूनवे ।
कृष्ट्वा वल्गुलिकातः सा चित्रस्थां तामदर्शयत् ।। ७५
सोऽपि सुन्दरसेनस्तां कन्यां चित्रगतामपि ।
विचित्ररूपामानन्दनिःस्पन्दं प्रविलोकयन् ।। ७६
रोमाञ्चकण्टकचितैरङ्गैरास्ते स्म तत्क्षणम् ।
कीलितः पुष्पचापस्य बाणैरिव निरन्तरैः ।। ७७
शनैरशृण्वन्नवदन्नपश्यंश्चैव किंचन ।
तन्मयीभूय चित्रस्य इव सोऽप्यभवच्चिरम् ।। ७८
तद्दृष्ट्वा मन्त्रिणस्तस्य जगदुस्तां तपस्विनीम् ।
आर्ये सुन्दरसेनं त्वं देवमत्र पटे लिख ।। ७९
सदृशालेख्यविज्ञानं तावद्वीक्षामहे तव ।
तच्छ्रुत्वैव लिलेखैतं कुमारं सा क्षणात्पटे ।। ८०
तं चातिसदृशं दृष्ट्वा सर्वेऽप्यत्रैवमब्रुवन् ।
नास्त्यालेख्यविसंवादो भगवत्या मनागिति ।। ८१
अयं कुमार एवेति चित्रेऽस्मिञ्जायते हि धीः ।
तन्मन्दारवतीदेवीरूपं नात्र विसंवदेत् ।। ८२
इत्युक्तवत्सु सचिवेष्वात्तचित्रपटद्वयः ।
प्रीतः सुन्दरसेनस्तां पूजयामास तापसीम् ।। ८३
विसृज्य च यथार्हं तामेकस्थानानिवासिनीम् ।
विवेशाभ्यन्तरगृहं कान्ताचित्रपटं वहन् ।। ८४
किं मुखं किमु कान्त्यास्याः क्षालिताङ्कमलः शशी ।
राज्याभिषेककलशौ स्मरस्यैतावुत स्तनौ ।। ८५
लहर्यो रूपजलधेः किमेतास्त्रिवलीलताः ।
नितम्बः किमयं किं वा विलासशयनं रतेः ।। ८६
इति चित्रगतां तत्र प्रत्यङ्गं तां विभावयन् ।
स मन्दारवतीं तस्थौ निपत्य शयनीयके ।। ८७
तथैव चान्वहं तिष्ठन्नाहारादिपराङ्मुखः ।
स्मरज्वरभराक्रान्तः सोऽल्पैरेवाभवद्दिनैः ।। ८८
तद्बुद्ध्वागत्य पितरौ तस्य पप्रच्छतुः सखीन् ।
शशिप्रभामहासेनौ स्वैरमस्वास्थ्यकारणम् ।। ८९
तद्वयस्याश्च ते ताभ्यां तथा सर्वं तदब्रुवन् ।
यथात्र हेतुतां प्राप्ता हंसद्वीपनृपात्मजा ।। ९०
ततः सुन्दरसेनं तं महासेनो जगाद सः ।
पुत्र किं गूह्यते स्थाने खल्वभिष्वङ्ग एष ते ।। ९१
कन्यारत्नं हि मन्दारवती योग्या तवैव सा ।
मित्त्रं मन्दारदेवश्च परमं तत्पिता मम ।। ३१
तद्दूतसाध्ये युक्ते च कास्मिन्नर्थे कदर्थना ।
एवं तमुक्त्वा संमन्त्र्य कन्यां तां तस्य याचितुम् ।। ९३
राज्ञो मन्दारदेवस्य हंसद्वीपं विसृष्टवान् ।
दूतं सुरतदेवाख्यं स महासेनभूपतिः ।। ९४
ददौ सुन्दरसेनं तं तापस्या लिखितं तया ।
हस्ते चित्रपटे तस्य रूपोत्कर्षप्रकाशकम् ।। ९५
स दूतश्चतुरं गत्वा प्राप्याम्बुधितदे पुरम् ।
महेन्द्रादित्यनृपतेः शशाङ्कपुरसंज्ञकम् ।। ९६
सोऽपि सुन्दरसेनस्तदनाकर्ण्यैव तत्क्षणम् ।
ययौ स्वसचिवारब्धकथाव्यग्रेण चेतसा ।। ५८
अथोच्चैः श्रावयन्ती तं सा क्रुद्धोवाच तापसी ।
न शृणोष्याशिषं कस्माद्राजपुत्र ममाप्यहो ।। ५९
कस्याहं नार्चिता पृथ्व्यां राज्ञो राजसुतस्य वा ।
एवमेव च दर्पोऽयं यदि ते यौवनादिभिः ।। ६०
तन्मन्दारवतीं कन्यां हंसद्वीपेश्वरात्मजाम् ।
जगल्ललामभूतां च भार्यात्वेन त्वमाप्स्यसि ।। ६१
ततो मन्ये महेन्द्रादेरपि श्रोष्यसि न ब्रुवम् ।
मदावलेपाद्वचनं के वराकास्तु मानुषाः ।। ६२
एवमुक्तवतीं श्रुत्वा तामाहूय सकौतुकः ।
प्रह्वः सुन्दरसेनोऽसौ क्षमयामास तापसीम् ।। ६३
प्रजिघाय च भृत्यानां हस्ते विश्रमणाय सः ।
गृह विक्रमशक्तेस्तां प्रष्टुकामः स्वमन्त्रिणः ।। ६४
ततो गत्वा कृताखेटः प्रत्यागत्य कृताह्निकः ।
तामानाय्य स पप्रच्छ कुमारो भुक्तभोजनाम् ।। ६५
भगवत्युच्यतां कैषा त्वयाद्य परिकीर्तिता ।
कन्या मन्दारवत्याख्या परं कौतूहलं हि नः ।। ६६
तच्छ्रुत्वा तापसी सा तमुवाच 'वृणु वच्म्यदः ।
तीर्थादिहेतोः सद्वीपां भ्रमामि पृथिवीमिमाम् ।। ६७
भ्रमन्ती प्राप्तवत्यस्मि हंसद्वीपं प्रसङ्गतः ।
तत्र मन्दारदेवस्य राज्ञो दृष्टा मया सुता ।। ६८
देवपुत्रोपभोगार्हा दृश्या नापुण्यकर्मभिः ।
या मन्दारवतीत्याख्यां धत्ते श्रीरिव नान्दनी ।। ६९
बिभ्रती हारिणीं मूर्तिं दर्शनोद्दीपितस्मरा ।
धात्रा सुधामयी सृष्टा या चान्येवैन्दवी तनुः ।। ७०
तस्या रूपेण सदृशो नास्त्येवान्यत्र भूतले ।
जानेऽनुहरति त्वेको भवांस्तद्रूपसंपदम् ।। ७१
यैः सा न दृष्टा विफले तेषां नेत्रे च जन्म च ।
इति श्रुत्वा च तापस्या मुखाद्राजसुतोऽब्रवीत् ।। ७२
तस्यास्तत्तादृशं रूपं पश्यामोऽम्ब वयं कथम् ।
एतत्तद्वचनं श्रुत्वा सापि प्रव्राजिकाभ्यधात् ।। ७३
अहं चित्रपटे तां च तत्काललिखितां रसात् ।
वहे वल्गुलिकान्तःस्थां कौतुकं यदि दृश्यताम् ।। ७४
एवमुक्तवती तस्मै तुष्टाय नृपसूनवे ।
कृष्ट्वा वल्गुलिकातः सा चित्रस्थां तामदर्शयत् ।। ७५
सोऽपि सुन्दरसेनस्तां कन्यां चित्रगतामपि ।
विचित्ररूपामानन्दनिःस्पन्दं प्रविलोकयन् ।। ७६
रोमाञ्चकण्टकचितैरङ्गैरास्ते स्म तत्क्षणम् ।
कीलितः पुष्पचापस्य बाणैरिव निरन्तरैः ।। ७७
शनैरशृण्वन्नवदन्नपश्यंश्चैव किंचन ।
तन्मयीभूय चित्रस्य इव सोऽप्यभवच्चिरम् ।। ७८
तद्दृष्ट्वा मन्त्रिणस्तस्य जगदुस्तां तपस्विनीम् ।
आर्ये सुन्दरसेनं त्वं देवमत्र पटे लिख ।। ७९
सदृशालेख्यविज्ञानं तावद्वीक्षामहे तव ।
तच्छ्रुत्वैव लिलेरवैत कुमारं सा क्षणात्पटे ।। ८०
त चातिसदृशं दृष्ट्वा सर्वेऽप्यत्रैवमब्रुवन् ।
नास्त्यालेख्यविसंवादो भगवत्या मनागिति ।। ८१
अयं कुमार एवेति चित्रेऽस्मिञ्जायते हि धीः ।
तन्मन्दारवतीदेवीरूपं नात्र विसंवदेत् ।। ८२
इत्युक्तवत्सु सचिवेष्वात्तचित्रपटद्वयः ।
प्रीतः सुन्दरसेनस्तां पूजयामास तापसीम् ।। ८३
विसृज्य च यथार्हं तामेकस्थानानिवासिनीम् ।
विवेशाभ्यन्तरगृहं कान्ताचित्रपटं वहन् ।। ८४
किं मुखं किमु कान्त्यास्याः क्षालिताङ्कमलः शशी ।
राज्याभिषेककलशौ स्मरस्यैतावुत स्तनौ ।। ८५
लहर्यो रूपजलधेः किमेतास्त्रिवलीलताः ।
नितम्बः किमयं किं वा विलासशयनं रतेः ।। ८६
इति चित्रगतां तत्र प्रत्यङ्गं तां विभावयन् ।
स मन्दारवती तस्थौ निपत्य शयनीयके ।। ८७
तथैब चान्वहं तिष्ठन्नाहारादिपराढ्यखः ।
स्मरज्वरभराक्रान्तः सोऽल्पैरेवाभवद्दिनैः ।। ८८
तद्बुद्ध्वागत्य पितरौ तस्य पप्रच्छतुः सखीन् ।
शशिप्रभामहासेनौ स्वैरमस्वास्थ्यकारणम् ।। ८९
तद्वयस्याश्च ते ताभ्यां तथा सर्वं तदब्रुवन् ।
यथात्र हेतुतां प्राप्ता हंसद्वीपनृपात्मजा ।। ९०
ततः सुन्दरसेनं तं महासेनो जगाद सः ।
पुत्र किं गूह्यते स्थाने खल्वभिष्वङ्ग एष ते ।। ९१
कन्यारत्नं हि मन्दारवती योग्या तवैव सा ।
मित्त्रं मन्दारदेवश्च परमं तत्पिता मम ।। ९२
तदूतसाध्ये युक्ते च कास्मिन्नर्थे कदर्थना ।
एवं तमुक्त्वा संमन्त्र्य कन्यां तां तस्य याचितुम् ।। ९३
राज्ञो मन्दारदेवस्य हंसद्वीपं विसृष्टवान् ।
दूतं सुरतदेवाख्यं स महासेनभूपतिः ।। ९४
ददौ सुन्दरसेनं तं तापस्या लिखितं तया ।
हस्ते चित्रपटे तस्य रूपोत्कर्षप्रकाशकम् ।। ९५
स दूतश्चतुरं गत्वा प्राप्याम्बुधितटे पुरम् ।
महेन्द्रादित्यनृपतेः शशाङ्कपुरसंज्ञकम् ।। ९६
तत: प्रवहणारूढो हंसद्वीपमवाप तत् ।
दिनैर्मन्दारदेवस्य नृपतेस्तस्य मन्दिरम् ।। ९७
द्वाःस्थैरावेदितस्तत्र प्रविश्यान्तर्विलोक्य सः ।
यथावृत्तं नृपं दूतो दत्तकोशलिकोऽभ्यधात् ॥ ९८
संदिष्टं ते महाराज महासेनेन भूभुजा ।
देहि सुन्दरसेनाय मत्पुत्राय निजां सुताम् । ९९
पटे च लिखिता सा हि काल्यायन्यभिधानया ।
तापस्या कन्यकारत्नमित्यानीयेह दर्शिता । १० ०
रूपानुरूप्याच्चास्माभिर्जातेच्छैर्लिखितं पटे ।
रूपं सुन्दरसेनस्याप्यत्र प्रहितमीक्ष्यताम् । १० १
एष चासदृशो रूपे भार्यां स्वसदृशीं विना ।
नेच्छत्युद्वाहमेका च त्वत्सुतास्यानुकारिणी ॥ १०२
इति संदिश्य हस्ते मे पटो राज्ञायमर्पितः ।
दृश्यतां युज्यतां देव मधुना माधवी लता ॥ १०३
एतद्दूतवचः श्रुत्वा हर्षादानाययन्नृपः ।
सुप्तां स मन्दारवतीं देवीं तस्याश्च मातरम् । १०४
ताभ्याँ सह तमुद्धाट्य दृष्ट्वा चित्रपटं च सः ।
तुल्यो मद्दुहितुः पृथ्व्यां नास्तीत्येतन्मदं जहौ ॥ १०५
जगाद चामुना राजपुत्रेण यदि युज्यते ।
तदस्या रूपनिर्माणं सुताया: सफलं मम । १०६
अनेन रहिता ह्येषा राजते नानयाप्यसौ ।
का ह्यब्जिनी विना हंसं कश्च हंसोऽब्जिनीं विना ॥ १०७
इति राज्ञोदिते राज्ञ्यां श्रद्धावत्यामतीव च ।
सा मन्दारवती जज्ञे सद्यो मदनमोहिता । १०८
तस्थौ चित्रपटन्यस्तनिश्चलोत्फुल्ललोचना ।
अधिष्ठितेव सुप्तेव विनिद्रा लिखितेव च । १०९
ततो मन्दारदेवस्तां सुतां दृष्ट्वा तथाविधाम् ।
अङ्गीकृत्यैव तद्दानं स तं दूतमपूजयत् ॥ ११०
अन्येद्युः प्राहिणोत्तं च प्रतिदूतं च स स्वकम् ।
विप्रं कुमारदत्ताख्यं महासेननृपं प्रति ॥ १११
जगाद चोभावपि तौ गत्वा तमलकेश्वरम् ।
मम वाक्यान्महासेनं राजानं वदतं द्रुतम्। ११२
सौहार्देन मया तावत्कन्या दत्ता तदुच्यताम् ।
त्वत्पुत्रः किमिहायातु किं कन्यात्र प्रहीयताम् ॥ ११३
इति राज्ञोक्तसंदेशौ ततः प्रवहणेन तौ ।
सह प्रययतुर्दूतावब्धिमार्गेण सत्वरम् ॥ ११४
शशाङ्कपुरमासाद्य ततः स्थलपथेन तौ ।
प्रापतुस्तां पुरीमृद्धामलकामलकामिव । ११५
उपेत्य राजसद्माथ प्रविश्य च यथोचितम् ।
कृतादरं महासेनं राजानं तावपश्यताम् । ११६
तं च मन्दारदेवोक्तं प्रतिसंदेशमूचतुः ।
राज्ञे तस्मै स च श्रुत्वा तुष्टस्तौ द्वावपूजयत् । ११७
पृष्ट्वा च कन्याजन्मर्क्षं तस्मात्तत्पितृदूततः ।
लग्नं विवाहे पप्रच्छ सूनोः स गणकान्नृपः ॥ ११८
ते च मासत्रये शुक्लपञ्चम्यां मासि कार्तिके ।
लग्नं तस्मै वदन्ति स्म शुभं वध्वा वरस्य च ॥ ११९
तस्मिंल्लग्ने विवाहं च सूनोश्च प्रेषणं तदा ।
तस्मै मन्दारदेवाय संदिदेशालकापतिः । १२०
हस्ते कुमारदत्तस्य तद्दूतस्यापरस्य च ।
चन्द्रस्वाम्यभिधानस्य स्वस्य लेखेऽभिलिख्य सः ॥ १२१
तौ च दूतौ ततो गत्वा लेखं दत्त्वा तथैव च ।
हंसद्वीपेश्वरस्याग्रे तस्य सर्वं शशंसतुः ॥ १२२
सोऽपि राजा तथेत्युक्त्वा चन्द्रस्वामिनमर्चतम् ।
व्यसृजत्तं महासेनदूतं स्वस्वामिनोऽन्तिकम् ॥ १२३
प्रत्यागतेऽलकां तस्मिन्नुक्तकार्यविनिश्चये ।
लग्नप्रतीक्षास्ते तस्थुः सर्वेऽप्युभयपक्षयोः ॥ १२४
तावच्च हंसद्वीपे सा प्राक्चित्रपटदर्शनात् ।
जातानुरागा मन्दारवती तं चिरभाविनम् ॥ १२५
विवाहलग्नं बुद्ध्वा तं तावत्कालक्रमासहा।
प्रेयस्यत्युत्सुका गाढं संतेपे मदनाग्निना । १२६
अङ्गारवर्षमङ्गे च चन्दनैरपि लेपनम् ।
पद्मिनीपत्रशय्यापि संतप्तसिकतास्तरः ॥ १२७
दीप्तदावानलशिखाः सुधांशोरपि रश्मयः ।
तस्याः सुन्दरसेनोत्कचेतसो बत जज्ञिरे ॥ १२८
मौनस्था वर्जिताहारा विरहव्रतमाश्रिता ।
आकुलाप्तसखीपृष्टा कृच्छ्रादेवमुवाच सा । १२९
सखि दूरे विवाहो मे न च शक्नोमि तं विना ।
वरं प्रतीक्षितुं कालमलकाधिपते: सुतम् ॥ १३०
दूरो देशश्च कालश्च विचित्रा च गतिर्विधेः ।
तदत्र मध्ये को वेति किं कस्येह भविष्यति । १३१
तन्मे मर्तव्यमेवेति वदन्ती विरहातुरा ।
जगाम मन्दारवती सद्यः सा विषमां दशाम् ॥ १३२
तद्बुद्ध्वा तत्सखीवक्त्रात्तां च दृष्ट्वा तथाविधाम् ।
सभार्यो मंत्रयामास तत्पिता सह मन्त्रिभिः ॥ १३३
राजा स मित्रमस्माकं महासेनोऽलकापतिः ।
एषा च मन्दारवती कालं सोढुमिहाक्षमा । १३४
तत्का त्रपा यथा चास्तु तत्रैव प्रेष्यतामियम् ।
कान्तान्तिकस्था धृत्या हि कालक्षेपं सहिष्यते ॥ १३५
इत्यालोच्य समाश्वास्य तां मन्दारवतीं सुताम् ।
आरोप्य च प्रवहणे सधनां सपरिच्छदाम् ।। १३६
शुभेऽहनि ततो हंसद्वीपादम्बुधिवर्त्मना ।
विवाहहेतोर्विधिवज्जननीकृतमङ्गलाम् ।। १३७
विनीतमतिनामानं सह दत्त्वा स्वमन्त्रिणम् ।
राजा मन्दारदेवोऽसौ विससर्जालकां प्रति ।। १३८
ततो दिनानि कतिचिद्यावत्प्रवहणेन सा ।
प्रयाति मन्दारवती राजपुत्री महोदधौ ।। १३९
अकस्मात्तावदुत्तस्थौ गर्जञ्जलदतस्करः ।
सशूत्कारमरुद्घोरमुक्तधाराशरोत्करः ।। १४०
क्षणाच्च दूरमाकृष्य विधिनेव बलीयसा ।
वातेन तस्या वहनं हन्यमानमभज्यत ।। १४१
मग्ने तस्मिन्परीवारे विनीतमतिना सह ।
ममज्ज तस्याः सकलं भाण्डागारं महोदधौ ।। १४२
सा त्वब्धिना राजपुत्री जीवन्त्येवोर्मिबाहुना ।
उत्क्षिप्य नीत्वा निकटे क्षिप्ता वेलावने तदा ।। १४३
क्वाब्धौ पातः क्व चात्युच्चेनोर्मिणा प्रापणं वने ।
भवितव्यस्य नासाध्यं दृश्यते बत दृश्यताम् ।। १४४
ततः सा तादृशी त्रस्तविह्वला विजने वने ।
दृष्ट्वैकाकिनमात्मानं दुःखाब्धावपतत्पुनः ।। १४५
क्व प्रस्थितास्मि क्व प्राप्ता क्व च मे स परिच्छदः ।
क्व विनीतमतिर्वृत्तमकस्मात्किमिदं मम ।। १४६
मन्दभाग्या क्व गच्छामि हा हतास्मि करोमि किम् ।
उत्तारिता हतविधे किमहं जलधेस्त्वया ।। १४७
हा तात हाम्ब हा हार्यपुत्र पुत्रालकापतेः ।
त्वामप्राप्य विपद्येऽहं पश्य किं त्रायसे न माम् ।। १४८
इत्यादि विलपन्ती च सा मन्दारवती भृशम् ।
प्ररुरोदाश्रुभिश्छिन्नहारमुक्ताफलोपमैः ।। १४९
तावच्च नातिदूरस्थात्तत्राश्रमपदान्मुनिः ।
आजगाम मतङ्गाख्यः स्नातुं जलनिधेर्जले ।। १५०
स बालब्रह्मचारिण्या दुहित्रा यमुनाख्यया ।
अन्वितस्तमृषिस्तस्याः शुश्राव रुदितध्वनिम् ।। १५१
उपेत्य कृपया तां च ददर्श तनयायुतः ।
यूथभ्रष्टामिव मृगीं दिक्षु क्षिप्तार्तलोचनाम् ।। १५२
का त्वं वनेऽत्र ते प्राप्तिः कथं कस्माच्च रोदिषि ।
इति तां च स पप्रच्छ महर्षिः स्निग्धया गिरा ।। १५३
ततस्तं सकृपं दृष्ट्वा सा मन्दारवती शनैः ।
आश्वास्याकथयत्तस्मै स्ववृत्तान्तं त्रपानता ।। १५४
अथ स प्रणिधायैतां मतङ्गमुनिरब्रवीत् ।
राजपुत्रि विषादेन कृतं धृतिमवाप्नुहि ।। १५५
शिरीषपेशलाङ्गीं त्वां बाधते क्लेशविप्लवः ।
अपेक्षन्ते हि विपदः किं पेलवमपेलवम् ।। १५६
भवती त्वचिरादेव पतिं प्राप्स्यत्यभीप्सितम् ।
तदागच्छाश्रमं तावन्नातिदूरमितो मम ।। १५७
तत्रानया मत्सुतया सहास्स्व स्वगृहे यथा ।
........ .... ।। १५८
इति तां स समाश्वास्य कृत्वा स्नानं महामुनिः ।
निनाय मन्दारवतीमाश्रमं स्वं सुतान्वितः ।। १५९
तत्र सा संयता तस्थौ भर्तृसंगमकाङ्क्षिणी ।
परिचर्याविनोदेन तस्यर्षेस्तत्सुतान्विता ।। १६०
अत्रान्तरे चालकायां दिनानि गणयन्सदा ।
तस्यां स मन्दारवतीविवाहदिवसोन्मुखः ।। १६१
कालं सुन्दरसेनोऽपि चिरोत्कण्ठाकृशो नयन् ।
आसीदाश्वास्यमानः स्वैर्मित्त्रैश्चण्डप्रभादिभिः ।। १६२
क्रमाच्च लग्नदिवसे प्रत्यासन्ने पिता नृपः ।
तस्य यात्रासमारम्भं हंसद्वीपं प्रति व्यधात् ।। १६३
शुभेऽह्नि च ततः प्रायात्कृतप्रस्थानमङ्गलः ।
सैन्यैः सुन्दरसेनः क्ष्मा कम्पयन्त नृपात्मजः ।। १६४
गच्छन्क्रमेण च प्राप तुष्टः स्वसचिवान्वितः ।
तीराभरणमम्भोधेः स शशाङ्कपुरं पुरम् ।। १६५
तत्र प्रत्युद्गतो राज्ञा प्रश्रयावनतेन सः ।
बुद्ध्वा महेन्द्रादित्येन प्रविवेशानुगैः सह ।। १६६
वात्यायमानरूपश्रीः पौरस्त्रीपद्मिनीवने ।
समाससाद चारूढवारणो राजमन्दिरम् ।। १६७
तत्रोपचरितस्तेन महेन्द्रादित्यभूभुजा ।
प्रतिपन्नानुयात्रेण स विशश्राम तद्दिनम् ।। १६८
अपि वारिधिमुत्तीर्य तामहं प्राप्नुयां प्रियाम् ।
नवोढासुलभप्रेमलज्जासाध्वसशीलिनीम् ।। १६९
आलिङ्ग्यमानां मा मेति लपन्तीं शृणुयां च ताम् ।
इत्यादिभिरनैषीत्तां यामिनीं स मनोरथैः ।। १७०
प्रातश्चात्रैव नगरे स्थापयित्वा स्वसैनिकम् ।
महेन्द्रादित्यसहितः कूलं वारिनिधेर्ययौ ।। १७१
तत्र तेन सम राज्ञा स्वयं प्रवहणं महत् ।
आरुरोहैकमन्नाम्बुपूर्णं स्वसचिवैर्युतः ।। १७२
द्वितीयस्मिन्प्रवहणे राजपुत्रः परिच्छदम् ।
अवश्यनेयं संक्षिप्तं समारोपितवांश्च सः ।। १७३
ततो मुक्ते प्रवहणे चलवातपटध्वजे ।
अभिप्रययतुस्ते द्वे दिशं दक्षिणपश्चिमाम् ।। १७४
द्वित्रेष्वहःसु यातेषु गच्छतोश्चाम्बुधौ तयोः ।
अकस्मादुदभूत्तत्र महानुत्पातमारुतः ।। १७५
अहो वायुरपूर्वोऽयमित्याश्चर्यवशादिव ।
व्याघूर्णन्ते स्म जलधेस्तटेषु वनराजयः ।। १७६
व्यत्यस्ताश्च मुहुर्वातादधरोत्तरतां ययुः ।
वारिधेर्वारिनिचया भावाः कालक्रमादिव ।। १७७
आक्रन्देन समं दत्ते रत्नैरर्घे महाब्धये ।
प्रयत्नेन सहापास्ते कर्णधारैर्मरुत्पटे ।। १७८
मुक्तासु जीविताशाभिः सह सर्वैः ससंभ्रमैः ।
शिलासु शृङ्खलाबद्धास्वतिगुर्वीषु सर्वतः ।। १७९
तरङ्गोत्क्षिप्तविक्षिप्ते नागबन्धैरिवाम्बुधौ ।
प्रभ्रेमतुः प्रवहणे प्रयुद्ध इव ते उभे ।। १८०
ततः सुन्दरसेनस्तद्दृष्ट्वा धैर्यादिवासनात् ।
चलितस्तमुवाचेदं महेन्द्रादित्यभूपतिम् ।। १८१
ममापुण्यैरकाण्डे वः प्रलयोऽयमुपस्थितः ।
तन्न शक्नोम्यहं द्रष्टुं क्षिपाम्यात्मानमम्बुधौ ।। १८२
इत्युक्त्वा स्वोत्तरीयेण बद्ध्वा परिकरं द्रुतम् ।
स राजपुत्रो जलधौ तत्रात्मानमपातयत् ।। १८३
तद्दृष्ट्वा तद्वयस्यास्ते पञ्च चण्डप्रभादयः ।
महेन्द्रादित्यसहितास्तत्रैवात्मानमक्षिपन् ।। १८४
बाहुभ्यां च तरन्तस्ते नदीनां गतसंभ्रमाः ।
सर्वेऽपीतस्ततो जग्मुर्विक्षिप्ता वीचिवेगतः ।। १८५
क्षणाच्च शान्ते पवने निःशब्दस्तिमितोऽम्बुधिः ।
ददौ प्रशान्तकोपस्य सज्जनस्य समानताम् ।। १८६
तावच्च वातेन कुतोऽप्यानीतां यानपात्रिकाम् ।
प्राप सुन्दरसेनोऽत्र सहितो दृढबुद्धिना ।। १८७
तामारुरोह चैकेन समं तेन स्वमन्त्रिणा ।
स जीवितप्रमययोरन्तर्दोलामिवापराम् ।। १८८
ततो दिशमजानानः पयोमयमिवाखिलम् ।
प्रभ्रष्टपौरुषः पश्यन्देवताशरणस्तदा ।। १८९
नावा मन्दानुकूलेन दैवेनेव नभस्वता ।
संप्रेर्यमाणया तीरं प्रापितोऽभूत्त्रिभिर्दिनैः ।। १९०
ततस्तीरविलग्नायां तस्यामात्मद्वितीयकः ।
स्थलं च जीविताशां च सममध्यारुरोह सः ।। १९१
तत्रस्थश्च समाश्वस्य दृढबुद्धिमभाषत ।
उत्तीर्णोऽप्यम्बुधेरस्मि पातालादप्यधो गतः ।। १९२
यतो विक्रमशक्तिं तं तं च व्याघ्रपराक्रमम् ।
चण्डप्रभं भीमभुजं सचिवांस्तांस्तथाविधान् ।। १९३
महेन्द्रादित्यनृपतिं तं चाकारणबान्धवम् ।
विनाश्य सर्वानधुना का शोभा जीवितेन मे ।। १९४
इत्युक्तवन्तं तं मन्त्री दृढबुद्धिर्जगाद सः ।
देव धैर्यं गृहाण त्वं जाने कल्याणमस्ति नः ।। १९५
यथा ह्यावां तथा तेऽपि तरेयुर्जातु वारिधिम् ।
शक्या हि केन निश्चेतुं दुर्ज्ञाना नियतेर्गतिः ।। १९६
इत्यादि तत्तद्यावत्तं दृढबुद्धिर्ब्रवीति सः ।
तावदाजग्मतुस्तत्र स्नानार्थं तापसावुभौ ।। १९७
तौ विलोक्य विषण्णं तं राजपुत्रमुपेत्य च ।
परिपृच्छ्य च वृत्तान्तं साधू सदयमूचतुः ।। १९८
सुमते नान्यथाभावं बलिनः पूर्वकर्मणः ।
अपि देवा क्षमाः कर्तुं सुखदुःखप्रदायिनः ।। १९९
हातुमिच्छन्नतो दुःखं धीरः सुकृतमाचरेत् ।
सा हि प्रतिक्रिया तस्य न शोकः शातनस्तनोः ।। २००
तद्विषादं जहीहि त्वं शरीरं रक्ष धैर्यतः ।
शरीरे सति को नाम पुरुषार्थो न सिद्ध्यति ।। २०१
कल्याणलक्षणश्चासि भाव्यवश्यं शुभं तव ।
इत्युक्त्वा तौ समाश्वास्य निन्यतुः स्वाश्रयं मुनी ।। २०२
तत्र कांश्चिच्च दिवसान्प्रतीक्षन्स नृपात्मजः ।
तस्थौ सुन्दरसेनोऽथ दृढबुद्धिसमन्वितः ।। २०३
अत्रान्तरे च तन्मन्त्री दोर्भ्यां भीमभुजोऽम्बुधिम् ।
तीर्त्वा विक्रमशक्तिश्च द्वौ- पृथक्प्रापतुस्तटम् ।। २०४
अस्मद्वदुत्तरेज्जातु सोऽपीत्याशावशाच्च तौ ।
महाटवीं विविशतुश्चिन्वानौ दुःखमोहितौ ।। २०५
शेषौ तत्सचिवौ चण्डप्रभव्याघ्रपराक्रमौ ।
राजा महेन्द्रादित्यश्च तथैवोत्तीर्य वारिधिम् ।। २०६
आर्ताः सुन्दरसेनं तमन्विष्याप्राप्य दुःखिताः ।
अलब्धभग्नवहनास्तच्छशाङ्कपुरं ययुः ।। २०७
ततस्तौ मन्त्रिणौ तत्र तच्च प्राक्स्थापितं बलम् ।
रुदन्तो ज्ञातवृत्तान्ता ययुः स्वामलकां पुरीम् ।। २०८
प्राप्तेष्वराजतनयेष्वनुशोचत्सु तेषु सा ।
आक्रन्दैकमयी जज्ञे पुरी प्ररुदितप्रजा ।। २०९
महासेननृपश्चात्र सदेवीको निशम्य तत् ।
सुतोदन्तं न यत्प्राणैर्जहे तद्बलमायुषः ।। २१०
देहत्यागोद्यतं तं च सदेवीकं न्यवारयन् ।
सचिवा वचनैस्तैस्तैर्दर्शिताशोपपत्तिभिः ।। २११
ततः स नगरीबाह्ये स्वयंभ्वायतने नृपः ।
सूनोः प्रवृत्तिं चिन्वानस्तपस्यन्नास्त सानुगः ।। २१२
तावन्मन्दारदेवोऽपि हंसद्वीपे स भूपतिः ।
जामातुर्दुहितुश्चाब्धिपातोदन्तमबुध्यत ।। २१३
शुश्राव चालकाप्राप्तं जामातृसचिवद्वयम् ।
महासेननृपं चास्थाधृतप्राणं तपःस्थितम् ।। २१४
ततः सोऽपि सुताशोककातरो मरणोद्यमात् ।
वारितो मन्त्रिभिस्तैस्तैस्तेषु न्यस्तभरो नृपः ।। २१५
महासेननृपस्यागात्पार्श्वं तस्यालकां पुरीम् ।
समदुःखस्य सहितो देव्या कंदर्पसेनया ।। २१६
यद्विज्ञातसुतोदन्तनिश्चयः स करिष्यति ।
तदेवाह समं तेन करिष्यामीति निश्चितः ।। २१७
विज्ञातमन्दारवतीवृत्तान्ताधिकदुःखिना ।
महासेनावनीशेन समागम्यान्वशोचत ।। २१८
तेनैव सह तत्रासीत्तपस्यन्नियतेन्द्रियः ।
मिताशी दर्भशयनो हंसद्वीपेश्वरोऽपि सः ।। २१९
एवं धात्रा विकीर्णेषु तेषु सर्वेष्वितस्ततः ।
मारुतेनेव पर्णेषु प्रस्थाय स्वाश्रमात्ततः ।। २२०
दैवात्सुन्दरसेनोऽत्र मतङ्गर्ष्याश्रमस्य सः ।
तस्य प्रापान्तिकं यत्र सा मन्दारवती स्थिता ।। २२१
तत्र नानारसानेकपरिपक्वफलानतैः ।
निरुद्धतीरं तरुभिर्ददर्शाच्छजलं सरः ।। २२२
श्रान्तस्तस्मिन्कृतस्नानो भुक्तस्वादुफलस्ततः ।
दृढबुद्धिसखो गत्वा प्रापैकां वननिम्नगाम् ।। २२३
तस्यास्तीरेण गच्छंश्च लिङ्गायतनपार्श्वतः ।
स पुष्पावचयव्यग्रा दृष्टवान्मुनिकन्यकाः ।। २२४
तासां मध्ये ददर्शैकां कन्यां लोकैकसुन्दरीम् ।
कान्त्या प्रकाशयन्तीं तज्ज्योत्स्नयेवाखिलं वनम् ।। २२५
विलोकितेन कुर्वाणां फुल्लनीलोत्पला दिशः ।
तन्वतीं चरणन्यासैरवनौ नलिनीवनम् ।। २२६
केयं सहस्रनयनप्रेक्षणीया किमप्सराः ।
वनश्रीरथवा पुष्पलग्नाग्रकरपल्लवा ।। २२७
बहु दिव्याङ्गनासर्गसिद्धाभ्यासेन वेधसा ।
एतस्या निर्मितमिदं नूनमत्यद्भुतं वपुः ।। २२८
तस्याश्चानुहरत्येषा चित्रदृष्टाकृतेरहो ।
प्रियाया मम मन्दारवत्याः सैव भवेन्नु किम् ।। २२९
कथं वैतत्क्व सा हंसद्वीपे क्वैतद्वनान्तरम् ।
तन्न जानीमहे केयं कुतः कुत्रेह भामिनी ।। २३०
इति राजसुतस्तं च दृढबुद्धिं जगाद सः ।
दृढबुद्धिश्च दृष्ट्वा तां वरकन्यां तदाब्रवीत् ।। २३१
अन्यैव देव काप्यस्या वनपुष्पमयेष्वपि ।
हारकाञ्चीकलापादिभङ्गिराभरणेष्वियम् ।। २३२
न चेदं जायते रूपं सौकुमार्यं च कानने ।
तद्दिव्या राजकन्या वा काप्येषा नर्षिकन्यका ।। २३३
उत्तिष्ठावः क्षणं ज्ञातुमिहेति दृढबुद्धिना ।
उक्ते तौ तस्थतुस्तत्र पादपान्तरितावुभौ ।। २३४
तावच्चोच्चितपुष्पास्ता मुनिकन्यास्तया सह ।
वरकन्यकया स्नातुं सरितं तामवातरन् ।। २३५
तत्र तासु जलक्रीडाप्रवृत्तासु विधेर्वशात् ।
ग्राहेणागत्य जगृहे सैवात्र वरकन्यका ।। २३६
तद्विलोक्यैव तत्कालं कन्यास्तास्त्रस्तविह्वलाः ।
चक्रन्दुरार्तास्त्रायध्वं त्रायध्वं वनदेवताः ।। २३७
एषा हि मन्दारवती स्नान्ती नद्यामशङ्कितम् ।
ग्राहेणागत्य तरसा गृहीता हा विपद्यते ।। २३८
एतच्छ्रुत्वैव किं सैव स्यात्प्रियेति प्रधाव्य सः ।
द्रुतं सुन्दरसेनस्तं ग्राहं क्षुरिकयावधीत् ।। २३९
मृत्योरिव मुखात्तस्माद्द्रुतमुत्क्षिप्य रोधसि ।
आश्वासयामास च तां स मन्दारवतीं ततः ।। २४०
सापि तीर्णभया दृष्ट्वा सुभगं तमचिन्तयत् ।
महात्मा प्राणदः कोऽयं मम भाग्यैरिहागतः ।। २४१
चित्रं सुसदृशश्चैष चित्रदृष्टस्य तस्य मे ।
प्राणेशस्यालकानाथतनयस्य सुजन्मनः ।। २४२
अपि नाम स एव स्याद्धिग्धिग्दुश्चिन्तितं मम ।
ईदृशः स विदेशस्थः शान्तं मा भूत्कदाचन ।। २४३
तन्नान्यपुरुषोपान्ते स्थातुं युक्तं ममाधुना ।
व्रजामि तदितः स्वस्ति भवत्वस्मै महात्मने ।। २४४
इति संचिन्त्य मन्दारवती प्राह स्म ताः सखीः ।
प्रणम्यैतं महाभागमेत यामोऽधुना वयम् ।। २४५
तच्छ्रुत्वा बहुसाधारो नामश्रवणमात्रतः ।
प्रागनुच्छिन्नसंदेहो राजपुत्रः स तत्सखीम् ।। २४६
एकां सुन्दरसेनोऽत्र पप्रच्छाख्यायतां शुभे ।
कस्यात्मजा कीदृशीयं सखी वः कौतुकं हि मे ।। २४७
इति तं पृष्टवन्तं सा मुनिकन्यैवमभ्यधात् ।
राज्ञो मन्दारदेवस्य हंसद्वीपपतेरियम् ।। २४८
सुता मन्दारवत्याख्या कुमारी राजसूनवे ।
दातुं सुन्दरसेनाय नीयमानालकां पुरीम् ।। २४९
भग्नप्रवहणाम्भोधावुत्क्षिप्ता वीचिभिस्तटे ।
आनीतेह किल प्राप्य मतङ्गमुनिनाश्रमम् ।। २५०
एवमुक्ते तया हर्षविषादाकुलितं सखा ।
नृत्यन्सुन्दरसेनं त दृढबुद्धिरुवाच सः ।। २५१
दिष्ट्याद्य मन्दारवती देवीलाभेन वर्धसे ।
सैवैषा हि न यास्माकं मनोरथपथेऽप्यभूत् ।। २५२
इत्युक्त्वा सा सखी तस्याः पृच्छन्तीर्मुनिकन्यकाः ।
अबोधयत्तं वृत्तान्तं ताः सखीं तामनन्दयन् ।। २५३
ततः सुन्दरसेनस्य हार्यपुत्रेत्युदीर्य सा ।
पपात मन्दारवती रुदती तस्य पादयोः ।। २५४
सोऽप्याश्लिष्य रुरोदैतां रुदतोस्तत्र चैतयोः ।
अरुदन्करुणार्द्राणि काष्ठान्यपि तृणान्यपि ।। २५५
गत्वाथ मुनिकन्याभिस्ताभिः स श्रावितो द्रुतम् ।
आजगाम मुनिस्तत्र मतङ्गो यमुनान्वितः ।। २५६
सोऽत्र सुन्दरसेनं तमाश्वास्य चरणानतम् ।
मन्दारवत्या सहितं निनाय निजमाश्रमम् ।। २५७
तदहश्च तदातिथ्यविश्रान्तं जातनिर्वृतिम् ।
अन्येद्युः स तमाह स्म राजपुत्रं महामुनिः ।। २५८
श्वेतद्वीपे मया पुत्र गन्तव्यं कार्यतोऽधुना ।
तन्मन्दारवतीयुक्तो गच्छ त्वमलकां प्रति ।। २५९
तत्र राजसुतामेतां परिणीयानुपालयेः ।
सुतेति प्रतिपन्ना हि तुभ्यमेषा मयार्पिता ।। २६०
सुचिरं चानया सार्धं पृथ्वीराज्यं करिष्यसि ।
सचिवांश्च निजान्सर्वानचिरात्तानवाप्स्यसि ।। २६१
इत्युक्त्वा सवधूकं तमामन्त्र्य नभसा ययौ ।
मुनिर्यमुनया साकं दुहित्रा स स्वतुल्यया ।। २६२
ततः सुन्दरसेनोऽपि स मन्दारवतीयुतः ।
दृढबुद्धिसहायश्च प्रोच्चचालाश्रमात्ततः ।। २६३
प्राप्य वारिनिधेस्तीरं ददर्श निकटागतम् ।
केनाप्यधिष्ठितं यूना वणिजा वहनं लघु ।। २६४
ययाचे चाश्रयं तस्मिन्नध्वसौकर्यलोभतः ।
दृढबुद्धिमुखेनारात्तत्पतिं तं वणिक्सुतम् ।। २६५
सोऽपि तीरे तथेत्यस्य वहनं तदढौकयत् ।
तां मन्दारवतीं पश्यन्कुवणिक्स्मरमोहितः ।। २६६
ततः सुन्दरसेनोऽत्र तामारोप्याग्रतः प्रियाम् ।
तटस्थितः सन्नारोढुमात्मना यावदिच्छति ।। २६७
तावत्स कर्णधारस्य संज्ञां कृत्वा वणिग्द्रुतम् ।
वहनं चालयामास परस्त्रीलोलुभः शठः ।। २६८
क्रन्दद्राजसुतं तच्च क्षणेनादृष्टिगोचरम् ।
अभूत्सुन्दरसेनस्य वहनं तस्य पश्यतः ।। २६९
हा धिक्चौरैः प्रमुषितोऽस्मीत्याक्रन्दन्पपात सः ।
विलपंश्च चिरं सोऽत्र जगदे दृढबुद्धिना ।। २७०
उत्तिष्ठ मुञ्च वैक्लव्यं नायं वीरोचितः क्रमः ।
एहि चौरं तमन्वेष्टुं गच्छावोऽनेन वर्त्मना ।। २७१
आपत्काले च कष्टेऽपि नोत्साहस्त्यज्यते बुधैः ।
.............. ।। २७२
इति प्रबोधितस्तेन कथंचिद्दृढबुद्धिना ।
तीरात्सुन्दरसेनोऽब्धेरुत्थाय प्रस्थितोऽभवत् ।। २७३
गच्छन्क्रमाच्च हा देवि हा मन्दारवतीति सः ।
विलपन्साश्रुरनिशं संतप्तो विरहाग्निना ।। २७४
निराहारः सबाष्पैकदृढबुद्धिपरिच्छदः ।
विवेश सोन्माद इव व्यामोहेन महद्वनम् ।। २७५
न चात्र गणयामास सख्युस्तस्य वचो हितम् ।
तत्र तत्राभ्यधावत्तु केवलं दयितामयः ।। २७६
उन्निद्रपुष्पाभरणा वणिक्चौरात्पलायिता ।
आगता हि प्रिया सा स्यादिति फुल्लासु वल्लिषु ।। २७७
भयात्सरोनिमग्ना किं वदनं पक्ष्मलेक्षणम् ।
उन्नमय्येक्षते सा मामिति चाब्जेषु सालिषु ।। २७८
किं व्याहरति सैषात्र मुग्धा मां मञ्जुभाषिणी ।
इति पत्रलताच्छन्नकोकिलाकूजितेष्वपि ।। २७९
एवं प्रतिपदं मुह्यन्यथार्केण तथेन्दुना ।
ताप्यमानः स बभ्राम तुल्यनक्तंदिनश्चिरम् ।। २८०
कथंचिन्निर्गतस्तस्माद्वनात्सदृढबुद्धिकः ।
राजपुत्रोऽथ स प्राप मार्गभ्रष्टो महाटवीम् ।। २८१
उदग्रखड्गविषमां सिंहाधिष्ठानभीषणाम् ।
सेनामिव सुदुर्दर्शां दस्युसेनानिषेविताम् ।। २०२
तां गाहमानः सुलभानेकापायां निराश्रयाम् ।
दुर्दशामिव स प्रापि पुलिन्दैरुद्यतायुधैः ।। २८३
भगवत्युपहारार्थं चिन्वद्भिः पुरुषान्पशून् ।
विन्ध्यकेतोः पुलिन्देन्द्रस्याज्ञया तन्निवासिनः ।। २८४
विदेशो विरहक्लेशो नीचात्परिभवोऽपि सः ।
अनाहारोऽध्वसंताप इति पञ्चाग्निविप्लवे ।। २८५
असृजद्दस्युसंपातं षष्ठमग्निमहो विधिः ।
राजपुत्रस्य तस्यात्र धैर्यस्यान्तमवेक्षितुम् ।। २८६
स चात्मना द्वितीयस्तान्ग्रहणार्थं प्रधावितान् ।
पृषत्कवर्षिणो दस्यून्बहून्क्षुरिकयावधीत् ।। २८७
तद्बुद्ध्वा प्रैष्यत बलं राज्ञान्यद्विन्ध्यकेतुना ।
ततोऽपि सुबहूंश्चौरान्युद्धज्ञो निजघान सः ।। २८८
ततः स सवयस्योऽपि व्रणितक्लान्तमूर्च्छितः ।
बद्ध्वा कारागृहे नीत्वा शबरैस्तैर्निचिक्षिपे ।। २८९
तत्र कीटोत्कराकीर्णे जालकारालयाविले ।
सूच्यमानाहिसंचारे निर्मोकैर्गर्तलम्बिभिः ।। २९०
गुल्फदघ्नोच्छलद्धूलावाखुखातबिलोल्बणे ।
अन्तःक्षिप्तस्थितानेकभीतापन्नजनाकुले ।। २९१
निरयाणामिवोत्पत्तिधाम्नि द्वौ तावपश्यताम् ।
मन्त्रिणौ तद्वदैवादौ बद्धानीतस्थितावुभौ ।। २९२
यौ तौ प्रविशतां तद्वदटवीं तीर्णवारिधी ।
तमन्वेष्टुं प्रभुं भीमभुजविक्रमशक्तिकौ ।। २९३
तौ रुदन्तौ परिज्ञाय पेततुस्तस्य पादयोः ।
सोऽपि तौ प्रत्यभिज्ञातौ कण्ठे बाष्पाकुलोऽग्रहीत् ।। २९४
ततः शतगुणीभूतदुःखास्तेऽन्योन्यदर्शनात् ।
आश्वासयद्भिरपरैरूचिरे बन्धनस्थितैः ।। २५५
कृतं दुःखेन किं शक्यं पूर्वकर्मातिवर्तितुम् ।
किं न पश्यथ सर्वेषां सह मृत्युमुपस्थितम् ।। २९६
आगामिन्यां चतुर्दश्यां पुलिन्दक्ष्माभृतामुना ।
देव्याः पशूपहारार्थं वयमेते हि संभृताः ।। २९७
तत्किं शुचा गतिश्चित्रा जन्तुषु क्रीडतो विधेः ।
तदभद्रं यथा तद्वद्दद्याद्भद्रं स एव वः ।। २९८
इत्युक्ता बन्धनस्थैस्ते बद्धास्तत्रावतस्थिरे ।
कष्टं निरनुरोधत्वमापदां सुमहत्स्वपि ।। २९९
प्राप्तायां च चतुर्दश्यामत्र राजाज्ञया ततः ।
ते सर्वेऽप्युपहारार्थमनीयन्ताम्बिकागृहम् ।। ३००
दीपज्वालाचलज्जिह्वं घण्टालीदन्तमालया ।
व्यासक्तवीरशिरसा घोरं मृत्युमुखं यथा ।। ३०१
तत्र सुन्दरसेनस्तां दृष्ट्वा देवीं प्रणम्य सः ।
भक्तिप्रह्वेन मनसा स्तुवन्नेवं व्यजिज्ञपत् ।। ३०२
दारितोद्दामदैत्येन त्रिशिखेनास्रवर्षिणा ।
शमितासुरसंतापे प्रणताभयदायिनि ।। ३०३
निर्वापय प्रसन्नेन लोचनेनामृतश्च्युता ।
दृष्ट्वा मां दुःखदावाग्निदग्धं देवि नमोऽस्तु ते ।। ३०४
इति राजसुते तस्मिन्व्याहरत्येव तत्र सः ।
आगात्पूजयितुं देवीं विन्ध्यकेतुः पुलिन्दराट् ३०५
तं दृष्ट्वैव परिज्ञाय भिल्लराजं त्रपानतः ।
स तान्सुन्दरसेनः स्वान्वयस्यान्स्वैरमब्रवीत् ।। ३०६
अहो सैव पुलिन्देन्द्रो विन्ध्यकेतुरुपैति यः ।
तातस्य पार्श्वे सेवार्थं भुङ्क्ते चैतां महाटवीम् ।। ३०७
तद्यदस्तु न वक्तव्यमस्माभिरिह किंचन ।
श्रेयान्हि मानिनो मृत्युर्नेदृगात्मप्रकाशनम् ।। ३०८
इति मन्त्रयते यावत्सखिभिः स नृपात्मजः ।
तावत्स विन्ध्यकेतुः स्वान्राजा भृत्यानभाषत ।। ३०९
अरे प्रदर्शयत तं प्रवीरं मे महापशुम् ।
हताः सुबहवो योधा गृह्यमाणेन येन ये ।। ३१०
तच्छ्रुत्वैव स शुष्कासृग्दिग्धो व्रणितधूसरः ।
तस्य सुन्दरसेनोऽग्रे तद्भृत्यैः प्रापितोऽभवत् ।। ३११
स तं दृष्ट्वा पुलिन्देन्द्रः परिज्ञाय मनागिव ।
ब्रूहि कस्त्वं कुतश्चेति पप्रच्छ परिशङ्कितः ।। ३१२
योऽहं यतः कुरुध्वं यत्प्रस्तुतं किमनेन वः ।
इति सुन्दरसेनोऽपि भिल्लेन्द्रं प्रत्युवाच तम् ।। ३१३
ततस्तं सम्यगालापात्प्रत्यभिज्ञाय संभ्रमात् ।
हा हेति जल्पन्नवनौ विन्ध्यकेतुः पपात सः ।। ३१४
हा महाराज पापेन महासेन मयाधुना ।
पश्य युष्मत्प्रसादानामुचितं कीदृशं कृतम् ।। ३१५
यत्ते प्राणसमः सूनुर्नीतोऽवस्थामिहेदृशीम् ।
देवः सुन्दरसेनोऽयं कुतोऽप्येवमिहागतः ।। ३१६
इत्याद्याश्लिष्य तं राजपुत्रं स व्यलपत्तथा ।
विन्ध्यकेतुर्यथा सर्वेऽप्यत्राभूवन्नुदश्रवः ।। ३१७
एतन्न बहु यत्पूर्वं प्रत्यभिज्ञातवानसि ।
राजपुत्रमिमं पश्चाद्वृत्तेऽर्थे किं व्यधास्यथाः ।। ३१८
तत्को विषादो हर्षेऽस्मिन्नित्याश्वास्यत तैश्च सः ।
हृष्टैः सुन्दरसेनस्य वयस्यैर्भिल्लभूपतिः ।। ३१९
ततश्च पादपतितः स राजा सममानयत् ।
प्रीत्या सुन्दरसेनं तं मोचिताखिलपुंपशुम् ।। ३२०
कृतार्चनश्च नीत्वैनं स्वपल्लीं सवयस्यकम् ।
क्रमादुपाचरत्पथ्यैराबद्धव्रणपट्टिकम् ।। ३२१
पप्रच्छ चेहागमनं राजपुत्र कथं नु ते ।
महत्कौतुकमेतद्धि मम तत्कथ्यतामिति ।। ३२२
ततः सुन्दरसेनेन स्ववृत्तान्तेऽनुवर्णिते ।
चित्रीयमाणचेतास्तं शबरेन्द्रो जगाद सः ।। ३२३
क्व मन्दारवतीहेतोर्यात्रा पातः क्व चाम्बुधौ ।
क्व मतङ्गाश्रमप्राप्तिः क्व तया तत्र संगमः ।। ३२४
क्वापहारश्च वणिजा तस्या विश्वासतः पुनः ।
क्व चाटवीप्रवेशस्ते कोपहाराय बन्धनम् ।। ३२५
क्व चास्माभिः प्रत्यभिज्ञा मृत्योरास्याच्च निर्गमः ।
विचित्रविधये तस्मै सर्वथा विधये नमः ।। ३२६
तन्न कार्या त्वया चिन्ता कान्तां प्रति यतो विधिः ।
यथेदमकरोत्कर्ता तथैतदपि ते द्रुतम् ।। ३२७
इति वादिनमेवैतं पुलिन्देन्द्रं द्रुतागतः ।
निजसेनापतिः प्रीतः प्रविश्यैवं व्यजिज्ञपत् ।। ३२८
देवादाय धनं भूरि स्त्रीरत्नं चातिरूपवत् ।
प्रविष्टः सानुगजनः कोऽप्येतामटवीं वणिक् ।। ३२९
स च बुद्ध्वा मया गत्वा सबलेन सहानुगः ।
वष्टभ्य सधनस्त्रीक इहानीतो बहिः स्थितः ।। ३३०
तच्छ्रुत्वा किं वणिक्स स्यात्सा मन्दारवती च किम् ।
इति सुन्दरसेनोऽन्तर्विन्ध्यकेतुश्च दध्यतुः ।। ३३१
प्रवेश्यतामिहैवासौ स्त्री चेत्युक्तवतोस्तयोः ।
प्रावेशयच्चमूपस्तं वणिजं तां च योषितम् ।। ३३२
ततो दृष्ट्वैव तौ सोऽत्र दृढबुद्धिरभाषत ।
सैव मन्दारवत्येषा देवी सैष च दुर्वणिक् ।। ३३३
हा देवि घर्मदग्धेव लतावस्थामिमां कथम् ।
गतास्यपुष्पाभरणा विशुष्काधरपल्लवा ।। ३३४
इति क्रन्दति तस्मिंश्च दृढबुद्धौ प्रधाव्य सः ।
प्रियां सुन्दरसेनस्तां कण्ठे सरभसोऽग्रहीत् ।। ३३५
ततो विरहमालिन्यमश्रुधाराजलेन तौ ।
क्षालयन्ताविवान्योन्यं प्रियौ रुरुदतुश्चिरम् ।। ३३६
अथोभौ तौ समाश्वास्य विन्ध्यकेतुरुवाच तम् ।
वणिजं किं त्वया दारा विश्वस्तस्य हृता इति ।। ३३७
ततो जगाद स वणिग्भयगद्गया गिरा ।
वृथा मयेदं नाशाय कृतमेषा तु रक्षिता ।। ३३८
निजेनाधर्षणीयेन महसैव मनस्विनी ।
वह्निज्वालेव न स्प्रष्टुमप्यसौ शकिता मया ।। ३३९
किं च नीत्वा निजं देशं शान्तमन्युः प्रसादिता ।
परिणेतुमभिप्रेता पापस्याभूदियं मम ।। ३४०
इत्युक्तवन्तमादिष्टवधं तेनात्र भूभुजा ।
सोऽथ सुन्दरसेनस्तं ररक्ष वणिजं वधात् ।। ३४१
प्राणाधिकं तु तत्तस्य धनोद्रेकमहारयत् ।
दिने दिने म्रियन्ते हि गतार्था न गतासवः ।। ३४२
एवं सुन्दरसेनेन तस्मिन्वणिजि मोचिते ।
प्राणलाभेन संतुष्टे यथेच्छं कृपणे गते ।। ३४३
स विन्ध्यकेतुरादाय तां मन्दारवतीं नृपः ।
युक्तां सुन्दरसेनेन स्वदेवीमन्दिरं ययौ ।। ३४४
तत्रादिश्य स देवीं तां स्नानवस्त्रानुलेपनैः ।
संमान्य मन्दारवतीं तद्वत्स्नातमलंकृतम् ।। ३४५
स्वयं सुन्दरसेनं तमुपवेश्य वरासने ।
प्राभृतैरर्चयामास मुक्तामृगमदादिभिः ।। ३४६
चक्रे तयोश्च दंपत्योः संगमाद्भृशमुत्सवम् ।
स राजा मुदिताशेषप्रनृत्तशबराङ्गनम् ।। ३४७
अथ सुन्दरसेनस्तमन्येद्युर्नृपमभ्यधात् ।
रूढं व्रणैर्मे सिद्धं च यथेष्टं तदितोऽधुना ।। ३४८
यामो वयं स्वनगरीं ताताय प्रेषयाशु तत् ।
लेखहारं सवृत्तान्तं मदागमनशंसिनम् ।। ३४९
इत्युक्तो राजपुत्रेण स तेन शबरेश्वरः ।
तथैव दत्तसंदेशं लेखहारं विसृष्टवान् ।। ३५०
स लेखहारको यावत्तां प्राप्नोत्यलकां पुरीम् ।
तावत्तत्र महासेनः सदेवीकः स भूपतिः ।। ३५१
तस्य सुन्दरसेनस्य प्रवृत्त्यज्ञानदुःखितः ।
अग्निप्रवेशायोद्युक्तः शंकरायतनाग्रतः ।। ३५२
अभूत्किलानुशोचद्भिः पौरैः परिवृतोऽखिलैः ।
....................... . ।। ३५३
तं दृष्ट्वा स महासेनं नृपतिं लेखहारकः ।
उपाजगाम शबरो धावन्नावेदितात्मकः ।। ३५४
धूलीलिप्तो धनुष्पाणिर्लतात्वग्बद्धमूर्धजः ।
श्यामः कटीनिवसनं बिल्वपत्त्रमयं दधत् ।। ३५५
दिष्ट्याद्य वर्धसे देव यन्मन्दारवतीयुतः ।
पुत्रः सुन्दरसेनस्ते निस्तीर्याम्भोधिमागतः ।। ३५६
अस्मत्प्रभोर्विन्ध्यकेतोः स हि प्राप्यान्तिकं प्रभो ।
तेनैव साकमागन्तुं प्रवृत्तः प्रेष्य मां पुरः ।। ३५७
इत्युदीर्य च तस्यात्र राज्ञः पादान्तिके न्यधात् ।
लेखं स भिल्लभूपाललेखहारो हरञ्शुचम् ।। ३५८
ततो हृष्टैर्जनैः सर्वैः कृते कलकलारवे ।
लेखे च वाचिते ज्ञाते यथावृत्ते महाद्भुते ।। ३५९
सत्कृत्य लेखहारं स त्यक्तशोकः कृतोत्सवः ।
राजधानीं महासेननृपः सर्वैः सहाविशत् ।। ३६०
उत्सुकश्च ततोऽन्येद्युः सूनोस्तस्यागमिष्यतः ।
अग्रतो भवितुं प्रायाद्धंसद्वीपेश्वरान्वितः ।। ३६१
चचाल चतुरङ्गं च बलं तस्यामितं तथा ।
असह्यमर्दभीतेव चकम्पे वसुधा यथा ।। ३६२
तावत्सुन्दरसेनोऽपि स्वगृहाभिमुखं ततः ।
प्रतस्थे भिल्लपल्लीतः स मन्दारवतीसखः ।। ३६३
बन्धनागारलब्धेन तेन विक्रमशक्तिना ।
सख्या भीमभुजेनापि युक्तः सदृढबुद्धिकः ।। ३६४
वातरंहोहयारूढः सहितो विन्ध्यकेतुना ।
पुलिन्दसैन्यैः पृथिवीं तन्मयीमिव दर्शयन् ।। ३६५
गच्छन्कतिपयैरेव दिनैर्मार्गे ददर्श तम् ।
पितरं संमुखायातं सपरिच्छदबान्धवम् ।। ३६६
ततोऽवरुह्य तुरगात्सानन्दैर्वीक्षितो जनैः ।
उपेत्य पादयोस्तस्य सवयस्योऽपतत्पितुः ।। ३६७
सोऽपि तं पुत्रमालोक्य राकाचन्द्रमिवोदधिः ।
आत्मन्येव न माति स्म हर्षोल्लासतरङ्गितः ।। ३६८
दृष्ट्वा च मन्दारवती तां पादावनतां स्नुषाम् ।
आत्मानं कृतिनं मेने कुलं चैव ननन्द च ।। ३६९
तांश्च त्रीन्दृढबुद्ध्यादीन्प्रणतान्पुत्रमन्त्रिणः ।
ततोऽधिकं सोऽभ्यनन्दद्विन्ध्यकेतुं च तं नृपः ।। ३७०
अथ सुन्दरसेनोऽपि पित्रा तेन निवेदितम् ।
नत्वा मन्दारदेवं तं श्वशुरं मुमुदे परम् ।। ३७१
तौ च पूर्वागतौ चण्डप्रभव्याघ्रपराक्रमौ ।
दृष्ट्वाङ्घ्रिलग्नौ सचिवौ पूर्णान्मेने मनोरथान् ।। ३७२
तत्क्षणं चात्र सोऽप्यागान्महेन्द्रादित्यभूपतिः ।
शशाङ्कपुरतः प्रीत्या श्रुतवृत्तान्तहर्षुलः ।। ३७३
अथ तैः समं समग्रैः सुन्दरसेनः स राजसुतः ।
नडकूबर इव रम्भां मन्दारवतीं वहन्दयिताम् ।। ३७४
अलकापुरीमयासीन्निजवसतिं वाहनोत्तमारूढः ।
सकलसमृद्धिनिकेतनभूमिं भूयिष्ठपुण्यजनाम् ।। ३७५
तस्यां च वातायनसंश्रिताभिर्नेत्रोत्पलैः पौरजनाङ्गनाभिः ।
आकीर्यमाणः प्रियया समेतः स राजधानीं स्वपितुर्विवेश ।। ३७६
आनन्दबाष्पाकुललोचनायाः प्रणम्य मातुश्चरणौ च तत्र ।
स राजपुत्रोऽखिलबन्धुभृत्यबद्धोत्सवं तं दिवसं निनाय ।। ३७७
अथापरेद्युर्गणकोपदिष्टे लग्ने स तस्याश्चिरकाङ्क्षितं तम् ।
जग्राह पाणिं जनकार्पिताया मन्दारवत्या नरनाथसूनुः ।। ३७८
ददौ च तस्मै श्वशुरो महार्घाण्यपुत्रको मन्दरदेवभूपः ।
रत्नानि भूयांसि निजं च राज्यं प्रीतः स्वदेहोत्तरकालभावि ।। ३७९
चकार चेच्छाविभवानुरूपं पिता महासेननृपश्च तस्य ।
अदुग्धगुं मोचितबन्धनस्थं महोत्सवं वृष्टहिरण्यवस्त्रम् ।। ३८०
दृष्ट्वाथ मन्दारवतीसमागमात्कृतार्थतां सुन्दरसेनमागतम् ।
प्रमोदमासेव्य च तद्विवाहजं प्रगीतनृत्यन्निखिलाङ्गनागणम् ।। ३८१
ययौ महासेनमहीभृतार्चितः स्वमण्डलं मन्दरदेवभूपतिः ।
शशाङ्कपूर्वं च पुरं स पार्थिवः स विन्ध्यकेतुश्च महाटवीपतिः ।। ३८२
ततोऽत्र यातेषु दिनेषु सद्गुणं प्रजाप्रियं सुन्दरसेनमात्मजम् ।
अवेक्ष्य राज्ये च निवेश्य तं निजे वनं महासेननृपो जगाम सः ।। ३८३
संप्राप्य राज्यमथ सुन्दरसेनदेवः सोऽपि स्वबाहुबलनिर्जितवैरिवर्गः ।
तैर्मन्त्रिभिः सह महीमखिलां शशास मन्दारवत्यधिगमप्रसरत्प्रमोदः ।। ३८४
इति तत्र सरस्तीरे व्याख्याय कथां मृगाङ्कदत्ताय ।
स व्याघ्रसेननामा सचिवो निजगाद तं भूयः ।। ३८५
एतत्स कण्वो मुनिराश्रमान्तः कथाद्भुतं वर्णितवान्प्रभो नः ।
कथावसाने च दयालुरस्मानाश्वासयन्नेवमसाववोचत् ।। ३८६
तत्पुत्रकाः सुविषमाणि दुरुत्तराणि कृच्छ्राणि धीरहृदयाः किल ये सहन्ते ।
ते प्राप्नुवन्ति परमित्थमभीप्सितानि नान्ये तु ये गलितसत्त्वविलुप्तचेष्टाः ।। ३८७
तस्मादिमां त्यजत विक्लवतां प्रयात युष्माकमप्यधिपतिः स मृगाङ्कदत्तः ।
संप्राप्तसर्वसचिवः सुचिरं पृथिव्यां राज्यं करिष्यति समेत्य शशाङ्कवत्या ।। ३८८
इति तेन वयं महर्षिणोक्ता धृतिमालम्ब्य निशां च तत्र नीत्वा ।
चलितास्तत आश्रमादवाप्ताः क्रमशः काननमेतदध्वखिन्नाः ।। ३८९
इह चातितृषा क्षुधा च तप्ताः फलहेतोर्गणनाथवृक्षमेतम् ।
अधिरुह्य फलत्वमेव यातास्तपसा देव तवाद्य मोचिताः स्मः ।। ३९०
इत्यस्माकं नागशापोपनीतो वृत्तान्तोऽयं त्वद्वियोगे चतुर्णाम् ।
क्षीणे शापे चाधुनास्माभिरेतैर्युक्तः सर्वैः कार्यसिद्ध्यै प्रयाहि ।। ३९१
एतन्मृगाङ्कदत्तो निजसचिवाद्व्याघ्रसेनतः श्रुत्वा ।
लाभे शशाङ्कवत्या लब्धधृतिस्तां निशामनयत् ।। ३९२
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बके चतुस्त्रिंशस्तरङ्गः ।