कथासरित्सागरः/लम्बकः १२/तरङ्गः ०२

विकिस्रोतः तः
Jump to navigation Jump to search

ततस्तां नूतनां प्राप्य भार्यां ललितलोचनाम्।
नरवाहनदत्तः स तस्मिन्मलयपर्वते॥ १
मधुप्रवृत्तिसुभगे विजहार तया सह।
तेषु तेषु वनान्तेषु पुष्पितद्रुमशोभिषु॥ २
एकस्मिंश्चव वने क्रीडाकुसुमावचयक्रमात्।
तस्यां प्रियायां गहने गतायां दृष्टिगोचरात्॥ ३
संचरन्स ददर्शैकं महदच्छजलं सरः।
सतारकमिवाकाशं पुष्पैस्तीरतरुच्युतैः॥ ४
पुष्पाण्युच्चिन्वती यावन्न समभ्येति सा प्रिया।
तावत्स्नात्वा सरस्यस्मिन्क्षणमासे सरस्तटे॥ ५
इति संचिन्त्य स स्नात्वा कुतदेवार्चनोऽत्र च।
सचन्दनतरुच्छावमध्वास्ते स्म शिलातलम्॥ ६
तत्रस्थो राजहंसीनां दृष्ट्वा तत्सदृशीं गतिम्।
श्रुत्वा तन्निभमालापं पिकीनां चूतवल्लिषु।।७
विलोक्य हरिणीनां च तन्नेत्राभे विलोचने।
दूरस्थां तां स सस्मार प्रियां मदनमञ्चुकाम्॥ ८
स्मृत्वैवोद्भूतकामाग्निसंतप्तश्चन मुमूर्छ सः।
तत्क्षणं चाययौ स्नातुं तत्रैको मुनिपुगंवः॥ ९
स पिशङ्गजटो नाम तदवस्थमवेक्ष्य तम्।
असिञ्चत्स्वप्रियास्पर्शतुल्यैश्चमन्दनवारिभिः॥ 12,2,१०
ततः प्रबुद्धं प्रणतं दिव्यदृष्टिः स तं मुनिः।
उवाच पुत्र प्रोप्नोषि यथेष्टं धैर्यमाप्नुहि॥ ११
तेन हि प्राप्यते सर्वं तथा चैत्य मदाश्रमम्।
कथां मृगाङ्कदत्तीयां मत्तः शृणु न चेच्छ्रुता॥१२
इत्युक्त्वा स मुनिः स्नात्वा निनाय निजमाश्रमम्।
नरवाहनदत्तं तं चक्रे च त्वरयाह्निकम्॥
कृत्वातिथ्यं फलैस्तस्य तत्र मुक्तफलः स्वयम्।
स पिङ्गलजटो वक्तुं कथां तस्मै प्रचक्रमे॥
अस्त्ययोध्येति नगरी भुवनत्रयविश्रुता।
तस्याममरदत्ताख्यः पूर्वमासीन्महीपतिः॥ १५
तस्य नित्यानुरक्तैका प्रदीप्ततरतेजसः।
भार्या वह्नेरिव स्वाहा बभूव सुरतप्रभा॥
तस्यां मृगाङ्कदत्ताख्यः सुतस्तस्योदपद्यत।
स्वकोदण्ड इवाभूद्यः कोटिप्राप्तगुणानतः॥
तस्याभवंश्चव सचिवा राजसूनोर्निजा दश।
प्रचण्डशक्तिः स स्थूलबाहुर्विक्रमकेसरी॥
सर्वे युवानः शूराश्च् प्राज्ञाः प्रभुहितैषिणः॥ 12,2,२०
मृगांकदत्तः सदृशीं न भार्यां तावदाप्तवान्॥
एकदा च रहस्येको मन्त्री भीमपराक्रमः।
तमाह श्रूयतां देव रात्रौ वृत्तं ममाद्य यत्॥
अहं प्रासादसुप्तोथ प्रबुद्धोशङ्कितं निशि।
वज्रोग्रनखरं सिंहमपश्यमभिधावितम्॥
उत्थिते छुरिकाहस्ते मयि सोथ पलायितुम्।
सिंहः प्रावर्तताहं च तमेवान्वपतं जवात्।।
स च गत्वा नदीपारं प्रसार्य रसनां मयि।
आसीदहं च तामस्य दीर्घां छुरिकयाच्छिदम्।। २५
तयैव सेतुपृथ्व्या च यावत्तीर्णोऽस्मि तां नदीम् ।
तावत्स सिंहः सुमहान्संपन्नो विकृतः पुमान् ।। २६
को भवानिति पृष्टश्च मया स पुरुषोऽब्रवीत् ।
वेतालोऽहं त्वया वीर सत्त्वेनास्मि च तोषितः ।। २७
तच्छ्रुत्वाहं तमप्राक्षं यद्येवं तत्त्वयोच्यताम् ।
भार्या मृगाङ्कदत्तस्य का भविष्यति मे प्रभोः ।। २८
एतन्मद्वचनं श्रुत्वा स वेतालोऽब्रवीत्तदा ।
अस्त्युज्जयिन्यां नृपतिः कर्मसेन इति श्रुतः ।। २९
तस्यास्ति तनया राज्ञो लावण्यन्यक्कृताप्सराः ।
निधानभूमिः सौन्दर्यसर्गस्येव प्रजापतेः ।। 12,2,३०
सा शशाङ्कवती नाम भार्या तस्य भविष्यति ।
त्वत्प्रभुस्तदवाप्त्या च पृथ्वीराज्यं करिष्यति ।। ३१
इत्युक्त्वा स तिरोऽभून्मे वेतालोऽहं तथैव च ।
आगतो गृहमित्येतन्निशि वृत्तं मम प्रभो ।। ३२
एतन्मृगाङ्कदत्तोऽसौ श्रुत्वा भीमपराक्रमात् ।
आहूय श्रावयामास सर्वांस्तान्निजमन्त्रिणः ।। ३३
जगाद चैताञ्शृणुत स्वप्ने दृष्टं मया च यत् ।
जाने महाटवीं कांचित्प्रविष्टा निखिला वयम् ।। ३४
तत्राध्वतृषिताः कृच्छ्रात्प्राप्य तोयं पिपासवः ।
रुद्धाः स्मः सायुधैः पुंभिस्तत उत्थाय पञ्चभिः ।। ३५
तान्हत्वा पुनरिच्छामः पातुं यावत्तृषातुराः ।
तावन्न तत्र पुंसस्तानपश्याम न तज्जलम् ।। ३६
ततः कृच्छ्रां दशां प्राप्ताश्चन्द्रोज्वलमशङ्कितम् ।
वृषभारूढमायान्तमैक्षामहि महेश्वरम् ।। ३७
सोऽस्मासु प्रणतेष्वक्ष्णो दक्षिणादश्रुणः कणम् ।
भूमावपातयत्सोऽत्र समुद्रः समपद्यत ।। ३८
तस्मान्मुक्तावलीं प्राप्तां शुभां बद्ध्वा मया गले ।
पीतो रक्तानुलिप्तेन नृकपालेन सोऽम्बुधिः ।। ३९
तत्क्षणं च प्रबुद्धोऽस्मि प्रयाता च विभावरी ।
एवं मृगाङ्कदत्तेन स्वप्नाश्चर्ये निवेदिते ।।12,2,४०
मन्त्री विमलबुद्धिस्तं नन्दत्स्वन्येष्वभाषत ।
त्वं देव धन्यो यस्यैवं विहितानुग्रहो हरः ।। ४१
स्वप्ने मुक्तावलीं लब्ध्वा यत्पीतश्च त्वयाम्बुधिः ।
तच्छशाङ्कवतीं प्राप्य भोक्तासि पृथिवीं ध्रुवम् ।। ४२
अन्यन्मनाक्तु क्लेशायेत्युक्ते विमलबुद्धिना ।
ततो मृगाङ्कदत्तस्तानुवाच सचिवान्पुनः ।। ४३
यथा फलं मे स्वप्नस्य यथा भीमराक्रमः ।
श्रुतवानिह वेतालात्तथा यद्यपि भावि तत् ।। ४४
तथापि कर्मसेनस्य बलदुर्गाभिमानिनः ।
प्रज्ञाबलान्मया प्राप्या सा शशाङ्कवती सुता ।। ४५
प्रज्ञाबलं च सर्वेषु मुख्यं कार्येषु साधनम् ।
तथा च शृणुतात्रैतां कथां वः कथयाम्यहम् ।। ४६
भद्रबाहुरभून्नाम्ना मगधेषु महीपतिः ।
तस्यासीन्मन्त्रगुप्ताख्यो मन्त्री बुद्धिमतां वरः ।। ४७
स राजा तं निजामात्यं कदाचित्स्वैरमब्रवीत् ।
अनङ्गलीलेति सुता राज्ञो वाराणसीपतेः ।। ४८
अस्ति या धर्मगोपस्य जगत्त्रितयसुन्दरी ।
तामर्थितोऽपि द्वेषान्मे न स राजा प्रयच्छति ।। ४९
दन्तिनो भद्रदन्तस्य प्रभावात्स च दुर्जयः ।
नोत्सहे जीवितुं चाहं तया तत्सुतया विना ।। 12,2,५०
तदत्र नास्त्युपायो मे सखे किं कार्यमुच्यताम् ।
इति तेनोदिते राज्ञा स मन्त्री निजगाद तम् ।। ५१
किं देव विक्रमादेव सिद्धिरस्ति न बुद्धितः ।
तदलं चिन्तयाहं ते स्वबुद्ध्या साधयाम्यदः ।। ५२
इत्युक्त्वा नृपमन्येद्युः पञ्चसप्तानुगान्वितः ।
महाव्र?तिकवेषः सन्मन्त्री वाराणसीं ययौ ।। ५३
तत्र तं शिष्यवेषास्ते सिद्धोऽयमिति सर्वतः ।
स्वानुगाः ख्यापयामासुर्भक्तिप्रह्वमिलज्जनम् ।। ५४
एकदा च निशि भ्राम्यन्कार्ययुक्त्युपलब्धये ।
सानुगः स ददर्शात्र दूराद्गृहविनिर्गताम् ।। ५५
गृहिणीं हस्तिपालस्य शङ्कात्वरितगामिनीम् ।
नीयमानां त्रिचतुरैः पुरुषैः क्वापि सायुधैः ।। ५६
ध्रुवं व्युत्थाय यातेयं तत्पश्यामः क्व गच्छति ।
इति संचिन्त्य स स्वैरं सानुगोऽनुससार ताम् ।। ५७
गत्वा प्रविष्टा सा यत्र तच्च गेहं विदूरतः ।
दृष्ट्वा निवासस्थानं स्वमाजगाम तदैव सः ।। ५८
प्रातश्च हस्तिपालस्य हृतार्था तां गतां प्रियाम् ।
चिन्वानस्यान्तिकं युक्त्या प्राहिणोद्भ्रमतोऽनुगान् ।। ५९
ते तं दृष्ट्वा तदप्राप्तिदुःखजग्धविषं तदा ।
निवारितविषं चक्रुः कृपयेव स्वविद्यया ।। 12,2,६०
आगच्छास्मद्गुरोः पार्श्वं ज्ञानी सर्वं हि वेत्ति सः ।
इत्युक्त्वा च तमानिन्युर्निकटं तस्य मन्त्रिणः ।। ६१
स च हस्तिपको दृष्ट्वा पादयोश्च प्रणम्य तम् ।
भार्याप्रवृत्तिं पप्रच्छ व्रताकल्पोपशोभितम् ।। ६२
सोऽपि मन्त्री मृषा ध्यात्वा साभिज्ञानं शशंस तत् ।
स्थानं तस्मै परैर्नीता पुरुषैर्यत्र सा निशि ।। ६३
ततः प्रणम्य तं गत्वा समं नगररक्षिभिः ।
स हस्तिपालकः प्राप्य स्थानं तत्पर्यवेष्टयत् ।। ६४
अवधीत्पुरुषांस्तांश्च पापान्दारापहारिणः ।
प्राप साभरणां तां च सधनां निजयोषितम् ।। ६५
द्वितीयेऽह्नि स च प्रातरेत्य नत्वा कृतस्थितिः ।
चकार व्याजसिद्धस्य तस्याहारनिमन्त्रणम् ।। ६६
गृहप्रवेशानिच्छोश्च नक्तभोजित्ववादिनः ।
प्रदोषे हस्तिशालायां तस्याहारमकल्पयत् ।। ६७
सोऽपि मन्त्रबलात्सर्पं वंशनाडीनिवेशितम् ।
गुप्तं गृहीत्वा गत्वात्र मन्त्री भुङ्क्ते स्म सानुगः ।। ६८
ततो गते हस्तिपाले सुप्तेष्वन्येषु तत्र सः ।
हस्तिनो भद्रदन्तस्य वंशनाड्या निवेश्य तम् ।। ६९
कर्णे सुप्तस्य भुजगं रात्रिं नीत्वैव तत्र ताम् ।
ययौ स्वदेशं मगधान्हस्ती तेन व्यपादि च ।। 12,2,७०
हत्वा तं धर्मगोपस्य गजं दर्पमिवागते ।
तस्मिन्मन्त्रिवरे राजा भद्रबाहुर्ननन्द सः ।। ७१
ततो वाराणसीं तस्मै धर्मगोपाय याचितुम् ।
अनङ्गलीलां कन्यां तां दूतं च विससर्ज सः ।। ७२
सोऽपि तां प्रददौ तस्मै तद्गजाभावदुर्बलः ।
भजन्ति वैतसीं वृत्तिं राजानः कालवेदिनः ।। ७३
तदेवं प्रज्ञया तस्य मन्त्रगुप्तस्य मन्त्रिणः ।
अनङ्गलीलां संप्राप भद्रबाहुः स भूपतिः ।। ७४
तस्मान्मयापि बुद्ध्या सा भार्या प्राप्येति वादिनम् ।
मृगाङ्कदत्तं सचिवस्तं विचित्रकथोऽब्रवीत् ।। ७५
सर्वं सेत्स्यति ते हारात्स्वप्रदृष्टादनुग्रहात् ।
अमोघो देवतानां च प्रसादः किं न साधयेत् ।। ७६
तथा च शृणुतात्रैकां वर्ण्यमानां मया कथाम् ।
आसीत्तक्षशिलापुर्यां भद्राक्षो नाम भूपतिः ।। ७७
स पुत्रकामः पद्मानां शतेनाष्टभिरेव च ।
सितानां पूजयामास खङ्गे लक्ष्मीं दिने दिने ।। ७८
एकदार्चयतस्तस्य राज्ञो मौनममुञ्चतः ।
ऊनमेकमभूत्पद्मं दैवाद्गणयतो धिया ।। ७९
स हृत्पद्मं विपाट्य स्वं ददौ देव्यै ततश्च सा ।
तुष्टा तस्मै ददौ सार्वभौमपुत्रप्रदं वरम् ।। 12,2,८०
कृत्वा चाक्षतदेहं तं नृपं प्रायाददर्शनम् ।
अथ तस्य सुतो राज्ञो महादेव्यामजायत ।। ८१
हृत्पुष्करप्रसादेन जातोऽयमिति तं च सः ।
पुष्कराक्षं नृपश्चक्रे नाम्ना पुत्रं सुलक्षणम् ।। ८२
क्रमाच्च यौवनप्राप्तं तनयं तं गुणान्वितम् ।
राज्येऽभिषिच्य भद्राक्षः स राजा शिश्रिये वनम् ।। ८३
पुष्कराक्षोऽपि संप्राप्य राज्यं प्रतिदिनं हरम् ।
पूजयन्नेकदाभ्यर्च्य भार्यां तस्मादयाचत ।। ८४
सर्वं संपत्स्यते पुत्र यथाभिलषितं तव ।
इति शुश्राव स गिरं गगनादुद्गतां तदा ।। ८५
ततः प्रहृष्टो जातास्थः स तिष्ठञ्जातुचिन्नृपः ।
आखेटकविनोदाय जगाम मृगकाननम् ।। ८६
तत्र संभोगसंसक्तभुजंगमिथुनाशने ।
प्रवृत्तं करभं दृष्ट्वा शोकाक्रान्तो न्यपातयत् ।। ८७
स निपातितमात्रः सन्मुक्त्वा तां करभस्तनुम् ।
भूत्वा विद्याधरः प्रीतः पुष्कराक्षं तमब्रवीत् ।। ८८
भवान्कृतोपकारो मे तत्ते यद्वच्मि तच्छृणु ।
रङ्कुमालीति नाम्नास्ति राजन्विद्याधरोत्तमः ।। ८९
तं रूपलुब्धा तरुणं वव्रे दृष्ट्वानुरागिणी ।
स्वयं तारावली नाम विद्याधरवरात्मजा ।। 12,2,९०
तस्याः पिता च स्वेच्छातस्तयोः कृतविवाहयोः ।
कोपादपातयच्छापं कंचित्कालं वियोगदम् ।। ९१
ततस्तारावलीरङ्कुमालिनौ तौ विजह्रतुः ।
दंपती प्रसरत्प्रीती तासु तासु स्वभूमिषु ।। ९२
कदाचित्तेन शापेन मिथो दृष्टिपथाच्च्युतौ ।
अन्योन्यविप्रयुक्तौ तौ जातौ क्वापि वनान्तरे ।। ९३
ततस्तारावली सा तमन्विष्यन्ती पतिं क्रमात् ।
पश्चिमाब्धेरगात्पारे वनं सिद्धर्षिसेवितम् ।। ९४
तत्र सापश्यदुत्फुल्लमेकं जम्बुमहातरुम् ।
आश्वासयन्तं प्रीत्येव मधुरैर्भ्रमरारवैः ।। ९५
उपाविशच्च विश्रान्त्यै भृङ्गीरूपं विधाय सा ।
वृक्षे तस्मिन्नथैकस्मिन्कुसुमे मधुपायिनी ।। ९६
क्षणाद्दैवात्तमत्रैव प्राप्तं दृष्ट्वा चिरात्पतिम् ।
हर्षच्युतेन वीर्येण सिक्तं पुष्पं तयाशु तत् ।। ९७
त्यक्त्वा भृङ्गीवपुर्गत्वा संगताभूच्च तेन सा ।
ज्योत्स्नेव शशिना भर्त्रा चिन्वता रङ्कुमालिना ।। ९८
ततस्तेन समं तस्यां गतायां स्वनिकेतनम् ।
तद्वीर्यसिक्ता तत्राभूज्जम्बुपुष्पात्ततः फलम् ।। ९९
तस्य चान्तः फलस्यात्र कालयोगेन कन्यका ।
समभून्नहि दिव्यानां वीर्यं भजति मोघताम् ।। 12,2,१००
कदाचित्फलमूलार्थं विजिताश्वाभिधो मुनिः ।
तत्रागादपतत्तच्च पक्वं जम्बुतरोः फलम् ।। १०१
तस्मात्पतितभग्नाच्च दिव्या निर्गत्य कन्यका ।
अवन्दत मुनेस्तस्य चरणौ विनयानता ।। १०२
स दिव्यदृष्टिर्दृष्ट्वा तां बुद्ध्वा तत्त्वं सविस्मयः ।
नीत्वाश्रमं स्वं विनयवतीं नाम्नाकरोन्मुनिः ।। १०३
तत्र कालेन सा वृद्धिं प्राप्ता तस्याश्रमे मुनेः ।
दृष्टा विनयवत्येषा नभसा गच्छता मया ।। १०४
ततोऽहं रूपगर्वेण मदनेन च मोहितः ।
उपेत्य तामनिच्छन्तीं हठाद्धर्तुं प्रवृत्तवान् ।। १०५
तत्क्षणं स मुनिः क्रुद्धः क्रन्दन्त्या श्रावितस्तया ।
विजितासुरुपागत्य शापं मह्ममदान्नृप ।।
रूपगर्वित सर्वाङ्गनिन्दितः करभो भव ।
पुष्कराक्षान्नृपात्प्राप्ते वधे शापाद्विमोक्ष्यसे ।। १०७
भर्ता विनयवत्याश्च स एवास्या भविष्यति ।
इत्यहं मुनिना शप्तो जातोऽस्यां करभो भुवि ।। १०८
जातश्च सोऽद्य शापान्तस्त्वत्तस्तत्पश्चिमाम्बुधेः ।
पारस्थं तद्वनं गच्छ नाम्ना सुरभिमारुतम् ।। १०९
भार्यामाप्नुहि तां दिव्यां रूपदर्पहरां श्रियः ।
इत्युक्त्वा पुष्कराक्षं स दिवं विद्याधरो ययौ ।। ११०
पुष्कराक्षोऽपि गत्वा स्वां पुरीं विन्यस्य मन्त्रिषु ।
राज्यं रात्रौ ततः प्रायादेकोऽश्वमधिरुह्य सः ।। १११
गच्छन्क्रमाच्च संप्राप्य पश्चिमाब्धेस्तटं पुनः ।
कथं तरेयमम्भोधिमिति तत्र व्यचिन्तयत् ।। ११२
ततो ददर्श तत्रैकं स शून्यं चण्डिकागृहम् ।
प्रविश्य च ततः स्नात्वा देवीं तां प्रणनाम च ।। ११३
केनापि निहितां तत्र वीणामादाय सादरः ।
उपवीणयति स्मैतां देवीमत्र स्वगीतकैः ।। ११४
उपवीणिततुष्टा च सुप्तं तत्रैव सा निशि ।
भूतग्रामेण तं स्वेन पारमब्धेरनाययत् ।। ११५
ततः प्रातः प्रबुद्धोऽब्धेस्तीरे राजा ददर्श सः ।
वनान्तःस्थितमात्मानं न तस्मिंश्चण्डिकागृहे ।। ११६
उत्थाय विस्मितश्चात्र भ्रमन्नाश्रममैक्षत ।
प्रणमन्तमिवातिथ्यात्फलभारानतैर्द्रुमैः ।। ११७
कुर्वाणं स्वागतमिव क्वणितेन पतत्रिणाम् ।
प्रविश्य तत्र चापश्यत्स्थितं शिष्यैर्वृतं मुनिम् ।। ११८
उपेत्य च ववन्दे तमृषिं राजा स पादयोः ।
सोऽप्येनं विहितातिथ्यो ज्ञानवान्मुनिरब्रवीत् ।। ११९
पुष्कराक्ष यदर्थं त्वमागतः सा क्षणं गता ।
इध्मादिहेतोर्विनयवती तत्तिष्ठ संप्रति ।। १२०
उपयच्छस्व तां पूर्वभार्यामद्यैव भूपते ।
इत्युक्तो मुनिना सोऽपि पुष्कराक्षो व्यचिन्तयत् ।। १२१
दिष्ट्या मुनिः स एवायं विजितासुस्तदेव च ।
वनमेतद्ध्रुवं देव्या तारितोऽहं महार्णवम् ।। १२२
चित्रं च पूर्वभार्यैषा ममोक्ता मुनिनामुना ।
इत्यालोच्यैव हृष्टस्तं स पप्रच्छ मुनिं नृपः ।। १२३
भगवन्पूर्वभार्यैषा कथं मे कथ्यतामिति ।
ततो जगाद स मुनिः श्रूयतां यदि कौतुकम् ।। १२४
बभूव धर्मसेनाख्यस्ताम्रलिप्त्यां पुरा वणिक् ।
विद्युल्लेखेति नाम्ना च भार्या तस्याभवच्छुभा ।। १२५
स दैवान्मुषितश्चौरैः शस्त्रैश्चाभ्याहतो वणिक् ।
मुमूर्षुर्निरगाद्वह्निं प्रवेष्टुं भार्यया सह ।। १२६
अपश्यतामकस्माच्च तावुभावपि दंपती ।
आकाशेनागतं हंसमिथुनं रुचिराकृति ।। १२७
ततस्तद्गतचित्तौ तौ प्रविश्य दहनं मृतौ ।
राजहंसौ समुत्पन्नौ पुनर्भार्यापती उभौ ।। १२८
कदाचित्तौ च वर्षासु रात्रौ खर्जूरपादपे ।
नीडस्थितौ तमुन्मूल्य तरुं वात्या व्ययूयुजत् ।। १२९
प्रातः स हंसस्तां हंसीं चिन्वञ्शान्ते प्रभञ्जने ।
सरःस्वथ दिगन्तेषु न कुतश्चिदवाप्तवान् ।। १३०
ततस्तत्कालसंसेव्यं हंसानां मानसं सरः ।
स्मरार्तः स ययौ हंस्या जनिताशोऽन्यया पथि ।। १३१
तत्र तां प्राप्य हंसीं स्वां नीत्वा च जलदागमम् ।
गिरिशृङ्गं जगामैकं विहर्तुं स तया सह ।। १३२
तत्र तस्य हता हंसी केनचिल्लुब्धकेन सा ।
तद्दृष्ट्वा भयशोकार्तः स हंसः प्राद्रवत्ततः ।। १३३
लुब्धकस्तां हतां हंसीं मृतामादाय वीक्ष्य च ।
दूरान्मार्गागतान्काश्चित्पुरुषान्सायुधान्बहून् ।। १३४
द्रुतं क्षुरिकया छिन्नैस्तामाच्छाद्य तृणैर्भुवि ।
हंसीं न्यधाद्विलोक्यैतां हरेयुर्जात्वमी इति ।। १३५
गतेषु तेषु पुरुषेषूपगम्य जिघृक्षतः ।
लुब्धकस्योद्धृततृणा हंसी सा तस्य पश्यतः ।। १३६
तत्तृणान्तर्निकृत्ताया मृतसंजीवनौषधेः ।
रसेन जीवितं प्राप्य खमुत्पत्य ततो ययौ ।। १३७
तावत्स हंसस्तद्भर्ता गत्वैकस्मिन्सरस्तटे ।
मूढोऽपतद्धंसयूथे पश्यंस्तामेव तन्मनाः ।। १३८
तत्क्षणं धीवरः कोऽपि क्षिप्त्वा जालं निबध्य तान् ।
हंसान्सर्वानुपाविक्षदाहारार्थं किल क्षणात् ।। १३९
तावच्चागत्य तत्रैव सा हंसी चिन्वती पतिम् ।
ददर्श जालबद्धं तं दिशश्चार्ता व्यलोकयत् ।। १४०
ततः स्नातुं प्रवृत्तेन केनाप्यत्र सरस्तटे ।
पुंसा वस्त्रोपरि न्यस्तामपश्यद्रत्नकण्ठिकाम् ।। १४१
गत्वा चापश्यतस्तस्य तां गृहीत्वैव कण्ठिकाम् ।
दाशाय दर्शयन्ती सा तस्मै व्योम्ना शनैर्ययौ ।। १४२
दाशोऽपि सोऽन्वधावत्तां दृष्ट्वा चञ्च्वात्तकण्ठिकाम् ।
हंसीं गृहीतलगुडः पक्षिजालं विहाय तत् ।। १४३
हंसी च गत्वा शैलाग्रे दूरे तां कण्ठिकां न्यधात् ।
धीवरोऽपि स तल्लोभात्तत्रारोढुं प्रचक्रमे ।। १४४
तद्दृष्ट्वा सा द्रुतं गत्वा हंसी पत्युः समीपगे ।
बद्धस्य वृक्षे संसुप्तं कपिं चञ्च्वाक्ष्ण्यताडयत् ।। १४५
स कपिस्ताडितस्त्रस्तः पतित्वोपर्यपाटयत् ।
जालं तत्तेन निर्जग्मुर्हंसाः सर्वेऽपि ते ततः ।। १४६
अथ तौ संगतावुक्तस्ववृत्तगतौ परस्परम् ।
हंसौ भार्यापती हृष्टौ यथाकामं विजह्रतुः ।। १४७
दाशं तं चागतं प्राप्तकण्ठिकं पक्षिलोभतः ।
लेभेऽत्र स पुमांश्चिन्वन्हृता सा यस्य कण्ठिका ।। १४८
स भीतिसूचितस्यास्य हस्तात्संप्राप्य कण्ठिकाम् ।
दाशस्य दक्षिणं पाणिं पुमांश्छुरिकयाच्छिनत् ।। १४९
तौ चापि जातु हंसौ द्वौ छत्त्रीकृत्यैकमम्बुजम् ।
मध्याह्नकाले सरसः प्रोत्थाय व्योम्नि चेरतुः ।। १५०
क्षणाच्च नद्याः कस्याश्चित्खगौ तौ तीरमापतुः ।
मुनिनाध्यासितं केनाप्यर्चाव्यग्रेण धूर्जटेः ।। १५१
तत्र व्याधेन केनापि यान्तौ तौ सह दंपती ।
हतावेकेन युगपच्छरेण भुवि पेततुः ।। १५२
आतपत्राम्बुजं तच्च तदीयमपतत्तदा ।
मुनेरर्चयतस्तस्य शिवलिङ्गस्य मूर्धनि ।। १५३
ततो व्याधः स दृष्ट्वा तौ हंसं स्वीकृत्य हंसिकाम् ।
तां ददौ मुनये तस्मै सोऽप्यानर्च शिवं तया ।। १५४
तल्लिङ्गमूर्ध्नि स्रस्तस्य तस्याब्जस्य प्रभावतः ।
स पुष्कराक्ष हंसस्त्वं जातो राजान्वयेऽधुना ।। १५५
हंसी च सैषा विनयवती विद्याधरान्वये ।
जाता विशेषतो ह्यस्या मांसैरभ्यर्चितो हरः ।। १५६
इत्थं ते पूर्वभार्यासावित्युक्तो विजितासुना ।
मुनिना पुष्कराक्षः स राजा तं पुनरब्रवीत् ।। १५७
कथमग्निप्रवेशस्य तस्याघौघविघातिनः ।
पक्षियोनावभूज्जन्म भगवन्फलमावयोः ।। १५८
इत्युक्तवन्तं राजानं तं स प्रत्यब्रवीन्मुनिः ।
यद्भावितात्मा म्रियते जन्तुस्तद्रूपमश्नुते ।। १५९
तथा ह्युज्जयिनीपुर्यां नैष्ठिकी ब्रह्मचारिणी ।
लावण्यमञ्जरी नाम कुमारी ब्राह्मणी पुरा ।। १६०
युवानं ब्राह्मणं दृष्ट्वा कमलोदयसंज्ञकम् ।
सहसा तद्गतस्वान्ता दह्यमाना स्मराग्निना ।। १६१
अमुञ्चन्ती स्वनियमं तद्भोगध्यानभाविता ।
गत्वा गन्धवतीतीरं तीर्थे तत्याज जीवितम् ।। १६२
तया भावनया किं न जाताभूद्भोगसंगिनी ।
नगर्यामेकलव्यायां वेश्या रूपवतीति सा ।। १६३
तीर्थव्रतप्रभावाच्च सैव जातिस्मरा सती ।
प्रसङ्गाच्चोडकर्णाय जापकाय द्विजन्मने ।। १६४
स्वपूर्वजन्मवृत्तान्तरहस्यं तदवर्णयत् ।
जपकर्मैकचित्तत्वे कुर्वाणस्यानुशासनम् ।। १६५
अन्ते च शुद्धसंकल्पा ययौ वेश्यापि सद्गतिम् ।
तद्राजन्योऽत्र यच्चित्तस्तन्मयत्वमुपैति सः ।। १६६
एवमुक्त्वा स राजानं स्नानाय विससर्ज तम् ।
मुनिर्मध्याह्नसवनं स्वयं च निरवर्तयत् ।। १६७
राजा स पुष्कराक्षोऽपि गतो वननदीतटम् ।
तां ददर्शात्र विनयवतीं पुष्पाणि चिन्वतीम् ।। १६८
भासमानां स्ववपुषा प्रभामिव विवस्वतः ।
अदृष्टपूर्वं गहनं प्रविष्टां कौतुकाद्वनम् ।। १६९
केयं स्यादिति यावच्च स चिन्तयति सोत्सुकः ।
तावत्कथां निषण्णा सा विस्रब्धामवदत्सखीम् ।। १७०
सखि विद्याधरो यो मां हर्तुमैच्छत्पुरा स मे ।
आगत्य शापमुक्तोऽद्य भर्तृप्राप्तिमिहोक्तवान् ।। १७१
तच्छ्रुत्वा प्रत्यवोचत्तां सा सखी मुनिकन्यकाम् ।
अस्त्येतन्मयि शृण्वत्यां मुञ्जकेशोऽद्य हि प्रगे ।। १७२
इत्थमुक्तो निजः शिष्यो मुनिना विजितासुना ।
गच्छ तारावलीरङ्कुमालिनावानय द्रुतम् ।। १७३
कामं विनयवत्या हि वत्सेह दुहितुस्तयोः ।
राज्ञश्च पुष्कराक्षस्य विवाहोऽद्य भविष्यति ।। १७४
इत्युक्तो गुरुणा मुञ्जकेशो यातस्तथेति सः ।
अत एह्याश्रमपदं गच्छावः सखि संप्रति ।। १७५
एवं तयोक्ते विनयवती साथ ततो ययौ ।
पुष्कराक्षश्च शुश्राव स तद्दूरादलक्षितः ।। १७६
ज्वलत्कामाग्निसंतापादिव नद्यां निमज्य च ।
जगाम विजितासोस्तमाश्रमं स पुनर्नृपः ।। १७७
तत्र तारावलीरङ्कुमालिनौ तौ समगतौ ।
आनर्चतुस्तं प्रणतं परिवव्रुश्च तापसाः ।। १७८
ततो वेद्यां स्वतेजोभिर्भासितायां महर्षिणा ।
द्वितीयेनेव मूर्तेन वह्निना विजितासुना ।। १७९
तस्मै स राज्ञे विनयवतीं तां प्रत्यपादयत् ।
रङ्कुमाली ददौ चास्मै रथं दिव्यं नभश्चरम् ।। १८०
चतुःसमुद्रां पृथिवीं प्रशाधि सममेतया ।
इत्येतस्मै वरं चादाद्विजितासुर्महामुनिः ।। १८१
अथैष तदनुज्ञया नववधूमुपादाय तां
नृपो गगनगामिनं तमधिरुह्य दिव्यं रथम् ।
विलङ्घ्य च पयोनिधिं सपदि पुष्कराक्षस्ततो
जगाम नगरीं निजां प्रकृतिनेत्रचन्द्रोदयः ।। १८२
तत्र च जित्वा पृथिवीं रथप्रभावादवाप्तसाम्राज्यः ।
आस्ते स्म विनयवत्या सहितो भोगांश्चिराय भुञ्जानः ।। १८३
इत्थं सुदुष्करमपि स्वरसेन कार्यं सिद्ध्यत्यनुग्रहवतीष्विह देवतासु ।
तत्स्वप्नदृष्टगिरिजादयितप्रसादात्सेत्स्यत्यभीष्टमचिरेण तवापि देव ।। १८४
एतां निशम्य स विचित्रकथाममात्यादौत्सुक्यवानधिगमाय शशाङ्कवत्याः ।
राजात्मजः स्वसचिवैः सममुज्जयिन्यां बुद्धिं बबन्ध गमनाय मृगाङ्कदत्तः ।। १८५
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बके द्वितीयस्तरङ्गः ।